Digital Sanskrit Buddhist Canon

कार्यहेतुनिरूपणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Kāryahetunirūpaṇam

[३. कार्यहेतुनिरूपणम्।]

[१. कार्यकारणभावव्यवस्था।]

तदेवं स्वभावहेतौ तादात्म्यसिद्धिनिबन्धनमन्वयव्यतिरेकनिश्चयं प्रतिपाद्य कार्यहेतौ कार्यकारणभावसिद्धिनिमित्तत्वात् तयोस्तस्याश्च प्रत्यक्षानुपलम्भनिबन्धनायाः प्रागेव दर्शितत्वात् तग्दतमपरमपि परेषां भ्रान्तिकारणपनेतुं तद्विषयं दर्शयन्नाह- “अर्थान्तरे” हेतोर्व्यतिरिक्ते वस्तुनि गम्ये “कार्यं हेतुः”। अनर्थान्तरे तु स्वभावो हेतुरित्युक्तम्। कस्मात् पुनरर्थान्तरे कार्यमेव हेतुरित्याह- “अव्यभिचारात्” इति कार्यमेव ह्यर्थान्तरं न व्यभिचरति नान्यत् यथोक्तं प्राक् ततः कार्यमेवार्थान्तरे गम्ये हेतुरुच्यते संयोगवशाग्दमकत्वे।

“न च केनचित्” इत्यादिना यः सर्व्वथा गम्यगमकभावप्रसङ्ग आचार्येणोक्तः परस्य, तमिहापि कार्यहेतौ परः कदाचित् प्रसञ्जयेदित्याशङ्कमान आह- “कार्यकारण-” इत्यादि। यदि हि कार्यं हेतुरुच्यते तदा कार्यकारणभावेन कारणेनास्य गमकत्वम्। तथा च सति सर्व्वथा गम्यगमकभावः प्राप्नोति। अग्नेः सामान्यधर्म्मवद् विशेषधर्म्मा अपि तार्ण्णपार्ण्णादयो गम्याः स्युः। धूमस्यापि विशेषधर्म्मवद् द्रव्यत्वपार्थिवत्वादयोऽपि सामान्यधर्म्मा गमका भवेयुः। कुतः ? “सर्व्वथा जन्यजनकभावात्”। जन्यजनकभावो हि कार्यकारणभाव उच्यते। स च नाग्निधूमयोरंशेन अपि तु सर्व्वेण प्रकारेण। तथाहि-यथा अग्निरग्नित्वद्रव्यत्वसत्त्वादिभिः सामान्यधर्म्मैर्जनकः तथा तार्ण्णपार्ण्णत्वादिभिर्व्विशेषधर्म्मैरपि, यथा च धूमो धूमत्वपाण्डुत्वादिभिः स्वनियतैर्व्विशेषधर्म्मैर्जन्यः तथा सामान्यधर्म्मैरपि सत्त्वद्रव्यत्वादिभिः। ततश्च यथा तयोः कार्यकारणभावः तथैव गम्यगमकभावः प्राप्नोति, तस्यैव तन्निबन्धनत्वादिति पूर्व्वपक्षाशङ्का। अत्राह-“न सर्व्वथा जन्यजनकभावः” ततश्च कुतस्तथा गम्यगमकभावः स्यात् ?। कस्मात् ? इति चेत्, “तदभावे” तेषां तार्ण्णपार्ण्णत्वादिनां विशेषधर्म्माणामभावे “भवतो” धूममात्रस्य तेभ्य एव विशेषधर्म्मेभ्यो भवतीति एवमात्मनः “तदुत्पत्तिनियमस्याभावात्”। तथा “तदभावे” अग्न्यभावे भवतो द्रव्यत्वादेः सामान्यधर्म्मस्याग्नेरेवायं भवती त्येवंरूपस्य तदुत्पत्तिनियमस्याभावात् कुतः सर्व्वथा जन्यजनकभावः ?, यतः सर्व्वथा गम्यगमकभावः स्यात्। न ह्यसति तदुत्पत्तिनियमे जन्यजनकभावो व्यवस्थापयितुं युक्तः। यत एवं “तस्मात् कार्यं” धूमादिकं “स्वभावैर्यावभ्दि” र्धूमत्वादिभिः स्वगतैः। इत्थम्भूतलक्षणा च तृतीया। “अवीनाभावि” विना न भवति। कैर्व्विना न भवति ?। ‘कारणे यावभ्दिः स्वभावैः’ इत्यत्रापि सम्बध्यते। कारणाश्रितैर्यावभ्दिः स्वभावैर्व्विना ते कार्यगताः स्वभावा न भवन्ति हेतुः तैस्तेषामिति गम्यते। क्व अविनाभावि?। “कारणे” कारणविषये अपरोऽर्थः “कारणे” आधारसप्तमी। इदानीं कारणस्थैः स्वभावैर्यावभ्दिरग्नित्वद्रव्यत्वादिभिरविनाभावि तेषां कारणगतानां सामान्यधर्म्माणां हेतुः कार्यं गमकम्। कस्मात् ? इत्याह- “तत्कार्यत्वनियमात्” तेषामेव कारणगतानां सामान्यधर्म्मानां तत् कार्यमित्येवंरूपस्य नियमस्य सभ्दावात्। नहि तान् सामान्यधर्म्मान् कदाचिदपि कार्यं व्यभिचरति।

एवं कारणगतमंशं पाश्चात्येनार्थेन निरूप्य प्राक्तनेनार्थेन कार्यगतमंशं निरूपयन्नाह- “तैरेव च” इत्यादि। कार्यमपि तैरेव धर्म्मैः स्वगतैः कारणगतानां धर्म्माणां गमकम् यथाऽन्तरा सम्भविनो धूमत्वपाण्डुपार्ण्णत्वादयो विशेषरूपास्तैः कारणगतैः सामान्यधर्म्मैर्व्विना न भवन्ति। अत्रापि ‘तत्कार्यत्वनियमात्’ इत्यपेक्ष्यते। तेषामेव कार्यगतानां विशेषधर्म्माणां कारणगतसामान्यधर्म्मापेक्षया कार्यत्वनियमात्। न हि ते विशेषधर्म्माः कार्यगताः कारणस्थसामान्यधर्म्मैर्व्विना कदाचिदपि भवन्ति। ततस्तेषामेव कार्यत्वनियमः, नान्येषां द्रव्यत्वादीनां कारणस्थसामान्यधर्म्मैर्विना भवताम्। तदेवं कारणस्य सामान्यधर्म्मा एव गम्या न विशेषधर्म्माः, कार्यस्यापि विशेषधर्म्मा एव गमका न सामान्यधर्म्माः, तत्कार्यत्वनियमात्। ये तु कारणस्य विशेषधर्म्मा यैस्तत्कार्यत्वनियमः कार्यमात्रस्य नास्तीति न ते गम्याः। ये च कार्यस्य सामान्यधर्म्मा द्रव्यत्वादयस्तेषामपि तत्कार्यत्वनियमाभावादेव गमकत्वं नास्तीति कार्यकारणभावेन गमकत्वे कुतः सर्व्वथा गम्यगमकभावः परेषामिव प्रसज्येत ?।

