Digital Sanskrit Buddhist Canon

द्वितीयं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Dvitīyaṁ prakaraṇam

गतागतपरीक्षा द्वितीयं प्रकरणम्।

अत्राह-यद्यपि उत्पादप्रतिषेधात्प्रतीत्यसमुत्पादस्य अनिरोधादिविशेषणसिद्धिः, तथापि अनागमनिर्गमप्रतीत्यसमुत्पादसिद्धये लोकप्रसिद्धगमनागमनक्रियाप्रतिषेधार्थं किंचिदुपपत्त्यन्तरमुच्यतामिति। उच्यते। यदि गमनं नाम स्यान्नियतं तद्गते वा अध्वजाते परिकल्प्येत अगते गम्यमाने वा। सर्वथा च न युज्यते इत्याह -

गतं न गम्यते तावदगतं नैव गम्यते।
गतागतविनिर्मुक्तं गम्यमानं न गम्यते॥१॥

तत्र उपरतगमिक्रियमध्वजातं गतमित्युच्यते। आविश्यमानं गमिक्रियया वर्तमानं गम्यत इत्युच्यते। यद्गतमुपरतगमिक्रियं तद्वर्तमानगमिक्रियायोगवाचिना गम्यते इत्यनेन शब्देनोच्यमानमसंबद्धमिति कृत्वा गतं तावद् गम्यत इति न युज्यते। तावच्छब्देन च प्रतिषेधक्रमं दर्शयति॥

अगतमपि न गम्यते। अगतं हि अनुपजातगमिक्रियमनागतमुच्यते, गम्यत इति च वर्तमानम्। अतोऽनागतवर्तमानयोरत्यन्तभेदादगतमपि गम्यत इति न युज्यते। यदि अगतं कथं गम्यते, अथ गम्यते न तदगतमिति॥

गम्यमानेऽपि नास्ति गमनम्, यस्मात् -

गतागतविनिर्मुक्तं गम्यमानं न गम्यते।

इह हि गन्ता यं देशमतिक्रान्तः स तस्य देशो गतः, यं च नातिक्रान्तः सोऽस्यानागतः। न च गतागतव्यतिरेकेण तृतीयमपरमध्वजातं पश्यामो गम्यमानं नाम। यतश्चैवं गम्यमानं न गम्यते, गम्यत इति न प्रज्ञायते, तस्मान्नास्ति गम्यमानम्। अतो न तद् गमिक्रियया आविश्यते न गम्यत इति नास्ति गम्यमानेऽपि गमनम्॥

अथ स्यात् - गन्तुर्गच्छतो यश्चरणाक्रान्तो देशः, स गम्यमानः स्यादिति। नैवम्, चरणयोरपि परमाणुसांघातत्वात्। अङ्गुल्यग्रावस्थितस्य परमाणोर्यः पूर्वो देशः, स तस्य गतेऽन्तर्गतः। पार्ष्ण्यवस्थितस्य चरमपरमाणोर्य उत्तरो देशः, स तस्य अगतेऽन्तर्गतः। न च परमाणुव्यतिरेकेण चरणमस्ति। तस्मान्नास्ति गतागतव्यतिरेकेण गम्यमानम्। यथा चैवं चरणे विचारः, एवं परमाणूनामपि पूर्वापरदिग्भागसंबन्धेन विचारः कार्य इति। अथार्धगतं गम्यमानम्, उक्तमुत्तरं जायमानविचारेण। तस्माद्गम्यमानं न गम्यते इति सिद्धम्॥१॥

तत्राह- गम्यत एव गम्यमानम्। इह हि -

चेष्टा यत्र गतिस्तत्र गम्यमाने च सा यतः।
न गते नागते चेष्टा गम्यमाने गतिस्ततः॥२॥

तत्र चेष्टा चरणोत्क्षेपपरिक्षेपलक्षणा। यतो व्रजतो गन्तुर्यत्र देशे चेष्टा गतिः तत्रैव देशे। सा च चेष्टा न गतेऽध्वनि संभवति नाप्यगते, किं तु गम्यमान एव। ततश्च गम्यमाने गतिः। यत्र हि गतिरुपलभ्यते तद्गम्यमानम् , तच्च गमिक्रियया आविश्यते। तस्माद् गम्यमान मेव गम्यते इति। एकोऽत्र गमिर्ज्ञानार्थः, अपरश्च देशान्तरसंप्राप्त्यर्थ इति॥२॥

