Digital Sanskrit Buddhist Canon

तृतीयं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Tṛtīyaṁ prakaraṇam

चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम्।

अत्राह - यद्यपि गतिश्च गन्ता च गन्तव्यं च न विद्यते, तथापि प्रवचनसिद्धयपेक्षया द्रष्ट्टद्रष्टव्यदर्शनादीनामस्तित्वमास्थेयम्। तथा चाभिधर्मे उच्यते।

दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः।
इन्द्रियाणि षडेतेषां द्रष्टव्यादीनि गोचरः॥१॥

तस्मात्सन्ति दर्शनादीनि स्वभावत इति। उच्यते। न सन्ति। इह हि पश्यतीति दर्शनं चक्षुः, तस्य च रूपं विषयत्वेनोपदिश्यते॥१॥
यथा दर्शनं रूपं न पश्यति तथा प्रतिपादयन्नाह -

स्वमात्मानं दर्शनं हि तत्तमेव न पश्यति।
न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान्॥२॥

तत्र तदेव दर्शनं स्वात्मानं न पश्यति स्वात्मनि क्रियाविरोधात्। ततश्च स्वात्मादर्शनाच्छ्रोत्रादिवन्नीलादिकं न पश्यति। तस्मान्नास्ति दर्शनम्॥२॥

यद्यपि स्वात्मानं दर्शनं न पश्यति, तथाष्यग्निवत् परान् द्रक्ष्यति। तथा हि अग्निःपरात्मानमेव दहति न स्वात्मानम्, एवं दर्शनं परानेव द्रक्ष्यति न स्वात्मानमिति। एतदत्ययुक्तम्। यस्मात् -

न पर्याप्तोऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये।
योऽयमग्निदृष्टान्तो दर्शनस्य प्रसिद्धये भवतोपन्यस्तः, स न पर्याप्तो नालं न समर्थो न युज्यत इत्यर्थः। यस्मात् -

सदर्शनः स प्रत्युक्तो गम्यमानगतागतैः॥३॥

सह दर्शनेन वर्तत इति सदर्शनः। योऽयमग्निदृष्टान्तो दर्शनप्रसिद्धये भवतोपन्यस्तः, सोऽपि सह दर्शनेन दार्ष्टान्तिकार्थेन प्रत्युक्तो दूषितः। केन पुनरित्याह- गम्यमानगतागतैः। यथा गतं न गम्यते नागतं न गम्यमानम्, एवमग्निनापि दग्धं न दह्यते नादग्धं दह्यत इत्यादिना समं वाच्यम्। यथा च न गतं नागतं न गम्यमानं गम्यते, एवम् -

न दृष्टं दृश्यते तावददृष्टं नैव दृश्यते।
दृष्टादृष्टविनिर्मुक्तं दृश्यमानं न दृश्यते॥

इत्यादि वाच्यम्॥३॥

यथा च गन्ता न गच्छति तावदित्याद्युक्तम्, एवं न दग्धा दहति तावदित्यादि वाच्यम्। एवं न द्रष्टा पश्यति तावदित्यादिना अग्निदृष्टान्तेन सह गम्यमानगतागतैर्यस्मात्समं दूषणम्, अतोऽप्य ग्निवद् दर्शनसिद्धिरिति न युज्यते। ततश्च सिद्धमेतत्- स्वात्मवद् दर्शनं परानपि न पश्यतीति॥३॥
यदैवं तदा -
नापश्यमानं भवति यदा किंचन दर्शनम्।
दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते॥४॥

यदा चैवमपश्यन्न किंचिद्दर्शनं भवति, तदानीमपश्यतो दर्शनात्वायोगात् स्तम्भादिवत्, पश्यतीति दर्शनमिति व्यपदेशो न युज्यते। यद्यपि दर्शनशब्दादनन्तरं श्लोकबन्धानुरोधेन दर्शन पश्यतीति पाठः, तथापि व्याख्यानकाले पश्यतीति दर्शनमित्येवं कथमेतत्तु युज्यते इति पठितव्यम्॥४॥

किं चान्यत् - इह पश्यतीति दर्शनमित्युच्यमाने दर्शनक्रियया दर्शनस्वभावस्य वा चक्षुषः संबन्धः परिकल्प्येत, अदर्शनस्वभावस्य वा? उभयथा च न युज्यते इत्याह -

पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम्।

दर्शनस्वभावस्य तावद् दृशिक्रियायुक्तस्य भूयः पश्यतीत्यादिना संबन्धो नोपपद्यते दृशिक्रियाद्वयप्रसङ्गात् दर्शनद्वयप्रसङ्गाच्च। अदर्शनमपि न पश्यति दर्शनक्रियारहितत्वादङ्गूल्यय वदित्याभिप्रायः। यदा

पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम्।
तदा
दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते॥

इत्यनेनैव संबन्धः॥

ये तु मन्यन्ते - निर्व्यापारं हीदं धर्ममात्रमुत्पद्यमानमुत्पद्यते इति, नैव किंचित्, कश्चिद्विषयं पश्यति क्रियाया अभावात्, तस्माद्दर्शनं न पश्यतीति सिद्धमेतत्प्रसाध्यत इति। अत्रोच्यते। यदि क्रिया व्यवहाराङ्गभूता न स्यात्, तदा धर्ममात्रमपि न स्यात्, क्रियाविरहितत्वात्, खपुष्पवदिति कुतः क्रियारहितं धर्ममात्रं भविष्यति? तस्माद्यदि व्यवहारसत्यं धर्ममात्रवत् क्रियाप्यभ्युपगम्यताम्। अथ तत्त्वचिन्ता, तदा क्रियावद् धर्ममात्रमपि नास्तीति भवताभ्युपगम्यताम्। यथोक्तं शतके -

क्रियावान् शाश्वतो नास्ति नास्ति सर्वगते क्रिया।
निष्क्रियो नास्तिना तुल्यो नैरात्म्यं किं न ते प्रियम्॥इति।

तस्मान्नायं विधिर्बाधकः परस्य, नाप्यस्माकं सिद्धसाधनदोषः॥

अत्राह -नैव हि पश्यतीति दर्शनमिति कर्तृसाधनमभ्युपगम्यते, किं तर्हि पश्यत्यनेनेती दर्शनमिति करणसाधनम् , ततश्च उक्तदोषाप्रसङ्गः। यश्चानेन दर्शनेन करणभूतेन पश्यति, स द्रष्टा, एष च विद्यते विज्ञानमात्मा वा, कर्तृसद्भावाच्च दर्शनमपि सिद्धमिति। उच्यते -

व्याख्यातो दर्शनेनैव द्रष्टा चाप्युपगम्यताम्॥५॥

यथा स्वमात्मानं दर्शनं हीत्यादिना दूषणमुक्तम्, एवं द्रष्टुरपि दर्शनवद्दूषणं वेदितव्यम्। तद्यथा -
स्वमात्मानं नैव द्रष्टा दर्शनेन विपश्यति।
न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान्॥

इत्यादि वाच्यम्। तस्माद्दर्शनवद् द्रष्टापि नास्तीति सिद्धम्॥५॥

अत्राह - विद्यत एव द्रष्टा तत्कर्मकरणसद्भावात्। इह यन्नास्ति इति, न तस्य कर्मकरणे विद्येते तद्यथा वन्ध्यासूनोः। अस्ति च द्रष्टुः करणं दर्शनं द्रष्टव्यं च कर्म। तस्माच्छेत्तृवद्विद्यमान कर्मकरणो विद्यत एव द्रष्टेति। उच्यते। नैव हि द्रष्टव्यदर्शने विद्येते, तत्कुतो द्रष्टा स्यात्? द्रष्टुसापेक्षे हि द्रष्टव्यदर्शने। स च निरूत्त्यमाणः -

तिरस्कृत्य द्रष्टा नास्त्यतिरस्कृत्य च दर्शनम्।

इह द्रष्टा नाम यदि कश्चित्स्यात्, स दर्शनसापेक्षो वा स्यान्निरपेक्षो वा। तत्र यदि दर्शनसापेक्षोऽतिरस्कृत्य दर्शनमिष्यते, तदा सिद्धस्य वा दर्शनापेक्षा स्यादसिद्धस्य वा। तत्र सिद्धो द्रष्टा न हि दर्शनमपेक्षते। किं सिद्धस्य सतो द्रष्टुः पुनर्दर्शनापेक् षा कुर्यात्? न हि सिद्धं पुनरपि साध्यत इति। अथासिद्धोऽपेक्षेत, असिद्धत्वाद्वन्ध्यासुतवद्दर्शनं नापेक्षते। एवं तावदतिरस्कृत्य दर्शनमपेक्ष्य द्रष्टा नास्ति। तिरस्कृत्यापि , दर्शननिरपेक्षत्वात् इत्युक्तं प्राक्। तदेवं तिरस्कृत्यातिरस्कृत्य वा दर्शनं यदा द्रष्टा नास्ति, तदा -

