Digital Sanskrit Buddhist Canon

प्रथमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Prathamaṁ prakaraṇam
नागार्जुनीयं
मध्यमकशास्त्रम्।

आचार्यचन्द्रकीर्तिविरचितया प्रसन्नपदाख्यव्याख्यया
संवलितम्।


प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम्।
आर्यमञ्जुश्रिये कुमारभूताय नमः।
योऽन्तद्वयावासविधूतवासः संबुद्धधीसागरलब्धजन्मा।
सद्धर्मतोयस्य गभीरभावं यथानुबुद्धं कृपया जगाद॥१॥

यस्य दर्शनतेजांसि परवादिमतेन्धनम्।
दहन्त्यद्यापि लोकस्य मानसानि तमांसि च॥२॥

यस्यासमज्ञानवचःशरौघा निघ्नन्ति निःशेषभवारिसेनाम्।
त्रिधातुराज्यश्रियमादधाना विनेयलोकस्य सदेवकस्य॥३॥

नागार्जुनाय प्रणिपत्य तस्मै तत्कारिकाणां विवृतिं करिष्ये।
उत्तानसत्प्रक्रियवाक्यनद्धां तर्कानिलाव्याकुलितां प्रसन्नाम्॥४॥

तत्र 'न स्वतो नापि परतो न द्वाभ्याम्' इत्यादि वक्ष्यमाणं शास्त्रम्। तस्य कानि संबन्धाभिधानप्रयोजनानि इति प्रश्ने, मध्यमकावतारविहितविधिना अद्वयज्ञानालंकृतं महाकरुणोपायपुरःसरं प्रथमचित्तोत्पादं तथागतज्ञानोत्पत्तिहेतुमादिं कृत्वा यावदाचार्यनागार्जुनस्य विदिताविपरीतप्रज्ञापारमितानीतेः करुणया परावबोधार्थं शास्त्रप्रणयनम्, इत्येष तावच्छास्त्रस्य संबन्धः-

यच्छास्ति वः क्लेशरिपूनशेषान्संत्रायते दुर्गतितो भवाच्च।
तच्छासनात्त्राणगुणाच्च शास्त्रमेतद्वयं चान्यमतेषु नास्ति॥

इति। स्वयमेव चाचार्यो वक्ष्यमाणसकलशास्त्राभिधेयार्थ सप्रयोजनमुपदर्शयन्, तदविपरीत संप्रकाशत्वेन माहात्म्यमुद्भाव्य तत्स्वभावाव्यतिरेकवर्तिने परमगुरवे तथागताय शास्त्रप्रणयन निमित्तकं प्रणामं कर्तुकाम आह-

अनिरोधमनुत्पादमनुच्छेदमशाश्वतम्।
अनेकार्थमनानार्थमनागममनिर्गमम्॥

यः प्रतीत्यसमुत्पादम्

इत्यादि। तदत्रानिरोधाद्यष्टविशेषणविशिष्टः प्रतीत्यसमुत्पादः शास्त्राभिधेयार्थः। सर्वप्रपञ्चोपशमशिवलक्षणं निर्वाणं शास्त्रस्य प्रयोजनं निर्दिष्टम्।

तं वन्दे वदतां वरम्।
इत्यनेन प्रणामः। इत्येष तावच्छोकद्वयस्य समुदायार्थः॥

अवयवार्थस्तु विभज्यते। तत्र निरुद्धिर्निरोधः। क्षणभङ्गो निरोध इत्युच्यते। उत्पादनमुत्पादः। आत्मभावोन्मज्जनमित्यर्थः। उच्छित्तिरुच्छेदः। प्रबन्धविच्छित्तिरित्यर्थः। शाश्वतो नित्यः। सर्वकाले स्थाणुरित्यर्थः। एकश्चासावर्थश्चेत्येकार्थोऽभिन्नार्थः। न पृथगित्यर्थः। नानार्थो भिन्नार्थः। पृथगित्यर्थः। आगतिरागमः, विप्रकृष्टदेशावस्थितानां संनिकृष्टदेशागमनम्। निर्गतिर्निर्गमः, संनिकृष्टदेशावस्थितानां विप्रकृष्टदेशगमनम्। एतिर्गत्यर्थः, प्रतिः प्राप्त्यर्थः। उपसर्गवशेन धात्वर्थविपरिणामात्-

उपसर्गेण धात्वर्थो बलादन्यत्र नीयते।
गङ्गासलिलमाधुर्यं सागरेण यथाम्भसा॥

प्रतीत्यशब्दोऽत्र ल्यबन्तः प्राप्तावपेक्षायां वर्तते। समुत्पूर्वः पदिः प्रादुर्भावार्थ इति समुत्पादशब्दः प्रादुर्भावे वर्तते। ततश्च हेतुप्रत्ययापेक्षो भावानामुत्पादः प्रतीत्यसमुत्पादार्थः॥

अपरे तु ब्रुवते-इतिर्गमनं विनाशः। इतौ साधव इत्याः। प्रतिर्वीप्सार्थः। इत्येवं तद्धितान्तमित्यशब्दं व्युत्पाद्य प्रति प्रति इत्यानां विनाशिनां समुत्पाद इति वर्णयन्ति। तेषां "प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्यामि" , " यः प्रतीत्यसमुत्पादं पश्यति स धर्म पश्यति " इत्येवमादौ विषये वीप्सार्थस्य संभवात् समाससद्भावाच्च स्याज्ज्यायसी व्युत्पत्तिः। इह तु " चक्षुः प्रतीत्य रूपाणि च उत्पद्यते चक्षुर्विज्ञानम् " इत्येवमादौ विषये साक्षादङ्गीकृतार्थ विशेषे चक्षुः प्रतीत्येति प्रतीत्यशब्द एकचक्षुरिन्द्रियहेतुकायामप्येकविज्ञानोत्पत्तावभीष्टायां कुतो वीप्सार्थता ? प्राप्त्यर्थस्त्वनङ्गीकृतार्थविशेषेऽपि प्रतीत्यशब्दे संभवति- प्राप्य संभवः, प्रतीत्य समुत्पाद इति। अङ्गीकृतार्थविशेषेऽपि संभवति- चक्षुः प्रतीत्य, चक्षुः प्राप्य, चक्षू रूपं चापेक्ष्येति व्याख्यानात्। तद्धितान्ते चेत्यशब्दे" चक्षुः प्रतीत्य रूपाणि च उत्पद्यते चक्षुर्विज्ञानम्" इत्यत्र प्रतीत्यशब्दस्याव्ययत्वाभावात् समासासद्भावाच्च विभक्तिश्रुतौ सत्यां चक्षुः प्रतीत्य विज्ञानं रूपाणि च इति निपातः स्यात्। न चैतदेवम्। इत्यव्ययस्यैव ल्यबन्तस्य व्युत्पत्तिरभ्युपेया।

यस्तु -" वीप्सार्थत्वात्प्रत्युपसर्गस्य, एतेः प्राप्त्यर्थत्वात्, समुत्पादशब्दस्य च संभवार्थ त्वात्, तांस्तान् प्रत्ययान् प्रतीत्य समुत्पादः प्राप्य संभव इत्येके। प्रति प्रति विनाशिनामुत्पादः प्रतीत्यसमुत्पाद इत्यन्ये"- इति परव्याख्यानमनूद्य दूषणमभिधत्ते, तस्य परपक्षानुवादाकौशलत्वमेव तावत्संभाव्यते। किं कारणम् ? यो हि प्राप्त्यर्थं प्रतीत्यशब्दं व्याचष्टे, नासौ प्रतिं वीप्सार्थं व्याचष्टे, नाप्येतिं प्राप्त्यर्थम्, किं तर्हि प्रतिं प्राप्त्यर्थम् , समुदितं च प्रतीत्यशब्दं प्राप्तावेव वर्णयति॥

तेन इदानीं प्राप्य संभवः प्रतीत्यसमुत्पाद इत्येवं व्युत्पादितेन प्रतीत्यसमुत्पादशब्देन यदि निरवशेषसंभविपदार्थपरामर्शो विवक्षितः, तदा तां तां हेतुप्रत्ययसामग्रीं प्राप्य संभव प्रतीत्य समुत्पाद इति वीप्सासंबन्धः क्रियते। अथ विशेषपरामर्शः, तदा चक्षुः प्राप्य रूपाणि चेति न वीप्सायाः संबन्ध इति॥ एवं तावदनुवादाकौशलमाचार्यस्य॥

एतद्वा अयुक्तम्। किं च। अयुक्तमेतत् "चक्षुः प्रतीत्य रूपाणि च उत्पद्यते चक्षुर्विज्ञानम्" इति, अत्रार्थद्वयासंभवात् इति यदुक्तं दूषणम्, तदपि नोपपद्यते। किं कारणम् ? कथमनेनैव तत्प्राप्तेः संभव इति युक्त्यनुपादानेन प्रतिज्ञामात्रत्वात्। अथायमभिप्रायः स्यात् अरूपित्वाद्विज्ञानस्य चक्षुषा प्राप्तिर्नास्ति, रूपिणामेव तत्प्राप्तिदर्शनादिति, एतदपि न युक्तम्, ' प्राप्तफलोऽयं भिक्षुः ' इत्यत्रापि प्राप्त्यभ्युपगमात्। प्राप्यशब्दस्य च अपेक्ष्यशब्दपर्यायत्वात्।
प्राप्त्यर्थस्यैव आचार्यार्यनागार्जुनेन प्रतीत्यशब्दस्य

तत्तत्प्राप्य यदुत्पन्नं नोत्पन्नं तत्स्वभावतः।

इत्यभ्युपगमात्। ततो दूषणमपि नोपपद्यते इत्यपरे॥

यच्चापि स्वमतं व्यवस्थापितम्-"किं तर्हि, अस्मिन् सति इदं भवति, अस्योत्पादादिदमुत्पद्यते, इति इदंप्रत्ययतार्थः प्रतीत्यसमुत्पादार्थ इति " , तदपि नोपपद्यते, प्रतीत्यसमुत्पाद शब्दयोः प्रत्येकमर्थविशेषानभिधानात्, तद्व्युत्पादस्य च विवक्षितत्वात्॥

अथापि रूढिशब्दं प्रतीत्यसमुत्पादशब्दमभ्युपेत्य अरण्येतिलकादिवदेवमुच्यते , तदपि नोपपन्नम्, अवयवार्थानुगतस्यैव प्रतीत्यसमुत्पादस्य आचार्येण

तत्तत्प्राप्य यदुत्पन्नं नोत्पन्नं तत्स्वभावतः।

इत्यभ्युपगमात्। अथ

अस्मिन्सतीदं भवति ह्रस्वे दीर्घ यथा सति।

इति व्याख्यायमानेन ननु तदेवाभ्युपगतं भवति, ह्रस्वं प्रतीत्य, ह्रस्वं प्राप्य , ह्रस्वमपेक्ष्य दीर्घं भवतीति। ततश्च यदेव दूष्यते तदेवाभ्युपगम्यते इति न युज्यते। इत्यलं प्रसङ्गेन॥

तदेवं हेतुप्रत्ययापेक्षं भावानामुत्पादं परिदीपयता भगवता अहेत्वेकहेतुविषमहेतुसंभूतत्वं स्वपरोभयकृतत्वं च भावानां निषिद्धं भवति, तन्निषेधाच्च सांवृतानां पदार्थानां यथावस्थितं सांवृतं स्वरूपमुद्भावितं भवति। स एवेदानीं सांवृतः प्रतीत्यसमुत्पादः स्वभावेनानुत्पन्नत्वाद् आर्यज्ञानापेक्षया नास्मिन्निरोधो विद्यते यावन्नास्मिन्निर्गमो विद्यते इत्यनिरोधादिभिरष्टाभिर्विशे षणैर्विशिष्यते। यथा च निरोधादयो न सन्ति प्रतीत्यसमुत्पादस्य तथा सकलशास्त्रेण प्रतिपादयिष्यति॥

अनन्तविशेषणसंभवेऽपि प्रतीत्यसमुत्पादस्य अष्टानामेवोपादानमेषां प्राधान्येन विवादाङ्गभूतत्वात्। यथावस्थितप्रतीत्यसमुत्पाददर्शने सति आर्याणामभिधेयादिलक्षणस्य प्रपञ्चस्य सर्वथोपरमात्, प्रपञ्चानामुपशमोऽस्मिन्निति स एव प्रतीत्यसमुत्पादः प्रपञ्चोपशम इत्युच्यते। चित्तचैत्तानां च तस्मिन्नप्रवृत्तौ ज्ञानज्ञेयव्यवहारनिवृत्तौ जातिजरामरणादिनिरवशेषोपद्रवरहितत्वात् शिवः। यथाभिहितविशेषणस्य प्रतीत्यसमुत्पादस्य देशनाक्रियया ईप्सिततमत्वात् कर्मणा निर्देशः॥

अनिरोधमनुत्पादमनुच्छेदमशाश्वतम्।
अनेकार्थमनानार्थमनागममनिर्गमम्॥१॥
यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम्।
देशयामास संबुद्धस्तं वन्दे वदतां वरम्॥२॥

यथोपवर्णितप्रतीत्यसमुत्पादावगमाच्च तथागतस्यैवैकस्याविपरीतार्थवादित्वं पश्यन् सर्वपर प्रवादांश्च बालप्रलापानिवावेत्य अतीव प्रसादानुगत आचार्यो भूयो भगवन्तं विशेषयति-वदतां वरमिति॥

अत्र च निरोधस्य पूर्वं प्रतिवेधः उत्पादनिरोधयोः पौर्वापर्यावस्थायाः सिद्धयभावं द्योतयितुम्। वक्ष्यति हि -

पूर्वं जातिर्यदि भवेज्जरामरणमुत्तरम्।
निर्जरामरणा जातिर्भवेज्जायेत चामृतः॥

इति। तस्मान्नायं नियमो यत् पूर्वमुत्पादेन भवितव्यं पश्चान्निरोधेनेति॥

इदानीमनिरोधादिविशिष्टप्रतीत्यसमुत्पादप्रतिपिपादयिषया उत्पादप्रतिषेधेन निरोधादि प्रतिषेधसौकर्य मन्यमान आचार्यः प्रथममेवोत्पादप्रतिवेधमारभते। उत्पादो हि परैः परिकल्प्य मानः स्वतो वा परिकल्प्येत, परतः, उभयतः, अहेतुतो वा परिकल्प्येत। सर्वथा च नोपपद्यत इति निश्चित्याह-

न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः।
उत्पन्ना जातु विद्यन्ते भावाः क्कचन केचन॥३॥

तत्र जात्विति कदाचिदित्यर्थः। क्कचनशब्द आधारवचनः क्कचिच्छब्दपर्यायः केचनशब्द आधेयवचनः केचिच्छब्दपर्यायः। ततश्चैवं संबन्धः - नैव स्वत उत्पन्ना जातु विद्यन्ते भावाः, क्कचन, केचन। एवं प्रतिज्ञात्रयमपि योज्यम्॥

ननु च- नैव स्वत उत्पन्ना इत्यवधार्यमाणे परत उत्पन्ना इत्यनिष्टं प्राप्नोति। न प्राप्नोति प्रसज्यप्रतिषेधस्य विवक्षितत्वात् , परतोऽप्युत्पादस्य प्रतिषेत्स्यमानत्वात्। यया चोपपत्त्या स्वत उत्पादो न संभवति, सा-

