Digital Sanskrit Buddhist Canon

पञ्चदशमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Pañcadaśamaṁ prakaraṇam
स्वभावपरीक्षा पञ्चदशमं प्रकरणम्।

अत्राह -विद्यत एव भावानां स्वभावः, तन्निष्पादकहेतुप्रत्ययोपादानात्। इह यन्नास्ति न तस्य निष्पादकहेतुप्रत्ययोपादानमस्ति यथा खपुष्पस्य। उपादीयन्ते च बीजाविद्यादयो हेतुप्रत्यया अङ्करसंस्कारादीनां निष्पादकाः , इत्यतो विद्यत एव भावस्वभाव इति। उच्यते। यदि भावानां संस्काराङ्कुरादीनां स्वभावोऽस्ति, किमिदानीं विद्यमानानां हेतुप्रत्ययैः प्रयोजनम्। यथा वर्तमानीभूतानां संस्काराङ्कुरादीनां भूयोनिष्पत्तये अविद्याबीजादीनामुपादानं क्रियते एवमन्यदपि तदुत्पत्तये न कर्तव्यं स्यात्, तत्स्वभावस्य विद्यमानत्वादिति प्रतिपादयन्नाह -

न संभवः स्वभावस्य युक्तः प्रत्ययहेतुभिः।

अथ स्यात् - नैवोत्पादात्पूर्वं कस्यचिद्भावस्य स्वभावोऽस्ति यतोऽस्य विद्यमानत्वादुत्पत्ति वैयर्थ्यं स्यात्, किं तर्हि उत्पादात्पूर्वमविद्यमानस्यैव स्वभावस्य हेतुप्रत्ययान् प्रतीत्य पश्चादुत्पादो भवतीति। एवमपीष्यमाणे -

हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत्॥१॥

अथ स्यात् - इष्यत एव हेतुप्रत्ययसंभूतत्वात्स्वभावस्य कृतकत्वम्, तस्मात्कृतकस्यैव स्वभावस्याभ्युपगमात् कृतकत्वप्रसङ्गो नास्माकं बाधक इति , एतदपि न युक्तमित्याह -
स्वभावः कृतको नाम भविष्यति पुनः कथम्।

कृतकश्चेति स्वभावश्चेति परस्परविरुद्धत्वादसंगतार्थमेतत्। इह हि स्वो भावः स्वभाव इति व्युत्पत्तेः, यः कृतकः पदार्थः, स लोके नैव स्वभाव इति व्यपदिश्यते, तद्यथा अपामौष्प्यं धातुपिशाचप्रत्ययनिष्पादितः कर्केटनादीनां पद्मरागादिभावश्च। यस्तु अकृतकः स स्वभावः, तद्यथा अग्नेरौष्ण्यं जातानां पद्मरागादीनां पद्मरागादिस्वभावश्च। स हि तेषां पदार्थान्तरः संपर्काजनितत्वात्स्वभाव इत्युच्यते। तदेवमकृतकः स्वभाव इति लोकव्यवहारे व्यवस्थिते वयमिदानीं ब्रूमः - यदेतदौष्ण्यं तदष्यग्नेः स्वभावो न भवतीति गृह्यतां कृतकत्वात् , इह मणीन्धनादित्य समागमादरणिनिर्धर्षणादेश्च अग्नेर्हेतुप्रत्ययसापेक्षतैव उपलभ्यते। न च अग्निव्यतिरिक्तमौष्ण्यं संभवति। तस्मादौष्ण्यमपि हेतुप्रत्ययजनितम्, ततश्च कृतकम्, कृतकत्वाच्चापामौष्ण्यवत् स्वभावो नैव भवतीति स्फुटमवसीयते॥

