Digital Sanskrit Buddhist Canon

सप्तमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Saptamaṁ prakaraṇam

संस्कृतपरीक्षा सप्तमं प्रकरणम्।

अत्राह - विद्यन्त एव संस्कृतस्वभावाः, स्कन्धायतनधातवः उत्पादादिसंस्कृतलक्षणसद्भावात्। उक्तं हि भगवता- त्रीणीमानि संस्कृतस्य संस्कृतलक्षणानि। संस्कृतस्य भिक्षवः उत्पादोऽपि प्रज्ञायते, व्ययोऽपि, स्थित्यन्यथात्वमपीति। न च अविद्यमानस्य खरविषाण स्येव जात्यादिलक्षणमस्ति। तस्मात्संस्कृतलक्षणोपदेशाद्विद्यन्त एव स्कन्धायतनधातवः इति। उच्यते। स्युः स्कन्धायतनधातवः संस्कृतस्वभावास्तावकेन मतेन, यदि जात्यादिलक्षणमेव भवेत्। इहायमुत्पादः संस्कृतलक्षणत्वेनेष्यमाणः संस्कृतो वा तल्लक्षणत्वेनेष्यते, असंस्कृतो वा? तत्र-

यदि संस्कृत उत्पादस्तत्र युक्ता त्रिलक्षणी।

त्रयाणां लक्षणानां समाहारस्त्रिलक्षणी। इयं च उत्पादस्थितिभङ्गसमाहारस्वभाव- सर्वसंस्कृताव्यभिचारिणीति कृत्वा यदि उत्पादः संस्कृत इति परिकल्प्यते, तदा उत्पादेऽपि त्रिलक्षणी प्रसज्यते। ततश्च रूपादिवल्लक्ष्यत्वमुत्पादस्य स्यात्, न संस्कृतलक्षणत्वम्। अथोत्पादेऽपि त्रिलक्षणी नेष्यते, तदा त्रिलक्षणीरहितत्वादाकाशवत् संस्कृतलक्षणत्वमस्यावहीयते इत्याह -

अथासंस्कृत उत्पादः कथं संस्कृतलक्षणम्॥१॥
इति। नैतत्संस्कृतलक्षणमित्यभिप्रायः॥१॥

अपि च। इमे उत्पादादयः संस्कृतस्य लक्षणत्वेन परिकल्प्यमाना व्यस्ता वा पृथग्वा लक्षणत्वेन परिकल्प्येरन्, समस्ता वा सहभूता वा? उभयथा च न युज्यत इत्याह -

उत्पादाद्यास्त्रयो व्यस्ता नालं लक्षणकर्मणि।
संस्कृतस्य समस्ताः स्युरेकत्र कथमेकदा॥२॥

तत्र व्यस्ता लक्षणकर्मणि न युज्यन्ते। यदि उत्पादकाले स्थितिभङ्गौ न स्यातां तदा स्थितिभङ्गरहितस्य आकाशस्येव संस्कृतलक्षणत्वेनानुपपद्य एवोत्पादः। अथ स्थितिकाले उत्पादभङ्गौ न स्तः, तदा तद्रहितस्य स्थितिः स्यात्। उत्पादभङ्गरहितश्च पदार्थो नास्त्येवेति न अस्याविद्यमानस्य खपुष्पवत् स्थितिर्युज्यते। किं च। स्थितियुक्तस्य पश्चादनित्यतयापि योगो न स्यात्, तद्विरोधिधर्माक्रान्तत्वात्। अथ स्यात्- पूर्वं शाश्वतो भूत्वा पश्चादशाश्वत इति, न चैकपदार्थः शाश्वतश्चाशाश्वतश्च युक्त इति नोत्पादभङ्गरहितस्य स्थितिः। तथा यदि भङ्गकाले स्थित्युत्पादौ न स्याताम्, एवमप्यनुत्पन्नस्य स्थितिरहितस्य खपुष्पस्य विनाशोऽपि नास्तीति। एवं तावदुत्पादादयो व्यस्ता नालं लक्षणकर्मणि नालं न पर्याप्ता इत्यर्थः॥

इदानीं समस्ता अपि न युज्यन्त इत्याह -
समस्ताः स्युरेकत्र कथमेकदा।

एकत्र पदार्थे, एकस्मिन् काले, परस्परविरुद्धत्वाद्रागवैराग्यवत्, आलोकान्धकारवद्वा न युज्यन्त इत्यभिप्रायः। यस्मिन्नेव क्षणे पदार्थो जायते, तस्मिन्नेव तिष्ठति विनश्यति चेति कः सचेताः प्रतिपद्येत? तस्मात्समस्तानामपि उत्पादादीनां संस्कृतस्य लक्षणकर्मणि नास्ति सामर्थ्यम्॥२॥

अथ यदुक्तं 'यदि संस्कृत उत्पादः' इत्यादि, तेन यदि उत्पादादीनां त्रिलक्षणी प्राप्ता प्रसक्ता, ततः को दोषः? अथासंस्कृतः, एवमप्यदोष इति। उच्यते -

उत्पादस्थितिभङ्गानामन्यत्संस्कृतलक्षणम्
अस्ति चेदनवस्थैवं नास्ति चेत्ते न संस्कृताः॥३॥

ननु च पक्षद्वयेऽपि विहित एव दोषः, तत्र किं पुनरुक्ताभिधानेनेति। सत्यमुक्तो दोषः स खलु नाचार्येण, किं तर्हि वृत्तिकारेण। अथ पूर्वप्रतिज्ञातमेव दूषणान्तराभिधानेन स्पष्टीकरणार्थं पुनराचार्योऽभिहितवान्। यदि उत्पादस्थितिभङ्गानामन्यदुत्पादादिकं संस्कृतलक्षण मिष्यते, तदा तेषामप्यन्यत्, तेषामप्यन्यत्, इत्यपर्यवसानदोषः स्यात्। सति च अपर्यवसानदोषे, किं पूर्वं स्याद् यत उत्तरकालमपरं भवेदिति व्यवस्थाभावादसंभव एवं उत्पादादीनामित्यभिप्रायः। अथवा, पूर्वं मुख्यत्वादुत्पादस्यैव दूषणमुक्तम्, अधुना तु सामान्येनेति। नास्ति चेत्ते न संस्कृता इति गतार्थमेतत्॥३॥

