Digital Sanskrit Buddhist Canon

अनुपलब्धिहेतुनिरूपणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Anupalabdhihetunirūpaṇam

[४. अनुपलब्धिहेतुनिरूपणम्।]

[१. विप्रतिपत्तिप्रदर्शनपूर्वकमनुपलब्धेस्स्वरूपम्।]
तदेवं कर्यहेतौ यतो यभ्दवदृष्टं सकृत् प्रत्यक्षानुपलम्भाभ्यां तादृशस्य सर्व्वस्य तथाविधादेव जन्म न तद्विजातीयदित्येकस्या अपि कार्यव्यक्तेः कुतश्चिद् भावदर्शने व्याप्त्याऽन्वयव्यतिरेकसिद्धिरिति प्रतिपादितम्। अनुपलब्धौ तु यथोक्तायां निमित्तान्तराभावोपदर्शननिबन्धनयोर्न्नान्वयव्यतिरेकयोर्व्विप्रतिपत्तिः। स्वरूप एव तु परे विप्रतिपद्यन्ते। तथाहिकेचिदुपलब्ध्यभावमात्रमनुपलब्धिमभावस्य प्रसज्यप्रतिषेधात्मनः प्रमाणान्तरत्वेन गमिकामिच्छन्ति ईश्वरसेनप्रभृतयः, अपरे तु प्रतिषेध्यविषयज्ञानरूपेणापरिणाममात्मनः तदन्यवस्तुविषयं विज्ञानमेव वाऽभावस्य गमकं प्रत्यक्षानुमानाभ्यां प्रमाणान्तरमाहुर्म्मीमांसकाः। न ह्यन्यवस्तुविषयं ज्ञानं प्रत्यक्षानुमानात्मकमभावं प्रतिपद्यते, तस्य भावांशविषयत्वात्, अभावांशस्य च ततोऽन्यत्वात्। अभावांशे तु नास्तीति ज्ञानं जनयत् तदभावप्रमाणाख्यां लभते, यथेन्द्रियं स्वविषयप्रतिपत्तिजनकत्वेन प्रत्यक्षाख्याम्। तथाऽन्ये अन्यभावलक्षणां तज्ज्ञानलक्षणां वाऽनुपलब्धिमभावस्यैव साधनमाहुर्नाभावव्यवहारस्य, अनुपलब्धेर्लिङ्गादादभावसिद्धौ स्वयमेव तद्‍व्यवहारप्रवृत्तेः। नैयायिकास्तु नास्तीति ज्ञानमेव केवलप्रदेशादिग्राहिज्ञानन्तरभाविप्रत्यक्षं न प्रमाणान्तरमभावस्य तुच्छरूपस्य परिच्छेदात्मकमाचक्षते तदेवास्य घटादेः प्रतिषेध्यस्यानुपलब्धिशब्देन यद्युच्यते न कश्चिद्विरोधः इति। तदेवमनुपलब्धौ भेदं गता बुद्धयः प्रतिवादिनामिति तन्निरासार्थमनुपलब्धिस्वरूपं तावदुपदर्शयन्नाह-“उपलब्धिलक्षणप्राप्तस्य” इत्यादि। ‘उपलब्धिलक्षणप्राप्तीः’ ‘उपलम्भप्रत्ययान्तराणां समनन्तराधिपतिप्रत्ययसंज्ञितानां साकल्यम्, आलम्बनप्रत्ययस्य स्वभावविशेषश्च। यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवती’त्येवंरूपा शास्त्रकृताऽन्यत्र व्याख्याता नैयायिकविप्रतिपत्तिनिरासार्थम्। ते ह्युपलब्धिलक्षणप्राप्तिशब्देन महात्त्वानेकद्रव्यवत्त्वरूपाणि द्रव्याणामाहुः। “महत्त्वादनेकद्रव्यवत्त्वाद् रूपाच्चोपलब्धिः” इति वचनात्। एवं चोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः सत्यपि वस्तुनि सम्भवतीत्यसद्‍व्य्वहारसिद्धावनैकान्तिकीत्याचक्षते। न हि चाक्षुषस्यापि रश्मेर्महत्त्वानेकद्रव्यवत्त्वरूपाण्युपलम्भकानि भवन्ति। न च तावताऽनुपलम्भऽप्यसव्द्यवहारस्तत्र शक्यते कर्त्तुम्। यदाह भाष्यकारः-‘नानुमानत उपलभ्यमानस्य प्रत्यक्षतोऽनुपलब्धिरभावे हेतुः’ इति। इन्द्रियत्वात् त्वगादिवत् किल प्राप्यकारि चक्षुरित्यनुमानतश्चाक्षुषो रश्मिरुपलभ्यते तस्य प्रत्यक्षतोऽनुपलब्धिः कथमभावव्यवहारं साधयेत् ? इति। तदेवमुपलब्धिलक्षणप्राप्तस्यानु पलब्धिमसव्द्यवहारेऽनैका न्तिकीमाहुर्नैयायिकाः तन्निरासमुपलब्धिलक्षणप्राप्तेरविपरीतरूपोपदर्शनेन शास्त्रकारोऽभ्यधात्। यदा ह्युपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च यथोक्त उपलब्धिलक्षणप्राप्तिरुच्यते न महत्त्वादिकं तदा कुतो व्यभिचारावकाशः ?, सति वस्तुनि तस्या असम्भवात्। महत्त्वादिकं त्वसम्भवादेव नोपलब्धिलक्षणप्राप्तिशब्देन वाच्यम्। नहि रूपादिव्यतिरिक्तं द्रव्यं तत्प्रतिभासविवेकिनाऽऽकारान्तरेण स्वज्ञाने प्रतिभासते। न चाप्रतिभासमानमनात्मरूपविवेकिना रूपेण प्रत्यक्षतामनुभवत्यतिप्रसङ्गात्। तत् कुतोऽस्याऽसतो महत्त्वादिसम्भवः ?। न च स्वरूपेणामहतः तत्सम्बन्धेऽप्यस्य महत्तासम्भवः। अपररूपेण वा ग्रहणे कथं तद्‍ग्राहिज्ञानमभ्रान्तम् ?। ततो न महत्त्वं द्रव्यस्योपलम्भकं रूपं वा। तस्यापि स्वरूपेण ग्रहणे द्रव्यात्मनोऽत्यन्तपरोक्षत्वात्। द्रव्यरूपस्य च तद्विवेकेनानुपलक्षणान्न तथा ग्राहकत्वम्। न च महत्त्वं रूपं वा द्रव्योदयकालेऽभ्युपगम्यते, यतो द्रव्यं गुणस्य समवायिकारणमिष्यते। तच्च प्रतिलब्धात्मकमेव तथातामनुभवतीति प्रथमे क्षणे द्रव्यं निर्गुणमेव। न चास्य द्वितीये क्षणे प्राक्तनरूपत्यागोऽस्ति रूपान्तरं वाऽऽविर्भवति यतः प्रागप्रतिपन्नाधारभावं महत्त्वादिगुणप्रतिबन्धादाधारतां यायात्। न चाजनक आधारः। जनकत्वे च क्षणिकता, अर्थक्रियाविरोधादक्षणिकस्य। ततः कुतः सामवायिकारणस्य सम्भवः ?, यतः स्वोत्कलितं कार्यं जनयत् तथा व्यपदिश्यते। न चैतत् क्षणिकत्वे सम्भवति अक्षणिकत्वे वा प्रागऽनाधारस्य पश्चादाधाराभावः। समवायिकारणासम्भवादेवानेकद्रव्यवत्त्वमप्यस्मभवि यस्मादनेकं द्रव्यमारम्भकं समवायिकारणात्मना यस्य विद्यते तदेवं व्यपदिश्यते। द्रव्याभवाच्च नानेकद्रव्यवत्त्वं। सत्त्वेऽपि महत्त्वादेर्न्नेयमुपलब्धिलक्षणप्राप्तिरस्माकमभिमता। या त्वभिमा(म)ता न तयोपलब्धिलक्षणप्राप्तस्यानुपलब्धिरसव्द्यवहारसिद्धावनैकान्तिकीति शास्त्रकारो दर्शयाम्बभूव “उपलब्धिलक्षणप्राप्तस्य” या “अनुपलब्धिः” कारणस्य व्यापकस्य वा प्रतिषेध्यादन्यस्य सा “अभावहेतुः” कार्यस्य व्याप्यस्य च “अभावव्यवहारहेतुश्च”। या तु प्रतिषेध्यस्यैवोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः साऽभावव्यवहारहेतुरेवेति वाशब्देन दर्शयति। या त्वनुपलब्धिलक्षणप्राप्तस्यानुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा सा संशयहेतुः प्रमाणनिवृत्तावप्यर्थाभावासिद्धेः, निमित्ताभावात्तु सव्द्यवहारप्रतिषेधहेतुरित्यवगन्तव्यम्।

[२. स्वेष्टामनुपलब्धिं स्पष्टयितुमीश्वरसेनकुमारिलादीनां निरासः।]
तत्र ये तावदुपलब्ध्यभावमात्रमनुपलब्धिमिच्छन्ति, “विज्ञानं वाऽन्यवस्तुनि” इति वचनात् तदन्यवस्तुविज्ञानमेव वा, तन्निरासार्थं ज्ञातृ-ज्ञेयधर्मलक्षणामनुपलब्धिं दर्शयितुमुपलब्धिमेव तावद्द्विविधाम्दर्शयन्नाह- “अत्र” अनुपलब्धिवाक्ये योपलब्धिः श्रूयते क्रियारूपा सा यदा कर्तृस्थतयाऽपेक्ष्यते तदा तस्या “उपलभमानस्य” कतुः “धर्म्मत्वे” अपेक्ष्यमाणे “तज्ज्ञानम्” उपलभमानस्य यज्ज्ञानं तद् उपलब्धिरुच्यते। उपलभमानश्च बुद्धीन्द्रियदेहकलाप एव च पूर्व्वक्षणसङ्गृहीत उपलब्धिजनक उच्यते। तथाहि-उपलब्धेर्जनक आश्रयो वा कर्त्ता परैरुच्यते। न चेन्द्रियादेरन्यस्य जनकत्वं सम्भवति यतोऽन्वयव्यतिरेकनिबन्धनः कार्यकारणभावव्यवहारः, तौ चान्वयव्यतिरेकौ नेन्द्रियादेरन्यस्य सम्भवतः सत्स्विन्द्रियादिषु नियमेनोपलब्धेर्भावात्। यदि हीन्द्रियादिषु सत्स्वपि कदाचिदुपलब्धिर्नोपजायते तदा सत्स्वप्यन्येषु सकलेषु हेतुषु कार्यानुत्पत्तिः कारणान्तरवैकल्यं सूचयतीति तव्द्यतिरिक्तकारणान्तरं परिकल्प्येत। न चैतदस्ति, तत् कथमात्मनस्तदुत्पत्तौ निमित्तभावोऽभ्युपगम्येत ? अतिप्रसङ्गात्। यदाह-

“यस्मिन् सति भावत्येव यत् ततोऽन्यस्य कल्पने।
तद्धेतुत्वेन सर्व्वत्र हेतुनामनवस्थितिः॥” इति।
आश्रयत्वमपि जनकस्यैवेति तदप्यात्मनो न सम्भवति। स्थापकत्वादाश्रय इति चेत्; न, क्षणिकत्वे स्थितेरभावादुपलब्धेरक्षणिकत्वेऽपि स्वयमेवाविनाशादवस्थानात्। तथाहि-उपलब्धेरविनाश एव स्थितिरुच्यते न पाताभावः तस्या गुरुत्वाभावात् “संयोगाभावेन गुरुत्वात् पतनम्” इति च परेषां कृतान्तः। समवायादाश्रय इति चेत्; ननु सोऽपि आधार्याधारभूतानामेवेष्यते। न चापतनधर्म्मिकाया उपलब्धेराधारेण किंचित्, समवायाच्चाश्रयत्वेऽन्यस्यापि तभ्दावप्रसङ्गः, तस्य सर्व्वात्मसु समानत्वात्, एकत्वेनास्योपगमात्। क्रमयौगपद्याभ्यामर्थक्रियाविरोधाच्च नास्यात्मनः सत्त्वम्, ततोऽस्य कुतो जनकत्वम् ? आश्रयत्वं वा ? इत्यलं क्षुण्णक्षोदीकरणेनेति।

एवमुपलब्धिमादर्श्यानुपलब्धिमादर्शयन्नाह-“ तस्मादुपलब्धिज्ञानादन्या” वस्त्वन्तरविषया “उपलब्धिः” ज्ञानात्मिका “अनुपलब्धिः”। कथं पुनरुपलब्धिरेवानुपलब्धिरुच्यते ? इत्याह- “विवक्षिते”त्यादि। यथा भक्ष्याभक्ष्यप्रकरणे विवक्षिताद् भक्ष्यादन्यत्वाद् ‘अभक्ष्यो ग्राम्यकुक्कुटः’ भक्ष्योऽपि सन् तदन्यस्य-उच्यते। यथा च स्पर्शनीयास्पर्शनीयाधिकारे विवक्षितात् स्पर्शनीयादन्यत्वाद् ‘अस्पर्शनीयश्चाण्डालादिः’-तदन्यस्य स्पर्शनीयोऽपि सन्-उच्यते। तद्वदुपलभ्दिरेवानुपलब्धिर्म्मन्तव्या। नञः प्रतिषेधविषयत्वात् कथं भावविषयता ? इति चेत्, आह-“पर्युदासवृत्त्येति”। पर्युदासेन प्रतिषेध्यस्यार्थस्य र्वजनेन या विशिष्टेऽर्थे वृत्तिस्तया , नञः आगृहीतप्रतिषेधस्य भावविषयता। यत्र विधेः प्राधान्यं प्रतिषेधोऽर्थगृहीतः विधिभाक्‌स्वपदेन नोच्यते एकवाक्यता च तत्र पर्युदासवृत्तिता। विधेश्च प्राधान्यं ‘विवक्षितोपलब्धेरन्योपलब्धिर्भवति’ इत्येवं वाक्येनान्योपलब्धेर्व्विधानात् अन्योपलब्धिसामर्थ्यादेव विवक्षितोपलब्धेः प्रतिषेधः प्रतीयते। विवक्षितोपलब्धेरनिवर्त्तने तदपेक्षयाऽन्यस्या विधानायोगात् स्वपदेन नञा विधिभाङ् नोच्यते। किं तर्हि ?। अन्यशब्देन पर्युदासाश्रये-णाऽन्यशब्दस्यैव वाक्ये प्रयोगात् अन्या उपलब्धिरनुपलब्धिरिति। नञश्च सुबन्तेन सामर्थ्यं न तिङन्तेन इत्येकवाक्यत्वं ‘न उपलब्धिरनुपलब्धिः’ इति। प्रसज्यप्रतिषेधः पुनरेतद्विपरीतो मन्तव्यः। तत्र हि प्रतिषेधस्य प्राधान्यं विधिरर्थाद् गम्यते वाक्यभेदः स्वपदेन नञा प्रतिषेधभाक् सम्बध्यते।

तदेवं ज्ञातृधर्म्मलक्षणामनुपलब्धिं व्याख्याय ज्ञेयधर्म्मलक्षणां प्रतिपादयन्नाह-“उपलभ्यमानधर्म्मत्वे” इत्यादि। यदा कर्म्मस्थक्रियापेक्षयोपलभ्यमानस्य वस्तुनो धर्म्म उपलब्धिर्व्विवक्ष्यते तदा विषयस्वभाव उपलब्धिर्मन्तव्या। कीदृशो विषयस्वभावः ? इत्याह- “स्वविषये”त्यादि। प्रतिषेध्यस्य घटादेर्यदात्मविषयं विज्ञानं तज्जनने या योग्यत तल्लक्षणो विषयस्वभाव उपलब्धिशब्देनोच्यते। यदि विषयस्वभाव उपलब्धिः, कथं योग्यतालक्षणः ?। तथा हि योग्यता धर्म्मः, धर्म्मधर्म्मिणोश्च भेद एव इत्यत आह- “योग्यतायाः” इत्यादि। योग्यता हि परमार्थतो भावरूपैव न वस्तुरूपाद भिद्यते, अन्यथा भावो योग्य एव न स्यात्। योग्यताऽस्येति च सम्बन्धाभावतो न स्यात्। सम्बन्धकल्पनायामनवस्थेत्युक्तप्रायम्।

तदेवमुपलभेर्व्विषयधर्म्मतां प्रतिपाद्यानुपलब्धेरपि प्रतिपादयन्नाह-“तस्मादन्यः” इत्यादि। “तस्मात्” प्रतिषेध्याद् घटादेः स्वविषयज्ञानजननयोग्याद् योऽन्य उपलम्भजननयोग्य एव न तद्विपरीतः स्वभावो घटविविक्तप्रदेशरूपः स एव चात्रानुपलब्धिशब्देनोच्यते। प्राक्तनमेव न्यायमत्रादिशन्नाह- “पूर्व्ववदिति।” विवक्षितोपलब्धेरन्यत्वादभक्ष्यास्पर्शनीयवत् पर्युदासवृत्येति। कथं पुनरयं नञ अन्यार्थवृत्तिः सामान्यशब्दः सन् घटविविक्तप्रदेशस्य तज्ज्ञानस्यैव वा घटविविक्तस्यानुपलब्धित्वं पर्युदासवृत्त्या प्रकल्पयति, न पुनरविशेषेण सर्व्वेषामेवान्यशब्दवाच्यानाम् ? इत्यत आह- “यत्र यस्मिन्” इत्यादि। “यत्र” देशे कालेऽवस्थायां वाऽव्यवधानादिलक्षणायाम्, “यस्मिन्” प्रदेशरूपादौ “उपलभ्यमाने नियमेन” अवश्यंतया “यस्यान्यस्य” पदार्थस्य घटरूपादेरुपलब्धिर्भवति “स” घटरूपादिः पदार्थः “तत्संसृष्टः” तेन प्रदेशरूपादिना संसृष्टः। कथमेकस्मिन्नुपलभ्यमाने परस्यापि नियमोपलब्धिः ? इति चेत्, योग्यताया अविशेषात्। प्रदेशघटयोर्हि स्वविषयविज्ञानजनने योग्यता तुल्या। यदा हि प्रदेशरूपं व्यवधानविप्रकर्षादिरहितं विज्ञाने स्वाकारं समर्प्पयति तदा घटरूपमपि तत्र तथाविधं स्वाकारं समर्प्पयत्येव। यदि नाम योग्यता तस्य तेन तुल्या स्वस्वभावव्यवस्थितेस्तु कथं तत्संसृष्टता ? इत्यत आह- “एकज्ञानसंसर्ग्गादि”ति। एकत्र हि ज्ञाने द्वावपि तौ स्वाकारद्वारेण संसृष्टौ न साक्षात्, तद्विज्ञानं पदार्थद्वयाकारमाजायमानं तयोरात्मनि संसर्ग्गं दर्शयति। किमिति पुनस्तत् ज्ञानं पदार्थद्वयाकारमवश्यं भवति यतस्तयोर्ज्ञानद्वारकः संसर्ग्गः ? इत्यत आह- “तयोः सतोः” इत्यादि। यावेतौ तुल्ययोग्यतारूपौ तौ यदि सन्तौ भवतस्तदा नैवैकाकारनियता प्रतिपत्तिर्भवति। कस्मात् ? असम्भवात्। न ह्येष सम्भवोऽस्ति-यत्तुल्ययोग्यतारूपयोरेक एव प्रतिभासेत नापर इति। तथाहि-अविशिष्टत्वाद् योग्यतायाः कस्तत्र स्वाकारं न समर्प्पयेत् ?। अनुभवसिद्धं च युगपदनेकप्रतिभासनम्। न चानुभवविरुद्धमाचक्षाणा विदुषामवधेयवचसो भवन्ति। लधुवृत्तित्वाद् यौगपद्याभिमान इति चेत्; न, बाधकप्रत्ययविरहेण भ्रान्तिकल्पनानुपपत्तेः, सर्व्वत्र तथाभावाप्रसङ्गात्। करणधर्म्म एवायं यदेकस्मिन्नेव कर्मणि क्रियां निष्पादयतिनानेकत्र, करणं चेन्द्रियं ततो नानेकप्रतिपत्तिहेतुरिति चेत्, कथं प्रदीपादिरनेकत्र बहूनां प्रतिपत्तिजनकः ?। कर्तृभेदाददोष इति चेत्; कर्त्रेकत्वात् तर्हि क्रियैकत्र कर्म्मणीति कथं ‘करणधर्म्मः’ इत्यादि वचो न प्लवते ?। न च प्रतिक्षणविशरारुषु भावेषु परमार्थतः कर्तृकरणादिभावो युक्तः क्रिया वा काचित्। न च सर्व्वकारकान्वयव्यतिरेकानुविधायिनि कार्ये कस्यचिदतिशयोऽस्ति येनायं कर्त्ता का(क)रणं चेदमित्यादि परिकल्प्येत। तस्मादविशिष्टयोग्यतयोः कुत एकरूपनियतायाः प्रतिपत्तेः सम्भवः ? इति सिद्ध एकज्ञानसंसर्ग्गः। तुल्ययोग्यतारूपत्वस्य चैतदेव लिङ्गम्। न ह्यसति तुल्ययोग्यतारूपत्वे युगपदेकेन्द्रियजनितज्ञानप्रतिभासिता रूपरसवत् सम्भवतीति।

तत्र येषां सौगतानामिदं दर्शनं ‘एकायतनसङ्गृहीतेऽनेकत्राप्येकमेवेन्द्रियज्ञानमाजायते’ इति तेषां मुख्य एवैकज्ञानसंसर्ग्गः। ये तु ‘तत्रापि प्रत्यर्थं भिन्नान्येवैकेन्द्रियनिमित्तान्येककालानि तद्विषयाणां युगपत्सन्निहितानां स्वज्ञानेषु सामर्थ्याविशेषात्, अत एवैकतया लोकेऽध्यवसीयमानानि ज्ञानान्युपजायन्ते’ इति वर्ण्णयन्ति तेषामेकेन्द्रियजत्वेनैकायतनविषयत्वेन चैककालेष्वेकत्वव्यपदेशो लोके तथाध्यवसायादौपचारिकः।

यदि नामैकज्ञानसंसर्ग्गात् तत्संसृष्टस्तथापि सामान्येन सर्व्वमन्यमयं नञ् किन्न प्रतिपदयति ? इति, अत आह- “तस्मात्” इत्यादि। यस्मादविशिष्टत्वाद्योग्यताया यथोक्तेन प्रकारेणैकत्र ज्ञाने द्वयोरपि संसर्ग्गः तस्मादविशिष्टं योग्यतारूपं ययोः तत एवैकज्ञानसंसर्ग्गिणौ तौ तस्मात् तयोरेवंरूपयोः “परस्परापेक्षमेव” न सर्व्वान्यपदार्थापेक्षम् “अन्यत्वमिह” अनुपलब्ध्यधिकारे “अभिप्रेतम्”। लोके तु यद्यप्यशेषपदार्थान्तरापेक्षमन्यत्वं नञा क्वचिदुच्यते व्याप्तिन्यायसमाश्रयात्, तथापि तदिह न गृह्यते, “प्रत्यासत्तेराश्रयणात्” एकज्ञानसंसर्ग्गलक्षणा प्रत्त्यासत्तिराश्रीयते नाऽन्या, प्रमाणचिन्ताधिकारात् अन्यथाऽनुपलब्धिरनैकान्तिक्येव स्यात्। तस्मात् तत्त्वचिन्तकैस्तथाविधमन्यत्वमाश्रयणीयम् यदनुपलब्धेरव्यभिचारनिबन्धनम्। तच्च यथोक्तमेवेत्यभिप्रायः।

