Digital Sanskrit Buddhist Canon

अष्टादशमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Aṣṭādaśamaṁ prakaraṇam

आत्मपरीक्षा अष्टादशमं प्रकरणम्।

अत्राह - यदि क्लेशाः कर्माणि च देहाश्च कर्तारश्च फलानि च सर्वमेतन्न तत्त्वम्, केवलंतु गन्धर्वनगरादिवदत्तत्वमेव सत् तत्त्वाकारेण प्रतिभासते बालानाम् , किं पुनरत्र तत्त्वम्, कथं वा तत्त्वस्यावतारः इति ? उच्यते। आध्यात्मिकबाह्याशेषवस्त्वनुपलम्भेन अध्यात्मं बहिश्च यः सर्वथा अहंकारममकारपरिक्षयः, इदमत्र तत्त्वम्। तत्त्वावतारः पुनः -

सत्कायदृष्टिप्रभवानशेषान्
क्लेशांश्च दोषांश्च धिया विपश्यन्।
आत्मानमस्या विषयं च बुद्धा
योगी करोत्यात्मनिषेधमेव॥

इत्यादिना मध्यमकावताराद्विस्तरेणावसेयः। कायदृष्टिमूलकमेव संसारमनुपश्यन् आत्मानु पलम्भाच्च सत्कायदृष्टिप्रहाणं तत्प्रहाणाच्च सर्वक्लेशव्यावृत्तिं समनुपश्यन् प्रथमतरमात्मानमेवोपपरीक्षते, कोऽयमात्मा नामेति, योऽहंकारविषयः। स चायमहंकारस्य विषयः परिकल्प्यमानः स्कन्धस्वभावो वा भवेत्स्कन्धव्यतिरिक्तो वा? आधाराधेयतद्वत्पक्षाणामपि एकत्वान्यत्वपक्षे एव अन्तर्भावात् संक्षेपेणैव च विवक्षितत्वादेकत्वान्यत्वपक्षद्वयप्रतिषेधेनैव आत्मनिषेधमारब्धुकाम आचार्य आह -

आत्मा स्कन्धा यदि भवेदुदयव्ययभाग्भवेत्।
स्कन्धेभ्योऽन्यो यदि भवेद्भवेदस्कन्धलक्षणः॥१॥

किमर्थ पुनरन्यत्र तथागतपरीक्षायामग्नीन्धनपरीक्षायां च पञ्च पञ्च पक्षा उपन्यस्ताः, इह तु पुनः पक्षद्वयमेवेति? उच्यते। येनैव तत्र प्रकरणद्वये पञ्च पञ्च पक्षा निर्दिष्टाः, अत एव अन्यत्र निर्दिष्टत्वान्न पुनरिह निर्दिश्यन्ते। संक्षेपेण तु पक्षद्वयमुपन्यस्यते इति॥

तत्र यदि स्कन्धा आत्मेति परिकल्प्यते, तदा उदयव्ययभाग् उत्पादी च विनाशी च आत्मा प्राप्नोति, स्कन्धानामुदयव्ययभाक्त्वात्। न चैवमिष्यते, आत्मानेक[त्व]दोषप्रसङ्गात् वक्ष्यति हि -

नाप्यभूत्वा समुत्पन्नो दोषो ह्यत्र प्रसज्यते।
कृतको वा भवेदात्मा संभूतो वाप्यहेतुकः॥इति।

तथा -
न चोपादानमेवात्मा व्येति तत्समुदेति च।
कथं हि नामोपादानमुपादाता भविष्यति॥इति।

किं च -
स्कन्धा आत्मा चेदतस्तद्बहुत्वात्
आत्मानः स्युस्तेऽपि भूयांस एव ।
द्रव्यं चात्मा प्राप्नुयात्तादृशश्च
द्रव्ये वृत्तौ वैपरीत्ये च न स्यात्॥
आत्मोच्छेदो निर्वृतौ स्यादवश्यं
नाशोत्पादौ निर्वृतेः प्राक् क्षणेषु।
कर्तुर्नाशात्तत्फलाभाव एव
भुञ्जीतान्येनार्जितं कर्म चान्यः॥

इत्यादिना मध्यमकावतारे विस्तरेण विहितविचारादपि पक्षो बोद्धव्य इति नेह पुनर्विस्तरप्रपञ्च आरभ्यते॥

एवं तावत् स्कन्धा आत्मा न भवति। स्कन्धव्यतिरिक्तोऽपि न युज्यते। यदि हि स्कन्धेभ्योऽन्य आत्मा भवेत्, अस्कन्धलक्षणो भवेत्। यथा हि गोरन्योऽश्वः न गोलक्षणे भवति, एवमात्मापि स्कन्धव्यतिरिक्तः परिकल्प्यमानः अस्कन्धलक्षणो भवेत्। तत्र स्कन्धाः संस्कृतत्वाद् हेतुप्रत्ययसंभूता उत्पादस्थितिभङ्गलक्षणाः। तत्र अस्कन्धलक्षण आत्मा भवन् भवन्मतेन उत्पादस्थितिभङ्गलक्षणायुक्तः स्यात्। यश्चैवं भवति, सः अविद्यमानत्वादसंस्कृतत्वाद्वा खपुष्पवन्निर्वाणबद्वा नैव आत्मव्यपदेशं प्रतिलभते, नाप्यहंकारविषयत्वेन युज्यते, इति स्कन्धव्यतिरिक्तोऽप्यात्मा न युज्यते॥

अथवा। अयमन्योऽर्थः - यदि आत्मा स्कन्धव्यतिरिक्तः स्यात्, सः अस्कन्धलक्षण स्यात्। रूपणानुभवनिमित्तोद्गहणाभिसंस्करणविषयप्रतिविज्ञप्तिलक्षणाः पञ्च स्कन्धाः। आत्मा च रूपादिव विज्ञानं स्कन्धेभ्यो व्यतिरिक्त इष्यमाणः पृथग्लक्षणसिद्धः स्यात्, पृथग्लक्षणसिद्धश्च गृह्येत रूपादिव चित्तम्। न च गृह्यते। तस्मात् स्कन्धव्यतिरिक्तोऽपि नास्ति॥

ननु च तीर्थिकाः स्कन्धेभ्यो व्यतिरिक्तमात्मानं प्रतिपन्ना भिन्नलक्षणमाचक्षते, तस्मात्तेषामबाधक एवायं विधिरिति। यथा च तीर्थिका आत्मनो भिन्नलक्षणमाचक्षते तथोक्तं मध्यमकावतारे -

आत्मा तीर्थ्यैः कल्प्यते नित्यरूपोऽ-
कर्ता भोक्ता निर्गुणो निष्क्रियश्च।
कंचित्कंचिद्वेदमाश्रित्य तस्य
भेदं याता प्रक्रिया तीर्थिकानाम्॥

इत्यनेन। उच्यते। सत्यं ब्रुवन्ति तीर्थिकाः स्कन्धव्यतिरिक्तस्य लक्षणम्, न पुनस्ते स्वरूपत आत्मानमुपलभ्य तस्य लक्षणमाचक्षते, किं तर्हि यथावदुपादायप्रज्ञप्त्यनवगमेन नाममात्रकमेवात्मानं त्रासादप्रतिपद्यमानाः संवृतिसत्यादपि परिभ्रष्टा मिथ्याकल्पनयैव केवलमनुमानाभासमात्रविप्रलब्धाः सन्तः मोहात् परिकल्पयन्ति आत्मानम्, तस्य च लक्षणमाचक्षते। तेषां च कर्मकारकपरीक्षादिषु आत्मोपादानयोः परस्परापेक्षिकीं सिद्धिं ब्रुवता संवृत्यापि प्रतिषेधो विहित एव। उक्तं च -

यथादर्शमुपादाय स्वमुखप्रतिबिम्बकम्।
दृश्यते नाम तच्चैव न किंचिदपि तत्त्वतः॥

अहंकारस्तथा स्कन्धानुपादायोपलभ्यते।
न च कश्चित्स तत्त्वेन स्वमुखप्रतिबिम्बवत्॥

यथादर्शमनादाय स्वमुखप्रतिबिम्बकम्।
न दृश्यते तथा स्कन्धाननादायाहमित्यपि॥

एवंविधार्थश्रवणाद्धर्मचक्षुरवाप्तवान्।
आर्यानन्दः स्वयं चैव भिक्षुभ्योऽभीक्ष्णमुक्तवान्॥इति॥

