Digital Sanskrit Buddhist Canon

आर्यशालिस्तम्बककारिका

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Āryaśālistambakakārikā

आर्यशालिस्तम्बककारिका

आर्यमञ्जुश्रिये नमः

अनन्ताचिन्त्यगुण्यं हि सम्बुद्धं करुणात्मकम्।

प्रणिपत्य प्रवक्ष्यामि शालिस्तम्बककारिकाम्।१॥

मुनी राजगृहस्यैव गृध्रनामकपर्वते।

भिक्षूणां बोधिसत्त्वानां संघैः सार्धं व्यवस्थितः॥२॥

हेतुप्रत्ययसंभूतं शालिस्तम्बं विलोक्य च।

हेतुप्रत्ययजं तद्वद् द्वादशाङ्कक्रमोद्गतम्॥३॥

प्रतीत्यमिति यः प्रश्येत् धर्मं बुद्धं च पश्यति।

इत्युक्त्वा नायका भिक्षून् तूष्णीभावमवस्थितः॥४॥

भिक्षुः शारिसुत्रः श्रुत्वा गत्वा मैत्रेयसन्निधौ।

तथागतोऽद्य मैत्रेय उक्त्यर्थं न विभज्य च॥५॥

तूष्णीं भावे स्थितश्चात्र तदर्थो गम्यते कथम्।

किं प्रतीत्यं च को धर्मो बुद्धोऽपि कतमस्तथा॥६॥

प्रतीत्यं तु कथं दृष्ट्वा धर्म बुद्धं च पश्यति।

सन्देहो मेऽत्र ब्रूहीति ऊचे शारिसुतोऽजितम्॥७॥

भावात्मिका हि मैत्री स्यात् मैत्रेयोऽब्रूत् निर्णयम्।

द्वादशाङ्गमविद्यादि मरणान्तं यथाक्रमम्॥८॥

तस्मात्तर्हिभवन्त्येव दुःखस्कन्धा हि केवलम्।

धर्मश्चाष्टाङ्गिको मार्गः फलं निर्वाणमुच्यते॥९॥

सर्वस्याधिगमादेवं धर्मजं बुद्धमेव च।

तथोक्तमार्यं दुष्टत्वात् यः पश्यति स पश्यति॥१०॥

प्राणादिरहिताद् यश्च व्युपशान्त्यन्तसंयुतम्।

प्रतीत्यं धर्मबुद्धौ च शुद्धबुद्धया वि पश्यति॥११॥

प्रतीत्यलक्षणं तावत् सहेत्वादिपदान्वितम्।

बुद्धोत्पादो भवेन्नो वा स्थितेयं धर्मता यतः॥१२॥

बाह्य आध्यात्मिकश्चापि द्विविधो हेतुप्रत्ययः।

बाह्यो हेतुस्तु बीजादिः प्रत्ययः षड्विधो मतः॥ १३॥

बीजाङ्कुरप्रकाण्डादिः फले यद्वत् प्रवर्तते।

प्रत्ययस्तु पृथिव्यादिकालान्तो हि यथाक्रमम्॥१४॥

धारणं स्नेहनं पाको धान्यवृद्धिरनावृतिः।

परिणामस्तथा तेषां कार्यं तद्वत् प्रवर्तते॥१५॥

नो चेत् प्रत्ययसामग्री बीजे भूतेऽपि नाङ्कुरः।

बीजाभावे तु सत्येव प्रत्ययभावोऽपि तादृशः॥१६॥

हेतवः प्रत्ययास्तद्वद् आत्मग्राहादिवर्जिता।

हेतुप्रत्ययसमग्र्या न नश्येत् कर्मणः फलम्॥१७॥

न स्वतो परतो नापि न द्वयोः कर्तृकालतः।

ईश्वरादिकृतं नैवं स्वभावान्नाप्यहेतुतः॥१८॥

हेतुप्रत्यययोर्वृत्तिर्भासतेऽनादिकालतः॥

पञ्चभिर्हेतुभिर्बाह्यः प्रतीत्योत्पाद इष्यते॥१९॥

शाश्वततो न चोच्चेदान् न संक्रन्तेः परीत्ततः।

हेर्तोर्महाफलावाप्तिः सदृशानुप्रबोधतः॥२०॥

अङ्कुरो बीजवनेष्टो निर्हेतुर्नोऽङ्कुरोद्भवः।

समो निरोध उत्पादस्तुलोन्नामावनामवत्॥२१॥

तथैवाध्यात्मिकस्यापि हेतुश्च प्रत्ययो द्विधा।

आदिहेतुरविद्याऽस्य मृत्युरन्त्यो यथाक्रमम्॥२२॥

समजन्मक्लेशकर्मात्मा द्वादशाङ्कस्त्रिकाण्डकः।