ननु च ग्प्पालाङ्गनाजनप्रसिद्धमेतद् अग्नेरौष्ण्यं स्वभाव इति। किं खलु अस्माभिरुक्तं न प्रसिद्धमिति? एतत्तु वयं ब्रूमः - नायं स्वभावो भवितुमर्हति स्वभावलक्षणवियुक्तत्वात्। अविद्याविपर्यासानुगमात्तु लोको निःस्वभावमेव भावजातं सस्वभावत्वेन प्रतिपन्नः। यथा हि तैमिरिकाः तिमिरप्रत्ययादसन्तमेव केशादिस्वभावं सस्वभावत्वेनाभिनिविष्टाः, एवमविद्यातिमिरोपहतमतिनयनतया बाला निःस्वभावं भावजातं सस्वभावत्वेनाभिनिविष्टा यथाभिनिवेशं लक्षणमाचक्षते अग्नेरौष्ण्यं स्वलक्षणम्। ततोऽन्यत्रानुपलम्भादसाधारणत्वेन स्वमेव लक्षणमिति कृत्वा। बालजनप्रसिद्धयैव च भगवता तदेवैषां सांवृतं स्वरूपमभिधर्मे व्यवस्थापितम्। साधारणं त्वनित्यत्वादिकं सामान्यलक्षणमिति चोक्तम्। यदा तु विगताविद्यातिमिरावदातप्रज्ञाचक्षुषां दर्शनमपेक्ष्यते, तदा वितिमिरैः तैमिरिकोपलब्धकेशादर्शनवत् बालजनमतिपरिकल्पितानुपलब्धस्वभावैरार्यैः पुर उच्यते परहितव्यापारैः, नायं स्वभावो भावानामिति। यथोक्तमार्यलङ्कावतारसूत्रे -

केशोण्डुकं यथा मिथ्या गृह्यते तैमिरिकैर्जनैः।
तथा भावविकल्पोऽयं मिथ्या बालैर्विकल्प्यते॥
न स्वभावो न विज्ञप्तिर्न च वस्तु न चालयः।
बालैर्विकल्पिता ह्येते शवभूतैः कुतार्किकैः॥इति।

तथा -
स्वभावानुत्पत्तिं संधाय महामते मया सर्वधर्मा अनुत्पन्ना इत्युक्ताः॥ इति विस्तरः॥

अत्राह - यदि खलु इदमग्न्यादेरौष्ण्यादिकं हेतुप्रत्ययसंभूतत्वेन कृतकत्वान्निःस्वभावमित्युच्यते, किमिदानीं तत्स्वभावस्य लक्षणं कश्चासौ स्वभाव इति वक्तव्यम्। उच्यते -

अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च॥२॥

इह स्वो भावः स्वभाव इति यस्य पदार्थस्य यदात्मीयं रूपं तत्तस्य स्वभाव इति व्यपदिश्यते। किं च कस्यात्मीयं यद्यस्याकृत्रिमम्, यत्तु कृत्रिमं न तत्तस्यात्मीयं तद्यथा अपामौष्ण्यम्। यच्च यस्यायत्तं तदपि तदात्मीयं तद्यथा स्वे भृत्याः, स्वानि धनानि। यत्तु यस्य परायत्तं न तत्तस्यात्मीयं तद्यथा तावत्कालिकायाचितकमस्वतन्त्रम्। यतश्चैवं कृत्रिमस्य परसापेक्षस्य च स्वभावत्वं नेष्टम्, अत एव औष्ण्यमग्नेर्हेतुप्रत्ययप्रतिबद्धत्वात्पूर्वंमभूत्वा पश्चादुत्पादेन कृतकत्वान्न स्वभाव इति युज्यते। यतश्चैतदेवम्, अतो यदेवाग्नेः कालत्रयेऽप्यव्यभिचारि निजं रूपमकृत्रिमम्, पूर्वमभूत्वा पश्चाद्यन्न भवति, यच्च हेतुप्रत्ययसापेक्षं न भवति अपामौष्ण्यवत् पारावारवत् दीर्घह्रस्ववद्वा, तत् स्वभाव इति व्यपदिश्यते। किं खलु अग्नेः तदित्थं स्वरूपमस्ति? न तदस्ति, न चापि नास्ति स्वरूपतः। यद्यपि एवम्, तथापि श्रोतृणामुत्त्रासपरिवर्जनार्थं संवृत्या समारोप्य तदस्तीति ब्रूमः। यथोक्तं भगवता -

अनक्षरस्य धर्मस्य श्रुतिः का देशना च का।
श्रूयते देश्यते चापि समारोपादनक्षरः॥इति।

