Digital Sanskrit Buddhist Canon

नवमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Navamaṁ prakaraṇam

पूर्वपरीक्षा नवमं प्रकरणम्।

अत्राह - यदुक्तम् - 'एवं विद्यादुपादानं व्युत्सर्गादिति कर्मणः। कर्तुश्च' इति , तदयुक्तम्। यस्मात् -

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ।
भवन्ति यस्य प्रागेभ्यः सोऽस्तीत्येके वदन्त्युत॥१॥

यस्य उपादातुः दर्शनश्रवणघ्राणरसनादीनि वेदनास्पर्शमनस्कारादीनि च भवन्ति, स उपादाता पूर्वमेभ्य उपादानेभ्योऽस्तीति सांमितीया वदन्ति॥१॥

किं कारणम्? यस्मात् -

कथं ह्यविद्यमानस्य दर्शनादि भविष्यति।
भावस्य तस्मात्प्रागेभ्यः सोऽस्ति भावो व्यवस्थितः॥२॥

इह विद्यमान एव देवदत्तो घनोपादानं कुरुते नाविद्यमानो वन्ध्यातनयः। एवं यदि तावत्पुद्गलो दर्शनादिभ्यः पूर्वं व्यवस्थितो न स्यात्, नासौ दर्शनादिकस्योपादानमकरिष्यत्। तस्मादस्ति असौ घनात्प्रागेव स्थितदेवदत्तवत् दर्शनादिभ्यः पूर्वं पुद्गलो योऽस्य उपादानं करिष्यतीति॥२॥

उच्यते -
दर्शनश्रवणादिभ्यो वेदनादिभ्य एव च।
यः प्राग्व्यवस्थितो भावः केन प्रज्ञप्यतेऽथ सः॥३॥

यौऽसौ पुद्गलो दर्शनादिभ्यः पूर्वमस्तीति व्यवस्थाप्यते, स केन प्रज्ञप्यताम्? पुद्गलप्रज्ञप्तेर्हि दर्शनादिकं कारणम्। स यदि तेभ्यः प्राग्व्यवस्थितोऽस्तीति कल्प्यते, तदा दर्शननिरपेक्षः स्याद् घटादिव पटः। यश्च स्वकारणनिरपेक्षः स निर्हेतुको घनादिनिरपेक्षः घनिकवन्नास्तीत्यभिप्रायः॥३॥

किं चान्यत् -
विनापि दर्शनादीनि यदि चासौ व्यवस्थितः।
अमून्यपि भविष्यन्ति विना तेन न संशयः॥४॥

यदि मन्यसे - दर्शनादिभ्यः पूर्वं पुद्गलो नामास्ति, स दर्शनादिकमुपादानमुपादत्ते इति। नन्वेवं सति निरस्तसंशयममून्यपि दर्शनादीनि विना पुद्गलेन भविष्यन्ति। तथाहि देवदत्तो घनसंबन्धात्पूर्वं धनव्यतिरिक्तो व्यवस्थितः सन् अर्थान्तरभूतमेव पृथक्सिद्धं धनमुपादत्ते। एवमुपादातुरपि स्वात्मव्यतिरेकेणार्थान्तरभूतं दर्शनादिकमुपादानं स्यात्॥४॥

न तु संभवतीत्याह -

अज्यते केनचित्कश्चित् किंचित्केनचिदज्यते।
कुतः किंचिद्विना कश्चित् किंचित्कंचिद्विना कुतः॥५॥