अतो न पुनस्तत्प्रतिपादनार्थं यत्न आरभ्यते। उपादाय प्रज्ञप्यमान एव अविद्याविपर्यासानु गतानामात्माभिनिवेशास्पदभूतो मुमुक्षुभिर्विचार्यते, यस्येदं स्कन्धपञ्चकमुपादानत्वेन प्रतिभासते किमसौ स्कन्धलक्षणः उत अस्कन्धलक्षणः इति। सर्वथा च विचारयन्तो मुमुक्षवो नैनमुपलभन्ते भावस्वभावतः। तदा एषाम् -

आत्मन्यसति चात्मीयं कुत एव भविष्यति।
आत्मानुपलम्भादात्मप्रज्ञप्त्युपादानं स्कन्धपञ्चकमात्मीयमिति सुतरां नोपलभन्ते। यथैव हि दग्धे रथे तदङ्गान्यपि दग्धत्वान्नोपलभ्यन्ते, एवं योगिनो यदैव आत्मनैरात्म्यं प्रतिपद्यन्ते, तदैव आत्मीयस्कन्धवस्तुनैरात्म्यमपि नियतं प्रतिपद्यन्ते। यथोक्तं रत्नावल्याम् -

अहंकारोद्भवाः स्कन्धाः सोऽहंकारोऽनृतोऽर्थतः।
बीजं यस्यानृतं तस्य प्ररोहः सत्यतः कुतः॥
स्कन्धानसत्यान् दृष्ट्वैवमहंकारः प्रहीयते।
अहंकारप्रहाणाच्च न पुनः स्कन्धसंभवः॥इति॥

यथैव हि ग्रीष्मे मध्याह्नकालावसानमासादितस्य विधननभोमध्यदेशमाचिक्रंसो रीषत्परिभ्रम्यमानपटुतरहुतभुग्विततस्फुलिङ्गानिव विरूक्षतरमहीमण्डलोत्तापनपरान् प्रदीप्तकिरणस्य किरणान् प्रतीत्य विरूक्षतरमवनिदेशं चासाद्य विपरीतं च दर्शनमपेक्ष्य सलिलाकारा मरीचय उपलभ्यमाना विदूरदेशावस्थितानां जन्मवतामतिप्रसन्नाभिनीलजलाकारं प्रत्ययमादधति न तु तत्समीपगतानाम्, एवमिहापि यथावस्थितात्मात्मीयपदार्थतत्त्वदर्शनविदूरदेशान्तरस्थितानां संसाराध्वनि वर्तमानानामविद्याविपर्यासानुगमान्मृषार्थ एव स्कन्धसमारोपः सत्यतः प्रतिभासमानः पदार्थतत्त्वदर्शनसमीपस्थानां न प्रतिभासते। यथोक्तमाचार्यपादैः -

दूरादालोकितं रूपमासन्नैर्दृश्यते स्फुटम्।
मरीचिर्यदि वारि स्यादासन्नैः किं न गृह्यते॥

दूरीभूतैर्यथाभूतो लोकोऽयं दृश्यते यथा।
न दृश्यते तदासन्नैरानिमित्तो मरीचिवत्॥

मरीचिस्तोयसदृशी यथा नाम्भोन चार्थतः।
स्कन्धास्तथात्मसदृशा नात्मानो नापि तेऽर्थतः॥इति॥

अत एव च आत्मात्मीयानुपलम्भात्परमार्थदर्शनसमीपस्थो योगी नियतं भवति -

निर्ममो निरहंकारः शमादात्मात्मनीनयोः॥२॥

आत्मनि हितमात्मनीनम्, स्कन्धपञ्चकम्, आत्मीयमित्यर्थः। आत्मनोऽहंकारविषयस्य आत्मनीनस्य च स्कन्धादेर्वस्तुनः ममकारविषयस्य शमादनुत्पादादनुपलम्भान्निर्ममो निरहंकारश्च जायते योगी॥२॥

ननु च योऽसावेवं निर्ममो निरहंकारश्च योगी भवति, स तावदस्ति। सति च तस्मिन् सिद्ध आत्मा स्कन्धाश्चेति नैतदेवम्। यस्मात् -

निर्ममो निरहंकारो यश्च सोऽपि न विद्यते।
निर्ममं निरहंकारं यः पश्यति न पश्यति॥३॥

आत्मनि स्कन्धेषु च सर्वथानुपलभ्यमानस्वरूपेषु कुतस्तद्वयतिरिक्तोऽपरपदार्थो भविष्यति योऽसौ निर्ममो निरहंकारश्चेति। यस्तु एवमसंविद्यमानस्वरूपं निर्ममं निरहंकारं च पश्यति, स तत्त्वं न पश्यतीति विज्ञेयम्। यथोक्तं भगवता -
शून्यमाध्यात्मिकं पश्य पश्य शून्यं बहिर्गतम्।
न विद्यते सोऽपि कश्चिद्यो भावयति शून्यताम्॥

तथा -
योऽपि च चिन्तयि शून्यक धर्मान्
सोऽपि कुमार्गपपन्नकु बालः।
अक्षर कीर्तित शून्यक धर्माः
ते च अनक्षर अक्षर उक्ताः॥

शान्त पशान्त य चिन्तयि धर्मान्
सोऽपि च चित्तु न जातु न भूतः।
चित्तवितर्किण सर्वि पपञ्चाः
तस्य अचिन्तिय बुध्यथ धर्मान्॥इति।

तथा -
स्कन्ध सभावतु शून्य विविक्त
बोधि सभावतु शून्य विविक्त।
योऽपि चरेत्स पि शून्यसभावो
ज्ञानवतो न तु बालजनस्य॥

इति॥३॥

तदेवम् -
ममेत्यहमिति क्षीणे बहिर्धाध्यात्ममेव च।
निरुध्यत उपादानं तत्क्षयाज्जन्मनः क्षयः॥ ४॥

सत्कायदृष्टिमूलकाः सत्कायदृष्टिसमुदयाः सत्कायदृष्टिहेतुकाः सर्वक्लेशाः सूत्रे उक्ताः। सा च सत्कायदृष्टिरात्मात्मीयानुपलम्भात्प्रहीयते, तत्प्रहाणाच्च कामदृष्टिशीलव्रतात्मवादोपादानचतुष्टयं प्रहीयते, उपादानक्षयाच्च जन्मनः पुनर्भवलक्षणस्य क्षयो भवति॥४॥

यतश्च अयं जन्मनिवृत्तिक्रमः एवं व्यवस्थापितः, तस्मात् -

कर्मक्लेशक्षयान्मोक्षः

इति स्थितम्। उपादाने हि क्षीणे तत्प्रत्ययो भवो न भवति। भवे निरुद्धे कुतो जातिजरामरणादिकस्य संभव इति। एवं कर्मक्लेशक्षयान्मोक्षो भवतीति स्थितम्।

कर्मक्लेशानां तर्हि कस्य क्षयात्परिक्षय इति वक्तव्यम्॥ उच्यते -
कर्मक्लेशा विकल्पतः।
ते प्रपञ्चात्प्रपञ्चस्तु शून्यतायां निरुध्यते॥५॥

अयोनिशो हि रूपादिकं विकल्पयतो बालपृथग्जनस्य क्लेश उपजायते रागादिकः वक्ष्यति हि -

संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते।
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि॥

उक्तं च सूत्रे -

काम जानामि ते मूलं संकल्पात्किल जायसे।
न त्वां संकल्पयिष्यामि ततो मे न भविष्यसि॥इति॥

