Digital Sanskrit Buddhist Canon

षोडशमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ṣoḍaśamaṁ prakaraṇam
बन्धमोक्षपरीक्षा षोडशमं प्रकरणम्।

अत्राह -विद्यत एव भावानां स्वभावः, संसारसद्भावात्। इह संसरणं संसृतिः गतेर्गत्य न्तरगमनं संसार इत्युच्यते। यदि भावानां स्वभावो न स्यात्, कस्य गतेर्गत्यन्तरगमनं संसारः स्यात्? न हि अविद्यमानानां वन्ध्यासूनुसंस्काराणां संसरणं दृष्टम्। तस्मात् संसारसद्भावात् विद्यत एव भावानां स्वभाव इति। उच्यते। स्याद्भावानां स्वभावः, यदि संसार एव भवेत्। न त्वस्ति। इह यदि संसारः स्यात्, स नियतं संस्काराणां वा भवेत् सत्त्वस्य वा? किं चातः? उभयथा च दोष इत्याह -

संस्काराः संसरन्ति चेन्न नित्याः संसरन्ति ते।
संसरन्ति च नानित्याः सत्त्वेऽप्येष समः क्रमः॥१॥

तत्र यदि संस्काराः संसरन्तीति परिकल्प्यते, किं ते नित्याः संसरन्ति उत अनित्याः? तत्र न नित्याः संसरन्ति निष्क्रियत्वात्, अनित्यानां च घटादीनां सक्रियत्वोपलम्भात्। अथ अनित्याः, ये हि अक्रियाः, ते उत्पादसमनन्तरमेव विनष्टाः। ये च विनष्टाः, कुतस्तेषामविद्यमानत्वाद्वन्ध्यासूनुसंस्काराणामिव क्कचिद् गमनम्? इत्येवमनित्यानामपि नास्ति संसारः॥

अथापि स्यात् - अनित्या एव सन्तो हेतुफलसंबन्धपरंपरया अविच्छिन्नक्रमाः संतानेन च प्रवर्तमानाः संस्काराः संसरन्तीति। एतदपि नोपपद्यते। कुतः? यत् तावदुत्पद्यते कार्यम्, तस्य संसारो नास्ति, कुतश्चिदनागमनात् क्कचिच्चागमनात्। यच्च कारणं नष्टम्, तस्यापि संसारो नास्ति, कुतश्चिदनागमनात् क्कचिच्चागमनात्। संस्कारमात्रव्यतिरेकेण अतीतानागतयोरसिद्धत्वात्, नष्टाजातत्वेन अविद्यमानत्वात्॥

उत्तरस्मिन् क्षणे उत्पन्ने पूर्वः संसरतीति चेत्, यदि पूर्वोत्तरयोः क्षणयोरेकत्वं स्यात्, स्यादेतदेवम्। न तु एकत्वमस्ति कार्यकारणभावात्, चक्षूरूपचक्षुर्विज्ञानानां नास्ति च। किं च एकत्वे सति पूर्वोत्तरक्षणवाच्यतैव न स्यात्। न हि एको देवदत्तः एकदा पूर्वश्चोत्तरश्चेति व्यपदिश्यते। एवमिहापि एकत्वात् पूर्वोत्तरक्षणव्यपदेश एव न स्यात्। अपि च पूर्वक्षणो नष्ट इति न स्यादुत्तरक्षणवदव्यतिरिक्तत्वात्। उत्तरक्षण उत्पन्न इति न स्यात्, पूर्वक्षणवदव्यतिरिक्तत्वात्। अथ अन्यत्वे सति संसरणं स्यात्, एवं सति अर्हतामपि संसरणं स्यात्। अन्यस्य पृथग्जनस्य संसारोत्पत्तिसद्भावात्। निर्वृतश्च प्रदीपः प्रदीपान्तरे ज्वलतीति स्यात्। किं चान्यत्। नष्टाद्वा पूर्वक्षणादुत्तरस्य क्षणस्योदयः स्यादनष्टान्नश्यमानाद्वा? तत्र यदि नष्टादिष्यते, वह्निदग्धादपि बीजादङ्कुरोदयः स्यात्, ततश्च निर्हेतुकः स्यात्। अथ अनष्टात्, एवमपि अविकृतेऽपि बीजेऽङ्कुरोदयः स्यात्, कार्यकारणयोश्च यौगपद्यं स्यात्, निर्हेतुकश्चोत्पादः स्यात्। नश्यमानादिति चेत्। नष्टानष्टव्यतिरेकेण नश्यमानाभावात्, नष्टानष्टयोश्च विहितदोषत्वान्नश्यमानादपि नास्त्युत्पत्तिरिति, कुतः कार्यकारणव्यवस्था पूर्वोत्तरक्षणव्यवस्था वा भविष्यति? यदा च पूर्वोत्तरक्षणव्यवस्था कार्यकारणव्यवस्था च नास्ति, तदा संतानोऽपि नास्ति, तदभावान्नास्ति भवतां संसार इति अनित्यानामपि संस्काराणां नास्ति संसार इति॥

