Digital Sanskrit Buddhist Canon

दशमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Daśamaṁ prakaraṇam

अग्नीन्धनपरीक्षा दशमं प्रकरणम्।

अत्राह - यदिदमुक्तं तस्मात्कर्मकारकवदेव उपादानोपादात्रोरपि न स्वाभाविकी सिद्धिरिति, तदयुक्तम्, सापेक्षाणामपि पदार्थानां सस्वाभाव्यदर्शनात्। तथा हि अग्निरिन्धनमपेक्ष्य भवति। न च निःस्वभावोऽग्निः, तस्य औष्ण्यदाहकत्वादिस्वभावकार्योपलम्भात्। एवमग्निमपेक्ष्य इन्धनं भवति। न च तन्निःस्वभावम्, बाह्यमहाभूतचतुष्टयस्वभावत्वात्। एवमुपादानसापेक्षोऽप्युपादाता स्वभावतो भविष्यति, उपादातृसापेक्षं चोपादानमित्यग्नीन्धनवदेतौ भविष्यत उपादानोपादाताराविति। उच्यते। स्यादेतदेवम्, यदि अग्नीन्धने एव स्याताम्, न तु स्तः। कथम्? इह यदि अग्नीन्धने स्याताम्, नियतं ते एकत्वेन वा स्यातामन्यत्वेन वा? उभयथा तु न युज्यत इत्याह -

यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः।
अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत्॥१॥

तत्र इध्यते यत् तदिन्धनम्, दाह्यं काष्ठादिकसंभूतम्। तस्य दग्धा कर्ता अग्निः। तत्र यदि तावद् यदिन्धनं स एवाग्निरिति परिकल्प्यते, तदा कर्तृकर्मणोरेकत्वं स्यात्। न चैवं दृष्टम् , घटकुम्भकारयोश्छेत्तृच्छेत्तव्ययोश्चैकत्वप्रसङ्गात्, तस्य चानभ्युपगमात्। अथ अन्यत्वम्, एवमपि यदि इन्धनादन्योऽग्निः स्यात्, तदा इन्धननिरपेक्षस्याग्नेरुपलब्धिः स्यात्। न हि घटादन्यः पटस्त न्निरपेक्षो न दृष्टः। न चैवमिन्धननिरपेक्षोऽग्निरिति न युक्तमेतत्॥१॥

अपि च। यदि इन्धनादन्योऽग्निः स्यात्, तदानीम्-

नित्यप्रदीप्त एव स्यादप्रदीपनहेतुकः।
पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति॥२॥

इन्धनात्पृथग्भूतोऽग्निरिष्यमाणो नित्यप्रदीप्त एव स्यात्, अप्रदीपनहेतुकश्च स्यात् पुनरारम्भवैयर्थ्यं च स्यात्, एवं च सति अकर्मक एव स्यात्॥२॥

अमुमेवार्थं प्रतिपादयितुकाम आह -

परत्र निरपेक्षत्वादप्रदीपनहेतुकः।
पुनरारम्भवैयर्थ्यं नित्यदीप्तः प्रसज्यते॥३॥

इति। तत्र प्रदीप्यते तदिति प्रदीपनमिन्धनम्। प्रदीपनं हेतुरस्येति प्रदीपनहेतुक, न प्रदीपनहेतुकः अप्रदीपनहेतुकः। यदि प्रदीपनादन्योऽग्निः स्यात्, तदा इन्धननिरपेक्षः स्यात्। यो हि यस्मादन्यः , स तन्निरपेक्षो दृष्टः, घटादिव पटः। ततश्च परत्र निरपेक्षत्वादप्रदीपन हेतुकः स्यात्, प्रदीपनसापेक्षस्य हि अग्नेः तदभावे स्यान्निर्वाणम्। यदा तु प्रदीपननिरपेक्ष, तदा निर्वाणप्रत्ययवैकल्यान्नित्यप्रदीप्त एव भवेत्। नित्यप्रदीप्ते चाग्नौ सति अग्नेरपरिनिर्वाणार्थ चास्य उपादानसंधुक्षणादिकं व्यर्थमेव स्यात्। एवं च सति अकर्मकोऽग्निः कर्ता स्यात्। न च अविद्यमानकर्मकस्य कर्तृत्वं वन्ध्यासुतस्येव। तस्मादिन्धनादग्नेरन्यत्वमिति न युज्यते॥३॥

