Digital Sanskrit Buddhist Canon

स्वभावहेतुनिरूपणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Svabhāvahetunirūpaṇam
[२. स्वभावहेतुनिरूपणम्।]

[१. स्वभावहेतोर्लक्षणाभिधानम्।]

इदानीं स्वभावहेतोस्तावल्लक्षणमाह-“तत्र” हेतुत्रये स्वभावहेतोस्तावल्लक्षणमुच्यते। साध्यते येन तत् साधनम्। तच्चासौ धर्म्मश्च तस्य भावस्तभ्दावः। स एव “साधनधर्म्मभावमात्र”म्। तस्य “अन्वयः”। स यस्यास्ति साध्यधर्म्मस्यावयवे समुदायोपचारात्, तस्मिन्। “स्वभावो हेतुः”। साध्यधर्म्मस्य श्रुतत्वात् तस्यैव स्वभाव इति गम्यते। कथं पुनरसौ साध्यधर्म्मस्वभावो ? यावता भेदेन प्रतीयत इत्यत आह-“अपरस्मादपरस्माच्च” असतोऽक्षणिकाच्च या “व्यावृत्ति”स्तस्या यो “भेदः” अवधिभेदोपकल्पितस्तेन हेतुभूतेन “साध्यधर्म्मात् साधनधर्म्मस्य” यो “भेद”स्तस्मिन् “सत्यपि“ “वस्तुतः” परमार्थतो “लिङ्गस्वभाव एव” साध्यधर्म्मस्वभाव एव। तथा हि- य एवासतो व्यावृत्तः स एवाक्षणिकादपि। तत एकस्माद् धर्म्मिणो भेदाभावात् साध्यसाधनधर्म्मावपि परमार्थतो नैव भिद्येते इति।

[२. परमतनिरासार्थं साध्यधर्मे साधनधर्मभावमात्रेत्यादिविशेषणम्।]
यदि वस्तुतो लिङ्गिस्वभाव एव साधनधर्म्मः, तत् कस्मात् “साधनधर्म्मभावमात्रान्वयिनि” इति साध्यधर्म्मो विशेष्यते ?। यो हि यस्य स्वभावः स कथं तन्मात्रान्वयी न स्यात् ?, नीरूपत्वप्रसङ्गादतत्स्वभावता वा इत्यत आह-हेतुः स्वभावो यस्य साध्यधर्म्मस्य तस्मिन् “हेतुस्वभावे” “साध्यधर्म्मे” सति “अन्वयव्यभिचाराभावात्” साधनधर्म्मभावमात्रस्य योऽन्वयस्तस्य व्यभिचाराभावात्। सम्भवे व्यभिचारे च विशेषणं युक्तम्। अत्र तु सम्भव एव न व्यभिचार इति “विशेषणमयुक्तमेव। तथापि” स्वभवहेतुलक्षणे क्रियमाणे यदेतत् “साध्यधर्म्मस्य” “तन्मात्रान्वयेन” साधनधर्म्मभावमात्रानुगमनेन विशेषणं “तत् परमतापेक्षं” नैयायिकादीनां विप्रतिपत्तेस्तन्मतापेक्षं न तु स्वमतापेक्षम्।

तामेव परविप्रतिपत्तिं दर्शयन्नाह- “परे हि” नैयायिकादयः “अर्थान्तरनिमित्तः” जनकादर्थादन्यो योऽर्थो वेगवद्‍द्रव्ययोगादिः तन्निमित्तम्। ते ह्येवमाहुः-वेगवद्‍द्रव्ययोगादवयवेषु कर्म्माण्युत्पद्यन्ते। तेभ्योऽवयवविभागः। ततस्तत्संयोगविनाशस्तदारब्धं कार्यद्रव्येऽपि (कार्यद्रव्यमपि) नश्यतीति। एवमर्थान्तरं निमित्तं। तत एव “अर्थान्तरनिमित्तपेक्षमाणं” कृतकत्वादिभावेऽप्यभावाद् “अतभ्दावमात्रान्वयिनं” तस्य कृतकत्वादेः भावः सत्ता सैव तन्मात्रं तस्यान्वयः स यस्यास्ति साध्यधर्म्मस्य अनित्यत्वलक्षणस्य तद्विपरीतम् “अपि” कृतकत्वादेः “स्वभावमिच्छन्ति” यतः ततो विशेषणं कृतम्। तेन च विशेषणेन तथाविधस्यार्थान्तरनिमित्तस्य विनाशस्यातत्स्वभावतामाह लक्षणे विशेषणकारः। स्वसत्तामात्रभाविन्येव स्वभावत्वं नान्यत्रेति विशेषणेन सूचनात्।

[३. हेतुमति विनाशे साध्ये कृतकत्वस्य व्यभिचारित्वम्।]
तथा, “तस्मिन्” अर्थान्तरनिमित्ते साध्ये “हेतोः” कृतकत्वादेः व्यभिचारमनैकान्तिकतां चाह। अत्रोदाहरणं “यथा हेतुमति विनाशे” साध्ये “कृतकत्वस्य” हेतोः “अतत्स्वभावता व्यभिचारश्चेति”।

ननु च कृतकत्वस्वभावता अनित्यताया भेदोपगमात् नेष्टैव परैस्तत् किमुच्यते- “अतभ्दावमात्रान्वयिनमपि स्वभावमिच्छन्ति” इति ?। एवं मन्यते- व्यतिरिक्तावपि कृतकत्वानित्यत्वाख्यौ धर्म्मावभ्युपगच्छभ्दिरवश्यम् ‘अभूत्वा भवनं भूत्वा चाभवनमनवस्थायिस्वभावत्वम्’ अभ्युपगन्तव्यम्, अन्यथाऽऽत्मादिष्वपि कृतकत्वानित्यत्वे विशेषाभावाद् भवेताम्। ततो यदेव‘अभूत्वा भवनं भूत्वा [ऽभवनं] चानवस्थायित्वम्’ उपादीयते भावस्य तयोरेव तद्दर्शनबलोत्पन्नकृतकत्वानियत्वभेदावभासिकल्पनाद्वारेण साध्यसाधनभावोऽस्तु, किं व्यतिरिक्तधर्म्मकल्पनया ?। कल्पयित्वाऽपि वस्त्वात्मन एवार्थक्रियानिबन्धनतया तदर्थिभिः चिन्त्यत्वात्। तदुक्तम्-

“सदसत्पक्षभेदेन शब्दार्थानपवादिभिः।
वस्त्वेव चिन्त्यते ह्यत्र प्रतिबद्धः फलोदयः॥
अर्थाक्रियाऽसमर्थस्य विका(चा)रैः किं तदर्थिनाम् ?।
षण्ढस्य रूपवैरूप्ये कामिन्याः किं परीक्षया ?॥”

इति। तस्माद् दृष्टा अपि भावाः केनचिदात्मना तदन्यव्यावृत्तेन कथञ्चिन्निश्चिताः तदन्येनाप्यतद्रूपव्यावृत्तेनात्मना भ्रान्तिकारणसभ्दावादनिश्चीयमानाः, निश्चितानिश्चितयो रूपयोः प्रमाणान्तरतः प्रतिबन्धावसायापुरोवर्त्तिनोऽनुमानतो निश्चीयते इति अनित्यतास्वभावभूतस्यैव कृतकत्वस्य विनाशं प्रति लिङ्गता युक्ता। तथा च विनाशस्वभाव एव कृतकत्वाख्यो हेतुः तैर्यथोक्तन्यायादिष्टो भवति। तस्याऽतन्मात्रान्वयित्वेऽर्थान्तरनिमित्ततया विशेषणेनातत्स्वभावता कथ्यते।

स्यान्मतम्-कृतकत्वेन साक्षद् हेतुमान् विनाशोऽनुमीयते ततः प्राक्‌प्रध्वंसाभवविशेषणा सत्ता तत्समवायो वाऽनित्यता व्यवस्थाप्यते। अत एवात्मादिष्वनित्यताप्रसङ्गाभावः। विनाश इति च न भावाभावं प्रध्वंसलक्षणं मन्यामहे। कृतकत्वं तु स्वकारणसत्तासमवायम्। तस्य विशेषणेन विनाशोऽस्व(शास्व)भावताख्यापने न किञ्चिदनिष्टमिति।

तदयुक्तम्, तथाविधस्य विनाशस्य हेतुमत्ताविरोधात्, स्वयमेव चैतदाचार्यो वक्ष्यति। न च तेनानुमितेन किञ्चित्, तस्यार्थक्रियासामर्थ्यविकलत्वात्। सुखदुःस्वसाधने ज्ञात्वा यथार्हं प्रतिपित्सवो हि किञ्चित् परीक्षन्ते न व्यसनितया। तस्मादनेनास्थिरस्वभावतैव भावस्यानुमातव्या। सैव च हेतुमती कल्पनीया। अन्यथा भावाविलक्षणस्य प्रध्वंसाभावस्य मुग्दरादेरुदयेऽपि तस्य भावेऽनुपयोगात् स भावस्तदवस्थ एवेति कथं तद्विशेषणा सत्ता तत्समवायो वा अनित्यता स्यात्?। अविचलितरूपस्य च भावस्य मुग्दरादिकृतप्रध्वंसाभावविशेषणौ सत्तासमवायौ यद्यनित्यता, किं नात्मादेरपि ? इति प्रसङ्ग तदवस्थ एव। स्वकारणसमवायोऽपि चाभूत्वा भवनमनिच्छतो न सिध्यति। अभूत्वा भवत एव च या सत्ता सैव कृतकत्वं वर्ण्यते। न च सत्तासमवाययोर्न्नित्यतयोपगतयोर्निरतिशयत्वात् प्राक्‌प्रध्वंसाभावौ विशेषणं युज्येते। अभूत्वा भवनोपगमे च तदेव कृतकत्वमस्थिरस्वभावता च विनाशोऽस्तु। किं निष्फलया अप्रमाणिकया प्रमाणबधितयऽर्थान्तरकल्पनया ?। एवं कृतकत्वविनाशयोस्तादात्म्योपगमोऽवश्यम्भावी परेषामपि। ततो विनाशस्यास्थायित्वलक्षणस्यार्थान्तरनिमित्ततोपगमे कृतकत्वस्यातत्स्वभावता विशेषणेन ख्याप्यते। तन्निष्पत्तावनिष्पन्नस्य भिन्नहेतुकस्य च तत्स्वभावत्वायोगात्।

