Digital Sanskrit Buddhist Canon

एकोनविंशतितमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Ekonaviṁśatitamaṁ prakaraṇam

१९
कालपरीक्षा एकोनविंशतितमं प्रकरणम्।

अत्राह - विद्यत एव भावानां स्वभावः , कालत्रयविज्ञप्तिहेतुत्वात्। इह अतीतानागत प्रत्युत्पन्नास्रयः काला भगवता उपदिष्टाः। ते च भावाश्रयाः। यस्मादुत्पन्नो निरुद्धो हि भाव स्वभावः अतीत इति व्यपदिश्यते, उत्पन्नोऽनिरुद्धो हि वर्तमानः, अलब्धात्मभावोऽनागत इति। एवं भावस्वभावनिबन्धनास्रयः काला उपदिष्टाः। ते च सन्ति। तस्मात् तन्निबन्धनोऽपि भावस्वभावोऽस्तीति। उच्यते। स्यात् कालत्रयप्रज्ञप्तिहेतुर्भावस्वभावः, यदि कालत्रयमेव भवदभिमतं भवेत्। न त्वस्ति। यथा च नास्ति, तथा प्रतिपादयन्नाह -

प्रत्युत्पन्नोऽनागतश्च यद्यतीतमपेक्ष्य हि।
प्रत्युत्पन्नोऽनागतश्च कालेऽतीते भविष्यतः॥१॥

इह तावत् यदि वर्तमानानागतौ स्याताम्, तावपेक्ष्य अतीतं कालं भवेताम्, अनपेक्ष्य वा? तत्र यदि अतीतमपेक्ष्य सिध्येते, तथा नियतमतीते काले भविष्यतः। यस्मात्, यस्य हि यत्र असत्त्वम्, तत् तेन नापेक्ष्यते। तद्यथा वन्ध्या स्री स्वतनयेन, गगनमालतीलता स्वकुसुमेन, सिकता स्वतैलेन। अविद्यमानमप्यन्धकारं प्रदीपेन, प्रदीपोऽपि अन्धकारेण प्रतिद्वन्द्वित्वेन अपेक्ष्यते इति चेत्, नैतदेवम्। अस्यापि साध्यसमत्वात्। तदत्र यदि अतीते काले वर्तमानानागतौ कालौ इष्येते, अपेक्षासिद्धयर्थमेवं सति अतीते काले विद्यमानत्वात् अतीतकालात्मवत् तयोरप्यतीतत्वं स्यात्। ततश्च अतीतोऽपि न स्यात्। यस्मात् वर्तमानावस्थातिक्रान्तो हि अतीतः असंप्राप्तः अनागत इति स्यात्। यदा तु वर्तमानानागतयोरसंभव एव, तदा कुतः कस्यचिदतीतत्वं स्यात्? इत्यतः अतीतोऽपि न स्यात्॥१॥

अथ यथोक्तदोषपरिजिहीर्षया -
प्रत्युत्पन्नोऽनागतश्च न स्तस्तत्र पुनर्यदि।
प्रत्युत्पन्नोऽनागतश्च स्यातां कश्रमपेक्ष्य तम्॥२॥

तत्र अतीते काले यदि वर्तमानानागतौ कालौ न स्तः इति परिकल्प्यते, एवमपि तत्र अविद्यमानत्वात् गगनेन्दीवरवन्नास्त्यपेक्षा॥२॥

अथापि स्यात्- कालवादिनां विद्यते एव कालः, तत्र किमपेक्षया प्रयोजनमिति? उच्यते। एवमपि -

अनपेक्ष्य पुनः सिद्धिर्नातीतं विद्यते तयोः।
प्रत्युत्पन्नोऽनागतश्च तस्मात्कालो न विद्यते॥३॥

प्रत्युत्पन्नानागतयोरसत्त्वम्, अतीतानपेक्षत्वात्, खरविषाणवत्। यतश्चैवम् प्रत्युत्पन्नोऽनागतश्च तस्मात्कालो न विद्यते इति विज्ञेयम्॥३॥