अत्राह - यदेतदुक्तम् -

अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत्।

इति , तदयुक्तम्। इहान्यत्वे ऽपि सति अग्नीन्धनयोर्न विनैव इन्धनेन अग्नेरस्तित्वम्। यस्माज्ज्वालापरिगतोऽर्थो दाह्यत्वलक्षणः इन्धनम्। तदाश्रयेण च अग्निरुपलभ्यते न पृथक्। यदा चैतदेवम्, अग्निसंबन्धादेवेन्धनव्यपदेशो भवति, इन्धनाश्रयेण चाग्निरुपलभ्यते न पृथक्, तदा अन्यश्चेदिन्धनादग्निरित्यादिदोषप्रसङ्गस्य नास्त्येवावसर इति। अस्य पक्षस्याष्ययुक्ततामुद्भावयन्नाह -

तत्रैतस्मादिध्यमानमिन्धनं भवतीति चेत्।
केनेध्यतामिन्धनं तत्तावन्मात्रमिदं यदा॥४॥

यदि मन्यसे ज्वालापरिगतोऽर्थो दाह्यलक्षणः इन्धनम्, तदाश्रयश्चाग्निरिति, एवमपि परिकल्प्यमाने इन्धनमग्निर्दहतीति नोपपद्यते। यस्मात्

केनेध्यतामिन्धनं तत्तावन्मात्रमिदं यदा।

इहेन्धनमग्निर्दहतीति परिकल्प्यमाने ज्वालापरिगतं दाह्यमिन्धनमिति, न चैतद्वयतिरेकेणा परमग्निं पश्यामो येनेन्धनं दह्येत। यस्मादेतावन्मात्रमिदमुपलभ्यते यदुत ज्वालापरिगतं दाह्यमात्रम्। यदा चैतद्वयतिरिक्तो नास्त्यग्निः, तदा केन तदिन्धनं दाह्यताम्? तावन्मात्रमिदं यदा, इध्यमानमात्रमिदं यदेत्यर्थः। तस्मान्नाग्निरिन्धनं दहति तद्वयतिरिक्ताग्न्यभावात्। यदा चैवम्, तदा कुतः कस्यचिज्ज्वालापरिगतिरिति स एव दोषो न वेपते॥४॥

अपि च। अन्यत्वाभ्युपगमेऽग्नीन्धनयोरिध्यमानव्यपदेशाभावात्कुत इध्यमानमिन्धनम्, कुतो वा इन्धनमग्निर्धक्ष्यतीति प्रतिपादयन्नाह -

अन्यो न प्राप्स्यतेऽप्राप्तो न धक्ष्यत्यदहन् पुनः।
न निर्वास्यत्यनिर्वाणः स्थास्यते वा स्वलिङ्गवान्॥५॥

यदि इन्धनादन्योऽग्निः स्यात्, सोऽन्यत्वादन्धकारमिवेन्धनं न प्राप्नुयात्। न च धक्ष्यति अप्राप्तत्वाद्विप्रकृष्टदेशावस्थितमिवेत्यभिप्रायः। एवं च इध्यमानमिन्धनं भवतीति नोपपन्नमेव। ततश्च अग्नेर्निर्वाणं न स्यात्। अनिर्वाणश्च स्वलिङ्गवानेव स्थास्यति, प्रदीप्त इत्यर्थः। वाशब्दोऽवधारणे द्रष्टव्यो विकल्पार्थो वा। स्वलिङ्गवानेव अग्निः स्थास्यति, यदि वा नास्त्यन्यत्वमग्नेरिन्धनादिति। समुच्चये वा। अन्यो न प्राप्स्यति न धक्ष्यति न च निर्वास्यति स्वलिङ्गवांश्च स्थास्यति। तस्मादयुक्तमिन्धनादन्यत्वमग्नेः॥५॥

अत्राह - अयुक्तमग्नीन्धनयोरन्यत्वम्, यस्मान्न प्राप्स्यतेऽप्राप्तो न धक्ष्यत्यदहन् पुनरित्यादि, तदयुक्तम्। दृष्टा हि अन्यत्वे स्त्रीपुरुषयोः प्राप्तिः, एवमग्नीन्धनयोरपि भविष्यतीति। उच्यते -

अन्य एवेन्धनादग्निरिन्धनं प्राप्नुयाद्यदि।
स्त्री संप्राप्नोति पुरुषं पुरुषश्च स्त्रियं यथा॥६॥