तस्माद्धि तस्य भवने न गुणोऽस्ति कश्चि-
ज्जातस्य जन्म पुनरेव च नैव युक्तम्।

इत्यादिना मध्यमकावतारादिद्वारेणावसेया॥

आचार्यबुद्धपालितस्त्वाह- न स्वत उत्पद्यन्ते भावाः, तदुत्पादवैयर्थ्यात्, अतिप्रसङ्गदोषाच्च। न हि स्वात्मना विद्यमानानां पदार्थानां पुनरुत्पादे प्रयोजनमस्ति। अथ सन्नपि जायेत, न कदाचिन्न जायेत इति॥

अत्रैके दूषणमाहुः- तदयुक्तम्, हेतुदृष्टान्तानभिधानात्परोक्तदोषापरिहाराच्च। प्रसङ्ग वाक्यत्वाच्च प्रकृतार्थविपर्ययेण विपरीतार्थसाध्यतद्धर्मव्यक्तौ परस्मादुत्पन्नाभावाजन्मसाफल्यात् जन्मनिरो(बो ?) धाच्चेति कृतान्तविरोधः स्यात्॥

सर्वमेतद्दूषणमयुज्यमानं वयं पश्यामः। कथं कृत्वा? तत्र यत्तावदुक्तं हेतुदृष्टान्तानभिधानादिति, तदयुक्तम्। किं कारणम्? यस्मात्परः स्वत उत्पत्तिमभ्युपगच्छन्, पृच्छयते-स्वत इति हेतुत्वेन तदेव चोत्पद्यते इति? न च विद्यमानस्य पुनरुत्पत्तौ प्रयोजनं पश्यामः, अनवस्थां च पश्यामः। न च त्वया उत्पन्नस्य पुनरुत्पाद इष्यतेऽनवस्था चाप्यनिष्टेति। तस्मान्निरुपपत्तिक एव त्वद्वादः स्वाभ्युपगमविरोधश्चेति। किमिति चोदिते परोनाभ्युपैति यतो हेतुदृष्टान्तोपादानसाफल्यं स्यात्? अथ स्वाभ्युपगमविरोधचोदनयापि परो न निवर्तते, तदा निर्लज्जतया हेतुदृष्टान्ताभ्यामपि नैव निवर्तेत। न चोन्मत्तकेन सहास्माकं विवाद इति। तस्मात्सर्वथा प्रियानुमानतामेवात्मनः आचार्यः प्रकटयति अस्थानेऽप्यनुमानं प्रवेशयन्। न च माध्यमिकस्य सतः स्वतन्त्रमनुमानं कर्तुं युक्तं पक्षान्तराभ्युपगमाभावात्। तथोक्तमार्यदेवेन-

सदसत्सदसच्चेति यस्य पक्षो न विद्यते।
उपालम्भश्चिरेणापि तस्य वक्तुं न शक्यते॥

विग्रहव्यावर्तन्यां चोक्तम्-

यदि काचन प्रतिज्ञा स्यान्मे तत एव मे भवेद्दोषः।
नास्ति च मम प्रतिज्ञा तस्मान्नैवास्ति मे दोषः॥
यदि किंचिदुपलमेयं प्रवर्तयेयं निवर्तयेयं वा।
प्रत्यक्षादिभिरर्थैस्तदभावान्मेऽनुपालम्भः॥

इति। यदा चैवं स्वतन्त्रानुमानानभिधायित्वं माध्यमिकस्य, तदा कुतः " नाध्यात्मिकान्यायत नानि स्वत उत्पन्नानि" इति स्वतन्त्रा प्रतिज्ञा यस्यां सांख्याः प्रत्यवस्थाप्यन्ते। कोऽर्य प्रतिज्ञार्थः किं कार्यात्मकत्वात्स्वत उत कारणात्मकत्वादिति। किं चातः? कार्यात्मकाच्चेत् सिद्ध साधनम्, कारणात्मकाच्चेत् विरुद्धार्थता, कारणात्मना विद्यमानस्यैव सर्वस्योत्पत्तिमत उत्पादादिति। कुतोऽस्माकं विद्यमानत्वादिति हेतुर्यस्य सिद्धसाधनं विरुद्धार्थता वा स्यात्, यस्य सिद्धसाधनस्य यस्याश्च विरुद्धार्थतायाः परिहारार्थं यत्नं करिष्यामः। तस्मात्परोक्तदोषाप्रसङ्गादेव तत्परिहारः आचार्यबुद्धपालितेन न वर्णनीयः॥

अथापि स्यात्- माध्यमिकानां पक्षहेतुदृष्टान्तानामसिद्धेः स्वतन्त्रानुमानानभिधायि त्वात् स्वत उत्पत्तिप्रतिषेधप्रतिज्ञातार्थसाधनं मा भूदुभयसिद्धेन वानुमानेन परप्रतिज्ञानिराकरणम्। परप्रतिज्ञायास्तु स्वत एवानुमानविरोधचोदनया स्वत एव पक्षहेतुदृष्टान्तदोषरहितैः पक्षादिभिर्भवितव्यम्। ततश्च तदनभिधानात् तद्दोषापरिहाराच्च स एव दोष इति। उच्यते। नैतदेवम्। किं कारणम्? यस्माद् यो हि यमर्थं प्रतिजानीते, तेन स्वनिश्चयवदन्येषां निश्चयोत्पादनेच्छया यया उपपत्त्या असावर्थोऽधिगतः सैवोपपत्तिः परस्मै उपदेष्टव्या। तस्मादेष तावन्न्यायः -यत्परेणैव स्वाभ्युपगतप्रतिज्ञातार्थसाधनमुपादेयम्। न चायं (चानेन?) परं प्रति। हेतुदृष्टान्तासंभवात् प्रतिज्ञानुसारतयैव केवलं स्वप्रतिज्ञातार्थसाधनमुपादत्त इति निरुपपत्तिकपक्षाभ्युपगमात् स्वात्मान मेवायं केवलं विसंवादयन् न शक्नोति परेषां निश्चयमाधातुमिति। इदमेवास्य स्पष्टतरं दूषणं यदुत स्वप्रतिज्ञातार्थसाधनासामर्थ्यमिति किमत्रानुमानबाधोद्भावनया प्रयोजनम् ? अथाप्यवश्यं स्वतोऽनुमानविरोधदोष उद्भावनीयः, सोऽप्युद्भावित एवाचार्यबुद्धपालितेन। कथमिति चेत्, न स्वत उत्पद्यन्ते भावाः, तदुत्पादवैयर्थ्यादिति वचनात्, अत्र हि तदित्यनेन स्वात्मना विद्यमानस्य परामर्शः। कस्मादिति चेत्, तथा हि तस्य संग्रहेणोक्तवाक्यस्यैतद्विवरणवाक्यम्, न हि स्वात्मना विद्यमानानां पुनरुत्पादे प्रयोजनमिति। अनेन च वाक्येन साध्यसाधनधर्मानुगतस्य परप्रसिद्धस्य साधर्म्यदृष्टान्तस्योपादानम्। तत्र स्वात्मना विद्यमानस्येत्यनेन हेतुपरामर्शः। उत्पाद वयर्थ्यादित्यनेन साध्यधर्मपरामर्शः॥ तत्र यथा-अनित्यः शब्दः कृतकत्वात्। कृतकत्वमनित्यं दृष्टं यथा घटः। तथा च कृतकः शब्दः। तस्मात्कृतकत्वादनित्य इति कृतकत्वमत्र उपनयाभिव्यक्तो हेतुः। एवमिहापि-न स्वत उत्पद्यन्ते भावाः, स्वात्मना विद्यमानानां पुनरुत्पाद वैयर्थ्यात्। इह हि स्वात्मना विद्यमानं पुरोऽवस्थितं घटादिकं पुनरुत्पादानपेक्षं दृष्टम्, तथा च मृत्पिण्डाद्यवस्थायामपि यदि स्वात्मना विद्यमानं घटादिकमिति मन्यसे, तदापि तस्य स्वात्मना विद्यमानस्य नास्त्युत्पाद इति। एवं स्वात्मना विद्यमानत्वेन उपनयाभिव्यक्तेन पुनरुत्पादप्रतिषेधाव्यभिचारिणा हेतुना स्वत एव सांख्यस्यानुमानविरोधोद्भावनमनुष्ठितमेवेति। तत्किमुच्यते तदयुक्तं हेतुदृष्टान्तानभिधानादिति?

न च केवलं हेतुदृष्टान्तानभिधानं न संभवति, परोक्तदोषापरिहारदोषो न संभवति। कथं कृत्वा? सांख्या हि नैव अभिव्यक्तरूपस्य पुरोऽवस्थितस्य घटस्य पुनरभिव्यक्तिमिच्छन्ति। तस्यैव च इह दृष्टान्तत्वेनोपादानम्, सिद्धरूपत्वात्। अनभिव्यक्तरूपस्य च शक्तिरूपापन्नस्य उत्पत्तिप्रतिषेधविशिष्टसाध्यत्वात् कुतः सिद्धसाधनपक्षदोषाशङ्का, कुतो वा हेतोर्विरुद्धार्थताशङ्केति। तस्मात्स्वतोऽनुमानविरोधचोदनायामपि यथोपवर्णितदोषाभावात्परोक्तदोषापरिहारासंभव एव। इत्यसंबद्धमेवैतद्दूषणमिति विज्ञेयम्॥

घटादिकमित्यादिशब्देन निरवशेषोत्पित्सुपदार्थसंग्रहस्य विवक्षितत्वादनैकान्तिकतापि पैटादिभिर्नैव संभवति॥

अथवा। अयमन्यः प्रयोगमार्गः-पुरुषव्यतिरिक्ताः पदार्थाः स्वत उत्पत्तिवादिनः। तत एव न स्वत उत्पद्यन्ते। स्वात्मना विद्यमानत्वात्। पुरुषवत्। इतीदमुदाहरणमुदाहार्यम्॥

यद्यपि च अभिव्यक्तिवादिन उत्पादप्रतिषेधो न बाधकः, तथापि अभिव्यक्तावुत्पादशब्दं निपात्य पूर्वं पश्चाच्च अनुपलब्ध्युपलब्धिसाधर्म्येण उत्पादशब्देनाभिव्यक्तेरेवाभिधानादयं प्रतिषेधो न अबाधकः॥

कथं पुनरयं यथोक्तार्थाभिधानं विना व्यस्तविचारो लभ्यत इति चेत्, तदुच्यते। अथ वाक्यानि कृतानि, तानि महार्थत्वाद्यथोदितमर्थं संगृह्य प्रवृत्तानि। तानि च व्याख्यायमानानि यथोक्तमर्थात्मानं प्रसूयन्त इति नात्र किंचिदनुपात्तं संभाव्यते॥

प्रसङ्गविपरीतेन चार्थेन परस्यैव संबन्धो नास्माकम्। स्वप्रतिज्ञाया अभावात्। ततश्च सिद्धान्तविरोधासंभवः। परस्य च यावद्बहवो दोषाः प्रसङ्गविपरीतापत्त्या आपद्यन्ते, तावदस्माभिरभीष्यत एवेति। कुतो नु खलु अविपरीताचार्यनागार्जुनमतानुसारिणः आचार्यबुद्धपालितस्य सावकाशवचनाभिधायित्वम्, यतोऽस्य परोऽवकाशं लभेत? निःस्वभावभाववादिना सस्वभावभाववादिनः प्रसङ्गे आप(पा ?)द्यमाने कुतः प्रसङ्गविपरीतार्थप्रसङ्गिता ? न हि शब्दाः दाण्डपाशिका इव वक्तारमस्वतन्त्रयन्ति, किं तर्हि सत्यां शक्तौ वक्तुर्विवक्षामनुविधीयन्ते। ततश्च परप्रतिज्ञाप्रतिषेधमात्रफलत्वात्प्रसङ्गापादनस्य नास्ति प्रसङ्गविपरीतार्थापत्तिः। तथा च आचार्यो भूयसा प्रसङ्गापत्तिमुखेनैव परपक्षं निराकरोति स्म। तद्यथा-

नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात्।
अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात्॥

रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते।
आहेतुकं न चास्त्यर्थः कश्चिदाहेतुकः क्कचित्॥

भावस्तावन्न निर्वाणं जरामरणलक्षणम्।
प्रसज्येतास्ति भावो हि न जरामरणं विना॥

इत्यादिना। अथ अर्थवाक्यत्वादाचार्यवाक्यानां महार्थत्वे सति अनेकप्रयोनिष्पत्तिहेतुत्वं परिकल्प्यते, आचार्यबुद्धपालितव्याख्यानान्यपि किमिति न तथैव परिकल्प्यन्ते?

अथ स्यात्- वृत्तिकाराणामेष न्यायः, यत्प्रयोगवाक्यविस्तराभिधानं कर्तव्यमिति, एतदपि नास्ति, विग्रहव्यावर्तन्या वृत्तिं कुर्वताप्याचार्येण प्रयोगवाक्यानभिधानात्॥

अपि च। आत्मनस्तर्कशास्त्रातिकौशलमात्रमाविश्चिकीर्षया अङ्गीकृतमध्यमकदर्शनस्यापि यत्स्वतन्त्रप्रयोगवाक्याभिधानं तदतितरामनेकदोषसमुदायास्पदमस्य तार्किकस्योपलक्ष्यते। कथं कृत्वा ? तत्र यत्तावदेवमुक्तम् - अत्र प्रयोगवाक्यं भवति - न परमार्थतः आध्यात्मिकान्यायतनानि स्वत उत्पन्नानि, विद्यमानत्वात्, चैतन्यवदिति। किमर्थ पुनरत्र परमार्थत इति विशेषणमुपादीयते? लोकसंवृत्याभ्युपगतस्य उत्पादस्य अप्रतिषिध्यमानत्वात्, प्रतिषेधे च अभ्युपेतबाधाप्रसङ्गादिति चेत्, नैतद्युक्तम्। संवृत्यापि स्वत उत्पत्त्यनभ्युपगमात्। यथोक्तं सूत्रे -

" स चायं बीजहेतुकोऽङ्कुर उत्पद्यमानो न स्वयंकृतो न परकृतो नोभयकृतो नाप्य हेतुसमुत्पन्नो निश्वरकालाणुप्रकृतिस्वभावसंभूतः" इति।

तथा -
बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो।
न च अन्यु ततो न चैव तदेवमनुच्छेद‍अशाश्वतधर्मता॥

इहापि वक्ष्यति -
प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत्।
न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम्॥

इति॥

परमतापेक्षं विशेषणमिति चेत्, तदयुक्तम्। संवृत्यापि तदीयव्यवस्थानभ्युपगमात्। सत्यद्वयाविपरीतदर्शनपरिभ्रष्टा एव हि तीर्थिका यावदुभयथापि निषिध्यन्ते तावद् गुण एव संभाव्यत इति। एवं परमतापेक्षमपि विशेषणाभिधानं न युज्यते॥

न चापि लोकः स्वत‍उत्पत्तिं प्रतिपन्नः, यतस्तदपेक्षयापि विशेषणसाफल्यं स्यात्। लोको हि स्वतः परत इत्येवमादिकं विचारमनवतार्य कारणात्कार्यमुत्पद्यते इत्येतावन्मात्रं प्रतिपन्नः। एवमाचार्योऽपि व्यवस्थापयामास। इति सर्वथा विशेषणवैफल्यमेव निश्चीयते॥