तदेवमेकज्ञानसंसर्ग्गापेक्षयाऽन्यत्वं प्रतिपाद्यानुपलब्धिं दर्शयन्नाह- “स केवलः” इत्यादि। स एव यदा केवलः प्रदेशो यथोक्तघटापेक्षय तस्मादन्य उच्यते तदा घटविविक्तप्रदेशज्ञानं वाऽनुपलब्धिः, न तु यथेस्वरसेनो मन्यते उपलब्ध्यभावमात्रमनुपलब्धिरिति, वक्ष्यमाणदोषात्; घटविविक्तप्रदेशस्वभावो वा, न तु तद्विविक्तज्ञानमेव यथाह कुमारिलः “विज्ञानं वान्यवस्तुनि” इति। यथा ह्यन्यवस्तुविषयं ज्ञनमनुभूयमानं प्रतियोगिस्मरणापेक्षं तदभावव्यवहारनिबन्धनं तथा तद्विविक्तः प्रदेशोऽपि। तथाहि-कस्यचित् प्रतिपत्तुः ‘यतः केलप्रदेशाकारमेव ज्ञानं मया संवेद्यते न तु घटाकारमपि तस्मादत्र घटो नास्ति’ इति एवं नास्तिताज्ञानमुत्पद्यते; कस्यचित् तु ‘यतः केवलः प्रदेशोऽयं दृश्यते न तु घटसहितः तस्मान्नास्त्यत्र घटः’ इत्येवम्। तस्मादुभयोर्न्नास्तिताज्ञानजन्मनि तुल्यं सामर्थ्यमिति द्वयोरपि अनुपलब्धिव्यवस्था युक्तेति। तत्र यदा तज्ज्ञानं तदा ज्ञातृधर्म्मलक्षणाऽनुपलब्धिः कर्तृस्थक्रियाऽपेक्षया, यदा तत्स्वभावस्तदा ज्ञेयधर्म्मलक्षणा कर्म्मस्थक्रियापेक्षयेति।

एवमनुपलब्धिं पर्युदासवृत्त्या व्यवस्थाप्य साध्यमस्या दर्शयन्नाह- “सा अभावम्” इत्यादि। सर्व्वान्योपलब्धिलक्षणप्राप्तविविक्तेऽपि प्रदेशादौ दृश्यमाने यत्र घटादौ प्रतियोगिन्यर्थित्वादिभिः स्मृतिरस्य भवति तस्याभावं साधयति, अभावव्यवहारं वा। कारणव्यापकानुपलब्धी अभावमभावव्यवहारं च साधयतः। स्वभावानुपलब्धिस्तु अभाव्यवहारमेव। अभावव्यवहारश्च ज्ञानाभिधानप्रवृत्तिलक्षणः। तत्र ‘नास्त्यत्र घटः’ इत्येवमाकारं ज्ञानम्, एवंविधवस्त्वभिधायकं चाभिधानं, निःशङ्कस्य च तत्र प्रदेशे गमनागमनलक्षणा प्रवृत्तिरिति।

अत्रेश्वरसेन-कुमारिलयोर्व्वचनावकाशमाशङ्कय सिद्धान्तव्यवस्थामेव कुर्व्वता तन्मते निरस्तेऽप्याहत्य तन्मतनिरासार्थमाह- “कथमन्यभाव” इत्यादि। ईश्वरसेनो हि मन्यते-कार्य-स्वभावहेतुभ्यां भावरूपाभ्यां अनुपलब्धेः पृथक्करणादवश्यमभावरूपत्वमस्याः, अन्यथा पृथक्करणमनर्थकमेव स्यात्। त्वया चान्यस्य प्रतिषेध्यविविक्तस्य प्रदेशादेस्तज्ज्ञानस्य वा भावरूपानुपलब्धिराख्यायते तन्नूनमन्यभावस्तदभावो येनैवमभिधीयते। न चैतद् युज्यते, भावाभावयोर्व्विरोधादेकात्मतानुपपत्तेरिति।

कुमारिलोऽप्येवं मन्यते-येयं ज्ञातृ-ज्ञेयधर्म्मलक्षणा द्विधाऽनुपलब्धिरभावरूपा त्वयोच्यते तस्या भवतु नास्तिताज्ञानं प्रति साधनभावः। किन्तु स एवान्यस्य प्रतिषेध्यविविक्तस्य वस्तुनः प्रतिषेध्यज्ञानादन्यस्य वा तज्ज्ञानस्य यो भावो भावांशः स कथमभावः ? प्रतिषेधस्य तज्ज्ञानस्य वा कथमभावांशः ?। नैव युज्यते, धर्म्मरूपतया भावाभावांशयोर्भेदात्। सत्यपि धर्म्मिरूपेणाभेदे तयोश्चोभ्दवाभिभवाभ्यां ग्रहणाग्रहणव्यवस्थेति। यदाह-

“धर्म्मयोर्भेद इष्टो हि धर्म्म्यभेदेऽपि नः स्थिते।
उभ्दवाभिभवात्मत्वाद् ग्रहणं चावतिष्ठते॥” इति।
उक्तोत्तरतामस्य दर्शयन्नाह- “उक्तमुत्तरमत्र”चोद्ये यथा “पर्युदासवृत्त्या अपेक्षातः”। ‘प्रतिषेध्यं तज्ज्ञानं वा अपेक्ष्य तद्विविक्तोऽर्थस्तज्ज्ञानं वाऽभावोऽनुपलब्धिश्चोच्यते’ इति ईश्वरसेनस्य प्रतिवचनम्। न हि प्रसज्यप्रतिषेध एवैको नञर्थः किन्तु पर्युदासोऽपि। ततोऽन्यभावस्याभावरूपता न विरुध्यते, प्रसज्यप्रतिषेधरूपताऽप्यन्यभावस्य यथा तथोत्तरत्र वक्ष्यते। स्वभावहेतोस्त्वनुलब्धेः पृथक्करणं प्रतिपत्रभिप्रायवशात्। प्रतिपत्ता हि स्वभावहेतौ वस्तुप्रतिपत्त्यध्यवसायी। अनुपलब्धौ त्वभावप्रतिपत्त्यध्यवसायी। परमार्थतस्तु प्रतिषेध्याभावव्यवहारयोग्यता पलब्धित्वेन भवतोऽभिमतः स्वयं स्वरूपेण प्रमाणेनेन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण च सिद्धः संस्तस्य प्रतिषेध्यस्याभावव्यवहारं ज्ञानाभिधानप्रवृत्तिलक्षणं साधयेत् “तत्सिद्धिसिद्धो” वा तस्यान्यभावलक्षणस्याभावस्य यथोक्तस्य सिद्ध्या सिद्धो वा तदभावस्तस्य प्रतिषेध्यस्य तज्ज्ञानस्य वाऽभाव इति एवमपीष्यमाणे “न कश्चिद् विशेषः” त्वदभिमतानुपलब्धितोऽस्मदभिमतानुपलब्धेः ततोऽस्मद्दर्शनं किमिति प्रतिक्षिप्यते ?। नन्वस्त्येवैवमिष्यमाणे विशेषोऽन्यभावलक्षणानुपलब्धिरितरया व्यवहिता तदभावव्यवहारं साधयेदितरा तु साक्षादित्याह-स विशेषो नास्ति येन विशेषेणानुपलब्ध्याऽभावरूपया वस्तुसंस्पर्शरहितयाऽस्मदभिमतयाऽभावव्यवहारसिद्धेः विरोधः स्यात्। अन्यस्य तु विशेषस्य सतोऽप्यबाधकत्वादसत्समत्वमेव। यदप्युक्तं-‘तस्य साधनाभावादभावव्यवहारासिद्धिप्रसङ्गः’ इति, तदप्यसत्, यतः स एव त्वदभिमतोऽन्यभावः प्रतिषेध्यविविक्तभूतलात्मकस्तद्विषया चोपलब्धिरनुपलब्धित्वेनेष्टा भवतस्तदभावस्यानुपलब्धित्वेनास्मन्मतस्य प्रतिषेध्याभावस्य तदुपलब्ध्यभावस्य च “किं” कस्मात् “न साधनं” लिङ्गम् “इष्यते ?”। तथा हि सति लोकप्रतीतिरनुसृता भवति। “किं पुनः” कस्मात् पुनः “अभावस्य” द्विविधस्य “सिद्धिरेव तदभावसिद्धिः” न तत्साध्या काचिदन्या विद्यत इत्यस्मन्मतनिषेधार्थं लोकातिक्रान्तमिष्यत इति पूर्व्वपक्षः।

अत्राह-“अपृथक्सिद्धेरन्यभावात्” तदभावस्य पृथक्सिद्धेरभावात् कुतो लिङ्गलिङ्गिता। तथा “सम्बन्धाभावाच्चा” अन्यभावतदभाव योर्न्न लिङ्गलिङ्गितेति। प्रथमं तावत् कारणं विवृण्वन्नाह- “अन्यभावस्तद्विविक्तदेशात्मकस्तावन्न साधनं” लिङ्गं प्रतिषेध्याभावस्य, ‘तदुपलब्धिरपि तदभावस्य न साधनम्’ इति पश्चाद् वक्ष्यते। तदर्थमेव तावच्छब्दः। कस्मादन्यभावो न साधनम् ? इत्याह- “यत्सिद्धौ” यस्य वस्तुनः सिद्धौ प्रतीतौ “यस्य” अपरस्य वस्तुनो “न सिद्धि”र्न्न प्रतीतिः तद्वस्तु तस्य वस्तुनो लिङ्गं भवतीत्ययं लिङ्गलिङ्गिनोर्न्यायः। तत्रोदाहरणम्-“धूमाग्निवदिति”। यथा-यदा धूमप्रतीतौ नाग्निः प्रतीयते तदा तयोर्ल्लिङ्गलिङ्गिभावो भवति, न तु धूमप्रतीतिकाल एव प्रतीयमानेऽग्नौ। यदि नामैवं ततः किम् ? इत्यत आह-“अन्यस्य वस्तुनो यो भावः” स्वभाव “तत्सिद्ध्यैव” तत्प्रतीत्येव “तदभावः” तस्य प्रतिषेध्यस्याभावः “प्रसिध्यति” प्रतीयते‍अन्यभावस्यैव तदभावात्मकत्वात् तत्सिद्धेरेव तत्सिद्धिलक्षणत्वात्।

नैयायिकास्तु मन्यन्ते-प्रतिषेध्याभावो हि प्रसज्यप्रतिषेधात्मकस्तुच्छरूपस्तस्य कथं तदन्यभावरूपता ?, भावाभावयोर्व्विरोधात्। ततः कथं तदन्यभावसिद्ध्यैव तदभावसिद्धिः स्यात् ? इत्यत आह- “तस्य” तदन्यभावस्य प्रदेशलक्षणस्य तस्मादन्येन प्रतिषेध्येन घटादिना “असंसृष्टरूपस्य” रहितात्मनः केवलस्य प्रतिषेध्येन शून्यात्मनः। अनेन केवलप्रदेशस्यापि प्रसज्यप्रतिषेधात्मकतामाह। कथं भावस्य तुच्छरूपता स्वभावः, विरोधात् ? इति चेत्; न, पररूपेण तस्यापि तुच्छरूपत्वात्। यथा ह्यनपेक्षितभावान्तरसंसर्गः प्रसज्यप्रतिषेधः शून्यविकल्पप्रतिभासी प्रतिषेध्येन तुच्छरूपः तद्रूपविरहात्, तथा तदन्यभावोऽपि प्रतिषेध्यासंसृष्टरूपः। ततः कथमस्य प्रतिषेध्येन तुच्छरूपता विरुध्येत ?। स्वरूपेण ह्ययमतुच्छरूपः स्यान्न पररूपेण, अन्यथा कथमस्यान्यभावत्वं परस्य वा तत्राभावः स्यात् ?। यो हि यदभावरूपो न भवति स एवासौ भवति, तत्स्वरूपवत्। ततः सर्व्वस्य जगतः परस्परात्मताप्रसङ्गः। तस्मात् सर्व्वभावाः पररूपेण निःस्वभावाः स्वरूपेण रूपवत्त्वेऽपी त्यनवद्यम्।

कस्तर्हि प्रसज्यप्रतिषेधत्पर्युदासस्य भेदः ?। न कश्चित्, केवलमनपेक्षितरूपान्तरमभावमात्रं प्रसज्यप्रतिषेध इति लोके कथ्यते। रूपान्तरं तु पररूपशन्यं पर्युदास इति। न तु रूपान्तरं पररूपतुच्छात्मकं न भवति। अनुभूयत एव च रूपान्तरं तद्रूपशून्यतया, कथं तस्य प्रसज्यप्रतिषेधात्मता न स्यात् पररूपेण ?। सामर्थ्यात् ततस्तत्प्रतीतिरिति चेत्; न, अकारणप्रतीतौ सामर्थ्यासम्भवात्। तादात्म्याभावे हि प्रसज्यप्रतिषेधस्य पर्युदस्तात् प्रतीतौ तत्कारणत्वे सति स्यात् प्रतिपत्तिः नान्यथा। तस्य तदन्यासंसृष्टरूपस्य यत् तत्त्वं तस्य प्रतिषेध्यतुच्छरूपताया व्यवस्थापकं प्रमाणं प्रत्यक्षरूपम् तत एव-न तदुत्तरकालभाविनो ‘नास्तीह घटः’ इति विकल्पात्, तस्य गृहीतग्राहितया स्मृतित्वेनाप्रमाणत्वात्-अन्यस्य घटादेस्तत्रासतो व्यवच्छेदस्याभावस्य सिद्धेस्तदभावात्मकस्यैव प्रदेशस्य तेन ग्रहणात्। द्विविधो ह्ययं प्रदेशो घटासंसृष्टरूप्सस्तव्द्यावृत्तरूपतया ततोऽन्यो घटवानपि, केवलश्च घटं प्रति अप्रतिपन्नाधारभावः। तस्य तद्विवेकेन प्रत्यक्षेण ग्रहणे घटादन्यत्वं घटविरहश्च गृहीत एव भवतीति न वस्त्वसंकरसिद्ध्यर्थम्, ‘इहेदं नास्ति’ इत्येवमर्थं च प्रमाणान्तरमन्वेषणीयम्। विस्तरतश्चैतदुत्तरत्र वक्ष्यत इति आस्तां तावत्। यतश्चान्यभावसिद्ध्यैव तदभाव उक्तेन न्यायेन सिद्ध्यति ततो नान्यभावः प्रतिषेध्याभावस्य लिङ्गम्।

द्वितीयं कारणं व्याचक्षाण आह- “सम्बन्धाभावाच्च” इति। अन्यभावतदभावयोर्न कश्चित् सम्बन्धोऽस्ति, ततः कुतो लिङ्गलिङ्गिभावः ? इति। एतच्च कदोच्यते ?। यदा तदभावरूपताऽन्यभावस्य परानभ्युपगताऽपेक्ष्यते। तदन्यभावात् पृथगेव तदभावस्तुच्छरूप इष्यते परैः। अन्यथोक्तेन न्यायेनान्यभावस्यैव तदभावरूपत्वे तादात्म्यात् कथं सम्बन्धाभावः ?। प्रत्यक्षसिद्धता च तदैव, न पक्षान्तरेण अभिहिता। “तच्च तस्य” इत्याद्यस्यैव विवरणं व्यतिरेकमुखेन “एकार्थसमवाय” इति परदर्शनेनोक्तं। परेषां हि नैयायिकादीनां व्यतिरिक्तावेव कृतकानित्यत्वाख्यौ धर्म्मावेकस्मिन्नेव धर्म्मिणि समवेताविति कृतकस्यानित्यत्वेनैकस्मिन्नर्थे धर्म्मिणि समवायः सम्बन्धः धमस्य वेति सम्बन्ध एवोदाहरणान्तरम्। अत्रैकर्थसमवाय इति संयोगः स एव समवायशब्देनोक्तः। संयोगसमवाययोः कल्पितत्वाद् भेदेन व्यपदेशेऽनादरात्। परेषां त्वग्निधूमौ स्वावयवेष्वेव समवेताविति न तयोरेकार्थसमवाय आधाराधेयभावो वेति धूमस्याग्नेरुपरि दर्शनाल्लौकिकः सम्बन्ध उक्तः। “जन्यजनकभावो वा” इति पारमार्थिकः सम्बन्धोऽभिहितः, परमार्थतोऽग्नेर्जनकत्वात् इतरस्य च जन्यत्वादिति।

ननु चेश्वरसेनेन सह विचारः प्रक्रान्तः तत् किमिति नैयायिकाभिमस्यापि सम्बन्धस्यान्यभावतदभावयोरभाव उच्यते। सत्यम्, प्रसङ्गेन तु तन्मतस्यापि निषेधार्थमुक्तम्। पूर्व्वं ह्यन्यभावग्राहिप्रत्यक्षसिद्धत्वात् प्रतिषेध्याभावस्य न तदर्थं प्रत्यक्षान्तरं ‘नास्तीह घटः’ इत्येवमाकारं कल्पनीयमिति प्रसङ्गतः कथितम्। अधुना तु प्रसङ्गादिदमुच्यते-यदान्यभावग्राहिप्रत्यक्षसिद्धोऽयं तदभावो न भवति तदा प्रत्यक्षान्तरं ‘नास्ति इह घटः’ इत्येवमाकारं विशेषणविशेष्यभावलक्षणात् सन्निकर्षादिष्टं भवता। न चासति सम्बन्धेऽन्यभावतदभावयोर्व्विशेषणविशेष्यभावो युक्तः, अतिप्रसङ्गात्। ततः कुतस्तल्लक्षणात् सन्निकर्षात् तदभावे प्रत्यक्षं भवेदिति।

एवं सम्बन्धस्वरूपमाख्याय तस्येहासम्भवमाह- “नैवम्” यथा कृतकत्वानित्यत्वयोरग्निधूमयोर्व्वैकार्थसमवायादिलक्षणः सम्बन्धो नैवं कश्चिद् भावाभावयोः सम्बन्धो येन “अस्य” तदभावस्यान्यभावः साधनं स्यात्। यावेकत्रार्थे धर्म्मिरूपे प्रवर्त्तेते तयोरेकार्थसमवायो भवति। अन्यभावश्च प्रदेशाख्यः स्वावयवेषु येषु वर्त्तते न तत्र घटाभावः। एवं हि प्रदेशावयवेषु घटो नास्तीति स्यात् न प्रदेशे। न चास्य प्रदेशावयवैरारम्भः। ते हि द्रव्यात्मानो द्रव्यान्तरमेवारभन्ते। न च घटाभावो द्रव्यम्। नवैव हि द्रव्याणीष्यन्ते। न च क्रियावदादिकं द्रव्यलक्षणं तत्रास्ति। न च गुणरूपतया तत्र वर्त्तते। चतुर्व्विशतिरेव हि गुणा इष्यन्ते। न चायं तेषामन्यतमः। नापि कर्म्मरूपतयपञ्चसु कर्म्मस्वनन्तर्भावात् तल्लक्षणविरहाच्च। “एकद्रव्यम्” इत्यादिकं हि तल्लक्षणम्। न चैतदभावे सम्भवतीति। नापि सामान्यादिरूपतया, तद्रुपविरहादेव। नाप्यन्यभावतदभावयोः संयोगोऽग्निधूमयोरिव, द्रव्ययोरेव तदभ्युपगमात्। न च तदभावो द्रव्यमित्युक्तम्। नाप्याधार(रा)धेयभावो, यतः सोऽपि संयोगनिमित्त उच्यते ‘इह कुण्डे बदराणि’ इति। समवायनिमित्तो वा, ‘इह तन्तुषु पटः’ इति। न चाभावस्याद्रव्यात्मनः संयोगः समस्ति। नापि समवायः, पञ्चानामेव हि द्रव्यादीनां पदार्थानां समवायित्वमिष्यते; न चाभावः पञ्चस्वन्तर्भवतीति। न च तदात्मानुपकारे सत्याधारव्यपदेशः सम्भवति। उपकारे वा जन्यजनकभवः। न च तदभावो जन्यः, कार्यताप्रसङ्गात्। कार्यता चास्यासम्भविनी, यतः स्वकारणसमवायः, सत्तासमवायो वा कार्यतोच्यते भवभ्दिः। अन्यभावस्तु प्रदेशाख्योऽस्य न कारणम्, त्रयाणामेव हि द्रव्यगुणकर्म्मणां द्रव्यं कारणमिष्टम्। न चाभावो द्रव्यादिलक्षणः इति। सत्तासमवायेऽपि सत्प्रत्ययविषयता तदभावस्य स्यात्, नाभावप्रत्ययविषयता। प्रदेशाभावेऽपि च घटाभावसम्भवात् कुतस्तत्कार्यता। न चास्य प्रतिविषयं भेदः, एकाकारज्ञानविषयत्वात्। सम्बन्धिभेदाद् भेदे वा सामान्यादिष्वपि तत्प्रसङ्गः। समवायोप्यस्यानन्तरमेव निरस्त इति कुतः स्वकारणसत्तासमवायरूपा कार्यता तदभावस्य स्यात् ?। एतेन जन्यजनकभावः प्रयुक्तः। ततः सर्व्वथा सम्बन्धाभावान्नान्यभावः तदभावस्य साधनमिति।

परः सम्बन्धान्तरं दर्शयन्नाह- “अस्ति विषये”त्यादि। यथा हि अर्थो विषयः शब्दो विषयीति तयोर्व्विषयविषयिभावः सम्बन्धः, एवमन्यभावतदभावयोर्विषयविषयिभावः सम्बन्धो भविष्यति। प्रदेशाख्येनान्यभावेन घटाभावस्य प्रत्यायनादिति पूर्व्वपक्षाशङ्का। शब्दार्थयोः सम्बन्धः स्यादित्यभिसम्बन्धः। किं रूपः ?। “कार्यकारणलक्षणः”। कथं पुनरर्थकार्यता शब्दस्य ?। तत्प्रतिपादनाभिप्राये सति अर्थप्रतिपादनविवक्षायां सत्यां तत्प्रयोगाच्छब्दोच्चारणात्। तेनार्थेन विवक्षाविपरिवर्त्तिना शब्दस्य कार्यकारणलक्षणः सम्बन्धः स्यात्। यद्यपि च शब्दार्थयोः बुद्धिपरिकल्पितसामान्यरूपता तथाप्यर्थप्रतिभासिन्या विवक्षया शब्दसामान्योत्प्रेक्षानिबन्धनस्य शब्दस्वलक्षणस्योत्थापनात् तन्मुखेन कार्यकारणभाव उच्यते। “अविनाभावलक्षणो वा” इति परप्रसिद्ध्योच्यते। परो ह्यविनाभावलक्षणः शब्दार्थयोः सम्बन्ध इति व्यवहरति। ततः सम्बन्धनिवन्धन प्रतिपाद्यप्रतिपादकरूपो विषयविषयिभावो युक्तः। तदभावान्यभावयोरप्येवं भविष्यतीति चेत्, आह- “अयं च” अनन्तरोक्तप्रकारः “अत्र” तदभावान्यभावयोः “न सम्भवति”। नहि घटाभावप्रतिपादनाभिप्राये सति अन्यभावस्य प्रदेशलक्षणस्य प्रयोगो निष्पत्तिर्भवति, घटाभावप्रतिपादनाभिप्रायात् प्रागपि प्रदेशस्य स्वहेतुभ्य एव निष्पत्तेः। सत्यपि तदभिप्रायेऽन्यभावस्याभावाच्च। ततश्च कथं तयोः कार्यकारणभावः ?, तद्वारकोऽविनाभावो वा स्यात् ? यतो विषयविषयिभावः कल्प्येत।

स्यान्मतम्-यथा शब्दार्थयोः साध्यसाधनभावनिमित्तो विषयविषयिभावः तथा अन्यभावतदभावयोरपि इत्येतावन्मात्रेण शब्दार्थयोर्दृष्टान्ततेत्यत आह-“सिद्धे हि” इत्यादि। शब्दार्थयोर्हि कार्यकारणभावनिबन्धनः साध्यसाधनभावः अन्यथाऽर्थान्तरत्वे तदयोगात् तथेहापि यदि तदभावान्यभावयोः साध्यसाधनभावः सिध्येत् तदा तन्मुखेन साध्यसाधनभावद्वारेण विषयविषयिभावः स्यात्। यावता स एव साध्यसाधनभावोऽसति सम्बन्धे कार्यकारणभावादिके न सिध्यति, सर्व्वस्य साध्यसाधनताप्रसक्तेः।