स्यादेतदेवम्, यदि स्त्रीपुरुषवत्परस्परानपेक्षा अग्नीन्धनयोः सिद्धिः स्यात्॥६॥

न त्वस्तीत्याह -
अन्य एवेन्धनादग्निरिन्धनं काममाप्नुयात्।
अग्नीन्धने यदि स्यातामन्योन्येन तिरस्कृते॥७॥

न त्वेवं संभवति यदिन्धननिरपेक्षोऽग्निः स्यात्, अग्निनिरपेक्षं चेन्धनमिति। तस्माद् दृष्टान्तवैयर्थ्यम्। अन्योन्यापेक्षाधीनजन्मनां सत्यन्यत्वे येषां प्राप्तिः सिद्धा, तेषामेव दृष्टान्तत्वेनो पादानं न्याय्यं स्यात्। ते च न संभवन्तीति न युक्तमेतदन्यत्वे सति प्राप्तिरस्तीति॥७॥

अत्राह - यद्यपि अग्नीन्धनयोः स्त्रीपुरुषवत्परस्परनिरपेक्षा सिद्धिर्नास्ति, तथापि परस्परा पेक्षा तावदस्ति। ततश्च अस्त्येवाग्नीन्धनयोः स्वरूपसिद्धिः परस्परसापेक्षत्वात्। न हि अविद्यमानयोर्वन्ध्यापुत्रदुहित्रोः परस्परापेक्षता दृष्टेति। उच्यते। एवमपि -

यदीन्धनमपेक्ष्याग्निरपेक्ष्याग्निं यदीन्धनम्।
कतरत्पूर्वनिष्पन्नं यदपेक्ष्याग्निरिन्धनम्॥८॥

अस्येन्धनस्य अयमग्निर्दाहकः कर्ता, इत्येवं यदि इन्धनमपेक्ष्याग्निर्व्यवस्थाप्यते, अस्यान्ने रिदमिन्धनं कर्मेत्येवमग्निमपेक्ष्य यदीन्धनम्, तत् कतरदनयोः पूर्वनिष्पन्नम् ? किमिन्धनं यदपेक्ष्याग्नि स्यात्, उत अग्निर्यमपेक्ष्येन्धनं स्यात्? तत्र यदि इन्धनं पूर्वनिष्पन्नमिति कल्प्यते, तदयुक्तम्, अग्निनिरपेक्षस्य अनिध्यमानस्येन्धनत्वाभावात्, तृणादेः सर्वस्य चैव इन्धनत्वप्रसङ्गात्। अथ पूर्वमग्निः पश्चादिन्धनमिति, तदप्ययुक्तम्, इन्धनात्पूर्वसिद्धस्याग्नेरसंभवात्, निर्हेतुकत्वप्रसङ्गात्। पश्चाच्चापेक्षया निष्प्रयोजनत्वात्। तस्मान्नास्ति अत्र किंचित्पूर्वसिद्धं यदपेक्ष्य इतरस्य सिद्धि स्यात्॥८॥

अथापि मन्यसे - पूर्वमिन्धनं पश्चादग्निरिति, एवमपि

यदीन्धनमपेक्ष्याग्निरग्नेः सिद्धस्य साधनम्।

भविष्यति। यदि इन्धनमपेक्ष्याग्निर्भविष्यतीति परिकल्प्यते, एवं तर्हि सिद्धस्य सतोऽग्नेः पुनरपि साधनं स्यात्। विद्यमानस्यैव पदार्थस्य सिद्धरूपस्यापेक्षा युज्यते। न हि अविद्यमानो देवदत्तो गृहे कंचिदपेक्षते। एवं यदि अग्निर्विद्यमानो न स्यात्, नासाविन्धनमपेक्षते। तस्मादस्तित्वमग्ने रम्भुपेयम्। तदा च किमस्य इन्धनस्यापेक्षया पुनः कर्तव्यम्? न हि सिद्धोऽग्निः पुनरिन्धनेन कर्तव्यो यदर्थमिन्धनापेक्षासाफल्यं स्यात्। तस्मादिन्धनमपेक्ष्याग्निर्भवतीति न युक्तम्।

अपि च। यदि इन्धनमपेक्ष्याग्निर्भवतीति परिकल्प्यते -

एवं सतीन्धनं चापि भविष्यति निरग्निकम्॥९॥

यदि इन्धनमसिद्धं स्यात्, नैव तदग्निना अपेक्ष्येत, असिद्धस्यापेक्षायोगात्। तस्मान्निरग्निकस्येन्धनस्य सिद्धिरभ्युपेया, न चैवमेतदिति न युक्तमेतदिति॥९॥

