Digital Sanskrit Buddhist Canon

प्रतीत्यसमुत्पादहृदयव्याख्यानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Pratītyasamutpādahṛdayavyākhyānam

प्रतीत्यसमुत्पादहृदयव्याख्यानम्

आचार्य नागार्जुनकृतम्


इह कश्चित् शुश्रूषमाणः श्रमणः श्रवण धारणोहापोहशक्तिसम्पन्नः शिष्य आचार्यस्य पाद [मूल] मागम्य तथागतशासनमारभ्य एवं पृष्टवान्-भगवन् अत्र


द्वादश येऽङ्गविशेषा मुनिनोद्दिष्टाः प्रतीत्यसम्भूताः।



क्व तेषां सङ्‍ग्रह इति श्रोतुमिच्छामि। इति।



तस्य तेषां धर्माणां तत्त्ववुभुत्सामवेत्य आचार्य इदमुक्तवान्



तें क्लेशकर्मदुःखेषु सङ्‍गृहीतास्त्रिषु [यथावन्]॥१॥



तत्र दश च द्वौ च द्वादश। अङ्गान्येव विशेषा अङ्गविशेषाः। रथाङ्गवदङ्गभाव उक्तः। कायवाङमनोमौनान्मुनिः। तेन मुनिनोद्दिष्टाः कथिताः प्रकाशिता इति पर्यायाः। ते च न प्रकृति-नियति-पुरुष-पराधीन-कर्म-ईश्वर-काल-स्वभाव-यथेच्छा-प्रजापति-यदृच्छादिकारणप्रसूताः। किं तर्हि प्रतीत्यसम्भूताः। ते द्वादशाङ्गविशेषाः क्लेशकर्मदुःखा अन्योन्यं प्रतीत्य नडकलापयोगेन त्रिषु यथावत् संक्षिप्ताः। यथावदिति अशेषेणेत्यर्थः॥१॥



पृच्छति। के पुनस्ते क्लेशाः। किं कर्म। किं दुःखम् येषु इमे प्रत्ययविशेषाः सङ्‍ग्रहं गच्छन्ति। आह-



आद्याष्टमनवमाः स्युः क्लेशाः।



द्वादशाङ्गविशेषाणां [मध्ये] आद्या अविद्या, अष्टमी तृष्णा, नवममुपादानम् इमे त्रयः क्लेशसङ्‍गृहीताः प्रत्यवगन्तव्याः। किं कर्म।



कर्म द्वितीयदशमौ च।



संस्कारो द्वितीयः भवो दशमः। [इमा] द्वौ धर्मौ कर्मसङ्‍गृहीतौ वेदितव्यौ।



शेषाः सप्त च दुःखम्



कर्मक्लेशसङ्‍गृहीताना [मङ्ग] विशेषाणां ये शेषा [अङ्ग] विशेषाः सप्त च ते दुःख [सङ्‍गृहीता] वेदितव्याः। तद्यथा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना जातिजरामरणम्। च शब्दः प्रियवियोगाप्रियसंयोगेष्टविघातदुःखानि सञ्चिनोति।



त्रिसङ्‍ग्रहा द्वादश तु धर्माः॥२॥



अत्र एते द्वादश धर्माः कर्मक्लेशदुःखा[ख्या] वेदितव्याः। [अन्यूना] धिकज्ञपनार्थस्तु शब्दः। एतावन्त एवेमे सूत्रान्तनिर्दिष्टा नातः परमस्तीति परिगणितम्॥२॥



पृच्छति। क्लेशकर्मदुःखाना[मेषां] कुतः किमुत्पद्यत इति व्याख्यातुं प्रार्थये। आह-



त्रिभ्या भवति द्वन्द्वम्



क्लेशाख्येभ्यस्त्रिभ्यः कर्माख्यं द्वन्द्वमुत्पद्यते।



द्वन्द्वात्प्रभवन्ति सप्त



दुःखाख्याः पूर्वनिर्दिष्टाः।



सप्तभ्यः।

त्रय उद्भवन्ति



क्लेशाख्याः। तेभ्यस्त्रिभ्यः क्लेशेभ्यश्च द्वन्द्वमुत्पद्यते।



भूयस्तदेव तु भ्रमति भवचक्रम्॥३॥



भवाः कामरूपारूप्यसंशब्दिताः। [ते च] अनवस्थानाच्चक्रभूताः। तेषु पृथग्जनो लोक एव परिभ्रमति। तुशब्दश्च अनियतज्ञापनार्थः। यथा चक्रमनुपूर्व्यां परिभ्रमति। न तथा त्रिषु भवेषूत्पत्तिः। [किं तर्हि] नियमो नास्तीति ज्ञापयति॥३॥



पृच्छति। अथ सर्वदेहेश्वरः सत्त्वाख्यः कर्ता। तेषु तस्य क्रिया कीदृशी। आह-



हेतुफलञ्च हि जगत्



प्रज्ञप्तिं विहाय



अन्यो नास्ति कश्चिदिह सत्त्वः।



परमार्थतः कल्पितः। कल्पितश्च नास्ति। कल्पितमात्रविषये (काम) इष्टद्रव्यं सत् न युज्यते।