अत्राहुः सांमितीयाः - सन्ति चोत्पादादीनामुत्पादादयः, न च अनवस्थाप्रसङ्गः, लक्षणानु लक्षणानां परस्परनिष्पादकत्वात्। यस्मादिह संस्कृतधर्मः कुशलः क्लिष्टो वा उत्पद्यमानः आत्मना पञ्चदशः उत्पद्यते। स धर्मस्तस्य चोत्पादः समन्वागमः स्थितिर्जरा अनित्यता। यद्यसौ धर्मः क्लिष्टो भवति, तस्य मिथ्याविमुक्तिः। अथ शुभः, तस्य सम्यग्विमुक्तिः। यदि नैर्याणिको भवति तस्य नैर्याणिकता। अथ अनैर्याणिकः, तस्य अनैर्याणिकता। इत्येष परिवारः। इदानीमुत्पाद स्यापर उत्पादः यावदनैर्याणिकतानैर्याणिकतेत्येष परिवारस्य परिवारः। तत्र योऽयं मौल उत्पाद स आत्मानं विहाय अन्यांश्चतुर्दश धर्मान् जनयति। उत्पादोत्पादसंज्ञकस्तु अनुलक्षणभूत उत्पादो मौलमेवोत्पादं जनयति। एवं यावदनैर्याणिकता चतुर्दश धर्मान् न निर्याणयति, न तन्निर्वाणं प्रापयतीत्यर्थः। अनैर्याणिकतानैर्याणिकता तु न निर्याणयति। तदेवमुत्पादादीनामनवस्थां परिहरन्नाह -

उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम्।
उत्पादोत्पादसुत्पादो मौलो जनयते पुनः॥४॥

द्विविधो ह्युत्पादः। एको मौल उत्पादः, अपरश्च उत्पादोत्पादसंज्ञकः, उत्पादस्योत्पाद इति कृत्वा। तत्र योऽयमुत्पादोत्पादसंज्ञक उत्पादः, स मूलोत्पादस्य केवलमुत्पादकः। तं चेदानी मुत्पादोपादाख्यमुत्पादं मौल उत्पादो जनयति। तदेवं परस्परनिर्वर्तनादस्ति च त्रिलक्षणी उत्पादादीनाम्, न चानवस्थाप्रसङ्ग इति॥४॥

अत्रोच्यते -
उत्पादोत्पाद उत्पादो मूलोत्पादस्य ते यदि।
मौलेनाजनितस्तं ते स कथं जनयिष्यति॥५॥

यदि तव उत्पादस्योत्पादो मूलोत्पादस्य जनक इति मतम्, स कथमिदानीं मौलेनोत्पादेनानुत्पादितः सन् उत्पादोत्पादो मौलं जनयिष्यति?॥५॥

अथ मन्यसे - उत्पादित एव मौलेनोत्पादेन उत्पादोत्पादो मौलं जनयिष्यति, एतदप्य सदित्याह -
स ते मौलेन जनितो मौलं जनयते यदि।
मौलः स तेनाजनितस्तमुत्पादयते कथम्॥६॥

स उत्पादोत्पादसंज्ञक उत्पादो मौलेन जनितो यदि मौलं जनयति, स मौल उत्पादोत्पादे नाजनितोऽविद्यमानः कथमुत्पादोत्पादं जनयिष्यति? तस्मान्मौलेन जनितः सन् उत्पादोत्पादो मौलं जनयतीते न युज्यते। ततश्च परस्परनिर्वर्त्यनिर्वर्तकत्वाभावात्स एव अनवस्थाप्रसङ्ग इति नास्त्युत्पादः॥६॥

अत्राह - उत्पद्यमान एव मूलोत्पाद उत्पादोत्पादमुत्पादयति, स एवोत्पादोत्पादो मूलोत्पादं जनयिष्यतीति। उच्यते -

अयमुत्पद्यमानस्ते काममुत्पादयेदिमम्।
यदीममुत्पादयितुमजातः शक्नुयादयम्॥७॥

काममयं मूलोत्पाद उत्पद्यमान उत्पादयेदुत्पादम्, यद्ययमेव अजातः शक्नुयादपरमजातमुत्पादयितुम्। उत्पद्यमानो हि नाम अनागतः। स च अजातः कथमुत्पादयिष्यतीति न युक्तमेवैतदित्यभिप्रायः एवमुत्पादोत्पादेऽपि वाच्यम्॥७॥

अत्राह - नैव हि उत्पादस्यापर उत्पादोऽस्ति यतोऽनवस्थाप्रसङ्गः स्यात्। किं तर्हि -

प्रदीपः स्वपरात्मानौ संप्रकाशयिता यथा।
उत्पादः स्वपरात्मानावुभावुत्पादयेत्तथा॥८॥

यथा प्रदीपः प्रकाशस्वभावत्वादात्मानं प्रकाशयति घटादींश्च, एवमुत्पादोऽप्युत्पादस्वभावत्वादात्मानमुत्पादयिष्यति परं चेति॥८॥

उच्यते। स्यादेतदेवं यदि प्रदीपः स्वपरात्मानौ संप्रकाशयेत्। न चैवम्। यस्मात् -

प्रदीपे नान्धकारोऽस्ति यत्र चासौ प्रतिष्ठितः।
किं प्रकाशयति दीपः प्रकाशो हि तमोवधः॥९॥

इह प्रकाशो नाम तमस्य ( सो?) वधः। तमश्च प्रदीपस्वात्मनि तावन्न संभवति विरोधात्, यत्तमो निघ्नतः स्वात्मप्रकाशत्वं स्यात्। न चापि प्रदीपो यत्र देशे तिष्ठति तत्र तमोऽस्ति, यत्तमो निघ्नतः प्रदीपस्य परप्रकाशकत्वं स्यात्। अतोऽपि नास्ति प्रदीपस्य स्वपरात्म प्रकाशकत्वम्। यदा चैवम्, तदा प्रदीपवदुत्पादस्य स्वपरात्मोत्पादकत्वं न संभविष्यति, इति अयुक्तमेतत्॥९॥

अत्राह - यदेतदुक्तं प्रदीपे नान्धकारोऽस्तीति, एतदसत्यन्धकारधाते युक्तमेव वक्तुम्। यस्मात्तु उत्पद्यमानेनैव प्रदीपेन तमो निहतम्, तत्र प्रदीपे नान्धकारोऽस्ति, यत्र च प्रदीपोऽस्ति, तत्राप्यन्धकारो नास्तीति युज्यते। यदि प्रदीपेन नान्धकारधातः कृतः, तदा अनुत्पन्ने इव प्रदीपे उत्पन्नेऽपि घटादयो नोपलभ्येरन्, अन्धकारघाताभावात्प्रागवस्थामिव। तस्मादस्त्येव अन्धकारघात लक्षणं प्रकाशनं प्रदीपस्य। तच्चानेन उत्पद्यमानेन प्रदीपेन कृतमिति। उच्यते -

कथमुत्पद्यमानेन प्रदीपेन तमो हतम्।
नोत्पद्यमानो हि तमः प्रदीपः प्राप्नुते यदा॥१०॥