अपि च। यदि संवृत्या उत्पत्तिप्रतिषेधनिराचिकीर्षुणा विशेषणमेतदुपादीयते, तदा स्वतोऽसिद्धाधारे पक्षदोषः, आश्रयासिद्धौ वा हेतुदोषः स्यात्। परमार्थतः स्वतश्चक्षुराद्यायतनानामनभ्युपगमात्। संवृत्या चक्षुरादिसद्भावाददोष इति चेत्, परमार्थत इत्येतत्तर्हि कस्य विशेषणम्? सांवृतानां चक्षुरादीनां परमार्थत उत्पत्तिप्रतिषेधाद् उत्पत्तिप्रतिषेधविशेषणे परमार्थग्रहणमिति चेत्, एवं तर्हि एवमेव वक्तव्यं स्यात्-सांवृतानां चक्षुरादीनां परमार्थतो नास्त्युत्पत्तिरिति। न चैवमुच्यते। उच्यमानेऽपि परैर्वस्तुसतामेव चक्षुरादीनामभ्युपगमात्, प्रज्ञप्तिसतामनभ्युपगमात् परतोऽसिद्धाधारः पक्षदोषः स्यादिति न युक्तमेतत्॥

अथ स्यात् - यथा अनित्यः शब्द इति धर्मधर्मिसामान्यमेव गृह्यते न विशेषः, विशेषग्रहणे हि सति अनुमानानुमेयव्यवहाराभावः स्यात्। तथा हि - यदि चातुर्महाभौतिकः शब्दो गृह्यते, स परस्यासिद्धः। अथाकाशगुणो गृह्यते, स बौद्धस्य स्वतोऽसिद्धः। तथा वैशेषिकस्य शब्दानित्यतां प्रतिजानानस्य यदि कार्यः शब्दो गृह्यते, स परतोऽसिद्धः। अथ व्यङ्गयः, स स्वतोऽसिद्धः। एवं यथासंभवं विनाशोऽपि यदि सहेतुकः, स बौद्धस्य स्वतोऽसिद्धः। अथ निर्हेतुकः, स परस्यासिद्ध इति। तस्माद् यथात्र धर्मधर्मिसामान्यमात्रमेव गृह्यते, एवमिहापि धर्मिमात्रमुत्सृष्टविशेषणं ग्रहीष्यत इति चेत्, नैतदेवम्। यस्माद् यदैवोत्पादप्रतिषेधोऽत्र साध्यधर्मोऽभिप्रेतः, तदैव धर्मिणस्तदाधारस्य विपर्यासमात्रासादितात्मभावस्य प्रच्युतिः स्वयमेवानेनाङ्गीकृता। भिन्नौ हि विपर्यासाविपर्यासौ। तद्यदा विपर्यासेन असत्सत्त्वेन गृह्यते, तैमिरिकेणेव केशादि, तदा कुतः सद्भूतपदार्थलेशस्याप्युपलब्धिः? यदा च अविपर्यासादभूतं नाध्यारोपितं वितैमिरिकेणेव केशादि, तदा कुतोऽसद्भूतपदार्थलेशस्याप्युपलब्धिः, येन तदानीं संवृतिः स्यात् ? अत एवोक्तमाचार्यपादैः -

यदि किंचिदुपलमेयं प्रवर्तयेयं निवर्तयेयं वा।
प्रत्यक्षादिभिरर्थैस्तदभावान्मेऽनुपालम्भः॥इति॥

यतश्चैवं भिन्नौ विपर्यासाविपर्यासौ, अतो विदुषामविपरीतावस्थायां विपरीतस्यासंभवात्कुतः सांवृतं चक्षुः यस्य धर्मित्वं स्यात् ? इति न व्यावर्ततेऽसिद्धाधारे पक्षदोषः, आश्रयासिद्धो वा हेतुदोषः। इत्यपरिहार एवायम्॥

निदर्शनस्यापि नास्ति साम्यम्। तत्र हि शब्दसामान्यमनित्यतासामान्यं च अविवक्षित- विशेषं द्वयोरपि संविद्यते। न त्वेवं चक्षुः सामान्यं शून्यताशून्यतावादिभ्यां संवृत्या अङ्गीकृतं नापि परमार्थतः। इति नास्ति निदर्शनस्य साम्यम्॥

यश्चायमसिद्धाधारपक्षदोषोद्भावने विधिः, एष एव सत्त्वादित्यस्य हेतोरसिद्धार्थतोद्भावनेऽपि योज्यः॥

इत्थं चैतदेवम्, यत्स्वयमष्यनेनायं यथोक्तोऽर्थोऽभ्युपगतस्तार्किकेण। सन्त्येवाध्यात्मिका यतनोत्पादका हेत्वादयः , तथा तथागतेन निर्देशात्। यद्धि यथा तथागतेनास्ति निर्दिष्टं तत्तथा, तद्यथा शान्तं निर्वाणमिति॥

अस्य परोपक्षिप्तस्य साधनस्येदं दूषणमभिहितमनेन - को हि भवतामभिप्रेतोऽत्र हेत्वर्थः? संवृत्या तथा तथागतेन निर्देशात्, उत परमार्थत इति ? संवृत्या चेत्, स्वतो हेतोरसिद्धार्थता। परमार्थतश्चेत्,

न सन्नासन्न सदसद्धर्मो निर्वर्तते यदा।
सदसदुभयात्मककार्यप्रत्ययत्वनिराकरणात्, तदा -
कथं निर्वर्तको हेतुरेवं सति हि युज्यते॥

नैवासौ निर्वर्तको हेतुरिति वाक्यार्थः। ततश्च परमार्थतो निर्वर्त्यनिर्वर्तकत्वासिद्धेः असिद्धार्थता विरुद्धार्थता वा हेतोरिति॥

यतश्चैवं स्वयमेवामुना न्यायेन हेतोरसिद्धिरङ्गीकृतानेन, तस्मात्सर्वेष्वेवानुमानेषु वस्तु धर्मोपन्यस्तहेतुकेषु स्वत एवं हेत्वादीनामसिद्धत्वात् सर्वाण्येव साधनानि व्याहन्यन्ते। तद्यथा - न परमार्थतः परेभ्यस्तत्प्रत्ययेभ्यः आध्यात्मिकायतनजन्म, परत्वात्, तद्यथा पटस्य। अथवा - न परे परमार्थेन विवक्षिताः चक्षुराद्याध्यात्मिकायतननिर्वर्तकाः प्रत्यया इति प्रतीयन्ते, परत्वात्, तद्यथा तन्त्वादय इति। परत्वादिकमत्र स्वत एवासिद्धम्॥

यथा चानेन - उत्पन्ना एव आध्यात्मिका भावाः, तद्विषयिविशिष्टव्यवहारकरणात् -इत्यस्य पराभिहितस्य हेतोरसिद्धार्थतामुद्भावयिषुणा इदमुक्तम्, अथ समाहितस्य योगिनः प्रज्ञाचक्षुषा भावयाथात्म्यं पश्यतः उत्पादगत्यादयः सन्ति परमार्थत इति साध्यते, तदा तद्विषयिविशिष्टव्यवहार करणादिति हेतोरसिद्धार्थता, गतेरप्युत्पादनिषेधादेव निषेधादिति। एवं स्वकृतसाधनेऽपि परमार्थतोऽगतं नैव गम्यते, अध्वत्वात्, गताध्ववदिति अध्वत्वहेतोः स्वत एवासिद्धार्थता योज्या॥

न परमार्थतः सभागं चक्षू रूपं पश्यति, चक्षुरिन्द्रियत्वात्, तद्यथा तत्सभागम्। तथा - न चक्षुः प्रेक्षते रूपम्, भौतिकत्वात्, रूपवत्। खरस्वभावा न मही, भूतत्वात्, तद्यथानिर्लः, इत्यादिषु हेत्वाद्यसिद्धिः स्वत एव योज्या॥

सत्त्वादिति चायं हेतुः परतोऽनैकान्तिकः। किं सत्त्वात् चैतन्यवन्नाध्यात्मिकान्यायतनानि स्वत उत्पद्यन्ताम्, उताहो घटादिवत् स्वत उत्पद्यन्तामिति घटादीनां साध्यसमत्वान्नानैकान्तिकतेति चेत्, नैतदेवम्, तथानभिधानात्॥

ननु च यथा परकीयेष्वनुमानेषु दूषणमुक्तम्, एवं स्वानुमानेष्वपि यथोक्तदूषणप्रसङ्गे सति स एव असिद्धाधारासिद्धहेत्वादिदोषः प्राप्नोति, ततश्च यः उभयोर्दोषः, न तेनैकश्चोद्यो भवतीति सर्वमेतद्दूषणमयुक्तं जायत इति। उच्यते। स्वतन्त्रमनुमानं ब्रुवतामयं दोषो जायते। न वयं स्वतन्त्रमनुमानं प्रयुञ्ज्ममहे परप्रतिज्ञानिषेधफलत्वादस्मदनुमानानाम्। तथा हि - परः चक्षुः पश्यतीति प्रतिपन्नः। स तत्प्रसिद्धेनैवानुमानेन निराक्रियते - चक्षुषः स्वात्मादर्शनधर्ममिच्छसि, परदर्शनधर्माविनाभावित्वं चाङ्गीकृतम्, तस्माद् यत्र यत्र स्वात्मादर्शनं तत्र तत्र परदर्शनमपि नास्ति, तद्यथा घटे, अस्ति च चक्षुषः स्वात्मादर्शनम्, तस्मात् परदर्शनमप्यस्य नैवास्ति। ततश्च स्वात्मादर्शनविरुद्धं नीलादिपरदर्शनं स्वप्रसिद्धेनैवानुमानेन विरुध्यत इति एतावन्मात्रमस्मदनूमानैरुद्भाव्यत इति कुतोऽस्मत्पक्षे यथोक्तदोषावतारः, यतः समानदोषता स्यात्?

किं पुनः - अन्यतरप्रसिद्धेनाप्यनुमानेनास्त्यनुमानबाधा। अस्ति , सा च स्वप्रसिद्धेनैव हेतुना, न परप्रसिद्धेन, लोकत एवं दृष्टत्वात्। कदाचिद्धि लोके अर्थिप्रत्यर्थिभ्यां प्रमाणीकृतस्य साक्षिणो वचनेन जयो भवति पराजयो वा, कदाचित् स्ववचनेन। परवचनेन तु न जयो नापि पराजयः। यथा च लोके, तथा न्यायेऽपि। लौकिकस्यैव व्यवहारस्य न्यायशास्त्रे प्रस्तुतत्वात्। अत एव कैश्चिदुक्तम् - न परतः प्रसिद्धिबलादनुमानबाधा, परप्रसिद्धेरेव निराचिकीर्षितत्वादिति। यस्तु मन्यते - य एव उभयनिश्चितवादी, स प्रमाणं दूषणं वा, नान्यतरप्रसिद्धसंदिग्धवाची इति, तेनापि लौकिकीं व्यवस्थामनुरुध्यमानेन अनुमाने यथोक्त एव न्यायोऽभ्युपेयः॥

तथा हि नोभयप्रसिद्धेन वा आगमेन बाधा, किं तर्हि स्वप्रसिद्धेनापि॥

स्वार्थानुमाने तु सर्वत्र स्वप्रसिद्धिरेव गरीयसी, नोभयप्रसिद्धिः। अत एव तर्कलक्षणाभिधानं निष्प्रयोजनम्, यथास्वप्रसिद्धया उपपत्त्या बुद्धैस्तदनभिज्ञविनेयजनानुग्रहात्। इत्यलं प्रसङ्गेन। प्रकृतमेव व्याख्यास्यामः॥

परतोऽपि नोत्पद्यन्ते भावाः। पराभावादेव एतच्च -
न हि स्वभावो भावानां प्रत्ययादिषु विद्यते।

इत्यत्र प्रतिपादयिष्यति। ततश्च पराभावादेव नापि परत उत्पद्यन्ते। अपि च -
अन्यत्प्रतीत्य यदि नाम परोऽभविष्य -
ज्जायेत तर्हि बहुलः शिखिनोऽन्धकारः।
सर्वस्य जन्म च भवेत्खलु सर्वतश्च
तुल्यं परत्वमखिलेऽजनकेऽपि यस्मात्॥

इत्यादिना [मध्यमकावतारात्] परत उत्पत्तिप्रतिषेधोऽवसेयः॥

आचार्यबुद्धपालितस्तु व्याचष्टे- न परत उत्पद्यन्ते भावाः, सर्वतः सर्वसंभवप्रसङ्गात् आचार्यभावविवेको दूषणमाह -तदत्र प्रसङ्गवाक्यत्वात् साध्यसाधनविपर्ययं कृत्वा, स्वतः उभयतः अहेतुतो वा उत्पद्यन्ते भावाः, कुतश्चित्कस्यचिदुत्पत्तेः, इति प्राक्पक्षविरोधः। अन्यथा सर्वतः सर्वसंभवप्रसङ्गात् इत्यस्य साधनदूषणानन्तःपातित्वादसंगतार्थमेतत् [इति]। एतदप्यसंगतार्थम्। पूर्वमेव प्रतिपादितत्वाद् दूषणान्तःपातित्वाच्च परप्रतिज्ञातार्थदूषणेनेति यत्किंचिदेतदिति न पुनर्यत्न आस्थीयते॥

द्वाभ्यामपि नोपजायन्ते भावाः, उभयपक्षाभिहितदोषप्रसङ्गात् प्रत्येकमुत्पादासामर्थ्याच्च। वक्ष्यति हि -

स्यादुभाभ्यां कृतं दुःखं स्यादेकैककृतं यदि। इति॥

अहेतुतोऽपि नोत्पद्यन्ते -
हेतावसति कार्यं च कारणं च न विद्यते।

इति वक्ष्यमाणदोषप्रसङ्गात्,
गृह्येत नैव च जगद्यदि हेतुशून्यं
स्याद्यद्वदेव गगनोत्पलवर्णगन्धौ॥

इत्यादिदोषप्रसङ्गाच्च॥

आचार्यबुद्धपालितस्त्वाह - अहेतुतो नोत्पद्यन्ते भावाः, सदा च सर्वतश्च सर्वसंभवप्रसङ्गात्। अत्राचार्यभावविवेको दूषणमाह - अत्रापि प्रसङ्गवाक्यत्वात् यदि विपरीतसाध्यसाधन व्यक्तिवाक्यार्थ इष्यते, तदा एतदुक्तं भवति - हेतुत उत्पद्यन्ते भावाः, कदाचित् कुतश्चित् कस्यचिदुत्पत्तेः, आरम्भसाफल्याच्च। सेयं व्याख्या न युक्ता प्रागुक्तदोषादिति। तदेतदयुक्तम्, पूर्वोदितपरिहारादित्यपरे॥

यच्चापि ईश्वरादीनामुपसंग्रहार्थम्, तदापि न युक्तम्। ईश्वरादीनां स्वपरोभयपक्षेषु यथाभ्युपगममन्तर्भावादिति॥

तस्मात् प्रसाधितमेतन्नास्त्युत्पाद इति। उत्पादासंभवाच्च सिद्धोऽनुत्पादादिविशिष्ट प्रतीत्यसमुत्पाद इति॥

अत्राह - यद्येवमनुत्पादादिविशिष्टः प्रतीत्यसमुत्पादो व्यवस्थितो भवद्भिः, यत्तर्हि भगवतोक्तम् - अविद्याप्रत्ययाः संस्कारा अविद्यानिरोधात्संस्कारनिरोध इति, तथा-
अनित्याश्च ते ( बत ?) संस्कारा उत्पादव्ययधर्मिणः।
उत्पद्य हि निरुध्यन्ते तेषां व्युपशमः सुखः॥