अथ मतम्-यौगपद्येनैव इन्धनसिद्धया अग्निसिद्धिः, अग्निसिद्धया च इन्धनसिद्दिः। ततश्च एकस्यापि पूर्वसिद्धयनभ्युपगमात्, तत्र यदुक्तम् -

कतरत्पूर्वनिष्पन्नं यदपेक्ष्याग्निरिन्धनम्।

इति, तदयुक्तमिति। उच्यते। एवमपीष्यमाणे उभयस्यापि नास्ति सिद्धिः। यस्मात् -

योऽपेक्ष्य सिध्यते भावस्तमेवापेक्ष्य सिध्यति।
यदि योऽपेक्षितव्यः स सिध्यतां कमपेक्ष्य कः॥१०॥

तत्र यदि यः अग्न्याख्यो भावः यमिन्धनाख्यं भावमपेक्ष्य सिध्यति, इन्धनाख्यश्च भावः योऽग्निना आत्मसिद्धयर्थमपेक्षितव्यः, स यदि तमेव अग्न्याख्यं पदार्थमपेक्ष्य सिध्यति, कथ्यतामिदानीं सिध्यतां कमपेक्ष्य कः इति। यदा च अग्न्यभावे सति इन्धनस्य सिद्धिरेव नास्ति, तदा अकारणस्येन्धनस्याभावात् कुतस्तद्धेतुकोऽग्निः प्रसेत्स्यति? एवं य इन्धनाख्यो भावः यमग्न्याख्यं भावमपेक्ष्य सिध्यति, अग्न्याख्यश्च भावो यः इन्धनाख्येन आत्मसिद्धयर्थमपेक्षितव्यः, स यदि तमेवेन्धनाख्यं भावमपेक्ष्य सिध्यति, कथ्यतां किमिदानीं सिध्यतां कमपेक्ष्य कः इति। यदा हि इन्धनाभावे सति अग्नेः सिद्धिर्नास्ति, तदा निष्कारणस्याग्नेरभावात् कुतस्तद्धेतुक- मिन्धनम्?॥१०॥

इतश्च अग्नीन्धनयोः परस्परापेक्षयापि सिद्धिरसती, सिद्धासिद्धयोरपेक्षाभावादिति प्रतिपादयन्नाह -

योऽपेक्ष्य सिध्यते भावः सोऽसिद्धोऽपेक्षते कथम्।
अथाप्यपेक्षते सिद्धस्त्वपेक्षास्य न युज्यते॥११॥

यो हि अग्न्याख्यो भावः इन्धनाख्यं भावमपेक्ष्य सिध्यति, सः असिद्धो वा इन्धनमपेक्षते सिद्धो वा? यदि असिद्धः, तदा असिद्धत्वात् खरविषाणवन्नेन्धनमपेक्षेत। अथ सिद्धः, सिद्धत्वात् किमस्येन्धनापेक्षया? न हि सिद्धं पुनरपि साध्यते वैयर्थ्यात्। एवमिन्धनेऽपि वाच्यम्। तस्मान्नाग्नीन्धनयोः परस्परापेक्षया यौगपद्येन वा सिद्धिरिति॥११॥

यतश्चैवम्, तस्मात्-
अपेक्ष्येन्धनमग्निर्न

अथ स्यात्- अनपेक्ष्याग्निस्तर्हि भविष्यतीति। एतदपि न युक्तमित्याह -

नानपेक्ष्याग्निरिन्धनम्।

अन्यत्वप्रतिषेधादहेतुकत्वप्रसङ्गाच्च। यथा च अग्निरपेक्ष्य वा अनपेक्ष्य वा इन्धनं संभवति, एवमिन्धनमपीत्याह -

अपेक्ष्येन्धनमग्निं न नानपेक्ष्याग्निमिन्धनम्॥१२॥

एतच्च अनन्तरमेव गतार्थत्वान्न पुनरुच्यते॥१२॥

अत्राह-किमनया अस्माकमतिसूक्ष्मेक्षिकया प्रयोजनम्, ये वयं ब्रूमः -यस्मादग्निना इध्यमानमिन्धनं प्रत्यक्षत उपलभ्यते, तस्मात्ते एव अग्नीन्धने इति। उच्यते। स्यादेतदेवम्, यदि अग्निरिन्धनं दहेत्। यदि इन्धनेऽग्निः संभवेत्, स इन्धनं दहेत्। न तु संभवतीत्याह -

