Digital Sanskrit Buddhist Canon

त्रयोदशमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Trayodaśamaṁ prakaraṇam

संस्कारपरीक्षा त्रयोदशमं प्रकरणम्।

यतश्चैवं समनन्तरातिक्रान्तप्रकरणविधिना स्वपरोभयकृतत्वमहेतुसमुत्पनत्वं च निरूप्यमाणं भावानामसत्, अन्यश्चोत्पादको विधिरसन्, उत्पन्नरूपत्वेन चैते भावा अविद्यातिमिरोपहतमतिनयनानां बालपृथग्जनानां ख्यान्ति, तस्मान्निःस्वभावा एव सन्तो बालानां विसंवादका मायाकरितुरगादिवत् तदनभिज्ञानां न तु विज्ञानाम्। अत एव सर्वधर्मस्वाभावाव्यापरोक्षधीनयनः समुन्मूलिताशेषा विद्यावासनः चतुर्विपर्यासविपर्यस्तात्राणसत्त्वपरित्राणाय अविपरीतनैः स्वाभाव्योपदेशतत्परो बुद्धो जगद्विबोधको महाकारुणिकः -

तन्मृषा मोषधर्म यद्भगवानित्यभाषत।
सर्वे च मोषधर्माणः संस्कारास्तेन ते मृषा॥१॥

सूत्रे उक्तम्- तन्मृषा मोषधर्म यदिदं संस्कृतम्। एतद्धि खलु भिक्षवः परमं सत्यं यदिदममोषधर्म निर्वाणम्। सर्वसंस्काराश्च मृषा मोषधर्माणः इति। तथा - नास्त्यत्र तथता अवितथता वा। मोषधर्मकमप्येतत्। प्रलोपधर्मकमप्येतत् इति। तदनेन न्यायेन यन्मोषधर्म तन्मृषेत्येवं यस्मादुक्तवांस्तथागतो भगवान्, सर्वे च मोषधर्माणः संस्काराः, तस्मान्मोषधर्मकत्वेन ते संस्कारा मृषा भवन्ति चित्रकरयन्त्रदारिकावत्, लक्षणोपेतयन्त्रमयवारणवञ्चितोदयनवत्सराजवत्। तत्र विसंवादकं मोषधर्मकं वितथख्यात्यालातचक्रवत्। अतो निःस्वभावत्वेन मृषा सर्वसंस्काराः मोषधर्मकत्वात् मरीचिकादिजलवत्। यत्तु सत्यं न तन्मोषधर्मकम्, तद्यथा निर्वाणमेकम्। ततश्च विहितया उपपत्त्या अस्माच्चागमात् सिद्धं सर्वभावानां नैःस्वाभाव्यम्। शून्याः सर्वधर्मा निःस्वभावयोगेन इति च प्रज्ञापारमिता-अर्धशतिकापाठात्॥१॥

अत्राह - यद्येवं मोषधर्मकत्वेन सर्वसंस्काराणां मृषात्वं प्रतिपादितं भवता, नन्वेवं सति न सन्ति सर्वे भावा इति सर्वपदार्थापवादिनी मिथ्यादृष्टिरेव स्यात्। उच्यते। सत्यं मोषधर्मकाः सर्वसंस्काराः, येऽद्यापि भवन्तं मुष्णन्ति। ननु च भोः,

तन्मृषा मोषधर्म यद्यदि किं तत्र मुष्यते।

यदा अस्माभिः तन्मृषा मोषधर्मकम् इत्युक्तम्, तदा किं तत्र मुष्यते? किं तत्राभावो भवति? कश्चिद्यदि पदार्थोऽभविष्यत्, स्यात्तस्यापवादादभावदर्शनान्मिथ्यादृष्टिः। यदा तु पदार्थमेव कंचिन्न पश्यामः, तदा किं तत्र मुष्यते? नैव किंचिदभावो भवतीत्ययुक्तो ऽयमुपालम्भो भवतः।

अत्राह - यदि अभावदर्शनमपि न प्रतिपाद्यते, किं पुनरनेनागमेन प्रतिपाद्यत इति ? उच्यते -

एतत्तूक्तं भगवता शून्यतापरिदीपकम्॥२॥

यदेतदुक्तं भगवता, तन्न भावानामभावपरिदीपकम् किं तर्हि शून्यतापरिदीपकम् स्वभावानुत्पादपरिदीपकमित्यर्थः। यथोक्तमनवतप्तह्रदापसंक्रमणसूत्रे -