अत्रैके वर्णयन्ति -सत्यं संस्कारा न संसरन्ति उत्पत्तिविधुरत्वात्, किं तर्हि सत्त्वः संसरतीति। उच्यते। सत्त्वेऽप्येष समः क्रमः। सत्त्वः संसरतीत्युच्यमाने किमसौ नित्यः संसरति, उत अनित्यः, इति विचार्यमाणे य एव संस्काराणां संसरणानुपपत्तिक्रमः, स समत्वात्सत्त्वेऽपि समो निपतति। तस्मात्सत्त्वोऽपि न संसरति॥१॥

अत्राह - नैव हि सत्त्वसंस्काराणां संसारानुपपत्तिक्रमः समो भवितुमर्हति, यस्मादिह संस्काराणां नित्यानित्यभूतानां संसरणं नास्तीत्युक्तम्। न चैवमात्मा नित्यानित्यभूतः। तस्य हि स्कन्धेभ्यस्तत्त्वान्यत्वावक्तव्यतावत् नित्यत्वेनानित्यत्वेनाप्यवक्तव्यता व्यवस्थाप्यते। तस्मादात्मैव संसरतीति न चोक्तदोषप्रसङ्ग इति। उच्यते -

पुद्गलः संसरति चेत्स्कन्धायतनधातुषु।
पञ्चधा मृग्यमाणोऽसौ नास्ति कः संसरिष्यति॥२॥

यदि पुद्गलो नाम कश्चित् स्यात्, स संसरेत्। न त्वस्ति। यस्मात् स्कन्धायतनधातुषु पञ्चधा मृग्यमाणो नास्ति। कथं कृत्वा?

इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात्।
नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु सः॥

अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयोः क्रमः॥

इत्येवं स्कन्धायतनधातुस्वभाव आत्मा न भवति। नापि तेभ्यो व्यतिरिक्तः। न स्कन्धायतनधातुमान्। न स्कन्धायतनधातुष्वात्मा। नात्मनि स्कन्धायतनधातवः। इत्येवं पञ्चधा मृग्यमाण आत्मा न संभवति पूर्वोदितेन न्यायेन। यश्चेदानीं स्कन्धायतनधातुष्वेवं विचार्यमाणः पञ्चधा न संभवति, स कथमविद्यमानः सन् संसरिष्यतीति? एवमात्मनोऽपि नास्ति संसारः, वन्ध्यासुतस्येव अविद्यमानत्वात्॥२॥

अपि च। अयमात्मा -

उपादानादुपादानं संसरन् विभवो भवेत्।
विभवश्चानुपादानः कः स किं संसरिष्यति॥ ३॥

भवतु काममात्मनः संसारः , यदि अनुपादानस्य सतोऽस्य संसारो युक्तः स्यात्। कथं पुनरस्य अनुपादानता प्रसज्यत इति प्रतिपादयन्नाह -
उपादानादुपादानं संसरन् विभवो भवेत् इति।

इह हि मनुष्योपादानाद्देवोपादानं गच्छन् परित्यज्य वा मनुष्योपादानं देवोपादानं गच्छेदपरित्यज्य वा? यदि तावत्परित्यज्य गच्छतीत्युच्यते, तदा पूर्वोपादानस्य परित्यागादुत्तरस्य
चानुपादानात्तदन्तराले विभवः स्यात्। विगतो भवो विभवः। भवः पञ्चोपादानस्कन्धाः, तद्रहितः स्यात्। यश्च विभवोऽनुपादानः, स स्कन्धरहितत्वात् प्रज्ञप्त्युपादानकारणरहितत्वान्निर्हेतुकः स्यात्। यश्च अनुपादानो निरञ्जनोऽव्यक्तो निर्हेतुकः, कः सः? न कश्चित् सः। नास्त्येव स इत्यर्थः। तस्मिंश्चासति तदभावादेव उपादानमपि निरुपादातृकं नास्तीति किं संसरिष्यति? नास्त्येव तत्, यत्संसरिष्यतीत्यर्थः। अथवा, किमित्येतत् संसरणक्रियाविशेषणम्। ततश्च अविद्यमानत्वात् नैव संसरणक्रियां करिष्यति। एवं तावत्पूर्वोपादानपरित्यागेन संसरणमयुक्तम्। अथ अपरित्यागेन, तथापि नोपपद्यते। किं कारणम्? पूर्वस्यापरित्यागादुत्तरस्य च ग्रहणाद् यस्मादेकस्यात्मनो द्वयात्मकता स्यात्। न चैतदिष्यत इति। तस्मादपरित्यागेनापि संसरणं नास्ति॥