तथा, तस्मिन् साध्ये कृतकत्वस्य व्यभिचारः। तथा हि-ये यत्र हेत्वन्तरापेक्षिणो न ते तत्रावश्यम्भाविनः, यथा वाससि रागः। हेत्वन्तरापेक्षी च कृतकेष्वपि भावेषु प्रध्वंसाभाव इति विरुद्धव्याप्तोपलब्धिः।

ननु वाससि रागस्य परिमितहेतुत्वात् तस्य च स्वकारणायत्तसन्निधानत्वात् तदाश्रयस्य च विधुरप्रत्ययोपनिपातेनास्थिरतया नावश्यम्भविता युक्तैव। न पुनर्व्विनाशस्य, तद्धेतूनामानन्त्यादवश्यं कस्यचिद् घटादिषु सन्निधेः। न च विनाशस्याश्रयं प्राक् तद्धेतुसन्निधेः केचिदुपघ्नान्ति, यतस्तदभावाद् विनाशो नारभ्येतेति।

तदयुक्तम्, यतो यद्यपि बहुलं विनाशकारणानि सन्ति तथापि तेषां स्वकरणायत्तसन्निधित्वात् तथा तत्कारणानां च स न्निहितानामपि विरोधिनामप्यानत्यात् तभ्दावे तच्छक्तिप्रतिबन्धान्नावश्यं हेतवः फलवन्त इति कश्चिन्न विनश्येदपीति व्यभिचारो न निवर्तते। नन्वयं वाससि रागः सापेक्षोऽपि यदि सर्व्वत्रोपलभ्येत ततः किमवश्यम्भावी न स्यात् ?। स्याद्, यदि तथोपलभ्येत। स त्वन्यथाऽपि गृह्यते। यद्येवं न तर्हि सर्व्वत्रोपलब्धस्य विनाशस्यान्यथाभावशङ्कया मनसि खेद आधातव्यः। किं वा पुनर्भवान् समस्तवस्तुविस्तरव्यापिज्ञानालोकः ?, येनैवं वदति। तथाभावे वा कथमनुमानवृत्तिर्दृष्टे न वैफल्यमश्नुवीत ?। कस्यचित् तु हेतुकृतविनाशदर्शनेऽपि हेत्वायत्तजन्मनमन्यथाऽपि दर्शनाद् उपजाताशङ्को देशकालस्वभावविप्रकृष्टेषु कथं तथाभावं निश्चिन्वीत ?। कृतकमपि चायं भवभावलक्षणं विनाशं नित्यमुपैति, तद्विनाशोपगमे भावस्योन्मज्जनप्रसङ्गात्। न चास्य घटादेरिव विनाशहेतुरुपलभ्यते कश्चिदिति। तदुक्तम्-

“घटादिषु यथा दृष्टा हेतवो ध्वंसकारिणः।
नैवं नाशस्य सोऽहेतुस्तस्य संजायते कथम् ?॥”
इति। ततः कृतकत्व विनाशे साध्ये तेनैव व्यभिचारः किं नेष्यते ?।

भावानामयमैकान्तिक एव धर्म्म इति चेत्, कुतः पुनरेतदवसितम् ?। तेषामन्यथाभावस्यानुपलम्भादिति चेत्। नन्वयमनुपलम्भो भवन्नप्यात्मादेरनिवर्त्तकः सत्तायाः, कथमन्यत्रान्यथाभावं निवर्त्तयति ?। तस्यानुमानेनोपलम्भादिति यद्युच्येत तदा तत्राप्यनुमाने विपक्षे वृत्तिमनुपलम्भ एव हेतोः कथं निवर्त्तयति ? इति यत्किञ्चिदेतत्। तस्मात् साधूक्तम्- ‘ हेतुमति विनाशे कृतकत्वस्यास्वभावतां व्यभिचारं चाह’ इति अलमतिजल्पितेनेति।

[४. परार्थानुमाने साधर्म्यवैधर्म्यप्रयोगोदाहरणम्।]
इदानीं यद्यपि स्वार्थानुमानं प्रकृतं तथापि कश्चित् प्रयोगदर्शनाभ्यासात् प्रयोगभङ्गयैव प्रतिपद्यत इति स्वार्थनुमानेऽपि तत्स्वम्भवात् प्रसङ्गेन परार्थानुमानं च व्युत्पादयितुमाह-‘तस्य” स्वभावहेतोः “द्विधा” त्रैलक्षण्यप्रतिपादको वचनोदाहारः “प्रयोगः”। तमेव दर्शयति-समानो धर्म्मो यस्य तस्य भावः तेन “साध्य(ध)र्म्येणैकः” प्रयोगः। “अपरो” विसदृशो धर्म्मो यस्य तस्य भावः तेन “वैधर्म्येण”।

यथाक्रममनयोरुदाहरणमाह- “यथा यत् सत्”। यद्यत्सदिति वीप्साप्रधानो यच्छब्दः। “तत् सर्व्वम्” इति तच्छब्दोऽपि वीप्साप्रधान एव। अत्र सर्व्वग्रहणेन चाशेषपरिग्रहाद् बहिर्व्याप्तेर्निरासः। “यथा घटादयः” इति। यस्य सत्त्वक्षणिकत्वयोः प्रतिबन्धप्रसाधकं प्रमाणं घटादौ प्रवृत्तं तं प्रति तत्र स्मृतिसमाधानार्थं दृष्टान्तवचनं न साध्यसिद्ध्यर्थम्। दृष्टान्तमात्रतः साध्यसिद्धेरभावात्। न ह्येकस्य तथा भावे सर्व्वस्तथा भवति, अतिप्रसङ्गात्। “संश्च शब्दः” इति पक्षधर्म्मोपसंहारः।

वैधर्म्यप्रयोगस्योदाहरणम्-“तथा” इत्यादि। तथाशब्दः समुच्चये। वैधर्म्येण च प्रयोग उदाह्रियते। अत्रापि सर्व्वग्रहणं विभक्तिविपरिणामेन सम्बन्धनीयम् “क्षणिकत्वाभावे” सर्व्वस्मिन् “सत्त्वा(त्त्वा)भावः” इति।

प्रयोगद्वयेऽपि सर्व्वग्रहणस्य फलं दर्शयन्नाह- “सर्व्वस्मिन् साधनधर्मवति” धर्म्मिणि न दृष्टान्तधर्म्मिण्येव “साध्यधर्म्मस्यो” पसंहरणं “उपसंहारो” ढौकनं तेन या “व्याप्तिः” ‘व्यापकस्य तत्र भाव एव’ इत्यादिरूपा तस्याः प्रदर्शनं प्रतिपादनं तदेव “लक्षणं” ययोः तौ तथोक्तौ। ततश्च ये साध्यधर्म्मिणं परिहृत्य बहिर्व्याप्तिं प्रदर्शयन्ति ते- यद्यपि दृष्टान्तधर्म्मिणि साध्यधर्म्मेण साधनधर्म्मो व्याप्तः तावताऽस्य सर्व्वत्र तथाभावाभावात् साध्यसिद्धिरयुक्तेति- निरस्ता भवन्ति। सर्व्वत्र वा साध्यधर्म्मेण साधनधर्म्मस्य व्याप्तिः तभ्दावे, सा तथाविधैव किन्न प्रदर्श्यते येनासमर्था बहिर्व्याप्तिराख्यायते ?। न हि ‘स श्यामः, तत्पुत्रत्वात्, परिदृश्यमानपुत्रवद्’ इति तत्पुत्रत्वस्य श्यामत्वेन साध्याद् बहिः परिदृश्यमानपुत्रे व्याप्तिप्रदर्शनेऽपि साध्यसिद्धिर्भवति। तस्माद् यैव सर्व्वोपसंहारेण व्याप्तिः प्रमाणसिद्धप्रतिबन्धनिबन्धना साध्यसिद्धौ समर्था सैव तत्स्मृतये प्रदर्शनीया। न च सर्व्वोपसंहारेण व्याप्तिप्रदर्शनेऽपि धर्म्मविशिष्टो धर्म्यपि तदैव प्रतीयते, यतः पक्षधर्म्मोपदर्शनोत्तरकालभाविनोऽनुमानस्य स्मृतित्वं स्यात्। तस्याः साध्यधर्म्मिणि साध्यधर्माविनाभूतसाधनधर्म्मप्रतीतिनिबन्धनत्वेन तदुपदर्शनात् प्रागसम्भवात्। तत्पूर्व्विकायां च व्याप्तौ अनन्तरं विशेषविषयमनुमानं कथं स्मृतिः स्यात् ? इति।

[५. वैधर्म्यप्रयोगेऽपि व्याप्तिप्रदर्शनं संगतम्।]
ननु च साधर्म्यप्रयोगस्य व्याप्तिप्रदर्शनलक्षणत्वं युक्तम्, साधनधर्म्मे सति साध्यधर्म्मस्यवश्याम्भाविताप्रदर्शनात्; वैधर्म्यप्रयोगस्य तु कथम् ?। तत्र हि केवलं साध्याभावे हेत्वभावः कथ्यते, न तु हेतौ सति साध्यस्य भाव एवेति। नैष दोषः। न ह्यत्र साध्याभावे हेत्वभावस्तुच्छरूपो दर्श्यते, तस्य हेतुरूपताविरोधात्। वस्तुधर्म्मो हि सत्त्वादिको हेतुः। तस्यात्मन एवाभावः कथं [हेतुस्व]रूपं भविष्यति, यतस्त्रिरूपो हेतुर्भवेत्। किन्तु निवृत्तौ निवृत्तिधर्म्मकत्वं स्वगतो धर्म्म उपदर्श्यते वैधर्म्यप्रयोगेण, तथाविधे च साधनधर्म्मेऽवश्यंतया साध्यधर्म्मस्य भावः प्रतीयत एव, अन्यथा तन्निवृत्तौ निवृत्तिधर्म्मकत्वस्यैवायोगादिति न व्याप्तिप्रदर्शनलक्षणत्वं वैधर्म्यप्रयोगस्य न युज्यते।

