Digital Sanskrit Buddhist Canon

द्वादशमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Dvādaśamaṁ prakaraṇam
दुःखपरीक्षा द्वादशमं प्रकरणम्।

अत्राह - विद्यत एव आत्मा, तत्संबन्धिदुःखसद्भावात्। इह हि पञ्चोपादानस्कन्धा दुःखमित्युच्यते, तच्च अस्ति, तेन च दुःखेन कस्यचिद्भवितव्यं न निराश्रयेणेति, अतो विद्यत एव दुःखस्याश्रयः, स चात्मेति। उच्यते। स्यादात्मा यदि दुःखमेव स्यात्। तद्धि भवेत् स्वयं कृतं वा परकृतं वा उभयकृतं वा हेतुरहितं वा। सर्वथा च इष्यमाणं तत्कार्यमेव नास्तीति प्रतिपादयन्नाह -

स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम्।
दुःखमित्येक इच्छन्ति तच्च कार्यं न युज्यते॥१॥

तत्रैके वादिनः स्वयं कृतं दुःखमिति प्रतिपन्नाः। अपरे पुनः परकृतम्, अन्ये च उभयकृतम्। केचिदहेतुसमुत्पन्नमेव दुःखमिति प्रतिपन्नाः। सर्वथा च तद्दुःखमिष्यमाणं कार्यं कर्तव्यं न युज्यते, तदेतत्प्रतिज्ञामात्रकमिति॥१॥

तत्प्रतिपादयन्नाह -

स्वयं कृतं यदि भवेत्प्रतीत्य न ततो भवेत्।
स्कन्धानिमानमी स्कन्धाः संभवन्ति प्रतीत्य हि॥२॥

यस्मादिमान् मरणान्तिकान् स्कन्धान् प्रतीत्य इमे औपपत्त्यांशिकाः स्कन्धा उत्पद्यन्ते तस्मात्स्वयं कृतं दुःखमिति नोपपद्यते॥२॥

इदानीं परकृतमपि दुःखं यथा न संभवति, तथा प्रतिपादयन्नाह -
यद्यमीभ्य इमेऽन्ये स्युरेभ्यो वामी परे यदि।
भवेत्परकृतं दुःखं परैरेभिरमी कृताः॥३॥

यदा अमीभ्यो मरणान्तिकेभ्यः स्कन्धेभ्यः इमे औपपत्त्यांशिकाः स्कन्धा अन्ये स्युः, एभ्यो वा औपपत्त्यांशिकेभ्यः अमी मरणान्तिका स्कन्धाः परे स्युः, स्यात्तदानीं परकृतं दुःखम्। न चैषामन्यत्वं दृष्टं हेतुफलसंबन्धावस्थानात्। वक्ष्यति हि -

प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत्।
न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम्॥इति।

अतः परकृतमपि दुःखं न संभवति। यदि हि अन्यत्वं स्यात्, तदा सति अन्यत्वे एतैः परभूतैः स्कन्धैरमी परभूताः कृता इति युक्तं वक्तुं स्यात्। न चैतदेवम्। इति परकृतमपि दुःखं न संभवति॥३॥

अथ स्यात् - न ब्रूमो यस्माद्दुःखेनैव दुःखं कृतम्, अतः स्वयं कृतमिति। किं तर्हि स्वपुद्गलेन यस्मात्स्वयमेव कृतम्, नापरेण कृत्वा दत्तम्, इत्यतः स्वयं कृतं दुःखमिति ब्रूमः। उच्यते -

स्वपुद्गलकृतं दुःखं यदि दुःखं पुनर्विना।
स्वपुद्गलः स कतमो येन दुःखं स्वयं कृतम्॥४॥