[२. जन्यजनकभावस्य सर्वथा सत्त्वेऽपि गम्यगमकभावस्य न तथात्वम्।]
परस्यानिष्ठापादनमाशङ्कयाह- “अंशेन” इत्यादि। यदि हि कारणस्य सामान्यधर्म्मा एव गम्याः कार्यस्यापि विशेषधर्म्मा एव गमकाः तत्कार्यत्वनियमादिष्यन्ते, हन्त तर्ह्यशेन जन्यजनकभावः प्राप्तः। कारणस्य सामान्यधर्म्मा एव जनका न विशेषधर्म्माः, कार्यस्यापि विशेषधर्म्मा एव जन्या न सामान्यधर्म्मा इति स्यात्। सर्व्वथा च जन्यजनकभावोऽभिमत इत्युभ्युपगमविरोधः। एतत् परिहरति-नांशेन जन्यजनकभावप्रसङ्गः, निरंशत्वेन वस्तुनः सर्व्वात्मना तदभ्युपगमात्, गम्यगमकभावस्यापि सर्व्वथाऽभिमतत्वात्। तदाह- “तज्जन्य” इत्यादि। यदि हि कार्यस्य तैः कारणगतैर्व्विशेषधर्म्मैर्जन्यो यो विशेषः स ग्रहीतुं शक्यते, तदा तज्जन्यविशेषग्रहणेऽभिमतत्वात् कारणगतविशेषधर्म्माणां गम्यत्वस्य। तथा लिङ्गविशेषो धूमत्वादि उपाधिर्विशेषणं येषां द्रव्यत्वादीनां सामान्यानां कार्यगतानां तेषां चाभिमतत्वाग्दमकत्वस्य। तथा हि-अगुरुधूमग्रहणे भवत्येव तदग्नेरनुमानं धूमत्वविशेषणेन च द्रव्यत्वादिनाऽग्नेरनुमानम्। न हि सर्व्वथा जन्यजनकभावोऽस्तीत्येव तथैव गम्यगमकभावो भवति, तस्य ज्ञानापेक्षत्वात्। तथा हि- न सत्तामात्रेण लिङ्गस्य गमकत्वम्, तस्य ज्ञापकत्वात्। ज्ञापको हि स्वनिश्चयापेक्षो ज्ञाप्यमर्थं ज्ञापयति, नान्यथा। कथं तर्ह्युक्तं “तदभावे भवतः तदुत्पत्तिनियम(मा)भावात्” इति। ?। सर्व्वथा जन्यजनकभावाभ्युपगमे तदभावे भावस्यैवाभावादित्यत आह- “अविशिष्ट”- इत्यादि। यदि हि तज्जन्यविशेष ग्रहणरहितमविशिष्टं कार्यमात्रमुपादीयते लिङ्गविशेषोपाधिरहितं वा द्रव्यादिकं तदा “अविशिष्टसामान्यविवक्षायां” कारणगतविशेषाभावेऽपि धूममात्रस्य भावात् तदविशिष्टस्य च द्रव्यत्वादेरग्न्यभावेऽपि भावाद् व्यभिचार इति सर्व्वथा जन्यजनकभावो नेष्यते, तदभावाद् गम्यगमकभावश्च। न तु विशेषविवक्षायाम्, तत्र व्यभिचाराभावात्। तथा हि-यदि नामधूममात्रं तार्ण्णपार्ण्णादिविशेषाभावे भवति, न तु तज्जन्यो विशेषः, स यदि ग्रहीतुं शक्यते, तदा विशेषस्य गम्यत्वमस्त्येव, निश्चितस्यैव लिङ्गत्वात्। तथा यद्यपि द्रव्यत्वसत्त्वमात्रमग्न्यभावेऽपि भवति न तु धूमात्मकमिति तद्विशिष्टस्याव्यभिचाराद् गमकत्वमपि न वार्यत इति।

[३. कार्यकारणभावप्रतीतेरतिदुर्लभत्वाशङ्काया निरासः।]
अत्र परस्य वचनावकाशमाशङ्कयाह-“कस्यचित्” धूमादेः “कदाचित्” कस्मिंश्चित् काले “कुतश्चित्” अग्न्यादेः “भावेऽपि” सति “सर्व्वो” धूमादिः “तादृशो” यादृश एकदाऽग्न्यादेर्भवन दृष्ट तज्जातीयः, “तथाविधजन्मा” यथाविधात् स एको भवन् दृष्टः तादृशादेव जन्म यस्य स। “तथाविघजन्मेत्येतत् कुतः” प्रमाणादवसितम् ? येनोच्यते ‘कार्यहेतौ कार्यकारणभावसिद्धिनिबन्धनावन्वयव्यतिरेकौ’ इति। तथाहि-यदि नाम प्रत्यक्षानुपलम्भाभ्यां कस्यचिद्धूमस्याग्न्यादिसामग्रीकार्यत्वमवगतं किमेतावताऽन्यस्यापि तादृशस्य तादृशकार्यता सिध्यति, तत्र तन्निबन्धनयोः प्रत्यक्षानुपलम्भयोरव्यापारात्। यत्रैव हि तयोर्व्यापरस्तस्यैव तत्कार्यता भवतु, तदन्यस्य तु किमायातम् ? येन तथविधादस्य जन्म स्यात्। एवं हि कस्याश्चिद्धूमव्यक्तेरग्न्यादिजन्यता दृष्टेति किन्न घटादेरपि साऽभ्युपगम्यते ? अन्यत्वेन विशेषाभावात्। क एवं सति दोषः ? इति चेत् ; तथा च प्रमाणाभावेन तथाविधजन्मत्वानिश्चयादतादृशादपि जन्माशङ्कायां तादृशस्य धूमादेरग्न्यादिनाऽन्वयव्यतिरेकौ न निश्चिताविति कुतः कार्यहेतोर्ग्गमकत्वम् ?। न हि योऽसावेको देशकालावस्थानियतोऽग्निविशेषहेतुको धूमोऽधिगतः प्रत्यक्षानुपलम्भाभ्यां तस्यैवान्वयव्यतिरेकौ प्रतिपत्तव्यौ। तस्य देशान्तरादावसम्भवात्। किं तर्हि ?। तादृशस्य सामान्यात्मन एव लिङ्गत्वात् तस्य चातथाविधादपि जन्माशङ्कायां कुतस्तथाविधेनान्वयो व्यतिरेको वा ?। तदुक्तम्-