इहापि च वक्ष्यति-
शून्यमिति न वक्तव्यमशून्यमिति वा भवेत्।
उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते॥

यदि खलु तदध्यारोपाद्भवद्भिरस्तीत्युच्यते, कीदृशं तत्? या सा धर्माणां धर्मता नाम, सैव तत्स्वरूपम्। अथ केयं धर्माणां धर्मता? धर्माणां स्वभावः। कोऽयं स्वभावः ? प्रकृतिः। का चेयं प्रकृतिः? येयं शून्यता। केयं शून्यता? नैःस्वाभाव्यम्। किमिदं नैःस्वाभाव्यम्? तथता। केयं तथता? तथाभावोऽविकारित्वं सदैव स्थायिता। सर्वथानुत्पाद एव ह्यग्न्यादीनां परनिरपेक्षत्वादकृत्रिमत्वात्स्वभाव इत्युच्यते॥

एतदुक्तं भवति - अविद्यातिमिरप्रभावोपलब्धं भावजातं येनात्मना विगताविद्यातिमिराणामार्याणामदर्शनयोगेन विषयत्वमुपयाति, तदेव स्वरूपमेषां स्वभाव इति व्यवस्थाप्यते। तस्य चेदं लक्षणम् -

अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च।
इति व्यवस्थापयांबभूवुराचार्या इति विज्ञेयम्। स चैष भावानामनुत्पादात्मकः स्वभाव अकिंचित्त्वेन अभावमात्रत्वादस्वभाव एवेति कृत्वा नास्ति भावस्वभाव इति विज्ञेयम्। यथोक्तं भगवता -

भावानभावानिति यः प्रजानति
स सर्वभावेषु न जातु सज्जते।
यः सर्वभावेषु न जातु सज्जते
स आनिमित्तं स्पृशते समाधिम्॥

इति॥२॥

अत्राह - यद्यपि स्वभावो नास्ति भावानाम्, तथापि परभावस्तावदस्ति, तदप्रतिषेधात् सति च परभावे स्वभावोऽपि भविष्यति। स्वभावमन्तरेण परभावाप्रसिद्धेरिति। उच्यते -

कुतः स्वभावस्याभावे परभावो भविष्यति।
स्वभावः परभावस्य परभावो हि कथ्यते॥३॥

इह स्वभाव एव हि लोके कश्चित्स्वभावान्तरापेक्षया पर इति व्यपदिश्यते। यदि हि अग्नेरौष्ण्यं स्वभावः स्यात्, द्रवस्वभावसलिलसापेक्षया परभाव इति व्यपदिश्येत। यदा तु मुमुक्षुभिर्विचार्यमाणस्य कस्यचित्स्वभाव एव नास्ति, तदा कुतः परत्वं स्यात्? परभावाच्च स्वभावोऽपि नास्ति इति सिद्धम्॥३॥

अत्राह - यद्यपि स्वभावपरभावौ न स्तः, तथापि भावस्तावदस्ति, अप्रतिषेधात्। स च भावो भवन् स्वभावो वा भवेत्, परभावो वा। तस्मात्स्वभावपरभावावपि भविष्यत इति। उच्यते -

स्वभावपरभावाभ्यामृते भावः कुतः पुनः।
स्वभावे परभावे वा सति भावो हि सिध्यति॥४॥

भावो हि परिकल्प्यमानः स्वभावो वा भवेत्, परभावो वा। तौ च पूर्वोक्तविधिना न स्तः, इति तयोरभावाद्भावोऽपि नास्तीत्यवधार्यताम्॥४॥

अत्राह - यद्यपि भवता भावः प्रतिषिद्धः , तथाप्यभावोऽस्ति, प्रतिषेधाभावात्। ततश्च भावोऽपि भविष्यति प्रतिद्वन्द्विसद्भावात्, अभाववदिति। उच्यते। स्याद्भावः, यदि अभाव एव स्यात्। न त्वस्तीत्याह -

भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति।
भावस्य ह्यन्यथाभावमभावं व्रुवते जनाः॥५॥