अथ पूर्वोत्तरयोर्भवयोर्मध्ये आन्तराभविकस्कन्धसंभवात्, तैश्च सोपादानत्वात् सोपादानं संसरतोऽपि न विभवताप्रसङ्ग इति। तदपि न युक्तम्, पूर्वभवपरित्यागापरित्यागाभ्यामान्तरामविकस्कन्धसंसारेऽपि तुल्यप्रसङ्गत्वात्॥

युगपत्त्यागोपादानाददोष इति चेत्, उच्यते। किमेकदेशेन पूर्वोपादानं त्यजते एकदेशेनान्तराभवोपादानं संचरति, अथ सर्वात्मना? तत्र यदि अवयवेनेति परिकल्प्यते, तदा द्वयात्मकताप्रसङ्गादित्युक्तदोषः। अथ सर्वात्मना, एवमपि स एव विभवताप्रसङ्ग आपद्यते। एतावांस्तु विशेषः यदन्तराभवसंचारेऽतिसामीप्यात् सूक्ष्मं कालमनुपादानः स्यात्। न च सर्वात्मना एकस्य पदार्थस्य अभिन्नपदार्थस्य विषये युगपत् त्यागोपादाने दृष्टे। न हि एकस्य देवदत्तस्य सर्वात्मना गृहाद्गृहं संचरतः एकदा त्यागोपादानक्रिये द्वे संभवतः। अथ एकेन पादेन एकस्य परित्यागादपरस्य चोपादानाद् युगपत्त्यागोपादाने परिकल्प्येते, ननु एवं सति पादद्वयवद् द्वयात्मकता आत्मनः स्यात्। अंशेन पूर्वत्रावस्थानादंशेन चोत्तरत्रावस्थानादनेकावयवता प्रसज्येत। तस्माद् यौगपद्येनापि त्यागोपादाने न संभवतः इत्यपरिहार एवायम्। तस्मादन्तराभवोपादानेऽपि स एव दोषप्रसङ्ग इति सर्वथा आत्मनोऽपि नास्ति संसारः॥

यदा च संस्काराणामात्मनश्च संसारो नास्ति, तदा नास्त्येव संसार इति स्थितम्॥३॥

अत्राह - विद्यत एव संसारः, प्रतिद्वन्द्विसद्भावात्। इह यो नास्ति , न तस्य प्रतिद्वन्द्वी विद्यते, तद्यथा वन्ध्यासूनोरिति। अस्ति च संसारस्य प्रतिद्वन्द्वि निर्वाणम्। तस्मादस्ति संसार इति। उच्यते। स्यात्संसारः, यदि तत्प्रतिद्वन्द्वि निर्वाणं स्यात्। न त्वस्तीत्याह -

संस्काराणां न निर्वाणं कथंचिदुपपद्यते।
सत्त्वस्यापि न निर्वाणं कथंचिदुपपद्यते॥४॥

यदि निर्वाणं नाम किंचित् स्यात्, तत् परिकल्प्यमानं संस्काराणां नित्यानां वा परिकल्प्येत अनित्यानां वा? तत्र नित्यानामविकारिणां किं निर्वाणं कुर्यात्? अनित्यानामपि असंविद्यमानानां किं निर्वाणं कुर्यादिति सर्वं पूर्वेण तुल्यम्। न कथंचिदिति न केनापि प्रकारेणेत्यर्थः॥

अथ सत्त्वस्य निर्वाणं परिकल्प्यते, तदपि नित्यस्य वा अनित्यस्य वा पूर्ववन्नोपपद्यते॥