“अवस्थादेशकालानां भेदाद् भिन्नासु शक्तिषु।
भावानामनुमानेन प्रतीतिरतिदुर्ल्लभा॥” इति।
सिद्धान्तवाद्याह- “न, अतभ्दाविनः” इत्यादि। एवं मन्यते-इहैकदा धूमादेरग्न्यादिसामग्रीजन्यतया प्रत्याक्षानुपलम्भाभ्यां निश्चितरूपत्वेऽपि तादृशस्यातादृशादपि भावः समाशङ्क्यते यथापरिदृष्टादन्यत्वेन। तत्र योऽसावग्न्यादिसामग्रीजन्यो धूमविशेष एकदा निश्चितस्तदपेक्षया यथाऽन्यो धूमविशेषस्तादृशो योऽन्यादृशादपि-भावानां विचित्रशक्तितया-भवेदिति शङ्कयते, तथा सोऽप्येकदाऽग्न्यादिसामग्रीजन्यतया निश्चितस्तदन्यापेक्षया तादृश एव। तत्र यदि तदन्यस्य तादृशस्यातादृशाज्जन्म स्यात् तदा तादृशस्य स्वभावस्य नाग्न्यादिसामग्रीजन्यस्वभावतेति परिदृष्टस्यापि धूमस्य नाग्न्यादिसामग्री कारणमित्यायातम्। तादृशस्य स्वभावस्याऽग्न्यादिसामग्रीविलक्षणकारणजन्यस्वभावत्वात्। ततश्चाग्न्यादिसामग्र्या अकारणत्वात् यो मयैकदा ततो भवन् दृष्टो धूमः सोऽपि न भवेत्। नहि यद् यस्य कारणं न भवति तत् ततः सकृदपि जायते, तस्याहेतुकत्वप्रसङ्गादिति। “अतभ्दाविनः” इति तच्छब्देन विवक्षितमग्न्यादिकारणं परिगृह्यते, न तत् अतत्, तव्दिलक्षणं अतादृशं शक्रमुर्द्धादिकम्, अतस्माद् भवितुं शीलंयस्य तस्यातभ्दाविनस्तादृशस्य तल्लक्षणस्य धूमवस्तुनः “सकृदपि” एकदाऽपि “ततः” अग्न्यादेः “अभावाद्” भावविरोधात्। भवति च तादृशोऽग्न्यादिसामग्रीतः ततस्तादृशस्य स्वभावस्य तादृशमेव कारणमित्यवगम्यते सकृत्प्रवृत्ताभ्यामेव प्रत्यक्षानुपलम्भाभ्यामिति कुतो व्यभिचाराशङ्का ?। तेन यादृशो धूमोऽग्न्यादिसामग्र्या भवन् दृष्टः सकृत् तादृशस्य तस्य तज्जन्यस्वभावतया तादृशादेव भावात् ‘यत्र धूमस्तत्राग्न्यादिसामग्री’ इत्यन्वयव्यतिरेकनिश्चयः।

अथवाऽन्यथा व्याख्यायते- इह प्रत्यक्षानुपलम्भनिबन्धना कार्यकारणभावसिद्धिः प्रागुक्ता तन्निबन्धनावन्वयव्यतिरेकौ प्रतिपादयितुम्, तच्चायुक्तम्। तथा हि- “कस्यचित्” धूमस्याग्न्यादिसामग्र्यनन्तरभाविन आद्यस्य “कदाचित्” प्रथमोत्पादकाले “कुतश्चिद्” अग्न्यादिसामग्र्याः “भावेऽपि” उत्पादेऽपि “सर्व्वस्तादृशो” यादृशः प्रथमक्षणभावी धूमो द्वितीयादिक्षणेष्वपि तादृशः प्रत्यक्षत एव तस्य पूर्व्वक्षणाविलक्षणतया प्रतीतेः। “तथाविधजन्मा” इति यथाविधादग्नीन्धनसामग्रीलक्षणात् कारणादाद्यो धूमक्षण उत्पन्नस्तथाविधाज्जन्म यस्य स “तथाविधजन्मेत्येतत् कुतः” नैव तस्य धूमादेरभावात्। एवं च यद्यतो दृष्टं तस्यान्यतोऽपि भावस्य दर्शनात् सर्व्वत्रानाश्वास इति मन्यमान आह- “तथा च” अनग्नितो धूमादपि धूमस्य भावे शक्रमूर्द्धादेरपि तस्य भावाविरोधादग्निना धूमस्य नन्वयव्यतिरेकाविति चेन्मन्यसे इति पूर्व्वपक्षाशङ्का।

तदुक्तम्-
“क्षणिकत्वे कथं भावाः क्वचिदायत्तवृत्तयः।
प्रसिद्धकारणाभावे येषां भावस्ततोऽन्यतः॥
अतश्चानग्नितो माद् यथा धूमस्य सम्भवः।
शक्रमूर्द्व्नस्तथा तस्य केन वार्येत संभवः॥”इति।