एवं तावत् कर्मक्लेशा विकल्पतः प्रवर्तन्ते। ते च विकल्पाः अनादिमत्संसाराभ्य स्ताद् ज्ञानज्ञेयवाच्यवाचककर्तृकर्मकरणक्रियाघटपटमुकुटरथरूपवेदनास्त्रीपुरुषलाभालाभसुखदुःख यशोऽयशोनिन्दाप्रशंसादिलक्षणाद्विचित्रात्प्रपञ्चादुपजायते। स चायं लौकिकः प्रपञ्चो निरवशेष शून्यतायां सर्वस्वभावशून्यतादर्शने सति निरुध्यते। कथं कृत्वा? यस्मात्सति हि वस्तुनं उपलम्भे स्याद् यथोदितप्रपञ्चजालम्। न हि अनुपलभ्य वन्ध्यादुहितरं रूपलावण्य यौवनवतीं तद्विषयं प्रपञ्चमवतारयन्ति रागिणः। न च अनवतार्य प्रपञ्चं तद्विषयमयोनिशो विकल्पमवतारयन्ति। न च अनवतार्य कल्पनाजालम् अहंममेत्यभिनिवेशात् सत्कायदृष्टि मूलकान् क्लेशगणानुत्पादयन्ति। न च अनुत्पाद्य सत्कायदृष्टयात्मकान् क्लेशगणान् कर्माणि शुभाशुभानिञ्ज्यानि कुर्वन्ति। न च अकुर्वाणाः कर्माणि जातिजरामरणशोकपरिदेवदुःखदौर्मनस्य [उपायासादिरूपं] एकजालीभूतं संसारकान्तारमनुभवन्ति। एवं योगिनोऽपि शून्यतादर्शना वस्था निरवशेषस्कन्धधात्वायतनानि स्वरूपतो नोपलभन्ते। न च अनुपलभमाना वस्तुस्वरूपं तद्विषयं प्रपञ्चमवतारयन्ति। न च अनवतार्य तद्विषयं प्रपञ्चं विकल्पमवतारयन्ति। न च अनवतार्य विकल्पम् अहंममेत्यभिनिवेशात् सत्कायदृष्टिमूलकं क्लेशगणमुत्पादयन्ति। न च अनुत्पाद्य सत्कायदृष्टयादिकं क्लेशगणं कर्माणि कुर्वन्ति। न च अकुर्वाणाः जातिजरामरणाख्यं संसारमनुभवन्ति। तदेवम् अशेषप्रपञ्चोपशमशिवलक्षणां शून्यतामागम्य यस्मादशेषकल्पनाजाल प्रपञ्चविगमो भवति, प्रपञ्चविगमाच्च विकल्पनिवृतिः, विकल्पनिवृत्त्या च अशेषकर्मक्लेशनिवृत्ति, कर्मक्लेशनिवृत्त्या च जन्मनिवृत्तिः, तस्मात् शून्यतैव सर्वप्रपञ्चनिवृत्तिलक्षणत्वान्निर्वाणमित्युच्यते यथोक्तं शतके -

धर्मं समासतोऽहिंसां वर्णयन्ति तथागताः।
शून्यतामेव निर्वाणं केवलं तदिहोभयम्॥इति॥

आचार्यभावविवेकस्तु श्रावकप्रत्येकबुद्धानां यथोदितशून्यताधिगममप्रतिपद्यमानः एवं वर्णयति - अपरोत्पन्नप्रतिक्षणविनश्वरसंस्कारकलापमात्रमनात्मानात्मीयमवलोकयतः आर्यश्रावकस्यापि आत्मात्मीयवस्त्वभावाद् धर्ममात्रमिदं जायते म्रियते चेति दर्शनमुत्पद्यते। अहंकारविषयो ह्यात्मा, [तदभावात्तस्याप्यभावः], तदभावादेव न क्कचिदाध्यात्मिकं बाह्यं वा वस्तु अस्तीति ममकारानुत्पत्तेः निर्ममो निरहंकारोऽहमिति न स्वरूपविनिश्चितिरुपजायते, अन्यत्र व्यवहारसंकेतात्। प्रागेव अजातसर्वसंस्कारदर्शिनां निर्विकल्पप्रज्ञाचारविहारिणां महाबोधिंसत्त्वानामिति। अत आह -

निर्ममो निरहंकारो यश्च सोऽपि न विद्यते॥इति॥

तदयमाचार्यो यथैवंविधे विषये नाचार्यपादमतानुवर्ती तथा प्रतिपादितं मध्यमकावतारे -

दूरंगमायां तु धियाधिकः

इत्यत्रेति न पुनस्तद्दूषणे यत्न आस्थीयते। अत एवोक्तं भगवता आर्याष्टसाहस्रिकायां भगवत्याम् -

श्रावकबोधिमभिसंबोद्धुक्रामेन सुभूते अस्यामेव प्रज्ञापारमितायां शिक्षितव्यम्। प्रत्येक बोधिमभिसंबोद्धुकामेन सुभूते अस्यामेव प्रज्ञापारमितायां शिक्षितव्यम्। अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन सुभूते बोधिसत्त्वेन महासत्त्वेन अस्यामेव प्रज्ञापारमितायां शिक्षितव्यमित्यादि॥

आह च -

यो इच्छती सुगतश्रावकु हं भवेयं
प्रत्येकबुद्धु भविजा तथ धर्मराजो।
इमु क्षान्ति नागत्य न शक्यति पापुणोतुं
यथ आरपारगमनीयं अतीरदर्शी॥

इति॥५॥

अत्राह - यद्येवमाध्यात्मिकबाह्यवस्त्वनुपलम्भादध्यात्मं बहिश्च अहंममेतिकल्पनाजालाना मनुत्पादस्तत्त्वमिति व्यवस्थापितम्, यत्तर्हि एतदुक्तं भगवता -

आत्मा हि आत्मनो नाथः को नु नाथः परो भवेत्।
आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डितः॥
आत्मा हि आत्मनो नाथः को नु नाथः परो भवेत्।
आत्मा हि आत्मनः साक्षी कृतस्यापकृतस्य च॥

तथा आर्यसमाधिराजे -

कृष्णशुभं च न नश्यति कर्म
आत्मन कृत्व च वेदयितव्यम्।
नो पि च संक्रम कर्मफलस्य
नो च अहेतुक प्रत्यनुभोति॥

इति विस्तरः। तत्कथं न विरुध्यत इति ? उच्यते। इदमपि किं नोक्तं भगवता -

नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः। इति ?

तथा हि - रूपं नात्मा रूपवान्नापि चात्मा रूपे नात्मा नात्मनि रूपं॥ एवं यावत् विज्ञानं नात्मा, विज्ञानवान्नात्मा विज्ञाने नात्मा नात्मनि विज्ञानम् इति। तथा-अनात्मानः सर्वधर्मा इति। तत्कथमिदानीमनेनागमेन पूर्वकस्यागमस्य विरोधो न स्यात्? तस्माद्देशनाभिप्रायो भगवतोऽन्वेष्यः।

सामान्येन तु भगवद्भिर्बुद्धैः प्रवचने नेयनीतार्थविस्तरप्रभेदेऽशेषजगद्विनेयबुद्धिपद्माकरविबोधन परैरादित्यकल्पैरनस्तंगतैर्महाकरुणोपायविज्ञानगभस्तिविस्तरैः -

आत्मेत्यपि प्रज्ञपितमनात्मेत्यपि देशितम्।
बुद्धैर्नात्मा न चानात्मा कश्चिदित्यपि देशितम्॥६॥

अत्र चायमभिप्रायः - इह ये [आत्माभावविपर्यास] कुदर्शनधनतिमिरपटलावच्छादिताशेष बुद्धिनयनतया लौकिकावदातदर्शनविषयानतिक्रान्तमपि भावजातमपश्यन्तो व्यवहारसत्यावस्थिता एव सन्तः क्षितिसलिलज्वलनपवनाभिधानतत्त्वमात्रानुवर्णनपरा मूलौदनोदककिण्वादिद्रव्य विशेषपरिपाकमात्रप्रत्ययोत्पन्नमदमुर्च्छादिसामर्थ्यविशेषानुगतमद्यपानोपलम्भवत् कललादिमहाभूत परिपाकमात्रसंभूता एव बुद्धीरनुवर्णयन्तः पूर्वान्तापरान्तापवादप्रवृत्ताः सन्तः परलोकमात्मानं चापवदन्ते - नास्त्ययं लोकः, नास्ति परलोकः , नास्ति सुकृतदुष्कृतानां कर्मणां फलविपाकः, नास्ति सत्त्व उपपादुकः, इत्यादिना। तदपवादाच्च स्वर्गापवर्गविशिष्टेष्टफलविशेषाक्षेपपराङ्मुखाः सतत समितमकुशलकर्माभिसंस्करणप्रवृत्ता नरकादिमहाप्रपातपतनाभिमुखाः। तेषां तदसदृष्टिनिवृत्त्यर्थ चतुरशीतिचित्तचरितसहस्रभेदभिन्नस्य सत्त्वधातोर्यथाशयानुवर्तकैरशेषसत्त्वधातूत्तारणाक्षिप्त प्रतिज्ञासंपादनतत्परैः प्रज्ञोपायमहाकरुणासंभारपुरः सरैर्निरुपमैरेकजगद्बन्धुभिर्निरवशेषक्लेशमहाव्याधि चिकित्सकैर्महावैद्यराजभूतैर्हीनमध्योत्कृष्टविनेयजनानुजिधृक्षया हीर्नानां विनेयानामकुशलकर्म कारिणामकुशलादि निवर्तयितुं बुद्धैर्भगवद्भिः क्कचिदात्मेत्यपि प्रज्ञपितं लोके व्यवस्थापितम्। अहेतुवादप्रतिषेधोपपत्तिश्च कर्मकारकपरीक्षातः, नाप्यहेतुतः इत्यतः, मध्यमकावताराच्च विस्तरेण वेदितव्येति तत्प्रतिषेधार्थ नेह पुनर्यत्न आस्थीयते॥