कथमिन्द्रियं स्वविषयसिद्धिनिबन्धनमिति चेत्; परस्परोपसर्प्पणाद्याश्रयात् प्रत्ययविशेषादिन्द्रियविषययोरेकविज्ञानोत्पादनयोरुदयात् तथा व्यपदेशः, नैवमिह, अन्यभावतदभावयोस्तदयोगात्। लिङ्गलिङ्गिभावलक्षणस्य च साध्यसाधनभावस्य प्रकृतत्वात्, तस्य च सम्बन्धमन्तरेणायोगात्।

नैव सम्बन्धान्तरनिबन्धनोऽन्यभावतदभावयोः साध्यसाधनभावोऽपि तु विषयविषयिभावनिमित्त एवेति चेत्; आह- “अन्यथा” यदि सम्बन्धान्तरं नेष्यते किन्तु विषयविषयिभावात् साध्यसाधनभावः तस्माच्च विषयविषयिभावः, तत इतरेतराश्रयमिदं स्यात्। तथा चैकासिद्धौ द्वयोरप्यसिद्धिर्भवेदिति। किञ्चान्यभावाच्च लिङ्गभूतादभावस्य लिङ्गिनः सिद्धावनुमिताविष्यमाणायां असमुदायश्च साध्यः स्यात्, अन्यभावेन तदभावस्य केवलस्यैव साधनात् न केवलसम्बन्धाभावात् साध्यसाधनभावायोगः। समुदायश्च विशेषणविशेष्यभावापन्नो धर्म्मधर्म्मिलक्षणः साध्यो य इष्टस्तदभावदोषश्चेति ‘च’ शब्दः।

सर्व्वत्र समुदायस्य साध्यता नैवेष्टेति चेत्, आह- “तथा च” धर्म्ममात्रस्यापि स्वतन्त्रस्य साध्यतोपगमे ‘घटाभावस्तदन्यभावात्’ इत्येवंरूपे प्रयोगे घटस्य सर्व्वत्र देशे सर्व्वदा चाभावः प्रसज्येत। धर्म्मिणि हि क्वचिद्धर्म्मस्य गुणभूतस्य साधने तत्रैव तत्काल एव च भावो युक्तो नान्यदेति सर्व्वत्र समुदाय एव साध्योऽभ्युपगन्तव्यः न केवलो धर्म्म इति।

अत्राह परः-नासमुदायस्य साध्यता अन्यभावतदभावयोरसम्बन्धो वा। कुतः ?। “प्रदेशादि” इत्यादि। ‘इह प्रदेशे घटो नास्ति’ इत्येवं घटाभावेन प्रदेशादिर्धर्म्मी विशेष्यते सघटात् प्रदेशादेर्भेदेनावस्थाप्यत इति तद्विशेषणत्वं प्राप्तसाध्यते न तु घटो नास्तीत्येवं “केवलो” धर्म्मिणः कस्यचिग्दुणभावमनापन्नः। ततो नासमुदायस्य साध्यतेति कुतस्तभ्दावी दोषः ?। “न च” नैवास्मिन्पक्षे “लिङ्गस्या” न्यभावात्मनो “लिङ्गिनश्च” प्रदेशादिधर्म्मिलक्षणस्य “असम्बन्धदोषः प्रसज्यते”। कुत ?। “अन्यभावस्य” घटविविक्तप्रदेशदिलक्षणस्य “प्रदेशादिना” धर्म्मिणा “सम्बन्धात्” तदात्म्यसभ्दावादिति। तथा हि-शब्दादिधर्म्मिणा कृतकत्वादेस्तादात्म्यलक्षण एव सम्बन्ध इष्यते भवता। स इहास्तीत्यभिप्रायः। ततश्च ‘सम्बन्धाभावाच्च’ इत्ययुक्तमिति मन्यते।

सिद्धान्तवादी तु साध्यधर्म्मलक्षणस्य लिङ्गिनो घटाभावाख्यस्यान्यभावेन लिङ्गेन सम्बन्धाभावः प्रागुक्तो न धर्म्मिणा ततः दमुत्तरं सांबध्यत इति मन्यमानो धर्म्मिणाऽप्यन्यभावाख्यस्य लिङ्गस्य सम्बन्धाभावं दर्शयन्नाह-“न” लिङ्गलिङ्गिनोरसम्बन्धो न चेति सम्बध्यते। तथा नासमुदायसाधनमिति। किन्तु लिङ्गलिङ्गिनोरसम्बन्ध एवासमुदायसाधनमेव च एवमपि ब्रुवतः। कुतः ?। प्रदेशादेरेव धर्म्मितयाऽवस्थाप्यमानस्यान्यभावत्वादन्यभावलक्षणलिङ्गत्वात्। एतदेव दर्शयति-यत्रैव हि प्रदेशादौ धर्म्मितया त्वया कल्प्यमाने यद् घटादिकं नासीत्युच्यते लोकेन स एव प्रदेशादिस्तेन घटादिनाऽसंसृष्टस्संसर्गरहितः “अन्यभावो” लिङ्गतयेष्टो नापरः कश्चित् यतः “तद्दर्शनादेव” घटासंसृष्टप्रदेशादिदर्शनादेवास्य प्रतिपत्तुः ‘घटो नास्ति’ इति विकल्पो लिङ्गिज्ञानतयोपगतो भवति। ततः स एवान्यभावः। यदेव हि दृश्यमानं लिङ्गिज्ञानं जनयति तदेव लिङ्गमुच्यते। घटासंसृष्टश्च प्रदेशादिरेवम्। तस्मात् तदेवान्यभावलक्षणं लिङ्गमुपेयम्। ततः कथं तस्यैवान्यभावस्य व्यावृत्तितोऽपि भेदमननुभवतो लिङ्गलिङ्गिभावो लिङ्गत्वं लिङ्गित्वं वा ?। नहि लिङ्गमेव धर्म्मी भवितुमर्हति, धर्म्मिप्रतिपत्तावेव साध्यप्रतिपत्तेरन्वयाद्यनुसरणायोगात्। ततश्चान्यस्य धर्म्मिणोऽभावात् कथमन्यभावात्मनो लिङ्गस्य तत्सम्बन्धः, समुदायसाध्यता वा ?। शब्दकृतकत्वयोस्तु परमार्थतस्तादात्म्येऽपि व्यावृत्तिभेदनिबन्धनोऽस्त्येव भेदः। ततः शब्दादिधर्म्मिप्रतिपत्तावप्यनित्यत्वाद्यप्रतीतौ कृतकत्वादिना तत् साध्यत इति युक्तम्।

स्यान्मतम्-सामान्यविशेषकल्पनया लिङ्गलिङ्गितैकस्यापि भविष्यतीत्यत आह- “न चात्र” प्रकृतेऽन्यभावे “सामान्यविशेषभावकल्पना सम्भवति”, येन सामान्यविशेषविकल्पेन सामान्यं हेतुर्भवेद् विशेषो धर्म्मी, यतः समुदायसाध्यता लिङ्गलिङ्गिनोः सम्बन्धो वा स्यात्। कुतो न सम्भवतीत्याह-तद्विशेषप्रतिपत्तेरेव” घटविविक्तप्रदेशविशेषप्रतिपत्तेरेव “तदभावस्य” घटाभावस्य प्रतीतेः। यतश्च विशेष एव घटाभावप्रतीतिनिबन्धनं ततः किं तत्र सामान्यकल्पनया क्रियत इति। स एव विशेषोऽन्यत्र वर्त्तमानः सामान्यरूपतां प्रतिपत्स्यत इति चेत्, आह- “तस्य” घटविविक्तप्रदेशविशेषस्य “अन्यत्र” सजातीये “अन्वयस्य” अनुवृत्तेरभावात् कुतः सामान्यात्मता ?। न ह्यसौ देशकालावस्थानियतो विशेषोऽन्यमन्वेतीति। अत्रैवोपचयहेतुमाह- “प्रतिज्ञार्थे”त्यादि। यदि हि घटविविक्त एव प्रदेशविशेषो धर्म्मी, तस्यैव च हेतुतेष्यते, तदा प्रतिज्ञाया योऽर्थो धर्म्मधर्म्मिसमुदायस्तदेकदेश एव धर्म्मिलक्षणो हेतुः स्यात्, प्रतिज्ञार्थैकदेशस्य च व्यावृत्तितोऽपि भेदमनु(न)नुभवतो हेतुत्वमसिद्धमिति। अथ मा भूत् एष दोष इति न घटविविक्त एव प्रदेशविशेषो हेतुरिष्यते, किन्तु प्रदेशमात्रं घटविविक्तताविशेषरहितमित्यत आह-“न च यत्र प्रदेशमात्रं तत्र घटाभावः”। सघटेऽपि प्रदेशे प्रदेशमात्रस्य भावादनैकान्तिको हेतुः स्यात्।

परोऽन्यथा सामान्यविशेषभावं दर्शयन्नाह- तादृशौ(शे) यादृशो घटविविक्तः केवलः प्रदेशोऽग्रतः स्थितस्तादृशे सर्व्वत्र प्रदेशे घटस्याभाव इति कुतोऽनेकान्तः ?। तथाविधप्रदेशविशेषप्रतीतिरेव घटाभावप्रतीतिस्ततोऽन्यभावतदभावयोः लिङ्गलिङ्गिताऽनुपपन्नेत्युपदर्शयन्नाह- “ननु तस्यैव” इत्यादि। योऽसौ केवलः प्रदेशविशेषो धर्म्मितयाऽवस्थापितस्तस्यैव यत् कैवल्यं केवल इत्यनेन विशेषणेनोच्यते भवता, त देव घटविरहो घटाभाव इति कथ्यते। स च घटविरहो लिङ्गभूतस्य केवलस्य प्रदेशस्य प्रतिपत्तावेव सिद्धो न तूत्तरकालं ततोऽन्य एव आकारान्तरेण धूमादिवाग्निः सिध्यति। ततः कस्येदानीं “तत्प्रतिपत्तावेव” साध्यप्रतीतौ सत्यां तल्लिङ्गम् ?। न कस्यचित्। जिज्ञासितस्य घटाभावस्य सिद्धेरन्यस्य कस्यचिदजिज्ञासितत्वात्। केवलप्रदेशप्रतिपत्तावेव घटविरहप्रतीतौ च यदेतदुत्तरकालं ‘यत्र यत्र केवलः प्रदेशस्तत्र तत्र घटविरहः’ इति “अन्वयस्यानुगमामनु( गमनम्” अनु)सरणम्, तच्च निरर्थकम् आदावेव साध्यप्रतीतेः। यत एवं तस्मादन्यभावः केवलप्रदेशलक्षणः साध्यसाधनयोर्भेदाभावान्न साधनमभावस्येति स्थितम्। तदेवं समुदायसाध्यतां लिङ्गस्य च धर्म्मिणासम्बन्धं प्रतिपादयितुं यदुक्तं परेण- ‘प्रदेशादिधर्म्मिविशेषणस्याभावस्य साधनात्’ इति तदपृथक्सिद्धिदूषणेनैव निराकृतम्।

विषयविषयिभावेन तु सम्बन्धप्रतिपादने निरस्ते परोऽन्यथा सम्बन्धं साध्यसाधनयोर्द्दर्शयन्नाह- “अस्त्य”न्यभावतदभावयोः सम्बन्धो विरोधाख्यः। ततः सम्बन्धसभ्दावादन्यभावादभावस्य सिद्धिर्भविष्यतीति। सिद्धान्तवादी तु साध्यसाधनयोर्व्विरोधमेवासम्भावयन् पृच्छति- “केन कस्य विरोधः” इति। न ह्यत्र साध्यसाधनयोर्व्विरोधः संभवतीत्यभिप्रायः। परो विरोधमभिप्रायनभिज्ञतया दर्शयति- “अन्यभावेन” केवलप्रदेशात्मना “प्रतियोगिनो” यस्याभावः प्रमातुमिष्टो घटादेस्तस्येति।

परस्यैवंवादिनो असम्बन्धाभिधायितामादर्शयन्नाह-“किं नु वै प्रतियोगी” घटादिः प्रमातुमिष्टो येन प्रतियोगिनः प्रमेयत्वेन लिङ्गलिङ्गिनोर्व्विरोधः सम्बन्धोऽभिधीयते ?। नैव प्रतियोगी प्रमातुमिष्टः किन्तु तदभाव इति चेत्, आह- “अभावस्तु” प्रतियोगिनो यः साध्य .........................................................................................

[कुमारिलस्तु मन्यते भवांशाभ्दिन्नोऽ]
यमभावांशस्ततो नान्यभाव एव तदभाव इति कथं तत्प्रतिपत्तिरेव तदभावप्रतिपत्तिरिति। तथा ह्ययमभावः प्रागभावादिभेदभिन्नः, न चावस्तुनो भेदः सम्भवति अतोऽयं वस्तुरूप एव। यदाह-

“न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता॥” इति।
न च भावांश एवाभावांशो युक्तः, तस्येन्द्रियसंयोगबलेन प्रतीतेः, इतरप्रतीतेश्च तदसंयोगहेतुकत्वात्। यदाह-

“तत्संयोगे सदित्येवं सद्रूपत्वं प्रतीयते।
नास्त्यत्रेदमितीत्थं तु तदसंयोगहेतुकम्॥” इति।
तत्कथं तत्प्रतिपत्तिरेवापरस्य व्यवच्छेदनमिति तन्निरासार्थमाह। “तस्या”न्यस्य प्रदेशस्य केवलस्य यत् तत् “कैवल्य” मेकाकिकत्वमसहायता तदेव “अपरस्य” प्रतियोगिनो घटादेः “वैकल्यम्” अभाव “इति” तस्मात् “तदन्यभाव एव” भावांश एव त्वदभिमतः “तदभावः” प्रतियोग्यभावांशो न ततः पृथग्भूतं धर्म्मान्तरमित्युच्यते सुगतसुतैः। ततश्च “तत्प्रतिपत्तिरेव च” तस्यान्यभावस्य प्रतिपत्तिरेव च “तदप्रतिपत्तिः” तस्य प्रतियोगिनोऽप्रतिपत्तिरभावप्रतिपत्तिरिति यावत्। एवं मन्यते-योऽयमभावांशो भावांशात् पृथग्भूतो वस्तुनो धर्म्मः परिकल्प्यते स घटाद्यभावात्मकतां तद्रूपवैकल्यादेवानुभवति नान्यथा। तच्च तद्रूपवैकल्यमन्यवस्तुनो भावांशस्यापि विद्यत एव। तदभावे हि तस्यान्यवस्तुतैव हीयेत। नहि यद् यद्रूपविकलं न भवति तत् ततोऽन्यत्वमनुभवति, यथा तस्यैव स्वरूपम्, तथा चाभावांशोऽपि तस्य न सिध्येत्, सर्व्वं च विश्वमेकं द्रव्यं प्रसज्येत, ततश्च सहोत्पत्त्यादिप्रसङ्गः, सर्व्वस्य च सर्व्वत्रोपयोगः स्यादित्यवश्यमन्यवस्तुनो भावरूपता तदन्याभावात्मिकैव। तथा च तत्प्रतिपत्तिरेव तदन्याभावप्रतिपत्तिः। तत्संयोग एव चेन्द्रियस्य तदन्याभावसंयोग इति किमुच्यते-

“नास्त्यत्रेदमितीत्थं तु तदसंयोगहेतुकम्।” इति ?।
विकल्पापेक्षयोक्तमिति चेत्, तदेतदबाधकमेव। प्रत्यक्षेण तदाकारोत्पत्त्या तदन्यभावात्मके एव वस्तुरूपे प्रतिपन्ने पाश्चात्यस्य यथागृहीताभिलापिनो विकल्पस्योपगमात्। विस्तरतश्चायमभावविचारः प्रमाणद्वित्वसिद्धावभावं प्रमेयं प्रमाणं च विचारयता विहित इति तत एवाववधार्य इति।

अवश्यं च तदन्यभावप्रतिपत्तिरेव तदभावप्रतिपत्तिः। ततो न वस्त्वसङ्करसिध्यर्थं, ‘नास्त्यत्रेदम्’ इत्यभावव्यवहारार्थं चाभावप्रमाणपरिकल्पना युक्तेति दर्शयन्नाह- “अन्यथा” यदि तत्प्रतिपत्तिरेव तदभावप्रतिपत्तिरिति नेष्यते तदा “तस्य” अन्यवस्तुनः स्वरूपपरिच्छेदेन ततोऽन्यस्यातद्रूपस्य “अव्यवच्छेदे” अनिराकरणे तदभावाप्रतिपत्तौ “तत्परिच्छेद एव न स्यात्”-तस्य तदन्यवस्तुनः स्वरूपप्रतिपत्तिरेव न स्यात्। किं कारणम् ? “तदतद्रूपयोः” तस्य तदन्यवस्तुनो यद्रूपं प्रतिनियतं सकलत्रैलोक्यविलक्षणं यच्चातद्रूपं तद्रूपं न भवति पररूपं तयोः “अविवेकाद्” अविवेचनाद् विवेकेनाव्यवस्थापनादसाङ्कर्येणाप्रसाधनात्। सकलपररूपासङ्किर्ण्णं हि तद्रूपम् तच्चेत् तत्सामर्थ्यभाविना प्रत्यक्षेण तथा नानुकृतं केवलं सम्मुग्धाकारमेव तदुत्पन्नं तदा कथन्तेन तत्परिच्छेदः स्यात् ?। न हि यद्रूपं यद्वस्तु तद्रूपाननुकारिणा ज्ञानेन तत्परिच्छेदो युक्तो यथा-शुकुशङ्खरूपाननुकारिणा कामलिनः पीतशङ्खावभासिना ज्ञानेनेति। प्रतिनियतरूपानुकारे वा तत्परिच्छेदस्य कथमन्याऽव्यवच्छेदो नाम ?। ततः प्रतिनियतरूपाननुकारादेव तदन्याव्यवच्छेदः। तथा च तत्परिच्छेदाभाव इति।

भवत्येवं ततः को दोषः ? इत्यत आह-“य एष व्यवहारः” सर्व्वजनप्रतितः “कस्यचिद्” अग्न्यादेर्व्वस्तुनो दर्शनात् “क्वचिद्देशे” तत्सम्बन्धिनि “प्राप्त्यर्थो” दृष्टस्यादृष्टस्य च “परिहारार्थः” प्रवृत्तिनिवृत्तिलक्षणः “स न स्यात्”। किं कारणम् ?। “न हि” यस्माद् “अयं” प्रतिपत्ता “अनलं पश्यन्नपि” सङ्कीर्ण्णतदद्रूपप्रतिभासिना प्रत्यक्षेण, अन्यथाऽस्य दर्शनरूपताहानेः, तथा हि-असङ्कीर्ण्णस्यादर्शने सङ्कीर्ण्णमपि यदि न पश्येत् तदा लोष्टादिप्रख्यं कथं कस्यचिदेतद्दर्शनं स्यात् ?। स एवंभूतः सङ्कीर्ण्णदर्शनवान् प्रतिपत्ता कथम् “अनलमेव पश्यति” न सलिलादिकम् ?। “किन्तु” सङ्कीर्ण्णरूपवस्तुप्रतिभासिज्ञानतया “सलिलादिकमपि” पश्यति। ततः कथं “सलिलार्थी तत्र” अग्निमति प्रदेशे “न प्रवर्तेत” ?।

परस्य वचनावकाशमाशङ्कयाह- “अनुपलम्भेन” इत्यादि। अनलप्रतिभासिना हि ज्ञानेनानलस्वरूपमेव प्रतीयते। यस्तु सलिलाभावः स तत्र सलिलस्यानुपलम्भेन। ततो ज्ञानद्वयेन तदतद्रूपयोर्व्विवेकाल्लोके प्रवृत्तिनिवृत्तिलक्षणः प्रतिनियतो व्यवहारः सिध्यतीति। सिद्धान्तवाद्याह- “कोऽयमनुपलम्भो नाम” इति। कदाचित् परो ब्रूयात् सलिलोपलम्भविरहमात्रमित्यत आह- “यदि सलिल” इत्यादि। कुमारिलस्य तु सलिलोपलम्भनिवृत्तिमात्रं तुच्छरूपमभावप्रमाणतया नाभिमतमेव।

“प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते।
सात्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि॥”
इति वचनात्। किन्तु योऽसावात्मनः प्रतिषेध्यवस्तुप्रतिभासिज्ञानात्मनाऽपरिणामः स तदन्यवस्तुप्रतिभासिज्ञानसहचरितोऽभ्युपगन्तव्यो न केवल इति परमभ्युपगमयितुमस्योपन्यासः। तथा चान्यवस्तुविज्ञानमेवाभावप्रमाणमस्तु, किमप्रमाणकस्यात्मनोऽपरिणामाख्येन धर्म्मेण परिकल्पितेन ?। न च तदन्यवस्तुविज्ञानपरिणामादन्य एव तस्यापरिणामो नाम भवतोऽभिमतो भावान्तरस्यैवाभावत्वेनोपगतत्वात्। तुल्ययोग्यतारूपस्यैकज्ञानसंसर्ग्गिण एव चान्यवस्तुनो विज्ञानं तथोपेयं नान्यस्य, तज्ज्ञानात् प्रतियोग्यभावसिद्धेः। न हि रूपज्ञानाद्रसाद्यभावप्रतीतिर्युक्तिमती देशादिविप्रकर्षवतो वा। अन्यवस्तुविज्ञानं च प्रतिनियतरूपर्पतिभास्येव। रूपान्तरावभासित्वे हि तस्य सलिलोपलम्भाभाव एव न सिध्येत्। एवं च प्रतियोग्यभावः प्रत्यक्षावभासित एव। तदभावव्यवहारे त्वस्मदभिमतैवानुपलब्धिरायातेति प्रतिपादयितुमस्योपन्यासः। तत्र यदि सलिलोपलम्भाभावः तुच्छरूपोऽनुपलम्भस्तदा कथमभावः कस्यचित् प्रतिपत्तिः परिच्छेद इति यावत्, परिच्छेदस्य ज्ञानधर्म्मत्वात्। अथ न तस्य प्रतिपत्तिरूपतेष्यते किन्तु तद्धेतुभाव इत्यत आह-“प्रतिपत्तिहेतुर्व्वा” इति। नहि सर्व्वसामर्थ्यविरहलक्षणस्याभावस्य प्रतिपत्तिं प्रति हेतुभावो युक्तः। हेतुभावे वा तस्यानपेक्षितसहकारिणो नित्यं तज्ज्ञानजननादभावज्ञानमेवैकं प्रतिपत्तुः स्यात्, ज्ञानान्तरस्यावकाश एव न भवेत्।