[६. प्रतिज्ञाप्रयोगस्य नैरर्थक्यम्।]
ननु द्विविधेऽपि प्रयोगे प्रतिज्ञाप्रयोगो नोपदर्शितः तत् कथं तदर्थावगतिः ?, तदर्थप्रत्यायनाय च साधनप्रयोगोऽभिमतः इत्यत आह- “अत्र” अनयोः प्रयोगयोः “पक्षधर्म्मसम्बन्धवचनमात्रसामर्थ्यादेव” वक्ष्यमाणकात् “प्रतिज्ञार्थस्य” धर्म्मधर्म्मिसमुदायलक्षणस्य साध्यस्य “प्रतीतेः” हेतोः “न” “प्रतीज्ञायाः प्रयोग उपदर्शितः”। परः सामर्थ्यमनववुध्यमान आह- “अप्रदर्शिते” वचनेन “प्रमेये” साध्ये “कथं” न कथञ्चित् “तत्प्रतीतिः” प्रतिज्ञार्थप्रतीतिः “इति” एवं “चेद्” यदि मन्यसे तदा स्वार्थानुमानकाले “स्वयं” परं प्रतिपादकमन्तरेण “प्रतिपत्तौ” प्रमेयस्य “क उपदर्शयिता” ? नैव कश्चित्। स्वयमेव तु साध्यविनाभूतसाधनधर्म्मदर्शनात् प्रमेयं प्रतिपद्यते तथ परार्थानुमानेऽपि तत एव तत्प्रतीतिरस्तु किं प्रतिज्ञावचनेन ?।

यदि स्वयंप्रतिपत्तिकाले न कश्चित् प्रमेयस्योपदर्शयिता कथं तर्हि तत्प्रतिपत्तिः ? इत्यत आह- “प्रदेशस्थं” साध्यधर्म्मिणि स्थितं “धूमं” साधनधर्म्मं “उपलब्धवतः” प्रत्यक्षेण दृष्टवतः सतः “तस्य” धूमस्य “अग्निना” साध्यधर्म्मेण प्रमाणतः प्रतिबन्धनिश्चयबलात् प्राक्प्रतिपन्नायाः “व्याप्तेः” अविनाभावस्य “स्मरणे” सति “तत्सामर्थ्यादेव” पक्षधर्म्मग्रहणव्याप्तिग्रहणसामर्थ्यादेव प्रतिज्ञाप्रयोगरहिताद् “अग्निरत्र इति” एवंरूपा “प्रतिज्ञार्थप्रतीतिर्भवति”।

स्यान्मतम्-तत्राप्यस्य कर्ण्णपिशाचिकादिः प्रमेयं कथयत्येवेत्यत आह-“न च” नैव “तत्र” स्वार्थनुमानकाले “कश्चित्” कर्ण्णपिशाचिकदिरदृश्यो “‘अग्निरत्र’- इति” एवम् “अस्मै” प्रतिपत्रे(त्रे) प्रमेयं “निवेदयति” कथयति। यदि भवान् सत्यवादी नैवं वक्तुमर्हति। तथा हि-वयमपि प्रदेशस्थधूमदर्शनात् तस्याग्निना व्याप्तिस्मरणसापेक्षादग्निं प्रतिपद्यामहे। न चास्मभ्यं कश्चित् निवेदयति ‘अग्निरत्र’ इति, भवति च तत्प्रतिपत्तिः, तथा तदन्यस्यापि सा युक्तरूपैवेति।

यद्यपि न कश्चित् निवेदयति तथापि स्वयमेव प्रमेयं व्यवस्थाप्य तत्प्रतिपत्तये लिङ्गमनुसरिष्यतीति चेत्, आह- “नापि” न केवलं न कश्चित् निवेदयति “स्वयमपि प्रागेव” लिङ्गव्यापारात् न प्रतिपद्यते “किञ्चिद्” अग्न्यादिकम्। कस्मात् ? इति चेत्, “प्रमाणं” हेतुम् “अन्तरेण” विना ‘अग्निरत्र” इत्येवं प्रतीतेः “निमित्ताभावात्”। त्रिरूपो हि हेतुः परोक्षार्थप्रतीतेर्न्निमित्तम्, तदभावे सा कथं भवेत् ?। अथ लिङ्गमन्तरेणाप्येवं प्रतीतिर्भवतिति ब्रूयात् तदा प्रतीताविष्यमाणायां लिङ्गस्य वैयर्थ्यम्, तस्यानुमेयप्रतिपत्त्यर्थत्वात्, तेन विना तत्प्रतिपत्तौ कथमस्य निष्प्रयोजनता न स्यात् ?।

अत्यन्तमूढतां च परस्य दर्शयन्नाह- “स्वयमेव” स्वतन्त्र एव ‘अग्निरत्र’-इति व्यवस्थाप्य। कथं स्वतन्त्रो व्यवस्थापयति ?। “अकस्मात्” प्रमाणमन्तरेण व्यवस्थापनात् “तत्प्रतिपत्तये” निर्न्निमित्तव्यवस्थापितप्रमेयप्रतिपत्त्यर्थं “पश्चात्” “लिङ्गं” तन्निमित्तम् “अनुसरतीति कोऽयं प्रतिपत्तेः क्रमः ” परिपाटिः ?। तथा हि-प्रथमं लिङ्गानुसरणम्, ततः साध्यप्रतिपत्तिरिति विपश्चितां क्रमः। अयं त्वपूर्व्वोऽनुमाता यस्तद्विपर्ययमाश्रयत इति उपहसति। यत्तल्लोके गीयते-शीरो मुण्डयित्वा नक्षत्रं पृच्छतीति तत्तुल्यत्वादस्य क्रमस्य। तस्मात् पक्षधर्म्मग्रहणव्याप्तिस्मरणसामर्थ्यादेव स्वयं प्रतिपद्यते। तच्च प्रतिपादकं कथितेमवेति न किञ्चित् प्रमेयनिर्द्देशेन।

यदि नाम स्वार्थानुमानकाले स्वयमेव साध्यं प्रतिपद्यते तद् युक्तमेव, लिङ्गस्यापि तत्र स्वयमेव प्रतिपत्तेः। परार्थानुमाने तु परतो यथा लिङ्गं प्रत्येति तथा प्रमेयमपि परत एव प्रत्येतव्यम्। अतो युक्त एव प्रतिज्ञाप्रयोग इत्यत आह-“परेणापि” न केवलं स्वयमेव प्राग् व्यवस्थाप्यमानं प्लवते परेणापि वादिना “तत्“ प्रमेयम् “उच्यमानं प्लवत् एव” तद्वचनस्य सन्दिग्धार्थभिधायकतया साध्यनिश्चयानङ्गत्वात् प्रमेयगाम्भीर्यानवागाहिनः परम्परयाऽप्यतत्सम्बद्धस्य विवक्षामात्रनिबन्धनतयोपर्येवावस्थापनात्। कस्मात् प्लवते ? इति चेत्, “उपयोगाभावात् ” नास्य साध्यप्रतीतिं प्रति कश्चिदुपयोगः, तत्प्रत्यायनसमर्थास्यानभिधानादिति यावत्।

परस्तूपयोगमात्रं कदाचिद् ब्रूयाद् इत्याशङ्कयाह- “विषयोपदर्शनं” हेतोर्यो विषयः साध्यं तदुपदर्शनं प्रतिज्ञावचनस्योपयोगः “चेत् मतम्”। अत्राह “तेनैव” विषयेण, “ताव”च्छब्दः क्रमे। विषयस्योपदर्श्यमानस्यार्थवत्तायां तदुपदर्शनं प्रतिज्ञावचनस्य प्रयोजनं भवेत्। विषयेणैव तु दर्श्यमानेन “कोऽर्थः” किं प्रयोजनम् ?।