ये तु सद्भूतात्मदृष्टिकठिनातिदीर्घशिथिलमहासूत्रबद्धा विहंगमा इव सुदूरमपि गताः कुशल कर्मकारिणोऽकुशलकर्मपथव्यावृत्ता अपि न शक्नुवन्ति त्रैधातुकभवोपपत्तिमतिवाह्य शिवमजरममरणं निर्वाणपुरमभिगन्तुम्, तेषां मध्यानां विनेयानां सत्कायदर्शनाभिनिवेशशिथिलीकरणाय निर्वाणाभिलाषसंजननार्थं बुद्धैर्भगवद्भिर्विनेयजनानुग्रहचिकीर्षुभिरनात्मेत्यपि देशितम्॥

ये तु पूर्वाभ्यासविशेषानुगतगम्भीरधर्माधिमोक्षलब्धबीजपरिपाकाः प्रत्यासन्नवर्तिनि निर्वाणे तेषामुत्कृष्टानां विनेयानां विगतात्मस्नेहानां परमगम्भीरमौनीन्द्रप्रवचनार्थतत्त्वावगाहन समर्थानामधिमुक्तिविशेषमवधार्य -

बुद्धैरात्मा न चानात्मा कश्चिदित्यपि देशितम्॥

यथैव हि आत्मदर्शनमतत्त्वम्, एवं तत्प्रतिपक्षभूतमपि अनात्मदर्शनं नैव तत्त्वमिति। एवं नास्त्यात्मा कश्चित् , न चाप्यनात्मा कश्चिदस्तीति देशितम्। यथोक्तमार्यरत्नकूटे -

आत्मेति काश्यप अयमेकोऽन्तः। नैरात्म्यमित्ययं द्वितीयोऽन्तः। यदेतदनयोरन्तयोर्मध्यं तदरूप्यमनिदर्शनमप्रतिष्ठमनाभासमविज्ञप्तिकमनिकेतम्। इयमुच्यते। काश्यप मध्यमा प्रतिपद धर्माणां भूतप्रत्यवेक्षा इति॥

उक्तं चार्यरत्नावल्याम् -
नैवमात्मा न चानात्मा यथाभूतेन लभ्यते।
आत्मानात्मकृते दृष्टी ववारास्मान्महामुनिः॥
दृष्टश्रुताद्यं मुनिना न सत्यं न मृषोदितम्।
पक्षाद्धि प्रतिपक्षः स्यादुभयं तच्च नार्थतः॥इति।

यतश्चैवं हीनमध्योत्कृष्टविनेयजनाशयनानात्वेन आत्मानात्मतदुभयप्रतिषेधेन बुद्धानां भगवतां धर्मदेशना प्रवृत्ता, तस्मान्नास्ति आगमबाधो माध्यमिकानाम्। अत एवोक्तमार्य देवपादैः -

वारणं प्रागपुण्यस्य मध्ये वारणमात्मनः।
सर्वस्य वारणं पश्चाद्यो जानीते स बुद्धिमान्॥ इति॥

तथा आचार्यपादैरुक्तम् -
यथैव वैयाकरणो मातृकामपि पाठयेत्।
बुद्धोऽवदत्तथा धर्म विनेयानां यथाक्षमम्॥
केषांचिदवदद्धर्मं पापेभ्यो विनिवृत्तये।
केषांचित्पुण्यसिद्धयर्थं केषांचिद् द्वयनिश्चितम्॥
द्वयानिश्रितमेकेषां गम्भीरं भीरुभीषणम्।
शून्यताकरुणागर्भं केषांचिद् बोधिसाधनम्॥इति॥

अथवा - अयमन्योऽर्थः - आत्मेत्यपि प्रज्ञपितं सांख्यादिभिः प्रतिक्षणविनश्वराणां संस्काराणां कर्मफलसंबन्धाभावमुत्प्रेक्ष्य। अनात्मेत्यपि प्रज्ञपितं लोकायतिकैः उपपत्त्या आत्मानं संसर्तारमपश्यद्भिः -
एतावानेव पुरुषो यावानिन्द्रियगोचरः।
भद्रे वृकपदं ह्येतद् यद्वदन्ति बहुश्रुताः॥

इत्यादिना। तैमिरिकोपलब्धकेशमशकादिष्विव वितैमिरिकैरिव बालजनपरिकल्पितात्मानात्मादि वस्तुस्वरूपं सर्वथैवापश्यद्भिः -

बुद्धैर्नात्मा न चानात्मा कश्चिदित्यपि देशितम्॥

यथोक्तमार्यतथागतगुह्यसूत्रे -

अथ खलु शान्तमतिर्बोधिसत्त्वो भगवन्तमेतदवोचत् - उपशम उपशम इति भगवन्नुच्यते, क एष उपशमो नाम? कस्य चोपशमादुपशम इत्युच्यते? भगवानाह -उपशम इति कुलपुत्र उच्यते , क्लेशोपशमस्यैतदधिवचनम्। क्लेशोपशम इति संकल्पविकल्पपरिकल्पोपशमस्यैतदधि वचनम्। संकल्पविकल्पपरिकल्पोपशम इति संज्ञामनसिकारोपशमस्यैतदधिवचनम्।संज्ञामनसि कारोपशम इति विपर्यासोपशमस्यैतदधिवचनम्। विपर्यासोपशम इति हेत्वारम्बणोपशमस्यैत दधिवचनम्। हेत्वारम्बणोपशम इति अविद्याभवतृष्णोपशमस्यैतदधिवचनम्। अविद्याभवतृष्णोपशम इति अहंकारममकारोपशमस्यैतदधिवचनम्। अहंकारममकारोपशम इति उच्छेदशाश्वत दृष्टयुपशमस्यैतदधिवचनम्। उच्छेदशाश्वतदृष्टयुपशम इति सत्कायदृष्टयुपशमस्यैतदधिवचनम् इति शान्तमते ये केचिदारम्बणहेतुदृष्टिसंयुक्ताः संक्लेशाः प्रवर्तन्ते, सर्वे ते सत्कायदृष्टेरुत्पद्यन्ते, सत्कायदृष्टयुपशमात्सर्वदृष्टयुपशम इति। सर्वदृष्टयुपशमात्सर्वप्रणिधानोपशम इति। सर्वप्राणि धानोपशमात्सर्वक्लेशोपशमः। तद्यथापि नाम शान्तमते वृक्षस्य मूले छिन्ने सर्वशाखापत्रफलानि शुष्यन्ति, एवमेव शान्तमते सत्कायदृष्टयुपशमात्सर्वक्लेशा उपशाम्यन्ते। सत्कायदृष्टौ शान्तमते अपरिज्ञातायां सर्वोपादानोपक्लेशा उत्पद्यन्ते। सत्कायदृष्टिपरिज्ञातोऽपि सर्वोपादानोपक्लेशा नोत्पद्यन्ते न बाधन्ते॥