हेतुप्रत्ययसम्भूतः कर्तेत्यादिविवर्जितः॥२३॥

अविद्या यदि नादौ स्यादन्ते मृत्युर्न संभवेद्।

तेभ्यो भिन्नो न कुत्रापि ह्यात्मात्मीयश्च विद्यते॥२४॥

अविद्यासंभवादादावन्ते मृत्युश्च भासते।

हेतोराध्यात्मिकस्यैवं प्रत्ययाः षड्प्रकारकः॥२५॥

प्रत्ययोऽध्यात्मिकस्त्वन्ते विज्ञानं चादिके धरा।

काठिन्यं संग्रहः पाकः श्वासवृद्धिरनावृतिः॥२६॥

ज्ञानरूपानुवृत्तिश्च पञ्चविज्ञानसंयुतम्।

तस्मात् क्लिष्टं मनश्चापि हीमेऽध्यात्मिकप्रत्ययाः॥२७॥

धातूनां सन्निपाताद्वै शरीरोत्पाद इष्यते।

आत्मात्मीयविकल्पानामुत्पादस्तैर्न मन्यते॥२८॥

तेषु सत्सु समुत्पादस्तेष्वसत्सु न संभवः।

नैवात्मादिमयास्ते हि नाप्यन्यच्चापि किञ्चन॥२९॥

यैकपिण्डादिसंज्ञा साऽविद्यात्रिभवछादिका।

रागो द्वेषश्च मोहादिः प्रवृत्ताः सन्त्यविद्यया॥३०॥

ततः संस्कृतभावानां ज्ञप्तिर्विज्ञानसंभवा।

विज्ञानेन सहोद्भूताश्चतुस्कन्धा अरूपिणः॥३१॥

नामरूपमुपादाय चेन्द्रियायतनोद्भवः।

विषयेन्रियविज्ञानसंघातात् स्पर्शसम्भवः॥३२॥

वेदना स्पर्शजा ज्ञेया तृष्णा च वेदनोद्गता।

तृष्णावृद्धिरुपादानम् उपादानोद्गतो भवः॥३३॥

स्कन्धोत्पादो भवाज्जातिर्जातेरेवं जरापि च।

स्कन्धाभावो जराया यः स मृत्युश्चेत्युदीर्यते॥३४॥

मूढे तु मरणाच्छोकः सतृष्णे दाह आन्तरः।

शोकतश्चापलापो यो दौर्मनस्यं स उच्यते॥३५॥

दौर्मनस्यसमुद्भूतं पञ्चविज्ञानकायिकम्।

आसातदुःखमित्युक्तं कायसौख्यविघातकम्॥३६॥

दुःखं मनसिकाराख्यं मनसस्तूपधातकम्।

दौर्मनस्यं च तज्ज्ञेयमन्योपक्लेशहेतुक्रम्॥३७॥

तमोऽभिज्ञानामरूपायतस्पर्शवित्तर्षतः।

तृष्णादानभवोत्पाद पाकनाशविशोकतः॥३८॥

वचनादिकायसंपीडाचित्तदुर्मानसास्तथा।

क्लेशादन्वर्थकं नाम यथाक्रममुदीरितम्॥३९॥

पुनस्तत्त्वपरिज्ञानादविद्यादेश्च यथाक्रमम्।

पूर्वपूर्वेभ्य उत्पादोऽप्याख्यातश्चोत्तरोत्तरः॥४०॥

द्वादशाङ्गौत्रिप्रवृत्ती नित्योच्छेदौ ह्यनादिजौ।

प्रवृत्तेर्जलधारावद् वर्ततेऽनादिकालतः॥४१॥

तथाप्येते तु चत्वारः संघातकरहेतवः।

अविद्या च तृषा कर्म विज्ञानं क्रमशो मताः॥४२॥

हेतोर्विज्ञानबीजं हि कर्मक्षेत्रमुदीरितम्।

प्रथमः च तृषा प्रोक्ते हेतुः क्लेशस्वभावतः॥४३॥

कर्मक्लेशास्तुविज्ञानबीजत्वेन व्यवस्थिताः।

कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति च॥४४॥

विज्ञाननामकं बीजं तृष्णया स्निह्यते परम्।

विज्ञानबीजं चाविद्या किरति स्नेहनेन वै॥४५॥

कर्म तृष्णा तथाविद्या क्षेत्रंस्नेहोऽवकीर्णनम्।

विज्ञाने न करोमीदं न विज्ञानमितो मतम्॥४६॥

तथाऽपि बीजविज्ञानें कर्मक्लेशप्रतिष्ठिते।

विज्ञानं बीजमित्युक्तं कीर्णेऽविद्यास्ववस्करे॥४७॥

तृष्णाजलेन संसिक्ते हेतुतो नामरूपयोः।