ननु साध्यप्रतीतिः साध्यर्म्यवत्प्रयोगादिप्रतीतिश्च विषयोपदर्शनस्यार्थः। ततस्तुदुपदर्शनं प्रतिज्ञावचनस्य प्रयोजनम्। तथा हि-असति साध्यनिर्देशे ‘यत् कृतकं तदनित्यम्’ इत्युक्ते ‘किमयं साधर्म्यवान प्रयोगः ? उत वैधर्म्यवान् ?’ इति न ज्ञायेत। उभयं ह्यत्राशङ्क्यते-कृतकत्वेनानित्यत्वे साध्ये साधर्म्यवान्, नित्यत्वेनाकृतकत्वे वा वैधर्म्यवान् इति। ‘अनित्यः शब्दः’ ‘अकृतको वा’ इति तु प्रतिज्ञावचने सत्युभयमसन्दिग्धमवगम्यते। हेतुविरुद्धानैकान्तिकप्रतीतिश्च न स्यात्। प्रतिज्ञापूर्व्वके तु प्रयोगे ‘अनित्यः शब्दः, कृतकत्वात्’ इति हेतुभावः प्रतीयते, ‘नित्यः, कृतकत्वात्’ इति विरुद्धता, ‘प्रत्यत्नानन्तरीयकः कृतकत्वात्’ इत्यनैकान्तिकत्वम्। हेतोश्च त्रैरूप्यं न गम्येत, तस्य साध्यापेक्षया व्यवस्थानात्। सति प्रतिज्ञावचने अवयवे समुदायोपचारात् साध्यधर्म्मी पक्ष इति तत्र वृत्तस्य कृतकत्वस्य पक्षधर्म्मत्वं; साध्यधर्म्मसामान्येन च समानोऽर्थः सपक्ष इति तत्र वर्त्तमानस्य सपक्षे सत्त्वम्; न सपक्षोऽसपक्ष इति साध्यधर्म्मविरहिण्यवृत्तस्यासपक्षेऽप्यसत्त्वं प्रतीयेत इत्याशङ्कयाह- “यदि प्रतीति” साध्यस्य निश्चयलक्षणा साधर्म्म्यवत्प्रयोगादेश्च स्वरूपावधारणात्मिका। “अन्यथा” प्रतिज्ञावचनमन्तरेण “न स्यात् तदा” यदुक्तं साध्यसिध्यर्थं साधर्म्यवत्प्रयोगादिज्ञानार्थं च विषयोपदर्शनम् इति तत् “सर्व्वं शोभेत” यावता स्वर्थानुमानकाले प्रतिज्ञावचनमन्तरेणापि पक्षधर्म्मग्रहण सम्बन्धस्मरणतः साध्यसिद्धिलक्षणा भवत्येव प्रतीतिः इत्याख्यातमेव। तद्वत् परार्थेऽप्यनुमाने भविष्यति। यत एवं “तस्मात्” “एष” प्रतिज्ञाप्रयोगवादी यदा स्वयं साध्यं प्रत्येति तदा स्वयं साध्यस्य “प्रतीतौ” विषय उपस्थाप्यते येन प्रतिज्ञावचनद्वारेण पुंसा “केनचित्” तेन “विनापि” “प्रतियन्” साध्यं निश्चिन्वन् लिङ्गसामर्थ्यदेव। यदाऽस्माभिः प्रतिपाद्यते तदा “अस्मान् कार्यिणो दृष्ट्वा व्यक्तं” प्रतिज्ञाप्रयोगलक्षणं “मूल्यं मृगयते”। क इव ? “पर्व्वब्राह्मण इव”। यथा दक्षिणामन्तरेणाप्यन्यदा और्ध्वरथिको ब्राह्मणो भुञ्जानोऽन्यदा श्राद्धादिपर्व्वण्यर्थिनं श्रद्धालुं ब्रवीति-यदि मे घृतपूरं घृतपूरं प्रति रूपकं ददासि ततोऽहं भुञ्जे नान्यथेति। तेन तुल्यो भवानपीति।

किञ्च, यदपि ब्रवीषि-परार्थानुमानकाले यथा लिङ्गं परेणानभिधीयमानं न प्रत्येति प्रतिपाद्यस्तथा साध्यमपीति। तदैतद् युज्यते यद्यसौ वादिवचनमात्रेण लिङ्गमपि निश्चित्य तदनुसारेण साध्यमवगच्छेत्, परप्रतीत्यर्थिनश्च तदा वयमपि प्रतिज्ञां किन्न प्रयुञ्ज्महे लिङ्गवचनरहिताम् ?। अस्मद्वचनस्यैव तं प्रति प्रमाणतया, तत एवानुमेयप्रतीतेः, तद्वचनस्य चरितार्थत्वात्। न चैतदस्ति, यतः “अस्मद्वचनादपि” न केवलं स्वार्थानुमानकाले अस्मद्वचनमन्तरेण इत्यपिशब्दः। किन्तु यदाप्यस्मद्वचनं प्रवृत्तं तदापि “नैव” अस्मद्वचनात् “लिङ्गमपि प्रत्येति” कुत एव साध्यसिद्ध्येऽनुसरिष्यति ?। अपि तु स्वयमस्य यदि तल्लिङ्गं कुतश्चित् प्रमाणतः सिद्धं भवति “अस्मद्वचनेन तु” केवलं तत्र “स्मृतिसमाधानमात्रं क्रियते”। तदा स्वयं सिद्धमेव लिङ्गमनुसृत्य साध्यं प्रत्येति। नास्मद्वचनात् पानीयमपि पिबतीति। “तस्मात्” “कोऽनयोः” प्रतिज्ञावचनावचनात्मिकयोः “अवस्थयोर्व्विशेषः” ?, उभयत्र स्वयंसिद्धलिङ्गसामर्थ्यादेव साध्यप्रतीतेर्न कश्चित्। ततः स्वपरार्थानुमानयोः स्वयंसिद्धलिङ्गानुसरणम्, ततः साध्यप्रतीतिं च प्रति विशेषाभावात् प्रतिज्ञोपन्यासः परार्थानुमानेऽपि व्यर्थ एव। लिङ्गमपि हि तावदत्र नाभिधीयते यदि तत् पूर्व्वप्रसिद्धं स्वयमनुस्मरेत् किमङ्ग पुनः सन्दिग्धार्थाभिधायकं प्रतिज्ञावचनमुपादीयते ?।

स्यान्मतम्-यदि नाम साध्यसिद्धौ प्रतिज्ञावचनस्य नोपयोगस्तदर्थोऽस्य प्रयोगो मा भूत, साधर्म्यत्वत्प्रयोगादिज्ञानार्थं तु तदुपदानमवस्थितमेव, तस्यान्यथा प्रतीत्यभावात् इत्यत आह- “दृष्टा च साधर्म्यवत्प्रयोगादेः प्रतिज्ञावचनमन्तरेनापि प्रतीतिः, ” ततस्तदर्थोऽपि प्रतिज्ञोपन्यासो न शोभते।

कुतः पुनः साधर्म्यवत्प्रयोगादेरसति साध्यनिर्द्देशे प्रतीतिः ? इत्याह-पक्षधर्म्मसम्बन्धवचनमात्रादिति”। एवं मन्यते- नैव हि कश्चित् ‘यत् कृतकं तदनित्यम्” एतावन्मात्रमभिधीयाऽऽस्ते, साधनन्यूनतयैवास्य पराजयात्, किन्त्ववश्यं हेतोर्द्वर्म्मिण्युपसंहारं करोतीति। तत्र यदि ‘कृतकश्च शब्दः’ इति ब्रूयात् तदा साध्य(ध)र्म्यवत्प्रयोगप्रतीतिः, अथ ‘नित्यश्च’ इत्यभिदध्यात् तदा वैधर्म्यवत इति सम्बन्धवचनपूर्व्वकात् पक्षधर्म्मवचनात् प्रयोगद्वयावगतिः।

हेतुविरुद्धानैकान्तिका अपि पक्षधर्म्मवचनमात्रेण न प्रतीयन्ते। यदा तु सम्बन्धवचनमपि क्रियते तदा कथमप्रतीतिः?। तथा हि- ‘यत् कृतकं तदनित्यम्’ इति पक्षधर्म्मवचने सत्युक्ते हेतुरवगम्यते, विधियमानेनानूद्यमानस्य व्याप्तेः। ‘यत्कृतकं तन्नित्यम्’ इत्यभिधाने विरुद्धः, विपर्ययव्याप्तेः। ‘यत् कृतकं तत् प्रयत्नानन्तरीयकम्’ इति प्रदर्शने व्यभिचारादनैकान्तिकाध्यवसायः।

त्रैरूप्यमपि हेतोर्गम्यत एव, यतो व्याप्तिप्रदर्शनकाले व्यापको धर्म्मः साध्यतयाऽवगम्यते। यत्र च व्याप्यो धर्म्मो धर्म्मिण्युपसंह्रियते स व्यापकाधर्म्मविशिष्टतयाऽवगम्यमानः साध्यसमुदायैकदेशतया पक्ष इत्युपसंहृतस्य व्याप्यधर्म्मस्य पक्षधर्म्मत्वावगतिः, सा च व्याप्तिर्यत्र धर्म्मिण्युपदर्श्यते स साध्यधर्म्मसामान्येन समानोऽर्थः सपक्षः प्रतीयत इति सपक्षे सत्त्वमवगम्यते, सामर्थ्याच्च व्यापकनिवृत्तौ व्याप्यनिवृत्तिर्यत्रावसीयते सोऽसपक्ष इत्यसपक्षेऽप्यसत्व(त्त्व)मपि निश्चीयत इति, यदि पक्षादिभिरपि ज्ञातैः किञ्चित्प्रयोजनं। न तु व्यवहर्तणां पक्षादिसङ्केतापेक्षा परोक्षार्थगतिर्भवति। तथा हि- यत् क्वचिद् दृष्टं तस्य यत्र प्रतिबन्धः तद्विदस्तस्य तद् गमकं तत्र इति हि लोके वस्तुगतिर्भवति, न पक्षदिसङ्केतग्रहणापेक्षा। तत्र यथेष्टं शास्त्रकारा गमकरूपप्रतिपत्तये स्वसङ्केतेनान्यथा वा लक्षणं प्रणयन्तु। न तु व्यवहारकाले तदनुसरणं क्वचिदुपयुज्यते। तत्सङ्केतप्रतिपादितमेव तु यथोक्तं गमकं रूपमुपयोगि व्यवहर्तॄणाम्। तच्चेत् प्रतिपन्नं तावतैव साध्यसिद्धिः सञ्जाता इति पक्षसपक्षादिसङ्केतापरिज्ञानेऽपि न किञ्चित् प्लूयते। अत एवाचार्यपादै ‘र्त्रान्तरीयकार्थदर्शनं तद्विदोऽनुमान’ मिति गमकरूपमात्रमेव पक्षादिसङ्केतानपेक्षं प्रतिपादितम्। स्वप्रज्ञापराधास्तु तत्रापि कैश्चिदसन्त एव दोषाः प्रकीर्त्यन्त इति किमत्र ब्रूमः ?। “तस्मात्” साधर्म्यवत्प्रयोगादिज्ञानार्थमपि प्रतिज्ञावचनं पक्षधर्म्मसम्बन्धवचनमात्र एव यथोक्तेन प्रकारेण प्रतीतेरयुक्तमिति “कस्तस्य” प्रतिज्ञावचनस्य “उपयोगः” नैवं कश्चित्।