आगच्छत्यन्यतो नाग्निरिन्धनेऽग्निर्न विद्यते।

इन्धनव्यतिरिक्तात्तावत्कुतश्चिदन्यतोऽग्नेरागमनं नास्ति, तस्य अदृष्टत्वात्। निरिन्धनस्य चाहेतुकस्याग्नेरागमनाभावात्, सेन्धनस्य चागमने प्रयोजनाभावात्, तत्रापि चेन्धने तुल्यपर्यनुयोगात्, अनवस्थाप्रसङ्गाच्च आगच्छत्यन्यतो नाग्निः। तथा इन्धनेऽप्यग्निर्न संभवति तत्रानुपलभ्यमानत्वात्।

अथ स्यात् - विद्यमानस्यापि मूलोदकादिवदभिव्यञ्जकप्रत्ययवैकल्यात्पूर्वमनुपलभ्यमानत्वम्, अरणिनिघर्षणादभिव्यञ्जकप्रत्ययसंभवात्तु पश्चादुपलब्धिरिति। इदमेव तावत्संप्रधार्यते -किं पुनर्मूलोदकादीनामभिव्यञ्जकैः प्रत्ययैः क्रियत इति। तत्र स्वरूपं तावन्न क्रियते विद्यमानत्वात् अभिव्यक्तिः क्रियत इति चेत्, केयमभिव्यक्तिर्नाम? प्रकाशतेति चेत्, एवं तर्हि सैव क्रियते पूर्वमविद्यमानत्वादस्याः। सत्कार्यवादत्यागश्चैवं जायते अभिव्यक्तेः पूर्वमविद्यमानत्वात्पश्चाच्च भावात्। स्वरूपस्य चोत्पत्तिप्रत्ययनिरपेक्षत्वात्खपुष्पवदभिव्यक्तिप्रत्ययसापेक्षतापि न स्यात्। अपि च इयमभिव्यक्तिरभिव्यक्तस्य वा भावस्य परिकल्प्येत अनभिव्यक्तस्य वा? तत्र तावद् यदभिव्यक्तं तन्नाभिव्यज्यते, तस्याभिव्यक्तिवैयर्थ्यात् अनिष्टदोषप्रसङ्गाच्च। अनभिव्यक्तमपि नाभिव्यज्यते खपुष्पवदनभिव्यक्तत्वात्। इत्येवमभिव्यक्तिर्न संभवति॥

अथापि स्यात् - विद्यमानस्यैव प्रत्ययैः स्थौल्यं क्रियते इति , एवमपि यदेव स्थौल्यं पूर्वं नास्तीति तदेव क्रियत इति कुतः स्थौल्यापादनमभिव्यक्तिः? सौक्ष्म्यस्य च निर्हेतुकस्यासंभवात् कस्य स्थूलतापादनादभिव्यक्तिः स्यादिति। तदेवं सर्वथा इन्धने अग्नेर्न संभव इति इन्धनेऽग्निर्न विद्यते। न चाविद्यमानाग्निना इन्धनस्य दहनमुपजायते इत्यसत्यमेवैतदुपलभते भवान्।

अपि च। यथा पूर्वं गतागतगम्यमानानां दूषणमुक्तम् -

अत्रेन्धने शेषमुक्तं गम्यमानगतागतैः॥ १३॥

अग्निना इन्धनं दह्यमानमुपलभ्यते इत्यत्र इन्धनप्रस्तावे शेषं दूषणं गम्यमानगतागम दूषणेन वेदितव्यम्, उक्तपाठविपर्ययेण -

दग्धं न दह्यते तावददग्धं नैव दह्यते।
दग्धादग्धविनिर्मुक्तं दह्यमानं न दह्यते॥

इत्यादिना। यत एवम्, अतो नास्त्यग्निना इन्धनस्य दहनमिति वेदितव्यम्॥१३॥
इदानीं यथोपपादितमर्थं निगमयन्नाह -
इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात्।
नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु सः॥१४॥