शान्तमतिराह - का पुनर्भगवन् सत्कायदृष्टिपरिज्ञा? भगवानाह- आत्मासमुत्थानं शान्तमते सत्कायदृष्टिपरिज्ञा सत्त्वासमुत्थानं जिवासमुत्थानं पुद्गलासमुत्थानं दृष्टयसमुत्थानं सत्कायदृष्टिपरिज्ञा न खलु पुनः शान्तमते सा दृष्टिरध्यात्मं प्रतिष्ठिता, न बहिर्धा प्रतिष्ठिता। सा दृष्टिः सर्वतोऽ प्रतिष्ठिता। यत्तस्या अप्रतिष्ठिताया दृष्टेरप्रतिष्ठितेति ज्ञानम्, इयं शान्तमते सत्कायदृष्टिपरिज्ञा। सत्कायदृष्टिपरिज्ञेति शान्तमते शुन्यताया एतदधिवचनम्। यच्छून्यतानुलोमिक्या क्षान्त्या तां दृष्टि नोद्गृह्णाति, इयमपि शान्तमते सत्कायदृष्टिपरिज्ञा। सत्काय इति शान्तमते शून्यतानिमित्ताप्रणिहितानभिसंस्काराजातानुत्पाददृष्टया तां दृष्टिं नोद्गृह्णाति, इयमपि शान्तमते सत्कायदृष्टिपरिज्ञा। सत्काय इति शान्तमते अकाय एषः, न कसति न विकसति न चिनोति नोपचिनोति, आदित एव तदभूतं परिकल्पितम्। यच्च अभूतं परिकल्पितम्, तन्न परिकल्पितं न परिकल्प्यते न विकल्प्यते, तन्न क्रियते न विठप्यते, नोत्थाप्यते नाध्यवस्यते। तदुच्यते उपशम इति॥

शान्तमतिराह - उपशान्त उपशान्त इति भगवन्नुच्यते, कस्योपशमादुपशान्त इत्युच्यते।
भगवानाह-आरम्बणतः शान्तमते चित्तं ज्वलति। यन्न भूय आलम्बनीकरोति तन्न ज्वलति, अज्वलन् उपशान्त इत्युच्यते। तद्यथापि नाम शान्तमते अग्निरुपादानतो ज्वलति, अनुपादानतः शाम्यति, एवमेव आलम्बनतश्चित्तं ज्वलति अनालम्बनतः शाम्यति। तत्र शान्तमते उपायकुशलोऽयं बोधिसत्त्वः प्रज्ञापारमितापरिशुद्धः आलम्बनसमतां च प्रजानाति, कुशलमूलालम्बनं च शमयति। इत्यादि॥६॥

अत्राह - यदि बुद्धैर्भगवद्भिर्नात्मेति देशितम् , नानात्मेति, किं तर्हि देशितमिति ? उच्यते -
निवृत्तमभिधातव्यं निवृत्ते चित्तगोचरे।
अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता॥७॥

इह यदि किंचिदभिधातव्यं वस्तु स्यात्, तद्देश्येत। यदा तु अभिधातव्यं निवृत्तम्, वाचां विषयो नास्ति, तदा किंचिदपि नैव देश्यते बुद्धैः। कस्मात्पुनरभिधातव्यं नास्तीत्याह - निवृत्ते चित्तगोचरे इति। चित्तस्य गोचरः चित्तगोचरः। गोचरो विषयः। आरम्बणमित्यर्थः। यदि चित्तस्य कश्चिद् गोचरः स्यात्, तत्र किंचिन्निमित्तमध्यारोप्य स्याद् वाचां प्रवृत्तिः। यदा तु चित्तस्य विषय एवानुपपन्नः, तदा क्क निमित्ताध्यारोपः, येन वाचां प्रवृत्तिः स्यात्? कस्मात् पुनश्चित्तविषयो नास्तीति प्रतिपादयन्नाह -

अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता।

यस्मादनुत्पन्नानिरुद्धा निर्वाणमिव धर्मता धर्मस्वभावः धर्मप्रकृतिः व्यवस्थापिता, तस्मान्न तत्र चित्तं प्रवर्तते। चित्तस्याप्रवृत्तौ च कुतो निमित्ताध्यारोपः? तदभावात् कुतो वाचां प्रवृत्तिः? अतश्च न किंचिद् बुद्धैर्भगवद्भिर्देशितमिति स्थितमविकलम्। अत एव च वक्ष्यति -

सर्वोपलम्भोपशमः प्रपञ्चोपशमः शिवः।
न क्कचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशितः॥इति।

एवं चैतत्॥

अथवा। अयमन्यः पूर्वपक्षः - यदुक्तं प्रपञ्चः शून्यतायां निरुध्यते इति, कथं पुनः प्रपञ्चस्य शून्यतायां निरोध इति ? उच्यते। यस्मान्निवृत्तमभिधातव्यमित्यादि पूर्ववद् व्याख्येयम्॥

अथवा यदेतदुक्तं प्रागाध्यात्मिकबाह्यवस्त्वनुपलम्भेन अध्यात्मं बहिश्च यः सर्वदा अहंकारममकारपरिक्षयः, इदमत्र तत्त्वमिति। कीदृशं तत् किंवत्, वक्तुं वा शक्यते, तस्मात्

निवृत्तमभिधातव्यं निवृत्ते चित्तगोचरे।

तत्र तत्त्वतः इति वाक्यशेषः। किं पुनः कारणं तत्र तत्त्वे निवृत्तमभिधातव्यं निवृत्ते चित्तगोचरे इत्याह -

अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता॥

इति पूर्वकमेव व्याख्यानं योज्यम्॥ अत एवोक्तमार्यतथागतगुह्यसूत्रे -

यां च शान्तमते रात्रिं तथागतोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः, यां च रात्रिमनुपादाय परिनिर्वास्यति, अस्मिन्नन्तरे तथागतेन एकाक्षरमपि नोदाहृतं न प्रव्याहृतं न प्रव्याहरिष्यति। कथं तर्हि भगवता सकलसुरासुरनरकिंनरसिद्धविद्याधरोरगप्रभृतिविनेयजनेभ्यो विविधप्रकारेभ्यो धर्मदेशना देशिता? एकक्षणवागुदाहारेणैव तत्तज्जनमनस्तमोहरणी बहुविधबुद्धिनलिनीवनविबोधिनी जरामरणसरित्सागरोच्छोषिणी कल्पकालानलसप्तार्करश्मिविसरह्रेपिणी शरदरुणमहाप्रभेति॥

तदेवं सूत्रे -

यथा यन्त्रकृतं तूर्यं वाद्यते पवनेरितम्।
न चात्र वादकः कश्चिन्निश्चरन्त्यथ च स्वराः॥

एवं पूर्वसुशुद्धत्वात्सर्वसत्त्वाशयेरिता।
वाग्निश्चरति बुद्धस्य न चास्यास्तीह कल्पना।
प्रतिश्रुत्कादयः शब्दा नाध्यात्मं न बहिः स्थिताः।
वागप्येवं नरेन्द्रस्य नाध्यात्मं न बहिः स्थिताः॥इति।

तथा -
देवत चोदनि दुन्दुभि दिव्य कर्मविपाक निवृत्त मरूणं।
देव पमत्तविहारिण ञात्वा दुन्दुभिघोष पमुञ्चि नभातो॥
सर्व अनित्य अशाश्वत कामा इत्वर अध्रुव फेनसभावाः।
मायमरीचिसमा दकचन्द्राः सर्वि भवाः सुपिनान्तसभावाः।
दुन्दुभि वादित शक्रमरुद्भिः सार्द्धय संक्रमि धर्मसभायाम्।
धर्मकथां पकरोति मरूणां या कथ शान्त विरागनुकूला॥

तथा आर्यसमाधिराजे -
बुद्धो यदा भेष्यति धर्मराजः
सर्वाण धर्माण पकाशको मुनिः।
तृणगुल्मवृक्षौषधि शैल पर्वत
अभाव धर्माण रवो भविष्यति॥
यावन्ति शब्दास्तहि लोकधातौ
सर्वे ह्यभावा न हि कश्चि भावः।
तावन्तु खो तस्य तथागतस्य
स्वरु निश्चरी लोकविनायकस्य॥

इति विस्तरः॥

तथा -

एकस्वरा तु तव लोकहितो नानाधिमुक्ति स्वरु निश्चरति।
एकैकमन्विममभाषि जिनो ब्रूहि स्मितं प्रकृतकस्य कृते॥इति॥