स्वयं चायं वादी येन क्रमेणानुमेयं प्रतिपन्नवांस्तमुल्लङ्‍घ्य परप्रतिपत्तये क्रमान्तरमाश्रयन् प्रवञ्चकतया धूर्त्त एव प्रतीयते, न सव्दृत्त इत्युपदर्शयन्नाह- “स्वनिश्चयवत्” इत्यादि। यथाऽऽत्मनो निश्चयस्योत्पादनं कृतं तथैव “अन्येषामपि निश्चयोत्पादा(द)नाय” च परहितनिरतैः “साधनमुच्यते”, “तत्र” एतस्मिं(स्मिन्) न्याये सति स्वयमयं वादी “प्रमेयस्योपदर्शनेन” उपदर्शकेन वचनेन “विनाऽपि” स्वार्थानुमानकाले “प्रतिपद्य” प्रमेयं “परं” संशयितादिकं “प्रतिपादयन्” स्वप्रतिपन्नं प्रमेयमवबोधयन् “अपूर्व्वं” स्वप्रतिपत्तिकाले पूर्व्वं यः प्रमेयप्रतिपत्तौ “क्रमः” उपायोऽनुभूतस्तस्मादन्यम् “आश्रयत इति किमत्र” क्रमान्तराश्रयणे “कारणम्” ? नैव किञ्चित् परव्यामोहनं मुक्त्वा। तथा हि-यदि स्वप्रतिपत्तिक्रमः प्रतीतिनिबन्धनं किं तत्परित्यागेन क्रमान्तराश्रयणम् ?, कथं तेन स्वयं प्रतिपन्नवानसीति ?। यत एवं “तस्मान्न प्रमेयस्य” साध्यस्य “वचनेन” प्रतिज्ञाख्येन “किञ्चित् प्रयोजनम्”। कुतः ?। ‘अन्यथापि’ विनाऽपि तेन “प्रतिपत्तेः” साध्यप्रतीतेः “उत्पत्तेरि”त्युपसंहारः।

[७. उपनयनिगमनादेरपि साधनवाक्यानङ्गत्वम्।]
एवं प्रतिज्ञां साधनवाक्यादपनीयापरमप्युपनयनिगमनादिकं परपरिकल्पितं साधनवाक्यादपनेतुमुक्तमेव न्यायमतिदिशन्नाह- “एतेन” अन्यथाऽपि प्रतिपत्तेरुत्पत्तेः’ इति न्यायेन “उपनयनिगमनादिकं” आदिग्रहणात् संशयजिज्ञासादिकं “प्रत्युक्तं” प्रत्याख्यातम्। तत्र “उदाहरणापेक्षः ‘तथा’ इत्युपसंहारो ‘न तथे’ति वा साध्यस्योपनयः”, “प्रतिज्ञायाः पुनर्व्वचनं प्रतिज्ञा” इति तु प्रतिज्ञायाः। एतेनेत्येतदेव दर्शयति- “एतावतैव” पक्षधर्म्मसम्बन्धवचनमात्रेणैव उपनयादिरहितेन “साध्यप्रतीतेः भावात्” उत्पत्तेरिति।

अत्रोद्यो(द्द्यो)तकरः प्राह-प्रतिज्ञा तावद्विषयनिर्द्देशार्थमवश्यकर्त्तव्या, यतो लोकः प्रथमं कर्म्म च्छेद्यादिकं निरूपयति। ततः कुठारादिकं साधनं व्यापारयति। उपनयेनापि यावद् दृष्टान्ते दृष्टसामर्थ्यो हेतुर्द्धर्म्मिणि नोपसंह्रियते तावत् कुतः साध्यप्रतीतिः ?। स्वार्थानुमानदृष्टश्च प्रत्यवमर्शप्रत्ययार्थोऽनेन दर्श्यते। तथा हि-स्वार्थानुमाने प्रथमं प्रदेशे धूमं पश्यति, ततो ‘यत्र यत्राहं धूममद्राक्षं तत्र तत्राग्निमपि’ इति व्याप्तिं स्मरति। ततो ‘धूमश्चात्र’ इति पुनः प्रत्यवमृशति, स प्रत्यवमर्शार्थः परार्थानुमाने उपनयेनोच्यते। निगमनमप्यवश्याभिधानीयम्, यतो यद्यपि पूर्वं अनित्यः शब्द इत्युक्तम्, न तु तावताऽस्य निश्चयो जातः। सम्प्रति तु प्रमाणबलायातोऽर्थः तत्सम्प्रत्ययार्थमनेन निगम्यते। अशेषप्रमाणव्यापारश्चानेनोपसंह्रियते। तथा हि-आगमः प्रतिज्ञा, हेतुरनुमानं, दृष्टान्तः प्रत्यक्षमुपमानमुपनयः। तदेतस्य प्रमाणचतुष्टस्यापि व्यापारो निगमनेनोपसंह्रियते-इति कथमस्य न साफल्यम् ? इत्येतदाशङ्कयाह- “डिण्डिकरागं परित्यज्य” डिण्डिकाः-नग्नाचार्याः ते निष्फलमुपर्युपरि नामलेखने प्रसक्ताः ततस्तेषामिव ‘परेणोक्ते तस्योपरि मयाऽवश्यमयुक्ततया निष्फलमप्यभिधानीयम्’ इत्यस्थानाभिनिवेशं त्यक्त्वा “अक्षिणी निमील्य” बहिर्व्विक्षेपमुपसंहृत्य “चिन्तय तावत्”-“किमियता” पक्षधर्म्मसम्बन्धवचनमात्रकेण वाक्येन साध्यस्य “प्रतीतिः स्यात् न वा ?” इति। यावता यावानेव परार्थानुमानेऽर्थोऽभिधानीय इत्यस्माभिरनुज्ञायते तावानेवान्यूनानतिरिक्तः स्वार्थानुमानेऽपि प्रतीतिहेतुर्दृष्टः, तस्य क इह शक्तेर्व्याघातः ? येनासौ परार्थानुमानेऽपि प्रतीतिं न कुर्यात्। “भावे” प्रतीतेः “किं प्रपञ्चमालया” प्रतिज्ञोपनयनिगमनलक्षणया, बालप्रतारकतदुपयोगोपवर्ण्णनलक्षणया वा ?। तथा हि-प्रतिज्ञोपनयनिगमनप्रयोगेऽपि यदि प्रमाणनिश्चिता स्वसाध्यव्याप्तिः साधनधर्म्मस्य न स्यात्, साध्यधर्म्मिणि वा सभ्दावस्तदाऽस्य नैव प्रतीतिहेतुता। तत्सम्भवे तु प्रतिज्ञाद्यभावेऽपि स्वार्थानुमान इव गमकरूपावैकल्यात् सा न निवार्यत इति किमस्थाननिर्बन्धेन इति ?। नहि साध्यधर्म्माक्षेपणसामर्थ्यविरहे साधनधर्म्मस्य वादिवचनमात्रात् साध्यनिश्चयो युक्तः, हेतूपन्यासवैर्थ्यप्रसङ्गात्, तस्य तदाक्षेपसामर्थ्ये वा प्रतिज्ञावचनस्येति।

यतूक्तम् ‘विषयप्रदर्शनाय प्रतिज्ञा’ इत्यत्र शास्त्रकृतैव दत्तमुत्तरम्। यश्च साधनं प्रयुक्ते तेन ‘अहमनेन साधनेनामुष्मिं(ष्मिन्) साध्ये प्रतीतिं साधयिष्यामि’ इति कर्म्म निरूप्यैव तत् प्रयुक्तमिति न लौकिकन्यायातिक्रमः, अन्यथा यदि साधनाद् यस्य साध्यप्रतीतिरुपजायते तेनैव कर्म्म निरूपणीयम् कथं तदभावे स्वार्थानुमाने साध्यसिद्धिः साधननिबन्धना स्यात् ?। यश्चाग्निधूमयोः सम्बन्धं चेतसि व्यवस्थाप्य ‘क्वाग्निः क्वाग्निः ?’ इत्यग्निं पर्येषते स प्रदेशे धूमदर्शनमात्रादेवाग्निं प्रतिपद्यत इति कथं स्वार्थानुमाने प्रत्यवमर्शप्रत्ययः स्यात् ?। अथ कदाचिदसौ दृष्टस्तत्रेति परार्थेऽप्यस्योपादानं तदा दध्यादिकमपि भुक्त्वा कदाचिद् धूमादग्निं प्रतिपन्नवानिति किन्न दधिभोजनादेरपि कादाचित्कस्योपादानम् ?।

यत् पुनरुक्तम् ‘आगमः प्रतिज्ञा’ इति, तत्र यदि वादिवचनमेवागमस्तदा तत एव साध्यसिद्धेर्हेत्वाद्युपदानमनर्थकम्। अथ प्रतिज्ञार्थस्यागमे पाठादागमः प्रतिज्ञा, तदा न क्वचिदागमे पठ्यते अत्र प्रदेशेऽग्निरिति कथमागमत्वं प्रतिज्ञायाः ?।

‘हेतुरनुमानम्’ इत्यप्ययुक्तम्, न हि पक्षधर्म्मत्वमात्रं हेतुः, तस्य त्रिरूपत्वात्। दृष्टान्तोऽपि न सर्व्वः प्रत्यक्ष इति कथं ‘दृष्टान्तः प्रत्यक्षम्’ भवेत् ?। उपमानं तु प्रमाणमेव न भवति, कथं तव्द्यापार उपसंह्रियेत निगमनेन ?। यदि चावश्यं दृष्टान्ते दृष्टसामर्थ्यो हेतुर्द्वर्म्मिण्युपनेयः तदोपनय एवास्तु किं ‘कृतकत्वात्’ इति पक्षधर्म्मनिर्द्देशेन ?, स एव दृष्टसामर्थ्यं हेतुमुपसंहरिष्यति पक्षधर्म्मतां च दर्शयिष्यतीति न किञ्चित्तेन। ततो यत्र च प्रतिज्ञायाः प्रथमत एव प्रयोगो नेष्यते तत्र तस्याः पुनर्व्वचनं कुतो निगमनं भविष्यति ? इत्याह- “इति” तस्माद् “इयानेव” पक्षधर्म्मसम्बन्धवचनमात्रात्मकः साधनवाक्ये “प्रयोगो ज्यायान्” न पञ्चावयवात्मक इति स्थितम्।