न चाज्ञातस्यास्य नास्तिताज्ञानजननं युक्तमित्याह- “तस्यापि” सलिलोपलम्भाभावस्य कथं प्रतिपत्तिः ?। अथायं सलिलोपलम्भाभावः स्वयमप्रतीत एव सलिलाभावप्रतीतिं जनयति तदा कस्यचिदपि। तदेवाह- “तस्य” सलिलोपलम्भाभावस्य ततो वा सलिलादन्यस्यानलादेः ‘विज्ञानं वाऽन्यवस्तुनि’ इत्यत आत्मनोऽपरिणामस्य पृथगवस्थापनात्, तत्रापि तदङ्गीकरणे चात्मनोऽपरिणामस्य तदात्मकत्वान्न ततो भेदेन व्यवस्थाप्येत। ततश्च कस्यचिदपि तस्य तदन्यस्य वाऽप्रतिपत्तावपि यद्यभावः सलिलादेः प्रतीयते तदा स्वापाद्यवस्थास्वपि सलिलाद्यभावः किं न प्रतीयते ?। तदापि तदभावः प्रतीयेतेत्येतद्विचारितम् प्रमाणविनिश्चये, तत एवावधारणीयम्। व्यवधानादिग्रहणेन चैतद्दर्शयत्यन्यवस्तुनोऽप्यन्यत्वं तत्तुल्ययोग्यतारूपापेक्षमेव, न तदनपेक्षमुपेयम्। तथा चास्मदुपवर्ण्णितानुपलब्धिसिद्धिरिति। यद चैवमुक्तेन प्रकारेणानुपलम्भेन सलिलाभावप्रतीतिर्न युज्यतेऽनलप्रतिभासिनश्च ज्ञानस्य प्रतिनियताकारता नाभ्युपगम्यते “तस्मादयम्” अनलदर्शी प्रतिपत्ताऽनलं “पश्यन्नपि” सङ्कीर्ण्णरूपप्रतिभासिना ज्ञानेन ‘अनलोऽयं न सलिलम्’ इति नाध्यवस्यति अनध्यवस्यंश्च सलिलरूपस्यापि प्रतिभासनात् तदर्थी “न तिष्ठेत्” प्रवर्तेत “नापि प्रतिष्ठेत” सलिलार्थी न प्रवर्तेत। तथाहि-सलिलं नाम तदुच्यते यत् सर्व्वोदन्यासन्तापाद्यपनयनक्षमं सकलतदन्यरूपासंकीर्ण्णप्रतिनियताकारज्ञानावभासि। इदं त्वन्यदेव शबलरूपं किमप्यवभासत इति। “ततश्च” प्रवृत्तिनिवृत्त्योर्व्विरुद्धयोर्युगपदनुष्ठातुमशक्यत्वात् “दुस्तरं व्यसनं प्रतिपत्तुः स्यात्।”

अत्र परस्य वचनावकाशमाशङ्कयाह- “तत एव” इत्यादि। न मया सलिलोपलम्भनिवृत्तिमात्रात् तु च्छरूपात् तदभावगतिरुच्यते, यथोक्तदोषप्रसङ्गात्। किन्तु यदेतदेकस्य केवलस्यानलस्य दर्शनं तत एवान्यस्य तत्राप्रतिभासमानस्य सलिलस्याभावगतिर्भवति ‘विज्ञानं वाऽन्यवस्तुनि’ इति वचनात्।

सिद्धान्तवाद्याह- “कथमेकम्” इत्यादि। केन पुनः सामर्थ्येन तदेकदर्शनम् “अन्याभावं प्रत्याययति ?”। तथाहि-तस्मिन् दृश्यमाने तदेवास्तीत्यवगच्छतु, तदन्यत्तु नास्तीति किमिति प्रत्येतीति। “तस्यैव” परिदृश्यमानस्यानलादेः “केवलस्य ” सलिलासंसृष्टरूपस्य “दर्शनाद्” अनलज्ञाने प्रतिभासनात् ‘सलिलं नास्ति’ इति निश्चयः सञ्जायते। तथाहि-अनल इव सलिलमपि यदि तत्राभविष्यत् तदप्यनलवद् दर्शने प्रत्ययभासिष्यत तयोः स्वज्ञानं प्रत्यविशिष्टत्वाद् योग्यताया नैकस्य प्रतिभासो युक्तः। तस्मादेकप्रतिभासनमन्याभावनान्तरीयकं इत्यन्याभावे ततो ज्ञानमुत्पद्यते अन्यवस्तुनि च विज्ञानं नास्तीति ज्ञानं जनयति। तथाऽन्यद् वसुत् पररूपासंकीर्ण्णस्वभावतयैव तथोच्यते। तद्रूपतयैव च तज्ज्ञानमन्यत् प्रतियदेवं व्यपदिश्यतेऽन्यथा तदयोगादित्यन्यप्रतिपत्तिरेव तदभावविकल्पहेतुरिति सिद्धान्तवाद्याह- “इदमेव” इत्यादि। नन्वस्माभिरिदमेव प्रागभिहितं “तयोः सतोः नैकरूपनियता प्रतिपत्तिः असम्भवात्” इत्यादिभिर्व्वचनैः। ततो यदेवान्यासंसर्ग्गिणः केवलस्य प्रतिभासनं तदेव तदन्याभावस्यापि, तस्यैव केवलस्य तदन्याभावात्मकत्वादन्यस्य चाभावांशस्य निरस्तत्वात्। ततः प्रत्यक्षावभासितत्वात् तदभावस्य तब्दलात् पाश्चात्यं व्यवहारप्रवर्तनरूपं नास्तिताज्ञानं विकल्पकमाजायते। न तु तेनाप्रतिपन्नं किञ्चिदवगम्यते, यतस्तदन्यवस्तुनि विज्ञानं प्रत्यक्षात्मकमप्यनवगते तदन्याभावे ज्ञानं जनयत् पृथगभावप्रमाणतया व्यवस्थाप्येत। तथा हि- तदन्याकारशून्य एव तदेकज्ञानाकारः संवेद्यते। ततस्तत्संवेदनमेव तदभावसंवेदनम्। नहि विकल्पज्ञानस्यापि तदाकारशून्यरूपसंवेदनादन्यत्तदभावसंवेदनं नाम। केवलमस्य विकल्परूपतैवातिरिच्यते। ततो यथा निर्व्विकल्पज्ञानावसिते क्वचिदनले ‘अनलोऽत्रास्ति’ इति पाश्चात्यो विकल्पो व्यवहारप्रवर्तनमात्रं न ततः पृथक् प्रमाणं यथोक्तं प्राक्, तथा नास्तिताज्ञानमपि विकल्पकं तत्फंलद्वारेण वाऽन्यवस्तुविज्ञानं न प्रत्यक्षात् पृथगभावाख्यं प्रमाणमिति। तस्माद् यदेवास्माभिरभिहितं तदन्याभावप्रतीतिं प्रति, तदेव त्वयाऽप्यभिधीयत इति कस्मात् परुषमिवाभाति यतस्तदनभ्युपगमेन पृथगभावाख्यं प्रमाणमभ्युपगतमित्युपहसति। तथा ह्यगत्येदानीं त्वयोच्यते न मध्यस्थतया अन्यथेदमेव किं न पूर्व्वमेवाभिहितम् ?, यत आलजालभिधानेनाऽऽत्मा परिक्लेशित इत्युपसंहरन्नाह-“ तस्मात् तीरादर्शिनेव” इत्यादि। यथा किल वहनारूढैर्व्वर्णिग्भिः शकुनिर्मुच्यते अपि नाम तीरं द्रक्ष्यतीति। स यदा सर्व्वतः पर्यटंस्तीरें नासादयति तदा वहनमेवागच्छति तद्वदेतदपि द्रष्टव्यम्। यतश्चावश्यभ्युपगमनीयोऽयं पक्षस्तस्मान्न किञ्चिदनयाऽविद्यमानप्रतिष्ठानया दिशः प्रतिपत्त्या प्रयोजनम्।

तदेवं परस्यान्यभावतदभावयोर्लिङ्गलिङ्गिभावमिच्छतः सम्बन्धाभावादसावयुक्तः इति प्रतिपादिते परेण ‘असति सम्बन्धेऽन्यभावगत्याऽपि तदभावगतिर्न्न स्यात्’ इति चोदिते ‘न वै कुतश्चित् सम्बन्धाद्’ इत्याद्यभिहितम्। अतः ‘अन्यभाव एव तदभावोऽन्यभावगतिरेव च तदभावगतिः’ इति प्रसाधयता कुमारिलपरिकल्पितः कस्यचिदभावनिश्चयार्थमभावप्रमाणवादः प्रसङ्गतो निरस्तः सम्प्रति तु-

“वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यसमाश्रिता”
इत्येतदाहत्य निराकर्तुं पूर्व्वपक्षमुत्थापयन्नाह - “यद्येकपरिच्छेदादेवः” इत्यादि। यदि हि “एकस्य” केवलस्य परिच्छेदादन्यस्य “व्यवच्छेदः” प्रतिषेधः सिध्यति तदा सर्व्वस्या अ(स्या)न्यस्याऽविशेषेणैव “तत्र” देशे यत्रासावेकः परिदृश्यते तत्राभावसिद्धिर्भवेत्, न तु विशेषपरिग्रहेण तुल्या स्वज्ञानजननं प्रति योग्यावस्था यस्य तस्यैवेति। तथा हि-असौ यथा तुल्ययोग्यतारूपपदार्थविविक्तरूप उपलभ्यते, तदेकाकारप्रतिनियमात् तज्ज्ञानश्च, तथा तदतुल्ययोग्यतारूपपदार्थविविक्तत्मकोऽपि। ततश्च तद्विविक्ताकारतया तदन्याभवसाधने विशेषाभावात् प्रदेशरूपज्ञानं घटाभवमिव रसाद्यभावमपि साधयेत्, न वा घटाभावमपीति।

किञ्च, यदेतद् ‘उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरभावसाधनी’ इति विशेषणमुक्तं तच्च न वक्तव्यम्। किं कारणम् ? यतो येऽप्यनुपलब्धिलक्षणप्राप्तास्तेषामपि तत्र देशे तदेकाकारतया ज्ञानस्य व्यवच्छेदो भवत्येव। तथा हि-यथोपलब्धिलक्षणप्राप्तास्तदेकाकारवति ज्ञाने न प्रतिभासन्ते ततश्च व्यवच्छिद्यन्ते तथाऽनुपलब्धिलक्षणप्राप्ता अपीति किम् ‘उपलब्धिलक्षणप्राप्तस्य” इत्यनेन विशेषणेनेति। एवं पूर्व्वपक्षे व्यवस्थिते यदि तदन्यव्यवच्छेदः-ततः पृथक्करणमन्यत्वेन व्यवस्थापनमभिमतं तदभ्युपगम्यत एव। अथ तद्देशकालयोरभावः, तदयुक्तम्, येन हि सामर्थ्येन तुल्ययोग्यतारूपस्योपलब्धिलक्षणप्राप्तस्य चाभावं साधयति न तत्सामर्थ्यमतुल्ययोग्यतारूपेऽनुपल्ब्धिलक्षणप्राप्ते वा सम्भवति। ‘तयोः सतोर्न्नैकरूपनियता प्रतिपत्तिः असम्भवात्’ इत्येवं हि तदभावसाधनम्। न चैतदन्यत्र सम्भवतीति प्रतिपादयितुम् “एकात्मपरिच्छेदात्” इत्यादिनोपक्रमते। यत् पुरोऽवस्थितं प्रत्यक्षेऽवभासते तस्यैकस्यात्मनः प्रतिनियतस्य रूपस्य परिच्छेदात् तदाकारोत्पत्त्या विधिविकल्पोत्पादनेन च यः “तदन्यः” ततोऽन्यस्तद्वयतिरिक्तस्तस्य सर्व्वस्य य “आत्मा” स्वभावस्ततो “व्यवच्छेदो” भेदनं पृथक्करणमन्यत्वसाधनमसङ्कीर्ण्णरूपताप्रत्यायनं भवति। कथं पुनरेकात्मपरिच्छेदादेव तस्य तदन्यात्मनो व्यवच्छेदः प्रत्यक्षेण क्रियते ?, यावता प्रत्यक्षं पुरोऽवस्थितपदार्थसामर्थ्यभावि तद्रूपमेव प्रतिपद्यताम्। यत्तु तद्वयतिरिक्तमशेषपदार्थजातं तदात्मनस्तस्य पुरोऽवस्थितस्य कथं तव्द्यवच्छेदकम् ? अतः तव्द्यवच्छेदार्थमभावप्रमाणमभ्युपेयम्, यतो-

“वस्त्वसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रिता” इति।
अत आह- “तदात्मनियतप्रतिभासज्ञानाद्” इति। यतः पुरोऽवस्थितस्यैकस्य वस्तुनः पररूपासंकीर्ण्ण आत्मा, सर्व्वभावानां स्वभावत एव स्वस्वभावव्यवस्थितेः पररूपेणासंकीर्ण्णस्वभावत्वात्। अन्यथा कथमभावप्रमाणतोऽप्यसांकर्यमेषां सिध्येत् ?। संकीर्ण्णरूपाणामसाङ्कर्यसाधने तस्य भ्रान्तताप्रसङ्गात्। तस्मिन् पररूपासंकीर्ण्णे स्वभावत एव तदात्मनियतो यः प्रतिभासः पररूपप्रतिभासासंकीर्ण्णः तदेकपदार्थसामर्थ्यभाविनि प्रत्यक्षे पररूपप्रतिभासायोगात् तस्य भ्रान्ततापत्त्या प्रत्यक्षाताहानेः। तदुक्तम्- “तद्धयर्थसमर्थ्येनोत्पद्यमानं तद्रूपमेवानुकुर्यात्” इति। तस्य तदात्मनियतप्रतिभासय ज्ञानात् प्रत्यक्षेण स्वसंवित्त्या संवेदनात्। तत्संवेदनमेव हि प्रत्यक्षस्यातद्रूपाद् “व्यवच्छेदनं” पृथक्करणं तब्दलेनैव च पाश्चात्यः ‘अन्यात्मकमेतन्न भवति’ इत्यसांकर्यवस्थाप्रत्ययो विकल्पकः संजायते गॄहीतग्राही। न तेनापूर्व्वं किञ्चित् प्रतीयते, पररूपासंकीर्ण्णस्यात्मनः प्रत्यक्षेणैव तदाकारानुकारिणा परिच्छेदादिति।

यदि नाम तदात्मनियतप्रतिभासज्ञानं तथापि कथमन्यात्मनः तस्य पृथक्करणम् ? इत्यत आह- “न हि तदात्म”इत्यादि। यस्मात्तस्य वस्तुनो य आत्मा पररूपासंकीर्ण्णः स तदन्यस्य शेषस्य वस्तुन आत्मा न भवति, सर्व्वस्य ततोऽन्यस्वभावत्वात्, अन्यथा तदन्यत्वहानेरिति। तस्मात्तदात्मनियतप्रतिभासज्ञानमेव तदन्येभ्यो निवर्त्तनम्। नहि ज्ञानेनार्थो हस्ते गृहीत्वाऽन्यतो निवर्त्तनीयः। केवलमन्यरूपासंकीर्ण्णस्यैकस्यात्मनोऽनुकरणमेवास्यान्यतो निवर्त्तनमुच्यत इति। अथान्यात्मानः स्वविषयं न निवर्त्तयेत्, तदाऽस्य विषयस्यान्यात्मनः सकाशादव्यवच्छेदे पृथगव्यवस्थापने परात्मनोऽपि तत्र परिच्छेदः स्यात्, अन्यथा तदपरिच्छेदस्यैवैकात्मपरिच्छेदात्मनस्तन्निवर्त्तनरूपता स्यात्। ततश्चाव्यवच्छेदेऽन्यात्मनस्तत्परिच्छेदप्रसङ्गात् प्रवृत्तिनिवृत्त्योरभाव इति पूर्व्वः प्रसङ्गो ‘न ह्ययमनलं पश्यन्नपि’ इत्यादिकः।

न केवलमन्यात्मनस्तन्निवर्त्तयति तदात्मनोऽप्यशेषमन्यदिति दर्शयन्नाह- “तं च” अग्रतः स्थितं देशकालस्वभावावस्थानियतं तदन्यदेशादिभ्यो व्यावृत्तात्मनः स्वहेतुभ्यः एवास्य भावात्, “तदात्मना” देशादिनियतेनात्मना तथाविधस्वभावस्यैवानुकारादुपलभमाना बुद्धिः “तथात्वप्रच्युतिम्” अन्यदेशकालस्वभावावस्थताम् “अस्य” स्वविषयस्य “व्यवच्छिनत्ति” ततः पृथक्करोति। कस्मात्पुनरन्यदेशादितां ततः पृथगवस्थापयति इत्यत आह- “एवं हि” यस्मादन्यदेशतादेस्ततः पृथक्करणे सति तद्देशादिनियतः पदार्थः परिच्छिन्नो भवति, तद्रूपस्यैवानुकाराद्। यद्यन्यथाभावोऽन्यदेशादिता तद्रूपाननुकाराव्द्यवच्छिन्नः-भवति तथात्वं च तद्देशादिनियतत्वं च, तदा तस्यैव दृश्यमानस्य भवति नान्यस्यान्यदेशादिमतः। यत एवम् “इति” तस्मादन्यथाभूतादन्यदेशादिमतस्तथाभूतं तद्देशादिमंतं “व्यवच्छिन्दत्येव” निवर्त्तयन्त्येव तत् परिच्छिनत्तीति पूर्व्वकस्योपसंहारः। तथा “तथाभूतादन्यथाभूतं व्यवच्छिन्दत्येव” इति द्वितीयस्योपसंहारः कार्य इति। “एवम्” उक्तेन न्यायेन “एकस्य” प्रमाणस्य प्रत्यक्षस्यानुमानस्य वा तस्याप्येवमेव स्वविषयपरिच्छेदाद् “वृत्तिः” प्रवृत्तिः सर्व्वभावान् “द्वैराश्ये” तत्त्वेऽन्यत्वे च “व्यवस्थापयति”। ततस्तत्परिच्छेदकप्रमाणबलेनैवासाङ्कर्यसिद्धिः। किं तदर्थिकयाऽप्यभावकल्पनयेति ?।

ननु च विकल्पव्यापार एष ‘इदमन्यात्मकं न भवति अन्यथैतदात्मकम्’ इति। प्रत्यक्षं च निर्व्विकल्पकमिष्यते तत् कथमसांकर्यसिद्धिस्ततः ? इत्यत आह- “तस्यान्वये” त्यादि। तद्धि प्रत्यक्षं विधिप्रतिषेधविकल्पौ यदा स्वविषये जनयति तदैवास्य साफल्यम्, तदैव च प्रमाणमिष्यते नान्यदा अत एवैकस्यार्थस्वभावस्याप्रतिपन्नांशाभावात् सर्व्वात्मना परिच्छेदेऽपि भ्रान्तिकारणसभ्दावात् क्षणिकतादावन्वयव्यतिरेकबुद्धी जनयितुमसामर्थ्यात् तत्रास्य प्रामाण्यं नेष्यत इति।

स्यान्मतम्- द्वैराश्यसाधनेऽप्यसांकर्यसिद्ध्यर्था मा भूदभावप्रमाणकल्पना किन्तु प्रकारान्तराभावसिद्ध्यर्था भविष्यति। न हि तदभावसिद्धौ प्रत्यक्षस्य कश्चिद् व्यापारः प्रतिपादित इति अत आह “तद्‍व्यतिरिक्ते”त्यादि। तस्मात् परिदृश्यमानाद् व्यतिरिक्तस्याशेषस्य वस्तुनो व्यवच्छेदेन ततः पृथक्करणेनान्यत्वेन या व्याप्तिस्तत्साधनादेव प्रकारान्तरस्य तत्त्वान्यत्वबहिर्भूतस्याभावः सिध्यति। ततस्तदर्थंमपि नाभावप्रमाणकल्पना युक्तेति।

अथ मतम्-सर्व्वस्यापरिदृष्टस्य दृश्यमानादन्यतया व्याप्तिं नैवं प्रत्यक्षं साधयति तत् कुतस्तृतीयराश्यभावः प्रत्यक्षत एव स्यात्, यतोऽभावप्रामाण्यकल्पना व्यर्था भवेदित्यत आह- “तस्य” तृतीयराशितया कल्प्यमानस्य ततो दृष्टादन्यतया व्याप्त्यभावे “तेन” प्रत्यक्षेण “ततो”ऽर्थात् स्वविषयस्य “अव्यवच्छेदा” दपृथक्करणात्, तदर्थस्य च राश्यन्तरत्वेन कल्प्यमानस्य स्वविषयादव्यवच्छेदात् अपृथक्करणात् पुनरपि भावस्य स्वविषयस्यापरिच्छेदप्रसङ्गात्। स हि तद्विषयः सकलपररूपासंकीर्ण्णात्मा यदि तेनात्मना न परिच्छिन्नः कथं तेन तस्य परिच्छेदः ?। तेनात्मना परिच्छेदे वा कथं सर्व्वस्य तदन्यतया व्याप्त्यसाधनम् ? अन्यथैकस्यापि तदन्यत्वं न स्यात्, निमित्तस्य समानत्वादिति। यत एवं “तस्मात्” क्वचिद्वस्तुनि प्रमाणं प्रत्यक्षादिकं प्रवृत्तं तद्वस्तु प्रतिनियतेनात्मना परिच्छिनत्ति, ततोऽन्यत्तद्रूपविकलं व्यवच्छिनत्ति, तदन्यत्वेन व्यवस्थापनात्। तृतीयस्य च तत्त्वान्यत्वबहिर्भूतस्य प्रकारस्याभावं सूचयति, सर्व्वस्यान्यतया व्याप्तिसाधनात्, तद्विरुद्धस्य वा सर्व्ववस्तुनो द्वैविध्यस्य साधनादिति।

एवमेकस्य प्रमाणस्य व्यापार एषोऽनन्तरोक्त इति तमेवोपसंहृत्य सुखप्रतिपत्तये दर्शयन्नाह- “तथाहि” क्वचिद्वस्तुनि “प्रमाणं” प्रत्यक्षादि प्रवृत्तं “तदेव” वस्तु तदन्यस्मात् “पारूपाद् व्यवच्छिनत्ति” ततः पृथक्करोति तदसंकीर्ण्णरूपतया प्रतिपद्यते, परमार्थतस्तस्य तद्रूपत्वात् यथावस्तु च प्रत्यक्षेण रूपानुकारात्। किमिति पररूपाव्द्यवच्छिनत्ति ?। तस्यैव पररूपविकलस्यैकरूपस्य परिच्छेदात्। तथा “तदन्यदेव च” तस्माद् दृश्यमानादन्यदेव च व्यवच्छिनत्ति। कुतः ?। “तस्मात्” स्वविषयात्। न केवलं स्वविषयं परतो व्यवच्छिनत्ति, परमपि स्वविषयाद् इति। कुत एतद् ?। अन्यस्य पररूपस्य तत्र खालम्बनेऽपरिच्छेदादवश्यमेवापरिच्छिन्नस्य परिच्छिन्नादन्यत्वं भवति। यत एवमतः “तद्” एव प्रमाणमेकवस्तुपरिच्छेदकं प्रकारान्तराभावं साधयति, नाभावाख्यम्। कुत एतत् ?। तस्मिं दृश्यमाने वस्तुनि दृष्टतदन्यत्वेन तस्यान्यस्य तत्रापरिच्छिद्यमानस्यान्यत्वं तदन्यत्वं दृष्टात् तदन्यत्वं “दृष्टतदन्यत्वं” तेन सर्व्वस्य तव्द्यतिरिक्तस्य व्यवस्थापनान्न अ(पनेन अ) तदन्यस्यैव च यदन्यन्न भवति पुरोऽवस्थितं सकलपरभावव्यावृत्तं तस्यैव तत्त्वेन दृश्यमानप्रकारतया व्यवस्थापनादिति।

अमुमेव न्यायमन्यत्राप्यतिदिशन्नाह-“एतेन क्रमाक्रमादयः” इत्यादि। एतेन अनन्तरोक्तेन न्यायेन प्रतिनियतैकपदार्थरूपानुकारिणी बुद्धिरुपजायमाना तद्विपरीतरूपं सर्व्वं स्वविषयाद् व्यवच्छिन्दती द्वैराश्यं तृतीयप्रकाराभावं च साधयतीति ये केचिदन्योन्यव्यच्छेदरूपाः क्रमाक्रमनित्यानित्यादयः ते व्याख्याताः। तथा हि-कार्यस्य क्रममनन्यसहायतां प्रतियत्येव बुद्धिस्तस्याक्रमं कार्यान्तरसाहित्यं ततः पृथक्करोति। ततः क्रमाक्रमतया द्वैतसिद्धेः तृतीयस्य प्रकारस्य सम्भवो निरस्तो भवति। क्रमभावव्यतिरेकिणः सर्व्वस्य कार्यजन्मनः तदन्यतया द्वितीयप्रकारतयाऽवस्थानात्। एवमुदयानन्तरध्वंसिता क्षणिकतोच्यते इति प्रतीयती व्यवस्थापनाकाल एव बुद्धिस्तद्विपरीतरूपतायाः स्वविषयादपाकरणात् ततोऽन्यत्वेन प्रकारान्तरेऽवस्थापनाद् राश्यन्तराभाव इति।