एवमपि परिकल्प्यमाने गम्यमानं न गम्यत इत्याह -

गम्यमानस्य गमनं कथं नामोपपत्स्यते।
गम्यमाने द्विगमनं यदा नैवोपपद्यते॥३॥

इह हि गमिक्रियायोगादेव गम्यमानव्यपदेशमिच्छति भवान्, तच्च इति गम्यत ब्रवीति। एका चात्र गमिक्रिया, तया गम्यमानव्यपदेशो भवतु काममध्वनः। गम्यत इति भूयः क्रियासंबन्धो गम्यमानस्य न युज्यत इति

गम्यमानस्य गमनं कथं नामोपपत्स्यते।
कारणमाह-
गम्यमाने द्विगमनं यदा नैवोपपद्यते॥इति॥

गम्यमानमिति गम्यत इत्यर्थः। द्विगतं गमनं द्विगमनम्। एकस्या गमिक्रियाया गम्यमान मित्यत्रोपयुक्तत्वाद् द्वितीयाया अभावाच्च, गम्यत इत्ययं व्यपदेशो विना गमनेन यदा नैवोपपद्यते, तदा गम्यमानं गम्यत इति परिपूर्णो वाक्यार्थो नास्तीत्यभिप्रायः। गम्यमानमित्येतावन्मात्रमेव संभवति द्वितीयक्रियाभावात्, न तु गम्यत इति॥३॥

अथ गम्यते इत्यत्रैव गमिक्रियासंबन्ध इष्यते, एवं सति गम्यमानव्यपदेशे नास्ति क्रिया संबन्ध इति न परिपूर्णता वाक्यार्थस्येत्याह -

गम्यमानस्य गमनं यस्य तस्य प्रसज्यते।
ऋते गतेर्गम्यमानं गम्यमानं हि गम्यते॥४॥

यस्य वादिनो गम्यमानस्य गमनमिति पक्षः, गम्यमाने संज्ञाभूते गमिक्रियाशून्ये यो गमिक्रियामाधेयभूतामिच्छति, तस्य पक्षे ऋते गतेर्गम्यमानमिति प्रसज्यते, गतिरहितं गमनं स्यात् , यस्मादस्य गम्यमानं हि गम्यते। हि शब्दो यस्मादर्थे। यस्माद् गतिरहितमेव गम्यमानं सत् तस्य वादिनो गम्यते, गम्यत इत्यत्र क्रियोपयोगात्, तस्माद् गतिरहितं गमनं प्रसज्यते॥४॥

अथ उभयत्रापि क्रियासंबन्ध इष्यते गम्यमाने गम्यते इत्यत्र च, एवमपि -

गम्यमानस्य गमने प्रसक्तं गमनद्वयम्।
येन तद्गम्यमानं च यच्चात्र गमनं पुनः॥५॥

येन गमनेन योगाद्गम्यमानव्यपदेशं प्रतिलभतेऽध्वा, तदेकं गमनम्॥ तत्र गम्यमानेऽधिकरणभुते द्वितीयं गमनं येन सोऽध्वा गम्यते। एतद्गमनद्वयं गम्यमानस्य गमने सति प्रसक्तम्॥५॥

भवतु गमनद्वयम्, को दोष इति चेत्, अयं दोषः। यस्मात् -

द्वौ गन्तारौ प्रसज्येते प्रसक्ते गमनद्वये।

किं पुनः कारणं गन्तृद्वयप्रसङ्गे इत्याह -

गन्तारं हि तिरस्कृत्य गमनं नोपपद्यते॥६॥

यस्मादवश्यं क्रिया स्वसाधनमपेक्षते कर्म कर्तारं वा। गमिक्रिया चैवं कर्तर्यवस्थिता, अतो गन्तारमपेक्षते। नास्ति च एकस्मिन्नेव गच्छति देवदत्ते द्वितीयः कर्तेति। अतः कर्तृद्वया भावान्नास्ति गमनद्वयम्। ततश्च गम्यमानं गम्यत इति नोपपद्यते॥