[८. न्यायवाक्ये हेतुदृष्टान्तवचनयोः क्रमस्यानियमः।]
अत्र साधनवाक्ये न केवलं प्रतिज्ञादिप्रयोगो न युक्तः परोपगतः ‘पूर्व्वं हेतुः प्रयोक्तव्यः पश्चाद् दृष्टान्तः’ इति क्रमनियमोऽपि न कश्चित्। कुतः ? सर्व्वथा यदि पूर्व्वं हेतुः पश्चाद् व्याप्तिः अथ पूर्व्वं व्याप्तिः पश्चात् पक्षधर्म्मः प्रयुज्यते, तथापि गमकत्वात्।

[९. हेतोस्त्रिधाप्रयोगस्य खण्डनम्।]
ननु तस्य द्विधा प्रयोग इत्ययुक्तमुक्तम्। यतस्त्रिविधो हेतुः-अन्वयी व्यतिरेकी अन्वयव्यतिरेकी चेति नैयायिकाः, ततस्तस्य त्रिघा प्रयोगः साधर्म्येण वैधर्म्येण साधर्म्यवैधर्म्याभ्यां चेति वक्तव्यमित्यत आह-“सम्बन्धवचनेऽपि” न केवलं क्रमनियमो न युक्तः किन्तु “अर्थ भेदोऽपि न कश्चिद्” उभयत्रापि त्रिरूपसभ्दावात। ततः सर्व्व एव हेतुरन्वयव्यतिरेकी, न त्वन्वयी व्यतिरेकी वा कश्चिद्वेतुरस्तीति भावः। तत् कुतस्त्रिविध्यं प्रयोगस्य स्यात् ? इति मन्यते। कुतः पुनरर्थभेदो नास्तीति ? चेत्, आह-“उभयथा” साधर्म्येण वैधर्म्येण च प्रयोगे यद्यपि विधिप्रतिषेधरूपतया धर्म्मभेदः प्रतीयते तथापि “तभ्दावस्यैव” साधनधर्म्मस्य साध्यस्वभावतायाः एव साधर्म्यवैधर्म्यप्रयोगाभ्यां “ख्यापनात्”।

ननु साधर्म्यप्रयोगे हेतुभावे साध्यस्य भावः, वैधर्म्ये च साध्याभावे हेत्वभावः शब्दादवगम्यते, न तादात्म्यम्। तत् किमुच्यते ‘तभ्दावस्यैव ख्यापनात्‘ ? इत्यत आह- “न हि” इत्यादि। यदि साधर्म्यप्रयोगे तभ्दावो नाक्षिप्येत तदा साधनस्य “अतत्स्वभावस्य भावे” किमिति “एकान्तेन” अवश्यन्तया “साध्यस्य भावः ?”। कादाचित्कस्तु भवतु नाम ?। ‘यत् कृतकं तदनित्यम्’ इत्येकान्तभावश्च हेतौ सति साध्यस्य व्याप्त्या साधर्म्यप्रयोगेऽभिधीयते। स च तादात्म्यमन्तरेणानर्थान्तरस्य न सम्भवतीति सामर्थ्यात् तदाक्षिपति।

कथमिवातत्स्वभावस्य भावे न एकान्तेनान्यभाव इति आह- “कृतकत्वे”त्यादि। यदि प्रत्यत्नानन्तरीयकत्वमन्तरेणापि कृतकत्वस्य भावादतत्स्वभावत्वम् अनित्यत्वेऽप्ययमेव वृत्तान्तः। ततश्च तादात्म्यविरहात् प्रयत्नानन्तरीयकत्वस्यानित्यत्वेनान्वयो न स्यात्, तन्निवृत्तौ वा निवृत्तिरिति कथं ततस्तत् प्रतीयते?। नैष दोषः, प्रयत्नानन्तरीयकपदार्थस्वभावस्यैवानित्यत्वस्य तेन साधनात्, तत्र च तादात्म्यसभ्दावाद् अन्वयव्यतिरेकावनिवारितौ अनित्यत्वकृतकत्वमत्रापेक्षया तु तादात्म्यविरहोऽस्याभिहित इति।

नन्वग्निनिवृत्तावतत्स्वभावस्यापि धूमस्य निवृत्तिर्दृष्टाऽन्वयश्चेत्याह-“कार्यस्य” इति। अन्वयव्यतिरेकयोर्हि प्रतिबन्धो निबन्धनम्, तेन तयोः व्याप्तेः, तदभावे तयोरप्यभावात्। तत्रार्थान्तरस्य धूमस्याग्नौ “तदुत्पत्तिलक्षणः प्रतिबन्धोऽन्वयव्यतिरेकनिमित्तम” स्तीति भवेतां तौ। यत्र त्वनर्थान्तरस्य तावुच्येते तत्रावश्यं तादात्म्येन भवितव्यमित्यभिप्रायः। अत्रोदाहरणम् “यथा-अनयोरेव कृतकत्वप्रयत्नानन्तरीयकत्वयोर्व्विपर्ययेण नैकनिवृत्तावन्यनिवृत्तिः”- ‘यत् प्रत्यत्नान्तरीयकं न भवति तत् कृतकमपि न भवति’ इत्येवंरूपा। यत एवं तस्मदन्वयव्यतिरेकयोर्यथालक्षणं हेतुभावे साध्यस्यावश्यं भावः, साध्याभावे च हेतोरवश्यमभावः इत्येकोऽपि साधर्म्यमुखेण वैधर्म्यमुखेण वा प्रयुक्तो द्वितीयमाक्षिपति, स्वव्यापकप्रतिबन्धाक्षेपात्, तस्यापि चेतरेण व्याप्तेः। तस्मादुभयत्र त्रैरूप्यप्रतीतेरेकस्य शब्दे(ब्द)तोऽपरस्यार्थत इति सम्बन्धवचनेऽपि प्रयोग एव विधिमुखेन प्रतिषेधमुखेन वा भिद्यते नार्थ इति सिद्धं ततस्तस्य द्विधा प्रयोगः साधर्म्येण वैधर्म्येण च। न तु साधर्म्यवैधर्म्यभ्यामपि, तदर्थस्यान्यतरेणैव प्रकाशनात्।

सर्व्वो हेतुरन्वयव्यतिरेक्येव वस्तुतो न कश्चिदन्वयी व्यतिरेकी वा नामेत्येतदुपसंहरन्नाह- “इति नैकत्रा” न्वयमुखेन व्यतिरेकमुखेण वा साधनवाक्ये “द्वयो” रन्वयव्यतिरेकयोः “प्रयोगः” साक्षाच्छब्देन प्रतिपादनमिष्यते, “वैयर्थ्यात्” प्रतीतप्रत्यायने प्रयोजनाभावात्।

तामेवार्थतोऽपरस्य प्रतीतिं स्फुटयन्नाह-“तत्स्वभावतया” इत्यादि। यदि तत्स्वभावतया साध्येन हेतोरन्वयः सिध्यति तत एव “तदभावेऽभावोऽपि सिध्यत्येव”। तत्स्वभावस्य तदभावे स्वयं नैरात्म्येन भावायोगात्। “तथा” तत्स्वभावतया साध्याभावे साधनस्याभाव “सिद्धौ” “च” सत्यां तत एव साध्येन हेतोः “अन्वयस्यापि सिद्धेरिति”।

यैस्तु व्याख्यायते-“साधर्म्यवति प्रयोगे तदभाव एव विपक्षे हेतोरभावख्यातिर्यथा स्यात् नान्यत्र विपक्षे विरुद्धे वा हेत्वभावप्रसङ्गात् विरुद्धत एव व्यवच्छेदप्रसङ्गाच्चेति नियमख्यापनार्थो व्यतिरेकप्रयोगः” इति। स तदर्थोऽप्ययुक्तः। कुतः ? “अन्यविरुद्धयोरपि” न केवलं तदभावस्य “विपक्षत्वात्” यस्य हि-अन्य एव विपक्षोऽन्यधर्म्मयोगी वाऽन्यो, न विवक्षितधर्म्मानाश्रयः, विरुद्ध एव वा सहानवस्थानलक्षणेनैव विरोधेन, न परस्परपरिहारस्थितलक्षणतयापि विपक्षः-तस्यानित्यत्वादन्यानात्मादिधर्म्मवति अर्थे, कृतकत्वादिवृत्तेः, हेत्वभावप्रसङ्गः। औष्ण्ये च साध्येऽग्निलक्षणस्य हेतोर्व्विरुद्धादेव शीतात् नानुष्णशीतादप्यन्यतो व्यवच्छेदप्रसङ्गात् नैकान्तेनौष्ण्यमग्निर्ग्रसयेदिति तस्यायं दोषः स्यात्। तं प्रत्याचार्येणोक्तम्-यद्येकस्य विपक्षत्वमिष्यते तदा तदभावस्यैवेष्यताम्, न विरुद्धस्य अन्यस्य वा, तस्यान्यत्रापि विवक्षितधर्म्मानाश्रये विरुद्धे च भावात्, तदभावमन्तरेण तयोरन्यविरुद्धत्वायोगात्। न त्वस्माकं त्रिविधमपि विपक्षमिच्छताम्, विवक्षितधर्म्मानाश्रयं चाऽन्यमिति भावः।