इह आलोकान्धकारयोर्यौगपद्याभावात् प्राप्तेरभावः। यदा चैवं प्राप्तेरभावः, तदा कथं केन प्रकारेणेदानीमुत्पद्यमानेन प्रदीपेन तमो हतमिति युक्तं परिकल्पयितुम्? यस्माच्च एवमुत्पद्यमान प्रदीपः तमो न प्राप्नोति, तस्मान्नैव अप्राप्तत्वात्प्रदीपः किंचिदपि प्रकाशयतीत्यवसीयताम्॥१०॥

अथ मन्यसे - यथा अप्राप्तामेव अविद्यां ज्ञानं निहन्ति, अप्राप्तमेव रूपं चक्षुः पश्यति अप्राप्तमेव अयः अयस्कान्तो मणिराकर्षति, एवमेव अप्राप्तमेवान्धकारं प्रदीपो निहनिष्यतीति एतदप्यसारमित्याह -

अप्राप्यैव प्रदीपेन यदि वा निहतं तमः।
इहस्थः सर्वलोकस्थं स तमो निहनिष्यति॥११॥

यदि अप्राप्यैव प्रदीपेन तमो निहतम्, एवं सति, इहस्थ एव प्रदीपः सर्वलोकस्थं तमो निहनिष्यति, अप्राप्तत्वात्समीपस्थमिवेत्यभिप्रायः। एतेन न्यायेन ज्ञानेन अविद्याघातः, चक्षुषा रूपदर्शनम्, अयस्कान्तमणिना अयआकर्षणमिव इत्येवमादिकं साध्यसमं ज्ञेयम्॥

अथ अप्राप्तावपि सत्यामयस्कान्तमणिप्रभृतीनां योग्यदेशावस्थानामेव स्वकार्यकृत्वं देभविष्यतीति चेत्, तदपि न युक्तम्। अप्राप्तौ हि सत्यां विप्रकृष्टदेशान्तरावस्थितवदव्यवहित शान्तरावस्थित वच्च अप्राप्तत्वाद् योग्यदेशावस्थितानामपि योग्यदेशावस्थितत्वं न युक्तमिति कुतो योग्यदेशावस्थितानां स्वकार्यकृत्त्वं प्रसेत्स्यति?

दृष्टमेतल्लोकत इति चेन्नैतदेवम्। यथा हि भवान् परिकल्पयति न तथा लोके दृष्टम्। यस्मात् न लोकः प्राप्त्यप्राप्तिचिन्तामेवमादौ विषयेऽवतार्य प्रदीपादीनां प्रकाशकत्वादिकं कल्पयति। यथोदितं तु विचारमनवतार्य प्रदीपेन तमो हतम्, चक्षुषा रूपदर्शनम्, अयस्कान्तमणिना अयआकर्षणम् इत्यादि इच्छति। पश्यतु वा लोक एवम्। तत्त्वविचारकाले तु लोकस्याप्रामाण्यान्न तेन बाधा शक्यते कर्तुम्। एवं तावदप्राप्य प्रकाशनमयुक्तम्। प्राप्तावपि विषयादिग्रहणमयुक्तमेव। प्राप्तिर्हि एकत्वे सति भवति। यदा चैकत्वं तदा स्वरूपवद्दर्शनाकर्षणादिकं नास्ति॥

यद्यपि चेयं प्राप्त्यप्राप्त्यादिचिन्ता लौकिकव्यवहारे नावतरतीति निरुपपत्तिकत्वेन मृषार्थ त्वादस्य, तथापि तत्त्वविचारेऽवतार्या, मा भूत्परमार्थतोऽपि निरुपपत्तिकपक्षाभ्युपगम इत्यलं प्रसङ्गेन॥११॥

यदि च स्वपरात्मानौ प्रदीपः प्रकाशयतीति परिकल्प्यते त्वया, तमसोऽपि तर्हि प्रतिपक्ष भूतस्य स्वपरात्मनोः प्रच्छादनं प्रकल्प्यतमित्याह -

प्रदीपः स्वपरात्मानौ संप्रकाशयते यदि।
तमोऽपि स्वपरात्मानौ छादयिष्यत्यसंशयम्॥१२॥

प्रतिद्वन्द्वित्वात्प्रदीपवत् तमोऽपि स्वपरात्मगतं व्यापारं करिष्यति, ततश्च परवदात्मानमपि छादयिष्यति। यदि च आत्मानं छादयेत्तमः, तस्यैवानुपलब्धिः स्यात् , घटादिवत्तमसा प्रच्छादितत्वात्। अत एवोक्तमार्योपालिपृच्छायाम् -

इह सासनि सूरमणीये
प्रव्रजथा गृहिलिङ्ग जहित्वा।
फलवन्तु भविष्यथ श्रेष्ठो
एषु निदेशितु कारुणिकेन॥
प्रव्रजित्वा गृहिलिङ्ग जहित्वा
सर्वफलस्य भविष्यति प्राप्तिः।
पुन धर्मसभाव तुलित्वा
सर्वफलान फलान च प्राप्तिः॥
अलभन्त फलं तथ प्राप्तिं
आश्चरियं पुन जायति तेषाम्।
अहोऽतिकारुणिको नरसिंहो
सुष्ठुपदेशित युक्ति जिनेन॥इति॥

तथार्यरत्नकूटसूत्रे -

यथा हि दीपो लयने चिरस्य
कृतो हि गेहे पुरुषेण केनचित्।
तत्रान्धकारस्य न भोति एवं
चिरस्थितो नाहमितो गमिष्ये॥

तमोन्धकारस्य न शक्तिरस्ति
कृते प्रदीपे न विगच्छनाय।
प्रतीत्य दीपं च विनश्यते तम
उभयं पि शून्यं न च किं च मन्यति॥

ज्ञानं तथा आर्य प्रतीत्य नास्रवं
अज्ञान क्लेशोपचितं विगच्छति।
संपर्क तेषां न कदाचि विद्यते
ज्ञानस्य क्लेशस्य च नित्यकालम्॥

ज्ञानं न कल्पेति अञानु नो भवेत्
ज्ञानं प्रतीत्यैव विनश्यते तमो।
भयं पि अग्राह्य खपुष्पसंनिभं
ज्ञानं तथाज्ञानु भयं पि शून्यम्॥इति॥१२॥

किं चान्यत्- इहायमुत्पादो यद्यात्मानमुत्पादयेत्, स उत्पन्नो वा स्वात्मानमुत्पादयेत्, अनुत्पन्नो वा ? उभयथा च नोपपद्यते इत्याह -

अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत्कथम्।
अथोत्पन्नो जनयते जाते किं जन्यते पुनः॥१३॥