अथ स्यात्-यदायं देवदत्तः स्थितः, स न भाषते? पश्यति न ? तदैकोऽनेकक्रियो दृष्टः, एवमेकस्मिन् गन्तरि क्रियाद्वयं भविष्यति इति। नैवम्। शक्तिर्हि कारको न द्रव्यम्। क्रियाभेदाच्च तत्साधनस्यापि शक्तेः सिद्ध एव भेदः। न हि स्थितिक्रियया वक्ता स्यात्। द्रव्यमेकमिति चेत्, भवतु एवम्, न तु द्रव्यं कारकः, किं तर्हि शक्तिः, सा च भिद्यत एव। अपि च। सदृशक्रियाद्वय कारकत्वं नैकदेशिकस्य दृष्टम्, अतो नैकस्य गन्तुर्गमनद्वयम्॥६॥

अत्राह-यद्यप्येवं तथापि गन्तरि देवदत्ते गमनमुपलभ्यते देवदत्तो गच्छतीति व्यपदेशात्। ततश्च विद्यत एव गमनं गमनाश्रयगन्तृसद्भावात्। उच्यते। स्यादेवं यदि गमनाश्रयो गन्ता स्यात्, न त्वस्ति। कथमित्याह -

गन्तारं चेतिरस्कृत्य गमनं नोपपद्यते।
गमनेऽसति गन्ताथ कुत एव भविष्यति॥७॥

गन्तारमन्तरेण निराश्रयं गमनमसदित्युक्तम्, ततश्च गन्तारं चेतिरस्कृत्य प्रत्याख्याय गमनं नास्ति, असति गमने कुतो निर्हेतुको गन्ता? अतो नास्ति गमनम्॥७॥

अत्राह -विद्यत एव गमनम्, तद्वतस्तेन व्यपदेशात्। इह गन्ता गमनेन युक्तः, तद्योगाच्च गच्छति। यदि गमनं न स्यात्, गमनवतो देवदत्तस्य गच्छतीति व्यपदेशो न स्यात्, दण्डाभावे दण्डिव्यपदेशाभाववत्। उच्यते। स्याद्गमनम्, यदि गच्छतीत्येवं व्यपदेशः स्यात्। यस्मात् -

गन्ता न गच्छति तावदगन्ता नैव गच्छति।
अन्यो गन्तुरगन्तुश्च कस्तृतीयो हि गच्छति॥८॥

इह गच्छतीति गन्ता, स तावन्न गच्छति, यथा च न गच्छति तथोत्तरेण श्लोकत्रयेण प्रतिपादयिष्यति। अगन्तापि न गच्छति। अगन्ता हि नाम यो गमिक्रियारहितः। गच्छतीति च गमिक्रियायोगप्रवृत्तः शब्दः। यद्यसावगन्ता, कथं गच्छति? अथ गच्छति, नासौ अगन्ता इति। तदुभयव्यतिरिक्तो गच्छतीति चेन्नैवम्। को हि गन्तुरगन्तुर्विनिर्मुक्तस्तृतीयोऽस्ति यो गच्छतीति कल्प्येत? तस्मान्नास्ति गमनम्॥८॥

अत्राह-नागन्ता गच्छति नाप्युभयरहितः, किं तर्हि गन्तैव गच्छतीति। एतदप्यसत् किं कारणम् ? यस्मात् -

गन्ता तावद्गच्छतीति कथमेवोपपत्स्यते।
गमनेन विना गन्ता यदा नैवोपपद्यते॥९॥

गन्ता गच्छतीत्यत्र वाक्ये एकैव गमिक्रिया, तया च गच्छतीति व्यपदिश्यते। गन्तेति तु व्यपदेशे नास्ति द्वितीया गमिक्रिया इति। गमनेन विना गन्ता, अगच्छन् गन्तेति यदा न संभवति, तदा गन्ता गच्छतीति न युज्यते। कामं गच्छतीत्यस्तु, गन्तेति तु न संभवतीति तदयुक्तम्॥९॥