सिद्धान्तवाद्याह- नाऽग्नीन्धनसामग्रीजन्यो यादृशो धूमस्तादृश एव धूमादपि भवति कारणभेदेन। कुतश्चित् साम्यात् सरूपतयाऽवसीयमानस्याप्यन्यादृशत्वात्। तादृशो ह्यग्नीन्धनसामग्रीक्षणान्तरजन्य आद्य एवापरः क्षणस्तथा तदन्य आद्य एवापराग्नीन्धनसामग्रीजन्य इति तादृशस्य धूमस्य धूमादसम्भवात् न क्वचिदनाश्वासः कार्यः। तथा यादृशो द्वितीयक्षणभावी प्रथमधूमक्षणजनितो धूमक्षणस्तादृशोऽपरप्रथमधूमक्षणजनित एव द्वितीयो धूमक्षणो न तृतीयादिः। एवं तृतीयक्षणादिष्वप्यङ्कुरादिषु च सर्व्वत्र वाच्यम्। कुतः पुनरयं विभागः ? इति चेत्, आह- “अतभ्दाविनः” अतस्माद्-अनग्नीन्धनादिरूपाद् धूमाद् भवनशीलस्य प्रथमक्षणाविलक्षणस्य धूमस्य “सकृदपि” एकदापि “ततः” अग्न्यादिसामग्र्याः “अभावाद” भावायोगाद्। यथा हि प्रथमक्षणापेक्षया द्वितीयस्तादृशस्तथा तदपेक्षया प्रथमोऽपीति तादृशत्वाविशेषात् तादृशस्यानग्नितो भावे तादृशो नाग्निजन्यस्वभावः इति सकृदपि ततो न भवेत्। भवन् वा तज्जन्यस्वभावतामात्मानस्तादृशः ख्यापयतीति कुतोऽन्यादृशाद् भवेत् ? तस्मादन्यादृशाद् भवन्नन्यादृश एव ततो न व्यभिचारः।

[४. भिन्नकारणजन्यानां धूमानां अतादृशत्वेऽपि सादृश्यात् तादृशत्वाभिमानः।]
ननु सर्व्वेषां धूमक्षाणानां कण्ठक्षणनाक्षिस्रुतिकालीकरणादिकायामर्थक्रियायामुपयोगात् कथं तादृशस्वभावता न स्यात् ?। न, तस्या अप्यर्थक्रियायाः क्षणभेदोपधीयमानरूपायाः तादृशत्वाभावात् तत्रापि तुल्यदोषत्वात्। कथं तर्हि लोके सर्व्वत्र धूमव्यवहारः इति चेत्; सदृशापरभावनिबन्धनैकत्वाध्यवसायवशात् क्षणिर्व्यवहारायोगाच्च। सादृश्ये सति कथं न तादृशता ? इति चेत्। तादृशादन्यत्वात् सदृशस्य। तथा हि-गोसदृशो भवति गवयः न तु तादृशः, गोरेवापरस्य तादृशत्वात्। परमार्थेनातादृशेऽपि तादृशाभिमानो मन्दमतीनां भवन् कथं निवार्त्येत् ?। तथा हि-तत्त्वाध्यवसायोऽपि तावद्-अतस्मिन्नर्व्वाग्दृशां विनिवारयितुं न पार्यते, किमङ्ग पुनस्तादृशत्वाध्यवसायः ? यथोक्तम्-

“समानवर्ण्णसंस्थाने सन्तानेऽत्यत्र जायते।
अतस्मिंस्तन्मतिः पुंसां किमुतैकत्र संततौ ?॥” इति।
तत्त्वचिन्तकास्तु तादृशातादृशकारणभेदात् तादृशातादृशतां भावानां अनुमन्यन्ते न तादृशताम्। तद् यद्यतादृशादपि तदृशो भवेत् तदा तस्य तज्जन्यः स्वभाव इत्यतद्भाविनः सकृदपि ततो भावो न स्यात्। अमुमेवार्थं समर्थयमन आह- “परस्परापेक्षया” इत्यादि। कारणापेक्षया हि जन्यस्वभावं कार्यम्, कार्यापेक्षया च जनकस्वभावं कारणम्। यतो हि कारणाद् यद् भवद् दृष्टम् तस्य तज्जन्यस्वभावः, इतरस्य च तज्जनक इति प्रतीयते। अन्यथा तस्य ततो भावायोगात्, इतरस्य च तज्जननायोगात्। यदि नामैवं ततः प्रकृते किं सिद्धम् ? इत्यत आह- “तत्र” एतस्मिन् न्याये सति “यदि धूमो” यादृश आद्योऽग्न्यादिसामग्रीजनितस्तादृशो द्वितीयादिक्षणभावी “अग्न्यादिसामग्र्या” अग्नीन्धनादिकारणकलापात् तज्जनकस्वभावतया निर्द्धारिता “दन्यतो”ऽग्नीन्धनादिसामग्रीजनितादाद्याद्धूमक्षणाद् भवेत्। तदा “तस्य” तादृशस्य धूमस्वभावस्य “तज्जन्यो”ऽग्न्यादिसामग्रीजन्यः “स्वभावो न भवति” किन्तु धूमजन्य एवेति कृत्वा सकृदपि “ततो”ऽग्न्यादिसामग्रीतो “न भवेत”। तादृशस्य हि स्वभावस्यान्यतो भावे तज्जन्यस्वभावता, नाग्न्यादिजन्यस्वभावतेति कुतः सकृदपि ततो भावो युज्येत। अत्र दृष्टान्तः “अर्थान्तरवद्” इति। यथा ह्यर्थान्तरमतज्जन्याभिमतमन्यतो भवत् न तज्जन्यस्वभावं नाग्न्यादिसामग्रीजन्यस्वभावमिति सकृदपि ततो न भवति तद्वत् तादृशो धूमोऽपीति ततो भवन्नन्यादृश एवासाविति गम्यते।

स्यान्मतम्- अग्न्यादिसामग्र्याऽसावतज्जन्यस्वभावोऽपि तादृशो बलाज्जन्यते कस्तस्य तपस्विनोऽपराधः ? इत्यत आह- “नापि” न केवलं स्वयमतज्जन्यस्वभावतया ततो न भवेत्, किन्त्वग्न्यादिसामग्र्यपि तं तादृशं धूमं-यादृशो द्वितीयादिक्षणभावी-न जनयेत्। कुतः ?। अतज्जननस्वभावत्वात्। तादृशस्य ह्यन्यतो भावे स एव तज्जननस्वभावो नाग्न्यादिसामग्रीति तज्जननस्वभावविकला कथं तं जनयेत् ?। अत्राप्युदाहरणम्- “सामग्र्यन्तरवदिति”। यथा सामग्र्यन्तरमतज्जननस्वभावाभिमतं न जनयति तद्वदग्न्यादिसामग्र्यपि। तथा हि- सा आत्मीयं स्वभावमनुसृत्यैव प्रवर्त्तते, ततः कुतोऽसौ सामग्रीबलाज्जायेत ?।