यदेतन्मनुष्यदुःखं पञ्चोपादानस्कन्धलक्षणं स्वयं पुद्गलेन कृतमिति परिकल्प्यते, कल्प्यता मसौ पुद्गलो येन तद्दुःखं स्वयं कृतम्। यदि तावद्येन दुःखेन स्वपुद्गलः प्रज्ञप्यते, तदेव दुःखं तेन कृतमिति, स भेदेन कथ्यतामिदं तद्दुःखमयमस्य कर्तेति। अथापि मनुष्यदुःखोपादानेन पुद्गलेन तदेव दुःखं कृतं स्यात्, न तर्हि स्वपुद्गलकृतं तत्, परपुद्गलकृतमेव स्यात्। अथोपादानभेदेऽपि पुद्गलाभेद इष्यते, एतच्च नास्ति, उपादानव्यतिरिक्तस्य भिन्नस्य पुद्गलस्य दर्शयितुमशक्यत्वात्। एवं तावत् स्वपुद्गलकृतं दुःखं न भवति॥४॥

अत्राह - क एवमाह स्वपुद्गलकृतं दुःखमिति? किं तर्हि परपुद्गलजं दुःखम्। अन्य एव देवदुःखान्मनुष्यपुद्गलः, मनुष्यपुद्गलश्च देवदुःखं कृत्वा यस्माद्देवपुद्गलाय ददाति, तेन च देवदुःखेन देवपुद्गलः प्रज्ञप्यते, तस्मात्तस्य पुद्गलस्य तद्दुःखं परपुद्गलजमेव भवति। उच्यते -

परपुद्गलजं दुःखं यदि यस्मै प्रदीयते।
परेण कृत्वा तद्दुःखं स दुःखेन विना कुतः॥५॥

यदि देवदुःखं मनुष्यपुद्गलकृतम्, तेन च मनुष्यपुद्गलेन तद्दुःखं कृत्वा परस्मै देवपुद्गलाय प्रदीयत इति स देवपुद्गलो देवदुःखविनिर्मुक्तः कुतो यस्मै प्रदीयेतेति। एवं तावदपरपुद्गलजस्य दुःखस्य प्रतिग्राहक एव नास्ति॥५॥

इदानीं यश्च ददाति, असावपि नास्तीत्याह -
परपुद्गलजं दुःखं यदि कः परपुद्गलः।
विना दुःखेन यः कृत्वा परस्मै प्रहिणोति तत्॥६॥

येनोपादानेन स मनुष्यपुद्गलः प्रज्ञप्यते, स मनुष्योपादानव्यतिरिक्तः कतमो यो देवपुद्गलाय देवदुःखं कृत्वा प्रहेष्यति? तस्मात्परपुद्गलजमपि दुःखं न संभवति॥६॥

ततश्च -
स्वयंकृतस्याप्रसिद्धेर्दुःखं परकृतं कृतः।
परो हि दुःखं यत्कुर्यात्तत्तस्य स्यात्स्वयं कृतम्॥७॥

यदि देवपुद्गलदुःखं मनुष्यपुद्गलेन कृतत्वात्परकृतं भवति, ननु, मनुष्यपुद्गलस्य स्वयंकृतमेव तद्भवति। एतच्च नास्तीत्युक्तम्। ततः स्वयंकृतस्याप्रसिद्धेर्यदा मनुष्यपुद्गलेन स्वयं तद्दुःखं न कृतम्, तदा कुतः परपुद्गलस्य देवाख्यस्य तद्दुःखं परकृतं भविष्यतीति। अतोऽपि परकृतं दुःखं न संभवति॥७॥

इदानीं प्रकरणान्तरेणापि पक्षद्वयासंभवं प्रतिपादयन्नाह -

न तावत्स्वकृतं दुःखं न हि तेनैव तत्कृतम्।
परो नात्मकृतश्चेत्स्याद्दुःखं परकृतं कथम्॥८॥

इतश्च स्वपराभ्यां दुःखस्य करणं न युज्यते, यस्मान्न तावत्स्वकृतं दुःखम्। किं कारणम् ? यस्मान्न तेनैव हि तत् कृतम्, स्वात्मनि वृत्तिविरोधात्, अतः स्वकृतं नास्ति। न परकृतमपि, यस्माद्योऽसौ परः करोतीति परिकल्प्यते, स एव तावन्नात्मना कृतो नात्मना निष्पन्नः तस्यापि हेत्वन्तरापेक्षणात्। यश्च स्वात्मना न निष्पन्नः, स कथमविद्यमानस्वभावः सन् परं करिष्यतीति न युक्तमेतत्॥८॥