द्रष्टव्यं दर्शनं चैव द्रष्टर्यसति ते कुतः॥६॥

द्रष्टर्यसति निर्हेतुके द्रष्टव्यदर्शने न संभवतः इति कुतस्तत्सद्भावाद् द्रष्टा प्रसेत्स्यति?
अत्राह- विद्येते एव द्रष्टव्यदर्शने, तत्कार्यसद्भावात्। तत्र -

प्रतीत्य मातापितरौ यथोक्तः पुत्रसंभवः।
चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसंभवः॥७॥

इति द्रष्टव्यं दर्शनं च प्रतीत्य विज्ञानमुत्पद्यते। त्रयाणां संनिपातात्सास्रवस्पर्शः , स्पर्शसहजा वेदना, तत्प्रत्यया तृष्णेति। एवं चत्वार्यपि भवाङ्गानि द्रष्टव्यदर्शनहेतुकानि विद्यन्ते। तस्मात्कार्यसद्भावाद् द्रष्टव्यदर्शने विद्येते इति। ७॥

उच्यते - स्यातामेते, यदि विज्ञानादिचतुष्टयमेव स्यात्। यस्मात् -

द्रष्टव्यदर्शनाभावाद्विज्ञानादिचतुष्टयम्।
नास्तीति

इह द्रष्टुरभावाद् द्रष्टव्यदर्शने अपि न स्त इत्युक्तम्। अतः कुतो विज्ञानादिचतुष्टयं विज्ञानस्पर्शवेदनातृष्णाख्यम्? तस्मान्न सन्ति विज्ञानादीनि॥

अत्राह - सन्त्येवतानि तत्कार्यसद्भावात्। इह तृष्णाप्रत्ययमुपादानमित्यादिना उपादानभवजातिजरामरणादिकं विज्ञानादिचतुष्टयादुत्पद्यते, तस्मात्सन्ति विज्ञानादीनि तत्कार्यसद्भावात्।

उच्यते। स्युरुपादानादीनि यदि विज्ञानादिचतुष्टयमेव स्यात्। यदा तु द्रष्टव्यदर्शनाभावाद्विज्ञानादि चतुष्टयं नैवास्ति, तदा -

उपादानादीनि भविष्यन्ति पुनः कथम्॥८॥

न सन्त्युपादानादीनीत्यर्थः॥८॥

इदानीं दर्शनवच्छेषायतनव्याख्यानातिदेशार्थमाह -

व्याख्यातं श्रवणं घ्राणं रसनं स्पर्शनं मनः।
दर्शनेनैव जानीयाच्छ्रोतृश्रोतव्यकादि च॥९॥

इति॥

उक्तं हि भगवता -

न चक्षुः प्रेक्षते रूपं मनो धर्मान्न वेत्ति च।
एतत्त परमं सत्यं यत्र लोको न गाहते॥
सामग्र्या दर्शनं यत्र प्रकाशयति नायकः।
प्राहोपचारभूमिं तां परमार्थस्य बुद्धिमान्॥इति॥

तथा -

चक्षुश्च प्रतीत्य रूपतः चक्षुविज्ञानमिहोपजायते।
नो चक्षुषि रूप निश्रितं रूपसंक्रान्ति न चैव चक्षुषि॥
नैरात्म्यऽशुभाश्च धर्मिमे तेष्वात्मेति शुभाश्च कल्पिताः।
विपरीतमसद्विकल्पितं चक्षुविज्ञान ततोऽपि जायते॥
विज्ञाननिरोधसंभवं विज्ञान‍उपादवयं विपश्यति।
न कहिंचि गतं न चागतं शून्य मायोपम योगि पश्यति॥

तथाचार्योपालिपृच्छायाम् -
सर्व सयोगि तु पश्यति चक्षुस्तत्र न पश्यति प्रत्ययहीनम्।
नैव च चक्षु प्रपश्यति रूपं तेन सयोगवियोगविकल्पः॥
आलोकसमाश्रित पश्यति चक्षू रूप मनोरमचित्रविशिष्टम्।
येन च योगसमाश्रितचक्षुस्तेन न पश्यति चक्षु कदाचि॥
योऽपि च श्रूयति शब्दु मनोज्ञः सोऽपि च नान्तरि जातु प्रविष्टः।
संक्रमणं न च लभ्यति तस्य कल्पवशात्तु समुच्छ्रितु शब्दः॥ इति॥

तथा -
गीतं न नृत्यमपि वाद्यरुतं न ग्राह्यं
स्वप्नोपमा हि रतयोऽबुधमोहनाश्च।
संकल्पलालस गता अबुधाऽत्र नाशं
किं क्लेशदास इव बालजनो भवामि॥ इति॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
चक्षुरादीन्द्रियपरीक्षा नाम तृतीयं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project