[५. तादृशातादृशजन्यत्वे कार्यस्यापि तादृशातादृशत्वम्।]
स्यान्मतम्-अग्न्यादिसामग्रीजन्यस्वभावोऽपि तादृशो धूमो धूमजन्यस्वभावोऽपि यथा स एव धूम इन्धनजन्यस्वभावोऽग्निजन्यस्वभावश्चोभयतो भवति। तथा तादृशोऽपि धूम उभयसामग्रीजन्यस्वभावतयोभयतो भविष्यतीत्यत आह- “न च” नैव “धूमस्य” तादृशस्य “तदतज्जन्यः” अग्न्यादिसामग्रीजन्यो धूमजन्यश्च “स्वभावो युक्तः” युक्त्या सङ्गतः। कुतः ? “एकस्वभावत्वात्” तादृशस्य धूमरूपस्य भेदाभावात्। नहि तस्य कालभेदेऽपि तादृग्रूपता भिद्यते। भेदे ह्यन्यादृशस्यान्यादृशाभ्दावे विवादायोगात्। तस्य यदि तादृशातादृशकारणजन्यता स्यात् ततस्तादृशातादृशस्वभावतैव स्यात्। तदेव दर्शयन्नाह- “धूमाऽधूम”-इत्यादि। धूमशब्देन यादृशोऽग्न्यादिसामग्रीजन्यस्तादृशः स्वभावोऽभिप्रेतः, अधूमशब्देनान्यादृशकारणजन्यो धूमजनितोऽन्यादृशः। तयोश्च तादृशातादृशकारणजन्यतयैव तादृशातादृशस्वभावताऽवगन्तव्या वक्ष्यमाणनीत्या। तेनाग्निधूमलक्षणात् “धूमाधूमजननस्वभावात्” तादृशातादृशजननस्वभावात् तादृशातादृशतयाऽस्य भवतो धूमाधूम[स्वभाव]स्तादृशातादृशस्वभावः स्यात् कुतस्तादृश एव ?। कुत एतत्? इत्याह- “कार्यस्वभावानाम्” इत्यादि। कार्याणां हि ये स्वभावाः परस्परासंभविनः ते परस्परविलक्षणकारणसामग्रीस्वभावकृता न स्वाभाविका अहेतुकत्वप्रसङ्गात्। ततस्तादृशातादृशाद् भवतो धूमस्य तादृशातादृशस्वभावतैव स्यात्।

स्यान्मतम्-नैव तादृशातादृशस्वभावतायां तादृशातादृशकारणापेक्षा, कार्याणामुत्पत्तिमात्र एव कारणापेक्षणादित्यत आह- “अकारणापेक्षणे च” तादृशातादृशरूपतायां तादृशातादृश-कारणानपेक्षणे च तादृशातादृशतायाः “अहेतुकत्वप्रसङ्गात्”। न हि तादृशातादृशस्वभावयोरभूत्वा भावव्यतिरेकेणान्या काचिदुत्पत्तिः यत्र तादृशातादृशस्वभावकारणनिरपेक्षाणामपि तदपेक्षा स्यात्। तस्मादुत्पत्तिशब्देन तादृशातादृशस्वभावतैवोच्यत इति। तत्र कारणापेक्षोपगमे कथं तादृशातादृशतायां कारणापेक्षा न स्यात्। तस्मात् सामग्रीणां तादृशातादृशत्वादेव कार्याणां तादृशातादृशस्वभावविभाग इति कुतोऽन्यादृशात्तादृशसम्भवः ? इति।

यत्तूक्तं ‘यथैको धूमोऽग्नीन्धनाभ्यां विलक्षणाभ्यां जन्यते तथैकलक्षणमपि कार्यं विलक्षणादपि सामग्र्यन्तराद् भविष्यति’ इति। तदयुक्तम्। यतो नास्माभिर्व्विलक्षणानां जनकत्वं वार्यते जनयन्त्येव परस्पविलक्षणा अपि स्वहेतुपरिणामोपनिधिधर्म्माणस्तदवस्थानियताः तदेकं कार्यं, तस्य तु तेषां च परस्परापेक्षया जन्यजनकस्वभावतानियमात् तादृशस्य तादृशादेव जन्मोच्यते नान्यादृशात्, तस्यातज्जननस्वभावत्वात्, तदभावेऽप्यन्यतो भवतस्तदुत्पत्तिनियमाभावात्। अनियमे च कार्यकारणभावायोगात्। यदि त्वग्निरिवेन्धनोपादानोपकृतस्तदुपादानोपकृतं चेन्धनमिव तदवस्थानियतमतादृशमपि धूमादिकं तादृशं धूमं जनयेत् प्रत्यक्षानुपलम्भाभ्यां च तथाऽवगम्येत तदाऽग्न्यादिवत् सोऽपि तज्जननस्वभावतानियमात् तादृशजनकः केन नानुमन्येत। तदभावेऽपि तु तादृशस्य भावे तयोर्जन्यजनकस्वभावतानियमाभावात् कुतः कार्यकारणतेत्यहेतुतैव तादृशस्यान्यादृशाद् भवतः स्यात्। यत एवं “तस्मात्” सोऽग्नीन्धनादिसामग्रीविशेषो मन्तव्यो “यः” आद्य “धूमजननो” नान्यः “स” धूम आद्यो यः “ग्न्यादिसामग्रीविशेषेण” जनितो नान्य अ इति कृत्वा कार्यकारणयोरेवं यथोक्तेन न्यायेन जन्यजनकरूपस्य स्वभावस्य नियमाद् यादृशं यस्य कारणमेकदा प्रत्यक्षानुपलम्भाभ्यामेवावधारितं “तद्विजातीयात्” ततोऽन्यादृशात् कारणात् “उत्पत्तिः” तादृशस्य कार्यस्य “न भवति” अन्यादृशस्य एव न वार्यत इति।

तदेवं तादृशातादृशकारणकृतकत्वं तादृशातादृशकार्यस्वभावस्य प्रतिपाद्योपसंहरन्नाह- “तत्” तस्मात् यादृशं कार्यं यादृशात् कारणात् दृष्टं प्रत्यक्षानुपलम्भाभ्यां निश्चितमेकदा तत् त्“न्न व्यभिचरति” तादृशमन्यादृशान्न भवति। यनैवं “तेन” कारणेन “सिद्धे कार्यकारणभावे” तादृशस्य “कार्यस्य” तादृशमेव कारणमिति निश्चये सति यथोदितेन न्यायेन “कार्यस्य कारणेन व्याप्तिर”न्वयव्यतिरेकरूपा “सिद्धा” भवति।