तथा - उत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थितैवैषा धर्माणां धर्मता, एको धर्मः सत्त्वस्थितये यदुत चत्वार आहाराः, द्वौ धर्मौ लोकं पालयतो ह्रीश्चापत्राप्यं चेत्यादि, तथा - परलोकादिहागमनमिहलोकाच्च परलोकगमनमिति , एवं निरोधादिविशिष्टः प्रतीत्यसमुत्पादो देशितो भगवता, स कथं न नि ( वि ?) रुध्यत इति ? यत एवं निरोधादयः प्रतीत्यसमुत्पादस्योपलभ्यन्ते, अत एवेदं मध्यमकशास्त्रं प्रणीतमाचार्येण नेयनीतार्थसूत्रान्तविभागोपदर्शनार्थम्। तत्र य एते प्रतीत्यसमुत्पादस्योत्पादादय उक्ताः, न ते विगताविद्यातिमिरानास्रवविषयस्वभावापेक्षया, किं तर्हि अविद्यातिमिरोपहतमतिनयनज्ञानविषयापेक्षया॥

तत्त्वदर्शनापेक्षया तूक्तं भगवता - एतद्धि भिक्षवः परमं सत्यं यदुत अमोषधर्म निर्वाणम्, सर्वसंस्काराश्च मृषा मोषधर्माणः इति। तथा - नास्त्यत्र तथता वा अवितथता वा। मोषधर्मक मप्येतत्, प्रलोपधर्मकमप्येतत्, मृषाप्येतत्, मायेयं बाललापिनी इति। तथा -

फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा।
मरीचिसदृशी संज्ञा संस्काराः कदलीनिभाः।
मायोपमं च विज्ञानमुक्तमादित्यबन्धुना॥ इति॥
एवं धर्मान् वीक्षमाणो भिक्षुरारब्धवीर्यवान्।
दिवा वा यदि वा रात्रौ संप्रजानन् प्रतिस्मृतः।
प्रतिविध्येत्पदं शान्तं संस्कारोपशमं शिवम्॥इति॥

निरात्मकत्वाच्च धर्माणामित्यादि॥

यस्यैवं देशनाभिप्रायानभिज्ञतया संदेहः स्यात् - का ह्यत्र देशना तत्त्वार्था, का नु खलु आभिप्रायिकीति, यश्चापि मन्दबुद्धितया नेयार्थां देशनां नीतार्थामवगच्छति, तयोरुभयोरपि विनेयजनयोः आचार्यो युक्त्यागमाभ्यां संशयमिथ्याज्ञानापाकरणार्थं शास्त्रमिदमारब्धवान्॥

तत्र 'न स्वतः' इत्यादिना युक्तिरुपवर्णिता॥

तन्मृषा मोषधर्म यद्भगवानित्यभाषत।
सर्वे च मोषधर्माणः संस्कारास्तेन ते मृषा॥

पूर्वा प्रज्ञायते कोटिर्नेत्युवाच महामुनिः।
संसारोऽनवराग्रो हि नास्त्यादिर्नापि पश्चिमम्॥
कात्यायनाववादे च अस्ति नास्तीति चोभयम्।
प्रतिषिद्धं भगवता भावाभावविभाविना॥

इत्यादिना आगमो वर्णितः॥

उक्तं च आर्याक्षयमतिसूत्रे -

कतमे सूत्रान्ता नेयार्थाः कतमे नीतार्थाः ? ये सूत्रान्ता मार्गवताराय निर्दिष्टाः, इम उच्यन्तेः नेयार्थाः। ये सूत्रान्ताः फलावताराय निर्दिष्टाः, इम उच्यन्ते नेयार्थाः। यावद् ये सूत्रान्ताः शून्य-तानिमित्ताप्रणिहितानभिसंस्काराजातानुत्पादाभावनिरात्मनिः सत्त्वनिर्जीवनिः पुद्गलास्वामिकविमोक्षमुखा निर्दिष्टाः त उच्यन्ते नीतार्थाः। इयमुच्यते भदन्त शारद्वतीपुत्र नीतार्थसूत्रान्तप्रतिशरणता, न नेयार्थसूत्रान्तप्रतिशरणता इति॥

तथा च आर्यसमाधिराजसूत्रे-
नीतार्थसूत्रान्तविशेष जानति
यथोपदिष्टा सुगतेन शून्यता।
यस्मिन् पुनः पुद्गलसत्त्वपूरुषा
नेयार्थतो जानति सर्वधर्मान्॥

तस्मादुत्पादादिदेशनां मृषार्थां प्रतिपादयितुं प्रतीत्यसमुत्पादानुदर्शनमारब्धवानाचार्यः॥

ननु च - उत्पादादीनामभावे सति यदि सर्वधर्माणां मृषात्वप्रतिपादनार्थमिदमारब्धवानाचार्यः नन्वेवं सति यन्मृषा न तदस्तीति न सन्त्यकुशलानि कर्माणि, तदभावान्न सन्ति दुर्गतयः, न सन्ति कुशलानि कर्माणि, तदभावान्न सन्ति सुगतयः, सुगतिदुर्गत्यसंभवाच्च नास्ति संसारः, इति सर्वा रम्भवैयर्थ्यमेव स्थात्। उच्यते। संवृतिसत्यव्यपेक्षया लोकस्य इदंसत्याभिनिवेशस्य प्रतिपक्षभावेन मृषार्थता भावानां प्रतिपाद्यतेऽस्माभिः। नैव त्वार्याः कृतकार्याः किंचिदुपलभन्ते यन्मृषा अमृषा वा स्यादिति। अपि च। येन हि सर्वधर्माणां मृषात्वं परिज्ञातं किं तस्य कर्माणि सन्ति, संसारो वा अस्ति? न चाप्यसौ कस्यचिद्धर्मस्स्य अस्तित्वं नास्तित्वं वोपलभते। यथोक्तं भगवता आर्यरत्नकूटसूत्रे-

चित्तं हि काश्यप परिगवेष्यमाणं न लभ्यते। यन्न लभ्यते तन्नोपलभ्यते। यन्नोपलभ्यते तन्नैव अतीतं न अनागतं न प्रत्युत्पन्नम्। यन्नैवातीतं नानागतं न प्रत्युत्पन्नम्, तस्य नास्ति स्वभावः। यस्य नास्ति स्वभावः, तस्य नास्त्युत्पादः। यस्य नास्त्युत्पादः, तस्य नास्ति निरोधः॥ इति विस्तरः॥

यस्तु विपर्यासानुगमान्मृषात्वं नावगच्छति, प्रतीत्य भावाना स्वभावमभिनिविशते, स धर्मे ध्विदंसत्याभिनिवेशादभिनिविष्टः सन् कर्माण्यपि करोति, संसारेऽपि संसरति, विपर्यासावस्थितत्वान्न भव्यो निर्वाणमधिगन्तुम्॥

किं पुनः - मृषास्वभावा अपि पदार्थाः संक्लेशव्यवदाननिबन्धनं भवन्ति। तद्यथा मायायुवतिस्तत्स्वभावानभिज्ञानाम्, तथागतनिर्मितश्च उपचितकुशलमूलानाम्। उक्तं हि दृढाध्याशयपरिपृच्छासूत्रे -

तद्यथा कुलपुत्र मायाकारनाटके प्रत्युपस्थिते मायाकारनिर्मितां स्त्रियं दृष्ट्वा कश्चिद्रागपरीतचित्ताः पर्षच्छारद्यभयेन उत्थायासनादपक्रामेत्, सोऽपक्रम्य तामेव स्त्रियमशुभतो मनसिकुर्यात्, अनित्यतो दुःखतः शून्यतोऽनात्मतो मनसिकुर्यात्। इति विस्तरः॥

विनये च -
यन्त्रकारकारिता यन्त्रयुवतिः सद्भूतयुवतिशून्या सद्भूतयुवतिरूपेण प्रतिभासते, तस्य च चित्रकारस्य कामरागास्पदीभूता। तथा मृषास्वभावा अपि भावा बालानां संक्लेशव्यवदाननिबन्धनं भवन्ति॥

तथा आर्यरत्नकूटसूत्रे -

अथ खलु तानि पञ्चमात्राणि भिक्षुशतानि भगवतो धर्मदेशनामनवतरन्त्यनवगाहमानान्यनधिमुच्यमानानि उत्थायासनेभ्यः प्रक्रान्तानि। अथ भगवान् [तस्यां वेलायां] येन मार्गेणैते भिक्षवो गच्छन्ति स्म, तस्मिन् मार्गे द्वौ भिक्षू निर्मिमीते स्म॥

अथ तानि पञ्च भिक्षुशतानि येन [मार्गेण] तौ द्वौ भिक्षू [निर्मितकौ] तेनोपसंक्रामन्ति स्म। उपसंक्रम्य ताववोचन् - कुत्रायुष्मन्तौ गमिष्यथः? निर्मितकाववोचताम् - गमिष्याव आवामरण्यायतनेषु, तत्र ध्यानसुखस्पर्शविहारैर्विहरिष्यावः। यं हि भगवान् धर्मं देशयति, तमावां नावतरावो नावगाहावहे नाधिमुच्यामहे उत्त्रस्यावः संत्रासमापद्यावहे। अथ तानि पञ्च भिक्षुशतान्येतदवोचन् - वयमप्यायुष्मन्तो भगवतो धर्मदेशनां नावतरामो नावगाहामहे नाधिमुच्यामहे उत्त्रस्यामः संत्रस्यामः संत्रासमापद्यामहे। तेन वयमरण्यायतनेषु ध्यानसुखस्पर्शविहारैर्विहरिष्यामः। निर्मितकाववोचताम् - तेन हि आयुष्मन्तः संगास्यामो न विवदिष्यामः। अविवादपरमा हि श्रमणस्य धर्माः। कस्यायुष्मन्तः प्रहाणाय प्रतिपन्नाः? तान्यवोचन् - रागद्वेषमोहानां प्रहाणाय वयं प्रतिपन्नाः। निर्मितकाववोचताम् - किं पुनरायुष्मतां संविद्यन्ते रागद्वेषमोहा यान् क्षपयिष्यथ ? तान्यवोचन् - न तेऽध्यात्मं न बहिर्धा नोभयमन्तरेणोपलभ्यन्ते, नापि तेऽपरिकल्पिता उत्पद्यन्ते। निर्मितकाववोचताम् - तेन हि आयुष्मन्तो मा कल्पयत, [ मा विकल्पयत ] । यदा चायुष्मन्तो न कल्पयिष्यथ न विकल्पयिष्यथ, तदा न रंक्ष्यथ न विरंक्ष्यथ। यश्च न रक्तो न विरक्तः, स शान्त इत्युच्यते। शीलमायुष्मन्तो न संसरति न परिनिर्वाति। समाधिः प्रज्ञा विमुक्तिर्विमुक्तिज्ञानदर्शन मायुष्मन्तो न संसरति न परिनिर्वाति। एभिश्चायुष्मन्तो धर्मैर्निर्वाणं सूच्यते। एते च धर्माः शून्याः प्रकृतिविविक्ताः। प्रजहीतैतामायुष्मन्तः संज्ञां यदुत परिनिर्वाणमिति। मा च संज्ञायां संज्ञा कार्ष्ट, मा च संज्ञायां संज्ञां परिज्ञासिष्ट। यो हि संज्ञायां संज्ञां परिजानाति, संज्ञा बन्धनमेवास्य तद्भवति। संज्ञावेदयितनिरोधसमापत्तिमायुष्मन्तः समापद्यध्वम्। संज्ञावेदयितनिरोधसमापत्तिसमापन्नस्य भिक्षोर्नास्त्युत्तरीकरणीयमिति वदावः॥

अथ तेषां पञ्चानां भिक्षुशतानामनुपादायाश्रवेभ्यश्चित्तानि विमुक्तान्यभूवन्। तानि विमुक्तचित्तानि येन भगवांस्तेनोपसंक्रान्तानि। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्यैकान्ते न्यसीदन्।

अथायुष्मान् सुभूतिस्तान्। भिक्षूनेतदवोचत् - कुत्रायुष्मन्तो गताः कुतो वागताः तेऽवोचन् - न क्कचिद्गमनाय न कुतश्चिदागमनाय भदन्त सुभूते भगवता धर्मो देशितः आह - को नामायुष्मतां शास्ता ? आहुः - यो नोत्पन्नो न परिनिर्वास्यति। आह - कथं युष्माभि र्धर्मः श्रुतः ? आहुः - न बन्धनाय न मोक्षाय। आह - केन यूयं विनीताः ? आहुः - यस्य न कायो न चित्तम्। आह - कथं यूयं प्रयुक्ताः? आहुः - नाविद्याप्रहाणाय न विद्योत्पादनाय। आह -कस्य यूयं श्रावकाः? आहुः - येन न प्राप्तं नाभिसंबुद्धम्। आह - के युष्माकं सब्रह्मचारिणः? आहुः - ये त्रैधातुके नोपविचरन्ति। आह - कियच्चिरेणायुष्मन्तः परिनिर्वास्यन्ति आहुः - यदा तथागतनिर्मिताः परिनिर्वास्यन्ति। आह -कृतं युष्माभिः करणीयम् ? आहुः - अहं कारममकारपरिज्ञानतः। आह - क्षीणा युष्माकं क्लेशाः? आहुः - अत्यन्तक्षयात्सर्वधर्माणाम्। आह - धर्षितो युष्माभिर्मारः ? आहुः - स्कन्धमारानुपलम्भात्। आह - धर्षितो युष्माभिर्मारः ? आहुः - स्कन्धमारानुपलम्भात्। आह - परिचरितो युष्माभिः शास्ता ? आहुः - न कायेन न वाचा न मनसा। आह - विशोधिता युष्माभिर्दक्षिणीयभूमिः? आहुः - अग्राहतोऽप्रतिग्राहतः । आह - उत्तीर्णो युष्माभिः संसारः? आहुः - अनुच्छेदतोऽशाश्वततः। आह - प्रतिपन्ना युष्माभि र्दक्षिणीयभूमिः? आहुः - सर्वग्राहविनिर्मुक्तितः। आह - किंगामिन आयुष्मन्तः ? आहुः - यंगामिनस्तथागतनिर्मिताः। इति ह्यायुष्मतः सुभूतेः परिपृच्छतस्तेषां भिक्षूणां प्रतिविसर्जयतां तस्यां पर्षदि अष्टानां भिक्षुशतानामनुपादायाश्रवेभ्यश्चित्तानि विमुक्तानि, द्वात्रिंशतश्च प्राणिसहस्राणां विरजो विगतमलं धर्मचक्षुर्विशुद्धम्। इति॥

इत्येवं मृषास्वभावाभ्यां तथागतनिर्मिताभ्यां भिक्षुभ्यां पञ्चानां भिक्षुशतानां व्यवदाननिबन्धनं कृतमिति॥

उक्तं च आर्यवज्रमण्डायां धारण्याम् -

तद्यथा मञ्जुश्रीः काण्डं च प्रतीत्य मथनीं च प्रतीत्य पुरुषस्य हस्तव्यायामं च प्रतीत्य धूमः प्रादुर्भवतीति अग्निरभिनिर्वर्तते। स चाग्निसंतापो न काण्डसंनिश्रितो न मथनीसंनिश्रितो न पुरुषहस्तव्यायामसंनिश्रितः। एवमेव मञ्जुश्रीः असद्विपर्यासमोहितस्य पुरुषपुद्गलस्य उत्पद्यते रागपरिदाहो द्वेषपरिदाहो मोहपरिदाहः। स च परिदाहो नाध्यात्मं न बहिर्धा नोभयमन्तरेण स्थितः॥