इदानीमुभयकृतमपि दुःखमसदित्याह -

स्यादुभाभ्यां कृतं दुःखं स्यादेकैककृतं यदि।

यदि हि एकैकेन दुःखस्य करणं स्यात् स्यात्तदानीमुभाभ्यां कृतं दुःखम्। न चैकैककृतं तत्, उक्तदोषात्। न चैकैकेन प्राणातिपाते कृते द्वाभ्यां कृत इति व्यपदेशो दृष्टः॥

इदानीं निर्हेतुकमपि दुःखं यथा नास्ति, तथा प्रतिपदयन्नाह -

पराकारास्वयंकारं दुःखमहेतुकं कुतः॥९॥

परेण अकारो अकरणं यस्येति पराकारम्। न स्वयंकारोऽस्येत्यस्वयंकारम्। यदि दुःखं स्वयंकृतं नास्ति, परकृतमपि नास्ति यथोक्तेन न्यायेन, तदिदानीं कुत एव निर्हेतुकं भविष्यति खपुष्पसौगन्ध्यवत्? दुःखाभावात्कुतस्तस्याश्रयभूत आत्मा॥९॥

यथा च चतुर्धा विचार्यमाणं दुःखमसत्, एवं बाह्या अपि बीजाङ्कुरघटपटादयो भावा वेदितव्याः, इति प्रतिपादयन्नाह -

न केवलं हि दुःखस्य चातुर्विध्यं न विद्यते।
सर्वेषां

बाह्यानामपि भावानां चातुर्विध्यं न विद्यते॥१०॥

पूर्ववत्सर्व समं योज्यम्। यदि खल्वेषां दुःखादीनां चातुर्विध्यासंभवः, तत्कतमेन तर्हि इदानीं प्रकारेण एषां सिद्धिरिति। उच्यते। स्वभावतो यदि एतानि दुःखादीनि स्युः, नियतमेषां चतुर्णां प्रकाराणामन्यतमेन प्रकारेण सिद्धिः स्यात्। न त्वस्ति। तस्मात्स्वभावतो न सन्ति दुःखादीनीत्यवसीयते। अथ विपर्यासमात्रलब्धात्मसत्ताकाया दुःखादिसंवृतेः प्रतीत्यसमुत्पाद व्यवस्था मृग्यते, तदा कर्मकारकपरीक्षाप्रकरणविहितविधिना यथोदितपक्षचतुष्टयतिरस्कारेण इदंप्रत्ययतामात्रार्थप्रतीत्यसमुत्पादसिद्धया सिद्धिरभ्युपेया। यथोक्तम् -

स्वयंकृतं परकृतं द्वाभ्यां कृतमहेतुकम्।
तार्किकैरिष्यते दुःखं त्वया तूक्तं प्रतीत्यजम्॥इति॥

उक्तं च भगवता आर्योपालिपृच्छायाम् -

तथा

संवृति भाषितु धर्म जिनेन
संस्कृतऽसंस्कृत पश्यथ एव।
नास्तिह भूततु आत्म नरो वा
एत्तकु लक्षण सर्वजगस्य॥

कृष्णशुभं च न नश्यति कर्म
आत्मन कृत्व च वेदयितव्यम्।
नोऽपि तु संक्रम कर्मफलस्य
नो च अहेतुक प्रत्यनुभोति॥
सर्वि भवा अलिका वसिकाश्च
रिक्तक तुच्छक फेनसमाश्च।
मायमरीचिसमा सद शून्या
देशितुः संवृतु ते च विविक्ताः॥
शैलगुहागिरिदुर्गनदीषु
यद्व प्रतिश्रुक जायि प्रतीत्य।
एविमु संस्कृत सर्वि विजान
मायमरीचिसमं जगु सर्वम्॥

इत्यादि॥१०॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
दुःखपरीक्षा नाम द्वादशमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project