अत्रैके परिचोदयन्ति - नास्तिकाविशिष्टा माध्यमिकाः, यस्मात् कुशलाकुशलं कर्म कर्तारं च फलं च सर्वं च लोकं भावस्वभावशून्यमिति ब्रुवते। नास्तिका अपि हि एतन्नास्तीति ब्रुवते। तस्मान्नास्तिकाविशिष्टा माध्यमिका इति। नैवम्। कुतः? प्रतीत्यसमुत्पादवादिनो हि माध्यमिकाः हेतुप्रत्ययान् प्राप्य प्रतीत्य समुत्पन्नत्वात् सर्वमेव इहलोकपरलोकं निःस्वभावं वर्णयन्ति। यथा स्वरूपवादिनो नैव नास्तिकाः प्रतीत्यसमुत्पन्नत्वाद् भावस्वभावशुन्यत्वेन न परलोकाद्यभावं प्रतिपन्नाः। किं तर्हि ऐहलौकिकं वस्तुजातमुपलभ्य स्वभावतः तस्य परलोकादिहागमनम्, इहलोकाच्च परलोकगमनपश्यन्तुः इहलोकोपलब्धपदार्थसदृशपदार्थान्तरापवादं कुर्वन्ति। तथापि वस्तुस्वरूपेण अविद्यमानस्यैव ते नास्तित्वं प्रतिपन्नाः इत्यमुना तावद्दर्शनेन साम्यमस्तीति चेत्, न हि। कुतः? संवृत्या माध्यमिकैरस्तित्वेनाभ्युपगमान्न तुल्यता। वस्तुतस्तुल्यतेति चेत्, यद्यपि वस्तुतोऽसिद्धिस्तुल्या, तथापि प्रतिपतृभेदादतुल्यता। यथा हि कृतचौर्य पुरुषमेकः सम्यगपरिज्ञायैव तदमित्रप्रेरितः तं मिथ्या व्याचष्टे चौर्यमनेन कृतमिति, अपरस्तु साक्षाद् दृष्ट्वा दूषयति, तत्र यद्यपि वस्तुतो नास्ति भेदः, तथापि परिज्ञातृभेदादेकस्तत्र मृषावादीत्युच्यते, अपरस्तु सत्यवादीति, एकश्च अयशसा च अपुण्येन च सम्यक् परीक्ष्यमाणो युज्यते नापरः, एवमिहापि यथावद्विदितवस्तुस्वरूपाणां माध्यमिकानां ब्रुवतामवगच्छतां च वस्तुस्वरूपाभेदेऽपि यथावदविदितवस्तुस्वरूपैर्नास्तिकैः सह ज्ञानाभिधानयोर्नास्ति साम्यम्। यथैव हि उपेक्षासामान्येऽपि अप्रतिसंख्याय प्रतिसंख्याय उपेक्षकयोरिव पृथग्जनार्हतोः जात्यन्धचक्षुष्मतोश्च विषमप्रपातप्रदेशविनिश्चितसामान्येऽपि यथास्ति महान् विशेषः, तथा नास्तिकानां माध्यमिकानां च विशेषो भविष्यतीति पूर्वाचार्याः। इत्यलं प्रसङ्गेनः प्रकृतमेव व्याख्यास्यामः॥७॥

अत्राह - यद्यपि एवम्
अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता।

तस्यां च नास्ति वाक्‍चित्तयोः प्रवृत्तिः, तथापि नैवासौ अदेश्यमाना शक्या जनैर्विज्ञातुमिति अवश्यं तस्यामवतारणार्थं विनेयजनानां संवृतिसत्यापेक्षया कदाचिद्देशनानुपूर्व्या भवितव्यम्, इत्यतः सा कथ्यतामिति। उच्यते। इयमत्र बुद्धानां भगवतां तत्त्वामृतावतारदेशनानुपूर्वी विज्ञेया, यदुत -

सर्वं तथ्यं न वा तथ्यं तथ्यं चातथ्यमेव च।
नैवातथ्यं नैव तथ्यमेतद्बुद्धानुशासनम्॥८॥

तत्र-
यद्यद्यस्य प्रियं पूर्वं तत्तत्तस्य समाचरेत्।
न हि प्रतिहतः पात्रं सद्धर्मस्य कथंचन॥इति।
तथा च भगवतोक्तम् -

लोको मया सार्धं विवदति। नाहं लोकेन सार्धं विवदामि। यल्लोकेऽस्ति संमतम् , तन्ममाप्यस्ति संमतम्। यल्लोके नास्ति संमतम्, ममापि तन्नास्ति संमतम्।

इत्यागमाच्च॥

नान्यया भाषया म्लेच्छः शक्यो ग्राहयितुं यथा।
न लौकिकमृते लोकः शक्यो ग्राहयितुं तथा॥

इत्यादित एव तावद्भगवता स्वप्रसिद्धपदार्थमेदस्वरूपविभागश्रवणसंजाताभिलाषस्य विनेयजनस्य यदेतत् स्कन्धधात्वायतनादिकमविद्यातैमिरिकैः सत्यतः परिकल्पितमुपलब्धम्, तदेव तावत् सत्यमित्युपवर्णितं भगवता तद्दर्शनापेक्षया, आत्मनि लोकस्य गौरवोत्पादनार्थम्। विदितनिरवशेषलोकवृत्तान्तोऽयं भगवान् सर्वज्ञः सर्वदर्शी, यः एवं भवाग्रपर्यन्तस्य वायुमण्डलादे राकाशधातुपर्यवसानस्य भाजनलोकस्य सत्त्वलोकस्य च अविपरीतं स्थित्युत्पादप्रलयादिकं सातिविचित्रप्रभेदं सहेतुकं सफलं सास्वादं सादीनवं चोपदिष्टवानिति। तदेवं भगवति उत्पन्न सर्वज्ञबुद्धिविनेयजनस्य उत्तरकालं तदेव सर्वं न वा तथ्यमित्युपदेशितम्। तत्र तथ्यं नाम यस्य अन्यथात्वं नास्ति। विद्यते च प्रतिक्षणविनाशित्वात् संस्काराणामन्यथाभावः, तस्मादन्यथाभाव सद्भावान्न वा तथ्यम्। वाशब्दश्चकारार्थो देशनासमुच्चये द्रष्टव्यः। सर्वं तथ्यं न च तथ्यमिति ॥

केषांचित् सर्वमेतत् तथ्यं च अतथ्यं चेति देशितम्। तत्र बालजनापेक्षया सर्वमेतत् तथ्यम्। आर्यज्ञानापेक्षया तु सर्वमेतन्मृषा, तैरेवमनुपलम्भादिति॥

केषांचित्तु अतिचिराभ्यस्ततत्त्वदर्शनानां किंचिन्मात्रानुत्खातावरणतरूमूलानां नैवातथ्यं नैव तथ्यंतदिति देशितम्। तस्यापि किंचिन्मात्रस्यावरणस्य प्रहाणार्थं वन्ध्यासुतस्य अवदात श्यामताप्रतिषेधवदुभयमेतत् प्रतिषिद्धम्॥

एतच्च बुद्धानां भगवतामनुशासनम् - उन्मार्गादपनीय सम्यङ्मार्गप्रतिष्ठापनं शासनम्। एवमानुपूर्व्या शासनमनुशासनम्। विनेयजननुरूप्येण वा शासनमनुशासनम्॥

सर्वाश्चैता देशना बुद्धानां भगवतां महाकरुणोपायज्ञानवतां तत्त्वामृतावतारोपायत्वेन व्यवस्थिताः। न हि तथागताः तत्त्वामृतावतारानुपायभूतवाक्यमुदाहरन्ति। व्याध्यनुरूपभैषज्योपसंहारवत् ते विनेयजनानुजिघृक्षया यथानुरूपं धर्मं देशयन्ति। यथोक्तं शतके -

सदसत्सदसच्चेति नोभयं चेति कथ्यते।
ननु व्याधिवशात्पथ्यमौषधं नाम जायते॥

इति॥८॥

किंलक्षणं पुनः तत् तत्त्वं यस्यैता देशना अवतारार्थमुपदिशन्ते भगवन्तः ? उक्तमेत दस्माभिः -