अपि तु मञ्जुश्रीः यदुच्यते मोह इति, तत्केन कारणेनोच्यते मोह इति? अत्यन्तमुक्तो हि मञ्जुश्रीः सर्वधर्मैर्मोहस्तेनोच्यते मोह इति। तथा नरकमुखा मञ्जुश्रीः सर्वधर्मा इदं धारणीपदम्। आह - कथं भगवन्निदं धारणीपदम् ? आह - नरका मञ्जुश्रीः बालपृग्थजनैरसद्विपर्यासविठपिताः स्वविकल्पसंभूताः। आह -कुत्र भगवन्नरकाः समवसरन्ति? भगवानाह - आकाशसमवसरणा मञ्जुश्रीः नरकाः। तत्किं मन्यसे मञ्जुश्रीः स्वविकल्पसंभूता नरका उत स्वभावसंभूताः ? आह - स्वविकल्पेनैव भगवन् सर्वबालपृथग्जनां नरकतिर्यग्योनियमलोकं संजानन्ति। ते च असत्समारोपेण दुःखां वेदनां वेदयन्ति दुःखमनुभवन्ति त्रिष्वप्यपायेषु॥

यथा चाहं भगवन् नरकान् पश्यामि तथा नारकं दुःखम्। तद्यथा भगवन् कश्चिदेव पुरुषः सुप्तः स्वप्नान्तरगतो नरकगतमात्मानं संजानीते। स तत्र क्कथितायां संप्रज्वलितायामनेकपौरुषायां लोहकुम्भ्यां प्रक्षिप्तमात्मानं संजानीयात्। स तत्र खरां कटुकां तीव्रां दुःखां वेदनां वेदयेत्। स तत्र मानसं परिदाहं संजानीयात् उत्त्रसेत् संत्रासमापद्येत। स तत्र प्रतिबुद्धः समानः - अहो दुःखम्, अहो दुःखम्, इति क्रन्देत् शोचेत् परिदेवेत्। अथ तस्य मित्रज्ञाति सालोहिताः परिपृच्छेयुः - केन तत्ते दुःखमिति। स तान् मित्रज्ञातिसालोहितानेवं वदेत् - नैरयिकं दुःखमनुभूतम्। स तानाक्रोशेत् परिभाषेत् - अहं च नाम नैरयिकं दुःखमनुभवामि। यूयं च मे उत्तरि परिपृच्छथ केनैतत्तव दुःखमिति। अथ ते मित्रज्ञातिसालोहितास्तं पुरुषमेवं वदेयुः - मा भैर्मोः पुरुष। सुप्तो हि त्वम्। न त्वमितो गृहात् क्कचिन्निर्गतः। तस्य पुनरपि स्मृति रुत्पद्यते - सुप्तोऽहमभूवम्। वितथमेतन्मया परिकल्पितमिति। स पुनरपि सौमनस्यं प्रतिलभते॥

तद्यथा भगवन् स पुरुषोऽसत्समारोपेण सुप्तः स्वप्नान्तरगतो नरकगतमात्मानं संजानीयात्, एवमेव भगवन् सर्वबालपृथग्जना असद्भागपर्यवनद्धाः स्त्रीनिमित्तं कल्पयन्ति। ते स्त्रीनिमित्तं कल्पयित्वा ताभिः सार्धं रममाणमात्मानं संजानन्ति। तस्य बालपृथजनस्यैवं भवति - अहं पुरुषः , इयं स्त्री, ममैषा स्त्री। तस्य तेन च्छन्दरागपर्यवस्थितेन चित्तेन भोगपर्येष्टिं चित्तं क्रामयन्ति। स ततोनिदानं कलहविग्रहविवादं संजनयति। तस्य प्रदुष्टेन्द्रियस्य वैरं संजायते। स तेन संज्ञाविपर्यासेन कालगतः समानो बहूनि कल्पसहस्राणि नरकेषु दुःखां वेदनां वेदयमानमात्मानं संजानाति॥

तद्यथा भगवन् तस्य पुरुषस्य मित्रज्ञातिसालोहिता एवं वदन्ति - मा भैः, मा भैः, भो पुरुष। सुप्तो हि त्वम्। न त्वमितो गृह्यत् कुतश्चिन्निर्गतः इति। एवमेव बुद्धा भगवन्तश्चतुर्विपर्यासविपर्यस्तानां सत्त्वानामेवं धर्मं देशयन्ति- नात्र स्त्री न पुरुषो न सत्त्वो न जीवो न पुरुषो न पुद्गलः। वितथा इमे सर्वधर्माः। असन्त इमे सर्वधर्माः। विठपिता इमे सर्वधर्माः। मायोपमा इमे सर्वधर्माः। स्वप्नोपमा इमे सर्वधर्माः। निर्मितोपमा इमे सर्वधर्माः। उदकचन्द्रोपमा इमे सर्वधर्माः। इति विस्तरः। ते इमां तथागतस्य धर्मदेशनां श्रुत्वा विगतरागान् सर्वधर्मान् पश्यन्ति। विगतमोहान् सर्वधर्मान् पश्यन्ति अस्वभावाननावरणान्। ते आकाशस्थितेन चेतसा कालं कुर्वन्ति। ते कालगताः समाना निरुपधिशेषे निर्वाणधातौ परिनिर्वान्ति। एवमहं भगवन् नरकान् पश्यामि। इति॥

उक्तं च आर्योपालिपरिपृच्छायाम्-
भय दर्शित नैरयिकं मे
सत्त्वसहस्र सवेजित नैके।
न च विद्यति कश्चिह सत्त्व
यो च्युतु गच्छति घोरमपायम्॥
न च कारकु कारण सन्ति
येहि कृता असितोमरशस्त्राः।
कल्पवशेन तु पश्यति तत्र
कायि पतन्ति अपायित शस्त्राः॥
चित्रमनोरम सज्जितपुष्पाः
स्वर्णविमान जलन्ति मनोज्ञाः।
तेष्वपि कारकु नास्तिह कश्चि
तेऽपि च स्थापित कल्पवशेन॥
कल्पवशेन विकल्पितु लोकः
संज्ञगहेण विकल्पितु बालः।
सो च गहो अगहो असभूतो
मायमरीचिसमा हि विकल्पाः॥

तदेवमेतेऽस्वभावा भावाः स्वविपर्यासविठपिता बालानां संक्लेशहेतवो भवन्ति संसारे इति स्थितम्॥

यथा च मृषास्वभावानां पदार्थानां संक्लेशव्यवदानहेतुत्वं तथा मध्यमकावताराद्विस्तरेणा वसेयम्॥

अत्राह - यदि स्वतः परतः उभयतोऽहेतुतश्च नास्ति भावानामुत्पादः , तत्र कथमविद्या प्रत्ययाः संस्कारा इत्युक्तं भगवता? उच्यते। संवृतिरेव न तत्त्वम्॥

किं संवृतेर्व्यवस्थानं वक्तव्यम् ? इदंप्रत्ययतामात्रेण संवृतेः सिद्धिरभ्युपगम्यते । न तु पक्षचतुष्टयाभ्युपगमेन सस्वभाववादप्रसङ्गात्, तस्य चायुक्तत्वात्। इदंप्रत्ययतामात्राभ्युपगमे हि सति हेतुफलयोरन्योन्यापेक्षत्वान्नास्ति स्वाभाविकी सिद्धिरिति नास्ति सस्वभाववादः । अत एवोक्तम् -

स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम्।
तार्किकैरिष्यते दुःखं त्वया तूक्तं प्रतीत्यजम्॥

इहापि वक्ष्यति -

प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम्।
कर्म प्रवर्तते नान्यत्पश्यामः सिद्धिकारणम्॥इति॥

भगवताप्येतावन्मात्रमेवोक्तम् -
तत्रायं धर्मसंकेतो यदुतास्मिन् सतीदं भवति , अस्योत्पादादिदमुत्पद्यते , यदुत अविद्या प्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानमित्यादि॥

अत्र केचित्परिचोदयन्ति - अनुत्पन्ना भावा इति किमयं प्रमाणजो निश्चय उताप्रमाणजः? तत्र यदि प्रमाणज इष्यते, तदेदं वक्तव्यम् - कति प्रमाणानि किंलक्षणानि किंविषयाणि, किं स्वत उत्पन्नानि किं परत उभयतोऽहेतुतो वेति। अथाप्रमाणजः, स न युक्तः, प्रमाणाधीनत्वात्प्रमेयाधिगमस्य। अनधिगतो ह्यर्थो न विना प्रमाणैरधिगन्तुं शक्यत इति प्रमाणाभावादर्थाधिगमाभावे सति कुतोऽयं सम्यग्निश्चय इति न युक्तमेतदनिष्पन्ना भावा इति। यतो वायं निश्चयो भवतोऽनुत्पन्ना भावा इति भविष्यति, तत एव ममापि सर्वभावाः सन्तीति। यथा चायं ते निश्चयः -अनुत्पन्नाः सर्वधर्मा इति , तथैव ममापि सर्वभावोत्पत्तिर्भविष्यति। अथ ते नास्ति निश्चयोऽनुत्पन्नाः सर्वभावा इति, तदा स्वयमनिश्चितस्य परप्रत्यायनासंभवाच्छास्त्रारम्भवैयर्थ्यमेवेति सन्त्यप्रतिषिद्धाः सर्वभावा इति॥

उच्यते। यदि कश्चिन्निश्चयो नामास्माकं स्यात्, स प्रमाणजो वा स्यादप्रमाणजो वा। न त्वस्ति। किं कारणम् ? इहानिश्चयसंभवे सति स्यात्तत्प्रतिपक्षस्तदपेक्षो निश्चयः। यदा त्वनिश्चय एव तावदस्माकं नास्ति, तदा कुतस्तद्विरुद्धाविरुद्धो निश्चयः स्यात् संबन्ध्यन्तरनिरपेक्षत्वात्, खरविषाणस्य ह्रस्वदीर्घतावत्। यदा चैवं निश्चयस्याभावः, तदा कस्य प्रसिद्धयर्थं प्रमाणानि परिकल्पयिष्यामः? कुतो वैषां संख्या लक्षणं विषयो वा भविष्यति - स्वतः परत उभयतोऽहेतुतो वा समुत्पत्तिरिति सर्वमेतन्न वक्तव्यमस्माभिः॥

यद्येवं निश्चयो नास्ति सर्वतः, कथं पुनरिदं निश्चितरूपं वाक्यमुपलभ्यते भवताम् - न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतो भावा भवन्तीति? उच्यते। निश्चितमिदं वाक्यं लोकस्य स्वप्रसिद्धयैवोपपत्त्या, नार्याणाम्। किं खलु आर्याणामुपपत्तिर्नास्ति? केनैतदुक्तमस्ति वा नास्ति वेति। परमार्थो ह्यार्याणां तूष्णींभावः। ततः कुतस्तत्र प्रपञ्चसंभवो यदुपपत्तिरनुपपत्तिर्वा स्यात् ?

यदि ह्यार्या उपपत्तिं न वर्णयन्ति, केन खल्विदानीं परमार्थं लोकं बोधयिष्यन्ति? न खल्वार्या लोकसंव्यवहारेणोपपत्तिं वर्णयन्ति, किं तु लोकत एव या प्रसिद्धोपपत्तिः, तां परावबोधार्थमभ्युपेत्य तयैव लोकं बोधयन्ति। यथैव हि विद्यमानामपि शरीराशुचितां विपर्यासानुगता रागिणो नोपलभन्ते, शुभाकारं चाभूतमध्यारोप्य परिक्लिश्यन्ते, तेषां वैराग्यार्थं तथागतनिर्मितो देवो वा शुभसंज्ञया प्राक् प्रच्छादितान् कायदोषानुपवर्णयेत् - सन्त्यस्मिन् काये केशा इत्यादिना। ते च तस्याः शुभसंज्ञाया विमुक्ता वैराग्यमासादयेयुः। एवमिहाप्यार्यैः सर्वथाप्यनुपलभ्यमानात्मकं भावानामविद्यातिमिरोपहतमतिनयनतया विपरीतं स्वभावमध्यारोप्य क्कचिच्च कंचिद्विशेषमतितरां परि क्लिश्यन्ति पृथग्जनाः। तानिदानीमार्याः तत्प्रसिद्धयैवोपपत्त्या परिबोधयन्ति। यथा विद्यमानस्य घटस्य न मृदादिभ्य उत्पाद इत्यभ्युपेतम्, एवमुत्पादात्पूर्वं विद्यमानस्य विद्यमानत्वान्नास्त्युत्पाद इत्यवसीयताम्। यथा च परभूतेभ्यो ज्वालाङ्गारादिभ्यो ऽङ्कुरस्योत्पत्तिर्नास्ति इति अभ्युपेतम्, एवं विवक्षितेभ्योऽपि बीजादिभ्यो नास्तीत्यवसीयताम्॥

अथापि स्यात्- अनुभव एषोऽस्माकमिति, एतदप्युक्तम्। यस्मादनुभव एष मृषा, अनुभवत्वात्, तैमिरिकद्विचन्द्राद्यनुभववदिति। ततश्चानुभवस्यापि साध्यसमत्वात्तेन प्रत्यवस्थानं न युक्तमिति। तस्मादनुत्पन्ना भावा इत्येवं तावद्विपरीतस्वरूपाध्यारोपप्रतिपक्षेण प्रथमप्रकरणा रम्भः। इदानीं क्कचिद्यः कश्चिद्विशेषोऽध्यारोपितः, तद्विशेषापाकरणार्थं शेषप्रकरणारम्भः, गन्तृगन्तव्यगमनादिकोऽपि निरवशेषो विशेषो नास्ति प्रतीत्यसमुत्पादस्येति प्रतिपादनार्थम्॥

अथ स्यात् - एष एव प्रमाणप्रेमेयव्यवहारो लौकिकोऽस्माभिः शास्त्रेणानुवर्णित इति, तदनुवर्णनस्य तर्हि फलं वाच्यम्। कुतार्किकैः स नाशितो विपरीतलक्षणाभिधानेन, तस्यास्माभिः सम्यग्लक्षणमुक्तमिति चेत्, एतदप्ययुक्तम्। यदि हि कुतार्किकैर्विपरीतलक्षणप्रणयनात्कृतं लक्ष्यवैपरीत्यं लोकस्य स्यात्, तदर्थं प्रयत्नसाफल्यं स्यात्। न चैतदेवम्। इति व्यर्थ एवार्य प्रयत्न इति॥

अपि च। यदि प्रमाणाधीनः प्रमेयाधिगमः, तानि प्रमाणानि केन परिच्छिद्यन्त इत्यादिना विग्रहव्यावर्तन्यां विहितो दोषः। तदपरिहारात् सम्यग्लक्षणद्योतकत्वमपि नास्ति॥

किं च। यदि स्वसामान्यलक्षणद्वयानुरोधेन प्रमाणद्वयमुक्तं यस्य तल्लक्षणद्वयम् , किं तल्लक्ष्यमस्ति अथ नास्ति? यद्यस्ति, तदा तदपरं प्रमेयमस्तीति कथं प्रमाणद्वयम्? अथ नास्ति लक्ष्यम्, तदा लक्षणमपि निराश्रयं नास्तीति कथं प्रमाणद्वयम्? वक्ष्यति हि -

लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यते।
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः॥ इति॥

अथ स्यात् - न लक्ष्यतेऽनेनेति लक्षणम् , किं तर्हि ' कृत्यल्युटो बहुलम्' इति कर्मणि ल्युटं कृत्वा लक्ष्यते तदिति लक्षणम्। एवमपि तेनैतस्य लक्ष्यमाणत्वासंभवाद्येनैतल्लक्ष्यते, तस्य करणस्य कर्मणोऽर्थान्तरत्वात् स एव दोषः॥

अथ स्यात्- ज्ञानस्य करणत्वात्तस्य च स्वलक्षणान्तर्भावादयमदोष इति , उच्यते। इह भावानामन्यासाधारणमात्मीयं यत्स्वरूपं तत्स्वलक्षणम् , तद्यथा पृथिव्याः काठिन्यं वेदनाया विषयानुभवो विज्ञानस्य विषयप्रतिविज्ञप्तिः। तेन हि तल्लक्ष्यत इति कृत्वा प्रसिद्धानुगतां च व्युत्पत्तिमवधूय कर्मसाधनमभ्युपगच्छति। विज्ञानस्य च करणभावं प्रतिपद्यमानेनेत्युक्तं भवति स्वलक्षणस्यैव कर्मता स्वलक्षणान्तरस्य करणभावश्चेति। तत्र यदि विज्ञानस्वलक्षणं करणम्, तस्य व्यतिरिक्तेन कर्मणा भवितव्यमिति स एव दोषः॥

अथ स्यात्- यत्पृथिव्यादिगतं काठिन्यादिकं विज्ञानगम्यं तत्तस्य कर्मास्त्येव, तच्च स्वलक्षणाव्यतिरिक्तमिति। एवं तर्हि विज्ञानस्वलक्षणस्य कर्मत्वाभावात्प्रमेयत्वं न स्यात्, कर्मरूपस्यैव स्वलक्षणस्य प्रमेयत्वात्। ततश्च द्विविधं प्रमेयं स्वलक्षणं सामान्यलक्षणं च इत्येतद्विशेष्य वक्तव्यम् - किंचित्स्वलक्षणं प्रमेयं यल्लक्ष्यत इत्येवं व्यपदिश्यते, किंचिदप्रमेयं यल्लक्ष्यतेऽनेनेति व्यपदिश्यत इति। अथ तदपि कर्मसाधनं तदा तस्यान्येन करणेन भवितव्यम्। ज्ञानान्तरस्य करणभावपरिकल्पनायामनवस्थादोषश्चापद्यते॥

अथ मन्यसे-स्वसंवित्तिरस्ति, ततस्तया स्वसंवित्या ग्रहणात्कर्मताया सत्यामस्त्येव प्रमेयान्तर्भाव इति, उच्यते। विस्तरेण मध्यमकावतारे स्वसंवित्तिनिषेधात् स्वलक्षणं स्वलक्षणान्तरेण लक्ष्यते, तदपि स्वसंवित्त्या इति न युज्यते। अपि च। तदपि नाम ज्ञानं स्वलक्षणव्यतिरेकेणासिद्धेरसंभवाल्लक्ष्याभावे निराश्रयलक्षणप्रवृत्त्यसंभवात् सर्वथा नास्तीति कुतः स्वसंवित्तिः? तथा चोक्तमार्यरत्नचूडपरिपृच्छायाम् -

स चित्तमसमनुपश्यन् चित्तधारां पर्येषते कुतश्चित्तस्योत्पत्तिरिति। तस्यैवं भवति - आलम्बने सति चित्तमुत्पद्यते। तत्किमन्यदालम्बनमन्यच्चित्तम्, अथ यदेवालम्बनं तदेव चित्तम्? यदि तावदन्यदालम्बनमन्यच्चित्तम्, तदा द्विचित्तता भविष्यति। अथ यदेवालम्बनं तदेव चित्तम्, तत्कथं चित्तेन चित्तं समनुपश्यति? न च चित्तं चित्तं समनुपश्यति। तद्यथापि नाम तयैवासिधारया सैवासिधारा न शक्यते छेत्तुम्, न तेनैवाङ्गुल्यग्रेण तदेवाङ्गुल्यग्रं शक्यते स्प्रष्टुम्, एवमेव न तेनैव चित्तेन तदेव चित्तं शक्यं द्रष्टुम्। तस्यैवं योनिशः प्रयुक्तस्य या चित्तस्यानवस्थानता अनुच्छेदाशाश्वतता न कूटस्थता नाहेतुकी न प्रत्ययविरुद्धा न ततो नान्यतो न सैव नान्या। तां चित्तधारां चित्तलतां चित्तधर्मतां चित्तानवस्थिततां चित्ताप्रचारतां चित्तादृश्यतां चित्तस्वलक्षणतां तथा जानाति तथा पश्यति यथा तथतां न च निरोधयति। तां च चित्तविवेकतां तथा प्रजानाति तथा पश्यति। इयं कुलपुत्र [बोधिसत्त्वस्य] चित्ते चित्तानुपश्यना स्मृत्युपस्थानमिति॥

तदेवं नास्ति स्वसंवित्तिः। तदभावात् किं केन लक्ष्यते?

किं च। भेदेन वा तल्लक्षणं लक्ष्यात्स्यादभेदेन वा? तत्र यदि तावद् भेदेन, तदा लक्ष्याद् भिन्नत्वादलक्षणवल्लक्षणमपि न लक्षणम्। लक्षणाच्च भिन्नत्वादलक्ष्यवल्लक्ष्यमपि न लक्ष्यम्। तथा लक्ष्याद्भिन्नत्वाल्लक्षणस्य लक्षणनिरपेक्षं लक्ष्यं स्यात्। ततश्च न तल्लक्ष्यं लक्षणनिरपेक्षत्वात् खपुष्पवत्। अथाभिन्ने लक्ष्यलक्षणे, तदा लक्षणादव्यतिरिक्तत्त्वाल्लक्षणस्वात्म बद्विहीयते लक्ष्यस्य लक्ष्यता। लक्ष्याच्चाव्यतिरिक्तत्वाल्लक्ष्यस्वात्मवल्लक्षणमपि न लक्षणस्वभावम्। यथा चोक्तम् -

लक्ष्याल्लक्षणमन्यच्चेत्स्यात्तल्लक्ष्यमलक्षणम्।
तयोरभावोऽनन्यत्वे विस्पष्टं कथितं त्वया॥ इति॥

न च विना तत्त्वान्यत्वेन लक्ष्यलक्षणसिद्धौ अन्या गतिरस्ति। तथा च वक्ष्यति-

एकीभावेन वा सिद्धिर्नानाभावेन वा ययोः।
न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते॥इति॥

अथवोच्यते-अवाच्यतया सिद्धिर्भविष्यतीति चेत्, नैतदेवम्। अवाच्यता हि नाम परस्परविभागपरिज्ञानाभावे सति भवति। यत्र च विभागपरिज्ञानं नास्ति, तत्र इदं लक्षणम्, इदं लक्ष्यम्, इति विशेषतः परिच्छेदासंभवे सति द्वयोरप्यभाव एवेति। तस्मादवाच्यतयापि नास्ति सिद्धिः॥

अपि च। यदि ज्ञानं करणं विषयस्य परिच्छेदे, कः कर्ता? न च कर्तारमन्तरेणास्ति करणादीनां संभवः छिदिक्रियायामिव। अथ चित्तस्य तत्र कर्तृत्वं परिकल्प्यते, तदपि न युक्तम्, यस्मादर्थमात्रदर्शनं चित्तस्य व्यापारः, अर्थविशेषदर्शनं चैतसानाम्,

तत्रार्थदृष्टिर्विज्ञानं तद्विशेषे तु चैतसाः।

इत्यभ्युपगमात्। एकस्यां हि प्रधानक्रियायां साध्यायां यथास्वं गुणक्रियानिर्वृत्तिद्वारेणाङ्गीभावोपगमात्। करणादीनां करणादित्वम्। न चेह ज्ञानविज्ञानयोरेका प्रधानक्रिया, किं तर्हि, अर्थमात्रपरिच्छित्तिर्विज्ञानस्य प्रधानक्रिया, ज्ञानस्य तु अर्थविशेषपरिच्छेद इति नास्ति ज्ञानस्य करणत्वं नापि चित्तस्य कर्तृत्वम्। ततश्च स एव दोषः॥

अथ स्यात्-अनात्मानः सर्वधर्मा इत्यागमात् कर्तुः सर्वथाभावात् कर्तारमन्तरेणापि विद्यत एव क्रियादिव्यवहार इति, एतदपि नास्ति। आगमस्य सम्यगर्थानवधारणात्। एतदेवोक्तं मध्यमकावतारे॥

अथापि स्यात्-यथा शिलापुत्रकस्य शरीरम्, राहोः शिरः, इति शरीर शिरोव्यतिरिक्तविशेषणासंभवेऽपि विशेषणविशेष्यभावोऽस्ति, एवं पृथिव्याः स्वलक्षणमिति स्वलक्षणव्यतिरिक्तपृथिव्यसंभवेऽपि भविष्यतीति, नैतदेवम्। अतुल्यत्वात्। शरीरशिरःशब्दयोहि बुद्धयादिपाण्यादिवत्सहभाविपदार्थान्तरसापेक्षताप्रवृत्तौ शरीरशिरः शब्दमात्रालम्बनो बुद्धयुपजननः सहचारिपदार्थान्तरसाकाङ्क्ष एव वर्तते, कस्य शरीरम्, कस्य शिर इति। इतरोऽपि विशेषणान्तरः संबन्धनिराचिकीर्षया। शिलापुत्रकराहुविशेषणध्वनिना लौकिकसंकेतानुविधायिना प्रतिकर्तुः काङ्क्षामपहन्तीति युक्तम्। इह तु काठिन्यादिव्यतिरिक्तपृथिव्याद्यसंभवे सति न युक्तो विशेषणविशेष्यभावः। तीर्थिकैर्व्यतिरिक्तलक्ष्याभ्युपगमात्तदनुरोधेन विशेषणाभिधानमदुष्टमिति चेत्, नैतदेवम्। न हि तीर्थिकपरिकल्पिता युक्तिविधुराः पदार्थाः स्वसमयेऽभ्युपगन्तुं न्याय्याः, प्रमाणान्तरादेरप्यभ्युगमप्रसङ्गात्। अपि च। पुद्गलादिप्रज्ञप्तिवत् सशरीरोपादानस्य शिलापुत्रकस्योपादातुर्लौकिकव्यवहाराङ्गभूतस्य विशेषणस्याविचारप्रसिद्धस्य सद्भावात्, शिर‍उपादानस्य च राहोरुपादातुः सद्भावादयुक्तमेतन्निदर्शनम्। शरीरशिरोव्यतिरिक्तस्यार्थान्तरस्यासिद्धेस्तन्मात्रस्योपलम्भात् सिद्धमेव निदर्शनमिति चेत्, नैतदेवम्। लौकिके व्यवहारे इत्थं विचाराप्रवृत्तेरविचारतश्च लौकिकपदार्थानामस्तित्वात्। यथैव हि रूपादिव्यतिरेकेण विचार्यमाण आत्मा न संभवति, अपि च लोकसंवृत्या स्कन्धानुपादाय अस्यास्तित्वम्, एवं राहुशिलापुत्रकयोरपीति नास्ति निदर्शनसिद्धिः॥

एवं पृथिव्यादीनां यद्यपि काठिन्यादिव्यतिरिक्तं विचार्यमाणं लक्ष्यं नास्ति, लक्ष्यव्यतिरेकेण च लक्षणं निराश्रयम्, तथापि संवृतिरेवेति परस्परापेक्षया तयोः सिद्धया सिद्धिं व्यवस्थापयांबभूवुराचार्याः। अवश्यं चैतदेवमभ्युपेयम्। अन्यथा हि संवृतिरुपपत्त्या न वियुज्येत, तदेव तत्त्वमेव स्यान्न संवृतिः। न च उपपत्त्या विचार्यमाणानां शिलापुत्रकादीमेवासंभवः, किं तर्हि वक्ष्यमाणया युक्त्या रूपवेदनादीनामपि नास्ति संभव इति तेषामपि संवृत्या शिलापुत्रकादिवन्नास्तित्वमास्थेयं स्यात्। न चैतदेवमित्यसदेतत्॥

अथ स्यात् - किमनया सूक्ष्मेक्षिकया? नैव हि वयं सर्वप्रमाणप्रमेयव्यवहारं सत्यमित्याचक्ष्महे, किं तु लोकप्रसिद्धिरेषा अमुना न्यायेन व्यवस्थाप्यत इति। उच्यते। वयमप्येवं ब्रूमः -किमनया सूक्ष्मेक्षिकया लौकिकव्यवहारेऽवतारिक(त?)या ? तिष्ठतु तावदेषा विपर्यासमात्रासादितात्मभावसत्ताका संवृतिः मुमुक्षूणां मोक्षावाहककुशलमूलोपचयहेतुः, यावन्न तत्त्वाधिगम इति। भवांस्तु एतां संवृतिपरमार्थसत्यविभागदुर्विदग्धबुद्धितया क्कचिदुपपत्तिमवतार्य अन्यायतो नाशयति। सोऽहं संवृतिसत्यव्यवस्थावैचक्षण्याल्लौकिक एव पक्षे स्थित्वा संवृत्येकदेशनिराकरणोपक्षिप्तोपपत्त्यन्तरमुपपत्त्यन्तरेण विनिवर्तयन् लोकवृद्ध इव लोकचारात्परिभ्रश्यमानं भवन्तमेव निवर्तयामि न तु संवृतिम्। तस्माद् यदि लौकिको व्यवहारः, तदा अवश्यं लक्षणवल्लक्ष्येणापि भवितव्यम्। ततश्च स एव दोषः। अथ परमार्थः, तदा लक्ष्याभावाल्लक्षणद्वयमपि नास्तीति कुतः प्रमाणद्वयम्?