यः प्रत्ययैर्जायति स ह्यजातो
नो तस्य उत्पादु सभावतोऽस्ति।
यः प्रत्ययाधीनु स शून्य उक्तो
यः शून्यतां जानति सोऽप्रमत्तः॥

इति॥२॥

अत्राह - नायमागमो भावस्वभावानुत्पादं परिदीपयति, किं तर्हि निःस्वभावत्वम्, स्वभाव स्यानवस्थायित्वम्, विनाशित्वम्, इति। कुत एतदिति चेत्,

भावानां निःस्वभावत्वमन्यथाभावदर्शनात्।

विचार्यमाणानामन्यथात्वं विपरिणामदर्शनात् इत्यर्थः। एतदुक्तं भवति - यदि भावानां स्वभावो न स्यात्, तदानीं नैवैषामन्यथात्वमुपलभ्येत। उपलभ्यते च परिणामः। तस्मात्स्वभावानव स्थायित्वमेव सूत्रार्थ इति विज्ञेयम्॥

इतश्चैतदेवम्। यस्मात् -

अस्वभावो भावो नास्ति भावानां शून्यता यतः॥३॥

यो ह्यस्वभावो भावः, स नास्ति। भावानां च शून्यता धर्म इष्यते। न च असति धर्मिणि तदाश्रितो धर्म उपपद्यते। न हि असति वन्ध्यातनये तच्छयामतोपपद्यत इति। तस्मादस्त्येव भावानां स्वभाव इति॥३॥

अपि च -

कस्य स्यादन्यथाभावः स्वभावश्चेन्न विद्यते।

यदि भावानां स्वभावो न स्यात् , योऽयं विपरिणामलक्षणः अन्यथाभावः, स कस्य स्यादिति? अत्रोच्यते। एवमपि परिकल्प्यमाने

कस्य स्यादन्यथाभावः स्वभावो यदि विद्यते॥४॥

इह यो धर्मो यं पदार्थं न व्यभिचरति, स तस्य स्वभाव इति व्यपदिश्यते, अपरप्रतिबद्धत्वात्। अग्नेरौष्ण्यं हि लोके तदव्यभिचारित्वात् स्वभाव इत्युच्यते। तदेव औष्ण्यमप्सूपलभ्यमानं परप्रत्ययसंभूतत्वात्कृत्रिमत्वान्न स्वभाव इति। यदा चैवमव्यभिचारिणा स्वभावेन भवितव्यम्, तदा अस्य अव्यभिचारित्वादन्यथाभावः स्यादभावः। न हि अग्निः शैत्यं प्रतिपद्यते। एवं भावानां सति स्वभावाभ्युपगमेऽन्यथात्वमेव न संभवेत्। उपलभ्यते चैषामन्यथात्वम्। अतो नास्ति स्वभावः॥४॥

अपि च। अयमन्यथाभावो भावानां नैव संभवति, यद्दर्शनात्सस्वभावता स्यात्। यथा च न संभवति, तथा प्रतिपादयन्नाह -

तस्यैव नान्यथाभावो नाप्यन्यस्यैव युज्यते।
युवा न जीर्यते यस्माद्यस्माज्जीर्णो न जीर्यते॥५॥

तस्यैव तावत् प्राग्वत् प्रागवस्थायां वर्तमानस्य भावस्यान्यथात्वं नोपपद्यते। तथा हि यूनो युवावस्थायामेव वर्तमानस्य नास्ति अन्यथात्वम्। अथापि अवस्थान्तरप्राप्तस्यैव अन्यथात्वं परिकल्प्यते, तदपि नोपपद्यते। अन्यथात्वं नाम जरायाः पर्यायः। तद्यदि यूनो नेष्यते, अन्यस्यैव जीर्णस्य भवतीति, तदपि न युज्यते। यस्मान्न हि जीर्णस्य पुनर्जरया संबन्धः, निष्प्रयोजनत्वात्। किं हि जीर्णस्य पुनर्जरया संबन्धः कुर्यात्? तदागमनान्तरेण जीर्णताभावा ज्जीर्णो जीर्यत इति न युज्यते। अथ यून एवान्यथाभावः, तदयुक्तम्, अप्राप्तजरावस्थस्य युवेति व्यपदेशात्, अवस्थाद्वयस्य च परस्परविरुद्धत्वात्॥५॥