यदि अनुत्पन्न उत्पादः स्वात्मानमुत्पादयेत्, मण्डूकजटाशिरोमणिरप्यात्मानमुत्पादयेत्। अथ उत्पन्न उत्पादयेत्, किमुत्पन्नस्यापरेणोत्पादेन प्रयोजनमिति। एवं तावदुत्पाद आत्मानं नोत्पादयति॥१३॥

इदानीं परमपि यथा नोत्पादयति तथा प्रतिपादयन्नाह -

नोत्पद्यमानं नोत्पन्नं नानुत्पन्नं कथंचन।
उत्पद्यते तथाख्यातं गम्यमानगतागतैः॥१४॥

यदि हि किंचिदुत्पद्येत तदुत्पाद उत्पादयेत्। न तु किंचिदुत्पद्यतेऽध्वत्रयेऽप्युत्पादा संभवात्। एतच्च गम्यमानगतागतैः प्रागेवोक्तम्। तत्र यथा गतं न गम्यते, अतीतवर्तमानयोर्विरोधात्। नाप्यगतं गम्यते, अनागतवर्तमानयोर्विरोधात्। नापि गम्यमानं गम्यते, गतागतव्यतिरिक्तगम्यमानानुपलम्भादित्युक्तम्। एवमुत्पद्यमानो भावो नोत्पद्यते, उत्पन्नानुत्पन्न व्यतिरेकेणोत्पद्यमानाभावात्। उत्पन्नोऽपि नोत्पद्यते, अतीतवर्तमानयोर्विरोधात्। उत्पन्न इत्युपरतोत्पत्तिक्रिय उच्यते, उत्पद्यत इति वर्तमानक्रियाविष्टः। ततश्च उत्पन्न उत्पद्यते इत्युच्यमाने अतीतवर्तमानयोरेककालता स्यात्। अनुत्पन्नोऽपि नोत्पद्यते, अनागतवर्तमानयोर्विरोधात्। तस्मादुत्पादः परमुत्पादयतीति न युक्तम्॥१४॥

अत्राह - उत्पद्यमानमेवोत्पद्यते नोत्पन्नं नाप्यनुत्पन्नमिति। अथ मन्यसे - उत्पन्नानुत्पन्न व्यतिरेकेण उत्पद्यमानासंभवान्नोत्पद्यमानमुत्पद्यत इति, एतच्च नास्ति, यस्मादिह उत्पत्तिक्रियायुक्त मुत्पद्यमानमिति व्यपदिश्यते। तस्मादुत्पत्तौ सत्यामुत्पत्तिं प्रतीत्य उत्पद्यमानसिद्धेः उत्पद्यमान मेवोत्पद्यते, तच्चोत्पद्यमानमुत्पाद उत्पादयतीति। उच्यते-

उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा।
कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते॥१५॥

यदुक्तम् - उत्पत्तिं प्रतीत्य उत्पद्यमानं भवति, तच्चोत्पद्यत इति। ननु। विशेषत एतद्वक्तव्यं स्यात् - अस्योत्पत्तिं प्रतीत्य इदं नामोत्पद्यमानं भवतीति। न चैवमुच्यते। न हि तदुत्पद्यमानं विशेषतो निर्धारयितुं शक्यते इदं तदुत्पद्यमानमिति, अनुत्पन्नत्वात्तन्निमित्तग्रहणतः। ततश्च उत्पद्यमानासंभवादुत्पत्तिक्रियापि नास्तीति। कथमसत्यामुत्पत्तौ तां प्रतीत्य उत्पद्यमानं स्यात्? तस्मादुत्पद्यमानमुत्पद्यते, तच्च उत्पाद उत्पादयतीत्ययुक्तम्॥१५॥

अत्राह - अहो बत अहमतीव भवतो दृष्टादृष्टपदार्थनिरपेक्षादत्यन्तनास्तिकाद्विभेमि, यो हि नाम भवांस्तथागतप्रवचनव्याख्यानव्याजेन दूषणमात्रकौशलमेवात्मनः प्रकटयन् परमर्षिगदितमिदं प्रत्ययताप्रतीत्यसमुत्पादलक्षणं परमार्थसत्यं तथागतानां निहन्ति। इह भगवता तथागतेन प्रकृतीश्वरस्वभावकालाणुनारायणजैमिनिकणादकपिलादितीर्थकरकर्तृवादनिरासेन सर्वभावानां तत्त्व मादर्शितम्, यदुत अस्मिन् सति इदं भवति, अस्योत्पादादिदमुत्पद्यते, यदुत अविद्याप्रत्ययाः संस्काराः इत्याद्यविपरीतं प्रतीत्यसमुत्पादं प्रकटयता। तस्य च त्वया नोत्पद्यमानं नोत्पन्नं नानुत्पन्नमित्यादिना दूषणं विदधता तथागतजनन्याः प्रतीत्यसमुत्पत्तिमातुर्वध एवाचरित इत्यलं भवता सर्वनास्तिकेन त्वयेति। उच्यते। नाहं सकलदशबलजननीं प्रतीत्यसमुत्पत्तिमातरं निहन्मि। भवानेव तु परमगम्भीरप्रतीत्यसमुत्पादाधिमुक्तिविरहाद्विपरीतं तदर्थमवधार्य अस्माकमेव अधिलयं करोति। ननु च इदं प्रतीत्येदं भवतीत्येवमभिधानेन भगवता तथागतेन निःस्वभावत्वमेव सर्वधर्माणां स्पष्टमावेदितम्। यस्मात् -

प्रतीत्य यद्यद्भवति तत्तच्छान्तं स्वभावतः।

यो हि पदार्थो विद्यमानः स सस्वभावः स्वेनात्मना स्वं स्वभावमनपायिनं बिमर्ति। स संविद्यमानत्वान्नैवान्यत्किंचिदपेक्षते, नाप्युत्पद्यते, इति कृत्वा सस्वभावभावाभ्युपगमे सति कुतः प्रतीत्यसमुत्पाद इति भवतेव सस्वभावतां भावानामभ्युपगच्छता सर्वथा प्रतीत्यसमुत्पाद एव बाधितो भवति। ततश्च परमधर्मबुद्धदर्शनमपि बाधितं भवति - यः प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यति, यो धर्मं पश्यति स बुद्धं पश्यतीत्यागमात्। मया तु यत्प्रतीत्य बीजाख्यं कारणं यद्भवत्यङ्कुराख्यं कार्यम्, तच्च उभयमपि शान्तं स्वभावविरहितं प्रतीत्यसमुत्पन्नं प्रतिपादयता सर्वथा भगवतां तथागतानां प्रतीत्यसमुत्पत्तिमाता द्योतिता भवति। यत एवम् -

