Digital Sanskrit Buddhist Canon

एकादशमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ekādaśamaṁ prakaraṇam
पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम्।

अत्राह - विद्यत एव आत्मा, संसारसद्भावात्। यदि हि आत्मा न स्यात्, कस्य पञ्चगतिके आजवंजवीभावेन जन्ममरणपरंपरया संसरणं स्यात्? उक्तं हि भगवता - अनवराग्रो हि भिक्षवो जातिजरामरणसंसारः इति। अविद्यानीवरणानां सत्त्वानां तृष्णासंयोजनानां तृष्णागण्डुरबद्धानां संसरतां संधावतां पूर्वा कोटिर्न प्रज्ञायत इति। यदा च भगवदुपदेशात्संसारोऽस्ति, तदा संसर्ताप्यस्ति। स च आत्मा उच्यत इति। उच्यते। स्यादात्मा, यदा संसार एव स्यात्। कथम्? यस्मादस्य -

पूर्वा प्रज्ञायते कोटिर्नेत्युवाच महामुनिः।
संसारोऽनवराग्रो हि नास्यादिर्नापि पश्चिमम्॥१॥

कोटिर्भागो देश इति पर्यायाः। पूर्वा कोटिः पूर्वो देश इत्यर्थः। यदि हि संसारो नाम कश्चित् स्यात्, नियतं तस्य पूर्वमपि स्यात्, पश्चिममपि, घटादीनामिव। उक्तं च भगवता - अनवराग्रो हि भिक्षवो जातिजरामरणसंसार इति। यदेव अवराग्रे न स्तः, संसारस्य अनवराग्र वचनात्, संसार एव नास्तीति ननु स्पष्टमादेशयामास भगवान्। तस्मान्नास्ति संसारः, पूर्वापरकोटयनुपलम्भात्, अलातचक्रवत्, इति स्थितम्॥

अत्रेदं विचार्यते - यदि पूर्वं चापरं च संसारस्य निषिद्धं भगवता, कथं पुनरिदमाह - तस्मात्तर्हि संसारक्षयाय प्रतिपत्स्यामह इत्येवं वो भिक्षवः शिक्षितव्यम्, इति? उच्यते। अविद्यानीवरणानां सत्त्वानामित्यादिविशेषणोपादानात्तेषामेवायमनवराग्रः संसार इति प्रतीयते, न पुनस्तत्त्वज्ञानानिलबलात् समुन्मूलिताविद्यानीवरणतरूणाम्। तेषां तु लोकोत्तरमार्गज्ञानाग्निना दग्धाशेषक्लेशवासनामूलनिःशेषपादपानां भवत्येव अन्तः इति विज्ञेयम्॥

कथं पुनरादिरहितानामन्तोपदेश इति यावत्। दृष्टमेतद् बाह्येषु व्रीह्यादिषु आद्यभावेऽपि दहनादिसंपर्कादन्तसद्भावः। यथोक्तमार्यदेवपादैः -

यथा बीजस्य दृष्टोऽन्तो न चादिस्तस्य विद्यते।
तथा कारणवैकल्याज्जन्मनोऽपि न संभवः॥इति।

स च अन्तोपदेशो लौकिक एव व्यवहारे स्थित्वा संसारचारकावबद्धानामुत्साहनार्थं सत्त्वानां देशितो लौकिकज्ञानापेक्षया। वस्तुकचिन्तायां तु संसार एव नास्ति, तत्कुतोऽस्य परिक्षयः ? प्रदीपावस्थायां रज्जूरगपरिक्षयवत्॥

अत्राह - यद्येवं लौकिकज्ञानापेक्षया अन्तवद् आदिरपि किं नोच्यते? उच्यते। अहेतुकदोषप्रसङ्गात् लौकिकज्ञानापेक्षयापि संसारस्यादेरभाव इत्युभयथाप्यादेरभाव एवेति विज्ञेयम्॥१॥

अत्राह - यद्यापि अवराग्रे न स्तः संसारस्य, तथापि मध्यमस्ति, अप्रतिषेधात्। ततश्च अस्ति संसारो मध्यसद्भावात्। इह यन्नास्ति, न तस्य मध्यमस्ति तद्यथा कूर्मरोमप्रावरणस्येति। हास्यः खल्वसि। ननु च भोः,