इह हि यदि भावो नाम कश्चिदभविष्यत्, स्यात्तस्यान्यथाभावादभावः। घटादयो हि वर्तमानावस्थायाः प्रच्युताः सन्तः अन्यथाभावमापन्नाः अभावध्वनिवाच्या भवन्ति लोके। यदा त्वमी घटादयो भावरूपत्वेनैवासिद्धाः, तदा कुतोऽविद्यमानस्वभावानामन्यथात्वमिति। अतः अभावोऽपि नास्ति॥५॥

तदेवं सर्वथा स्वभावपरभावभावाभावेषु अनुपपद्यमानेषु अविद्यातिमिरोपहतमतिनयनतया विपरीतम् -

स्वभावं परभावं च भावं चाभावमेव च।
ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने॥६॥

ये हि तथागतप्रवचनाविपरीतव्याख्यानाभिमानितया पृथिव्याः काठिन्यं स्वभावः, वेदनाया विषयानुभवः, विज्ञानस्य विषयप्रतिविज्ञप्तिः स्वभावः, इत्येवं स्वभावं भावानां वर्णयन्ति, अन्य द्विज्ञानम्, अन्यद्रूपम्, अन्यैव च वेदना, इत्येवं परभावं वर्णयन्ति, वर्तमानावस्थं च विज्ञानादिकं भावत्वेन ये वर्णयन्ति, विज्ञानादिकमेव च अतीततामापन्नमभाव इति, न ते परमगम्भीरस्य प्रतीत्यसमुत्पादस्य तत्त्वं वर्णयन्ति। यस्माद्यथोदितोपपत्तिविरुद्धं स्वभावपरभावादीनामस्तित्वम्, न चोपपत्तिविरुद्धं पदार्थस्वभावमनुवर्णयन्ति तथागताः। स्वयमविपरीताशेषपदार्थतत्त्वसंबोधात्। अत एव बुद्धानामेव भगवतां वचनं प्रमाणमित्युपवर्णयन्ति विचक्षणाः, सोपपत्तिकत्वेनाविसंवादकत्वात्। अत एव च आप्तेभ्यः प्रहीणाशेषदोषेभ्य आगतत्वात्, आगमयतीति समन्तात् तत्त्वं गमयतीति वा, आमिमुख्याद्गमनाद्वा तदाश्रयेण लोकस्य निर्वाणगमनात् संबुद्धवचनस्यैव आगमत्वं व्यवस्थाप्यते। तदन्यमतानां तु उपपत्तिवियुक्तत्वान्न प्रामाण्यम्, आगमाभासत्वं च व्यवस्थाप्यते॥६॥

यस्माच्च एतानि स्वभावपरभावभावाभावदर्शनानि युक्तिविधुरत्वान्न तत्त्वानि, अत एव मुमुक्षूणां विनेयजनानाम् -
कात्यायनाववादे चास्तीति नास्तीति चोभयम्।
प्रतिषिद्धं भगवता भावाभावविभाविना॥७॥

उक्तं हि भगवता आर्यकात्यायनाववादसूत्रे -

यद्भूयसा कात्यायन अयं लोकोऽस्तितां वा अभिनिविष्टो नास्तितां च। तेन न परिमुच्यते। जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो न परिमुच्यते। पाञ्चगतिकात्संसारचारकागारबन्धनान्न परिमुच्यते। मातृमरणसंतापदुःखान्न परिमुच्यते। पितृमरणसंतापदुःखादिति विस्तरः॥

इदं च सूत्रं सर्वनिकायेषु पठयते। तदस्मादागमात् यथोपवर्णितायाश्चोपपत्तेर्नार्हति प्राज्ञस्वभावपरभावभावाभावदर्शनं तथागतवचनादत्यन्तविरुद्धमास्थातुम्। भगवता प्रतिषिद्धत्वात् । किंविशिष्टेन भगवता? भावाभावविभाविना। भावाभावौ विभावयितुं शीलमस्येति भावाभावविभावी। यथावस्थितभावाभावाविपरीतस्वभावपरिज्ञानाद् भावाभावविभावीति भगवानेवोच्यते। तेन भगवता भावाभावविभाविना यस्मादस्तित्वंच नास्तित्वं च उभयमेतत् प्रतिषिद्धम्, तस्मान्न युक्तं भावाभावदर्शनं तत्त्वमित्यास्थातुम्॥