अथ नित्यानित्यत्वेनावाच्यस्य परिकल्प्यते, नन्वेवं सति निर्वाणेऽप्यात्मास्तीत्यभ्युपेत भवति संसार इव। अपि च। सोपादानस्यैवात्मनः अवाच्यता युज्यते। न च निर्वाणे उपादान मस्तीति कुतोऽस्य अवाच्यता? भवतु वा तत्त्वान्यत्वावाच्यता आत्मनः, अपि तु किमसौ निर्वाणेऽस्ति उत नास्ति? यदि अस्ति, तदा मोक्षेऽपि तस्य सद्भावान्नित्यता स्यात्। अथ नास्ति, तदा अनित्य आत्मा स्यात्। ततश्च तत्त्वान्यत्वावाच्यतावन्नित्यानित्यत्वेनापि आत्मनः अवक्तव्यतेति न स्यात्। अथ निर्वाणेऽपि आत्मनः अस्तित्वनास्तित्वेनावाच्यतैव इष्यते, एवमपि किमसौ विज्ञेयः, अथ न ? यदि विज्ञेयः , न तर्हि निरुपादानोऽसावात्मा निर्वाणे विज्ञेयत्वात् संसार इव। अथ न विज्ञायते, तत्रासौ अविज्ञेयस्वरूपत्वात् खपुष्पवन्नास्त्येवेति कुतोऽस्य अवाच्यता? तदेवं निर्वाणमपि नास्ति। तदभावान्नास्ति संसार इति। अत एवोक्तं भगवत्यामष्टसाहस्रिकायाम् -

निर्वाणमप्यायुष्मन् सुभूते मायोपमं स्वप्नोपमम्। बुद्धधर्मा आयुष्मन् सुभूते मायोपमाः स्वप्नोपमा इत्यादि। सचेत कुलपुत्र निर्वाणादप्यधिकतरोऽन्यो धर्मोऽभविष्यत्, तमप्यहं मायोपमं स्वप्नोपममिति वदामि॥

तथा आर्यसमाधिराजभट्टारके -
परमार्थसत्य सुपिनेन समं
निर्वाणं स्वप्नसमोतरती।
मन एवमोतरति येन विदु
मनसंवरः कथितु श्रेष्ठु अयम्॥

तथा -
निरोधसत्यं सुपिनं यथैव
स्वप्नस्वभावामथ निर्वृतिं च।
येनेह वाचोत्तरि बोधिसत्त्वो
अयं खु सो वुच्चति वाचसंवरः॥

अत्राह - यद्यपि त्वया संसारनिर्वाणे प्रतिषिद्धे, तथापि बन्धमोक्षौ विद्येते। न चाविद्यमानस्य भावस्वभावस्य बन्धमोक्षौ संभवतः। तस्माद् बन्धमोक्षसद्भावाद् विद्यत एव भावानां स्वभाव इति। उच्यते। स्याद्भावानां स्वभावः, यदि बन्धमोक्षावेव स्याताम्। न तु स्तः इत्याह -

न बध्यन्ते न मुच्यन्ते उदयव्ययधर्मिणः।
संस्काराः पूर्ववत्सत्त्वो बध्यते न न मुच्यते॥५॥

इह य इमे रागादयः क्लेशाः बद्धानामस्वतन्त्रीकरणे बन्धनमिति व्यपदिश्यते, यैश्च बद्धाः पृथग्जनाः त्रैधातुकं नातिक्रमन्तीति व्यवस्थाप्यते, तदेतद्रागादिकं बन्धनत्वेन परिकल्प्यमानमुदय व्ययधर्मिणां तावत् क्षणिकानां संस्काराणामुत्पादानन्तरध्वंसिनां नष्टानामसत्त्वान्न संभवति। रागादिबन्धनविच्छेदलक्षणोऽपि मोक्षः अनित्यानां संस्काराणामविद्यमानत्वान्नैव संभवति। पूर्ववत् पूर्वोक्तविधिनेत्यर्थः। यथा च पूर्वोक्तविधिना संस्काराणां बन्धमोक्षौ न संभवतः, एवं पूर्ववदेव सत्त्वोऽपि न बध्यते नापि मुच्यते, इत्येवं बन्धमोक्षावपि न स्तः॥५॥

अत्राह - यद्यपि संस्काराणां सत्त्वस्य वा बन्धो नास्ति, तथापि रागादिकमुपादानाख्यं बन्धनभूतमस्ति, तत्सद्भावाद्बन्धोऽपि भविष्यतीति। उच्यते। स्यादुपादानम्, बन्धनं यदि कंचित्पदार्थं बध्नीयात्, न तु बध्नाति। यथा च न बध्नाति, तथा प्रतिपादयन्नाह -