नैवाग्रं नावरं यस्य तस्य मध्यं कुतो भवेत्।

अग्रमिति आदिः, पूर्वम्, प्रथमम् उच्यते। अवरमिति अवसानम्, अन्तः, व्यवच्छेद उच्यते। यस्य संसारस्य आदिरन्तश्च प्रतिषिद्धः, तस्य कुतो मध्यं भविष्यति? ततश्च संज्ञामात्रक मेव विपर्यासपरवशमानसानां संसारः आदिमध्यावसानविरहितत्वादाकाशवदलातचक्रादिवदिति भावः। संसाराभावाच्च नास्ति आत्मेति। यत एवं संसारस्यादिमध्यावसानानि न सन्ति, अत एव संसाराभावाज्जातिजरामरणादीनां पूर्वापरसहक्रमा अपि नैव सन्तीत्याह -

तस्मान्नात्रोपपद्यन्ते पूर्वापरसहक्रमाः॥२॥

यथा च नोपपद्यन्ते तथा प्रतिपादयन्नाह -

पूर्वं जातिर्यदि भवेज्जरामरणमुत्तरम्।
निर्जरामरणा जातिर्भवेज्जायेत चामृतः॥३॥

यदि पूर्वं जातिर्भवेत्, तदा मरणसहिता स्यात्। न च जरादिरहिता जातिर्युज्यते, असंस्कृतत्वप्रसङ्गात्। जरामरणरहितस्य भावस्य जातौ परिकल्प्यमानायामन्यत्र अमृतस्यैव देवदत्तस्य प्रथममिह जातिः परिकल्प्यमाना स्यात्। ततश्च आदिमान् संसारः स्यादहेतुकदोषश्च। अभूवः मतीतमध्वानम्, इत्येवं पूर्वान्तकल्पना च न स्यात्। अभूत्वा च पूर्वं पश्चादिहोत्पादः स्यात्॥

अथ स्यात् - आम्रादीनां यथा पूर्वं विनापि जरामरणसंबन्धात् प्रथममेव उत्पादो दृष्टः, एवमात्मानोऽपीति। नैवम्। साध्यसमत्वात्। आम्रादीनामपि हि स्वबीजनिरोधे समुत्पद्यमानत्वात् नान्यत्राविनष्टानामुत्पाद इति सममेतत् पूर्वेण॥

अथ स्यात् - अन्यदेव वृक्षाद्बीजम्, अतोऽन्यत्राविनाशपूर्वक एव वृक्षस्योत्पाद इति नैवम्। कार्यकारणयोरन्यत्वस्यासिद्धत्वात्। तथा च वक्ष्यति -

प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत्।
न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम्॥

न च बीजाद्वृक्षस्यान्यत्वम्। अतः साध्यसममेतत्। यतश्च अन्यत्रामृतस्य इहोत्पादो नास्ति, न पूर्वं जातिरभ्युपेया॥३॥

अथ पूर्वं जरामरणम्, पश्चाज्जातिः, एवमपि -

पश्चाज्जातिर्यदि भवेज्जरामरणमादितः।
अहेतुकमजातस्य स्याज्जरामरणं कथम्॥४॥

जातिप्रत्ययं जरामरणमिति वचनाज्जातिहेतुकं जरामरणमुक्तं भगवता। यदि एतत्पूर्वं स्यात्तदा निर्हेतुकं स्यात्। तस्मान्न युक्तमेतत्। यतोऽप्युक्तम् -

यथ उक्खित्ते लोढम्मि उक्खेवे अत्थि कारणं।
षडने कारणं णत्थि अण्णं उक्खेवकारणा॥ इति।

यथाष्यत्रोत्क्षेपः पतनकारणं नान्यत् , एवमिहापि जातिमेवकारणत्वेन विनाशस्य वर्णयामो नान्यत् , इति नास्त्यहेतुकता विनाशस्य। जातिहेतुकत्वाच्चास्योद्गमनमेव विनाशस्य हेतुरिति कृत्वा एषापि गाथा सुनीता भवति -