तथा -

अस्तीति काश्यप अयमेकोऽन्तः। नास्तीति काश्यप अयमेकोऽन्तः। यदेनयोरन्तयो र्मध्यम्, तदरूप्यमनिदर्शनमप्रतिष्ठमनाभासमनिकेतमविज्ञप्तिकम्। इयमुच्यते काश्यप मध्यमां प्रतिपद् भूतप्रत्यवेक्षा इति॥

तथा -

अस्तीति नास्तीति उभेऽपि अन्ता
शुद्धी अशुद्धीति इमेऽपि अन्ता।
तस्मादुभे अन्त विवर्जयित्वा
मध्येऽपि स्थानं न करोति पण्डितः॥
अस्तीति नास्तीति विवाद एषः
शुद्धी अशुद्धीति अयं विवादः।
विवादप्राप्त्या न दुःखं प्रशाम्यति
अविवादप्राप्त्या च दुःखं निरुध्यते॥इति।

अत्राह - यदि पुनरेवमग्न्यादीनां स्वभावत एवास्तित्वं स्यात्, को दोषः स्यात्? उक्तदोषः -

हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत्।

इत्यादिना॥७॥

अपि च। यदि अयमेषामग्न्यादीनां स्वभावः स्यात्, तस्य विद्यमानस्य सतो न स्यात् पुनरन्यथात्वमिति प्रतिपादयन्नाह -

यद्यस्तित्वं प्रकृत्या स्यान्न भवेदस्य नास्तिता।

यदि अग्न्यादेर्भावस्य प्रकृत्या स्वभावतोऽस्तित्वम्, तदा अस्य स्वभावस्य प्रकृत्या विद्यमानस्य पुनरन्यथात्वं न स्यात्। यस्मात् -
प्रकृतेरन्यथाभावो न हि जातूपपद्यते॥८॥

यदि एषामग्न्यादीनामियमेव प्रकृतिः स्यात्, स्वभावः स्यात्, तदा प्रकृतेरविकारिणीत्वान्न कदाचित्पुनरन्यथाभाव उपपद्येत। न हि आकाशस्यानावरणत्वं कदाचिदप्यन्यथात्वं प्रतिपद्यते। एवमग्न्यादीनामपि प्रकृत्या विद्यमानानां पुनरन्यथात्वं न स्यात्। उपलभते च भवानेषामन्यथात्व प्रबन्धोपरमलक्षणं विनाशम्। तस्माद्विपरिणामधर्मित्वादपामौष्ण्यवत् नायमेषां स्वभाव इति प्रतीयताम्॥८॥

अत्राह - यदि प्रकृत्या विद्यमानस्यान्यथात्वासंभवादन्यथात्वस्य च उपलभ्यमानत्वात् प्रकृतिरेषां भावानां नास्तीत्युच्यते, ननु च एवमपि -

प्रकृतौ कस्य चासत्यामन्यथात्वं भविष्यति।

कस्य इदानीं प्रकृत्या स्वरूपेणाविद्यमानस्य खपुष्पस्येव अन्यथात्वं भविष्यति? तस्मादविद्यमानप्रकृतिकस्य अन्यथात्वानुपलम्भात्, अन्यथात्वस्य च दर्शनात्, अस्त्येव स्वभाव इति। उच्यते। यदि तावकेन मतेन प्रकृत्या स्वभावेन असंविद्यमानस्य अन्यथात्वाभावाद् अन्यथात्वस्य च दर्शनात्प्रकृतिरित्युच्यते, एवमपि -

प्रकृतौ कस्य च सत्यामन्यथात्वं भविष्यति॥९॥

कस्येदानीं प्रकृत्या स्वभावेन विद्यमानस्य वर्तमानस्यैव अन्यथात्वं भविष्यति? तस्मात् प्रकृत्या विद्यमानस्य अन्यथात्वं नास्तीति सर्वथा अन्यथात्वासंभव एव। ततश्च नास्ति प्रकृतिर्भावानामिति विज्ञेयम्॥९॥