“न विजातीयादुत्पत्तिरिति” दृष्टकारणविजातीयात् कारणादन्यादृशान्नोत्पत्तिरित्यसमुमर्थमप्रतिपद्यमानः कार्यस्य विजातीयात् कारणान्नोत्पत्तिरित्ययमत्रार्थोऽभिमत इति मन्वानः परश्चोदयन्नाह- “ननु” स्वतो “विजातीयादपि” कारणात् “किञ्चित्” कार्यं “भवद् दृष्टं” तत् कथं न विजातीयादुत्पत्तिरित्यस्य न दृष्टविरोधः स्यात्। कथं यथा इत्याह- “तद् यथा गोमयादेः” आदिग्रहणात् शृङ्गचन्द्रकान्तादेः “ शालूकादि” आदिग्रहणाच्छरोदकादि। तथा हि- गोमयाच्छालूकस्य भावः शृङ्गाच्छरस्य चन्द्रकान्तादपाम। न च गोमयादिकं शालूकादेर्न्न विजातीयम् तत् किमुच्यते न विजातीयादुत्पत्तिः इति। सिद्धान्तवादी परस्य भ्रांततां दर्शयन्नाह- “न विजातीयादुत्पत्तिः” इति। यतो हि कारणाद् यद् भवद् दृष्टं तत् ततोऽन्यादृशान्न भवति इत्ययमत्रार्थो विवक्षितः, न तु कार्यविजातीयादिति। न च तस्य व्यभिचारः। तदाह-“तथाविधमेव हि” गोमयादिरूपं “तादृशं” शालकादीनामा “दिनिमित्तं” शालूकादिप्रबन्धस्य य आदिः प्रथम आरम्भक्षणः तस्य कारणमिति कृत्वा शालूकादिप्रबन्धस्यादेर्न्न कारणाभेदोऽन्यादृशादुत्पत्तिः। सर्व्वस्य तदाऽऽदेर्ग्गोमयादिनिमित्तत्वात्। यदा तु प्रबन्धेन पूर्व्वक्षणनिमित्तानामुत्तरोत्तरक्षणानां सन्तानेनोत्पत्तिलक्षणा वृत्तिर्भवति शरस्य तदा शराभ्दावः। तदेवं यस्य प्रबन्धादेः शृङ्गादिभ्यो भावो न तादृशस्य शरादेः यस्य च शारादेस्तुदुत्तरोत्तरस्य भावो न तादृशस्य शृङ्गादेरिति न दृष्टकारणविजातीयात् कारणात् तादृशस्य सम्भव इति कार्यहेतोरन्वयव्यतिरेकनिश्चयः।

यदाऽपि शालूकादयः पूर्व्वपूर्व्वस्वजातिनिबन्धना अनादिसन्तानप्रवृत्ता इष्यन्ते तदाऽपि गोमयादिभ्यः केषाञ्चिभ्दावेऽपि तादृशत्वाभावान्न व्यभिचार इति दर्शयन्नाह- “अस्ति च” इत्यादि। यस्य शालूकसन्तानस्य गोमयादि कारणं यस्य च सर्व्वदा स्वजातिनिमित्तत्वं तयोर्गोमयेतरजन्मनोः शालूकयोरस्त्येव स्वभावभेदः परस्परमन्यादृशत्वं “रूपस्याभेदेऽपि” सति। तुल्याकारत्वे सति कथमन्यादृशत्वम् ? इति चेत्, आह- “नहि” इत्यादि। यस्मान्नाकारतुल्यतैव भावानां “तत्त्वे” तादृशत्वे निमित्तम् यतो गोमयेतरजन्मनोः शालूकयोराकारसाम्यात् तादृशत्वमेव स्यान्न जातिभेदः। कुत एतत् ? इत्याह- “अभिन्नाकाराणामपि” इत्यादि। येषामपि हि समानाकारता केषाञ्चिभ्दावानां तेषामपि यत आकारादन्यतो विशेषाज्जातिभेदो दृश्यते ततो नाकारसाम्यमेव जात्येकत्वे निबन्धनम्। तथा हि-आकारसाम्येऽपि क्वचित् पुष्पाद् भेदो दृश्यते नीलेतरकुसुमयोरिव सूर्ययोः, क्वचित्फलात् बन्ध्येतरयोरिव कर्क्कोटक्योः, क्वचिद् रसाद् वन्येतरयोरिव त्रपुषयोः, क्वचिद् गन्धाद् वृक्षेतरप्रभवयोरिव चम्पकयोः, क्वचित् प्रभावात् स्पर्शोपयोगस्त्रंसिन्योरिव हरितक्योरिति। तस्मादाकारसाम्यनिबन्धनं यद्यपि ‘तदेवेदम्’ इति प्रत्यभिज्ञानं सजातीयतां गोमयेतरजन्मनोः शालकयोरूपकल्पयति तथापि विलक्षणसामग्रीजन्यतया तयोर्जातिभेद एवावगन्तव्यः, नैकजातिता। तत एव प्रत्यभिज्ञानस्य भ्रान्ततया तत्कल्पितस्य तादृशत्वस्यालीकत्वात्।

[६. विलक्षणसामग्र्या अविलक्षणकार्यजनकत्वे दोषाः।]
यदि पुनर्गोमयेतरादिजन्मनः शालूकाकादेरग्निधूमादिजन्मनो वा धूमादेः प्रत्यभिज्ञावशाद् विलक्षणसामग्रीनिबन्धनत्वेऽपि समानस्वभावतैव स्यात् को दोषः स्यात् ? इत्यत आह-“अन्यथा हि” इत्यादि। यदि हि या स्वजाति [लक्षणप्रत्ययान्तरसहिता सामग्री या च] स्वजातिनिरपेक्षा गोमयादिरूपा शालूकादेः, धूमस्य वा याऽग्नीनधनादिलक्षणा या च शक्रमूर्द्वादिस्वभावा धूमाद्यात्मिका अवि(का तस्याः वि)लक्षणाया अपि सामग्र्या अविलक्षणं तादृशमेव कार्यं धूमशालूकादिकमुत्पद्येत तदा न ‘कारणस्य’ सामग्रीरूपस्य “भेदाभेदाभ्यां” वैलक्षण्यावैलक्षण्याभ्यां कार्यस्य “भेदाभेदौ” वैलक्षण्यावैलक्षण्ये तज्जातीयविजातीयात्मके स्यातामिति कृत्वा “विश्वस्य” सकलस्य पदार्थराशेः “अहेतुकौ भेदाभेदौ” सजातीयविजातीयत्वे स्याताम्। तस्माद् यत्र विलक्षणा सामग्री तत्र कुतश्चित् साम्यात् सरूपत्वेऽपि विजातीयतैव कार्यस्येति।

