Digital Sanskrit Buddhist Canon

चतुर्थ प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Caturtha prakaraṇam

स्कन्धपरीक्षा चतुर्थ प्रकरणम्।

अत्राह- यद्येवं चक्षुरादीनीन्द्रियाणि न सन्ति , न स्कन्धाः, अप्रतिषेधात् तदन्तर्गतानि चेन्द्रियाणि, अतस्तान्यपि भविष्यन्तीति। उच्यते। स्युरेव, यदि स्कन्धाः स्युः तत्र रूपस्कन्धमधिकृत्याह -

रूपकारणनिर्मुक्तं न रूपमुपलभ्यते।
रूपेणापि न निर्मुक्तं दृश्यते रूपकारणम्॥१॥

तत्र रूपं भौतिकम्। तस्य कारणं चत्वारि महाभूतानि। तद्वयतिरिक्तं पृथग्भूतं रूपं रूपशब्दगन्धरसस्प्रष्टव्याख्यं नोपलभ्यते घटादिव पटः। रूपेणापि न निर्मुक्तं रूपात्पृथग्भूतं रूपकारणमुपलभ्यते॥१॥

तदेतत्प्रतिज्ञाद्वयं प्रसाधयितुकाम आह -

रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते।
आहेतुकं, न चास्त्यर्थः कश्चिदाहेतुकः क्कचित्॥२॥

यथा घटादर्थान्तरभूतः पटो न घटहेतुकः, एवं रूपकारणचतुर्महाभूतव्यतिरिक्त भौतिकं रूपमिष्यमाणं न भूतहेतुकं स्यात्। न चास्त्यर्थः कश्चिदाहेतुकः क्कचित्। तस्मादहेतुकत्व दोषप्रसङ्गान्न रूपकारणनिर्मुक्तं रूपमभ्युपेतव्यमिति॥२॥

इदानीं रूपेणापि विनिर्मुक्तं यथा रूपकारणं नास्ति, तथा प्रतिपादयन्नाह -
रूपेण तु विनिर्मुक्तं यदि स्याद्रूपकारणम्।

यदि कार्यरूपविनिर्मुक्तं रूपकारणं स्यात्, तदा, यथा घटात्कुण्डं पृथक्सिद्धं घटहेतुकं न भवति, एवं कार्यात्पृथग्भूतं कारणमिष्यमाणम्-

अकार्यकं कारणं स्यात्

निर्हेतुकं स्यात्। कारणस्य हि कारणत्वे कार्यप्रवृत्तिर्हेतुः, कार्यनिरपेक्षाच्च कारणात् पृथक्सिद्धा नास्ति कार्यप्रवृत्तिः। यच्चाकार्यकं कारणं तन्निर्हेतुकत्वान्नरोरगतुरगविषाणवन्नास्त्येवेत्याह -
नास्त्यकार्यं च कारणम्॥३॥

इति॥३॥

अथ चेदं रूपस्य कारणमिष्यमाणं सति वा रूपे कारणत्वेनेष्यतेऽसति वा? उभयथा च नोपपद्यत इत्याह -
रूपे सत्येव रूपस्य कारणं नोपपद्यते।
रूपेऽसत्येव रूपस्य कारणं नोपपद्यते॥४॥

सति वा संविद्यमाने रूपे किं रूपकारणेन प्रयोजनम्? असति असंविद्यमाने रूपे किं किं रूपकारणेन प्रयोजनम्, कस्य वा तत्कारणं परिकल्प्यते? तस्मादसत्यपि रूपे रूपकारणं नोपपद्यते॥४॥

अथ स्यात् - यद्यपि एवं रूपकारणं न संभवति, तथापि कार्यं रूपं संविद्यते, सद्भावात् कारणमपि भविष्यतीति। स्यादेवम् , यदि कार्यं रूपं स्यात्। न त्वस्ति। य्स्मात् -

निष्कारणं पुना रूपं नैव नैवोपपद्यते।

रूपकारणं यथा नास्ति तथोक्तम्। असति कारणे कुतो निर्हेतुकं कार्यं रूपं भवेत्? नैव नैवेत्यनेन सावधारणेन प्रतिषेधद्वयेन अहेतुकत्वादस्यात्यनिष्टतां दर्शयति। यतश्चैवं रूपं सर्वथा विचार्यमाणं न संभवति,
तस्मात्

तत्त्वदर्शी योगी

रूपगतान् कांश्चिन्न विकल्पान् विकल्पयेत्॥५॥

सप्रतिघाप्रतिघसनिदर्शनानिदर्शनातीतानागतनीलपीतादिविकल्पान् रूपालम्बनान्न कांश्चित्परिकल्पयितुमर्हतीत्यर्थः॥५॥

अपि च। इदं रूपकारणमिष्यमाणं सदृशं कार्यं निष्पादयेदसदृशं वा? उभयथा च नोपपद्यते इत्याह -