तत्र
यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः।
भवेत्, इत्यनेन अग्नीन्धनयोरकत्वप्रतिषेधात्
इन्धनं पुनरग्निर्न,
अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत्।
इत्यादिना अन्यत्वस्य प्रतिषेधात्
नाग्निरन्यत्र चेन्धनात्।
तत्त्वान्यत्वोभयपक्षप्रतिषेधादेव तद्वत्पक्षाधाराधेयपक्षाणामप्यर्थतः प्रतिषिद्धत्वात्तानपि निगमयन्नाह -

नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु सः।

इति। तत्राग्निरिन्धनवान्न भवति। इन्धनमस्यास्मिन् वा विद्यत इति व्यतिरेकेण वा व्युत्पादेन अव्यतिरेकेण वा। तत्र व्यतिरेकेण - तद्यथा गोमान् देवदत्तः। अव्यतिरेकेण - बुद्धिमान् देवदत्तो रूपवानित्यादि। अग्नीन्धनयोश्च पक्षद्वयस्यापि प्रतिषिद्धत्वादिन्धनवानग्निरिति प्रतिषेधो विहितः। अन्यच्च। कुण्डं दध्न आधारतां प्रतिपद्यते। न चेन्धनादन्यत्वमग्नेरस्तीति नाग्नाविन्धनानीति युज्यते। नापि इन्धनेऽस्त्यग्निः, अन्यत्वप्रतिषेधादिति। एवमाधाराधेयताप्रतिषेधोऽप्यर्थत उपपादित एव॥१४॥

यथा चाग्निः पञ्चधा विचार्यमाणो न संभवति, एवमात्मापि, इत्यतिदिशन्नाह -

अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयोः क्रमः।
सर्वो निरवशेषेण

तत्र उपादीयते इत्युपादानं पञ्चोपादानस्कन्धाः। यस्तानुपादाय प्रज्ञप्यते, स उपादाता ग्रहीता निष्पादक आत्मेत्युच्यते। अहंकारविषयत्वादाहित उत्पादितोऽहंमानोऽस्मिन्निति। तदस्यात्मन उपादानस्य च यः क्रमः सिद्धिः, स सर्वोऽग्नीन्धनाभ्यां व्याख्यातोऽवगन्तव्यो निरवशेषेण॥

कः पुनः सर्वस्य निरवशेषस्य च भेदः? सर्वग्रहणेनैव पञ्च पक्षाः समनन्तरप्रक्रान्त अभिसंबध्यन्ते। सर्वे एते पञ्चापि पक्षाः अग्नीन्धनवदात्मोपादानयोरप्यविकला ढौकनीयाः। यश्चैया प्रतिपादने उपपत्तिक्रमः प्रागुपवर्णितः, तेन निरवशेषेण आत्मोपादानयोः प्रतिषेधो वेदितव्यः इत्यनेन सर्वात्मना प्रतिषेधसाम्यमग्नीन्धनाभ्यामात्मोपादानयोर्वेदितव्यमित्युपदर्शनार्थं सर्वो निरव शेषेणेत्याह। तत्र यदेवोपादानं स एव आत्मा, इत्येवं कर्तृकर्मणोरेकत्वप्रसङ्गान्न युज्यते नाप्यन्यदुपादानमन्य उपादाता, स्कन्धव्यतिरेकेणाप्यात्मोपलब्धिप्रसङ्गात्, परत्र निरपेक्षत्वा दित्यादिप्रसङ्गाच्च। एकत्वान्यत्वप्रतिषेधाच्च स्कन्धवानष्यात्मा न भवति। अन्यत्वाभावाच्च नात्मनि स्कन्धा न स्कन्धेष्वात्मा। यत एवं पञ्चसु प्रकारेषु आत्मनो न सत्त्वम्, तस्मात्कर्मकारकवदेव आत्मोपादानयोः परस्परापेक्षिकी सिद्धिरिति स्थितम्॥

यश्चायमात्मोपादानयोः क्रमः, स नानयोरेव, किं तर्हि -

सार्घं घटपटादिभिः॥१५॥

निरवशेषैः पदार्थैः सर्वथा व्याख्यातो वेदितव्यः। घटादयो हि कार्यकारणभूत अवयवावयविभूता लक्षणलक्ष्यभूता गुण्नगुणिभूता वा स्युः। तत्र मृद्दण्डचक्रसूत्रसलिलकुलालकरव्यायामादयो घटस्य कारणभूताः, घटः कार्यभूतः। कपालादयो नीलादयो वा अवयवभूताः घटोऽवयवी। पृथुबुध्नलम्बौष्ठदीर्घग्रीवत्वादीनि लक्षणानि घटो लक्ष्यः। श्यामत्वादयो गुणाः, घटो गुणी। इत्येवं व्यवस्थाप्य अग्नीन्धनवत् क्रमो योज्यः। एषां च घटादीनामात्मोपादानयोश्च मध्यमकावतारप्रकरणाद् व्याख्यानमवसेयम्॥१५॥