अथ गतियोगात्सगतिक एव गन्ता, तथापि द्वितीयगमिक्रियाभावद्गच्छतीति व्यपदेशो न स्यादित्याह -

पक्षो गन्ता गच्छतीति यस्य तस्य प्रसज्यते।
गमनेन विना गन्ता गन्तुर्गमनमिच्छतः॥१०॥

यस्य वादिनो गमिक्रियायोगादेव गन्तेति पक्षः, तस्य गन्तुर्गमनमिच्छतः सगमनगन्तृव्यप देशाद्गमनेन विना गन्ता गच्छतीति स्यात्, द्वितीयगमिक्रियाभावात्। अतो गन्ता गच्छतीति न युज्यते। गच्छतीत्येतस्यार्थे गन्तेति शब्दो गमनेन विना गन्तेत्यत्र वाक्ये॥ १०॥

अथ उभयत्रापि गतियोग इष्यते गन्ता गच्छतीति, एवमपि -

गमने द्वे प्रसज्येते गन्ता यद्युत गच्छति।
गन्तेति चोच्यते येन गन्ता सन् यच्च गच्छति॥११॥

येन गमनेन योगाद् गन्तेत्युच्यते व्यपदिश्यते तदेकं गमनम्। गन्ता भवन् यच्च गच्छति, यां च गतिक्रियां करोति, तदेतद्गमनद्वयं प्रसक्तम्। अतो गन्तृद्वयप्रसङ्ग इति पूर्ववद् दूषणं वक्तव्यम्। तस्मान्नास्ति गच्छतीति व्यपदेशः॥

अत्राह -यद्यप्येवम्, तथापि देवदत्तो गच्छतीति व्यपदेशसद्भावाद्गमनस्तीति। नैवम्। यस्माद्देवदत्ताश्रयैवैषा चिन्ता किमसौ गन्ता सन् गच्छति, उत अगन्ता गच्छति, तद्वयतिरिक्तो वेति। सर्वथा च नोपपद्यत इति यत्किंचिदेतत्॥

अत्राह - विद्यत एव गमनम्, तदारम्भसद्भावात्। इह देवदत्तः स्थित्युपमर्देन गमनमारभते। न च अविद्यमानकूर्मरोमप्रावारादिकमारभते। उच्यते। स्याद्गमनं यदि तदारम्मे एव स्यात्। यस्मात् -

गते नारभ्यते गन्तुं गतं नारभ्यतेऽगते।
नारभ्यते गम्यमाने गन्तुमारभ्यते कुह॥१२॥

यदि गमनारम्भो भवेत्, तद् गते वाध्वन्यारम्येत, अगते वा गम्यमाने वा। तत्र गते गमनं नारभ्यते, तद्धि नाम उपरतगमिक्रियम्। यदि तत्र गमनमारभ्येत, तद् गतमित्येवं न स्याद् अतीतवर्तमानयोर्विरोधात्। अगतेऽपि गमनं नारभ्यते, अनागतवर्तमानयोर्विरोधात्। नापि गम्यमाने, तदभावात् क्रियाद्वयप्रसङ्गात् कर्तृद्वयप्रसङ्गाच्च। तदेवं सर्वत्र गमनारम्भमपश्यन्नाह- गन्तुमारभ्यते कुहेति॥१२॥

यथा च गमनं न संभवति तथा प्रतिपादयन्नाह -

न पूर्वं गमनारम्भाद्गम्यमानं न वा गतम्।
यत्रारभ्येत गमनमगते गमनं कुतः॥१३॥

इह देवदत्तो यदावस्थित आस्ते, स तदा गमनं नारभते। तस्य गमनारम्भात्पूर्वं न गम्यमानमध्वजातमस्ति, न च गतं यत्र गमनमारभ्येत। तस्माद् गतगम्यमानाभावादेनयोर्न गमनारम्भः॥