तदेवमेकप्रमाणनिबन्धनामसाङ्कर्यसिद्धिं प्रतिपाद्योपसंहरन्नाह- “तदेवम्” उक्तेन न्यायेन “एकस्य” प्रतिनियतात्मन उपलम्भात् तस्योपलभ्यमानस्य यस्ततोऽन्यस्तत्तुल्ययोग्यतारूपस्तव्दिपरीतो वा तद्रूपविकलस्तदात्मनो “व्यवच्छेदः” पृथक्करणं तस्योपलभ्यमानस्यानुपलभ्यमानस्वभावाद् रूपान्तरेण प्रतिभासनात्। तथा तस्य स्वविषयस्य तदन्यात्मताया भावप्रधानत्वान्निर्द्देशस्य “व्यवच्छेदो भवति” असाङ्कर्यं सिध्यति।

तद् यद्येतदविशेषेणान्यस्य सर्व्वस्य तन्नाभावसिद्धिः स्यादित्यत्राभिमतं तदा सिद्धसाधनम्, यतः सर्व्वमविशेषेणैव तदेकाकारया बुध्या तद्रूपविकलं स्वविषयादवच्छिद्यते, सर्व्वस्यान्यरूपस्य तत्राप्रतिभासनात्। अथ तद्देशकालयोरभावः सर्व्वस्य तद्विपरीतरूपस्य व्यवच्छेदोऽभिमतः स न युक्त इति दर्शयति-“न तद्देशकालयोः” यत्रासौ प्रतिनियतात्मा सकलत्रैलोक्यविलक्षणः पदार्थ उपलभ्यते तत्र सर्व्वस्यान्यस्य भावस्य तत्तुल्ययोग्यतारूपस्येतरस्य वा व्यवच्छेदः प्रतिषेधः। येन हि कारणेन तत्तुल्ययोग्यतारूपस्य तत्राप्रतिभासमानस्य प्रतिषेधस्तस्मिन् सति तदेकरूपनियतायाः प्रतिपत्तेरसंभवात् तदभावनान्तरीयिका सा भावन्ती तत्प्रतिषेधं गमयतीति तत्कारणमनुपलब्धिलक्षणप्राप्ते तदतुल्ययोग्यतारूपे च न सम्भवतीति कथं तदभावः सिध्येत्।

एतदेवोपसंहरन्नाह-“तस्मादतदात्मा” च सर्व्वस्तद्विपरीतरूपस्तदेकाकारया बुद्ध्या प्रसाधितः स्यात् “तद्देशकालश्च” तस्य प्रतिभासमानस्य यौ देशकालौ तौ यस्य, स च स्यात्। किंवत् ?। रसरूपादिवदिति। नहि रूपप्रतिभासिना ज्ञानेन तद्रूपविकलस्य रसस्य स्वविषयात् पृथक्करणेऽपि तदसांकर्यसाधनेऽपि तद्देशकालयोरभावः सिध्यति। ततश्च कथं सर्व्वस्यातुल्ययोग्यावस्थास्यापि तत्राभावः स्यात् ?, उपलब्धिलक्षणप्राप्तस्येति विशेषणं वा नोच्येत। यत एवं “तस्मात्” क्वचित् कदाचित् कस्यचिदभावसिद्धिर्यथोक्तादेवानुपलम्भाद् उपलब्धिलक्षणप्राप्तस्य तत्तुल्ययोग्यतारूपोपलम्भात्मनश्चेत्येवंरूपात्, न तु सामान्येन यथाऽऽहुः परे-

“प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते।
वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता॥” इति।
न ह्यनुपलब्धिलक्षणप्राप्ते प्रमाणपञ्चकाप्रवृत्तावपि तदभावः सिध्यति, सत्यपि तस्मिन् स्वभावादिविप्रकर्षेण प्रमाणपञ्चकाप्रवृत्तिसम्भवादिति।

तदेवं प्रासङ्गिकं परिसमापय्य यदुक्तं परेण ‘स एवान्यभावस्तद्विषया चोपलब्धिः तदभावस्य किं न साधनम्’ इति तत्रान्यभावस्य तदभावं प्रति लिङ्गत्वे निरस्ते तद्विषयाया उपलब्धेर्निराकुर्व्वन्नाह-“अन्याभावविषये”त्यादि। यत्पुनरुक्तम्- ‘अन्यभावविषयोपलब्धिस्तदभावस्य किन्न साधनम्’ इति सा तदभावस्य साधिकेष्टैवास्माकम्, न तु लिङ्गत्वेन यथोक्तवानसि। किं कारणम् ?। यतः तत्राप्यन्यभावविषयायामुपलब्धावऽभावस्य पृथगन्यभावात् साध्यत्वे कल्प्यमाने सम्बन्धाभावस्य तदभावेन तुल्यत्वात्। न हि तस्या अपि अन्यभावरूपायाः तदभावेन कश्चिदेकार्थसमवायादिरूपः सम्बन्धोऽस्तीति।

अपृथक्सिद्धेरित्यस्यापि तुल्यतां दर्शयन्नाह- “लिङ्गाविर्भावे” त्यादि। येयमन्यभावविषया उपलब्धिर्ल्लिङ्गतयोच्यते तस्यास्तद्विविक्तप्रदेशाकाराया “अविर्भावकाल एव” जन्मकाले प्रतीतिकाल एव वा तदभावसिद्धेश्च। तथा हि- तत्प्रतिभासविविक्तान्यभावप्रतिभासबुद्धिसंवेदनमेव तदभावसंवेदनमिति। तदेव साधयति-न ह्यन्यस्य तद्विविक्तस्य भावं प्रतिपद्य प्रतिपत्ता पुनरुत्तरकालं तत्प्रतिपत्तेरन्यभावप्रतिपत्तेस्तदभावेनान्वयव्यतिरेकौ प्रसाध्य प्रतिबन्धसाधकेन प्रमाणेन तदभावं प्रतिपद्यते। किं तर्हि ?। तदन्यं तद्विविक्तरूपं प्रतिपद्यमान एव तस्य प्रतियोगिनोऽभावं प्रतिपद्यते, तस्यैव तदभावात्मकत्वात्। तथा हि-सघटप्रदेशासंकीर्ण्णरूपस्य केवलप्रदेशस्य दर्शनमेव घटाभावदर्शनम्। नहि ‘घटोऽत्र नास्ति’ ‘घटवानयं न भवति’ ‘सघटादन्यः’ इत्यर्थभेदः कश्चित्। ततः सघटादन्यतया केवलप्रदेशस्य दर्शनमेव घटाभावदर्शनमिति। ‘घटोऽत्र नास्ती’ ति ज्ञानं गृहीतग्राहितया स्मृतिरेवेति। कथं ज्ञायते इति चेत्। दर्शनानन्तरमन्वयव्यतिरेकसाधनलक्षणेन व्यवधानेन विना ‘इदं घटविविक्तं प्रदेशवस्त्वस्ति’ ‘इदं तु घटवस्तु नास्ति’ इति पाश्चात्येन विकल्पद्वयेन व्यवस्थापनात्। ततो नान्वयव्यतिरेकानुसरणमत्रास्तीति।

किञ्च-दृष्टान्तासिद्धे स्वात्मन्यभावविषयोपलब्धिस्तदभावस्य साधनं। तदेव व्यतिरेकमुखेन दर्शयति - “तच्च तस्य” इत्यादि। इहाप्यस्त्येवान्वय इति चेत्, आह- “न ह्येवं शक्यम्” इत्यादि। कस्मान्न शक्य दर्शयितुम् ?। तदेकोपलब्धेः तस्यैकस्यानन्यसंसर्ग्गिणो योपलब्धिर्व्विशेषरूपा तस्याः क्वचिदप्यन्यत्राभावात्। अथ तद्विविक्तोपलब्धिसामान्यं हेतुरूच्यते-यत्र यत्र घटविविक्तभूतलोपलब्धिस्तत्र तत्र घटाभावो यथा पूर्व्वानुभूते घटविविक्ते प्रदेश इत्याह- “सामान्येन प्रदर्शने क्रियमाणे” दृष्टान्तेऽपि पूर्व्वानुभूतघटविविक्ते प्रदेशे घटाभावस्य प्रसाधकं प्रत्यक्षादिकं प्रमाणान्तरमन्यभावविषयोपलब्धेर्नास्ति, किं तु सैव तदन्यभावोपलब्धिः साध्यधर्म्मस्य तदभावलक्षणस्य साधिका। सा च यथा साध्यधर्म्मिणि तदभावसिद्ध्ये दृष्टान्तमपेक्षते तथा दृष्टान्तेऽपि। तथा, तत्रापि तदन्यत्रापीत्यनवस्था दृष्टान्तानाम् इति। अनवस्थायां चाप्रतिपत्तिः सर्व्वत्र तदभावस्य। यत एवं “तस्मान्न” कुतश्चिल्लिङ्गात्तदन्यभावात्तदुपलब्धेर्व्वा तदभावसिद्धिरिति। यदि तदन्यभावस्तदभावं न साधयति, किं पुनर्ल्लिङ्गतया साधयति ?, इत्यत आह- “सोऽन्यभावः” प्रत्यक्षलक्षणेन-प्रत्यक्षस्यैव विवक्षितोपलम्भादन्यत्वेनानुपलम्भत्वात्। तल्लक्षणेनानुपलम्भेन सिद्धः सन्नभावव्यवहारं साधयेत्, कर्म्मस्थक्रियापेक्षायां तदन्यभावस्यानुपलब्धिरूपत्वात्। क्व पुनरसावभावव्यवहारं साधयेत् ?। मूढप्रतिपत्तौ साध्यायां। यस्त्वमूढो विषयप्रतिपत्तौ विषयिणं स्मरत्येव तस्याभावव्यवहारः प्रत्यक्षनिबन्धन एवेति न तत्रानुपलब्धेर्लिङ्गतेति सुचर्च्चितमेवान्यत्रेतीहालं प्रसङ्गेनेति।

(३. अनुपलब्धिं त्रिधा विभज्य तद्विवेचनम्।]
तदेवमनुपलब्धेरशेषविप्रतिपत्तिनिराकरणेन स्वरूपमवस्थाप्यप्रभेदनिर्द्देशार्थमाह- “सेयं यथोक्ता त्रिधाऽनुपलब्धिः”। कथम् ?। सिद्धे तत्प्रसाधकेन प्रमाणेन कार्यकारणभावे सति कारणस्यानुपलब्धिः। कीदृशस्य ?। सिद्धाभावस्य। तथा, व्याप्यव्यापकभावसिद्धौ सत्यां तत्प्रसाधनप्रमाणबलेनैव सिद्धाभावस्यैव व्यापकस्य नान्यस्य व्यापकानुपलब्धेरेवासिद्धताप्रसङ्गाद्। यथोक्ता स्वभावानुपलब्धिश्चेति। एवं त्रिविधाऽनुपलब्धिः। कथं पुनः कारणव्यापकयोरभावव्यवहारः सिध्यति यतस्तयोः सिद्धाभावतोच्यत इत्याह- “तत्र कारणव्यापकयोरपि” न केवलं यस्य साक्षादभावव्यवहारः साध्यते। स्वभावानुपलब्धौ “स्वभावस्यासव्ध्यवहारस्य सिद्धिरन्यस्य” तद्विविक्तस्य भावसिद्धिर्या सैवासव्द्यवहारसिद्धिहेतुत्वादेवमुच्यते। “स” कारणव्यापकाभावः “तथासिद्धो”ऽन्यभावसिद्ध्या प्रत्यक्षरूपया सिद्धोऽभावव्यवहारः कार्यव्याप्ययोः प्रतिषेध्ययोः। यदाऽनयोर्व्विरूपविषयतया सविशेषाणामुपलब्धिर्न सिध्यति “तदाऽभावमभावव्यवहारं वा साधयति”। समुच्चयार्थो वाशब्दः। अथ किं स्वभावानुपलब्धावप्यभावो लिङ्गतया साध्यत इत्याह- “स्वभावानुपलब्धौ तु” इत्यादि। “अभावव्यवहार एव”, नाभावोऽपि तस्य प्रत्यक्षसिद्धत्वात्।

अत्र परस्य वचनावकाशमाशङ्कयाह- “यदि” तर्हि “कारणव्यापकौ” सिद्धोऽसव्द्यवहारो ययोः तौ सन्तौ। केन ?। “तदन्यस्य” कारणव्यापकविविक्तस्य भावस्य सिद्धिर्या प्रत्यक्षत्मिका तद्रूपयाऽनुपलब्ध्या, अन्यस्य कार्यस्य व्याप्यस्य वाऽभावमभावव्यवहारं च साधयतः। सा चान्यभावोपलब्धिस्तयोः कारणव्यापकयोरुपलब्धिलक्षणप्राप्तावेव सत्यामसव्द्यवहारस्य साधिका नान्यथा इत्येवमिष्यमाणे सति कथं तयोः कारणव्यापकानुपलब्ध्योः परोक्षेऽर्थे विषये प्रयोगः। यदा कार्यस्वभावहेत्वोर्व्यतिरेकप्रयोगः क्रियते-यत्र यत्राग्निर्नास्ति तत्र तत्र धूमोऽपि नास्ति, तथा यत्र यत्र वृक्षो नास्ति क्षणिकता वा तत्र तत्र शिंशपा नास्ति सत्त्वं वा इत्यशेषपदार्थपरिग्रहेण व्यतिरेकप्रयोगे सति। नहि तदाग्निवृक्षव्यतिरिक्ताः सर्व्वेऽर्थाः प्रत्यक्षता(क्षा) अक्षणिकता वा। ततश्च कथं तद्विविक्तोपलब्धिलक्षणानुपलब्धिः प्रतियोगिनो वोपलब्धिलक्षणप्राप्तता सिद्धा ?। तथा च कथमशेषोपसंहारेण व्याप्त्या कार्यस्वभावहेत्वोऽर्व्यतिरेकः सिध्येत् ?। तदसिद्धौ वा कथमनयोर्ग्गमकत्वम् ?। तस्मात् क्वचिददर्शनमात्रादेव व्यतिरेक एष्टव्यः, क्वचिच्च दर्शनमात्रादन्वयः। तथा च प्रतिबन्धघोषणाऽनर्थिकेति मन्यते परः।

सिद्धान्तवाद्याह- “नैव” परोक्षेऽर्थे कारणव्यापकानुपलब्ध्योः “प्रयोगो” व्यतिरेकोपदर्शनकाले “प्रमाणतया” कारणस्य व्यापकस्य वाऽनुपलब्धिः प्रमाणभूता नैव प्रयुज्यते। कस्मात् ?। “लिङ्गस्य” कारणव्यापकानुपलब्धिलक्षणस्य तदभावलक्षणस्य वा “अनिश्चयात्” तदनुपलब्ध्योः सन्देहरूपत्वात् तदभावस्य च सन्दिग्धत्वात्। कथं तर्हि तदाऽनयोः प्रयोग इष्यते ? इत्याह- “केवलम्” इत्यादि। कारणव्यापकयोर्हिकार्यकारणभावप्रसाधकेन पूर्व्वोक्तेन प्रमाणेन व्याप्यव्यापकभावसाधकेन च तदुत्पत्तिलक्षणे तादात्म्यलक्षणे च सम्बन्धे साधिते सिद्धसम्बन्धयोर्यद्यभावो यत्र यत्रा भावः स्यात् परस्यापि कार्यस्य व्याप्यस्य वाऽवश्यं नियमेनाभावोऽन्यथाऽहेतुकत्वप्रसङ्गात्, निःस्वभावताप्रसङ्गाच्च। तद्‍द्वारेण प्रतिबन्धप्रसाधके प्रमाणे स्मृतिः कथं नाम स्यादित्येतस्यार्थस्य दर्शनार्थमेते कारणव्यापकानुपलब्धी प्रयुज्येते इति। दर्शनादर्शनबलेन तु साधने यत्रैवैकदर्शने परो दृष्टोऽदर्शने वा न दृष्टः तत्रैव तस्य भावोऽभावो वा भवतु सर्व्वत्र तु कस्माद् भवति ?। न ह्यप्रतिबद्धात्मनां गवाश्वादीनां क्वचित् तथाभावदर्शनेऽपि सर्व्वत्र तथाभावो भवति, पुरुषस्य तु सर्व्वदा क्वचिदेकभावाभावयोरपरस्य भावाभावादर्शनं यदृच्छासंवादः सम्भाव्येत असति प्रतिबन्धे। तथा चाह-

“देशादिभेदादृश्यन्ते भिन्ना द्रव्येषु शक्तयः।
तत्रैकदृष्टया नान्यत्र युक्तस्तभ्दावनिश्चयः॥” इति।
तस्मादवश्यं प्रतिबन्धः साध्यसाधनयोरभ्युपगन्तव्यः। स एवान्वयव्यतिरेकप्रयोगाभ्यां सुचनीयः। न चासौ व्याप्त्याऽन्वयव्यतिरेकोपदर्शनमन्तरेण ख्यापयितुं शक्यत इति ‘यत्र यत्र’ इति सकलपदार्थपरिग्रहेण ख्याप्यते। प्रतिबन्धे हि प्रमाणसिद्धे सत्यवश्यमेव यत्र यत्र कार्यं तत्र तत्र कारणम्, यत्र यत्र तदभावः तत्र तत्र च कार्यस्याप्यभावोऽन्यथा कारणमन्तरेण कार्यस्य भावे तस्याहेतुतैव स्यात्। ततश्च नित्यं सत्त्वादिप्रसङ्गः। तथा यत्र यत्र यत्स्वभावस्तत्र तत्र तद्भावः अन्यथा तस्य नैरात्म्यमेव स्यादिति व्याप्त्यैवान्वयव्यतिरेकोपदर्शने प्रतिबन्धः ख्यापयितुं शक्यते नान्यथेति प्रागेव विस्तरतो विपञ्चितम्।

[ ४. हेतोस्त्रैरूप्यत्रैविध्ययोर्हेत्वाभासत्वस्य चोपसंहारः।]
एवं कार्यस्वभावानुपलब्धिलक्षणे एव पक्षधर्म्मे तत्साधकप्रमाणसभ्दावादन्वयव्यतिरेकसभ्दावो नान्यत्रेति प्रतिपाद्योपसंहरन्नाह-“इति” एष एव स्वभावकार्यानुपलब्धिलक्षणः पक्षधर्म्मोऽन्वयव्यतिरेकवान् प्रतिबन्धसभ्दावात्। यतश्वान्वयव्यतिरेकवान् प्रतिबन्धप्रसाधकप्रमाणसभ्दावादुक्तेन न्यायेन “इति” तस्मात् “तदंशेन व्याप्तो”ऽन्वयव्यतिरेकनिश्चयेनैव तदंशव्याप्तेर्निश्चयाद् यथोक्तं प्राक्, ततश्च तदंशव्याप्तिवचनात् त्रिलक्षण एव “त्रिरूप एव” त्रिविध एव हेतुर्ग्गमको नान्यलक्षणोऽन्यो वा यथोक्तत्रैरूप्यसभ्दावे रूपान्तरस्य वैयर्थ्यात् यथोक्तत्रैरूप्याभावे च रूपान्तरकल्पनायामप्यव्यभिचाराभावेनागमकत्वात्। कस्मात् त्रिलक्षण एव त्रिविध एव हेतुर्ग्गमको नान्यलक्षणोऽन्यो वेति दर्शयति “स्वसाध्यधर्म्माव्यभिचाराद्” इति त्रिलक्षणस्यैव स्वसाध्यधर्म्माव्यभिचारात्। स्वसाध्यधर्म्माव्यभिचार एव च गमकत्वमिति रूपान्तरकल्पना व्यर्था। प्रतिबन्धनिबन्धनान्वयव्यतिरेकापगमे च रूपान्तरकल्पनायामपि स्वसाध्यधर्म्माव्यभिचाराभावात्। तदनेन ‘त्रिधैव स’ इत्यस्य त्रिलक्षण एव “स हेतुरःविनाभावस्य” स्वसाध्यधर्म्माव्यभिचारस्य “नियमाद्” अवश्यन्तया सभ्दावात् प्रतिबन्धनिमित्ततदंशव्याप्त्यनभ्युपगे (गमे)च रूपान्तरकल्पनायामपि “हेत्वाभासास्ततोऽपरे” यथोक्तत्रिलक्षणादपरे रूपान्तरयोगितया विकल्प्यमाना हेत्वाभासा अविनाभावस्य स्वसाध्यधर्म्माव्यभिचारस्य तेष्वभावादित्यपरोऽर्थो दर्शित इति।

[ ५. हेतुलक्षणेऽधिकरूपवादिनां निरासः।]
यदुक्तं ‘त्रिलक्षण एव हेतुर्नान्यलक्षणः’ इति तत्र परेषां विप्रतिपत्तिं दर्शयन्नाह- “षड्लक्षणो हेतुरित्यपरे” नैयायिक-मिमांसकादयो मन्यन्ते। कानि पुनः षड्‍रूपाणि हेतोस्तैरिष्यंते ? इत्याह- ‘त्रीणि चैतानि” पक्षधर्म्मान्वयव्यतिरेकाख्यानि। तथाऽबाधितविषयत्वं चतुर्थं रूपम्। अबाधितः प्रमाणेनानिराकृतो विषयः साध्यधर्म्मलक्षणो यस्य स तथोक्तः तस्य भावः तत्त्वमपरं रूपम्। तथा विवक्षितैकसंख्यत्वं रूपान्तरं, एका संख्या यस्य हेतुद्रव्यस्य तदेकसंख्यं विवक्षितमेकसंख्यं हेतुद्रव्यमाश्रयत्वेन यस्य हेतुसामान्यस्य तद्विवक्षितैकसंख्यं तभ्दावोऽपरं रूपम्। यद्येकसंख्याव्यावच्छिन्नायां प्रतिहेतुरहितायां हेतुव्यक्तौ हेतुत्वं भवति तदा गमकत्वं न तु प्रतिहेतुसहितायामपि द्विसंख्यायुक्तायामिति। यदि विरुद्धाव्यभिचार्यपरं हेत्वन्तरं नोपदर्श्यत इति यावत्। तथा ज्ञातत्वं च ज्ञानविषयत्वं च। नह्यज्ञातो हेतुः स्वसत्तामात्रेण गमको युक्तः इति। तत्रैतेषु रूपान्तरेषु यदेतबाधितविषयत्वं नाम तत् तावत् प्रतिबन्धनिबन्धनान्वयव्यतिरेकात्मकाऽविनाभावसम्भवे सति ततः पृथगन्यल्लक्षणं न भवति। तदात्मकं तु तद्वचनेनैवोक्तमिति न वक्तव्यमिति। कस्मात् पृथग् लक्षणं न भवति ? बाधाया अविनाभावस्य च विरोधादिति। तथा हि-सत्यप्यविनाभावे यथोक्ते बाधासम्भवं मन्यमानैरबाधितविषयत्वं रूपान्तरमुच्यते। सा चेयं तत्सम्भावना न सम्भवति, बाधाया अविनाभावेन “विरोधात्” सहानवस्थानलक्षणात्। तमेव विरोधं साधयन्नाह- “अविनाभावो हि” इत्यादि। सत्येव हि साध्यधर्म्मे भावो हेतोरविनाभाव उच्यते। प्रमाणबाधा तु तस्मिन्नसति। यदि हि सत्येव तस्मिंस्तदभावविषयं प्रमाणं प्रवर्त्तेत तदाऽस्य भ्रान्तत्वादप्रमाणतैव स्यात् इति कुतो बाधा ?। ततः “स” हेतुः “तल्लक्षणः” साध्याविनाभावी “धर्म्मिणि स्यात्। अत्र च साध्यधर्म्मः कथं न भवेत्” ? यतो बाधावकाशः स्यात्। तस्मादविनाभावस्य प्रमाणबाधायाश्च सहानवस्थानमविनाभावेनोपस्थापितस्य धर्म्मिणि साध्यधर्म्मभावस्य प्रमाणबाधोपस्थापितस्य च तदभावस्य परस्परपरिहारस्थितिलक्षणतया विरोधेनैकत्र धर्म्मिण्यसम्भवादिति।