तस्मादुत्पद्यमानं च शान्तमुत्पत्तिरेव च॥१६॥

इति स्फुटमवसीयताम्॥१६॥

अत्राह - यदुक्तम् -
उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा।
कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते॥

इति, तदयुक्तम्। यस्मादिदमुत्पद्यमानमित्येव संभवति। तथा हि घटोत्पत्तिं प्रतीत्य घट उत्पद्यमानो भवति, तं च उत्पद्यमानमुत्पाद उत्पादयतीत्युच्यते। एतदप्ययुक्तम्। यस्मात् -

यदि कश्चिदनुत्पन्नो भावः संविद्यते क्कचित्।
उत्पद्येत स किं तस्मिन् भाव उत्पद्यतेऽसति॥१७॥

यदि कश्चिदनुत्पन्नः उत्पादात्पूर्वं घटो नाम क्कचित्संविद्येत, स उत्पत्तिक्रियां प्रतीत्योत्पद्येत न चैवं कश्चिदुत्पादात्पूर्वं क्कचिदस्ति। तस्मिन्नसति घटे किमुत्पद्यते?

अथ स्यात् - यद्युत्पादात्पूर्वं घटो नास्ति, तथापि उत्पन्नः सन् घटसंज्ञां प्रतिलप्स्यते, तद्भाविन्या संज्ञया न दोष इति। एतदप्ययुक्तम्। यदि हि उत्पत्तिक्रिया प्रवर्तेत, तदा वर्तमानी भूतो भावो घटाख्यां प्रतिलभेत। यदा तु अनागतभावासंबन्धेन क्रियाया अप्रवृत्तिः, तदा कुतो वर्तमानता? अथ अघटाश्रयेण क्रिया प्रारभ्येत, तद्वक्तव्यम् - योऽसौ अघटः, स किं भवितुर्महति पटः, उत नैव किंचित् ? यदि पट उत्पद्यमानः स कथमुत्पन्नः सन् घटो भविष्यतीति अथ नैवं किंचित्, कथं तदाश्रया क्रिया क्रिया प्रवर्तते? कथं वा स उत्पन्नः सन् घटो भवेत्? इति सर्वथा भावितत्वकल्पनाप्ययुक्ता। तस्मादुत्पद्यमानमप्युत्पादो नोत्पादयतिति सिद्धम्॥१७॥

अपि च। एवं न युज्यमानायामप्युत्पद्यमानस्योत्पत्तौ भवतो मतमभ्युपेत्योच्यते -
उत्पद्यमानमुत्पादो यदि चोत्पादयत्ययम्।
उत्पादयेत्तमुत्पादमुत्पादः कतमः पुनः॥१८॥

यद्यपि उत्पद्यमानं पदार्थमुत्पाद उत्पादयेद्भवन्मतेन, इदं तु वक्तव्यम्- तमिदानीमुत्पादः कतमोऽपरः उत्पादमुत्पादयिष्यतीति॥१८॥

अथ स्यात्- उत्पादस्यापर उत्पादः उत्पादकः परिकल्प्येत, तदा अनवस्थादोषप्रसङ्ग इत्याह -
अन्य उत्पादत्येनं यद्युत्पादोऽनवस्थितिः।

एतच्चोक्तम्। अथ नास्यापर उत्पाद इष्यते, नन्वेवं सति विना उत्पादेन उत्पाद उत्पद्यते इत्येवं प्राप्नोति। ततश्च उत्पादोत्पाद्यानामपि पदार्थानां विनैवोत्पादेन उत्पत्तिरस्तु भावत्वादुत्पादवदिति प्रतिपादयन्नाह -

अथानुत्पाद उत्पन्नः सर्वमुत्पद्यते तथा॥१९॥

इति॥१९॥

अपि च। उत्पाद आत्मानं परांश्चोत्पादयतीत्यत्र पक्षे दूषणमेव न वक्तव्यमधुनास्माभिः। यस्मादत्र पक्षे दूषणम् -

सतश्च तावदुत्पत्तिरसतश्च न युज्यते।
न सतश्चासतश्चेति पूर्वमेवोपपादितम्॥२०॥

नैवासतो नैव सतः प्रत्ययोऽर्थस्य युज्यते।

इति
न सन्नासन्न सदसन् धर्मो निर्वर्तते यदा।
इत्यादिना उत्पादो निषिद्ध एव पूर्वम्। ततश्चैवमुत्पादे निषिद्धे उत्पद्यमानमुत्पाद उत्पादयति, स्वपरात्मानौ वा उत्पादयतीत्यस्याः कल्पनाया नास्त्येवावतार इति कुत एतत्प्रसेत्स्यति -
उत्पाद उत्पद्यते, उत्पद्यमानमुत्पद्यते, स्वपरात्मानौ चोत्पादयतीति॥२०॥

किं चान्यत् - इहायमुत्पादः परिकल्प्यमानः निरुध्यमानस्य अनित्यतानुगतस्य वर्तमानस्य वा भावस्य परिकल्प्यते, अनिरुध्यमानस्य वा अतीतानागतस्यानित्यताविरहितस्य? उभयथा च नोपपद्यते इत्याह -

निरुध्यमानस्योत्पत्तिर्न भावस्योपपद्यते।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते॥२१॥

तत्र निरुध्यमानस्य वर्तमानस्य विद्यमानत्वादुत्पादो नोपपद्यते। अनिरुध्यमानस्यापि विनाशरहितस्य अतीतानागतस्य भावलक्षणविलक्षणस्य खपुष्पस्येव नास्त्युत्पाद इति॥२१॥

एवं भावानामुत्पादाभावं प्रतिपाद्य अतः परं स्थितिर्विचार्यते॥

अत्राह - विद्यत एव भावानामुत्पादः, तद्भावभाविधर्मसद्भावात्। नानुत्पन्नस्य स्थिति संभवतीत्युत्पादभावेन स्थितेर्भावात्। स्थितिरुत्पादभावभाविनी भवति। तस्मादुत्पादोऽप्यस्ति , तद्भावभाविधर्मसद्भावात्। इह यन्नास्ति, न तद्भावभाविधर्मसद्भावः, तद्यथा गगनकुसुमसौरभ्यस्येति उच्यते। स्यादुत्पादः, यदि तद्भावभाविनी स्थितिरेव स्यात्। न त्वस्ति। तदेवम् -

न स्थितभावस्तिष्ठत्यस्थितभावो न तिष्ठति।
न तिष्ठति तिष्ठमानः कोऽनुत्पन्नश्च तिष्ठति॥२२॥

तत्र स्थितं न तिष्ठति तत्र स्थितिक्रियानिरोधात्। अस्थितभावोऽपि न तिष्ठति स्थिति रहितत्वात्। तिष्ठमानमपि न तिष्ठति स्थितिद्वयप्रसङ्गात्, स्थितास्थितव्यतिरिक्तसंतिष्ठमानाभावाच्च अपि च।