न कारणस्य सदृशं कार्यमित्युपपद्यते।
न कारणस्यासदृशं कार्यमित्युपपद्यते॥६॥

तत्र रूपकारणं कठिनद्रवोष्णतरलस्वभावम्। भौतिकं तु चक्षुराध्यात्मिकं पञ्चचक्षुर्विज्ञानाद्याश्रयकरूपप्रसादात्मकम्। बाह्यं तु रूपाद्यायतनादिकं चक्षुर्विज्ञानादिग्राह्यलक्षणं न महाभूतस्वभावमिति। अतो भिन्नलक्षणत्वान्निर्वाणवत्कार्यकारणयोः सादृश्यमेव नास्तीति
न कारणस्य सदृशं कार्यमित्युपपद्यते।

न चापि सदृशानां शालिबीजादीनां परस्परकार्यकारणभावो दृष्टः, इत्यतः
न कारणस्य सदृशं कार्यमित्युपपद्यते।

तथापि
न कारणस्यासदृशं कार्यमित्युपपद्यते।

भिन्नलक्षणत्वान्निर्वाणवदेवेत्यभिप्रायः॥६॥

यथा चेदं रूपं विचार्यमाणं सर्वथा नोपपद्यते, एवं वेदनादयोऽपि, इत्यतिदिशन्नाह -

वेदनाचित्तसंज्ञानां संस्काराणां च सर्वशः।
सर्वेषामेव भावानां रूपेणैव समः क्रमः॥७॥

वेदनादिकमपि सर्वं रूपविचारेणैव समं योज्यम्। यथैव ह्येकस्य धर्मस्य शून्यता प्रतिपादयितुमिष्टा माध्यमिकेन, तथैव सर्वधर्माणामपीति॥७॥

अतः -
विग्रहे यः परीहारं कृते शून्यतया वदेत्।
सर्वं तस्यापरिहृतं समं साध्येन जायते॥८॥

तत्र परपक्षदूषणं विग्रहः। शून्यतया कारणभूतया रूपं निःस्वभावमित्येवं सस्वभाववादे प्रतिषिद्धे, यदि परः परिहारं ब्रूयात् - वेदनादयस्तावत्सन्ति, तद्वद्रूपमप्यस्तीति, तदेतत्सर्व तस्यापरि हृतं भवति। यस्माद्वेदनादीनामपि सद्भावः साध्येन रूपसद्भावेन समो वेदितव्यः। यथा रूपं स्वकारणात्तत्त्वान्यत्वेन विचार्यमाणमसत्, एवं स्पर्शप्रत्यया वेदना, विज्ञानसहजा संज्ञा, अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं च विज्ञानं स्वकारणात्स्पर्शादेः तत्त्वान्यत्वादिना विचार्यमाणं नास्तीति सर्वमेतत्साध्यसमं भवति। यथा वेदनादयः साध्यसमाः, एवं लक्ष्यलक्षण कार्यकारणावयव्यवयवादयोऽपि सर्व एव पदार्थाः रूपेण साध्येन समा इति कुतः परस्य परीहार संभवेत्? सर्वं वचनमस्य साध्यसमं भवतीति सर्वत्र शास्त्रे परीहारेण साध्यसमत्वं माध्यमिकेना ग्राहणीयमित्याचार्यः शिक्षयति॥८॥

यथा च परपक्षदूषणे विहिऽतोयं विधिः, एवं व्याख्यानकालेऽपीत्याह -

व्याख्याने य उपालम्भं कृते शून्यतया वदेत्।
सर्वं तस्यानुपालब्धं समं साध्येन जायते॥९॥

व्याख्यानकालेऽपि यः शिष्यदेशीयश्चोद्यमुपालम्भं कुर्यात्, तस्यापि तच्चोद्यमुपालम्भाख्यं पूर्ववत्साध्यसमं वेदितव्यम्। यथोक्तम् -

भावस्यैकस्य यो द्रष्टा द्रष्टा सर्वस्य स स्मृतः।
एकस्य शून्यता यैव सैव सर्वस्य शून्यता॥ इति।

आर्यगगनगञ्जसमाधिसूत्रेऽपि -
एकेन धर्मेण तु सर्वधर्मान्
अनुगच्छते मायमरीचिसादृशान्।
अग्राह्यतुच्छानलिकानशाश्वतान्
सो बोधिमण्डं नचिरेण गच्छति॥ इति॥

समाधिराजसूत्रेऽपि -

यथ ञात तयात्मसंज्ञ तथैव सर्वत्र पेषिता बुद्धिः।
सर्वे च तत्स्वभावा धर्म विशुद्धा गगनकल्पाः॥

एकेन सर्वं जानाति सर्वमेकेन पश्यति।
कियद्बहु पि भावेत्वा न तस्योत्पद्यते मदः॥इति।

इत्याचार्यचन्द्रकीर्तिपादोपरचित्तायां प्रसन्नपदायां मध्यमकवृत्तौ स्कन्धपरीक्षा नाम चतुर्थ प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project