तमेव विरोधं स्पष्टीकर्तुं परोपहासव्याजेनाह- “प्रत्यक्षानुमाने हि” इत्यादि। साध्यधर्म्मं हि बाधमाने प्रत्यक्षानुमाने, “तं ग्रीवायां गृहीत्वा” धर्म्मिणः स्वाश्रयात् “निष्कासयतः”। तस्मिंश्च साध्यधर्म्मे सत्येव तदविनाभावित्वाद्धेतुर्भवं “स्तं” साध्यधर्म्मं निष्कास्यमानं गले गृहीत्वा हठात् “तत्रैव” धर्म्मिण्यवस्थापयतीति “परं” प्रकृष्टं बत “भावानां” साध्यधर्म्मलक्षणानामस्वास्थ्यं वर्तते। तथा हि- यन्त्रद्वयनियन्त्रितानां निरुच्छावसितया मरणमेव प्राप्तमिति।

परो बाधाऽविनाभावयोर्व्विषयभेदादविरोधं दर्शयन्नाह- “अन्यत्र” साध्यधर्म्मिणं परिहृत्य दृष्टान्तधर्म्मिणि साध्यधर्म्मेणाविनाभावी हेतुर्न पुनः साध्यधर्म्मिण्येव। ततः कुतो बाधाऽविनाभावयोर्व्विरोधोऽन्यत्र बाधया साध्यधर्म्माभावसाधनादन्यत्र च हेतुना तभ्दावसाधनात्। तथा चैवंविधे सत्यपि अविनाभावे बाधासम्भवाद् अबाधितविषयत्वस्य रूपान्तरस्य सम्भव इति।

एवंविधाविनाभावोपगमे सत्यप्यबाधितविषयत्वादिके रूपान्तरे “हेत्वाभासास्ततोऽपरे” रूपान्तरसम्भविन इत्यापादितां हेत्वाभासतां विवरीतुं परोपहासपूर्व्वकमाह- तत् किम् “अयं” साध्यधर्म्मी “तपस्वी” वराकः “शड्ढ(ण्ढ)मुद्वाह्य तस्मिंन्” साध्यधर्म्मसाधनशक्तिविकलं हेतुं परिणाय्य साध्यधर्म्मलक्षणं “पुत्रं मृगयते ?”। एतदेव व्यनक्ति- “यस्य” हेतोर्द्धर्म्मिण्यसत्यपि “साध्यधर्म्मे भाव” इष्यते, साध्यधर्म्मिणोऽन्यत्राविनाभावोपगमात्। “तं” तथाविधं साध्यधर्म्मिण्युपदर्श्य कथं धर्म्मी साध्यधर्म्मवानित्युच्यते ?। न ह्यऽम्भस्त्वस्य समुद्रे लवणत्वेनाविनाभावेऽपि तव्द्यतिरिक्तेऽम्भसि लवणतया साध्यत्वेनेष्टेऽम्भस्त्वभावेऽपि लवणत्वसिद्धिरिति।

परस्य वचनावकाशमाशङ्कयाह- “अत एव” इत्यादि। एतदेव विवृणोति- “स्यादेतद्” भवतो मतम्। यत एव हेतुरन्यथाऽपि साध्यधर्म्ममन्तरेणापि धर्म्मिणि भवेदम्भस्त्वादिषु तथादर्शनात्, साध्यधर्म्मिपरिहारेण चाविनाभावोपगमात् अत एव कारणात् प्रमाणाभ्यामबाधितधर्म्मा धर्म्मीत्युच्यते। यदि प्रत्यक्षानुमानाभ्यां साध्यधर्म्मिणि हेतोर्व्विषयः साध्यधर्म्मो न बाध्यते यथाऽम्भस्त्वस्य लवणत्वम्, तदा तस्य गमकत्वम्, नान्यथेति। ततोऽन्यत्राविनाभावमात्रेण साध्यसिद्धेरनभ्युपगमात् न यथोक्तो दोष इति।

सिद्धान्तवाद्याह- “तत् किम्” इदानीं यदा हेतोर्धर्म्मिण्यविनाभावितानभ्युपगमात् साध्यसिद्धेरभावात् तत्सिद्धये रूपान्तरमबाधितविषयत्वमुच्यते तदा हेतोर्न किञ्चित् सामर्थ्यम्। कस्माद् ? “अबाधयैव” हेतुमन्तरेणापि “साध्यसिद्धेः” अकिञ्चित्कर एव हेतुः। तथा ह्यत्र कल्पनाद्वयम्-बाधकप्रमाणवृत्तौ साध्याभावो नियतो वा स्याद् ? अनियतो वा ?। तत्र यदि पूर्व्वो विकल्पस्तदा साध्याभावो हि बाधकप्रमाणस्य वृत्तौ नियतः, तदैव भावात् तदभावे चाभावादिति। तस्माद् “अबाधायां” बाधकप्रमाणवृत्त्यभावे तन्नियतस्य साध्याभावस्याप्यभावात् “साध्यसिद्धिः” भवत्येवेति व्यर्थ एव हेतुरिति नोपन्यसनीय एव। ततः कस्याबाधितविषयत्वं रूपान्तरं भवेत् ?। स्यान्मतम्- मा भुद् बाधकप्रमाणवृत्त्यभावे हेतोः सामर्थ्यम्, यदा तु साध्यस्य बाधकं प्रमाणं धर्म्मिणि वर्त्तते तदा हेतोः साध्यसाधने सामर्थ्यं भविष्यतीत्यत आह- “बाधायामपि” इति। यदि बाधकं प्रमाणं वर्त्तते तदा तेन साध्याभावस्य धर्म्मिणि साधनात् पुनर्ब्रह्मणापि तभ्दावस्य कर्त्तुमशक्यत्वात् किमङ्ग पुनः शठेन हेतुनेति कुतः साधनस्य हेतोः सामर्थ्यम् ?। अत एव हि भवभ्दिरबाधितविषयत्वं रूपान्तरमुच्यत इति।

अथ बाधकप्रमाणवृत्तौ साध्याभावो न नियतः तदभावेऽपि भावादिति द्वितीयः पक्ष इष्यते तदाप्यबाधायाः सामर्थ्यविरह इति दर्शयन्नाह- “अनियमे” बाधकप्रमाणवृत्तौ साध्याभावस्येष्यमाणे सतीदमापतितम्। न च-बाधकं प्रमाणं स्यात् “साध्याभावस्य च सम्भवः”- इति “न” साध्यसाधने “सामर्थ्यम् अबाधायाः” सत्यामपि तस्यां साध्याभावस्य सम्भवादिति तद्योगिनोऽपि हेत्वाभासतैवेति।

यदुक्तम् “अबाधयैव साध्यसिद्धेर्व्यर्थो हेतुः” इति तत्रान्यथाऽर्थमबाधाया दर्शयन् हेतुसामर्थ्यं प्रतिपादयन्नाह परः-न बाधाया अभावो ममाबाधाऽभिमता। किं तर्हि ?। बाधाया अनुपलब्धिः। सा च तदनुपलब्धिः पुरुषस्य शक्तिवैकल्यात् क्वचिद् देशादौ बाधायाः सम्भवेऽपि स्यात्। ततो बाधाऽनुपलब्धिमात्रेण साध्यसिद्धेरभावात् तत्सिद्धयेऽवश्यं हेतुरभिधानीय इति स हेतुप्रयोगस्य विषयस्तदा हि हेतुः स्वसाध्यं साधयन् कथमसमर्थः स्यात् ? इति।

सिद्धान्तवाद्याह-किं नु वै हेतुर्ब्बाधाया या उपलब्धिस्तस्याः विभेति न पुनर्ब्बाधाया येन बाधां सम्भवन्तीमप्यनादृत्य तदनुपलब्धौ सत्यां प्रयोक्तव्य इष्टो भवतः।

कदाचित् परो ब्रूयात्-किं करिष्यति विद्यमानाऽपि बाधा तपस्विनी, तदुपलब्धिरेव राक्षसी। तस्मात् तत एव हेतोर्भयं तदभावे हेतुः प्रयोक्तव्य एवेत्यत आह- “स तर्हि” इत्यादि। एवं तर्हि परमार्थेन बाधा किमस्ति नास्तीत्येतदनपेक्ष्य बाधाया अनुपलब्धौ सत्यां प्रयोक्तव्य इति काक्वा पृच्छति। कदाचित् परो ब्रूयात्-उक्तमेवैतत् किमर्थं पृच्छ्यते ? इत्याह- “किमर्थं प्रयुज्यत” इति। बाधाऽनुपलम्भेऽपि तत्सम्भवे साध्यसाधनायोगादित्यभिप्रायः। परोऽनवगताभिप्राय आह-“साध्यसिद्ध्यर्थम्” इति बाधकप्रत्ययाभावे प्रमाण्यस्येष्टत्वात् ततः साध्यसिद्धिरविरुद्धैवेति मन्यते। सिद्धान्तवादी सत्यां बाधायां तदनुपलम्भेऽपि साध्यसिद्धिमसम्भावयन् पृच्छति “स किं क्वचिद्” इत्यादि। किं पुनरसौ हेतुः सत्यामपि बाधायां साध्यं साधयेदिति सम्भाव्यते भवता येनास्या बाधाया अभावनिश्चयं प्रति यत्नो न क्रियते हेतुश्च प्रयुज्यत इति। एवमेतत् इति चेत्; तथा सत्यामपि बाधायां साध्यसाधनसामर्थोपगमे सत्यबाधितविषयत्वं हेतुलक्षणं न भवति। किं कारणम् ?। बाधायामपि सत्यामस्य हेतोः “सामर्थ्यात्” सामर्थ्योपगमात्। तद्धि हेतोर्लक्षणमुच्यते येन विना साध्यं न साधयेदिति।

स्यान्मतम्-अनुपलभ्यमानबाधत्वं हेतुलक्षणं परमार्थेन, नाबाधितविषयत्वमित्यत आह- “तथा च” इत्यादि। एवं हि सति बाधायाः सभ्दावसम्भवेऽपि तामभ्युपगम्य तदनुपलम्भमात्रेण हेतोः प्रयोगः प्राप्तः। यदि हि बाधामभ्युपगम्य हेतुप्रयोगो नाभिमतः स्यात् तदाऽनुपलम्भमात्रेण बाधायं संशयात्-सतामपि केषाञ्चित् कथञ्चिदनुपलम्भसम्भवात्-संशयितस्य हेतुप्रयोगे प्रवृत्तिरेव न युज्येत। तस्माद् यो यत्संशयेऽपि प्रवर्तते स तस्य भावपक्षमभ्युपेत्यैव प्रवर्त्तते। तथा च यथा बाधानुपलब्धौ तामभ्युपगम्य हेतुः प्रयुज्यते तथा तदुपलब्धावपि प्रयुज्यताम्, बाधायाः सभ्दावाभ्युपगमे सति तदुपलम्भानुपलम्भयोर्व्विशेषाभावादिति नानुपलभ्यमानबाधत्वमपि हेतुलक्षणं युज्यत इति कुतो बाधकप्रत्ययविरहेऽप्यसति प्रतिबन्धे प्रामाण्यस्य सम्भव इति।

परस्य वचनावकाशमाशङ्कयाह- “न बाधायाम्” इत्यादि। नैव हि बाधायां संत्यां हेतोः सामर्थ्यमिष्यते तत् कथं तदुपलम्भेऽपि प्रयोगः स्यात् ?। सिद्धान्तवाद्याह- “यद्येवं” बाधायां सत्यां हेतुरसमर्थो यदीष्यते तदाऽनिर्ण्णीतो बाधाया असंभवो यस्य हेतोः स तथाविधः प्रयोगं बाधाऽनुपलम्भमात्रेण नार्हति। किं कारणम् ?। मा भूद् बाधायाः सम्भवपक्षे “प्रयुक्तस्यापि” हेतोः साध्यसिद्धौ “असामर्थ्यमिति”। पूर्व्वपक्षवाद्याह-बाधानुपलम्भे सति बाधाया अभावात् सदुपलम्भकप्रत्ययाभावे सत्यवश्यमर्थानामसत्त्वाद्धेतोः सामर्थ्यम् इति चेन्मन्यसे सिद्धान्तवाद्याह- “किमुपलम्भो बाधाम्” इत्यादि। उपलम्भो ह्यर्थानां कार्यम्, न च कार्यं कारणं व्याप्नोति। न ह्यऽवश्यं कारणानि कार्यवन्ति भवन्ति, प्रतिबन्धवैकल्यसम्भवात्। तत् कथमव्यापकस्योपलम्भस्य निवृत्तौ बाधाया निवृत्तिः ?, यतो हेतोर्ब्बाधायाः सम्भवकृतमसामर्थ्यं न सम्भवेदिति। एतच्च परैरपीष्यत एव; प्रमाणतयोपगतस्याप्युदयकालेऽनुपलब्धबाधस्य कालान्तरेण बाधकप्रत्ययोत्पादे सत्यप्रामाण्योपगमात्। अथाव्यापकस्याप्युपलम्भस्य निवृत्तौ बाधा निवर्त्तते-

“निवर्त्तते हि मिथ्यात्वं दोषाज्ञानादयत्नतः॥”
इति अनेनैव न्यायेन ज्ञाननिवृत्त्या बाधानिवृत्तेरित्याह-त-थापि व्यर्थो हेतुः। कुतः ?। “बाधानुपलम्भादेव” हेतुप्रयोगरहितात् साध्यसिद्धेः। किं कारणम् ?। अनुपलम्भे बाधाया असम्भवात्। तथा हि-यत्र बाधाया अनुपलम्भस्तत्र परमार्थत एव सा न विद्यत इति मन्यसे। यत्र चासौ परमार्थतो नास्ति तत्र साधय्धर्म्मस्याभावोऽपि परमार्थेनैव नास्त्यन्यथा परमार्थेन बाधाया अभावायोगात्। ततश्च साध्यधर्म्मस्याभावाभावे सति भाव इति भवन्मत्या साध्यप्रतीतेर्व्यर्थता हेतोरिति।

अथ मा भूद् युक्तिविरोध इति नोपलम्भनिवृत्तौ बाधानिवृत्तिरिष्यते, तत्राह- उपलम्भस्य निवृत्तावपि सत्यां बाधाया अनिवृत्ताविष्यमाणायां तदवस्थं हेतोरससामर्थ्यम् यदवस्थं बाधोपलम्भ इति हेतोरप्रयोग इति कस्याबाधितविषयत्वं रूपान्तरं स्यात् ?।

एतदेवोपसंहरन्नाह- “तस्मात् स्वसाध्य” इत्यादि। यत एवं व्याप्त्या हेतोः सर्व्वत्र साध्येनाविनाभावाभ्युपगमे बहिर्व्याप्ताविष्यमाणायां वैयर्थ्यं हेतुप्रयोगस्यापद्यते तस्मात् “स्वसाध्यभावाभावाभ्यां अन्यथाऽपि” स्वसाध्यभावेऽप्यभवन्नऽभावेऽपि च भवन् हेतुर्धर्म्मिणि किञ्चित् साध्यं “न भावयति” न साधयति “न विभावयति” तद्विपरीतं न निषेधयति “इति” तस्य विधिप्रतिषेधावकुर्व्वत “उपक्षेपः” प्रयोगो “न समर्थः” इत्यवश्यं हेतुप्रयोगमिच्छता स्वसाध्याविनाभावः सर्व्वत्र हेतोरभ्युपगन्तव्यः। स च प्रतिबन्धनिबन्धनः। एष च दर्शनादर्शनमात्रयत्तो यथोक्तं प्राक्। तस्मिंश्चाभ्युपगते बाधाविनाभावयोर्व्विरोधः सिद्ध इत्युपसंहरन्नाह- “तन्न” इत्यादि। यत एवं तेन कारणेनाबाधा रूपान्तरं न भवति।

यदि नाम बाधाविनाभावयोः सहावस्थानाभावादविनाभावे सत्यबाधा गम्यते रूपान्तरं तु किमिति न भवति ? इति, अत आह- “तन्नाम” इत्यादि। तद्धि तस्माद् विशेषणान्तरं भवेद् वस्तुस्थित्या। लक्षणकारैश्च रूपान्तरत्वेनोपादानमर्हति यस्य विशेषणस्य भावेऽपि यस्यापरस्याभावः स्यात्। यतः सम्भवे व्यभिचारे च विशेषणविशेष्यभावो न सम्भव एव केवले। उदाहरणमाह-“तद् यथा” इत्यादि। सत्यपि हि धर्म्मिसम्बन्धे श्रावणत्वादेः सपक्षे भावो नास्ति। सत्यपि च चाक्षुषत्वादेः सपक्षे भावे साध्यधर्म्मिणि शब्दे सम्बन्धो नास्ति। ततोऽनयोः सम्भवव्यभिचारयोर्भावाद् विशेषणविशेष्यभावो लक्षणान्तरत्वेन चोपादानम्। इहाऽप्येवं भविष्यतीति चेद् आह- “न चैतद्” अनन्तरोदितमबाधाया अविनाभावे सति सम्भवति। सत्यविनाभावे नियमेनाबाधायाः सम्भवाव्द्यभिचाराभावात् कुतो विशेषणविशेष्यभावो क्षणान्तरत्वेन चोपादानमर्हति ? इति न हेतोः साध्याविनाभाविनो विरुद्धस्य च साध्यविपर्ययाविनाभाविनो विषये बाधा सम्भवति। उक्तेन प्रकारेण विपर्यये सम्यग्घेतुरेवाविषये तु प्रयोगाद्धेत्वाभास उच्यते। यत एवम् “इति” तस्मान्न तदभावो बाधाविरहः पृथगविनाभावादन्वयव्यतिरेकात्मनोऽनयोर्हेतुविरुद्धयोर्लक्षणान्तरत्वेन वाच्यः, व्यभिचाराभावेन रूपान्तरत्वायोगात्। यतश्चाविनाभावे सति बाधा न सम्भवति विरोधात्, तस्माद्धेतोर्यथोक्तलक्षणस्य प्रयोगे सति गम्यार्थाया अपि प्रतिज्ञाया दोषाणां प्रत्यक्षविरुद्धादीनां सम्भवो नास्ति, हेतुलक्षणेनैव तेषां निरस्तत्वात्। तत् कथं बाधाविरहो हेतो रूपान्तरमुच्यते ?। असम्भविनां च तेषां उपवर्ण्णनं निष्फलमित्याकूतम्।

केवलायाः प्रयोगेऽस्ति सम्भव इति चेत्, आह-“नापि” इत्यादि। हेतुप्रयोगे ह्यसति केवला प्रतिज्ञैव न प्रयुज्यते, हेतुविषयत्वेन तदभ्युपगमात्। ततश्च शास्त्रकारैर्न प्रतिज्ञादोषाः प्रत्यक्षविरुद्धादयो वाच्या इति। दिङ्नागपादैस्तु साध्यासाध्यविपर्ययेण विप्रतिपत्तिदर्शनादप्रयोगार्हस्यापि पक्षस्य लक्षणविधाने न्यायप्राप्तमेवापक्षत्व न नि(त्वं नि)राकृतपदेन प्रमाणविरुद्धस्याख्यानम्, न त्वतिप्रसक्तं पक्षलक्षणम् व्यवच्छिन्नम्, सन्दिग्धस्यैव साध्यत्वात्, प्रमाणबाधिते साधकप्रमाणावृत्तेरिति।

तदेवमबाधितविषयत्वं निराकृत्य रूपान्तरं निराकुर्व्वन्नाह- “एतेन” अविनाभावे सति बाधाया असम्भवदर्शनेन “एकसंख्याविवक्षाऽपि” विरुद्धाव्यभिचारिदोषविपक्षेणोच्यमाना “प्रत्युक्ता” प्रत्याख्याता।

परः पृच्छति- “कथम्” इति केन प्रकारेण-यथा बाधाविनाभावयोः सहानवस्थानं तथा प्रतिहेत्वविनाभावयोरपि ?, येनैकसंख्याविवक्षा तद्वदेव प्रत्याख्यायेत इति।

सिद्धान्तवादी साम्यं दर्शयन्नाह-“एक” इत्यादि। एको हि हेतुर्लक्षणयुक्तः। स्वसाध्याव्यभिचारी कथं भवति ?। यदि स्वसाध्यभाव एव भवेत्, अन्यथा तल्लक्षणमविनाभावो नाम हीयेत। यत्रैव धर्म्मिणि स तल्लक्षण एको भवति तत्रैव धर्म्मिणि तस्मादन्योऽपि प्रतिहेतुर्विरुद्धस्तेन हेतुलक्षणयुक्तः कथं भवति ?। एकस्य हेतोर्यत् साध्यं तब्दाधकस्य तद्विरुद्धस्यापरस्य धर्म्मस्य भाव एव नाभावे भावादविनाभावादिति बाधया समानं बाधासम्भवेन समानः प्रतिहेतुरिति तन्निरासेनैव निरस्त इति।

अत्रैव दूषणान्तरमभिधातुं विकल्पयन्नाह- “अपि च” इत्यादि। “वस्तुतः” परमार्थतो यस्य प्रतिहेतुर्न सम्भवति किमसौ सम्यग्ज्ञानस्य विपर्यस्य वोपन्यस्तसाध्यविपरीतज्ञानस्य वा हेतुरिष्टो यतो विवक्षितैकसंख्यत्वं तल्लक्षणमुच्यते, आहोस्विद् यस्य प्रतिहेतुस्तत्साध्यविपरीतसाधको न प्रदर्शितः परमार्थतः सन्नपीति। परो दोषमपश्यन्नाह- “किञ्चातः” इत्यादि। यदि नाम पुर्व्वो विकल्प उत्तरो वा ततः को दोषः ? इति।

सिद्धान्तवाद्याह-यद्यसम्भवन् प्रतिहेतुर्यस्य स सम्यग्ज्ञानादिहेतुरिष्यते, तदाऽलक्षणमेतद् विवक्षितैकसंख्यत्वम्। कस्मात् ?। अशक्यो निश्चयो यस्य वस्तुतोऽसम्भवत्प्रतिहेतुत्वस्य स तथोक्तः। परमतापेक्षया चैतदुच्यते। परो हि दर्शनादर्शनाभ्यामसत्यपि प्रतिबन्धेऽविनाभावमिच्छति। ततस्तस्य प्रतिहेतोरेवंविधस्य सम्भवोऽस्ति। स चानुपलभ्यमानोऽपि कदाचित् स्यादिति वस्तुतस्तदभावो निश्चीयते। प्रतिबन्धनिबन्धनाविनाभाववादिनां त्वस्माकं प्रतिहेत्वसम्भवः सुनिश्चित एव। नहि तादात्म्यतदुत्पत्तिलक्षणे प्रतिबन्धे प्रमाणतः सिद्धे तन्निमित्ताविनाभावितया एकेन हेतुना स्वसाध्ये साधिते पुनस्तत्रैव धर्म्मिणि तल्लक्षणस्य तद्विरुद्धार्थसाधकस्य प्रतिहेतोः सम्भवः शङ्कयते, भावानां विरुद्धस्वभावद्वयायोगाद्, विरुद्धधर्म्माध्यासस्य भेदलक्षणत्वात्। विरुद्धधर्म्मसाधकसम्भवे च तस्यैव स्वसाध्याविनाभाविनः प्रथमस्य तत्र प्रमाणतो भावसिद्धययोगादिति।