कोऽनुत्पन्नश्च तिष्ठति।
इहोत्पादप्रतिषेधात्कोऽसावनुत्पन्नः पदार्थो यस्तिष्ठेदिति सर्वथा नास्ति स्थितिः॥२२॥

अपि च। इयं स्थितिर्निरुध्यमानस्य भावस्य स्यादनिरुध्यमानस्य वा? उभयथा च न युज्यते इति प्रतिपादयन्नाह -

स्थितिर्निरुध्यमानस्य न भावस्योपपद्यते।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते॥२३॥

निरुध्यमानस्य निरोधाभिमुखस्य तावद्भावस्य विरोधिनी स्थितिर्न संभवति। यश्चाप्य निरुध्यमानः स भाव एव न भवति, कुतस्तस्य स्थितिर्भविष्यति॥२३॥

अपि च। जरसा मरणेन च सर्व एव भावाः क्षणमपि न त्यज्यन्ते। यदा चैतदेवम् तदा जरामरणविरोधिन्याः स्थितेर्भावेषु प्रवृत्त्यवकाश एव नास्तीति प्रतिपादयन्नाह -

जरामरणधर्मेषु सर्वभावेषु सर्वदा।
तिष्ठन्ति कतमे भावा ये जरामरणं विना॥२४॥

के हि नाम जरामरणरहिता भावा येषां स्थितिः स्यात्? तस्मान्नास्त्येव स्थितिरित्यभिप्रायः॥२४॥

यदि च, अस्याः स्थितेरन्या वा स्थितिः स्थित्यर्थं परिकल्प्येत, स्वयं वा स्वात्मानं स्थापयेत्। उभयथा च न युज्यते इत्याह -

स्थित्यान्यया स्थितेः स्थानं तयैव च न युज्यते।
उत्पादस्य यथोत्पादो नात्मना न परात्मना॥२५॥

' अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत्कथम्।' इत्यादिना यथा उत्पाद आत्मानं न जनयति इत्युक्तम्, एवं स्थितिरपि नात्मानं स्थापयतीति वक्तव्यम्।

अस्थिता स्थितिरेषा चेत्स्वात्मानं स्थापयेत्कथम्।
स्थिता चेत्स्थापयत्येषा स्थितायां स्थाप्यतेऽथ किम्॥

इति योज्यम्। यथा च-
अन्य उत्पादयत्येनं यद्युत्पादोऽनवस्थितिः।
इत्युत्पादे व्याख्यातम्, एवं स्थितावपि व्याख्येयम् -
अथान्या स्थापयत्येनां स्थितिर्यद्यनवस्थितिः।
इति। एवं स्थितिरपि न युक्ता। अत एवोक्तं भगवता -
अस्थिता हि इमे धर्माः स्थितिश्चैषां न विद्यते।
अस्थितिः स्थितिशब्देन स्वभावेन न विद्यते॥
न स्थितिर्नापि चो जातिर्लोकनाथेन देशिता
लोकनाथं विदित्वैवं समाधिं तेन जानथा॥इति॥

उक्तं च आर्यसचर्यगाथासु -
आकाशनिश्रित समारुत आपखन्धो
तन्निश्रिता इय मही पृथिवी जगच्च।
सत्त्वान कर्म‍उपभोगनिदानमेवं
आकाशथानु कृत चित्तम एतमर्थम्॥

यावत् -

स्थानम्मयानु अयु थानु जिनेन उक्तो॥

इति विस्तरः॥२५॥

अत्राह - विद्येते एव स्थित्युत्पादौ तत्सहचारिधर्मसद्भावात्। इह उत्पादस्थितिलक्षण - सहचारिणी संस्कृतानामनित्यतास्ति। तस्मात्स्थित्युत्पादावपि स्तः इति। उच्यते। स्यात स्थित्युत्पादौ, यदि अनित्यतैव स्यात्। न त्वस्ति। कथमिति ? यस्मात् -

निरुध्यते नानिरुद्धं न निरुद्धं निरुध्यते।
तथापि निरुध्यमानं किमजातं निरुध्यते॥२६॥

यदि अनित्यतेति काचित्स्यात्, सा निरुद्धस्य भावस्य अनिरुद्धस्य वा निरुध्यमानस्य वा स्यात्। तत्र निरुद्धं निरुध्यते इति न युक्तम् , अतीतवर्तमानयोर्विरोधात्। अनिरुद्धमपि न युक्तम्, निरोधविरहितत्वात्, यदनिरुद्धमेव तत्कथं निरुध्यत इति परस्परविरोधाच्च। तथापि निरुध्यमानं न निरुध्यते इत्यनेन संबन्धः। निरुध्यमानमपि न निरुध्यते निरुध्यमानाभावात् , निरोधद्वयप्रसङ्गाच्च। यतश्चैवं त्रिष्वपि कालेषु निरोधासंभवः, तस्मान्नास्त्येव निरोध इति कुतस्तत्सहचारिस्थित्युत्पादसंभवः स्यात्? अपि च। प्रागुत्पादप्रतिषेधादसंभव एव निरोधस्येत्याह - किमजातं निरुध्यते।

इति॥२६॥

अपि च। अयं निरोधः स्थितस्य वा भावस्य स्यादस्थितस्य वा? उभयथा च न युज्यते इत्याह -

स्थितस्य तावद्भावस्य निरोधो नोपपद्यते।
स्थितस्य निरोधविरुद्धस्य नास्ति निरोधः।
नास्थितस्यापि भावस्य निरोध उपपद्यते॥२७॥

अस्थितस्य अभावस्य अविद्यमानस्य निरोधो नास्ति, इति सर्वथा नास्ति निरोधः॥२७॥

किं चान्यत्। यदि इह निरोधः स्यात्, स तयैवावस्थया तस्या एवावस्थायाः स्यादन्यया वा अन्यस्या अवस्थायाः स्यात्। सर्वथा च नोपपद्यते इति प्रतिपादयन्नाह -

तयैवावस्थयावस्था न हि सैव निरुध्यते।
अन्ययावस्थयावस्था न चान्यैव निरुध्यते॥२८॥

तयैव तावत्क्षीरावस्थया सैव क्षीरावस्था न निरुध्यते, स्वात्मनि क्रियाविरोधात्। नाप्य न्यया दध्यवस्थया क्षीरावस्था निरुध्यते। यदि हि क्षीरदध्यवस्थयोर्यौगपद्यं स्यात्, स्यात्तयोर्विनाश्य विनाशकभावः। न तु दध्यवस्थायां क्षीरावस्था अस्ति। यदा च नास्ति, तदा कामसती विनाशयेत्? यदि विनाशयेत्, खरविषाणतीक्ष्णतामपि विनाशयेत्। तस्मादन्ययाप्यवस्थया नैवान्यावस्था निरुध्यते॥२८॥