यच्चाप्युक्तम् - अन्यथात्वस्य दर्शनान्नास्ति प्रकृतिरिति, तदपि परप्रसिद्धया अन्यथात्वदर्शनमधिकृत्योक्तम्, न त्वस्माभिः कदाचिदपि कस्यचिदन्यथात्वमभ्युपेतम्। तदेवमत्यन्ततः प्रकृतावसंविद्यमानायां सर्वधर्मेषु असंविद्यमानेषु अस्वभावेषु तदन्यथात्वे च असंविद्यमाने यो हि इदानीमस्तित्वं नास्तित्वं च भावानां परिकल्पयति, तस्य एवं परिकल्पयतो नियतमेव -

अस्तीति शाश्वतग्राहो नास्तीत्युच्छेददर्शनम्।

प्रसज्यत इति वाक्यशेषः। तच्चैतत् शाश्वतोच्छेददर्शनं स्वर्गापवर्गमार्गान्तरायकरत्वाद् यस्मान्महानर्थकरम्,

तस्मादस्तित्वनास्तित्वे नाश्रीयेत विचक्षणः॥१०॥

कस्मात्पुनर्भावाभावदर्शने सति शाश्वतोच्छेददर्शनप्रसङ्गो भवतीति? यस्मात् -

अस्ति यद्धि स्वभावेन न तन्नास्तीति शाश्वतम्।
नास्तीदानीमभूत्पूर्वमित्युच्छेदः प्रसज्यते॥११॥

यत् स्वभावेन अस्तीत्युच्यते, स्वभावस्यानपायित्वान्न तत् कदाचिदपि नास्तीति, एवं भावस्यास्तित्वाभ्युपगमे सति शाश्वतदर्शनमापद्यते। पूर्वं च वर्तमानावस्थायां भावस्वरूपमभ्युपेत्य इदानीं तद्विनष्टत्वान्नास्तिति पश्चादभ्युपगच्छतः उच्छेददर्शनं प्रसज्यते। यस्य तु भावस्वभाव एव नोपपद्यते, न तस्य शाश्वतोच्छेददर्शनप्रसङ्गः, भावस्वभावानुपलम्भात्॥

ननु च भावानां स्वभावो नास्तीत्यभ्युपगच्छतो मा भूद्भावदर्शनाभावाच्छाश्वतदर्शनम्, उच्छेददर्शनं तु नियतं प्रसज्यते इति। नैवमभावदर्शनं भवति। यो हि पूर्वं भावस्वभावमभ्युपेत्य पश्चात् तन्निवृत्तिमालम्बते, तस्य पूर्वोपलब्धस्वभावापवादात् स्यादभावदर्शनम्। यस्तु तैमिरिकोपलब्धकेशेष्विव वितैमिरिको न किंचिदुपलभते, स नास्तीति ब्रुवन् किंचिन्नास्तीति ब्रूयात् प्रतिषेध्याभावात्। विपर्यस्तानां तु मिथ्याभिनिवेशनिवृत्त्यर्थमतैमिरिका इव वयं ब्रूमः - न सन्ति सर्वभावाः इति। न चैवं ब्रुवतामस्माकं परहितव्यापारपरायणानामुच्छेददर्शनप्रसङ्गः। यथोक्तं सूत्रे -

यो हि भगवन् पूर्वं रागद्वेषमोहभावाभ्युपगमं कृत्वा पश्चान्न सन्ति रागद्वेषमोहभावा इति ब्रवीति, स भगवन् वै नास्तिको भवति। इति विस्तरः॥

यस्तु परतन्त्रचित्तचैत्तवस्तुमात्रमभ्युपेत्य तस्य परिकल्पितस्वभावाभावादस्तित्वदर्शनं परिहरति, संक्लेशव्यवदाननिबन्धनस्य च परतन्त्रवस्तुमात्रसद्भावान्नास्तित्वदर्शनं परिहरति, तस्य परिकल्पितस्याविद्यमानत्वात् परतन्त्रस्य च विद्यमानत्वाद् अस्तित्वनास्तित्वदर्शनद्वयस्यापि उपनिपातात् कुतोऽन्तद्वयपरिहारः? हेतुप्रत्ययजनितस्य च सस्वभावेनायुक्तत्वप्रतिपादनादयुक्तमेवास्य व्याख्यानम्। तदेवं मध्यमकदर्शने एव अस्तित्वनास्तित्वद्वयदर्शनस्याप्रसङ्गः, न विज्ञानवादिदर्शनादिष्विति। विज्ञेयम्। अत एवोक्तमार्यरत्नावल्याम् -