अथ स्यात्- यद्यपि गमनारम्भात्पूर्वं न गतं न गम्यमानं तथाप्यगतमस्ति, तत्र गमनारम्भः स्यादिति। उच्यते। अगते गमनं कुतः। अनुपजातगमिक्रियमनारब्धगमिक्रियमगतम्। तत्र गमनारम्भ इत्यसंबद्धमेतदित्याह - अगते गमनं कुतः इति॥१३॥

यद्यपि गतागतगम्यमानेषु गमनारम्भो नास्ति, गतागतगम्यमानानि तु सन्ति। न चासति गमने एतानि युज्यन्त इति। उच्यते। स्याद् गमनं यद्येतान्येव स्युः। सति हि गमिक्रियाप्रारम्भे यत्रोपरता गमिक्रिया तद् गतमिति परिकल्प्येत, यत्र वर्तमाना तद् गम्यमानम्, यत्राजाता तदगतमिति। यदा तु गमिक्रियाप्रारम्भ एव नास्ति, तदा-

गतं किं गम्यमनं किमगतं किं विकल्प्यते।
अदृश्यमान आरम्भे गमनस्यैव सर्वथा॥१४॥

प्रारम्भेऽनुपलभ्यमाने किं मिथ्याध्वत्रयं परिकल्प्यते, कुतो वा तद्वयपदेशकारणं गमनमित्ययुक्तमेतत्॥१४॥

अत्राह- विद्यत एव गमनं तत्प्रतिपक्षसद्भावात्। यस्य च प्रतिपक्षोऽस्ति, तदस्ति, आलोकान्धकारवत् पारावारवत् संशयनिश्चयवच्च। अस्ति च गमनस्य प्रतिपक्षः स्थानमिति। उच्यते। स्याद् गमनं यदि तत्प्रतिपक्षः स्थानं स्यात्। कथमिहेदं स्थानं गन्तुरगन्तुस्तदन्यस्य वा परिकल्प्येत? सर्वथा च न युज्यत इत्याह -

गन्ता न तिष्ठति तावदगन्ता नैव तिष्ठति।
अन्यो गन्तुरगन्तुश्च कस्तृतीयोऽथ तिष्ठति॥१५॥

यथा गन्ता न तिष्ठति तथोत्तरेण श्लोकेनाख्यास्यति। अगन्तापि न तिष्ठति, स हि तिष्ठत्येव, तस्य किमपरया स्थित्या प्रयोजनम्? अगन्तापि न तिष्ठति ? स हि तिष्ठत्येव, तस्य किमपरया स्थित्या प्रयोजनम्? एकया स्थित्या अगन्ता अपरया तिष्ठतीति स्थितिद्वयप्रसङ्गात् स्थातृद्वयप्रसङ्ग इति पूर्ववद्दोषः। गन्त्रगन्तृरहितश्चान्यो नास्ति॥१५॥

अत्राह - नागन्ता तिष्ठति, नापि गन्तुरगन्तुश्चान्यः, किं तर्हि गन्तैव तिष्ठतीति नैवम्। यस्मात्-

गन्ता तावत्तिष्ठतीति कथमेवोपपत्स्यते।
गमनेन विना गन्ता यदा नैवोपपद्यते॥१६॥

यदायं तिष्ठतीत्युच्यते, तदा स्थितिविरोधि गमनमस्य नास्ति, विना च गमनं गन्तृव्यपदेशो नास्ति। अतो गन्ता तिष्ठतीति नोपपद्यते॥१६॥

अत्राह - विद्यत एव गमनम्, तन्निवृत्तिसद्भावात्। इह गतेर्निवर्तमानः स्थितिमारभते गमनाभावे तु न ततो निवर्तेत। उच्यते। स्याद् गमनं यदि तन्निवृत्तिरेव स्यात्। [न त्वस्ति] यस्मात् -
न तिष्ठति गम्यमानान्न गतान्नागतादपि।

तत्र गन्ता गतादध्वनो न निवर्तते गत्यभावात्। अगतादपि , गत्यभावादेव। गम्यमानादपि न निवर्तते तदनुपलब्धेः गमिक्रियाभावाच्च। तस्मान्न गतिनिवृत्तिः॥

