Digital Sanskrit Buddhist Canon

अष्टमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Aṣṭamaṁ prakaraṇam

कर्मकारकपरीक्षा अष्टमं प्रकरणम्।

अत्राह - विद्यन्त एव संस्कृतस्वभावतो विज्ञानादयः संस्कृता धर्माः, तद्धेतुककर्मकारक- सद्भावात्। उक्तं हि भगवता -

अविद्यानुगतोऽयं भिक्षवः पुरुषपुद्गलः पुण्यानपि संस्कारानभिसंस्करोति, अपुण्यानपि, आनिञ्जयानपि संस्कारानभिसंस्करोति।

इत्यादिना कर्मणां कारको व्यपदिष्टः, तत्कर्मफलं च विज्ञानादिकमुपदिष्टम्। यस्य च कारकोऽस्ति, तदस्ति, तद्यथा घटः। यन्नास्ति, न तस्य कारकः, तद्यथा कूर्मरोमप्रावारस्येति। उच्यते। स्याद्विज्ञानादिकं संस्कृतं यदि तस्य निष्पादककर्मकारकौ स्याताम्। न तु स्तः। यस्मात् -

सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम्।
कारको नाप्यसद्भूतः कर्मासद्भूतमीहते॥१॥

तत्र करोतीति कारकः कर्ता। कुर्वाणस्यैव किंचित् कारकव्यपदेशो नाकुर्वाणस्य। तच्च करणं सद्भूतस्य वा कर्तुः परिकल्प्येत, असद्भूतस्य वा, सदसद्भूतस्य वा? क्रियते इति कर्म कर्तुरीप्सिततमम्। तदपि त्रिविधम्, सद्भूतमसद्भूतं सदसद्भूतं च। तत्र सद्भूतः कारकः क्रियायुक्तः सद्भूतं क्रियायुक्तं कर्म न करोतीत्येका प्रतिज्ञा। इदानीमसद्भूतोऽपि क्रियाकारकरहितोऽसद्भुतं क्रियारहितं कर्म न करोतीत्यपरा प्रतिज्ञा॥१॥

तत्राद्यां प्रसाधयितुमाह -

सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम्।

क्रियानिबन्धनत्वात्कारकव्यपदेशस्य, करोति क्रियायुक्त एव कश्चित्सद्भूतः कारकव्यपदेशं लभते, ततश्च तस्यैवंविधस्य क्रियाहेतुकलब्धकारकव्यपदेशस्य अपरा क्रिया नास्ति यया कर्म कुर्यात्। क्रियाभावाच्च यदा कारकः कर्म न करोति, तदा कारकनिरपेक्षमकर्तृकं कर्म स्यात्। न चाकर्तृकं कर्म संभवति बन्ध्यासूनोरिव घटकरणमिति। एवं तावत्

सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम्।

इति दोषप्रसङ्गात् सद्भूतः कारकः कर्म न करोति।

इदानीं सद्भूतमपि कर्म कारको न करोतीति प्रतिपादयन्नाह -
सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः॥२॥

सद्भूतं नाम कर्म क्रियायुक्तम्। तस्येदानीं क्रियानिबन्धनलब्धकर्मव्यपदेशस्य अपरा क्रिया नास्ति यया कर्म क्रियेतेति। एवं तावत्सद्भूतस्य कर्मणः क्रिया नास्ति। यदा नास्ति परा क्रिया, तदा कारकस्तत्सद्भूतं कर्म नैव करोति। यदा च न करोति कर्मणो द्वितीयक्रियाभावात्, तदा अकर्मक एव अविद्यमानकर्मक एव तस्य कर्मणः कारकः स्यात्। न चैतद्यक्तम्। न हि अकृतानन्तर्यकर्मणः आनन्तर्यकर्मकारकत्वं दृष्टमिति॥२॥

एवं सद्भूतः कारकः सद्भूतं कर्म न करोति इति संसाध्य इदानीं यथा असद्भूतमपि कर्म असद्भूतः कारको न करोति तथा प्रतिपादयन्नाह -