अपि च।
तस्य चेदन्यथाभावः क्षीरमेव भवेद्दधि।

अथ स्यात्- क्षीरावस्थापरित्यागेन दध्यवस्था भवति, अतः न क्षीरमेव दधि भवतीति। उच्यते। यदि क्षीरं दधि भवतीति नेष्यते परस्परविरोधात् -

क्षीरादन्यस्य कस्याथ दधिभावो भविष्यति॥६॥

किमुदकस्य दधिभावो भवतु? तस्मादसंबद्धमेव तदन्यस्य दधिभावो भविष्यतीति। तदेवमन्यथात्वासंभवात् कुतस्तद्दर्शनात् सस्वभावता भावानां प्रसेत्स्यतीति न युक्तमेतत्। यथोक्तमार्यरत्नाकरमहायानसूत्रे -

यो न पि जायति नो चुपपद्यी
नो च्यवते न पि जीर्यति धर्मः।
तं जिनु दर्शयती नरसिंह
तत्र निदेशयि सत्त्व महर्षी।।
यस्य स्वभाव न विद्यति कश्चि
नोऽपरभावतु केनचि लब्धः।
नान्तरतो न पि बाहिरतो वा
लभ्यति तत्र निवेशयि नाथः॥
शान्त गती कथिता सुगतेन
नो च गती उपपद्यति काचि।
तत्र च व्योहरसी गतिमुक्तो
मुक्तकु मोचयसी बहुसत्त्वान्॥

सर्वि वदेसि निरात्मक धर्मान्
सत्त्वतु ग्राहतु मोचसि लोकम्।
मुक्त स्वयं गतितो गतिमुक्तो
तेनसि पारगतो न च तीर्णः॥
पारगतोऽसि भवार्णवतीर्णः
पारगतो न च लभ्यति कश्चि।
पारु न विद्यति नापि अपारु
पारगतोऽस्मि वदेसि च वाक्यम्॥
वाच न विद्यति यांच वदेसि
यं पि वदेसि न विद्यति तं पि।
यस्य वदेसि न विद्यति सोऽपि
योऽपि विजानति सोऽपि असन्तो॥
तत्र प्रणष्टु जगं इमु सर्वं
वितथविकल्पनिवेशवशेन ।
शान्त विजानति यो नरु धर्मां
स्तेहि तथागतु दृष्ट स्वयंभूः॥
शान्त प्रजानति धर्म प्रणीतान्
प्रीति स विन्दति तोषति सत्त्वान्।
सो भवती जिनु जित्वेन क्लेशान्
आत्म।
तेन विजानित बोधि जिनानां
बुद्धिय बोधयते स जगं पि।

इत्यादि॥६॥

यच्चोक्तम् - अस्वभावो भावो नैवास्ति, शून्यता च भावानामिष्यते, तस्मादस्ति शून्यताश्रयो भावस्वभाव इति , एतदपि न युज्यते इत्याह -
यद्यशून्यं भवेत्किंचित्स्याच्छून्यमिति किंचन।
न किंचिदस्त्यशून्यं च कुतः शून्यं भविष्यति॥७॥

यदि शून्यता नाम काचित् स्यात्, तदा तदाश्रयो भावस्वभावः स्यात्। न त्वेवम्। इह हि शून्यता नामेति सर्वधर्माणां सामान्यलक्षणमित्यभ्युपगमात् अशून्यधर्माभावादशून्यतैव नास्ति। यदा च अशून्याः पदार्था न सन्ति, अशून्यता च नास्ति, तदा प्रतिपक्षनिरपेक्षत्वा च्छून्यतापि खपुष्पमालावन्नास्तीत्यवसीयताम्। यदा च शून्यता नास्ति, तदातदाश्रया अपि पदार्था न सन्तीति स्थितमविकलम्॥७॥