तदेवं कर्मकारकवदात्मोपादानयोर्घटादीनां च परस्परापेक्षिक्यां सिद्धौ व्यवस्थितायां तथा गतवचनाविपरीतार्थावबोधाभिमानितया तीर्थ्यमतोपकल्पितपदार्थव्यवस्थां सौगतप्रवचनार्थत्वेनोपनीय अतिमूढतया -

आत्मनश्च सतत्त्वं ये भावानां च पृथक्पृथक्।
निर्दिशन्ति न तान्मन्ये शासनस्यार्थकोविदान्॥१६॥

तत्र सह तेन वर्तत इति सतत्, सततो भावः सतत्त्वम्, अपृथक्त्वम्, अनन्यत्वम् एकत्वमित्यर्थः। तदेतत् सतत्त्वं ये वर्णयन्ति, न तानाचार्यः शासनार्थपण्डितान् मन्यते। तद्यथा - आत्मा उपादानेन प्रज्ञप्यते येन, सहैव तेनोपादानेन संभवति। स न पृथक्। अव्यतिरेकेणैव भवतीत्यर्थः। एवं येन कारणेन मृदादिना घटः प्रज्ञप्यते, तदव्यतिरेकेणैव स भवति, न पृथक्। एवमात्मनो भावानां च सतत्त्वं ये वर्णयन्ति, न ते परमगम्भीरस्य प्रतीत्यसमुत्पादस्थ शाश्वतोच्छेदरहितस्य उपादायप्रज्ञप्त्यभिधानस्य तत्त्वं पश्यन्ति। पृथक् पृथक् च ये निर्दिशन्ति, पृथगित्यात्मानम्, पृथगुपादानम्, पृथक् कार्यम्, पृथक् कारणम्, इत्यादिना अन्यत्वं पश्यन्ति, अमूनपि न शासनस्यार्थकोविदानाचार्यो मन्यते। यथोक्तम् -

एकत्वान्यत्वरहितं प्रतिश्रुत्कोपमं जगत्।
संक्रान्तिमासाद्य गतं बुद्धवांस्त्वमनिन्दितः॥

एवं च अग्नीन्धनपरीक्षया अधिगतधर्मतत्त्वपरमस्य योगिनः कल्पेनाकालालिप्सितैरपि नैव वपुर्दह्यते रागद्वेषमोहहुताशनैरपि वा इति । यथोक्तं भगवता -

यथ गगणु न जातु दग्धपूर्वं
सुबहुभि कल्पशतैर्हि दह्यमानम्।
गगनसम विजानमान धर्मान्
सोऽपि न दह्यति जातु साग्निमध्ये॥
सर्वि हि ज्वलमाणि बुद्धक्षेत्रे
प्रणिधि करोति समाधिये स्थिहित्वा।
ज्वलत अयु प्रशाम्यतामशेष
पृथिवि विनश्यिपि नैवस्यान्यथात्वम्॥

अरणिं यथ चोत्तरारणिं
हस्तव्यायामु त्रयेभि संगतिः।
इति प्रत्ययतोऽग्नि जायते
जातु कृतु कार्य लघू निरुध्यते॥
अथ पण्डितु कश्चि मार्गते
कुत अयमागतु कुत्र याति वा।
विदिशो दिश सर्वि मार्गतो
नागतिर्नास्य गतिश्च लभ्यति॥
स्कन्धायतनानि धातवः
शून्य आध्यात्मिक शून्य बाहिराः।
सर्वात्मविविक्तनालया
धर्म आकाशसभावलक्षणाः॥
इमु ईदृश धर्मलक्षणा
बुद्ध दीपंकरदर्शने त्वया॥

अनुबुद्ध यथ त्वयात्मना
तथ बोधेहि सदेवमानुषान्॥
विपरीत‍अभूतकल्पितै
रागदोषैः परिदह्यते जगत्।
कृपमेघशमाम्बुशीतलां
मुञ्च धाराममृतस्य नायक॥

इति विस्तरः॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
अग्नीन्धनपरीक्षा नाम दशमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project