Digital Sanskrit Buddhist Canon

प्रतीत्यसमुत्पादहृदयकारिका

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Pratītyasamutpādahṛdayakārikā
प्रतीत्यसमुत्पादहृदयकारिका

नागार्जुनकृता


द्वादश येऽङ्गविशेषा मुनिनोद्दिष्टाः प्रतीत्यसम्भूताः।

ते क्लेशकर्मदुःखेषु सङ्‍गृहीतास्त्रिषु यथावत्॥१॥



आद्याष्टमनवमाः स्युः क्लेशाः कर्म द्वितीयदशमौ च।

शेषाः सप्त च दुःखं त्रिसङ्‍ग्रहा द्वादश तु धर्माः॥२॥



त्रिभ्यो भवति द्वन्द्वं द्वन्द्वात्प्रभवन्ति सप्त सप्तभ्यः।

त्रय उद्भवन्ति भूयस्तदेव [तु] भ्रमति भवचक्रम्॥३॥



हेतुफलञ्च [हि]सर्वं जगदन्यो नास्ति कश्चिदिह सत्त्वः।

शून्येभ्य एव शून्या धर्माः प्रभवन्ति धर्मेभ्यः॥४॥



स्वाध्यायदीपमुद्रादर्पणघोषऽर्ककान्तबीजाम्लैः।

स्कन्धप्रतिसन्धिरसङ्‍क्रमश्च विद्वद्भिरवधार्यौ॥५॥



य उच्छेदं प्रकल्पयत्यतिसूक्ष्मेऽपि वस्तुनि।

प्रतीत्यसम्भवस्यार्थमविज्ञः स न पश्यति॥६॥



नापनेयमतः किञ्चित् प्रक्षेप्यं नापि किञ्चन।

द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते॥७॥



प्रतीत्यसमुत्पादहृदयकारिका

आचार्य नागार्जुनकृता

समाप्ता।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project