अत्राह - यद्यपि तयैवावस्थया सैवावस्थ्या, अन्यया वा अवस्थया अन्यावस्था न निरुध्यते, तथापि क्षीरावस्थायास्तावन्निरोधोऽस्ति, ततश्च उत्पादोऽपि स्यादिति। उच्यते। अहो बत अतिजडतामात्मनो भवान् प्रकटयति। ननु च पूर्वोक्तेन न्यायेन

यदैवं सर्वधर्माणामुत्पादो नोपपद्यते।

इत्युक्तम्,

तदैवं सर्वधर्माणां निरोधो नोपपद्यते॥२९॥

इति स्फुटतरमेव प्रतिपादितं भवति॥२९॥

अपि च। निरोधो नाम यदि कश्चित् स्यात्, स सतो वा भावस्य स्यादसतो वा। तत्र -
सतश्च तावद्भावस्य निरोधो नोपपद्यते।

स्वभावादप्रच्युतस्य भावस्य निरोधो न युक्तः। यस्मात् -

एकत्वे न हि भावश्च नाभावश्चोपपद्यते॥३०॥

निरोधो हि नाम अभावः। स यस्य भवति, स नैव भवति। ततश्च सतो भावस्य निरोध इति ब्रुवता भावाभावयोरेकाधिकरणता अभ्युपगता भवति। एकत्वे सति उभयं न युज्यते। यदि तदानीं भावः स्यात्, तदा निरोधेनाभावेनावेशाद्भावव्यपदेशोऽयुक्तः। अथ अभावः , सोऽप्यस्य न युज्यते, अभावविरोधिना भावरूपेणावियोगात्। तस्मादेकत्वे सति भावाभावयोः स पदार्थो नैव भावो नाप्यभाव इति युज्यते। अथवा, परस्परविरुद्धत्वादालोकान्धकार वदेकत्वे सति न हि भावश्च नाभावश्चोपपद्यते। एवं तावत्सतो भावस्य निरोधो न युक्तः॥३०॥

इदानीम् -
असतोऽपि न भावस्य निरोध उपपद्यते।
अविद्यमानस्याभावस्य न विनाशोऽस्ति वन्ध्यातनयस्येव, अविद्यमानत्वात्। अत एवाह -

न द्वितीयस्य शिरसच्छेदनं विद्यते यथा॥३१॥

प्रसिद्धासत्त्वस्यैव नराणां द्वितीयस्य शिरसो दृष्टान्तत्वेनोपादानान्निर्देशापूर्णत्वान्नास्तीति नोपात्तम्। तदेवमसतो भावस्य निरोधो न संभवति, सतोऽपि न। यश्चोभयथापि न संभवति, स केनात्मना स्थितः? नास्त्येव निरोध इति प्रतीयताम्॥३१॥

किं चान्यत्। यदि निरोधो नाम भावानां निरोधक इति कल्प्यते, तस्येदानीं किमन्यो निरोध इष्यते, उत न? यदि इष्यते तन्न युज्यते।

न स्वात्मना निरोधोऽस्ति निरोधो न परात्मना।
कथं पुनर्नास्तीति प्रतिपादयन्नाह -
उत्पादस्य यथोत्पादो नात्मना न परात्मना॥३२॥

तत्र यथा -
अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत्कथम्।

इत्यादिना उत्पादः स्वात्मानं नोत्पादयति, एवं निरोधोऽपि स्वात्मानं न निरोधयति। कथमिति? उच्यते -

अनिरुद्धो निरोधोऽयं स्वात्मानं नाशयेत्कथम्।
अथ नष्टो नाशयति नष्टे किं नाश्यते पुनः॥

इति सममुत्पादेन वक्तव्यम्। एवं च स्वात्मना न निरोधोऽस्ति। निरोध इदानीं परात्मनापि नास्ति। कथम्? तत्र यथा उत्पादे गदितम् - ' अन्य उत्पादयत्येनम्' इत्यादि, एवं निरोधेऽपि वक्तव्यम् -

अन्यो विनाशयत्येनं नाशो यद्यनवस्थितिः।
अथाविनाशो नष्टोऽयं सर्वं नश्यतु ते तथा॥

इति। तदेवं परात्मनापि निरोधो न संभवतीति नास्ति निरोधस्य निरोधः॥

अथ मन्यसे - नास्त्येव निरोधस्य निरोध इति, तदयुक्तम्। यदि हि निरोधस्य निरोधो न स्यात, तदा निरोधरहितत्वात्संस्कृतलक्षणमवहीयते। तदेवं यदि विनाशस्य विनाशः परिकल्प्यते तथापि न युक्तो विनाशः। अथ न परिकल्प्यते, तथापि न युक्त इति। कथं त्विदानीं विनाशो योक्ष्यते परस्य? अथ स्यात् - तथापि एवमेव विचारे सति विनाशो भवतोऽपि न युज्यते, ततः य उभयोर्दोषः, न तेनैकश्चोद्यो भवतीति। उच्यते। नैवेदं चोद्यं ममापतति। किं कारणम्? ये स्वात्मना निःस्वभावा भावाः, ते च निःस्वभावा एव सन्तो बालानामिदंसत्याभिनिवेशिनां व्यवहारपथमुपयान्ति अविचारप्रसिद्धेनैव न्यायेनेति तेषु नास्ति यथोदितविचारावतारोऽस्माकम् मायास्वप्नगन्धर्वनगरादिवत्तु लौकिकाः पदार्था निरुपपत्तिका एव सन्तः सर्वलोकस्याविद्यातिमिरोपहतमतिनयनस्य प्रसिद्धिमुपगता इति परस्परापेक्षयैव केवलं प्रसिद्धिमुपगता बालैरभ्युपगम्यन्ते। यथोक्तं शतके -

अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकैः।
धूमिकान्तःप्रतिश्रुत्कामरीच्यभ्रैः समो भवः॥

तस्मात्सति उत्पादे उत्पाद्यम्, सति उत्पाद्ये उत्पादः। सति निरोधे निरोध्यम्, सति निरोध्ये निरोधः, इत्येवं लौकिकस्य व्यवहारस्याभ्युपगमात्कुतोऽस्मत्पक्षे समप्रसङ्गिता भवितुमर्हति।