इह बीजाख्येन कारणेन किंचित्कार्यमभिव्यज्यतेऽङ्कुराख्यम् , तेन च कार्येण किंचित् कारणमभिव्यज्यते बीजाख्यम् - अस्येदं कारणमिदमस्य कार्यमिति। एवं यदि केनचिद्दर्शनादिके नोपादानेन कश्चिदात्मस्वभावोऽभिव्यज्यते अस्यायमुपादातेति, केनचिच्चात्मना किंचिदुपादानं दर्शनादिकमभिव्यज्यते इदमस्योपादानमिति, तदानीं स्यात्परस्परापेक्षयोरुपादानोपादात्रोः सिद्धिः यदा तु उपादातारं विना पृथक् सिद्धं दर्शनादिकमभ्युपगम्यते, तदा तन्निराश्रयमसदेव तस्मान्नास्त्युभयोरपि सिद्धिः, इति न युक्तमेतत् - दर्शनादिभ्यः पृथगवस्थित उपादातेति॥५॥

अत्राह - यदुक्तं दर्शनश्रवणादिभ्य इत्यादि, अत्रोच्यते। यदि सर्वेभ्यो दर्शनादिभ्य प्रागवस्थित इत्यभ्युपगतं स्यात्, स्यादेष दोषः। यदा तु -

सर्वेभ्यो दर्शनादिभ्यः कश्चित्पूर्वो न विद्यते।

किं तर्हि एकैकस्मात्पूर्वो विद्यते। यदा चैवम् , तदा -

अज्यते दर्शनादीनामन्येन पुनरन्यदा॥६॥

यदा दर्शनेन द्रष्टेत्यभिव्यज्यते, न तदा श्रवणादीन्युपादाय प्रज्ञप्यते, ततश्च पूर्वोक्त दोषानवसर इति॥६॥

उच्यते। एतदपि न युक्तं दर्शनादिरहितस्य निरुपादानस्य निर्हेतुकस्य निरञ्जनस्या स्तित्वासंभवात्।
सर्वेभ्यो दर्शनादिभ्यो यदि पूर्वो न विद्यते।

इति परिकल्प्यते, एवमपि -
एकैकस्मात्कथं पूर्वो दर्शनादेः स विद्यते॥७॥

यो हि सर्वेभ्यः पूर्वो न भवति, स एकैकस्मादपि न भवति। तद्यथा सर्वेभ्यो वृक्षेभ्य प्राग् वनं नास्ति, तदा एकैकस्मादपि नास्ति। सर्वासां च सिकतानां तैलजननाभावे सति एकैकस्या अपि सिकतायास्तैलं नास्ति। अपि च। यो ह्येकैकस्मात्पूर्वो भवति, ननु स सर्वेभ्योऽपि पूर्वं एवेत्यभ्युपगतं भवति। एकैकव्यतिरेकेण सर्वस्याभावात्। तस्मान्न युक्तमेकैकस्मात्पूर्वो विद्यत इति॥७॥

इतश्च न युक्तम् - यस्मात् -

द्रष्टा स एव स श्रोता स एव यदि वेदकः।
तदा -
एकैकस्माद्भवेत्पूर्वं

न च युक्तं वक्तुं स एव द्रष्टा स एव श्रोतेति। यदि स्यात्, तदा दर्शनक्रियारहित स्यापि श्रोतुर्द्रष्ट्टत्वं स्यात्, श्रवणक्रियारहितस्यापि द्रष्टुः श्रोतृत्वं स्यात्। न चैवं दृष्टं यद्दर्शनक्रिया रहितोऽपि द्रष्टा स्यात्, श्रवणक्रियारहितश्च श्रोतेति। अत एवाह -

एवं चैतन्न युज्यते॥८॥

इति। प्रतिक्रियं च कारकभेदात्कुत एतदेवं भविष्यतीति प्रतिपादयन्नाह -एवं चैतन्न युज्यत इति॥

आचार्यबुद्धपालितस्तु व्याचष्टे- एकत्वे हि आत्मनः इन्द्रियान्तरगमनप्रसङ्गः पुरुषस्य स्यात्, वातायनान्तरोपगमनवदिति। अस्य आचार्यभावविवेको दूषणमाह - सर्वगतस्यात्मनो नेन्द्रियान्तरगमनमस्तीत्ययुक्तः प्रसङ्गदोष इति। तदेतदयुक्तं स्वयूथ्यपरिकल्पितपुद्गलवादनिरासस्य प्रस्तुतत्वात्, तस्य च सर्वगतत्वाप्रतिज्ञानात्। तस्माद् युक्त एव प्रसङ्गदोष॥८॥