बन्धनं चेदुपादानं सोपादानो न बध्यते।
बध्यते नानुपादानः किमवस्थोऽथ बध्यते॥६॥

तत्र विद्यमानोपादानः सोपादानः, स तावद्भावो न बध्यते। यो हि सोपादानः, स बद्ध एव। तस्य पुनरपि बन्धनयोगः किं कुर्यात्? यश्चापि अनुपादानः बन्धनरहितः, असावपि बन्धनरहितत्वात् तथागतवन्न बध्यते। अनुपादानः बन्धनरहितः बध्यत इति परस्परविरुद्धत्वाच्चायुक्तमेतत्। यश्चैवं निरूप्यमाणः सोपादानो निरुपादानो वा न बध्यते, स इदानीं किमवस्थो बध्यताम्? नास्त्येवासौ काचिदपरा अस्यावस्था, यस्यां बध्येतेत्यभिप्रायः। यदा चैवं निरूप्यमाणं बन्धनं न कंचिदपि बध्नाति, तदा कंचिदप्यबध्नत उपादानस्य रागादेः कुतो बन्धनत्वमिति। तस्माद् बन्धनमपि नास्ति॥६॥

अपि च।

बध्नीयाद्बन्धनं कामं बन्ध्यात्पूर्वं भवेद्यदि।
न चास्ति तत्

इह बन्ध्यव्यतिरेकेण बन्धनं निगडादिकं पूर्वसिद्धं सत् बन्ध्यं देवदत्तं बध्नातीति दृष्टम्। एवं यदि बन्ध्येभ्यः संस्कारेभ्यः पुद्गलाद्वा बन्ध्यात्पूर्वं रागादिकं बन्धनं सिद्धं स्यात्, तेन पूर्वसिद्धेन बन्धनं स्यात् संस्काराणां पुद्गलस्य वा। तच्चैतन्न संभवति निराश्रयस्य रागादिकस्य असिद्धत्वात्। पूर्वसिद्धस्य च बन्धनस्य पश्चाद् बन्ध्येन सह संबन्धस्य निष्प्रयोजनत्वात्।

बन्ध्यस्य च बन्धनात्पृथक्सिद्धस्य पूवबन्धनापेक्षानिष्प्रयोजनत्वाच्च नास्ति बन्ध्याद्बन्धनस्य पूर्वसिद्धिः। तस्मान्नैव बन्धनं कंचिदपि बध्नाति। न च कंचिदप्यबध्नतो बन्धनत्वं युक्तमिति नास्ति बन्धनम्। बन्धनाभावाच्च बन्ध्योऽपि नास्तीति सिद्धम्। यत्पुनरत्र शेषं दूषणं तत् -

शेषमुक्तं गम्यमानगतागतैः॥७॥

इति वेदितव्यम्। श्लोकपाठपरिवर्तनेन -

बद्धो न बध्यते तावदबद्धो नैव बध्यते।
बद्धाबद्धविनिर्मुक्तो बध्यमानो न बध्यते॥

इत्यादिना योज्यम्॥७॥

अत्राह - यद्यपि भवता बन्धनं प्रतिषिद्धम्, तथापि संसारचारकागारावबद्धानामत्राणानां सत्त्वानां महाकारुणिकैस्तथागतैः शीलसमाधिप्रज्ञात्मकरकन्धत्रयोपदेशो यदर्थमुक्तः, स तावन्मोक्षोऽस्ति। न च अबद्धस्य पुंसो मोक्षः। तस्माद् बन्धोऽप्यस्तीति। उच्यते। स्याद्बन्ध यदि मोक्ष एव स्यात्। इहायं मोक्षः परिकल्प्यमानः बद्धस्य वा परिकल्प्येत अबद्धस्य वा? किचातः? उभयथा च न युज्यत इत्याह -

बद्धो न मुच्यते तावदबद्धो नैव मुच्यते।
स्यातां बद्धे मुच्यमाने युगपद्बन्धमोक्षणे॥८॥

तत्र बद्धस्य मोक्षो न संभवति बद्धत्वात्। अथ बद्धस्य पश्चादुपायेन मोक्ष इति कृत्वा बद्ध एव मुच्यते इति स्यात्, न तर्हि बद्धो मुच्यत इति वक्तव्यम्, किं तर्हि मोक्ष्यत इति। वर्तमानसामीप्यादेव मुच्यत इति चेत्, यदि कदाचिदपि मोक्षः संभवेत्, तदा समीपे स्यात् यदा तु कस्यांचिदप्यवस्थायां मोक्षे इष्यमाणे बद्धस्य मोक्षासंभवेन मोक्षाभावः प्रतिपिपादयिषित तदा कुतो वर्तमानसमीपता? एवं तावद् बद्धो न मुच्यते इति स्थितम्॥

इदानीमबद्धोऽपि न मुच्यते। स हि मुक्त एव। तस्य पुनरपि मोक्षः किं कुर्यात्। मुक्तानां चार्हतां पुनरपि मोक्षापेक्षत्वाद् बद्धतैव स्यात्, ततश्चार्हतोऽपि बन्धः स्यात्॥