अत्राह - त्रीणि विमोक्षमुखानि शून्यतानिमित्ताप्रणिहिताख्यानि विमुक्तये विनेयेभ्यो भगवता निर्दिष्टानि सर्वतीर्थिकसमयासाधारणानि सौगत एव प्रवचने समुपलभ्यन्ते। येषामुपदेशार्थमेव बुद्धा भगवन्तोऽशेषतीर्थ्यवादमहामोहान्धकारानुगतजगति जगदेकप्रदीपा नैरात्म्योपदेशाविच्छिन्नशिखा उत्पद्यन्ते। स भवांस्तथागतप्रवचनव्याख्यानव्याजेन इदानीं तामेव शून्यतां प्रतिक्षेप्तुमारब्धवान्, इत्यलं भवता स्वर्गापवर्गमार्गसमुच्छेदकेनेति। उच्यते। अहो वत भवानत्युन्मुख इव अत्यन्तविपर्यासान्निर्वाणपुरगामिनं शिवमृजुं परमं पन्थानमवधूय भावाभिनिवेशव्या, कुलितं संसारकान्तारानुगमेव मार्गं मोक्षपुरगामित्वेन समाश्रितो निर्मुमुक्षुः सन् संसाराटवीकान्तारः सद्भिरुपालभ्य एव सन् अभिमानाभिनिवेशग्रहपवरशतया तानेवोपालभते। ननु भोः, निरवशेष क्लेशव्याधिचिकित्सकैर्महावैद्यराजैः -

शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः।
येषां तु शून्यता दृष्टिस्तानसाध्यान् बभाषिरे॥८॥

इह सर्वेषामेव दृष्टिकृतानां सर्वग्रहाभिनिवेशानां यनिःसरणमप्रवृत्तिः सा शून्यता। न च दृष्टिकृतानां निवृत्तिमात्रं भावः। ये तु तस्यामपि शून्यतायां भावाभिनिवेशिनः, तान् प्रति अवाचका वयमिति कुतोऽस्मदुपदेशात् सकलकल्पनाव्यावृत्त्या मोक्षो भविष्यति? यः नकिंचिदपि ते पण्यं दास्यामीत्युक्तः, स चेत् ' देहि भोस्तदेव मह्यं नकिंचिन्नाम पण्यम्,' इति ब्रूयात्, स केनोपायेन शक्यः पण्याभावं ग्राहयितुम्? एवं येषां शून्यतायामपि भावाभिनिवेशः, केनेदानीं स तेषां तस्यां भावाभिनिवेशो निषिध्यतामिति? अतो महाभैषज्येऽपि दोषसंज्ञित्वात् परमचिकित्सकैर्महावैद्यैस्तथागतैः प्रत्याख्याता एव ते। यथोक्तं भगवता आर्यरत्नकूटसूत्रे -

यन्न शून्यतया धर्मान् शून्यान् करोति, अपि तु धर्मा एव शून्याः। यन्नानिमित्तेन धर्माननिमित्तान् करोति, अपि तु धर्मा एवानिमित्ताः। यन्नाप्रणिहितेन धर्मानप्रणिहितान् करोति, अपि तु धर्मा एवाप्रणिहिताः। यैवं प्रत्यवेक्षा, इयमुच्यते काश्यप मध्यमा प्रतिपद्धर्माणां भूतप्रत्यवेक्षा। ये हि काश्यप शून्यतोपलम्भेन शून्यतां प्रतिसरन्ति, तानहं नष्टप्रणष्टानिति वदामि॥

इति प्रवचनात्॥

तथा -
वरं खलु काश्यप सुमेरुमात्रा पुद्गलदृष्टिराश्रिता, न त्वेव अभावाभिनिवेशिकस्य शून्यतादृष्टिः। तत्कस्य हेतोः? सर्वदृष्टिकृतानां हि काश्यप शून्यता निःसरणम्। यस्य खलु पुनः शून्यतैव दृष्टिः, तमहमचिकित्स्यमिति वदामि। तद्यथा काश्यप ग्लानः पुरुषः स्यात्। तस्मै वैद्यो भैषज्यं दद्यात्। तस्य तद्भैषज्यं सर्वदोषानुच्चार्य स्वयं कोष्ठगतं न निःसरेत्। तत्किं मन्यसे काश्यप अपि तु स पुरुषस्ततो ग्लान्यान्मुक्तो भवेत्? नो हीदं भगवन्। गाढतरं तस्य पुरुषस्य ग्लान्यं भवेत्, यस्य तद्भैषज्यं सर्वदोषानुच्चार्य कोष्ठगतं न निःसरेत्। भगवानाह -एवमेव काश्यप सर्वदृष्टिकृतानां शून्यता निःसरणम्। यस्य खलु पुनः शून्यतैव दृष्टिः, तमहमचिकित्स्यमिति वदामि॥इति॥८॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
संस्कारपरीक्षा नाम त्रयोदशमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project