अत्राह - यदि गमनप्रतिद्वन्द्विस्थित्यभावाद्गतिरसती, एवं तर्हि गमनप्रसिद्धये स्थिति साधयामः, तत्सिद्धौ गमनसिद्धिः। तस्माद्विद्यत एव स्थानं प्रतिद्वन्द्विसद्भावात्, स्थितेर्हि प्रतिद्वन्द्वि गमनम्, तदस्ति, ततश्च स्थितिरपि, प्रतिद्वन्द्विसद्भावात्। एतदप्ययुक्तम्। यस्मात् -

गमनं संप्रवृत्तिश्च निवृत्तिश्च गतेः समा॥१७॥

अत्र हि यद्गमनं स्थितिसिद्धये वर्णितं तद्गत्या समं गतिदूषणेन तुल्यमित्यर्थः। यथा गन्ता न तिष्ठति तावदित्यादिना गतिप्रसिद्धये स्थितेर्हेतुत्वेनोपात्ताया दूषणमुक्तम्, एवमिहापि स्थितिप्रसिद्धये गमनस्य हेतुत्वेनोपात्तस्य स्थाता न गच्छति तावदित्यादिना श्लोकद्वयपाठपरिवर्तेन दूषणं वक्तव्यमिति नास्ति गमनम्, तदभावात्प्रतिद्वन्द्विनी स्थितिरपीति। एवं तावद् गमनं गत्या तुल्यं प्रत्याख्येयम्॥

अथ स्यात् - विद्यत एव स्थानं तदारम्भसद्भावात्। इह गत्युपमर्देन स्थानमारभ्यते, कथं तन्न स्यात् ? उच्यते। संप्रवृत्तिश्च गतेः समा वाच्या। तत्र यथा पूर्वं गते नारभ्यते गन्तुमित्यादिना गमनारम्भो निषिद्धः, एवमिहापि -

स्थिते नारभ्यते स्थातुं स्थातुं नारभ्यतेऽस्थिते।
नारभ्यते स्थीयमाने स्थातुमारभ्यते कुह॥

इत्यादिना श्लोकत्रयपरिवर्तेन स्थानसंप्रवृत्तिरपि गतेः समा। स्थाननिवृत्तिरपि गतिनिवृत्त्या समा प्रत्याख्येया। यथा गतिनिषेधे -

न तिष्ठति गम्यमानान्न गतान्नागतादपि।
इति गतेर्दूषणमुक्तम्, एवं स्थितिनिषेधेऽपि
न गच्छति स्थीयमानान्न स्थितान्नास्थितादपि।

इति गत्या तुल्यं दूषणमिति नास्ति स्थितिः। तदभावात्कुतो गतिप्रतिपक्षस्थितिसद्भाववादिनां गतेः सिद्धिरिति॥१७॥

अपि च। यदि गमनं स्यात्, गन्तृव्यतिरेकेण वा स्यादव्यतिरेकेण वा? सर्वथा च विचार्यमाणं न संभवतीत्याह -

यदेव गमनं गन्ता स एवेति न युज्यते।
अन्य एव पुनर्गन्ता गतेरिति न युज्यते॥१८॥

कथं पुनर्न युज्यत इत्याह -
यदेव गमनं गन्ता स एव हि भवेद्यदि।
एकीभावः प्रसज्येत कर्तुः कर्मण एव च॥१९॥

येयं गमिक्रिया, सा यदि गन्तुरव्यतिरिक्ता नान्या स्यात्, तदा कर्तुः क्रियायाश्चैकत्वं स्यात्। ततश्च इयं क्रिया, अयं कर्ता, इति विशेषो न स्यात्। न च छिदिक्रियायाः छेत्तुश्च एकत्वम्। अतो यदेव गमनं स एव गन्तेति न युज्यते॥१९॥

अन्यत्वमपि गन्तृगमनयोर्यथा नास्ति तथा प्रतिपादयन्नाह -

अन्य एव पुनर्गन्ता गतेर्यदि विकल्प्यते।
गमनं स्यादृते गन्तुर्गन्ता स्याद्गमनादृते॥२०॥