अथ स्यात् - अबद्धस्य मोक्षासंभवाद् बद्ध एव मुच्यते इति, एवं सति बद्धे मुच्यमाने परिकल्प्यमाने बद्धत्वान्मुच्यमानत्वाच्च यौगपद्येन बन्धमोक्षणे स्याताम्। न च परस्परविरुद्ध त्वादालोकान्धकारवदेकस्मिन् काले बन्धमोक्षणे उपपद्येते। यतश्चैवं बद्धाबद्धयोर्मोक्षासंभव, तस्मान्मोक्षोऽपि नास्ति, तदभावाच्च बन्धनमपि नास्तीति सिद्धम्॥

अत्राह - यदि भवतैव संसारनिर्वाणे निषिद्धे, बन्धमोक्षौ च प्रतिषिद्धौ, य एष संसार विनिर्मुमुक्षूणामविद्यासान्द्रान्धकारविविधकुदर्शनकठिनातिदीर्घलतासंछादितसत्पथं जात्यादिविविधा पर्यन्तव्यसनानिष्टतरविपुलविपाकफलदानुशयविषवृक्षसंकुलं विंशतिशिखरसमुन्नततरातिपृथुसत्काय दृष्टिमहाशैलपरिवेष्टितसर्वदिङ्मुखं विषयसुखाशातिपिच्छिलविपुलमहातटविवरवाहितृष्णानदीमहापरिखं संसारमहाटवीकान्तारं निस्तितीर्षूणां परमाश्वासकरः कुशलो महाधर्मच्छन्दः, कदा नु खल्वहमनुपादानो निर्वास्यामि, कदा नु मे निर्वाणं भविष्यतीति, ननु स व्यर्थक एव संजायते, यश्चाप्येवमुत्पादितकुशलामलविपुलधर्मच्छन्दानां कल्याणमित्रसंसेवादानशीलश्रुतचिन्ताभावनादिक्रमो निर्वाणप्राप्तये, ननु तम्यापि वैयर्थ्यं स्यादिति उच्यते। यो ह्येवं निःस्वभावेषु सर्वभावेषु प्रतिबिम्बमरीचिकाजलालातचक्रस्वप्नमायेन्द्रजालसदृशेषु आत्मात्मीयस्वभावरहितेषु विपर्यासमात्रानुगमात् तामेव सत्कायदृष्टिम् अहं ममेत्यहंकारममकारसमुदाचारपरिग्रहेणोत्पाद्य मन्यते -

निर्वास्याम्यनुपादानो निर्वाणं मे भविष्यति।
इति येषां ग्रहस्तेषामुपादानमहाग्रहः॥९॥

अहमनुपादानः सर्वोपादानरहितो निर्वास्यामि, मम चैवं प्रतिपन्नस्य निर्वाणं भविष्यतीति, एवं येषां मुमुक्षूणां ग्राहो भवति, ननु तदेव अहंकारममकाराख्यं सत्कायदृष्टयुपादानमेषां महाग्रहो भवति, न चैवंविधमहाग्रहाभिनिविष्टानां शान्तिः संभाव्यते। निरवशेषग्रहप्रहाणेनैव मोक्षावाप्तये यावदहंममेति ग्राहाभिनिवेशः, यावच्च निर्वाणं नाम अस्तीति ग्राहाभिनिवेशः, यावच्च उपादान त्यागाभिनिवेशः, तावन्नियतमेव अनुपायेन निर्वाणं प्रार्थयतां सर्व एवारम्भा व्यर्था भवन्ति। तस्मान्मुमुक्षुणा सर्वमेतत् परित्याज्यम्। यथोक्तं भगवता आर्यध्यायितमुष्टिसूत्रे -