पृच्छति। यद्येवम्, तर्हि अस्माल्लोकात् कः परलोकं सङ्‍क्रामति। आह। अस्माल्लोकात्परलोकं सूक्ष्मोऽणुरपि न सङ्‍क्रामति। अथ च



शून्येभ्य एव शून्या धर्माः प्रभवन्ति धर्मेभ्यः॥४॥



आत्मात्मीयरहितेभ्यो धर्मेभ्यः क्लेशकर्माख्येभ्यः पञ्चहेतुभ्यः शून्येभ्य आत्मात्मीयरहिता दुःखतया कथिताः फलकल्पिताः शून्याः सप्त धर्माः प्रभवन्तीत्यर्थः। तद्यथा आत्मात्मीयरहितास्ते नान्योन्यं पुनरात्मीयाः। अथ च स्वभावतोऽनात्मधर्मभ्यः स्वभावतोऽनात्मधर्माः प्रभवन्ति। एवमवगन्तव्यमिति ज्ञापितम्॥४॥



अत्र स्वभावतोऽनात्मधर्मेभ्य एव स्वभावतोऽनात्मधर्माः प्रभवन्ति इत्यत्र को दृष्टान्तः। अत्रोच्यते-



स्वाध्यायदीपमुद्रादर्पणघोषार्ककान्तबीजाम्लैः।



एभ्यो दृष्टान्तेभ्यः कल्पितेभ्योऽपि स्वभावतोऽनात्मनश्च परलोकसिद्धिर्वेदितव्या। तद्यथा-गुरुमुखादुश्चरिता यदि शिष्यं सङ्‍क्रामन्ति। गुरुणोच्चरितास्तद्विराहता अपि स्युरिति न सङ्‍क्रामन्ति। शिष्येण प्रोक्तमपि नान्यतोऽस्ति। अहेतुभूतत्वात्। यथा गुरुमुखादुच्चरिताः तथा मरणांशिकचित्तमपि। शाश्वत [आख्य] दोषः स्यात् परलोके न सङ्‍क्रमः। परलोकोऽपि नान्यतो भवति। अहेतुदोषसत्त्वात्। यथा गुरुणोच्चारितहेतोः शिष्येणो [च्चारितः] स एव अन्यो वा इति न निर्णेतुं शक्यते। तथा मरणचित्तं प्रतीत्य औपपत्त्यंशिकं चित्तमपि तदेव तातोऽन्यद्वा इति न वक्तुं शक्यते। तथा। यथा प्रदीपात्प्रदीपः, मुखात् दर्पणे प्रतिबिम्बमुत्पद्यते। मुद्रातः प्रतिमुद्रोत्पद्यते। अर्ककान्तादग्निः बीजादङ्‍कुरफलानि अम्लरसात् रसवत्पुनः, शब्दात्प्रतिश्रुत्कश्चोत्पद्यते। ते च त एव वा ततोऽन्ये वा इति न ज्ञातुं शक्यते। तथा-





स्कन्धप्रतिसन्धिरसङ्‍क्रमश्च विद्वद्भिरवधार्यौ॥५॥



तत्र पञ्चस्कन्धा रूपवेदनासंज्ञासंस्कारविज्ञानाख्याः स्कन्धाः। तेषां प्रतिसन्धिर्निषिद्धः। हेतोर्हि फलमन्यदुत्पद्यते।



अस्मात् लोकात्परलोकं न कोऽपि भावः सूक्ष्मोऽपि सङ्‍क्रामति। एवं चक्रभ्रमणं भ्रान्तिविकल्पवासनया समुत्पद्यते। अन्त इति तु विपर्ययः। ततो निवर्तयितव्यम्। अनित्यदुःखशून्यानात्मभावान् न नित्यभावान् व्यामुह्यात्। असति व्यामोहे न रागः। असति रागे न द्वेषः। असति द्वेषे न कर्म करोति। असति कर्मणि नोपादीयते भावः। असत्युपादाने न भवमभिसंस्करोति। असति भवे न जातिः। असत्यां जातौ न कायचित्तयोर्दुःखं भवेत। एवमचिन्त्यात् तद्धेतुपञ्चकान्नान्यत्फलमुत्पद्यते। अयं मोक्षो वेदितव्यः। एवं शाश्वतोच्छेदादिदुर्दृष्टयोऽपनीता भवन्ति॥५॥



अत्र द्वौ श्लोकौ भवतः-

य उच्छेदं प्रकल्पयत्यतिसूक्ष्मेऽपि वस्तुनि।

प्रतीत्यसम्भवस्यार्थमविज्ञः स न पश्यति॥६॥



नापनेयमतः किञ्चित्प्रक्षेप्यं नापि किञ्चन।

भूतश्च भूततो दृष्ट्वा भूतदर्शी विमुच्यते॥७॥



आचार्य नागार्जुनकृतं

प्रतीत्यसमुत्पादहृदयव्याख्यानं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project