स्यान्मतम्-यदि नाम प्रस्तुतः प्रतिहेत्वसम्भवोऽस्माभिर्निश्चेतुमशक्यस्तथाप्यसम्भवत्प्रतिहेतुत्वं विवक्षितैकसंख्यत्वप्रतिपादितं हेतुलक्षणं कस्मान्न भवति ? इत्याह- “न ह्यनिश्चितात्मनः” इत्यादि। प्रतिपादको यो धर्म्मो हेतोस्तस्यानिश्चितस्वभावस्य यस्मात् तल्लक्षणत्वं प्रतिपादकधर्म्मता न भवति। यथा संदिग्धस्य पक्षधर्म्मत्वस्येति पूर्व्वकस्य साधनम्। नापि सन्धिग्धं लक्षणं यस्य स हेतुर्भवतीति न कश्चिद्धेतुर्भवेदिति हेत्वभावो वा इत्यस्य समर्थनम्। ततश्च “हेत्वाभासास्ततोऽपरे” इत्यत्रापि योजितमिति।

स्यान्मतम्-यस्य प्रतियोगी दृश्यते तस्यैव प्रतिहेतुभावात् अहेतुत्वं भवतु, यस्य तु प्रतियोगी हेतुर्न दृश्यते स वस्तुत एवासम्भवत्प्रतिहेतुः। न हि तत्र वस्तुतः प्रतिहेतुसम्भवः शङ्कयते, बाधकप्रत्ययमन्तरेण बाधाशङ्काया अयोगात्। तदुक्तम्-

“बाधाज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका” इति।
अत्र आह-“तुल्ये लक्षणे हि” इत्यादि। शङ्कयमानप्रतिहेतुना तुल्यं लक्षणं दर्शनादर्शनमात्रनिमित्ताविनाभावरूपं यस्य तस्मिन् दृष्टः प्रतियोगिनः प्रतिहेतोर्ब्बाधकस्य सम्भवः स येषामपि तत्तुल्यलक्षणानां प्रतियोगी न दृश्यते तेष्वपि शङ्कां प्रतिहेतुसम्भवविषयामुत्पादयति। किं कारणम् ?। अदृष्टप्रतियोगिनो दृष्टप्रतियोगिनो विशेषाभावात्। नहि तस्येतरेण कश्चिद्विशेषोऽस्ति, यतस्तत्सम्भवो न शङ्कयेत। प्रुषशक्तिवैकल्यादिना तु तददर्शनं सम्भाव्येतेति किमुच्यते ‘नाशङ्का निःप्र(ष्प्र)माणिका’ इति। अथ विशेषः प्रतिबन्धलक्षणोऽविनाभावनिश्चायको दृष्टप्रतिहेतोरदृष्टप्रतियोगिन इष्यते यतः प्रतियोगिसम्भवाशङ्काऽस्तमुपैति। तदा सति वा विशेषे स विशेषो हेतोर्लक्षणम्। किं कारणम् ?। यतस्ततो विशेषाद्धेतुरेकान्तेन निश्चयेन निरस्तप्रतिपक्षस्तथाविधे धर्म्मिणि प्रतिहेत्वसम्भवात् स्वसाध्यं निश्चाययतीति। यस्तथाविधो न भवति तद्विशेषविरहात् दृष्टप्रतिहेतुः सोऽतल्लक्षणो न हेतुः स्यात्। तथा च यदि नामाऽहेतौ प्रतिहेतुर्दृष्टो, हेतोः किमायातम्, येन तन्निवृत्तये तत्रैकसंख्याविवक्षा क्रियते, यथोक्ताविनाभाववचनेनैव तन्निवृत्तेरित्याह- “तथा च हेतौ” तद्विशेषयोगिनि “प्रतिहेत्वसम्भवे” सति “व्यर्था” निष्प्रयोजना “एकसंख्याविवक्षेति”। यथोक्तविशेषाङ्गीकरने तल्लक्षणस्य प्रतिहेतोरसम्भवात् कस्यैकसंख्याविवक्षया व्यवच्छेदः क्रियते ? यतोऽस्य सार्थकत्वं स्यादिति।

विरुद्धाव्यभिचारिणश्च हेत्वाभासस्य व्यवच्छेदार्थमेकसंख्याविवक्षा हेतुलक्षणे क्रियते। वस्तुतोऽसम्भवत्प्रतिहेतुत्वसिद्धये च प्रतिबन्धलक्षणे विशेषे हेताविष्यमाणे विरुद्धाव्यभिचार्यपि हेत्वाभासो न भवति। ततो व्यवच्छेद्याभावात् किमेकसंख्याविवक्षया ? इति दर्शयन्नाह-“अतः” प्रतिबन्धलक्षणविशेषोपगमात् “विरुद्धाव्यभिचारिणो हेत्वाभासस्य यल्लक्षणं तद्धीयेत” न सम्भवेत्। किं पुनस्तद्विरुद्धाव्यभिचारिणो लक्षणम् ? इत्याह- “स्वलक्षण” इत्यादि। हेतोर्यदात्मीयं लक्षणं तद्युक्तयोर्हेत्वोरेकत्र धर्म्मिणि विरोधेन परस्परविरुद्धसाध्यसाधकत्वेनोपनिपाते सति विरुद्धाव्यभिचारीति विरुद्धाव्यभिचारिणो लक्षणम्। न च तत् प्रतिबन्धाङ्गीकरणे सति सम्भवति। नहि तादात्म्यतदुत्पत्तिभ्यां स्वसाध्यप्रतीबन्धवत्येकत्र हेतौ क्वचिद्धर्म्मिणि संभवति द्वितीयस्तल्लक्षस्तत्रैव हेतुः सम्भवेत्, भावानां विरुद्धस्वभावद्वयासम्भवात्, विरुद्धधर्म्माध्यासस्य भेदलक्षणत्वात्। तदव्यभिचारिणो हेतोर्द्वितीयस्य तत्र कुतः सम्भवावकाश इति।

ननु यदि तथविधाविशेषसम्भवे सति विरुद्धाव्यभिचारिलक्षणं हीयते, एकसंख्याविवक्षा वा व्यर्था, तथापि नैव हेत्वभावपरसङ्गः, तत् किमुक्तं हेत्वभावो वेत्यत आह- “न च” नैव “तस्य” विशेषस्य प्रतिबन्धलक्षणस्य, यतो वस्तुतोऽसम्भवत्प्रतिहेतुत्वं निश्चीयते। “स्वरूपं” तादात्म्यतदुत्पत्तिलक्षणं निर्द्दिश्यते भवद्भिः यथाऽस्माभिर्निर्दिष्टं यद्रूपं “प्रतीत्य” प्रतिपद्य प्रतियोगिनः अम्भवासम्भवावुत्पश्यामः। यत्र स विशेषो नास्ति तत्र प्रतियोगिनः सम्भवः कल्पित आगमाश्रयेऽनुमाने। यत्र त्वस्ति स विशेषो वस्तुबलप्रवृत्तेऽनुमाने तत्र प्रतियोगिनोऽसम्भव इति। यत एवं तस्मान्नास्त्येव भवतां स विशेषः-भवभ्दिर्न ज्ञायत एव स विशेष इति। तस्मात् सर्व्वत्र यत्रापि प्रतियोगी न दृश्यते तत्रापि शङ्कया प्रतियोगिविषयया भवितव्यम्। तामेव शङ्कां द्रढयन्नाह- “दृष्टप्रतिहेतोरपि” इत्यादि। यस्यापि हि प्रतिहेतुर्दृष्टस्यापि प्राक् प्रैत्योगिदर्शनादितरेण सर्व्वकालमदृष्टप्रतियोगिना न कश्चिद् विशेषो लक्ष्यते यद्दर्शनाज्ज्ञायेत ‘अत्र प्रतियोगी सम्भवति न्यान्यत्र’ इति दर्शनादर्शनमात्रनिबन्धनयोरन्वयव्यतिरेकयोः सर्व्वत्र समानत्वात्। तथापि पश्चात्तत्र प्रतियोगी दृष्ट इति सर्व्वत्र तत्तुल्यलक्षणे प्रतियोगिसभ्दावशङ्का न निवर्त्तत इति।

स्यान्मतम्-येषु प्रतियोगी सम्भवति तेष्वश्यमेव कदाचिदसावुपलभ्यते। येषु तु पुरुषायुषेणापि नोपलभ्यते तेष्वसौ नास्त्येव। ततः स तथाविधो हेतुर्भविष्यति, तत् कथं हेत्वभावोऽस्माकम् ? इत्यत आह- “न च” इत्यादि। येषामपि हि प्रतिहेतुः सम्भवति तेषामपि नैव सर्व्वदा तस्य प्रतिहेतोरूपलब्धिः प्रतिपत्तॄणाम्। न ह्यसर्व्वदर्शिनामुपलब्धिः सर्व्वभावसत्तां व्याप्नोति, प्रतिबन्धवैकल्यसभ्दावात्। ननु च यत्र सर्व्वदैव प्रतिपत्र(त्त्रा) प्रतियोगी न दृश्यते तत्र तदाशङ्काकथं क्रियते ?। तथा चाह-

“बाध(धा)ज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका” इति।
तथाऽपरम्-
“उत्प्रेक्षेत हि यो मोहादजातमपि बाधकम्।
स सर्व्वव्यवहारेषु संशयात्मा क्षयं व्रजेत्॥” इति।

अत आह-“अतिशयवती तु” इत्यादि। तथा हि कस्यचिदेव प्रमातुः कुशाग्रीयमतेरतिशयवती प्रज्ञा प्रतिहेतूत्प्रेक्षिणी दृष्टाऽस्माभिः यथा वेदप्रामाण्यनिराकर्तृषु [हेतुषु] सौगतैः शिष्यपरम्परया कुमारिलोत्पादात्प्रागदृष्टप्रतियोगिषूपन्यस्तेषु, तेनैव प्रज्ञातिशयशालिना प्रतिहेतव उत्प्रेक्षिताः ततस्तद्दर्शनात् यावज्जीवं अदृष्टप्रतिहेतुष्वपि तदाशङ्का न निवर्त्तते। ततः कथमाशङ्का निष्प्रमाणिकोच्यते ?। “तुल्यलक्षणे हि” इत्यादिकमपि प्रतियोगिसम्भवाशङ्काकारणमुक्तमेव। न च प्रतियोगिसम्भवमाशङ्कमानस्तन्निमित्तसंभवात् ‘उत्प्रेक्षेत हि’ इत्याद्याक्रोशमात्रेण निवर्त्तयितुं शक्यते। तेनास्य प्रतियोग्याशङ्कापनोदक्षमं किञ्चित् कारणमभिधानीयम् यथाऽस्माभिरभिहितं ‘स्वभावहेतोर्विपर्येये बाधकप्रमाणवशात्तादात्म्यनिश्चये सत्यन्वयव्यतिरेकयोस्तत्र निर्ण्णयः; कार्यहेतौ च यथोक्तप्रत्यक्षानुपलम्भतः कार्यकारणसिद्धेस्तनिश्चय’ इति। यत एवं सर्व्वत्र प्रतियोग्याशङ्का न निवर्त्तते भवद्दर्शने तेन कारणेनानिश्चयः प्रतियोगिनः सम्भवासम्भवयोः ‘इह प्रतियोगी सम्भवति इह तु न सम्भवति’ इत्येवंरूप इति। तस्माद्वस्तुतोऽसम्भवत्प्रतिहेतुत्वं यल्लक्षणं हेतोः तस्यानिश्चितत्वादेकसंख्याविवक्षावादिनां न कश्चिद्धेतुः स्यात्। न ह्यनिश्चितलक्षणो हेतुर्भवतीत्युपसंहार इति।

तदेवं ‘किं यो वस्तुतोऽसम्भवत्प्रतिहेतुः स सम्यग्ज्ञानविपर्ययहेतुरिष्टः’ इति अमुं विकल्पं निराकृत्य द्वितीयं विकल्पं निराचिकीर्षुराह- “अथाप्रदर्शितप्रतिहेतुः” सम्यग्ज्ञानविपर्यहेतुरिष्ट इति सम्बन्धः। अयं च पक्षः किल दिङ्नागाचार्यस्याप्यभिमत इति पर उपदर्शयन्नाह-“यथाह दिङ्नागाचार्यः”। किमाह ? ”यदा तर्हि” इत्यादि। “श्रावणत्वस्य हि न कथञ्चिव्द्यवच्छेदहेतुत्वम्” इति दिङ्नागाचार्येणोक्ते परेणाभिहितम्- “यदा तर्हि वैयाकरणः शब्दत्वं सामान्यविशेषं नित्यमभ्युपगच्छति तदाऽयं श्रावणत्वलक्षणः पक्षधर्म्मः हेतुरेव स्यात्। नित्यः शब्दः श्रावणत्वात् शब्दत्ववत्” इत्येवं परेणोक्ते सत्याचार्येणोक्तम्- “यद्यत्र शब्दाख्ये धर्म्मिण्यनित्यत्वहेतुं कृतकत्वप्रयत्नानतरीयकत्वादिलक्षणं कश्चिद् वैशेषिकादिर्न दर्शयेत् तदाऽयमप्रदर्शितप्रतिहेतुर्हेतुरेव भवेत्” इति।

तदेवामाचार्यपादैः साक्षित्वे दत्ते भुजमुत्क्षिप्य शास्त्रकारः पूत्कुर्व्वन्नाह- “इदमिदानीम्” इत्यादि। यदा ह्याचार्यस्याप्येतदभिमतमिति कैश्चिव्द्याख्यायते तदिदं सुमहव्द्यसनमायातम्-गुरुभिरभिहितत्वादप्रकाश्यम्, नहि गुरूणां दोषः प्रकाशयितुं युक्तः, “न्यायमनुपालयभ्दिः असंवरणीयम्” अप्रच्छादनीयम्। तत् किं गुरून् दूषयाम उत न्यायमप्युपेक्षामहे इत्युभयमप्यशक्यमिति “कष्टतरं व्यसनं कथं निर्वोढुं शक्येत ?”। न कथंचिदिति। कः पुनरत्र दोषो येनेदं कष्टतरमित्याह-“स तावदयं” श्रावणत्वलक्षणो “हेतुर्व्वस्तूनि” शब्दादीनि स्वसाध्यं तत्त्वं नित्यत्वं “तत्प्रकृतीनि” तदात्मकानि “कृत्वा” तच्छ्रावणत्वं प्रमाणं येषां पुरुषाणां मीमांसकवैयाकरणादीनां तान् “अभ्युदयेन” स्वर्ग्गेण “निःश्रेयसेन” चापवर्ग्गेण “योजयित्वा”। तथा हि- वस्तुतत्त्वं भावयन् यावत् क्लेशान्न् प्रजहाति तावत् स्वर्गमासादयति, क्लेशांस्तु प्रजहन्निर्वाणपरायणो भवति। अथावा शब्दनित्यत्वप्रतीतौ वेदप्रामाण्यात् तद्विहिताग्निहोत्रानुष्ठानात् स्वर्ग्गो वेदान्तनिषेवणादपर्वग्गः। पुनरुत्तरकालं “प्रतिभावता” प्रज्ञाजातीयेन वैशेषिकादिना पुरुषेण “हेत्वन्तरस्य” प्रतिहेतोः “निदर्शनेन” यदस्य “नित्यत्वसाधनसामर्थ्यं” प्रतिहेत्वनुपदर्शने सत्यासीत् त्ततदुपदर्शनेन “उत्कीलितम्” अपनीतमिति। तानि वस्तूनि नित्यत्वसम्पदः प्रच्याव्य, तांश्च तत्प्रमाणकान् पुरुषान् स्वर्ग्गापवर्ग्गसम्पदः प्रच्याव्य श्रावणत्वलक्षणो हेतुः शक्तिवैकल्यात् परित्रातुमशक्तो भ्रष्टराज्य इव राजा तपोवनं गच्छति स्वैरेव दुश्चरितैरिति किमत्र वयं ब्रूमः ?।

तदेवमुपहस्यैतस्मिन् पक्षे दोषमुपदर्शयन्नाह- “पुरुषप्रतिभा” इत्यादि। यद ह्यप्रदर्शितप्रतिहेतुर्हेतुर्हेतुरिष्यते तदा पुरुषप्रतिभाकृतं साधनत्वमभ्युपगतं भवति। ततश्च वस्तुतो न किञ्चित् साधनमसाधनं वा प्राप्तम्। तथा हि-यदा प्रतिहेतुर्नोपदर्श्यते तदा साधनम्, यदा तूपदर्श्यते तदा न साधनमिति पुरुषप्रतिभाकृतं साधनत्वमायातमिति।

अपि च- अप्रदर्शितप्रतिहेतोर्हेतोर्हेतुत्वेऽङ्गिक्रियमाणे विकल्पद्वयम्- किं परमार्थतो हेतुस्तद्धर्म्मभावी, उताऽतद्धर्म्मभावीति ?। तत्राद्यं विकल्पमधिकृत्याह-“स च” हेतुर्योऽसौ प्रथमं उपादीयते। स “यदि स्वभावत” एव “तस्मिन्” साध्यधर्म्मे “सत्येव भवति” इत्येवंशीलोऽस्मदुपवर्ण्णितप्रतिबन्धोपगमात् यदीष्यते “तदा कथमन्यथा क्रियेत” हेत्वन्तरेणातद्धर्म्मभावी कथं क्रियेत?। न कथञ्चित्। किं कारणम् ?। वस्तूनां हेतुलक्षणानां यःस्वभावः-‘सत्यमेव साध्यधर्म्मे भवनात्मकः’-“तदन्यथाभावस्य” तद्विपर्ययस्य “अभावाद्” उभयोश्च स्वसाध्यधर्माविनाभावित्वे स्वभावत एव धर्म्मिण्येकत्र तयोर्भावे विरुद्धावुभौ स्वभावावेकस्य स्याताम्। न चैकस्य विरुद्धौ स्वभावौ सम्भवतः, विरुद्धधर्म्माध्यासेन तस्यैकत्वहानिप्रसङ्गात्। अथ द्वितीयो विकल्पस्तदा “अतद्धर्म्मभावी च” असत्यपि साध्यधर्म्मे भवनशीलः प्रतिबन्धानभ्युपगमात् “कथमन्यदाऽपि” अप्रदर्शितप्रतिहेत्ववस्थायामपि “साधनं” कस्यचित् ?। नैव तदापि साधनम्, न केवलं प्रदर्शितप्रतिहेत्ववस्थायामिति।

उपसंहरन्नाह-“तस्मात् स्वभावतः” इत्यादि। यत एवं भावानां स्वभावोऽन्यथा कर्तुं न शक्यते, विरुद्धोभयस्वभावश्चैको न सम्भवति तस्मात् परमार्थतः स्वेन स्वेन साध्येनाविनाभाविनोर्यथोक्तलक्षणयोः कार्यस्वभावहेत्वोः तल्लक्षणस्य कार्यस्वभावलक्षणस्य प्रतिहेतोरसम्भवाद् “अलक्षणमेकसंख्याविवक्षा” विवक्षितैकसंख्यत्वं लक्षणं न भवति। किं कारणम् ? इत्याह- “व्यवच्छेद्याभावादिति”। प्रतिहेतुर्हि विवक्षितैकसंख्यत्वस्य व्यवच्छेद्यो वर्ण्यते। स च प्रतिहेतुः स्वलक्षणयुक्तयोः कार्यस्वभावयोर्न्न भवत्येवेति कथं तद्धेतुलक्षणं स्यादिति। तदेवमनयोर्द्वयो रूपयोर्यः सम्भवो यथोक्ताविनाभावाऽसम्भवे सतीति रूपान्तरोपगमेऽपि हेत्वाभासतैवेति “हेत्वाभासास्ततोऽपरे इति” इत्यस्यार्थो विवृत इति।

ज्ञातत्वनिराकरणायाह- “ज्ञानं पुनः” इत्यादि। अवाधितविषयत्वं विवक्षितैकसंख्यत्वं च कार्य-स्वभावहेत्वोरेवाविनाभावे सति बाधाप्रतिहेत्वोरसम्भवात् व्यवच्छेद्याभावत्वेन सत्यपि लिङ्गधर्म्मत्वे तल्लक्षणं न भवतीत्युक्तम्। ज्ञानं तु ज्ञातत्वम्, तस्यैव भावप्रत्ययेनाभिधानात्। तथा हि-ज्ञानशब्दप्रवृत्तिनिमित्तं ज्ञातत्वमुच्यते, तच्च ज्ञानमेव, तदुत्पादे सति ज्ञात इति व्यवहारात्। न च तत् लिङ्गस्यात्मरूपमिति कथं लिङ्गलक्षणं भविष्यति ?। यद्यपि विकल्पप्रतिभासी सामान्याकारो लिङ्गतयाऽवस्थाप्यते तथापि न ज्ञानस्य लिङ्गधर्म्मता। न ह्यसौ स्वतन्त्र एव लिङ्गम्। यदाह- “विकल्पभेदान स्वतन्त्राणामन्वर्थाश्रयणात् तत्कल्पितविषयादऽर्थप्रतिपत्तावनर्थप्रतिलम्भ एव स्यात्” इति। तस्माद् वाह्यवस्तूपादानस्यैवास्य लिङ्गताऽवस्थाप्यते। साध्यसाधनसंकल्पे वस्तुदर्शनहानेः स्वलक्षणस्य क्वचिदनन्वयाच्च तद्धर्म्मतामेव त्वनुस्मरन्तो विकल्पा नानैकव्यतिरेकान् संदर्शयन्तो वस्तुनि परम्परया प्रतिबन्धादविसंवादकाः कार्यादिलिङ्गव्यपदेशनिबन्धनं चेत्युक्तप्रायम्।

न च तस्य कार्यादेरात्मरूपं ज्ञानम्। विकल्पावभासी च सामान्याकारो नैव विकल्पस्यात्मभूतः, तस्य नीरूपस्य वस्तुरूपविरोधात्। तद्रूपस्य च विकल्पप्रतिबिम्बचक्रस्य सामान्यात्मताविरहात्। यस्मादबाध्यस्यापि बाह्यतया व्यवसितस्याननुयायिनोऽप्यनुयायितया सामान्यात्मकत्वं तथात्वे चास्य विकल्परूपता कुतः ? यदाऽऽह-

“ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं व्रजेत् ?॥
तस्मान्मिथ्यावभासोऽयमर्थेष्वेकात्मताग्रहः।” इति।
न ज्ञानस्य लिङ्गधर्म्मता। एतदेव साधयन्नाह- “किंरूपाद्” इत्यादि। किमात्मकात् “हेतोरनुमेयोऽर्थो ज्ञातव्यः इति चिन्तायां” प्रकृतायां “प्रतिपत्तुः” पुंसो यदविसंवादकं लिङ्गं तस्य स्वरूपमभिधीयते शास्त्रकारैः यस्य रूपस्य दर्शनादयं प्रतिपत्ता ‘यत्र तद्रूपसम्भवः तत् साधनम् तद्रूपविकलमसाधनम्’ इति प्रविभागेन व्यवस्थाप्य यत्तत्र साधनत्वेन व्यवस्थापितं तस्येष्टार्थसन्निधानसम्प्रत्ययात् प्रवृत्तिमवलम्बते। तथा, एतस्मिंश्च न्याये व्यवस्थिते यदस्य लिङ्गस्यात्मरूपं तल्लक्षणं भवितुमर्हति पक्षधर्म्मादिवत् न तु यत् पररूपम्।

स्यादेतत्-ज्ञातस्य लिङ्गस्य साधकत्वाद् युक्तैव साध्यसिद्ध्युपयोगिनो ज्ञानस्य लिङ्गलक्षणतेत्यत आह- “प्रतिपत्तिजन्मनि” इत्यादि। यद्यनुमेयप्रतीतिजन्मन्युपयुज्यते ज्ञानमिति तन्मात्रेण लिङ्गस्य लक्षणमिष्यते तदाऽतिप्रसङ्गः प्राप्नोति। तमेवाह- “एवं प्रतिपत्तिजन्मन्युपयोगमात्राल्लिङ्गलक्षणत्वे प्रमेयस्य” अर्थस्य “पुरुषस्य” प्रमातुः “आदि” शब्दात् संयोगसमवायादीनामालोकमनस्कारादीनां लिङ्गलक्षणत्वं भवेत्। अत्र कारणमाह- “नहि तेष्वपि” प्रमेयादिषु असत्सु लिङ्गिनि ज्ञानं भवतीति कृत्वा। अत्र परोऽनिष्टमापादयन्नाह- “निश्चितग्रहणं तर्हि” इत्यादि। यदि पररूपत्वाज्ज्ञानं लिङ्गलक्षणं न भवति तदा च यदेतदाचार्येण-