अङ्कुरोत्पादभासो हि न स्वपरोभयादितः॥४८॥

नामरूपमिदंजातं पितुर्मातुःसमागमात्।

अविरोधादृतोश्चापि किञ्चिदास्वादवेधितम्॥४९॥

बीजविज्ञानमित्युक्तं मातृगर्भे क्रमाच्चयः।

नामरूपाङ्कुरोत्पादस्त्ववैकल्याच्च प्रत्ययैः॥५०॥

अविरोधत्वाच्चहेतूनां मायानैरात्म्यनिग्रहे।

उत्पादोऽपि न संभाव्यः चक्षुर्विज्ञानमप्यतः॥५१॥

पञ्चभिर्हेतुभिर्जातं चक्षूरूपावभासनैः।

नभस्तज्जमनस्कारैः पञ्चवैकल्यतस्तथा॥५२॥

चक्षुर्विज्ञानमुद्भूतं मया ते जनिता इति।

विकल्पो न यथोदेति श्रोत्रज्ञानादिकाखिलम्॥५३॥

उत्पादस्य क्रमश्चैवं हेतुप्रत्ययसङ्ग्रहात्।

कर्त्रादीनां च वैकल्याद् अहङ्कारवियोगतः॥५४॥

उत्पादोऽपि यथापूर्व तथ चापि प्रतीत्यजम्।

हेतुमत्संविजानीयाद् अस्माल्लोकात् परं नहि॥५५॥

कश्चिद्धमः क्वचिद् गन्ता हेतुप्रत्ययतस्तथा।

कर्मणः फलमभ्येति, यथा दर्शे विशोधिते॥५६॥

दृश्यन्ते मुखबिम्बानि दर्पणेऽपि च बिम्बकम्।

संक्रामितं भवेत्रैव तदन्योन्याविकल्पनम्॥५७॥

कर्तृक्रियाविहीनं तत् तथोत्पादावभासनम्।

पूर्ववृद्धिक्रमाच्च स्याद् दूरस्थश्चन्द्रमा यथा॥५८॥

परीत्तोदकपात्रान्ते दृश्यते न च क्रामति।

अस्ति क्रिया च कर्मापि तथा चास्माच्च्युतिर्न हि॥५९॥

जन्माभासोऽप्यसंल्लोके नोपादानं विनाऽनलः।

ज्वलेत् सकल उज्ज्वालो हीनोपादानहानितः॥६०॥

स्कन्धत्वप्रतिसन्धिःस्यात्, सन्ति ते कल्पनात्मकाः।

बाह्यं कर्म क्रिया हेतुरध्यात्मपरतन्त्रतः॥६१॥

पञ्चविज्ञानसंभवाःपरमार्थोऽविचार्यतः।

परिनिष्पन्न आख्यातःसहेतुप्रत्ययोद्भवः॥६२॥

सर्वदा द्विविधो ज्ञेयः कर्त्रादिरहितस्तथा।

तुच्छशून्यादितिःसारःप्रज्ञयैवं य ईक्षितः॥६३॥

किं कथं वा कुतो केन कल्पवादादिहानितः।

उदचन्द्रस्य यथा बिम्बं ततः कश्चिच्च न च्युतः॥६४॥

लोके जन्मापि चाभाति यथा पादपसङ्गतः।

वह्निस्त्रोतः प्रवृतिःस्याद् हेतुवैकल्पतस्तथा॥६५॥

नानुप्रवर्तते ह्यग्नितद्वत्संक्लेशबीजके।

दग्धे ज्ञानाग्निना हेतोरभावान्नफलं तथा॥६६॥

क्रिया कर्मापि नैवास्तिनन्ताचिन्त्यगुण्यकम्।

शान्तधर्मात्मकं कायमादिमध्यान्तवर्जितम्॥६७॥

ज्ञात्वा प्राप्नोति बुद्धत्वं य एवं तथताक्षमः।

तस्मै व्याक्रियते नूनं मैत्रेयस्तु स्वयं तथा॥६८॥

उवाच शारिपुत्राय शालिस्तम्बोपमा कृता।

शारिपुत्रस्तु तच्छ्रुत्त्वा देवसंघानुमोदितः॥६९॥

संस्तुतो धृतसारश्च गत्वोत्थाय प्रहर्षितः।

आख्यातवांश्च भिक्सुभ्यः॥७०॥

आर्यानागार्जुनविरचिता आर्यशालिस्तम्बकसूत्रकारिका समाप्ता।

भावतीयोपाध्यायेन धर्मश्रीभद्रेण महासंशोधकलोकचक्षुस्साधुमति ज्ञान कुमारा भ्याम् चानूदितः। पश्चात् श्रीकुटीरक्षितेन संशोध्य निर्णीतः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project