अथ शब्दानामेवं क्रियाकारकसंबन्धपूर्विका व्युत्पत्तिर्नाङ्गीक्रियते, तदिदमतिकष्टम्। तैरेव क्रियाकारकसंबन्धप्रवृत्तैः शब्दैर्भवान् व्यवहरति, शब्दार्थं क्रियाकरणादिकं च नेच्छतीति अहो वत इच्छामात्रप्रतिबद्धप्रवृत्तितो (वृत्तिः?) भवतः।

यदा चैवं प्रमेयद्वयमव्यवस्थितं तदा स्वसामान्यलक्षणाविषयत्वेन आगमादीनां प्रमाणान्तरत्वम्। किं च घटः प्रत्यक्ष इत्येवमादिकस्य लौकिकव्यवहारस्यासंग्रहादनार्यव्यवहाराभ्युपगमाच्च अव्यापिता लक्षणस्येति न युक्तमेतत्॥

अथ स्यात्-घटोपादाननीलादयः प्रत्यक्षाः प्रत्यक्षप्रमाणपरिच्छेद्यत्वात्। ततश्च यथैव कारणे कार्योपचारं कृत्वा बुद्धानां सुख उत्पाद इति व्यपदिश्यते, एवं प्रत्यक्षनीलादि निमित्तकोऽपि घटः कार्ये कारणोपचारं कृत्वा प्रत्यक्ष इति व्यपदिश्यते। नैवंविषये उपचारो युक्तः। उत्पादो हि लोके सुखव्यतिरेकेणोपलब्धः, स च संस्कृतलक्षणस्वभावत्वादनेकदुष्कर शतहेतुत्वादसुख एव, स सुख इति व्यपदिश्यमानः असंबद्ध एवेत्येवंविषये युक्त उपचारः। घटः प्रत्यक्ष इत्यत्र तु - न हि घटो नाम कश्चिद्योऽप्रत्यक्षः पृथगुपलब्धो यस्योपचारात्प्रत्यक्षत्वं स्यात्। नीलादिव्यतिरिक्तस्य घटस्याभावादौपचारिकं प्रत्यक्षत्वमिति चेत्, एवमपि सुतरामुपचारो न युक्तः, उपचर्यमाणस्याश्रयस्याभावात्। न हि खरविषाणे तैक्ष्ण्यमुपचर्यते। अपि च। लोकव्यवहाराङ्ग भूतो घटो यदि नीलादिव्यतिरिक्तो नास्तीति कृत्वा तस्यौपचारिकं प्रत्यक्षत्वं परिकल्प्यते, नन्वेवं सति पृथिव्यादिव्यतिरेकेण नीलादिकमपि नास्तीति नीलादेरस्यौपचारिकं प्रत्यक्षत्वं कल्प्यताम्। यथोक्तम्-

रूपादिव्यतिरेकेण यथा कुम्भो न विद्यते।
वाय्वादिव्यतिरेकेण तथा रूपं न विद्यते॥ इति।

तस्मादेवमादिकस्य लोकव्यवहारस्य लक्षणेनासंग्रहादव्यापितैव लक्षणस्येति। तत्त्वविदपेक्षया हि -
प्रत्यक्षत्वं घटादीनां नीलादीनां च नेष्यते।

लोकसंवृत्या त्वभ्युपगन्तव्यमेव प्रत्यक्षत्वं घटादीनाम्। यथोक्तं शतके -

सर्व एव घटोऽदृष्टो रूपे दृष्टे हि जायते।
ब्रूयात्कस्तत्त्वविन्नाम घटः प्रत्यक्ष इत्यपि॥
एतेनैव विचारेण सुगन्धि मधुरं मृदु।
प्रतिषेधयितव्यानि सर्वाण्युत्तमबुद्धिना॥इति।

अपि च। अपरोक्षार्थवाचित्वात्प्रत्यक्षशब्दस्य साक्षादभिमुखोऽर्थः प्रत्यक्षः, प्रतिगतमक्ष मस्मिन्निति कृत्वा घटनीलादीनामपरोक्षाणां प्रत्यक्षत्वं सिद्धं भवति। तत्परिच्छेदकस्य ज्ञानस्य तृणतुषाग्निवत् प्रत्यक्षकारणत्वात् प्रत्यक्षत्वं व्यपदिश्यते। यस्तु अक्षमक्षं प्रति वर्तत इति प्रत्यक्षशब्दं व्युत्पादयति, तस्य ज्ञानस्येन्द्रियाविषयत्वाद् विषयविषयत्वाच्च न युक्ता व्युत्पत्तिः। प्रतिविषयं तु स्यात् प्रत्यर्थमिति वा॥

अथ स्यात्-यथा उभयाधीनायामपि विज्ञानप्रवृतौ आश्रयस्य पटुमन्दतानुविधानाद् विज्ञानानां तद्विकारविकारित्वादाश्रयेणैवव्यपदेशो भवति चक्षुर्विज्ञानमिति, एवं यद्यपि अर्थमर्थ प्रति वर्तते, तथापि अक्षमक्षमाश्रित्य वर्तमानं विज्ञानमाश्रयेण व्यपदेशात् प्रत्यक्षमिति भविष्यति। दृष्टो हि असाधारणेन व्यपदेशो भेरीशब्दो यवाङ्कुर इति। नैतत्पूर्वेण तुल्यम्। तत्र हि विषयेण विज्ञाने व्यपदिश्यमाने रूपविज्ञानमित्येवमादिना विज्ञानषट्कस्य भेदो नोपदर्शितः स्यात्, मनोविज्ञानस्य चक्षुरादिविज्ञानैः सहैकविषयप्रवृत्तत्वात्। तथा हि नीलादिविज्ञानषट्के विज्ञानमित्युक्ते साकाङ्क्ष एव प्रत्ययाज्जायते किमेतद्रूपीन्द्रियजं विज्ञानमाहोस्विन्मानसमिति। आश्रयेण तु व्यपदेशे मनोविज्ञानस्य चक्षुरादिविज्ञानविषये प्रवृत्तिसंभवेऽपि परस्परभेदः सिद्धो भवति। इह तु प्रमाण लक्षणविवक्षया कल्पनापोढमात्रस्य प्रत्यक्षत्वाभ्युपगमे सति विकल्पादेव तद्विशेषत्वाभिमतत्वादसाधारणकारणेन व्यपदेशे सति न किंचित् प्रयोजनमुपलक्ष्यते। प्रमेयपरतन्त्रायां च प्रमाणसंख्याप्रवृत्तौ प्रमेयाकारानुकारितामात्रतया च समासादितात्मभावसत्ताकयोः प्रमाणयोः स्वरूपस्य व्यवस्थापनान्नेन्द्रियेण व्यपदेशः किंचिदुपकरोतीति सर्वथा विषयेणैव व्यपदेशो न्याय्यः॥

लोके प्रत्यक्षशब्दस्य प्रसिद्धत्वाद्विवक्षितेऽर्थे प्रत्यर्थशब्दस्याप्रसिद्धत्वादाश्रयेणैव व्युत्पत्तिराश्रीयत इति चेत्, उच्यते। अस्त्ययं प्रत्यक्षशब्दो लोके प्रसिद्धः। स तु यथा लोके, तथा अस्माभिरुच्यत एव। यथास्थितलौकिकपदार्थतिरस्कारेण तु तद्वयुत्पादे क्रियमाणे प्रसिद्धशब्द तिरस्कारः प्रसिद्धः स्यात्, ततश्च प्रत्यक्षमित्येवं न स्यात्। एकस्य च चक्षुर्विज्ञानस्य एकेन्द्रियक्षणाश्रयस्य प्रत्यक्षत्वं न स्याद् वीप्सार्थाभावात्, एकैकस्य च प्रत्यक्षत्वाभावे बहूनामपि न स्यात्॥

कल्पनापोढस्यैव च ज्ञानस्य प्रत्यक्षत्वाभ्युपगमात्, तेन च लोकस्य संव्यवहाराभावात्, लौकिकस्य च प्रमाणप्रमेयव्यवहारस्य व्याख्यातुमिष्टत्वाद् व्यर्थैव प्रत्यक्षप्रमाणकल्पना संजायते। चक्षुर्विज्ञानसामङ्गी नीलं जानाति नो तु नीलमिति चागमस्य प्रत्यक्षलक्षणाभिधानार्थस्याप्रस्तुतत्वात्, पञ्चानामिन्द्रियविज्ञानानां जडत्वप्रतिपादकत्वाच्च नागमादपि कल्पनापोढस्यैव विज्ञानस्य प्रत्यक्षत्वमिति न युक्तमेतत्। तस्माल्लोके यदि लक्ष्यं यदि वा स्वलक्षणं सामान्यलक्षणं वा, सर्वमेव साक्षादुपलभ्यमानत्वादपरोक्षम्, अतः प्रत्यक्षं व्यवस्थाप्यते तद्विषयेण ज्ञानेन सह। द्विचन्द्रादीनां तु अतैमिरिकज्ञानापेक्षया अप्रत्यक्षत्वम्, तैमिरिकाद्यपेक्षया तु प्रत्यक्षत्वमेव॥

परोक्षविषयं तु ज्ञानं साध्याव्यभिचारिलिङ्गोत्पन्नमनुमानम्॥
साक्षादतीन्द्रियार्थविदामाप्तानां यद्वचनं स आगमः॥

सादृश्यादननुभूतार्थधिगम उपमानं गौरिव गवय इति यथा॥
तदेवं प्रमाणचतुष्टयाल्लोकस्यार्थाधिगमो व्यवस्थाप्यते॥

तानि च परस्परापेक्षया सिध्यन्ति-सत्सु प्रमाणेषु प्रमेयार्थाः, सत्सु प्रमेयेष्वर्थेषु प्रमाणानि। नो तु खलु स्वाभाविकी प्रमाणप्रमेययोः सिद्धिरिति। तस्माल्लौकिकमेवास्तु यथादृष्टमित्यलं प्रसङ्गेन। प्रस्तुतमेव व्याख्यास्यामः। लौकिक एव दर्शने स्थित्वा बुद्धानां भगवतां धर्मदेशना॥३॥

अत्राहुः स्वयूथ्याः - यदिदमुक्तं न स्वत उत्पद्यन्ते भावा इति, तद्युक्तम्, स्वत उत्पत्तिवैयर्थ्यात्। यच्चोक्तं न द्वाभ्यामिति, तदपि युक्तम्, एकांशवैकल्यात्। अहेतुपक्षस्तु एकान्तनिकृष्ट इति तत्प्रतिषेधोऽपि युक्तः। यत्तु खल्विदमुच्यते नापि परत इति, तदयुक्तम् यस्मात्परभूता एव भगवता भावानामुत्पादका निर्दिष्टाः।

चत्वारः प्रत्यया हेतुश्चालम्बनमनन्तरम्।
तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः॥४॥

तत्र निर्वर्तको हेतुरिति लक्षणात्, यो हि यस्य निर्वर्तको बीजभावेनावस्थितः, स तस्य हेतु प्रत्ययः। उत्पद्यमानो धर्मो येनालम्बनेनोत्पद्यते, स तस्यालम्बनप्रत्ययः। कारणस्यानन्तरो निरोधः कार्यस्योत्पत्तिप्रत्ययः, तद्यथा बीजस्यानन्तरो निरोधोऽङ्कुरस्योत्पादप्रत्ययः। यस्मिन् सति यद्भवति तत्तस्याधिपतेयमिति। त एते चत्वारः प्रत्ययाः। ये चान्ये पुरोजातसहजातपश्चाज्जातादयः, ते एतेष्वेव अन्तर्भूताः। ईश्वरादयस्तु प्रत्यया एव न संभवन्तीति, अत एवावधारयति-प्रत्ययो नास्ति पञ्चम इति। तस्मादेभ्यः परभूतेभ्यो भावानामुत्पत्तिरस्ति परत उत्पत्तिरिति॥४॥

अत्रोच्यते- नैव हि भावानां परभूतेभ्यः प्रत्ययेभ्य उत्पत्तिरिति। यस्मात् -

न हि स्वभावो भावानां प्रत्ययादिषु विद्यते।
अविद्यमाने स्वभावे परभावो न विद्यते॥५॥

इति। यदि हि हेत्वादिषु परभुतेषु प्रत्ययेषु समस्तेषु व्यस्तेषु व्यस्तसमस्तेषु हेतुप्रत्यय सामग्या अन्यत्र वा क्कचिद् भावानां कार्याणामुत्पादात्पूर्वं सत्त्वं स्यात्, स्यात्तेभ्य उत्पादः। न चैवं यदुत्पादात्पूर्वं संभवः स्यात्। यदि स्यात्, गृह्येत च , उत्पादवैयर्थ्यं च स्यात्। तस्मान्नं चास्ति भावानां प्रत्ययादिषु स्वभावः। अविद्यमाने च स्वभावे नास्ति परभावः। भवनं भाव उत्पादः, परेभ्य उत्पादः परभावः, स न विद्यते। तस्मादयुक्तमेतत् परभूतेभ्यो भावाना मुत्पत्तिरिति॥

अथवा भावानां कार्याणामङ्कुरादीनां वीजादिषु प्रत्ययेषु सत्स्वविकृतरूपेषु नास्ति स्वभावो निर्हेतुकत्वप्रसङ्गात्॥

तत्किमपेक्षं परत्वं प्रत्ययादीनाम्? विद्यमानयोरेव हि मैत्रोपग्राहकयोः परस्परापेक्षं परत्वम्? न चैवं बीजाङ्कुरयोर्यौगपद्यम्। तस्मादविद्यमाने स्वभावे कार्याणां परभावः परत्वं बीजादीनां नास्तीति परव्यपदेशाभावादेव न परत उत्पाद इति। तस्मादागमाभिप्रायानभिज्ञतैव परस्य। न हि तथागता युक्तिविरुद्धं वाक्यमुदाहरन्ति। आगमस्य चाभिप्रायः प्रागेवोपवर्णितः॥५॥

तदेवं प्रत्ययेभ्य उत्पादवादिनि प्रतिषिद्धे क्रियात उत्पादवादी मन्यते- न चक्षूरूपादयः प्रत्ययाः साक्षाद्विज्ञानं जनयन्ति। विज्ञानजनिक्रियानिष्पादकत्वात्तु प्रत्यया उच्यन्ते। सा च क्रिया विज्ञानं जनयति। तस्मात्प्रत्ययवती विज्ञानजनिक्रिया विज्ञानजनिका, न प्रत्ययाः। यथा पचिक्रिया ओदनस्येति। उच्यते-

क्रिया न प्रत्ययवती

यदि क्रिया काचित् स्यात्, सा चक्षुरादिभिः प्रत्ययैः प्रत्ययवती विज्ञानं जनयेत्। न त्वस्ति। कथं कृत्वा? इह क्रियेयमिष्यमाणा जाते वा विज्ञाने इष्यते, अजाते वा जायमाने वा? तत्र जाते न युक्ता। क्रिया हि भावनिष्पादिका। भावश्चेन्निष्पन्नः, किमस्य क्रियया?