ननु धूमेन्धनादिसामग्रीभेदेऽपि धूमस्य न जातिभेदमामनन्ति विद्वांसः, अतद्रूपपरावृत्तेरुभयत्र समानत्वात्, नैष दोषः, क्षणभेदाश्रयसूक्ष्मावान्तरजातिभेदेऽपि स्थूलसन्तानाश्रयविजातीयव्यावृत्तेः समानत्वात्। शाबलेयाद्यवान्तरजातिभेदेप्यगोव्यावृत्तिनिबन्धनगोजातिवद् गवां सर्व्वधूमानामेकसन्तानव्यवस्थाव्यु(प्यु)पादानकारणक्षणभेदेऽप्येकाकारप्रत्ययनिबन्धनतया समानत्वात्। आद्यस्येन्धनप्रभवस्य कथम् ? इति चेत्। न। इन्धनजात्यनुविधानात् सर्व्वधूमानाम्। तथा हि-अगुरुकर्पूरचन्दनादिजातिभेदमनुकुर्व्वन्त्येव तद्धूमाः, कासश्वासादिहरद्रव्यनिर्म्मितवर्त्तिभेदं च तद्धूमाः, तद्रसवीर्यविपाकानुविधानात्। न चाकारान्यतया विजातीयत्वम्, यतो नाकारऽभेदभेदनिबन्धेन सजातीयविजातीयत्वे। नहि शाल्यङ्कुरादयः तब्दीजाद्याकारमनुकुर्व्वते। न च तज्जातीयतामशाल्यादिव्यावृत्तिनिबन्धनां नानुभवन्ति। तस्माद् इन्धनमेव तयोपादानकारणम् अग्न्यादिसहकारिप्रत्ययाहितविशेषं तथाविधं धूमकार्यमङ्गारादि भिन्नाकृति जनयतीत्यलमतिप्रसङ्गेन।

ननु च यदि नाम सामग्रीभेदेऽपि कार्यस्य भेदो न जातः तदा कारणभेदे सत्यपि तस्याभावात् तस्याहेतुकताऽस्तु, अभेदस्य तु किमायातम् ? येनोभयोरहेतुकत्वमुच्यते इत्यत आह- “तथाहि” इत्यादि। यदा हि सामग्रीभेदे सत्यपि कार्यस्य भेदो न जात इति तस्याहेतुकत्वम्- न हि हेतौ सत्यभवतः कथञ्चिदपि हेतुमत्तोपपद्यते-तदा योऽप्यसावभेदः कार्यस्य सोऽपि सामग्र्योः भिन्नत्वादसत्यभेदे जात इति कुतस्तस्यापि हेतुमत्ता ?। यथा हि हेतौ सत्यभवतो न हेतुमत्ता तथा हेतावसत्यपि भवतो हेतुमत्ता कुतः स्यात् ?। हेतुभेदस्यैवाऽभेदनिबन्धनत्वात् न इति चेत्; न तर्ह्ययं भेदः क्वचित् पदमाबध्नीयात्, शालीकोद्रवादेरपि हेतुभेदस्याभेदहेतुत्वान्निमित्तमन्तरेण कल्पनायां विशेषाभावात्। प्रतिभासाभेदस्य च कुतश्चिद् भ्रान्तिनिमित्तात् परमार्थतो भेदेऽप्युपलक्षणात्। स्यादेतत्- यो ह्यतादृशादपि तादृशोभ्दवमिच्छति तस्य भेदाभेदयोरहेतुकत्वमिष्टमेव भावा एव केवलं हेतुमन्त इत्यत आह- “तद्‍व्यतिरिक्तश्च” इत्यादि। नहि भेदाभेदव्यतिरिक्तः कश्चिद् भावानां स्वभावोऽस्ति यस्तयोरहेतुकत्वेऽपि हेतुमान् स्यात्। तस्य ताभ्यामन्यत्वे ‘अस्येमौ भेदाभेदौ’ इति सम्बन्धाभावप्रसङ्गात्, तदन्यसम्बन्धकल्पनायामनवस्थादोषात्, अनन्यत्वेऽपि भेदाभेदयोर्भावस्वभावस्य च स्वात्मन्येवावस्थानात् अनुपकाराच्च कुतः सम्बन्धिता ?। उपकारकल्पनायां च यदि भावस्वभावः स्वहेतुभ्य एव न कुतश्चिद् भिन्नोऽभिन्नो वा समुत्पन्न इतीष्यते, तदा तभ्दावेऽपि स्वभावान्यथात्वाभावात् कुतो भिन्नाभिन्नता भावस्वभावस्य स्यात् ?। अथ व्यतिरिक्तभेदाभेदवशाद् भेदाभेदौ स्वभावः प्रतिपद्येत, तावपि यदि भिन्नौ तदा भावस्वभावस्तदवस्थ एवेति न तस्य कुतश्चित् स्वरूपतो भेदोऽभेदो वा स्यात्। पुनस्तद्वशाद् भेदाभेदकल्पनायां भावस्वभावस्य तदवस्थं तादवस्थ्यमनवस्था च भेदाभेदयोः। अथाभिन्नौ तदा भावस्वभाव एव भेदाभेदाभ्यां क्रियत इति स्यात्, तस्य रूपान्तरेण करणासम्भा(म्भ)वात्; तस्य च हेत्वन्तरात् पश्चाद् भवतस्ततोऽन्यत्वापत्तेः। न च भावस्वभावः क्रियते, तस्य स्वहेतोरेव निर्वृत्तेः। स्वहेतुभ्य एव भावस्वभावस्य कुतश्चिद् भिन्नाभिन्नात्मन उत्पत्तिकल्पनायां वा भेदाभेदयोर्व्यतिरेकवतोः वैयर्थ्यम्; भेदाभेदबुद्धेरपि तत एव सिद्धेः। तस्माद् वैशेषिकादिकल्पितयोर्भेदाभेदयोर्व्विशेषसामान्यात्मनोरयोगात् भावस्वभाव एव भेदाभेदशब्दवाच्यः तयोरहेतुकत्वे भावस्वभावस्यैवाहेतुकत्वमापतितम्। ततो भावानामहेतुकत्वान्नित्यं सत्त्वमसत्त्वं वा स्यात्। अहेतुकत्वे हि भावानां यदि कदाचित् सत्त्वं सर्व्वदैव स्यात्। अथ कदाचिदसत्त्वं तदपि सर्व्वदा स्यात्। कादाचित्कत्वं तु सत्त्वस्यायुक्तम्। किं कारणम् ?। अपेक्ष्यस्याहेतुकत्वे सति कस्यचिदभावात्। यस्मा “दपेक्षया हि” तस्यापेषणीयस्य हेतोर्भावे भवन्तोऽभावे च न भवन्तः “कादाचित्काः” कदाचिभ्दवा युज्यन्ते, नान्यथेति। तस्मान्न विलक्षणात् कारणात् अविलक्षणस्य कार्यस्योत्पत्तिरभ्युपगन्तव्या, यथोक्तेन न्यायेनाहेतुकत्वादिप्रसङ्गात्।