अथापि यथोक्तदोषपरिजिहीर्षया-
द्रष्टान्य एव श्रोतान्यो वेदकोऽन्यः पुनर्यदि।

परिकल्प्यते , तदपि न युक्तम्। एवं हीष्यमाणे-

सति स्याद् द्रष्टरि श्रोता बहुत्वं चात्मनां भवेत्॥९॥

तद्यथा गोरन्योऽश्वः न हि गवि सति न भवति यौगपद्येन, एवं यदि द्रष्टुरन्यः श्रोता स्यात्, सद्रष्टर्यपि सति स्याद्यौगपद्येन। न चैवमिष्यते इति नास्त्यन्यत्वम्। अपि च। एवं सति बहव एवात्मानः प्राप्नुवन्ति द्रष्ट्टश्रोतृवेदकादीनां पृथक् पृथक् सिद्धयुपगमात्। तस्मादेकैकस्मादपि दर्शनादेः पूर्वं नास्ति पुद्गलो नाम कश्चित्॥९॥

अत्राह - विद्यत एव पूर्वं स सर्वेभ्यो दर्शनादिभ्य आत्मा। अथ मतम् - यद्यस्ति, केन प्रज्ञप्यते स इति यदुच्यते, इह दर्शनादिभ्यः पूर्वं नामरूपावस्थायां चत्वारि महाभूतानि सन्ति यतः क्रमान्नामरूपप्रत्ययं षडायतनमिति दर्शनश्रवणादीन्युत्पद्यन्ते। तस्माद्दर्शनादिभ्यः पूर्वं चतुर्महाभूतोपादानमेवास्तीति। एवमपि -

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ।
भवन्ति येभ्यस्तेष्वेष भूतेष्वपि न विद्यते॥१०॥

येभ्यो महाभूतेभ्यो दर्शनादिकमुत्पद्यते, तेष्वपि महाभूतोपादाननिमित्तकोऽप्येष न युज्यते पूर्वेणैव हेतुनेत्यभिप्रायः। तत्र यथा पूर्वमुक्तम् -

कुतः किंचिद्विना कश्चित्किंचित्कंचिद्विना कुतः।

इति, इहापि तथैव वक्तव्यम्। महाभूतोपादानाद्यश्चात्मा पूर्वं सिद्धः स्यात्, स महाभूतान्युपादाय स्यात्। न चैवम्, निर्हेतुकत्वात्। यश्च नास्ति, स कथं महाभूतान्युपादास्यति? इति दर्शनोपादानवद्भूतोपादानेऽपि दूषणमुक्तमेवेति न पुनरुच्यते॥१०॥

अत्राह - यद्यप्येवमात्मा प्रतिषिद्धः, तथापि दर्शनादिकमस्ति, अप्रतिषेधात्। न च अनात्मस्वभावानां घटादीनां दर्शनादिसंबन्धोऽस्ति। तस्मात्संबन्धी विद्यत एवात्मेति। उच्यते। स्यादात्मा यदि दर्शनादीन्येव स्युः। न तु सन्ति। यस्य दर्शनादीन्युपादानं स यदा नास्तीति प्रतिपादितम् , तदा तस्मिन्नात्मनि उपादातरि असति, कुतो दर्शनादीनामुपादानभूतानामस्तित्व मित्याह -

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ।
न विद्यते चेद्यस्य स न विद्यन्त इमान्यपि॥११॥

यस्य दर्शनादीनि परिकल्प्यन्ते स यदा नास्तीत्युक्तम्, ननु तदैव दर्शनादिकमपि नास्तीति स्पष्टमादर्शितं भवति। ततश्च दर्शनाद्यभावान्नास्त्येवात्मेति॥११॥