करोति यद्यसद्भूतोऽसद्भूतं कर्म कारकः।
अहेतुकं भवेत्कर्म कर्ता चाहेतुको भवेत्॥३॥

असद्भूतः कारको यः क्रियारहितः। क्रिया च कारकव्यपदेशे हेतुरिति क्रियारहित कारकोऽपि निर्हेतुकः स्यात्। कर्माप्यसद्भूतं निर्हेतुकं स्यात्॥३॥

सति च अहेतुकवादाभ्युपगमे कार्यं च कारणं च सर्वमपोदितं स्यादित्याह -
हेतावसति कार्यं च कारणं च न विद्यते।

सत्येव हि हेतोरभ्युपगमे हेतुना यन्निष्पाद्यते तत् कार्यम्, तस्य च यो निष्पादकः तत्कारणमिति युज्यते। तद्यथा घटस्य मृद् हेतुः, घटः कार्यम्, तस्य च चक्रादयः सहकारिकारणम्। अहेतुकवादाभ्युपगमे तु हेत्वनपेक्षत्वान्मण्डूकजटाशिरोमणिमयघटवन्न स्यादयं घटः। असति घटे कुतस्तत्कारणमिति। एवम् -

हेतावसति कार्यं च कारणं च न विद्यते।

ततश्च -

तदभावे क्रिया कर्ता करणं च न विद्यते॥४॥

तदभावे कार्यकारणभावे, किं कुर्वाणस्य क्रिया संभवेत्, कस्यां वा क्रियायां कुम्भकारस्य स्वातन्त्र्यात्कर्तृत्वं स्यात्? न चापि मृदां तादात्म्यप्रवृत्त्या साधकतमत्वेन करणत्वं युज्यत इति एवं तावत् -

तदभावे क्रिया कर्ता करणं च न विद्यते॥

ततश्च-
धर्माधर्मौ न विद्येते क्रियादीनामसंभवे।

इह यदा देवदत्तः प्राणातिपातविरतिक्रियास्वातन्त्र्यात्कर्ता सन् स्वतन्त्रकार्येण करण भूतेन प्राणातिपातविरतिक्रियां करोति, तदास्य धर्म उपजायते। एवं दशस्वपि कुशलेषु कर्मपथेषु कुशलक्रियानिष्पाद्येषु रत्नत्रयमातापितृतदन्यपूज्यपूजादिलक्षणेषु च कुशलधर्मप्रारम्भेषु योज्यम्। एवमधर्मेऽपि प्राणातिपातादिलक्षणे कुशलविपर्ययेण क्रियाकर्तृकरणानामभावे सति कर्मणामभावप्रसङ्ग उद्भावनीयः॥

यदा चैवं धर्माधर्मौ न संभवतः, तदा तत्फलमपि नास्त्येवेति प्रतिपादयन्नाह -

धर्मे चासत्यधर्मे च फलं तज्जं न विद्यते॥५॥

धर्माधर्मजनितमिष्टानिष्टफलं सुगतिदुर्गत्योर्धर्माधर्मयोरभावे सति न स्यात्॥५॥

ततश्च -
फलेऽसति न मोक्षाय न स्वर्गायोपपद्यते।
मार्गः

यदि हि फलमिष्टानिष्टं स्यात, स्याल्लौकिकस्य मार्गस्य ध्यानारूप्यसमाधिसमापत्तिलक्षणं स्वर्गः, तदानीं तदर्थं लौकिकमार्गभावना ज्यायसी स्यात्, कुगतिगमनकर्मपथविरतिसाफल्यं च स्यात्। यदि च मोक्षलक्षणं निर्वाणं फलं स्यात्, तदर्थ लोकोत्तरार्याष्टाङ्गमार्गभावनासाफल्यं स्यात्। यदा तु फलं नास्ति, तदा -