ससांख्यौल्लूक्यनिर्ग्रन्थपुद्गलस्कन्धवादिनम्।
पृच्छ लोकं यदि वदत्यस्तिनास्तिव्यतिक्रमम्॥
धर्मयौतकमित्यस्मादस्तिनास्तिव्यतिक्रमम्।
विद्धि गम्भीरमित्युक्त बुद्धानां शासनामृतम्॥इति॥

तथाविधविनेयजनबोधानुरोधात्तु परमार्थदर्शनस्य उपायभूतत्वात् नेयार्थत्वेन भगवता महाकरुणापरतन्त्रतया विज्ञानादिवादो देशितः सांमितीयपुद्गलवादवत्, न नीतार्थः इति विज्ञेयम्। यथोक्तमार्यसमाधिराजभट्टारके -

नीतार्थसूत्रान्तविशेष जानति
यथोपदिष्टा सुगतेन शून्यता।
यस्मिन् पुनः पुद्गल सत्त्व पूरुषो
नेयार्थतो जानति सर्वधर्मान्॥

एतच्च आर्याक्षयमतिनिर्देशादिषु विस्तरेण बोद्धव्यमिति। भावाभावदर्शनद्वयप्रसङ्गो यावत् तावत्संसार इत्यवेत्य मुमुक्षुभिरेतद्दर्शनद्वयनिरासेन सद्भिर्मध्यमा प्रतिपद् भावनीया यथावदिति। एतच्चोक्तं भगवता -

भाव अभाव विभावयि ज्ञानं
सर्वि अचिन्तिय सर्वि अभूतं।
ये पुन चित्तवशानुग बालाः
ते दुखिता भवकोटिशतेषु॥
भावानभावानिति यः प्रजानती
स सर्वभावेषु न जातु सज्जते।
यः सर्वभावेषु न जातु सज्जते
स आनिमित्तं स्पृशते समाधिम्॥इति।

तथा-

स्मराम्यहं पूर्वमतीत अध्वनि
अचिन्तिये कल्पि नराणमुत्तमः।
उत्पन्नु लोकार्थकरो महर्षी
नामेन सोऽभावसमुद्गतोऽभूत्॥
स जातमात्रो गगने स्थिहित्वा
सर्वाण धर्माणभाव देशयि।
तदानुरूपं कृत नामधेयं
शब्देन सर्वं त्रिसहस्र विज्ञयी॥
देवापि सर्वे प्रमुमोचु शब्दं
अभावनामेति जिनो भविष्यति।
यो जातमात्रः पद सप्त प्रक्रमन्
अभाव धर्माण समं प्रकाशयी॥
बुद्धो यदा भेष्यति धर्मराजः
सर्वाण धर्माण प्रकाशको मुनिः।
तृणगुल्मवृक्षौषधिशैलपर्वते
अभाव धर्माण रवो भविष्यति॥
यावन्ति शब्दास्तहि लोकधातौ
सर्वे ह्यभावा न हि कश्चि भावः।
तावन्ति खो तस्य तथागतस्य
रवु निश्चरी लोकविनायकस्य॥इति।

भवतीति भावः सत्ता। न विद्यते सत्ता स्वभावः सर्वभावानामित्यभावाः सर्वधर्माः, शून्याः सर्वधर्मा निःस्वभावयोगेनेति प्रज्ञापारमितापाठात् भावस्वभावस्यानुपपत्तेः।

अभाव धर्माण रवो भविष्यति
इत्यादिना सूत्रार्थोऽवगन्तव्यः॥

यावन्ति शब्दास्तहि लोकधातौ
सर्वे ह्यभावा न हि कश्चि भावः। इत्यादि।
भूत्वा अभावप्रतिषेधविवक्षितत्वाद् भावाभावार्थ एव स्वभावाभावार्थः॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
स्वभावपरीक्षा नाम पञ्चदशमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project