अत्राह - किं खलु भवतो निश्चितमेतन्नास्त्येवात्मेति? केन एतदुक्तम्? ननु च अनन्तरमेवोक्तं दर्शनाद्यभावादात्मापि नास्तीति। उक्तमेतदेस्माभिः। न तु अस्यार्थो भवता सम्यग्निश्चितः। यतो भावरूप आत्मेति परिकल्पितः, स स्वभावतो न विद्यते, तस्य च मया स्वभावाभिनिवेशनिवर्तकमेव वचनमुक्तमसद्विपर्यासप्रतिपक्षेण, न तु अस्य अभावः परिकल्पितः। द्वयं ह्येतत् परित्याज्यं यश्च भावेष्वभिनिवेशः, यश्च अभावेषु अभिनिवेश इति। यथोक्तमार्यदेवेन -

यस्तवात्मा ममानात्मा तेनात्मानियमान्न सः।
नन्वनित्येषु भावेषु कल्पना नाम जायते॥

इति॥११॥

एतदेव प्रतिपादयन्नाह -
प्राक् च यो दर्शनादिभ्यः सांप्रतं चोर्ध्वमेव च।
न विद्यतेऽस्ति नास्तीति निवृत्तास्तत्र कल्पनाः॥१२॥

प्राक् तावद्दर्शनादिभ्य आत्मा नास्ति, तत्र हि तस्यास्तित्वाभावात्। दर्शनादिसहभूतोऽपि नास्ति, पृथक्पृथगसिद्धयोः सहभावादर्शनात् शशशृङ्गयोरिव। आत्मोपादानयोश्च परस्परनिरपेक्षयो पृथक्पृथगसिद्धत्वात् सांप्रतमपि नास्ति। उर्ध्वमपि। यदि हि पूर्वं दर्शनादीनि स्युः, उत्तरकाल मात्मा स्यात्, तदानीमूर्ध्वं संभवेत्। न चैवम्, अकर्तृकस्य कर्मणोऽसिद्धत्वात् । यश्चैवमात्मा दर्शनादिभ्यः प्राक् पश्चाद् युगपच्च परीक्ष्यमाणो नास्ति, तस्य इदानीमनुपलब्धस्वभावस्य अस्तित्वं नास्तित्वं वा कः परिकल्पयेत्प्राज्ञः ? तस्मात्कर्मकारकवदेव उपादानोपादात्रोः परस्परापेक्षा सिद्धिर्न स्वाभाविकीति स्थितम्॥

अत एवोक्तं भगवता आर्यसमाधिराजभट्टारके -
तहि कालि सो दशबलो अनघो
जिनु भाषते इमु समाधिवरम्।
सुपिनोपमा भगवती सकला
न हि कश्चि जायति न चो म्रियते॥

न च सत्त्वु लभ्यति न जीवु नरो
इमि धर्म फेनकदलीसदृशाः।
मायोपमा गगनविद्युसमा
दकचन्द्रसंनिभ मरीचिसमाः॥

न च अस्मि लोकि मृतु कश्चि नरो
परलोक संक्रमति गच्छति वा।
न च कर्म नश्यति कदाचि कृतं
फलु देति कृष्णशुभ संसरतो॥

न च शाश्वतं न च उच्छेद पुनो
न च कर्मसंचयु न चापि स्थितिः।
न च सोऽपि कृत्व पुनरास्पृशति
न च अन्यु कृत्व पुन वेदयते॥

न च संक्रमो न च पुनागमनं
न च सर्वमस्ति न च नास्ति पुनः।
न च दृष्टिस्थानगतिशुद्धिरिह
न च सत्त्वचारसुपशान्तगति॥

अनुत्पाद शान्त अनिमित्तपदं
सुगतान गोचर जिनान गुणा।
बल धारणी दशबलान बलं
बुद्धानियं वृषमिता परमा॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
पूर्वपरीक्षा नाम नवमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project