“अनुमेयेऽथ तत्तुल्ये सभ्दावो नास्तिताऽसति।
निश्चिते” ति-
निश्चितग्रहणं कृतं भवतश्चाभिमतं तन्न कर्त्तव्ययम्। तथा हि-निश्चयो हि लिङ्गस्य पररूपमेव। स चेत् तल्लक्षणम्, ज्ञानं किमिति नेष्यते यतो निश्चयो विज्ञानमेव तद्विशेषत्वादस्येति।

सिद्धान्तवाद्याह- “न न कर्त्तव्यं” किन्तु कर्तव्यमेव तस्य निश्चितग्रहणस्य लिङ्गरूपप्रतिपादन्यार्थत्वात्। तामेवान्यार्थतां दर्शयन्नाह- “सपक्षविपक्षयोः” इत्यादि। परे हि सपक्षे दर्शनमात्रेणासपक्षे चादर्शनमात्रतो गमकं हेतुमिच्छन्ति। तेषां नैव दर्शनमात्रेण साध्यसिद्धौ समर्थो हेतुर्भवतीति ज्ञापनार्थं निश्चितग्रहणं कृतम्। यतः सतोर्विद्यमानयोरपि दर्शनादर्शनयोरगमकत्वं हेतोर्दृश्यते ‘स श्यामः, तत्पुत्रत्वात्’ इत्यादौ। यत एवं तेन कारणेन सपक्षे भावेन विपक्षे सर्व्वत्राभावविशिष्टेनाऽसपक्षे च सर्व्वत्राभावेन सपक्षे तादात्म्यतदुत्पत्तिलक्षणभावविशिष्टेन गमको हेतुरित्यस्यार्थस्य ज्ञापनार्थं लक्षणवाक्ये निश्चितग्रहणं कृतं बोद्धव्यम्। एतदुक्तं भवति- यावेव सपक्षविपक्षयोः भावाभावौ प्रतिबन्धसाधकप्रमाणवृत्त्या निश्चितौ ताभ्यामेव हेतुर्गमको भवति, न तु यथाकथञ्चिद्दर्शनमात्रेणेत्यस्यार्थस्य ज्ञापनाय निश्चितग्रहणं कृतमिति।

प्रकृतमुपसंहरन्नाह- “तेन” इत्यादि। येन विशिष्टयोर्भावाभावयोरेव ख्यापनाय निश्चितग्रहणं कृतम्, न रूपान्तराभिधानाय, अनात्मरूपस्य च लक्षणता न युज्यते, तेन पररूपं लिङ्गस्य लक्षणं न भवति। यतः तेन ज्ञानादिना पररूपेण लिङ्गस्य न कश्चिद् रूपविशेषोऽभिधीयत इति।

ननु च परेऽपि सपक्षविपक्षयोर्भावाभावाभ्यां गमकं हेतुमिच्छन्ति, दर्शनादर्शने तु तयोरेव साधके, तत् किमर्थं निश्चितग्रहणम् ? इति, अत आह- “तौ हि” इत्यादि। यद्यपि परे भावाभावाभ्यामेव गमकं हेतुमिच्छन्ति तथापि सपक्ष एव भावोऽसपक्षे चाभाव एवेति भावाभावौ दर्शनादर्शनमात्रतो व्यवस्थापयन्ति। न च ततस्तौ तथाविधौ सिध्यतः, प्रतिबन्धविकलानामप्यर्थानां क्वचिद् भावाभावयोः कथञ्चिद्दर्शनादर्शनसम्भवात्। तस्माद् यौ ‘हेतोः सपक्षे एव भावोऽसपक्षे चाभाव एव’ इत्येवमात्मकौ भावाभावौ तौ तभ्दावस्य साधकं यत् प्रमाणं तादात्म्यतदुत्पत्तिसाधनविषयं तद्धृत्त्या वोद्धव्यौ। कुतः ? उपायान्तरस्याभावात्। तदनभ्युपगमे हि हेतोः सपक्ष एव भावः सर्व्वेषां हेतुमतां भावानां साध्येनानुगमदर्शने सति विपक्षे चाभाव एव साध्यविकलानां सर्व्वार्थानां हेतुविविक्तानां उपलम्भे सति स्यात्। न चैतदसर्व्वदर्शिनः सम्भवतीति। यत उपायान्तरं नास्ति तेन कारणेन तयोर्व्विशिष्टयोर्भावाभावयोः प्रतिपादनाय निश्चितशब्दः प्रयुक्तो लक्षणे लक्षणकारेणेति।

ननु च भावाभाववचनमात्रादेव प्रमाणतो निश्चयो लभ्यते अन्यथा तयोरेव सत्ता न प्रसिध्येदिति, अत आह- “यद्यपि” इत्यादि।

“अनुमेयेऽथ तत्तुल्ये सभ्दावो नास्तिताऽसति।”
इत्यनेनैव सपक्षासपक्षयोः भावाभाववचनमात्रेणा निश्चितग्रहणनिरपेक्षेण तयोर्भावाभावयोर्यत् साधनं प्रमाणं तस्य वृत्तिर्यद्यप्याक्षिप्यते। कथं पुनर्निश्चितग्रहणमन्तरेण भावाभाववचनमात्रतस्तद्धृत्तेः आक्षेपः ? इत्याह- “अन्यथा” यदि तत्साधनप्रमाणवृत्तिर्नाक्षिप्येत, तदा “तयोरेव” सपक्षविपक्षयोरेव भावाभावयोर्या सत्ता स्वरूपव्यवस्था तस्या “अप्रसिद्धेः”। कस्मादप्रसिद्धिः ? इत्याह-“ज्ञानस्य” उपलब्धेर्या सत्ता उत्पत्तिः तन्निबन्धनत्वाज्ज्ञेयस्य भावाभावलक्षणस्य सत्ताव्यवस्थायाः स्वरूपव्यवस्थितेः। न ह्युपलम्भमन्तरेण स्वत एवार्थाः सिध्यन्ति, सर्व्वस्य सर्व्वसिद्धिप्रसङ्गात्। तस्मादिदमेवंरूपं नैवंरूपमिति तदाकारज्ञानोदयादेव व्यवस्थाप्यते। यत एवं तस्मात् सर्व्वत्र शास्त्रे लोके वा ज्ञेयसत्ताव्यवस्थैव निश्चितग्रहणं विनाऽपि “तत्साधनं” तत्सत्तासाधनं प्रमाणम् “आकर्षति” आक्षिपतीति। किञ्च, परार्थत्वाच्च शास्त्रप्रणयनस्य तत्साधनप्रमाणवृत्तिराक्षिप्यते इति सम्बन्धः। कीदृशं पुनस्तच्छास्त्रप्रणयनं यत् परार्थरूपतया स्वव्यवस्थापितज्ञेयसत्तासाधनं प्रमाणमाक्षिपति ? इत्याह- “ त्रिरूपं लिङ्गं वः संवादकं प्रापकं” वाञ्छितस्यार्थस्येति। यदि नामैवंरूपं परार्थं शास्त्रप्रणयनं तथापि कथं तत् साधनप्रमाणवृत्तिमाक्षिपतीत्याह- “तद्रूपं” तस्य लिङ्गस्य त्रिरूपस्य रूपं स्वभावं शास्त्रोक्तं ये प्रतिपत्तारो न विदन्ति, न तेषां ततस्त्रिरूपाल्लिङ्गाच्छास्त्रोक्ताद् वाञ्छितेऽर्थे प्रवृत्तिर्भवति, अज्ञातस्यार्थस्य ज्ञापकस्य स्वसत्तामात्रेण प्रवर्तकत्वाभावात्। यत एवम् “इति” तस्मात् परोपलक्षणत्वादेव परेषां ज्ञापकत्वादेव प्रवर्त्तके त्रिरूपलिङ्गे ज्ञानं सिद्धमिति यद्यपि निश्चितग्रहणमतिरिच्यते तथापि तावेव लिङ्गस्य सपक्षासपक्षयोर्भावाभावौ विशिष्टौ शास्त्रोक्तौ ‘सपक्ष एव भावोऽसपक्षे चाभाव एव’ इत्येवंरूपौ केचिन्नैयायिकप्रभृतयः, परे दर्शनादर्शनमात्रेण- ये दर्शनादर्शने प्रतिबन्धसाधके न भवतः- तन्मात्रेण व्यवस्थापयन्ति “यत एव इति” तस्मात्तेषां वादिनां निषेधार्थोऽयं लक्षणे निश्चितशब्दः प्रयुक्त आचार्येणास्माभिश्चाभ्युपगत इति। यदि तु परविप्रतिपत्तिः न स्यात् तदा नैवासौ प्रयुज्येतेति।

किमिति पुनर्द्दर्शनादर्शनाभ्यां भावाभावविषयाभ्यां सपक्षा [स]पक्षयोः विशिष्टौ भावाभावावन्वयव्यतिरेकात्मकौ नेष्येते इत्याह- “सतोरपि” इत्यादि। सत्यपि क्वचित् सपक्षे भावदर्शने हेतोः क्वचिच्चासपक्षेऽभावदर्शने ‘स श्यामः, तत्पुत्रत्वात्’ इत्यादावन्वयव्यतिरेकयोः संशयात्। तथा हि- अन्वयो नाम सर्व्वत्र सत्येव साध्ये हेतोर्भावो व्याप्त्या चासति साध्ये हेतोरभावो व्यतिरेकः। न च क्वचित् सति साध्ये हेतोर्भावदर्शनेऽपि तन्मात्रेण तथाभावः सर्व्वत्र भवति, अप्रतिबद्धस्वभावानां सहभावनियमाऽभावात्। तथा क्वचित् साध्याभिमतस्याभावे सत्यभावदर्शनेऽपि हेतोः सर्व्वत्र तदभावेऽवश्यमभावः, तदनायत्तस्य तन्निवृत्तौ नियमेन निवृत्त्यभावात्। तस्मात् प्रतिबन्धप्रसाधकप्रमाणवृत्त्यैव यथोक्तौ सपक्षासपक्षयोः भावाभावौ सिध्यतः नान्यथेति विप्रतिपत्तिनिरासार्थमेव निश्चितग्रहणं कृतमित्युपदर्शयन्नाह- “तस्मात्” इत्यादि। “अस्माभिः” इत्याचार्यकृते निश्चितग्रहणेऽन्यत्रास्माकमभिमतत्वात् “अस्माभिः” इत्याह।

तदेवं विप्रतिपत्तिनिरासार्थं निश्चितग्रहणम्, असत्यां तु विप्रतिपत्तौ तन्न कर्तव्यमेवेति प्रतिपाद्य अत एव न्यायात् ज्ञातत्वं रूपान्तरं न भवतीति दर्शयन्नाह- “यतोऽपि”इत्यादि। “पृथगतः” इति पक्षधर्म्मत्वादेस्त्रैरूप्यात्। कुतः ? “तेनैव”त्रैरूप्यवचनेनैव तत्साधनप्रमाणाक्षेपतः “अवगतत्वात्” प्रतिपन्नत्वादिति। किंवत् ? “उपनयार्थवत् पक्षधर्म्मत्वात्” इति। यथा पक्षधर्म्मत्ववचनेनैव हेतोरुपनयस्यार्थोऽवगतस्तस्य धर्म्मिणि हेतोः सभ्दावप्रदर्शनात्मकत्वात्, पक्षधर्म्मवचनस्य च तद्रूपत्वात् ततः पृथगुपनयो रूपान्तरं न भवति; तथा त्रैरूप्यात् ज्ञानं, तद्वचनेनैवावगतत्वादिति।

अत्र परोऽनिष्टमापादयन्नाह- “अन्वयव्यतिरेकयोरपि” इत्यादि। यदि त्रैरूप्यवचनेनैव सामर्थ्याज्ज्ञानं लभ्यत इति तत् ततः पृथग् न वक्तव्यम् “हन्तः” तर्हि अन्वयात् पृथग् व्यतिरेको न वक्तव्यः व्यतिरेकाच्च पृथगन्वयः। किं कारणम् ?। एकस्यान्वयस्य व्यतिरेकस्य वा प्रयोगादुभयस्य गतेः। कृतं च तयोः पृथग्वचनं, तथा ज्ञातत्वस्यापि त्रैरूप्याद् गम्यमानस्यापि पृथग्वचनं कर्त्तव्यमिति।

सिद्धान्तवाद्याह- “न, हेतोः” इत्यादि। नान्वयव्यतिरेकयोर्न पृथक्त्वं किन्तु भिन्नरूपतैव। तथा हि-अन्वयो हेतोः सपक्षे भाव उच्यते, व्यतिरेकः पुनरभावोऽसपक्षे। न च तौ परस्परमाक्षिपतः परस्परमन्तर्भवतो विधिप्रतिषेधरूपयोर्भिन्नस्वभावत्वात्। न च यो यतो भिन्नस्वभावः स तत्रान्तर्भूतो युक्तो। ननु च यद्यन्वयव्यतिरेकयोर्भिन्नरूपता कथं तर्हि त्रिरूपं लिङ्गमुच्यते ?। नहि परस्परभिन्नावात्मानावेवास्य युज्येते, स्वभावभेदलक्षणत्वाद् वस्तुभेदस्य। नैष दोषः, यतो यथाऽन्वयव्यतिरेकौ व्यवस्थाप्येते न वा नयो (प्येते तथा तयो)रनन्तर्भाव उच्यते नान्यथा। कथं चेतौ व्यवस्थाप्येते ?। व्यावृत्तिकृतं भेदमुपादाय। तथा चानयोर्भिन्नरूपतैव। व्यावृत्तिभेदेऽपि च परमार्थतो भेदो नास्तीत्येकं लिङ्गं त्रिरूपमित्युच्यते इति।

कथं तर्हि प्रागुक्तम् ‘नानयोरर्थतः कश्चिद् भेदः, अन्यत्र प्रयोगभेदाद्’ इति ? अत आह- “एकं वाक्यम्” इत्यादि। अन्वयमुखेन व्यतिरेकमुखेण वा प्रयुक्तमेकं वाक्यमुभयमन्वयं व्यतिरेकं च भिन्नलक्षणमेव गमयतीत्युच्यतेऽस्मभिर्न्नैकोऽर्थः स्वभावो द्वितीयस्योच्यते, परस्परभिन्नयोरेवैकवाक्यार्थरूपत्वात्।

अत्र पर आह-“न तु तत्रैव” इत्यादि। अयमभिप्रायः-लक्षणवाक्यप्रतिपादितावन्वयव्यतिरेकावाश्रित्य परस्परान्तर्भावश्चोद्यते। स च विद्यत एव। तथा हि- ‘तत्रैव भावः’ इत्यत्र लक्षणवाक्ये तदर्थतया तदभावेऽभावो गम्यते; ‘अतद्‍भावेऽवश्यमभावः’ इति चात्र ‘तद्भावे भावः’। न ह्यसति प्रतिबन्ध एकाभावेऽपरस्याभावः। प्रतिबन्धश्च तादात्म्यतदुत्पत्तिभ्यां तद्भावे भावरूप एव। ततश्चैकेनैव सपक्षासपक्षयोर्भावाभावप्रतिपादकेन प्रतिविशिष्टेन लक्षणवाक्येनोभयगतेर्द्वितीयवचनं न कर्त्तव्यमिति। तथा चैकवाक्यार्थान्तर्भावाद् भिन्नस्वभावताऽप्यनयोर्दुर्ल्लभा। ततश्च यदुक्तम् ‘अन्वयव्यतिरेकयोरपि तर्हि न पृथक्त्वमिति’ तत् तदवस्थमेवेति।

सिद्धान्तवाद्याह-“वचनमेतत्” ‘तत्रैव भावः’ इत्यादिरूपम् “उभयमाक्षिपति” प्रतिपादयति। कुतः ?। सामर्थ्यादुभयप्रतिपादनशक्तत्वात्। कथम् ? इति चेत्, आह-“एकस्यापि वाक्यस्य” कीदृशस्य ?। “नियमख्यापकस्य” ‘सपक्ष एव भावोऽसपक्षे चाभाव एव’ इति सावधारणस्य “द्वितीयाक्षेपनान्तरीयकत्वात्” द्वितीयप्रतिपादननान्तरीयकत्वात्। “न च तावतैकवाक्यप्रतिपादनमात्रेणोभयोरेकस्वभावता” भिन्नस्वभावानामप्यर्थानामेकवाक्येन प्रतिपादनात्। एकेनैव च लक्षणवाक्येनोभयगतावपि यत् “पृथगभिधानं” तत् “प्रयोगनियमार्थम्”। साधर्म्यप्रयोगे वैधर्म्म(र्म्य)वचनं न कर्त्तव्यम्, वैधर्म्यप्रयोगे च साधर्म्म्यवचनमिति न पुनरेकाभिधानेनानवगतस्य रूपान्तरस्य प्रतिपादनार्थम्। न च तथा त्रैरूप्यवचनेन ज्ञाननिबन्धनेन ज्ञेयसत्ताव्यवस्थायाः प्रोपलक्षणार्थेन च शास्त्रप्रणयनेनाश्रितज्ञानस्यैव त्रैरूप्यस्य प्रतिपादनाल्लब्धस्य ज्ञानस्य पुनर्व्वचने न किञ्चित् प्रयोजनमस्तीति नास्य पृथग्वचनं युक्तमिति।

स्यान्मतम्-केवलावपि तर्ह्येकवाक्यार्थानन्तर्भूतौ परस्परमऽभिन्नस्वभावौ भविष्यतः तत एवैवकवाक्यार्थान्तर्भावादित्यत आह- “न पुनः केवलौ” एकवाक्यार्थानपेक्षौ तदन्तर्भावमात्रेण सपक्षासपक्षयोः भावाभावौ परस्परमाक्षिपतोऽन्तर्भवतः भिन्नरूपाणामप्यर्थानामेकवाक्यान्तर्भावदर्शनात्। ननु च नियमवन्तावपि भावाभावौ केवलावेव, तयोः परस्पराक्षेपे केवलयोरपि तत्प्रसङ्ग इत्यत आह-“नियमवन्तौ च” सावधारणवाक्यप्रतिपादितौ “न केवलौ” किन्तु सहितावेव। कुतः ?। “नियमस्य” सावधारणस्य वाक्यस्य “उभयरूपत्वात्” भावाभावप्रतिपादनात्मकत्वात्।

तदेवं सावधारणेन वाक्येन नैव केवलोऽन्वयो व्यतिरेको वाऽभिधीयते। तदन्तर्भावात्तु द्वितीयगतिः किन्तु परस्परान्तर्भूतावेव सहितावेकेन वाक्येनाभिधीयेते इति प्रतिपाद्योपसंहरन्नाह-“तस्मात्” तत्रैव सपक्ष एव भाव इत्यनेन वाक्येन न सपक्षे भाव एवोच्यते। किं तर्हि ?। असपक्षेऽभावोऽपि, तथा चेतरेणाप्यसपक्षेऽभाव एवेति वचनेन नाभाव एव केवल उच्यते किन्तु सपक्षे भावोऽपि, येन केवलवचनेन भावोऽभावो वा तदात्मकतया द्वितीयमाक्षिपेद् यतोऽनयोः पृथग्वचनं न स्यात्। तस्माद् यदाऽन्वयव्यतिरेकौ भवाभावावभिप्रेतौ तदा तौ भिन्नरूपावेवेति कथं तयोः न पृथक्त्वम् ?। अथ नियमवता वाक्येनाभिहितौ तदैकवाक्यादेवोभयगतेः पृथग्वचनं न कर्त्तव्यमेव। तत्तु कृतं नाप्रतिपन्नप्रतिपत्तये किन्तु प्रयोगनियमार्थमित्युक्तमेतदिति।

स्यान्मतम्-यथाऽन्वयव्यतिरेकौ भावाभावलक्षणौ न परस्परात्मकौ ततश्च तयोः परस्परतो रूपान्तरत्वम्, एवं परोपलक्षणशास्त्रप्रतिपादितात् त्रैलक्षण्याद् भिद्यत एव ज्ञानम्, न तत्रान्तर्भतम्, ततो रूपान्तरं भविष्यतीत्यत आह- “नैवम्”, यथाऽन्वयव्यतिरेकौ भावाभावलक्षणौ परस्परमनन्तर्भूतौ, न तथा ज्ञानं परोपलक्षणशास्त्रप्रतिपादिते त्रैलक्षण्येऽनन्तर्भूतम्। कुतः ?। “परोपलक्षणात्” -परे उपलक्ष्यन्ते उपलक्षण(णं) त्रैरूप्यविषयां प्रतीतिं कार्यन्ते येन शास्त्रेण ततो यत् त्रैलक्षण्यं प्रतीयते आगृहीतज्ञानं तस्मादव्यतिरेकादागृहीतज्ञाने त्रैलक्षण्येऽन्तर्भावादिति यावत्, “इति” तस्मान्न लक्षणान्तरं त्रैरूप्यादिति। तदयमत्र समुदायार्थः- यदि ज्ञातत्वं ज्ञानशब्दप्रवृत्तिनिमित्तं उक्तेन प्रकारेण ज्ञानमेवोच्यते तदा तल्लिंगस्यानात्मभूतमिति न तल्लक्षणम्। अथावि(पि) ज्ञानापेक्षः कर्म्मभावो ज्ञातत्वमुच्यते तदाऽपि ज्ञेयसत्ताव्यवस्थाया ज्ञानसत्तानिबन्धनत्वात् त्रैरूप्यव्यवस्थैव तत्सत्ताव्यवस्थापकं ज्ञानमाक्षिपति। ततस्तदपेक्षोऽपि कर्म्मभावोऽनुक्तसिद्ध इति न तद्वचनं पृथक्कर्त्तव्यम्। तथा परोपलक्षणार्थशास्त्रप्रतिपादितागृहीतज्ञानात् त्रैलक्षण्यादव्यतिरेकादिति।

तदेवमबाधितविषयत्वादिकं रूपत्रयं निराकृत्य निगमयन्नाह- “तस्मान्न हेतुः षड्‍लक्षणः।” किं तर्हि ?। त्रैलक्षण्य एवेति।

इमं क्षताशेषकुतर्कमार्गं,
मुनीशराद्धान्तनयप्रदीपम्।
वितत्य पुण्यं यदुपार्जितं तत्,
परां विशुद्धिं जगतो विधेयात्॥
हेतुबिन्दुटीका समाप्ता।

.............................................................
.............................................................
मा यतत इमा या तद्रूपा वल (?) त्रिभुवनस्य हिताय शस्वत्।
नरस्य सेतोः दो.......तथागतमतस्य निवोधयित्री॥२॥

........७५ माग्र(र्ग्ग)सिर वादि ७ रवौ। मंगलं महाश्रीः॥
न गुरोरुपदेशमग्रहीत् बुबुधे वस्तु ततो.............धीः।
यतते स्म न तस्य वृद्धये न परिस्पन्दितुमप्यपारयत्॥[१॥]॥
जीवात्मकं चान्द्रमसं च तेजः कृतास्पदं तस्य तै .......त्।
तदेव शक्ता.....था परत्र चित्रा हि विश्वप्रकृति.....नाः॥२॥
हे ! रोहिणीरमण ! सर्वकलानिकेत !
तारापते ! रजनिनाथ ! सुधानिधान!।
कादम्बरीरसगुणेषु नि.........व-
मात्मानमर्पितशरीरमनुस्मरेन्दोः॥३॥

श्रीब्रह्माणगच्छे पं. अभयकुमारस्य
हेतुबिन्दुतर्कः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project