[१०. सत्त्वस्य क्षणिकत्वस्वभावतायाः समर्थनम्।]
यदि स्वभावहेतावन्वयव्यतिरेकयोः साधनधर्म्मस्य साध्यस्वभावता निबन्धनमित्यन्वयेन व्यतिरेकेण वा साधर्म्येवैधर्म्यवतोः प्रयोगयोरभिधीयमानेन तादात्म्याक्षेपद्वारेणार्थादितराक्षेप उच्यते, तदा प्रमाणसिद्धैव तत्स्वभावता तयोर्न्निबन्धनं न शब्दमात्रतः प्रतीयमानेत्यभिप्रायवानाह- “कथमिदम्” इत्यादि। “येने”ति सतो नश्वरस्वभावत्वेन। सत्व(त्त्व)लक्षणस्य हेतोः क्षणिकत्वस्वभावत्वेनेति यावत्। पृच्छतश्चायमभिप्रायः-इह द्विविधाः सन्तः-कृतकाश्च घटादयः अकृतकाश्चाकाशादयः। तत्र ये तावदकृतकास्ते “सदकारणवत् नित्यम्” इति नित्यलक्षणयोगादनित्या एव न भवन्ति कुत एव क्षणिकाः ? इति न सत्व(त्त्व)स्य क्षणिकत्वस्वभावता। येऽपि सन्तः कृतकास्तेषामपि मुग्दराद्यन्वयव्यतिरेकानुविधायितया विनाशस्य सहेतुकत्वात् तद्वेत्वसन्निधावविनाशात् कृतकात्मनोऽपि सत्व(त्त्व)स्य क्षणिकत्वस्वभावता न समस्त्येवेति नान्वयव्यतिरेकयोः सम्भव इति। अवश्यं च विनाशो दण्डाद्यन्वयव्यतिरेकानुविधायी, दृष्टत्वात्। तथा हि-

“अभिघाताग्निसंयोगनाशप्रत्ययसन्निधिम्।
विना संसर्ग्गितां याति न विनाशो घटादिभिः॥”
अन्यत्रापि चान्वयव्यतिरेकानुविधानमेव हेतुमत्ताव्यवहारनिवन्धनमभ्युपेयते सौगतैरपि, तदिहाप्यस्तीति किन्न तव्द्यवहारः प्रवर्त्त्यत्ते ? इति।

ननु चान्वयनिश्चयं प्रतिपादयता बाधकप्रमाणवृत्तिवशात् तत्स्वभावता पूर्व्वमेव प्रतिपादिता ‘अन्वयनिश्चयोऽपि स्वभावहेतौ’ इत्यादिवचनात्। तत् कुतोऽस्य पूर्व्वपक्षस्यावसरः ?। सत्यम्, किन्तु पूर्व्वाचार्यैः कृतकत्वस्य क्षणिकतायां साध्यायां परैः कृतकानामन्तेऽवश्यं हेतुनिबन्धनविनाशोपगमात् तद्वेत्वयोगप्रतिपादनेनानपेक्षा विनाशं प्रति विपर्यये बाधकं प्रमाणं तादात्म्यप्रसाधकमुक्तं तत् प्रसङ्गमुखेन कृतकल्क्षणस्यैव सत्त्वस्य तदात्मतां गमयति नान्यस्य इति दर्शयितुम्। अर्थक्रियाविरोधलक्षणं तु सर्व्वस्य सत्त्वस्य इति वस्तुमात्रेण प्रागुक्तमपि विपञ्चयितुं पूर्व्वपक्षोपन्यासः। अकृतकलक्षणं तु सत्त्वं न सम्भवत्येव, नियामकं हेतुमन्तरेण देशकालस्वभावनियमायोगात्। ततः पूर्व्वाचार्यैर्न्न तस्यैकाङ्गवैकल्यादेव “सदकारणवत् नित्यम्” इति नित्यतासम्भव इति न तदात्मतां प्रति यत्नः कृतः। शास्त्रकारस्तु सामान्येन सत्त्वस्य क्षणिकस्वभावतां, कृतकलक्षणस्य अपि च, देशकालस्वभावविप्रकृष्टस्यापि वस्तुस्थित्यैव तदात्मताम् अर्थक्रियाविरोधेन, न परोपगतावश्यम्भाविविनाशस्याहेतुकतया विशेषाभावात् उत्पन्नमात्रस्याभावप्रसङ्गेन प्रतिपादयिष्यति।

[११. सहेतुकं विनाशं निरसितुं तस्य भावस्वभावतायाः समलोचनम्।]
तत्र पूर्व्वाचार्योक्तं ‘सर्व्वस्य सतः कृतकस्यवश्यमन्ते हेतुकृतो विनाश इति’ यः परिरिष्यते तं प्रत्यनपेक्षत्वं ख्यापयितुमुपक्रमते “विनाशहेत्वयोगादिति”।

यदि तर्हि नाशस्य हेतुर्न्नास्ति, स तेषां कृतकानां सतामवश्यम्भावी विनाशः कुतः ?। न ह्याकस्मिकः कश्चित्स्वभावो युक्त इत्याह-“स्वभावत एव”। भवत्यस्मात् कार्यम् इति भावशब्दो हेतुवचनः। तेन स्वहेतुभ्य एव “नश्वराः” नशनशीलाः, सूच्यग्रे सर्षपा इवानवस्थायिनः स्वात्मनि “भावा जायन्ते”। “नैषां” कृतकलक्षणानां सतां भावानां “स्वहेतुभ्यो निष्पन्नानां” “अन्यतः” अभिघातादे “र्व्विनाशोत्पत्तिः”। कुतः? “तस्या” भिघाताग्निसंयोगादेस्तद्धेतुतयोपगतस्य “असामर्थ्यात्”। तथाहि-अग्निसंयोगादिकाले त्रितयं लक्षयामः। तदेव काष्ठादिकं विनाश्यम्, अङ्गारादिकमवस्थान्तरम्, काष्ठादिनिवृत्तिलक्षणं चाभावं तुच्छरूपं, नापरं यत्राग्निसंयोगादेर्व्यापरः चिन्त्येत। एतावत्यां च वस्तुगतौ न क्वचिदत्र विनाशहेतौः सामर्थ्यं युज्यते। यतो “नहि विनाशहेतुर्भाव” स्येन्धनादेः स्वहेतुभ्यः स्थिररूपस्योत्पन्नस्य “स्वभावमेवा” स्थिरात्मतालक्षणं “करोति”। कुतः ? “तस्ये”न्धनादेः “स्वहेतुभ्य” एव “निर्वृत्तेः”। नहि स्थिरात्मनो निर्वृत्तस्यान्यथाभावः तदात्मा शक्यते कर्तुम्, तस्य हेत्वन्तरात् पश्चाद् भव्तोऽर्थान्तरत्वप्रसङ्गात्, तस्यैवान्यथात्वायोगात्, तत्र हेतुव्यापारस्य कल्पयितुमशक्यत्वात्।

अथवा त्रितये समीक्ष्यमाणे यत् तावत् विनाश्यं काष्ठादि न तत्स्वभावमेवाग्निसंयोगादिर्व्विनाशहेतुः करोति तस्य स्वहेतुभ्य एव निर्वृत्तेरिति।

[१२. कुमारिलेष्टभावान्तरस्वभावपक्षस्य समालोचनम्]
कुमारिलस्तु मन्यते-नाग्निसंयोगादिना भावस्वभाव एव क्रियते किन्त्विन्धनादेः प्रध्वंसाभावः। स चेन्धनादिरूपविकलमङ्गारादिकमुत्तरं भावान्तरमेव। तदुक्तम्-

“नास्तिता पयसो दघ्नि प्रध्वंसाभावलक्षणम्॥”
इति।

तथाविधस्य चाभावस्य हेतुमत्तोपगमो नैव विरुध्यते। तथा चाह कश्चित्-

“भावान्तरविनिर्मुक्तो भावोऽत्रानुपलम्भवत्।
अभावः सम्मतस्तस्य हेतोः किन्न समुभ्दवः ?॥” इति।
तदेतत् कौमारिलं दर्शनमपनुदन्नाह- “नाऽपि” इत्यादि। यद्युत्तरं कार्यात्मकं “भावान्तरमेव” अभावस्तदाऽग्निसंयोगादयोऽङ्ग(ङ्गा)रादिजन्मनि व्यापृ(प्रि)यन्त इतीष्टमेवास्माकम्, किन्तु “भावान्तरकरणे” अभ्युपगम्यमानेऽग्न्यादीनामिन्धनादावव्यापारात् तदवस्थमेवेन्धनादिकम्। ततश्च यथाऽग्निसंयोगात् प्राग् इन्धनादेरुपलब्धिः अन्या च तत्साध्याऽर्थक्रिया तथाऽङ्गाराद्युत्पत्तावप्युपलब्ध्यादेः प्रसङ्गः।

ननु भावान्तरस्य प्रध्वन्सा(ध्वंसा)भावरूपतायां तदुत्पत्ताविन्धनादीनां प्रध्वस्तत्वादसतां कथं तथोपलब्ध्यादिप्रसङ्गः ?। सत्यम्, एवं मन्यते-सर्व्वस्येन्धनादेरन्यस्य गवादेरपि तथाभावो मा भूत् इत्यङ्गारादेः ध्वंसव्यवस्थायां निबन्धनमभिधानीयम्। तस्मिं(स्मिन्) सति तन्निवृत्तिरिति चेत्, अहो वचनकौशलम् यतो निवृत्तेस्तुच्छस्वभावतानङ्गीकरणात् तदेव भावान्तरमङ्गारादिकं निवृत्तिं ब्रूषे। तदयमर्थः सम्पन्नः अङ्गारादिभावेऽङ्गारादिभावादङ्गारादिकं ध्वंसः काष्ठादेरिति। न चाङ्गारादिभावे तभ्दावः स्वात्मनि हेतुभावायोगात्। अग्न्यादिभ्यश्च तदुत्पादवचनादिन्धनाद्युपमर्द्देनाङ्गारादिभावात् अस्य ध्वंसंरूपतेति चेत्। कोऽयमुपमर्द्दो नाम?। यदि निवृत्तिः साऽङ्गारादिलक्षणैवेति न पूर्व्वस्माद् विशिष्यते। तस्मात् स्वरसतो निवर्त्तते काष्ठादिः, अग्न्यादिभ्यस्त्वङ्गारादिजन्म इत्येव भद्रकम्, अन्यथा काष्ठादे “स्तथोपलब्ध्यादिप्रसङ्गः” कथं न स्यात् ?।