यदि हि गन्तृगमनयोरन्यत्वं स्यात्, तदा गमननिरपेक्षो गन्ता स्यात्, गन्तृनिरपेक्षं च गमनं गृह्येत पृथक् सिद्धं घटादिव पटः। न च गन्तुः पृथक्सिद्धं गमनं गृह्यत इति। अन्य एव पुनर्गन्ता गतेरिति न युज्यते इति प्रसाधितमेतत्॥२०॥

तदेवम् -

एकीभावेन वा सिद्धिर्नानाभावेन वा ययोः।
न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते॥२१॥

ययोर्गन्तृगमनयोर्यथोदितन्यायेन एकीभावेन वा नानाभावेन वा नास्ति सिद्धिः, तयोरिदानीं केनान्येन प्रकारेण सिद्धिरस्तु? अत आह - तयोः सिद्धिः कथं नु खलु विद्यत इति। नास्ति गन्तृगमनयोः सिद्धिरित्यभिप्रायः॥२१॥

अत्राह - इह देवदत्तो गन्ता गच्छतीति लोकप्रसिद्धम्। तत्र यथा वक्ता वाचं भाषते, कर्ता क्रियां करोति, इति प्रसिद्धम्, एवं यया गत्या गन्तेत्यभिव्यज्यते तां गच्छतीति न यथोक्तदोषः। तदप्यसत्। यस्मात् -

गत्या ययोच्यते गन्ता गतिं तां स न गच्छति।

यया गत्या देवदत्तो गन्तेत्यभिव्यजते, स गन्ता सन् तां तावन्न गच्छति, न प्राप्नोति यदि वा न करोतीत्यर्थः।

यस्मान्न गतिपूर्वोऽस्ति
गतेः पूर्वो गतिपूर्वः। यदि गन्ता गतेः पूर्वं सिद्धः स्यात्, स तां गच्छेत्। कथम् यस्मात् -

कश्चित्किंचिद्धि गच्छति॥२२॥

कश्चिद्देवदत्तः किंचिदर्थान्तरभूतं ग्रामं नगरं वा गच्छतीति दृष्टम्। न चैवं यया गत्या गन्तेत्युच्यते, तस्याः पूर्वं सिद्धरूपो गतिनिरपेक्षो गन्ता नाम अस्ति यस्तां गच्छेत्॥२२॥

अथ मन्यसे - यया गत्या गन्तेत्यभिव्यज्यते, तामेव असौ न गच्छति, किं तहि ततोऽन्यामिति। एतदप्यसत्। यस्मात् -

गत्या ययोच्यते गन्ता ततोऽन्यां स न गच्छति।
गती द्वे नोपपद्येते यस्मादेके प्रगच्छति॥२३॥

यया गत्या गन्ता अभिव्यज्यते, ततोऽन्यामपि स गन्ता सन् न गच्छति, गतिद्वय प्रसङ्गात्। यया गत्या गन्ता अभिव्यज्यते, गन्ता सन् यां चापरां गच्छतीत्येतद् गति द्वयं प्रसक्तम्। न च एकस्मिन् गन्तरि गतिद्वयम्। इत्युक्तमेतत्। एतेन वक्ता वाचं भाषते कर्ता क्रियां करोति, इति प्रत्युक्तम्॥२३॥

तदेवम् -
सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति।
नासद्भूतोऽपि गमनं त्रिप्रकारं स गच्छति॥२४॥
गमनं सदसद्भूतस्त्रिप्रकारं न गच्छति।

तत्र गम्यत इति गमनमिहोच्यते। तत्र सद्भूतो गन्ता यो गमिक्रियायुक्तः। असद्भूतो गन्ता यो गमिक्रियारहितः। सदसद्भूतो य उभयपक्षीयरूपः। एवं गमनमपि त्रिप्रकारं गमिक्रियासंबन्धेन वेदितव्यम्। तत्र सद्भूतो गन्ता सद्भूतमसद्भूतं सदसद्भूतं त्रिप्रकारं गमनं न गच्छति। एतच्च कर्मकारकपरीक्षायामाख्यास्यते। एवमसद्भूतोऽपि गन्ता त्रिप्रकारं गमनं न गच्छति। सदसद्भूतोऽपीति तत्रैव प्रतिपादयिष्यति। यतश्चैवं गन्तृगन्तव्यगमनानि विचार्यमाणानि न सन्ति,