अथ खलु भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत् - चतुर्णामार्यसत्यानां यथाभूतार्थादर्शनाच्चतुर्भिर्विपर्यासैर्विपर्यस्तचित्ताः सत्वाः एवमिममभूतं संसारं नातिक्रामन्ति। एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् - देशयतु भगवान् कस्योपलम्भतः सत्त्वाः संसारं नातिक्रामन्ति। भगवानाह - आत्मात्मीयोपलम्भान्मञ्जुश्रीः सत्त्वाः संसारं नातिक्रामन्ति। तत् कस्य हेतोः? यो हि मञ्जुश्रीरात्मानं परं च समनुपश्यति, तस्य कर्माभिसंस्कारा भवन्ति। बालो मञ्जुश्रीरश्रुतवान् पृथग्जनः अत्यन्तापरिनिर्वृतान् सर्वधर्मानप्रजानानः आत्मानं परं च उपलभते। उपलभ्य अभिनिविशते। अभिनिविष्टः सन् रज्यते दुष्यते मुह्यते। स रक्तो दुष्टो मूढः सन् त्रिविधं कर्म अभिसंस्करोति कायेन वाचा मनसा। सः असत्समारोपेण विकल्पयति - अहं रक्तः, अहं द्विष्टः, अहं मूढः इति। तस्य तथागतशासने प्रव्रजितस्य एवं भवति - अहं शीलवान्, अहं ब्रह्मचारीति। अहं संसारं समतिक्रमिष्यामि। अहं निर्वाणमनुप्राप्स्यामि। अहं दुःखेभ्यो मोक्ष्यामि। स विकल्पयति -इमे कुशला धर्माः, इमे ऽकुशला धर्माः, इमे धर्माः प्रहातव्याः, इमे धर्माः साक्षात्कर्तव्याः , दुःखं परिज्ञातव्यम्, समुदयः प्रहातव्यः, निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्यः। स विकल्पयति - अनित्याः सर्वसंस्काराः, आदीप्ताः सर्वसंस्काराः, यन्न्वहं सर्वसंस्कारेभ्यः पलायेयम्। तस्य एवमवेक्षमाणस्य उत्पद्यते निर्वित्सहगतो मनसिकारः अनिमित्तपुरोगतः। तस्यैवं भवति - एषा सा दुःखपरिज्ञा
येयमेषां धर्माणां परिज्ञा। तस्यैवं भवति - यन्न्वहं समुदयं प्रजहेयम्। स एभ्यो धर्मेभ्य आर्तीयते जेह्रीयते वितरति विजुगुप्सते उत्त्रस्यति संत्रस्यति संत्रासमापद्यते। तस्यैवं भवति - इयमेषां धर्माणां साक्षात्क्रिया। इदं समुदयप्रहाणं यदिदमेभ्यो धर्मेभ्योऽर्तीयना विजुगुप्सना। तस्यैव भवति - निरोधः साक्षात्कर्तव्यः। समुदयं कल्पयित्वा निरोधे संजानाति। तस्यैवं भवति - एषा सा निरोधसाक्षात्क्रिया। तस्यैवं भवति - यन्नूनमहं मार्गं भावयेयम्। स एको रहोगतः तान् धर्मान् मनसि कुर्वन् शमथं प्रतिलभते। तस्य तेन निर्वित्सहगतेन मनसिकारेण शमथ उत्पद्यते। तस्य सर्वधर्मेषु चित्तं प्रतिलीयते प्रतिवहति प्रत्युदावर्तते, तेभ्यश्चार्तीयते जेह्रीयते, अनभिनन्दनाचित्तमुत्पद्यते। तस्यैवं भवति - मुक्तोऽस्मि सर्वदुःखेभ्यः। न मम भूय उत्तरिं किंचित्करणीयम्। अर्हन्नस्मि। इत्यात्मानं संजानाति। समरणकालसमये उत्पत्तिमात्मनः समनुपश्यति। तस्य काङ्क्षा च विचिकित्सा च भवति बुद्धबोधौ। स विचिकित्सापतितः कालगतो महानिरयेषु प्रपतति। तत्कस्य हेतोः? यथापीदमनुत्पन्नान् सर्वधर्मान् विकल्पयित्वा तथागते विचिकित्सां विमतिं चोत्पादयति॥

अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् - कथं पुनर्भगवंश्चत्वारि आर्यसत्यानि द्रष्टव्यानि? भगवानाह - येन मञ्जुश्रीरनुत्पन्नाः सर्वसंस्कारा दृष्टाः, तेन दुःखं परिज्ञातम्। येन असमुत्थिताः सर्वधर्मा दृष्टाः, तस्य समुदयः प्रहीणः। येन अत्यन्तपरिनिर्वृताः सर्वधर्मा दृष्टाः, तेन निरोधः साक्षात्कृतः। येन अत्यन्तशून्याः सर्वधर्मा दृष्टाः, तेन मार्गो भावितः। येन मञ्जुश्रीरेवं चत्वारि आर्यसत्यानि दृष्टानि, स न कल्पयति न विकल्पयति - इमे कुशला धर्माः, इमेऽकुशला धर्माः। इमे धर्माः प्रहातव्याः, इमे धर्माः साक्षात्कर्तव्याः। दुःखं परिज्ञातव्यम्। समुदयः प्रहातव्यः, निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्य इति। तत्कस्य हेतो? तथाहि स तं धर्मं न समनुपश्यति यं परिकल्पयेत्। बालपृथग्जनास्तु एतान् धर्मान् कल्पयन्तो रज्यन्ति च द्विषन्ति च मुह्यन्ति च। स न कंचिद्धर्ममाव्यूहति निर्व्यूहति। तस्य एवमनाव्यूहतोऽनिर्व्यूहतः त्रैधातुके चित्त न सज्जति, अजात सर्वत्रैधातुकं समनुपश्यति॥ इति विस्तरः॥९॥