निवृत्तमभिधातव्यं निवृत्ते चित्तगोचरे। इति।

यदा चैतदेवम् , तदा किमपरं पृच्छयते? यद्यप्येवम्, तथापि व्यवहारसत्यानुरोधेन लौकिकतथ्याद्यभ्युपगमवत् तस्यापि समारोपतो लक्षणमुच्यतामिति। तदुच्यते -

अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम्।
निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम्॥९॥

तत्र नास्मिन् परप्रत्ययोऽस्तीति अपरप्रत्ययम्। परोपदेशागम्यम्। स्वयमेवाधिगन्तव्य मित्यर्थः। यथा हि तैमिरिका वितथं केशमशकमक्षिकादिरूपं पश्यन्तो वितिमिरोपदेशेनापि न शक्नुवन्ति केशानां यथावदवस्थितं स्वरूपमदर्शनन्यायेन अधिगन्तव्यमतैमिरिका इवाधिगन्तुम्, किं तर्हि अतैमिरिकोपदेशान्मिथ्यैतदित्येतावन्मात्रकमेव प्रतिपद्यन्ते। यदा तु तिमिरोपधात्य विपरीतशून्यतादर्शनाञ्जनाञ्जितबुद्धिनयनाः सन्तः समुत्पन्नतत्त्वज्ञाना भवन्ति, तदा तत् तत्त्वमनधिगमनयोगेन स्वयमधिगच्छन्तीति। एवमपरप्रत्ययं भावानां यत् स्वरूपं तत् तत्त्वम्। एतच्च शान्तस्वभावमतैमिरिककेशादर्शनवत् स्वभावविरहितमित्यर्थः। अत एव तत् प्रपञ्चैरप्रपञ्चितम्। प्रपञ्चो हि वाक्, प्रपञ्चयति अर्थानिति कृत्वा। प्रपञ्चैरप्रपञ्चितं वाग्भिरव्याहृतमित्यर्थः॥

निर्विकल्पं च तत्। विकल्पश्चित्तप्रचारः। तद्रहितत्वात् तत् तत्त्वं निर्विकल्पम्। यथोक्तं सूत्रे -

परमार्थसत्यं कतमत्? यत्र ज्ञानस्याप्यप्रचारः, कः पुनर्वादोऽक्षराणामिति।
एवं निर्विकल्पम्॥
नानार्थोऽस्येति नानार्थं भिन्नार्थम्, न नानार्थः अनानार्थम् , अभिन्नार्थमित्यर्थः। यथोक्त मार्यसत्यद्वयावतारसूत्रे -

देवपुत्र आह - कतमः पुनर्मञ्जुश्रीः सम्यक्प्रयोगः? मञ्जुश्रीराह - यत्समा देवपुत्र परमार्थतस्तथता धर्मधातुः अत्यन्ताजातिश्च, तत्समानि परमार्थतः पञ्चानन्तर्याणि, यत्समानि पञ्चानन्तर्याणि तत्समानि दृष्टिकृतानि, यत्समानि दृष्टिकृतानि तत्समाः पृथग्जनधर्माः, यत्समाः पृथग्जनधर्माः तत्समाः शैक्षधर्माः, यत्समाः शैक्षधर्माः तत्समा अशैक्षधर्माः, यत्समा अशैक्षधर्माः तत्समाः सम्यक्संबुद्धधर्माः, यत्समाः सम्यक्संबुद्धधर्माः तत्समं निर्वाणम्, यत्समं निर्वाणं तत्समः संसारः, यत्समः संसारः तत्समः परमार्थतः संक्लेशः, यत्समः परमार्थतः संक्लेशः तत्समं परमार्थतो व्यवदानम्, यत्समं परमार्थतो व्यवदानं तत्समाः परमार्थतः सर्वधर्माः। एवं परमार्थतः सर्वधर्मसमताप्रयुक्तो देवपुत्र भिक्षुः सम्यक्प्रयुक्त इत्युच्यते॥

देवपुत्र आह - कतमया पुनर्मञ्जुश्रीः समतया यावत् परमार्थतो यत्समं व्यवदानं तत्समाः सर्वधर्माः परमार्थत इति? मञ्जुश्रीराह - परमार्थतः सर्वधर्मानुत्पादसमतया परमार्थतः सर्व धर्मात्यन्ताजातिसमतया परमार्थतः समाः सर्वधर्माः। तत् कस्माद्धेतोः? परमार्थतो निर्वाणा नानाकरणा हि देवपुत्र सर्वधर्मा अत्यन्तनिरुत्पादतामुपादाय। तद्यथापि नाम देवपुत्र यच्च मृद्धाजनस्याम्यन्तरमाकाशम्, यच्च रत्नभाजनस्याकाशम्, आकाशधातुरेव एषः। तत् परमार्थतो न किंचिन्नानाकरणम्। एवमेव देवपुत्र यः संक्लेशः, स परमार्थतोऽत्यन्तानुत्पादता। यदपि व्यवदानं तदपि परमार्थतोऽत्यन्तानुत्पादता। संसारोऽपि परमार्थतोऽत्यन्तानुत्पादता। यावन्निर्वाणमपि परमार्थतोऽत्यन्तानुत्पादता। नात्र किंचित्परमार्थतो नानाकरणम्। तत् कस्माद्धेतोः ? परमार्थतोऽत्यन्तानुत्पादत्वात्सर्वधर्माणामिति॥

तदेवमनानार्थता तत्त्वस्य लक्षणं वेदितव्यम्, शून्यतैकरसत्वात्। उत्तरोत्तरव्याख्यानं चात्र वेदितव्यम्॥९॥

एवं तावदार्याणां जातिजरामरणसंसारपरिक्षयाय कृतकार्याणां तत्त्वलक्षणम्। लौकिकं तु तत्त्वलक्षणमधिकृत्योच्यते -

प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत्।
न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम्॥१०॥

यत् कारणं प्रतीत्य यत् कार्यमुत्पद्यते, तद्यथा शालिबीजं प्रतीत्य पृथिव्यादिसामग्रीं च शाल्यङ्कुर उपजायते, न हि तावत् तदेव तदिति शक्यते वक्तुम्। नैव यदेव बीजं स एव अङ्कुरः, जन्यजनकयोरेकत्वप्रसङ्गात्। ततश्च पितापुत्रयोरपि एकत्वं स्यात्। अनन्यत्वाच्च अङ्कुरावस्थायामङ्कुरवद्बीजग्रहणमपि स्यात्, बीजवच्च अङ्कुरस्यापि ग्रहणं स्यात्। नित्यत्वं चैवं बीजस्य स्यात्, अविनाशाभ्युपगमात्। ततश्च शाश्वतवादप्रसङ्गान्महादोषराशिः स्यात् कर्मफलाद्यभावप्रसङ्गात्। एवं तावद् यदेव बीजं स एव अङ्कुरः इति न युज्यते। न च अन्यदपि तत्तस्मात्। नापि बीजादङ्कुरस्यान्यत्वम्, बीजमन्तरेणापि अङ्कुरोदयप्रसङ्गात्।

यद्यन्यदन्यदन्यस्मादन्यस्मादप्यृते भवेत्।

इति वचनादङ्कुरावस्थानेऽपि बीजानुच्छेदप्रसङ्गात्। ततश्च सत्कार्यवाददोषः स्यात्। यतश्चैवं यत् कारणं प्रतीत्य यत् कार्यमुत्पद्यते, नैव तत् कारणं कार्यं भवति, न च तस्मात्कारणात्तत् कार्यमन्यत्। तस्मान्न कारणमुच्छिन्नं नापि शाश्वतमिति शक्यते व्यवस्थापयितुम्। यथोक्तमार्यदेवपादैः -

यस्मात्प्रवर्तते भावस्तेनोच्छेदो न जायते।
यस्मान्निवर्तते भावस्तेन नित्यो न जायते॥इति।

उक्तं च आर्यललितविस्तरसूत्रे -

बीजस्य सतो यथाङ्कुरो न च यो बीज स चैव अङ्कुरो।
न च अन्यु ततो न चैव तदेवमनुच्छेद अशाश्वत धर्मता॥