फलेऽसति न मोक्षाय न स्वर्गायोपपद्यते।
मार्गः।
किं च। एवं फलाभावे सति-

सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते॥६॥

या अपि ह्येताः कृषिवाणिज्यबल (भृति ?) गतादिकाः क्रियाः फलार्थ प्रारभ्यन्ते, ता अपि सर्वाः फलाभावे सति नोपपद्यन्त इति। एवं सर्वक्रियाणां नैरर्थक्यं प्रसज्यते भवताम्। न चासां नैरर्थक्यम्। तस्मान्निरवशेषदोषविषवृक्षाकरभूतोऽयं स्वर्गापवर्गापवादी नरकादिमहापाय प्रपातवर्तनहेतुः दृष्टादृष्टहेतुपदार्थविरोधीति कृत्वा, सद्धिः असद्भूतः कारकोऽसद्भूतं कर्म करोतीति पक्षो निकृष्ट एवेति त्याज्यः॥६॥

तदेवं प्रतिज्ञाद्वयं संसाध्य इदानीमुभयरूपः कारकः, उभयरूपमपि कर्म न करोतीत्याह -

कारकः सदसद्भूतः सदसत्कुरुते न तत्।
तत्र यदेतदसद्भूतं कर्म क्रियायुक्तमक्रियायुक्तं च, तत् सदसद्भूतः कारको न करोतीति। यस्मात् -

परस्परविरुद्धं हि सच्चासच्चैकतः कुतः॥७॥

एकः पदार्थः एकस्मिन् काले क्रियायुक्तश्चाक्रियायुक्तश्चेति न युज्यत एवैतत्। ततश्च सदसद्भूतोऽपि कारकः सदसद्भूतं कर्म न करोति, अविद्यमानत्वादित्यभिप्रायः॥७॥

एवं समे पक्षे दूषणमुद्भाव्य विषमपक्षस्यापि निराचिकीर्षया आह -

सता च क्रियते नासन्नासता क्रियते च सत्।
कर्त्रा

सता सद्भूतेन तावत्कर्त्रा क्रियायुक्तेन असद्भूतमसदक्रियायुक्तं कर्म न क्रियते। यस्मात् -
सर्वे प्रसज्यन्ते दोषास्तत्र त एव हि॥८॥

सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम्।

इत्येवं तावत् सद्भूतः कारकः कर्म न करोति, नाप्यसद्भूतं कर्म क्रियते। असद्भूतं हि कर्म अहेतुकं भवेत्। ततश्च -

हेतावसति कार्यं च कारणं च न विद्यते॥

इत्यादिना सर्वं दूषणमापद्यते। तस्मात्पूर्वोक्तैरेव हेतुभिर्दूषितत्वादस्य विषमपक्षस्य न पुनर्हेतोरुपादानमनुष्ठीयते। यथा चैतत् सता कर्त्रा असत्कर्म न क्रियते इति प्रतिपादितम्, एवमसता कर्त्रा अक्रियायुक्तेन सत्कर्म न क्रियते इति व्याख्येयमुक्तपथानुसारेण॥८॥

एवं तावद्विषमपक्षे एकैकपदपरामर्शेन दूषणमभिधाय इदानीमेकैकस्य पदस्य पदद्वय परामर्शेन दूषणाभिधानमाह -

नासद्भूतं न सद्भूतः सदसद्भूतमेव वा।
करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः॥९॥

स कारकः सद्भूतः असद्भूतं कर्म सदसद्भूतमेव वा न करोतीति। कथमित्याह - पूर्वोक्तैरेव हेतुभिरिति। तत्र 'सद्भूतस्य क्रिया नास्ति' इत्यादिना सद्भूतः कारको न करोति। असद्भूतमपि कर्म न क्रियते' अहेतुकं भवेत्कर्म ' 'हेतावसति कार्यं च ' इत्यादिना विहितदोषात्। सदसद्भूतमपि कर्म न क्रियते -