अत एव अस्मादागमात् परमार्थसत्य उच्यते -
न निर्वाणसमारोपो न संसारापकर्षणम्।
यत्र कस्तत्र संसारो निर्वाणं किं विकल्प्यते॥१०॥

यत्र हि नाम परमार्थसत्ये नैवं न निर्वाणसमारोपः न निर्वाणाध्यारोपः संभवति, अनुपलभ्यमानत्वात्, नापि संसारापकर्षणं संसारपरिक्षयो न संभवति, कस्तत्र संसारः यो विकल्प्यते क्षयार्थम्, किं वा तत्र निर्वाणं यत्प्राप्यर्थं विकल्प्यते? अथवा। यत्र निर्वाणे कस्यचित् सत्त्वस्य संसारादपकर्षणमपनयनं निर्वाणे च समारोपणं प्रयत्नवतापि न शक्यते कर्तुं संसारनिर्वाणयोरप्यनुपलभ्यमानत्वात्, तत्र किं निर्वाणं विकल्प्यते? नैव हि किंचिद्विकल्पयितुं युक्तम्। अविकल्पयतश्च नियतं यथोदितसंसाराटवीकान्तारातिक्रमो निर्वाणपुरप्राप्तिश्च भविष्यतीति। अत एवोक्तमार्यमारदमनसूत्रे -

अथ मञ्जुश्रीः कुमारभूतः तस्यां वेलायां तथारूपं समन्वाहारं समन्वाहरति स्म, यन्मारः पापीयानिन्द्रकीलबन्धनबद्धो धरणीतलप्रपतितः उत्क्रोशति स्म- गाढबन्धनबद्धोऽस्मि। मञ्जुश्रीराह - अस्ति पापीयन्नेतस्माद्बन्धनाद्गाढतरं बन्धनं येन त्वं नित्यबद्धो न पुनर्बध्यसे? तत्पुनः कतमत्? यदिदमस्मिमानविपर्यासबन्धनं तृष्णादृष्टिबन्धनम्, इदं पापीयन् बन्धनम्। अतो बन्धनाद् गाढतरं बन्धनं न संविद्यते। तेन त्वं नित्यबद्धो न पुनर्बध्यसे। पेयालम्। आह - किं त्वं पापीयन्नात्तमना भूयाः यदि मुच्येथाः। आह - आत्तमना भवेयम्, परमात्तमना भवेयम्॥

अथ खलु सुयामो देवपुत्रो मञ्जुश्रियं कुमारभूतमेतदवोचत् - उत्सृज मञ्जुश्रीर्मारं पापीयांसम्। गच्छतु स्वभवनम्। अथ खलु मञ्जुश्रीः कुमारभूतो मारं पापीयांसमेतदवोचत् - केनासि पापीयन् बद्धो यदात्मानमुत्सृजसि? आह - न जाने मञ्जुश्रीः - केनास्मि बद्धः इति। आह - यथा त्वं पापीयन् अबद्धो बद्धसंज्ञी, एवमेव सर्वबालपृथग्जना अनित्ये नित्यसंज्ञिनः, दुःखेऽदुःख संज्ञिनः, अशुभे शुभसंज्ञिनः, अनात्मनि आत्मसंज्ञिनः, अरूपे रूपसंज्ञिनः, अवेदनायां वेदनासंज्ञिनः, असंज्ञायां संज्ञासंज्ञिनः, असंस्कारे संस्कारसंज्ञिनः, अविज्ञाने विज्ञानसंज्ञिनः। अपि तु खलु पुनः पापीयन्, यस्त्वं मोक्ष्यसे, कुतो मोक्ष्यसे? आह - नाहं जाने कुतश्चिन्मोक्ष्ये। आह -एवमेव पापीयन् येऽपि मोक्ष्यन्ते, नते कुतश्चिद्विमोक्ष्यन्ते, अन्यत्र या असौ असद्भूतसंज्ञा। तां परिजानन्ति, तां परिज्ञाय विमुक्ता इत्युच्यन्ते॥इति॥

अत एव आगमाद् असद्विपर्यासकल्पनामात्रलताबन्धनविच्छेदो विमोक्षो निर्वाणमित्युच्यते स्वप्नोपलब्धदहनज्वालानिर्वापणवत् तदनिलसलिलैरिति॥१०॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
बन्धमोक्षपरीक्षा नाम षोडशमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project