जातस्य जन्म पुनरेव च नैव युक्तम्।

इत्यादिना च मध्यमकावतारे प्रतिपादितमेतत्। अजातेऽपि न युक्ता,
कर्त्रा विना जनिरियं न च युक्तरूपा।

इत्यादिवचनात्। जायमानेऽपि भावे क्रिया न संभवति, जाताजातव्यतिरेकेण जायमानाभावात्। यथोक्तम्-
जायमानार्थजातत्वाज्जायमानो न जायते।
अथ वा जायमानत्वं सर्वस्यैव प्रसज्यते॥इति।

यतश्चैवं त्रिषु कालेषु जनिक्रियाया असंभवः, तस्मान्नास्ति सा। अत एवाह-क्रिया न प्रत्ययवती इति।

विशेषणं नास्ति विना विशेषम्।

इत्यादिना प्रतिपादितमेतन्मध्यमकावतारे। न हि वन्ध्यापुत्रो गोमानित्युच्यते॥
यद्येवम्, अप्रत्ययवती तर्हि भविष्यतीति, एतदप्ययुक्तमित्याह-
नाप्रत्ययवती क्रिया।

यदा प्रत्ययवती नास्ति, तदा कथमप्रत्ययवती निर्हेतुका स्यात्? न हि तन्तुमयः पटो न युक्त इति वीरणमयोऽभ्युपगम्यते। तस्मात्क्रिया न भावजनिका॥

अत्राह-यद्येवं क्रियाया असंभवः, प्रत्ययास्तर्हि जनका भविष्यन्ति भावानामिति। उच्यते-

प्रत्यया नाक्रियावन्तः

यदा क्रिया नास्ति, तदा क्रियारहिता अक्रियावन्तो निर्हेतुकाः प्रत्ययाः कथं जनकाः? अथ क्रियावन्त एव जनका इति, उच्यते -

क्रियावन्तश्च सन्त्युत॥६॥

नेति प्रकृतेनाभिसंबन्धः। उतशब्दोऽवधारणे। तत्र क्रियाया अभाव उक्तः, कथं क्रियावत्त्वं प्रत्ययानामिति? यथा च विज्ञानजनिक्रियोक्ता, एवं परिक्रियादयोऽपि भावा उक्ता वेदितव्या इति नास्ति क्रियातोऽपि समुत्पत्तिर्भावानामिति भवत्युत्पादाभिधानमर्थशून्यम्॥६॥

अत्राह- किं न एतेन क्रियावन्तः प्रत्यया इत्यादिविचारेण? यस्माच्चक्षुरादीन् प्रतीत्य प्रत्ययान् विज्ञानादयो भावा जायन्ते, तस्माच्चक्षुरादीनां प्रत्ययत्वं तेभ्यश्चोत्पादो विज्ञानादीनामिति। एतदप्ययुक्तमित्याह -

उत्पद्यते प्रतीत्येमानितीमे प्रत्ययाः किल।
यावन्नोत्पद्यत इमे तावन्नाप्रत्ययाः कथम्॥७॥

यदि चक्षुरादीन् प्रत्ययान् प्रतीत्य विज्ञानमुत्पद्यते इति अस्य इमे प्रत्यया उच्यन्ते , ननु यावत्तद्विज्ञानाख्यं कार्यं नोत्पद्यते तावदिमे चक्षुरादयः कथं नाप्रत्ययाः? अप्रत्यया एवेत्यभिप्रायः न चाप्रत्ययेभ्य उत्पत्तिः सिकताभ्य इव तैलस्य।

अथ मतम्-पूर्वमप्रत्ययाः सन्तः किंचिदन्यं प्रत्ययमपेक्ष्य प्रत्ययत्वं प्रतिपद्यन्त इति, एतदप्ययुक्तम्। यत् तत् प्रत्ययान्तरमप्रत्ययस्य तस्य प्रत्ययत्वेन कल्प्यते, तदपि प्रत्ययत्वे सति अस्य प्रत्ययो भवति। तत्राप्येषैव चिन्तनेति न युक्तमेतत्॥७॥

किं च। इह इमे चक्षुरादयो विज्ञानस्य प्रत्ययाः कल्प्यमानाः सतो वा अस्य कल्प्येरन्, असतो वा? सर्वथा च न युज्यते इत्याह-

नैवासतो नैव सतः प्रत्ययोऽर्थस्य युज्यते।
कस्मादित्याह-
असतः प्रत्ययः कस्य सतश्च प्रत्ययेन किम्॥८॥

असतो ह्यर्थस्य अविद्यमानस्य कथं प्रत्ययः स्यात्? भविष्यता व्यपदेशो भविष्यतीति चेत्, नैवम्-

भविष्यता चेद्वयपदेश इष्टः
शक्तिं विना नास्ति हि भावितास्य।

इत्यादिनोक्तदोषत्वात्। सतोऽपि विद्यमानस्य लब्धजन्मनो निष्फलैव प्रत्ययकल्पना॥
एवं समस्तानां प्रत्ययानां कार्योत्पादनासामर्थ्येन अप्रत्ययत्वमुद्भाव्य अतः परं व्यस्तानामप्रत्ययत्वं प्रतिपाद्यते॥

अत्राह-यद्यप्येवं प्रत्ययानामसंभवः, तथापि अस्त्येव लक्षणोपदेशात्प्रत्ययप्रसिद्धिः । तत्र निर्वर्तको हेतुरिति लक्षणमुच्यते हेतुप्रत्ययस्य। न चाविद्यमानस्य लक्षणोपदेशो युक्तो बन्ध्यासुतस्येवेति। उच्यते। स्याद्धेतुप्रत्ययो यदि तस्य लक्षणं स्यात्। यस्मात् -

न सन्नासन्न सदसन् धर्मो निर्वर्तते यदा।
कथं निर्वर्तको हेतुरेवं सति हि युज्यते॥९॥

तत्र निर्वर्तक उत्पादकः। यदि निर्वर्त्यो धर्मो निर्वर्तेत, तमुत्पादको हेतुरुत्पादयेत्। न तु निर्वर्तते, सदसदुभयरूपस्य निर्वर्त्यस्याभावात्। तत्र सन्न निर्वर्तते विद्यमानत्वात्। असन्नपि, अविद्यमानत्वात्। सदसन्नपि, परस्परविरुद्धस्यैकार्थस्याभावात्, उभयपक्षाभिहितदोषत्वाच्च। यत एवं कार्यस्योत्पत्तिर्नास्ति, हेतुप्रत्ययोऽप्यतो नास्ति। ततश्च यदुक्तं लक्षणसंभवाद्विद्यते हेतुप्रत्यय इति, तदेवं सति न युज्यते॥९॥

इदानीमालम्बनप्रत्ययनिषेधार्थमाह-

अनालम्बन एवायं सन् धर्म उपदिश्यते।
अथानालम्बने धर्मे कुत आलम्बनं पुनः॥१०॥

इह सालम्बनधर्माः कतमे? सर्वचित्तचैत्ता इत्यागमात्। चित्तचैत्ता येनालम्बनेनोत्पद्यन्ते यथायोगं रूपादिना, स तेषामालम्बनप्रत्ययः। अयं च विद्यमानानां वा परिकल्प्येत अविद्यमानानां वा। तत्र विद्यमानानां नार्थस्तदालम्बनप्रत्ययेन। धर्मस्य हि उत्पत्त्यर्थमालम्बनं परिकल्प्यते, स चालम्बनात्पूर्वं विद्यमान एवेति। अथैवमनालम्बने धर्मे स्वात्मना प्रसिद्धे किमस्य आलम्बनयोगेन परिकल्पितेन, इत्यनालम्बन एवायं सन् विद्यमानो धर्मः चित्तादिकः केवलं सालम्बन इत्युच्यते भवद्भिः स्वमनीषिकया, न त्वस्य आलम्बनेन कश्चित्संबन्धोऽस्ति। अथाविद्यमानस्यालम्बनं परिकल्प्यते, तदपि न युक्तम्, अनालम्बन एवायमित्यादि। अविद्यमानस्य हि नास्ति आलम्बनेन योगः॥

अनालम्बन एवायं सन् धर्म उपदिश्यते।
भवद्भिः सालम्बन इति वाक्यशेषः।
अथानालम्बने धर्मे कुत आलम्बनं पुनः॥

अथ शब्दः प्रश्ने। कुत इति हेतौ। तेनायमर्थः- अथैवमनालम्बने धर्मेऽसति अविद्यमाने भूयः कुत आलम्बनम्? आलम्बनकाभावादालम्बनस्याप्यभाव इत्यभिप्रायः। कथं तर्हि सालम्बनाश्चित्तचैत्ताः? सांवृतमेतल्लक्षणं न पारमार्थिकमित्यदोषः॥१०॥

इदानीं समनन्तरप्रत्ययनिषेधार्थमाह-
अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते।
नानन्तरमतो युक्तं निरुद्धे प्रत्ययश्च कः॥११॥

तत्र पश्चिमे श्लोकस्यार्धे पादव्यत्ययो द्रष्टव्यः, चशब्दश्च भिन्नक्रमो निरुद्धे चेति। तेनैवं पाठः- निरुद्धे च प्रत्ययः कः? नानन्तरमतो युक्तम् इति। श्लोकबन्धार्थं त्वेवमुक्तम्॥

तत्र कारणस्यानन्तरो निरोधः कार्यस्योत्पादप्रत्ययः समनन्तरप्रत्ययलक्षणम्। अत्र विचार्यते- अनुत्पन्नेषु धर्मेषु कार्यभूतेष्वङ्कुरादिषु निरोधो नोपपद्यते कारणस्य बीजादेः। यदैतदेवम्, तदा कारणस्य निरोधाभावादङ्कुरस्य कः समनन्तरप्रत्ययः? अथानुत्पन्नेऽपि कार्ये बीजनिरोध इष्यते, एवं सति निरुद्ध बीजे अभावीभूते अङ्कुरस्य कः प्रत्ययः? को वा बीजनिरोधस्य प्रत्यय इति। उभयमेतदहेतुकमित्याह-निरुद्धे च कः प्रत्यय इति। चशब्दोऽनुत्पन्नशब्दापेक्षः। तेन अनुत्पन्ने चाङ्कुरे बीजादीनां निरोधे इष्यमाणेऽप्युभयमेतदहेतुकमपद्यत इति नानन्तरमतो युक्तम्। अथ वा। न स्वतो नापि परत इत्यादिना उत्पादो निषिद्धः, तमभिसंधायाह-

अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते।

नानन्तरमतो युक्तम् इति।
अपि च।
निरुद्धे प्रत्ययश्च कः॥

इत्यत्र पूर्वकमेव व्याख्यानम्॥११॥

इदानीमधिपतिप्रत्ययस्वरूपनिषेधार्थमाह-बीजादीनां
भावानां निःस्वभावानां न सत्ता विद्यते यतः।
सतीदमस्मिन् भवतीत्येतन्नैवोपपद्यते॥१२॥

इह यस्मिन् सति यद्भवति, तत्तस्य आधिपतेयमित्यधिपतिप्रत्ययलक्षणम्। भावानां च प्रतीत्यसमुत्पन्नत्वात् स्वभावाभावे कुतस्तद यदस्मिन्निति कारणत्वेन व्यपदिश्यते, कुतस्तद् यदिदमिति कार्यत्वेन? तस्मान्नास्ति लक्षणतोऽपि प्रत्ययसिद्धिः॥१२॥

अत्राह - तन्त्वादिभ्यः पटादिकमुपलभ्य पटादेस्तन्त्वादयः प्रत्यया इति। उच्यते पटादिफलप्रवृत्तिरेव स्वरूपतो नास्ति, कुतः प्रत्ययानां प्रत्ययत्वं सेत्स्यति? यथा च पटादिफल प्रवृत्तिरसती, तथा प्रतिपादयन्नाह -

न च व्यस्तसमस्तेषु प्रत्ययेष्वस्ति तत्फलम्।
प्रत्ययेभ्यः कथं तच्च भवेन्न प्रत्ययेषु यत्॥१३॥

तत्र व्यस्तेषु तन्तुतुरीवेमतसरशलाकादिषु प्रत्ययेषु पटो नास्ति, तत्रानुपलभ्यमानत्वात् कारणबहुत्वाच्च कार्यबहुत्वप्रसङ्गात्। समुदितेष्वपि तन्त्वादिषु नास्ति पटः, प्रत्येकमवयवेष्वविद्य मानत्वात्, एकस्य कार्यस्य खण्डश उत्पत्तिप्रसङ्गात्। तस्मात्फलाभावान्न सन्ति प्रत्ययाः स्वभावत इति॥१३॥

अथासदपि तत्तेभ्यः प्रत्ययेभ्यः प्रवर्तते।

इत्यभिप्रायः स्यात् -

अप्रत्ययेभ्योऽपि कस्मात्फलं नाभिप्रवर्तते॥१४॥

अप्रत्ययेष्वपि नास्ति फलमिति। अप्रत्ययेभ्योऽपि वीरणादिभ्यः कस्मान्नाभिप्रवर्तते पट इति नास्ति फलप्रवृत्तिः स्वरूपतः॥१४॥

अत्राह - यदि अन्यत् फलं स्यादन्ये च प्रत्ययाः, तदा किं प्रत्ययेषु फलमस्ति नास्तीति चिन्ता स्यात्। नास्ति तु व्यतिरिक्तं फलम्, किं तर्हि प्रत्ययमयमेवेति? उच्यते -

फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः।
फलमस्वमयेभ्यो यत्तत्प्रत्ययमयं कथम्॥१५॥

यदि प्रत्ययमयं प्रत्ययविकारः फलमिति व्यवस्थाप्यते, तदयुक्तम्। यस्मात्तेऽपि प्रत्यया अस्वयंमया अप्रत्ययस्वभावा इत्यर्थः। तन्तुमयो हि पट इत्युच्यते। स्यात् पटो यदि तन्तव एव स्वभावसिद्धाः स्युः। ते हि अंशुमया अंशुविकारा न स्वभावसिद्धाः। ततश्च तेभ्योऽस्वयंमयेभ्योऽस्वभावेभ्यो यत्फलं पटाख्यम्, तत्कथं तन्तुमयं भविष्यति? यथोक्तम् -

पटः कारणतः सिद्धः सिद्धं कारणमन्यतः।
सिद्धिर्यस्य स्वतो नास्तो तदन्यज्जनयेत्कथम्॥इति॥१५॥

तस्मान्न प्रत्ययमयं
फलं संविद्यते। अप्रत्ययमयं तर्हि अस्तु-
नाप्रत्ययमयं फलम्।
संविद्यते
इति तन्तुमयो यदा पटो नास्ति, तदा कथं वीरणमयः स्या?

अत्राह- मा भूत्फलम्, प्रत्ययाप्रत्ययनियमस्तु विद्यते। तथा च भवान् ब्रवीति -यदि असत् फलं प्रत्ययेभ्यः प्रवर्तते, अप्रत्ययेभ्योऽपि कस्मान्नाभिप्रवर्तते इति। न चासति फले पटकटाख्ये तन्तुवीरणानां प्रत्ययानां प्रत्ययत्वं युक्तम्, अतः फलमप्यस्तीति। उच्यते। स्यात्फलं यदि प्रत्ययाप्रत्यया एव स्युः। सति हि फले इमेऽस्य प्रत्यया इमेऽप्रत्यया इति स्यात्। तच्च विचार्यमाणं नास्तीति-

फलाभावात्प्रत्ययाप्रत्ययाः कुतः॥१६॥

प्रत्ययाश्च अप्रत्ययाश्चेति समासः॥ तस्मान्नास्ति भावानां स्वभावतः समुत्पत्तिरिति। यथोक्तमार्यरत्नाकरसूत्रे-

शून्यविद्य न हि विद्यते क्कचि
अन्तरीक्षि शकुनस्य वा पदम्।
यो न विद्यति सभावतः क्कचि
सो न जातु परहेतु भेष्यति॥
यस्य नैव हि सभावु लभ्यति
सोऽस्वभावु परपच्चयः कथम्।
अस्वभावु परु किं जनीष्यति
एष हेतु सुगतेन देशितः॥
सर्व धर्म अचला दृढं स्थिता
निर्विकार निरुपद्रवाः शिवाः।
अन्तरीक्षपथतुल्यऽजानका
तत्र मुह्यति जगं अजानकम्॥

शैलपर्वत यथा अकम्पिया
एवं धर्म अविकम्पियाः सदा।
नो च्यवति न पि चोपपद्ययु
एवं धर्मत जिनेन देशिता॥इत्यादि।

तथा-
यो न पि जायति ना चुपपद्यी
नो च्यवते न पि जीर्यति धर्मः।
तं जिनु देशयती नरसिंहः
तत्र निवेशयि सत्त्वशतानि।
यस्य सभावु न विद्यति कश्चि
नो परभावतु केनचि लब्धः।
नान्तरतो न पि बाहिरतो वा
लभ्यति तत्र निवेशयि नाथः॥

शान्त गती कथिता सुगतेन
नो च गति उपलभ्यति काचि।
तत्र च वोहरसी गतिमुक्तो
मुक्तकु मोचयमी बहुसत्त्वान्॥इति विस्तरः॥ १६॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project