परस्परविरुद्धं हि सच्चासच्चैकतः कुतः

इति वचनात्। एवं तावत्सद्भूतः कारकोऽसद्भूतं सदसद्भुतं च कर्म न करोति॥९॥

इदानीमसद्भूतोऽपि कारकः सद्भूतं कर्म सदसद्भूतं च कर्म न करोतीत्याह -
नासद्भूतोऽपि सद्भूतं सदसद्भूतमेव वा।
करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः॥१०॥

असद्भूतः कारको निर्हेतुको भवेत्। ' हेतावसति कार्यं च ' इत्यादिना उक्तदोषादसद्भूतः कारको न करोति।

सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः।
इति प्रसङ्गात् सद्भूतं कर्म न क्रियते। सदसद्भूतमपि कर्म न क्रियते, परस्परविरुद्धं हि सच्चासच्चैकतः कुतः।

इति वचनात्॥१०॥

इदानीं सदसद्भूतोऽपि कारकः एकैक एवोभयरूपः सन् यथा सद्भूतमसद्भूतं च भिन्नसंकेतं कर्म न करोति तथा प्रतिपादयन्नाह -

करोति सदसद्भूतो न सन्नासच्च कारकः।
कर्म तत्तु विजानीयात्पूर्वोक्तैरेव हेतुभिः॥११॥

परस्परविरुद्धं हि सच्चासच्चैकतः कुतः।
इति वचनात्सदसद्भूतः कारको न करोति।

सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः।

इति प्रसङ्गात्सद्भूतं कर्म न क्रियते। असद्भूतमपि कर्म अहेतुकं 'हेतावसति कार्य च' इत्यादिनोक्तदोषान्न क्रियते। यतश्चैवं समपक्षेषु विषमपक्षेषु च कर्तुः कर्मणश्च सर्वथा सिद्धिरयुक्ता, तस्माद्यदुक्तं विद्यन्त एव विज्ञानादयः संस्कृता धर्माः संस्कृतस्वभावाः तद्धेतुककर्मकारकसद्भावादिति, तदयुक्तम्॥

अत्राह - किमवधारितमेतद्भवता न सन्ति भावा इति? न हि। भवतस्तु सस्वभाव- वादिनः स्वभावस्य भावानां वैधुर्यात्सर्वभावापवादः संभाव्यते। वयं तु प्रतीत्योत्पन्नत्वात्सर्वभावानां स्वभावमेवनोपलभामहे, तत्कस्यापवादं करिष्यामः? यथोक्तमार्यरत्नावल्याम् -

मरीचि तोयमित्येतदिति मत्वागतोऽत्र सन्।
यदि नास्तीति तत्तोयं गृह्णीयान्मूढ एव सः॥

मरीचिप्रतिमं लोकमेवमस्तीति गृह्णतः।
नास्तीति चापि मोहोऽयं सति मोहे न मुच्यते॥
अज्ञानकल्पितं पूर्वं पश्चात्तत्वार्थनिर्णये।
यदा न लभते भावमेवाभावस्तदा कुह॥ इति॥११॥

तदेवं निःस्वभावानां सर्वभावानां कुतो यथोक्तप्रकारसिद्धिः? तस्माल्लौकिकं विपर्यास- मभ्युपेत्य सांवृतानां पदार्थानां मरीचिकाजलकल्पानामिदंप्रत्ययतामात्राभ्युपगमेनैव प्रसिद्धिर्नान्येने त्याह -

प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम्।
कर्म प्रवर्तते, नान्यत्पश्यामः सिद्धिकारणम्॥१२॥

इह अकुर्वाणस्य कर्मनिरपेक्षस्य कारकत्वाभावात् कर्मापेक्ष्य कारकस्य कारकत्वं भवति। कारकेण चाक्रियमाणस्य कस्यचित्कर्मत्वाभावात् क्रियमाणस्यैव कर्मव्यपदेशात्, तं कारकं प्रतीत्य कर्म प्रवर्तते इत्येवं कर्मकारकयोः परस्परापेक्षिकीं सिद्धिं मुक्त्वा नान्यत्सिद्धिकारणं पश्यामः॥१२॥