यदा चैवम् अतीतमपेक्ष्य वा अनपेक्ष्य वा प्रत्युत्पन्नानागतयोर्नास्ति सिद्धिः, एवं प्रत्युत्पन्नापेक्षया वा अनपेक्षया वा अतीतानागतयोः अनागतापेक्षया वा अनपेक्षया वा प्रत्युत्पन्नातीतयोः असिद्धौ इष्यमाणायां तेनैव प्रत्युत्पन्नागतयोः अतीतापेक्षया वा अनपेक्षया असिद्धिक्रमेण दूषणसाम्यमतिदिशन्नाह -

एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ।
उत्तमाधममध्यादीनेकत्वादींश्च लक्षयेत्॥४॥

कथं कृत्वा?
यद्यतीतोऽनागतश्च प्रत्युत्पन्नमपेक्ष्य हि।
कालोऽतीतोऽनागतश्च प्रत्युत्पन्ने भविष्यतः॥
कालोऽतीतोऽनागतश्च न स्तस्तत्र पुनर्यदि।
कालोऽतीतोऽनागतश्च स्यातां कथमपेक्ष्य तम्॥
अनपेक्ष्य पुनः सिद्धिर्न जातं विद्यते तयोः।
तेनातीतोऽनागतश्च कालो नाम न विद्यते॥

एष तावदेकः कालपरिवर्तः।
अतीतो वर्तमानश्च यद्यजातमपेक्ष्य हि।
अतीतो वर्तमानश्च कालेऽजाते भविष्यतः॥

अतीतो वर्तमानश्च न स्तस्तत्र पुनर्यदि।
अतीतो वर्तमानश्च स्यातां कथमपेक्ष्य तम्॥

अनपेक्ष्य पुनः सिद्धिर्नाजातं विद्यते तयोः।
अतीतो वर्तमानश्च तस्मात्कालो न विद्यते॥

एष द्वितीयः कालपरिवर्त इति व्याख्यानकारिका इति। एवंद्वौ कालपरिवर्तौ बोद्धव्यौ॥

यतश्च एवं विचारणे कालत्रयं नास्ति, तस्मात् कालो न विद्यते, कालाभावाच्च भावसद्भावोऽपि नास्ति इति सिद्धम्॥

यथा चैतत्कालत्रयं विचारितम् , एवम्
उत्तमाधममध्यादीनेकत्वादींश्च लक्षयेत्।

उत्तमाधममध्यमान् इति आदिशब्देन कुशलाकुशलाव्याकृतानि, उत्पादस्थितिभङ्गाः, पूर्वान्तापरान्तमध्यान्ताः, कामरूपारूप्यधातवः, शैक्षाशैक्षनैवशैक्षनैवाशैक्षादयो यावन्तः पदार्थाः त्रिपदार्थसंबन्धव्यवस्थिताः, ते सर्वे गृह्यन्ते। एकत्वादींश्च इत्यनेन आदिशब्देन द्वित्वबहुत्वयो ग्रहणात् ते एव उत्तमादयः एकत्वादयश्च कालत्रयव्याख्यानेन व्याख्याता वेदितव्याः॥४॥

अत्राह - विद्यत एव कालः परिमाणवत्त्वात्। इह यन्नास्ति, न तस्य परिमाणवत्त्वं विद्यते तद्यथा खरविषाणस्य । अस्ति च कालस्य परिमाणवत्त्वं क्षणलवमुहूर्तदिवसरात्र्यहोरात्र पक्षमाससंवत्सरादिभेदेन। तस्मात्, परिमाणवत्त्वाद् विद्यत एव कालः इति। उच्यते। यदि कालो नाम कश्चित् स्यात्, स्यात्तस्य परिमाणवत्त्वम्। न त्वस्ति। यस्मात् -

नास्थितो गृह्यते कालः स्थितः कालो न विद्यते।
यो गृह्येतागृहीतश्च कालः प्रज्ञप्यते कथम्॥५॥

इह यदि कालो नाम कश्चिदवस्थितः क्षणादिव्यतिरिक्तः स्यात्, स क्षणादिभिः परिमाणवत्त्वाद् गृह्येत। न तु अवस्थितः कूटस्थः कश्चित् कालो नाम अस्ति, यः क्षणादिभिर्गृह्येत। तदेवं नास्थितो गृह्यते कालः, अस्थितत्वान्न गृह्यते इत्यर्थः॥

अथापि स्यात् - नित्य एव अवस्थितस्वभावः कालो नाम अस्ति, क्षणादिभिरभिव्यज्यते। तथाहि -