पुनरपि विलक्षणायाः सामग्र्याः अविलक्षणस्य कार्यस्योत्पत्तौ दोषान्तरमाह- “व्यवस्थावांश्च” प्रतिनियतः “साध्येषु” घटपटादिषु “साधनानां” मृत्तन्त्वादीनां लोके यो “नियोगो” घटार्थी मृत्पिण्डमेव तत्र नियुङ्क्ते न तन्तून्, पटार्थी च तन्तूनेव न मृत्पिण्डम् इत्यादिकः स न स्यात्। कस्मात् ? इत्याह- “कारणानां”-सामग्रीणां याः “शक्तयः”- आत्मातिशयलक्षणास्तासां “प्रतीनियमे” काचिदेव सामग्री क्वचिदेव कार्ये उपयुज्यते नान्याऽन्यत्रेत्येवंरूपे “हि” यस्मात् “किञ्चिदेव” मृदादिकं “कस्यचिदेव” घटादेः साधनायोपादीयते “नापरं” तद्विलक्षणं तन्त्वादिकम् कस्मादेवम् ? इति चेत् ? “तस्यैव” मृदादेः “तत्र” घटादौ “शक्ते” र्योग्यत्वात् “अन्यस्य” तन्त्वादेस्तत्राशक्तेः। कस्मात्तस्यैव तत्र शक्तिर्न्नान्यस्य इत्यत आह “तयोः” मृदादेस्तन्त्वादेश्च “तज्जनस्वभावत्वेन” घटादिजननस्वभावत्वेन “इतरस्वभावत्वेन च” घटाद्यजननस्वभावेन च “भेदात्” अन्यत्वभावात्। नहि मृत्तन्त्वादिरूपतातोऽन्यदेव तज्जननेतरस्वभावत्वं नाम। यदा तु सामग्रीणां परस्परविलक्षणानामपि शक्तिप्रतिनियमो नेष्यते विलक्षणादपि अविलक्षणकार्योपगमात् तदा “ तज्जननस्वभावविलक्षणादपि” धूमादिजननस्वभावं यत् कारणग्नीन्धनादिसामग्रीलक्षणं तद्विलक्षणादपि शक्रमूर्द्वादेः क्षणाश्रयेण वा धूमादेस्तस्याग्नीन्धनादिसामग्रीजन्यस्य धूमस्य तत्क्षणस्य चोत्पत्ताविष्यमाणायां “न तज्जननशक्तेः प्रतिनियमो” विवक्षितधूमादिकार्यजननशक्तिप्रतिनियमः। “इति”तस्माद् “यत् किञ्चित्” कार्यं “यतः कुतश्चित्” कारणात् “स्यात्” उत्पद्येत, न यथादृष्टमेव यथादृष्टात्। सर्व्वं सर्व्वतो जायेतेति यावत्। तस्माच्छक्तिप्रतिनियमः कारणानामभ्युपगन्तव्यः। ततो विलक्षणसामग्रीजन्मनः कार्यस्य कुतश्चित् साम्यात् सरूपस्योपलक्षणेऽप्यन्यादृशतैवेति सर्व्वस्तादृशस्तथाविधजन्मेति सिद्धम्।

स्यान्मतम्-विलक्षणाया अपि सामग्र्यास्तल्लक्षणकार्यजननशक्तिः समानेति तल्लक्षणं कार्यं भविष्यति कस्याश्चिदेव च तथाभावान्न यथोदितदोषावसर इत्यत आह “तज्जननशक्तिसाम्ये तु” इत्यादि। उक्तमेव तावद् अत्र पूर्व्वपक्षे ‘न च धूमस्य तदतज्जन्यस्वभावः’ इत्यादिकं दूषणम्। अभ्युपगम्यापीदमाह- “यादृशी ह्यग्निसहकारिणः” तदाधीयमानविकारस्ये “न्धनस्य” स्वभेदेन धूमभेदहेतोः “शक्तिः” आत्मातिशयस्तादृश्येव शक्रमूर्द्ध्नो धूमस्य वा यदि तत्सामग्रीजन्यधूमविलक्षणकार्यजननशक्तिरात्मातिशयलक्षणा तदा तच्छक्तिसाम्ये तदेवाग्नीन्धनादिकमेवार्थान्नामान्तरेणोक्तं स्यात्, तद्विलक्षणस्य तदविलक्षणात्मातिशयासम्भवात्। स एव ह्यग्निर्य इन्धनविकारमादधानो धूमं जनयति, तच्चेन्धनं यदग्निनाऽऽधीयमानविकारं धूमं स्वजातिमनुकारयति। यदि च शक्रमूर्द्वादेरपि एवं भवताऽभ्युपगम्यते तदा केवलं नाम्नि विवादः स्यात्, अर्थाभेदमभ्युपगम्य तथाभिधानात्। यत एवम् “इति” तस्मात् “कार्यं” धूमादिकं “दृष्ट”मेकदा प्रत्यक्षानुपलम्भाभ्यां निश्चितमतद्रूपव्यवृत्तेनात्मना “कारण”मिन्धनादिकं सन्तानापेक्षया क्षणापेक्षया वा “ न व्यभिचरति” तद्विलक्षणादन्यतो न भवतीति कार्यहेतावन्वयव्यतिरेकनिश्चयः सिध्यतीति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project