इति॥१०॥

तदेवं यथोपवर्णितेन न्यायेन -
अनेकार्थमनानार्थमनुच्छेदमशाश्वतम्।
एतत्तल्लोकनाथानां बुद्धानां शासनामृतम्॥११॥

महाकरुणोपायमहामेघपटलनिरन्तरावच्छादिताकाशधातुपर्यन्तदिङ्मण्डलानां रागादिक्लेशगणसमुदाचारातितीक्ष्णतरादित्यमण्डलोपतापितजगज्जातिजरामरणदुःखदहनसंतापोपशमतत्पराणां सतताविरतयथानुरूपचरितप्रतिपक्षसद्धर्मदेशनामृतधारापातैः यथानुरूपविनेयजनकुशलमूलशस्यौ - षधिफलफुल्ललतोत्पन्नातिवृद्धयनुजिधृक्षूणां सद्धर्मामृतमहावर्षवर्षिणां सम्यक्संबुद्धमहानागानामत्राणालौकिकत्राणानामनाथनाथानां सकललोकनाथानामेतत् तत्सद्धर्मामृतं सकलत्रैधातुकभवदुःखक्षय स्वभावं यथोपवर्णितेन न्यायेन एकत्वान्यत्वरहितं शाश्वतोच्छेदवादविगतं च विज्ञेयम्। एतद्धर्मतत्त्वामृत प्रतिपन्नानां श्रावकाणां श्रुतचिन्ताभावनाक्रमात् प्रवर्तमानानां शीलसमाधिप्रज्ञात्मकस्कन्धत्रयामृत रसस्य उपयोगान्नियतमेव जरामरणक्षयस्वभावनिर्वाणाधिगमो भवति। अथापि कथंचिदिह अपरिपक्क कुशलमूलतया श्रुत्वाप्येतत् सद्धर्मामृतम्, दृष्ट एव धर्मे न मोक्षमासादयन्ति, तथापि जन्मान्तरेऽपि अवश्यमेषां पूर्वहेतुबलादेव नियता सिद्धिः संपद्यते। यथोक्तं शतके -

इह यद्यपि तत्त्वज्ञो निर्वाणं नाधिगच्छति।
प्राप्नोत्ययत्नतोऽवश्यं पुनर्जन्मनि कर्मवत्॥

इति॥११॥

अथापि कथंचित् -

संबुद्धानामनुत्पादे श्रावकाणां पुनः क्षये।

सति, आर्यमार्गोपदेशककल्याणमित्रप्रत्ययवैकल्यात् न स्याद् धर्मतत्त्वामृताधिगमः, तथापि पूर्वजन्मान्तरधर्मतत्त्वश्रवणहेतुबलादेव ऐहलौकिकोपदेशनिरपेक्षाणामपि प्रविवेकसेवामात्रोपनतप्रत्ययानां स्वायंभुवं -

ज्ञानं प्रत्येकबुद्धानामसंसर्गात्प्रवर्तते॥१२॥

कायचेतसोः प्रविवेकोऽसंसर्गः, कल्याणमित्रापर्येषणं वा। तस्मादसंसर्गाद्धेतोः प्रत्येकबुद्धा नामसंबुद्धकेऽपि काले यस्माद्भवत्येव धर्मतत्त्वाधिगमः, तस्मादबन्ध्या सिद्धिरस्य संबुद्धमहावैद्यराज प्रणीतस्य सद्धर्मतत्त्वामृतभैषज्यस्येति विज्ञेयम्। यतश्च एतदेवम्, अतोऽर्हति प्राज्ञः प्राणानपि परित्यज्य सद्धर्मतत्त्वं पर्येषितुमिति। यथोक्तं भगवता आर्याष्टसाहस्रिकायां भगवत्याम् -

कथं च भगवन् सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन इयं प्रज्ञापारमिता पर्येषिता? एवमुक्तो भगवानायुष्मन्तं सुभूतिं स्थविरमेतदवोचत् - सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन पूर्वं प्रज्ञापारमितां पर्येषमाणेन कायेऽनर्थिकेन जीवितनिरपेक्षेण लाभसत्कारश्लोकेष्वनिश्रितेन पर्येषमाणेन पर्येषिता। तेन प्रज्ञापारमितां पर्येषमाणेन अरण्यगतेन अन्तरीक्षान्निर्घोषः श्रुतोऽभूत् - गच्छ कुलपुत्र पूर्वस्यां दिशि। तत्र प्रज्ञापारमितां श्रोष्यसि। तथा च गच्छ यथा न कायक्लमथमनसिकारमुत्पादयसि, न स्त्यानमिद्धमनसिकारमुत्पादयसि, न भोजनमनसिकारमुत्पाद यसि, यावत् मा क्कचिच्चित्तं प्रणिधा अध्यात्मं वा बहिर्धा वा। मा च कुलपुत्र वामेनावलोकयन् गाः, मा दक्षिणेन, [मा पूर्वेण], मा पश्चिमेन, मा उत्तरेण, मा उर्ध्वं मा अधः, मा च अनुविदिश मवलोकयन् गाः। तथा च कुलपुत्र गच्छ यथा [नात्मतो] न सत्कायतश्चलसि न रूपतो न वेदनातो न संज्ञातो न संस्कारेभ्यो न विज्ञानतश्चलसि। यो हि अतश्चलति स वितिष्ठते। [कुतो वितिष्ठते?] बुद्धधर्मेभ्यो वितिष्ठते। यो बुद्धधर्मेभ्यो वितिष्ठते, स संसारे चरति। यः संसारे चरति, स प्रज्ञापारमितायां न चरति, न च तामनुप्राप्नोतीति॥

यावन्मारेण पापीयसा उदकेऽन्तर्धापिते अथास्यैतदभूत् - यन्न्वहमात्मनः कायं विद्धा इमे पृथिवीप्रदेशं रुधिरेण सिञ्चेयम्। तत्कस्य हेतोः? अयं पृथिवीप्रदेश उद्धतरजस्कः, मा रजोधातुरितो धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य शरीरे निपतेत्। किमहमात्मभावेन करिष्यामि अवश्यं भेदनधर्मिणा? वरं खलु पुनर्मम एवंरूपया क्रियया आत्मभावस्य विनाशः कृतो भवेत्, न त्वेवं निःसामर्थ्यक्रियया। बहूनि च मम आत्मभावसहस्राणि कामहेतोः कामनिदानं भिन्नानि पुनः पुनः संसारे संसरतः, न पुनरेवंभूतेषु स्थानेषु। अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः तीक्ष्णं शस्त्रं गृहीत्वा समन्तादात्मानं विद्धा समन्ततस्तं पृथिवीप्रदेशं स्वकेन रुधिरेणासिञ्चदित्यादि॥

अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः सहदर्शनादेव धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य एवंरूपं सुखं प्रत्यलभत - तद्यथापि नाम प्रथमध्यानसमापन्नस्य भिक्षोरेकाग्रमनसिकारस्य भिक्षोः। तत्रेयं धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितादेशना यदुत सर्वधर्मसमतया प्रज्ञापारमितासमता, सर्वधर्मविविक्ततया प्रज्ञापारमिताविविक्तता, सर्वधर्माचलतया प्रज्ञापारमिताचलता, सर्वधर्मामननतया प्रज्ञापारमितामननता, सर्वधर्मास्तम्भिततया प्रज्ञापारमितास्तम्भितता, सर्वधर्मैकरसतया प्रज्ञापारमितैकरसता, सर्वधर्मापर्यन्ततया प्रज्ञापारमितापर्यन्तता, सर्वधर्मानुत्पादतया प्रज्ञापारमितानुत्पादता, सर्वधर्मानिरोधतया प्रज्ञापारमितानिरोधता, गगनापर्यन्त तया प्रज्ञापारमितापर्यन्तता, यावत् सर्वधर्मासंभेदनतया प्रज्ञापारमितासंभेदनता, सर्वधर्मानुष लब्धितया प्रज्ञापारमितानुपलब्धिता, सर्वधर्माभिभावनासमतया प्रज्ञापारमिताभिभावनासमता, सर्वधर्मनिश्चेष्टतया प्रज्ञापारमितानिश्चेष्टता, सर्वधर्माचिन्त्यतया प्रज्ञापारमिताचिन्त्यता वेदितव्येति॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
आत्मपरीक्षा नाम अष्टादशमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project