यथा च कर्मकारकयोः परस्परापेक्षिकी सिद्धिः, एवमन्येषामपि भावानामित्यतिदिशन्नाह -

एवं विद्यादुपादानं व्युत्सर्गादिति कर्मणः।
कर्तुश्च

एवमित्यनेन अनन्तरां कर्मकारकप्रज्ञप्तिं दर्शयति। उपात्तिरुपादानम्। अनेन चोपात्ति क्रियामाह। सा च स्वसाधनं कर्तारमुपादातारं कर्म चोपादानं संनिधापयति। तयोश्च उपादेयोपा दात्रोः परस्परापेक्षयोः कर्मकारकवदेव सिद्धिर्न स्वाभाविकी। कस्मात्पुनः स्वाभाविकी न भवति इत्याह - व्युत्सर्गादिति कर्मणः, कर्तुश्चेति। इतिशब्दो हेतुपरामर्शी। व्युत्सर्गो व्युदासः। ततश्च अयमर्थ उपपद्यते - यैरेव हेतुभिः कर्मणश्च व्युत्सर्गोऽस्माभिरुक्तः , तैरेव हेतुभिः उपादाता उपादेयं च प्रतिषिद्धं वेदितव्यम्। न च केवलमनयोरन्योन्यापेक्षिकी सिद्धिः कतुर्श्च कर्मणश्च प्रतिषेधेनावसेया, अपि च

कर्मकर्तृभ्यां शेषान् भावान् विभावयेत्॥१३॥

प्राज्ञ इति वाक्यशेषः। कर्मकारकोपादेयोपादातृव्यतिरिक्ता येऽन्ये भावा जन्यजनक गन्तृगमनद्रष्टव्यदर्शनलक्ष्यलक्षणोत्पाद्योत्पादकाः, तथा अवयवावयविगुणगुणिप्रमाणप्रमेयादयो निरवशेषा भावाः, तेषां कर्तृकर्मविचारेण स्वभावतोऽस्तित्वं प्रतिषिध्य परस्परापेक्षिकीमेव सिद्धि प्राज्ञो निर्मुमुक्षुर्जातिजरामरणादिबन्धनेभ्यो मोक्षाय विभावयेत्॥

एषां च विस्तरेण विचारो मध्यमकावतारादिभ्योऽवसेयः॥

ननु च शेषान् भावान् विभावयेदित्यनेनैव उपादानोपादान्नोरधिगतत्वादुपादानोपादानं पुनरयुक्तम्। सत्यमेतत्। तथापि तत्त्वविचारे प्राधान्यज्ञापनार्थमुपादानोपादात्रोभेदेनोपादानम्, तथा हि उत्तरेषु प्रकरणेषु भूयसा अनयोरेव विचारो भविष्यतीति। अत एवोक्तं भगवता आर्योपालिपरिपृच्छायाम् -

भय दर्शित नैरयिकं मे सत्त्वसहस्र सवेजित नैके।
न च विद्यति कश्चिह सत्त्व यो च्युतु गच्छति घोरमपायम्॥
न च कारकु कारणं सन्ति येहि कृता असितोमरशस्त्राः।
कल्पवशेन तु पश्यति तत्र कायि पतन्ति अपायित शस्त्राः॥
चित्रमनोरम सज्जितपुष्पाः स्वर्णविमान जलन्ति मनोज्ञाः।
तेष्वपि कारकु नास्तिह कश्चि तेऽपि च स्थापित कल्पवशेन॥
कल्पवशेन विकल्पितु लोकः संज्ञगहेण विकल्पितु बालः।
सो च गहो अगहो असभूतो मायमरीचिसमा हि विकल्पाः॥इति॥ १३॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
कर्मकारकपरीक्षा नाम अष्टमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project