तस्माद्गतिश्च गन्ता च गन्तव्यं च न विद्यते॥२५॥

यथोक्तमार्याक्षयमतिनिर्देशसूत्रे -

अगतिरिति भदन्त शारद्वतीपुत्र संकर्षणपदमेतत्। गतिरिति भदन्त शारद्वतीपुत्र निष्कर्षणपदमेतत्। यत्र न संकर्षणपदं न निष्कर्षणपदं तदार्याणां पदम्। अपदयोगेन अनागतिरगतिश्चार्याणां गतिरिति॥

यदि बीजमेवाङ्कुरे संक्रमति, बीजमेव तत्स्यान्न यदङ्कुरः शाश्वतदोषप्रसङ्गश्च। अथाङ्कुरोऽन्यत आगच्छति, अहेतुकदोषप्रसङ्गः स्यात्। न चाहेतुकस्योत्पत्तिः खरविषाणस्येव॥

अत एवाह भगवान् -
बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो।
न च अन्यु ततो न चैव तदेवमनुच्छेद अशाश्वत धर्मता॥इति॥
मुद्रात्प्रतिमुद्र दृश्यते मुद्रसंक्रान्ति न चोपलभ्यते।
न च तत्र न चैव सान्यतो एवं संस्कारनुच्छेदशाश्वताः॥इति च॥

तथा -

आदर्शपृष्ठे तथ तैलपात्रे निरीक्षते नारिमुखं अलंकृतम्।
सो तत्र रागं जनयित्व बालो प्रधावितो कामि गवेषमाणो॥
मुखस्य संक्रान्ति यदा न विद्यते बिम्बे मुखं नैव कदाचि लभ्यते।
मूढो यथा सो जनयेत रागं तथोपमान् जानथ सर्वधर्मान्॥

तथा [ आर्यसमाधिराजसूत्रेऽपि ] -

तहि कालि सो दशबलो अनघो
जिनु भाषते इमु समाधिवरम्।
सुपिनोपमा भगवती सकला
न हि कश्चि जायति न चो म्रियते॥
न च सत्त्वु लभ्यति न जीवु नरो
इमि धर्म फेनकदलीसदृशाः।
मायोपमा गगनविद्युसमा
दकचन्द्रसंनिभ मरीचिसमाः॥
न च अस्मि लोकि मृतु कश्चि नरो
परलोक संक्रमति गच्छति वा।
न च कर्म नश्यति कदाचि कृतं
फलु देति कृष्ण शुभ संसरतो॥
न च शाश्वतं न च उच्छेद पुनो
न च कर्मसंचयु न चापि स्थितिः।
न च सोऽपि कृत्व पुनरास्पृशति
न च अन्यु कृत्व पुन वेदयते॥
न च संक्रमो न च पुनागमनं
न च सर्वमस्ति न च नास्ति पुनः।
न च दृष्ट स्थानगतिशुद्धिरिहो
न च सत्वचार सुपशान्तगति॥
सुपिनोपमं हि त्रिभवं वशिकं
लघु भग्नमनित्येन मायसमम्।
न च आगतं न च इहोपगतं
शून्यानिमित्त सद संततियो॥
अनुत्पाद शान्त अनिमित्तपदं
सुगतान गोचर जिनान गुणा।
बल धारणी दशबलान बलं
बुद्धान इयं वृषभिता परमा॥
वरशुक्लधर्मगुणसंनिचयो
गुणज्ञानधारणिबलं परमम्।
ऋद्धीविकुर्वणविधिः परमो
वरपञ्चभिज्ञप्रतिलाभनयः॥

इति विस्तरः॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
गतागतपरीक्षा नाम द्वितीयं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project