एविमे संखता धम्मा संभवन्ति सकारणा।
स भाव एव धम्माणं यं विभोन्ति समुग्गता॥

इति॥४॥

इदानीं सहभावेनापि जातिजरामरणानामसद्भावं प्रतिपादयन्नाह -

न जरामरणेनैव जातिश्च सह युज्यते।
म्रियेत जायमानश्च स्याच्चाहेतुकतोभयोः॥५॥

यदि सहभावो जातिजरामरणानां स्यात्, तदा जायमानस्य मरणं स्यात्। न चैतद्युक्तम्। न च परस्परविरुद्धत्वादालोकान्धकारवदेककालता युक्ता। न चैवं लोके दृष्टं यज्जायमान एव म्रियते इति। अपि च। अहेतुकत्वं जात्यादीनां सहभावकल्पनायां स्यात्। न हि सहभूतयोः सव्येतरगोविषाणयोरन्योन्यहेतुकता दृष्टेति न युक्तमेतत्॥५॥

तदेवम् -

यत्र न प्रभवन्त्येते पूर्वापरसहक्रमाः।
प्रपञ्चयन्ति तां जातिं तज्जरामरणं च किम्॥६॥

यस्यां जातौ यत्र जरामरणे एते पूर्वापरसहक्रमाः न सन्ति, तां जातिमनुपलभमाना आर्याः किं प्रपञ्चयन्ति? किंशब्दोऽसंभवे। नैव प्रपञ्चयन्तीत्यर्थः। अथवा। एवमविद्यमानेषु जात्यादिषु तां जातिभविद्यमानां बालाः किं प्रपञ्चयन्ति तच्च जरामरणं यन्न संविद्यते? तस्मादवस्तुक एव बालानां प्रपञ्च इत्यभिप्रायः॥६॥

यथा च संसारस्य पूर्वा कोटिर्नास्ति, एवमन्येषामपि भावानामित्याह -

कार्यं च कारणं चैव लक्ष्यं लक्षणमेव च।
वेदना वेदकश्चैव सन्त्यर्था ये च केचन॥७॥
पूर्वा न विद्यते कोटिः संसारस्य न केवलम्।
सर्वेषामपि भावानां पूर्वा कोटिर्न विद्यते॥८॥

तत्र यदि पूर्वं कारणं पश्चात्कार्यं स्यात्, अकार्यकं कारणं निर्हेतुकं स्यात्। अथ पूर्वं कार्यं पश्चात्कारणम्, एवमपि कारणात्पूर्वं कार्यं निर्हेतुकमेव स्यात्। अथ युगपत्कार्यकारणे स्याताम्, एवमुभयमप्यहेतुकं स्यात्। एवं लक्ष्यलक्षणे वेदनावेदकौ च योज्यौ। न च केवलं संसारस्य व्याख्यानेन कार्यकारणादिकं व्याख्यातं वेदितव्यम्, अपि च येऽप्यन्ते पदार्था ज्ञानज्ञेयप्रमाणप्रमेयसाधनसाध्यावयवावयविगुणगुण्यादयः, तेषामपि पूर्वा कोटिर्न विद्यत इति योज्यम्॥ अत एव आर्यरत्नमेघसूत्रे आर्यसर्वनीवरणविष्कम्भिणा महाबोधिसत्त्वेन भगवान् स्तुतः -

आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव च निर्वृताः।
धर्मास्ते विवृता नाथ धर्मचक्रप्रवर्तने॥ इति

तथा -

आदित शून्य अनागत धर्मा
नो गत अस्थित स्थानविविक्ताः।
नित्यमसारक मायसभावाः
शुद्ध विशुद्ध नभोपम सर्वि॥
यं च पभाषति धर्म जिनस्य
तं च न पश्यति सोऽक्षयताय।
आदिनिरात्म निसत्त्विमि धर्मा -
स्तांश्च च पभाषति नो च क्षपेति।
कल्पित बुच्चति कल्पितमात्रं
अन्तु न लभ्यति संसरमाणे।
कोटि अलक्षण या पुरि आसी -
देति अनागति प्रत्ययताये॥
कर्म क्रिया च प्रवर्तति एवं
हीन‍उत्कृष्टतया समुदेन्ति।
जड्डक धर्म सदा प्रकृतीये
शून्य निरात्म विजानथ सर्वान्॥

इत्यादि॥।

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
पूर्वापरकोटिपरीक्षा नामैकादशमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project