कालः पचति भूतानि कालः संहरते प्रजाः।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः॥इति।

यश्चैवंलक्षणः सोऽवस्थितस्वभावोऽस्तीति। उच्यते। एवमपि स्थितः कालो न विद्यते यः क्षणादिभिरभिव्यज्यमानो गृह्येत। कस्मात् पुनः स्थितः कालो नास्तीति चेत्, क्षणादिव्यतिरेकेणागृह्यमाणत्वात्॥

अपि च। अयं कालः संस्कृतस्वभावः सन् अस्तीति, असंस्कृतस्वभावो वा? उभयं च संस्कृतपरीक्षायां प्रतिषिद्धम् -

उत्पादस्थितिभङ्गानामसिद्धौ नास्ति संस्कृतम्।
संस्कृतस्याप्यसिद्धौ च कथं सेत्स्यत्यसंस्कृतम्॥

इत्यनेन। तदेवं नास्ति व्यवस्थितः कालः, यो गृह्येत। यश्च इदानीं कालो न गृह्यते अस्थितत्वादविद्यमानस्वरूपत्वात्, सोऽगृह्यमाणः सन् कथं क्षणादिभिः प्रज्ञपयितुं भावतः पार्यत इत्याह - अगृहीतश्च कालः प्रज्ञप्यते कथमिति। तस्मान्नास्त्येव कालः॥५॥

अत्राह - सत्यं नास्ति नित्यः कालो नाम कश्चिद् रूपादिव्यतिरिक्तः स्वभावसिद्धः, किं तर्हि रूपादीनेव स संस्कारानुपादाय प्रज्ञप्तः कालः क्षणादिवाच्यो भवति, तस्माददोष इति। उच्यते। एवमपि -

भावं प्रतीत्य कालश्चेत्कालो भावादृते कुतः।

यद्येवं भावं प्रतीत्य कालो भवतीति भवता व्यवस्थाप्यते , यदा खलु भावो नास्ति, तदा नियतं तद्धेतुकोऽपि कालो नास्तीति प्रतिपादयन्नाह -

न च कश्चन भावोऽस्ति

इति पूर्वं विस्तरेण प्रतिपादितत्वाद्वक्ष्यमाणप्रतिषेधाच्च। यदा चैवं न कश्चिद्भावोऽस्ति भावतः, तदा -

कुतः कालो भविष्यति॥६॥

कालाभावाच्च न सन्ति क्षणलवमुहूर्तादयः कालभेदाः तत्परिणामभूताः, इत्यतः कुतः परिणामवत्त्वेन कालसिद्धिर्भविष्यति? तस्मान्नास्त्येव भावानां स्वभावः इति॥ उक्तं हि भगवता आर्यहस्तिकक्ष्यसूत्रे -

यदि कोचि धर्माण भवेत्स्वभावः
तत्रैव गच्छेय जिनः सश्रावको।

कूटस्थधर्माण सिया न निर्वृती
न निष्प्रपञ्चो भवि जातु पण्डितः॥इति।

तथा -

बुद्धसहस्रशता य अतीता
धर्मसहस्रशतानि भणित्वा।

नैव च धर्म न चाक्षर क्षीणा
नास्ति समुद्भवु तेन अक्षीणा॥इति।

तथा -
उत्पादकाले हि तथागतस्य
मैत्रेयनामा त्विह यो भविष्यति।

भविष्यतीयं कनकावृता मही
तस्या इदानीं कुत आगमोऽसौ॥

उल्लापनाः कामगुणा हि पञ्च
विभ्रामणा मोहन मोषधर्मिणः।

मध्याह्नकाले हि यथैव ग्रीष्मे
जलं मरीच्यां हि तथैव कामाः॥

एकेन कल्पेन भवेद्धि लोको
आकाशभूतो गगनस्वभावो ।

दाहं विनाशं च पयान्ति भे[भी?] रवः
कुत आगमः कुत्र गतिश्च तेषाम्॥इति॥

तद्यथा -

पञ्चेमानि भिक्षवः संज्ञामात्रं प्रतिज्ञामात्रं व्यवहारमात्रं संवृतिमात्रं यदुत अतीतोऽध्वा अनागतोऽध्वा आकाशं निर्वाणं पुद्गलश्चेति॥

॥इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ कालपरीक्षा नाम एकोनविंशं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project