यस्तु विनाशस्य अहेतुकत्वमभ्युपेत्य क्षणिकतां संस्काराणामाह, तस्य निर्हेतुकत्वात्। खपुष्पवद्विनाशाभावात् कुतः क्षणिकत्वं भावानां सेत्स्यति, कुतो विनाशरहितानां संस्कृतत्वमपीति सर्वमेव असमञ्जसं तस्य जायते। जातिप्रत्ययं जरामरणं संस्कृतलक्षणानां च संस्कारस्कन्धान्तर्भाव वर्णयता भगवता ननु सहेतुकत्वं स्पष्टमादर्शितं विनाशस्य। जातिमात्रापेक्षत्वाच्चास्य क्षणभङ्गोऽपि सुखसाध्य इति सर्वं सुस्थं जायते॥

अथ स्यात् - विनाशो हि नाम अभावः, यश्च अभावः, किं तस्य हेतुना कर्तव्यम्। अतो निर्हेतुको विनाश इति। ननु च भावेऽपि हेत्वभावप्रसङ्गो भवति। भावो हि नाम विद्यमानः, यश्च विद्यमानः तस्य च किं हेतुना प्रयोजनम्? न हि जातं पुनरपि जन्यते। तस्मात्सर्वत्रैव हेत्वभावप्रसङ्गादयुक्तमेतत्॥

अपि च। यथा उत्पादः सहेतुकः पूर्वमभावात्पश्चाच्च भावात्, एवं विनाशोऽपीष्यताम्। विनाशो हि न सर्वदा भवति, उत्पादात्पूर्वमभावात्पश्चाच्च भावात्। यच्चोच्यते - यश्चाभावः तस्य किं हेतुना कर्तव्यमिति, तदयुक्तम्। यस्मान्न वयं विनाशस्य हेतुना किंचित्क्रियमाणमिच्छामः, किं तर्हि विनाश एव क्रियते इति वर्णयामः। नन्वेवं सति क्रियमाणत्वाद्विनाशोऽपि भावः प्राप्नोतीति चेत्, इष्यत एवैतत्। विनाशो हि स्वरूपापेक्षया भावः, रूपादिधर्मनिवृत्तिस्वभावत्वात्तु न भावः। अपि च। मरणमपि द्विविधकार्यप्रत्युपस्थापनं संस्कारविध्वंसनं च करोति। अपरिज्ञानानुपच्छेदं (?) चेत्यागमात् कथं न सहेतुको विनाशः? अपि च। कल्पिताभावलक्षणायाश्च शून्यतायाः परेण भावरूपतामभ्युपगच्छता कथमभावस्य भावत्वं नाभ्युपगतं भवति? भावत्वाच्च कथमसंस्कृतत्वं शून्यतायाः स्यात्? अतः सर्वमभ्युपेतं विहीयते भवता। अत एव वक्ष्यति -

भवेदभावो भावश्च निर्वाणमुभयं कथम्।
न संस्कृतं हि निर्वाणं भावाभावौ च संस्कृतौ॥

इत्यलं प्रसङ्गेन। प्रकृतमेव व्याख्यास्यामः॥३२॥

अत्राह - यदि उत्पादस्थितिभङ्गाः संस्कृतस्य निषिद्धाः, तथापि संस्कृतमस्ति विशेषलक्षणयुक्तम्। तथाहि काठिन्यादिकं सास्नादिकं च तस्य विशेषलक्षणमुपदिश्यते। तस्मात्संस्कृतस्य सद्भावात्तल्लक्षणमप्यस्तीति। उच्यते। स्यादेवं यदि संस्कृतमेव वस्तु स्यात्। कुतः? यस्मात् -

उत्पादस्थितिभङ्गानामसिद्धेर्नास्ति संस्कृतम्।

यदा यथोक्तेन न्यायेन उत्पादस्थितिभङ्गा एव निषिद्धाः, तदा कुतः संस्कृतं वस्तु तद्विशेषलक्षणमप्यस्तीति॥

अत्राह - विद्यत एव संस्कृतम्, तत्प्रतिपक्षासंस्कृतसद्भावात्। उच्यते। स्यादेतदेवम्, यदि असंस्कृतमेव स्यात्। यस्मात् -

संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्यसंस्कृतम्॥३३॥

अत्रैके आकाशाप्रतिसंख्यानिरोधनिर्वाणान्यसंस्कृतानीति कल्पयन्ति। अपरे शून्यतां तथतालक्षणामसंस्कृतां परिकल्पयन्ति। तदेतत्सर्वं संस्कृतस्याप्रसिद्धौ सत्यां नास्त्येवेति स्पष्टमादर्शितम्॥३३॥

अत्राह - यदि उत्पादस्थितिभङ्गा न सन्तीत्यवधारितम्, यत्तर्हि इदमनावरणज्ञानिना मुनिना -

" संस्कृतस्य भिक्षवः उत्पादोऽपि प्रज्ञायते, व्ययोऽपि, स्थित्यन्यथात्वमपि "

इत्युदाहृतम्, तत्कथं वेदितव्यमिति ? उच्यते -

यथा माया यथा स्वप्नो गन्धर्वनगरं यथा।
तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतम्॥३४॥

यथा मायादयः स्वभावेनानुत्पन्ना अविद्यमाना मायादिशब्दवाच्या मायादिविज्ञानगम्याश्च लोकस्य, एवमेतेऽपि लोकप्रसिद्धिमात्रेण उत्पादादयः स्वभावेन अविद्यमाना अपि भगवता तथाविधविनेयजनानुग्रहचिकीर्षुणा निर्दिष्टा इति। अत एवोक्तम् -

त्वक्स्नायुमांसास्थिसमुच्छ्रये च
उत्पाद्य संज्ञां मम पत्निरेषा।
मूढा हि बला जनयन्ति रागं
स्त्रियो न जानन्ति यथैव मायाम्॥
यथा कुमारी सुपिनान्तरस्मिं
सा पुत्र जातं च मृतं च पश्यति।
जातेऽतितुष्टा मृति दौर्मनस्थिता
तथोपमान् जानथ सर्वधर्मान्॥

यथैव गन्धर्वपुरं मरीचिका
यथैव माया सुपिनं यथैव।
स्वभावशून्या तु निमित्तभावना
तथोपमान् जानथ सर्वधर्मान्॥

संस्कृतासंस्कृतधर्मविविक्ता
नास्ति विकल्पन तेषमृषीणाम्।
सर्वगतीषु असंस्कृतप्राप्ता
दृष्टिगतेहि सदैव विविक्ता॥
नित्यमरक्त अदुष्ट अमूढाः
तस्य सभावसमाहितचित्ता।
एष समाधिबली बलवन्तो
यो इमु जानति शून्यकधर्मान्॥इति॥ ३४॥

इत्याचार्यचन्द्रकीर्तिपादोपरचित्तायां प्रसन्नपदायां मध्यमकवृत्तौ
संस्कृतपरीक्षा नाम सप्तमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project