अपि च-यदि भावान्तरं प्रध्वंसाभावो य एतेऽनुपजातविकाराः प्रदीपबुद्ध्यादयो ध्वंसन्ते तेषां कतरद् भावान्तरं प्रध्वन्सो(ध्वंसो) व्यवस्थाप्यते?। तेऽप्यव्यक्ततामात्मभावं च विकारमेव ध्वंसं समलम्बन्त इति चेत्। न, प्रदीपादेर्भावरूपाव्यक्तताभावे प्रमाणाभावात्। यदि हि शक्तिरूपतापत्तिरव्यक्तता तदा शक्तेः कार्यदर्शनोन्नीयमानरूपत्वात् तदभावे कथं प्रदीपादयः शक्त्यात्मनाऽवस्थिताः कल्पेरन् ?। अथोपलब्धियोग्यताविकलात्मतापत्तिरव्यक्तिः; अत्रापि तदात्मनाऽवस्थितौ नैव प्रमाणमस्ति। न चाप्रमाणकमाद्रियन्ते वचो विपश्चितः। आत्मनश्चासत्त्वात् कथं तभ्दावो बुद्ध्यादीनां विकारः परिणामश्च ?। अन्यत्र विहितप्रतिक्रियत्वात् नेह प्रतन्यत इत्यलं प्रसङ्गेन।

स्यान्मतम्-भावान्तरेणाङ्गारादिनाऽऽवृतत्वात् इन्धनादेस्तथोपलब्ध्यादयो न भवन्तीत्यत आह-“नापि” इत्यादि। स्वभावान्तरम् “अन्यस्ये”न्धनादेरा“वरणमपि”न“युज्येत” “तदवस्थे” अविचलित रूपे “तस्मिन्नि”न्धनादौ स“त्यावरणस्यापि” न केवलमनुपलब्ध्यादे“रयोगात्”।

[१३. भावाभावपक्षस्यापि समालोचनम्।]
न केवलं भावस्वभावो भावान्तरं वा विनाशहेतुना न क्रियते भावाभावोऽपि न क्रियत इत्याह- “नापि” इत्यादि। कुतः ? इति चेत्, “अभावस्य विधिना” पर्युदासेन विवक्षिताभ्दावाद“न्य”तया कार्यत्वो“पगमे” क्रियमाणे किमिन्धनादिरूप एवासौ ? अथार्थान्तरम् ? इति “व्यतिरेकाव्यतिरेकाविकल्पानतिक्रमात्”। तत्र चोक्त एव दोषः।

ननु प्रसज्यप्रतिषेधात्मा तुच्छरूपोऽसावग्न्यादिजन्योऽभ्युपेयते। तभ्दावे चेन्धनदिनां नैःस्वाभाव्यात् कुतः पूर्व्वदोषावसरः ?। स चावश्यमग्न्यादिभावाभावानुविधायितया तत्कार्यस्तभ्दावव्यवहारस्यान्यत्रापि तन्निबन्धनत्वात्। तदुक्तम्-

“सन् बोधगोचरप्रास्तभ्दावे नोपलभ्यते।
नश्यन् भावः कथं तस्य न नाशः कार्यतामियत्॥
प्रागभूत्वा भवन् भावो हेतुभ्यो जायते यथा।
भूत्वाऽपि न भवंस्तद्वद्धेतुभ्यो न भवत्ययम्॥” इति।
अत आह- “भावप्रतिषेधे”त्यादि। अयमभिप्रायः-यद्यन-पेक्षितभावान्तरसंसर्ग्गश्च्युतिमात्रमेव तुच्छरूपं ध्वंसः तदा तत्र कारकव्यापारो नैव सम्भवति भवनधर्म्मिण्येव तत्सम्भवात्। तस्याप्यभूत्वा भावोपगमात् कार्यता न विरुध्यत इति चेत्। न। भवनधर्म्मणो भावरूपताप्राप्तेरभावत्वहानेः। यतो भवतीति भावो भण्यते, नापरमङ्कुरादेरपि भावशब्दप्रवृत्तिनिमित्तम्। अर्थक्रियासामर्थ्यामिति चेत्। सर्व्वसामर्थ्यविरहिणस्तर्ह्यस्य कथं प्रतीतिविषयता ?। नह्यकारणं प्रतीतिविषयः, अतिप्रसङ्गात्। तदविषयस्य वा कथं हेतुमत्तावगतिः ? वस्तुता वा ?। उमाच्यते ‘तुच्छरूपमेव तद् वस्तु’ इति। प्रतीतिजनकत्वे वा कथं न सामर्थ्यसम्बन्धिता ?। सदितिप्रत्ययाऽविषयस्य कथं भावतेति चेत्। कार्यताऽप्यस्य कथम् ?। स्वहेतुभावे भावात् इति चेत्। कथं तर्हि सत्परत्ययाऽविषयता ?। तथा हि-यदि स्वहेतुभावे भवतीति प्रतीयते सदित्यपि प्रतीयेत। यतोऽस्तीति सद् इति वदन्ति विद्वांसः। न चास्ति, भवति, भावः, सन्निति शब्दानामर्थभेदः परमार्थतः कश्चित्। अभावात्मकतयैव भवत्यसाविति चेत्। न। व्याहतत्वात्, यतो न भवतीत्यभाव उच्यते स कथं भवतीति व्यपदिश्यते ?। प्रतिष्ठितेन केनचिद् रूपेण स्वज्ञानात्मन्यप्रतिभासनात् न भव इति चेत्। अत्यन्तपरोक्षाणां चक्षुरादीनामभावताप्रसङ्गः। न। तेषां ज्ञानहेतुरूपतया प्रतिभासनात् इति चेत्। न। अस्यापि भवितृरूपतयाऽवभासनात्। सर्व्वरूपविवेकस्य च कथं भूत्या सम्बन्धः ?। केनचिद् रूपेणोन्मज्जनं हि भवनम्। ज्ञानविषयतयाऽस्यापि च तेद्धेतुरूपतयाऽवभासनस्य तुल्यत्वात्, अहेतोश्च विषयत्वायोगात्। अस्माकं त्वभावबुद्ध्यः स्ववासनापरिपाकान्वया निर्व्विषया एव। अभावस्य च भवितृत्वे कथं प्रर्युदासात् प्रसज्यप्रतिषेधो भिद्येत। असद्रूपस्य विधानेन पर्युदासात् स भिद्यत इति चेत्। न। असद्रूप्स्य भवनविरोधात्। भवतीति हि भूत्या सत्तयाऽभिसम्बध्यते। तत्र कथं सद्रूपस्य विधानम् ?। पर्युदास एवैको नञर्थश्च स्यात्, सर्व्वत्र विधेः प्राधान्यात्। सोऽपि वा न भवेत्। यदि हि किञ्चित् कुतश्चित् निवर्त्येत तदा तव्द्यतिरेकि संस्पृश्येत तत्पर्युदासेन। तच्च नास्ति। सर्व्वत्र निवृत्तिर्भवति इत्युक्ते वस्त्वन्तरस्यैव कस्यचित् विधानात्। तथाऽनेन वस्त्वन्तरमेवोक्तं स्यात्, न तयोर्व्विवेकः। अविवेके च न पर्युदासः। अप्रस्तुताभिधानं च स्यात्। भावनिवृत्तौ प्रस्तुतायां असदात्मनो वस्त्वन्तरस्यैव विधानात्। न चास्य स्वरूपेणासदात्मकत्वम्, स्वरूपेणाप्यसतः कार्यत्वविरोधात्। पररूपेण तु सर्व्वमेव वस्त्वसदात्मकमिति नास्य घटादेः कश्चिद् विशेषः। भवतु वाऽयमभावोऽग्न्यादिभ्यस्तभ्दावे किमिति नोपलभ्यन्ते काष्ठादयः ?। तथा हि-अग्न्यादीनामन्यक्रियायां चरितार्थत्वादनिवृत्ता एव तेभ्यः इन्धनादयः प्राग्वदुपलभ्येरन्। तदुपमर्द्देन ध्वंसस्योत्पत्तेः इति चेत्, कथं तदुपमर्द्दः ?। न तावत् प्रध्वंसाभावेन, इन्धनसत्ताकाले तस्याभावात्। नाग्न्यादिभिः, ध्वंसाविर्भाव एव तेषां व्यापारोपगमात्। न चोत्पन्नः प्रध्वंसाभाव इन्धनादीन् विहन्ति, यौगपद्यप्रसङ्गात्। ध्वंसेन विनाशने च विकल्पत्रयस्य तदवस्थत्वात्। ततश्चानवस्था। स एव ध्वंस इन्धनादेरग्न्यादिजन्मा निवृत्तिः, अतोऽस्यानुपलब्धिरिति चेत्। कथमन्योऽन्यस्य निवृत्तिः ?, अतिप्रसङ्गात्। यदि चायं हेतुमांस्तभ्देदादात्मभेदं किं नानुभवति ?। शालियवाङ्कुरादयोऽपि कारणभेदादेवात्मभेदमत्यन्तविलक्षणमनुभवन्तोऽध्यक्षत एवावसीयन्ते। न त्वेवमनपेक्षितभावान्तरसंसर्ग्गः च्युतिमात्रलक्षणो ध्वंसः। तस्याभिघाताग्निसंयोगादिकारणभेदेऽपि तुच्छरूपतयैकरूपस्य स्वज्ञानात्मन्यवभासनात्। नहि भावशून्यतां विहायापरं तत्र किञ्चिद् रूपमीक्षामहे। विस्तरतश्चैतत् क्षणभङ्गसिद्धौ विचारितमित्यास्तां तावदिह। तस्मादग्न्यादिसंयोगकाले “न तस्य किञ्चिद् भवति न भवत्येव केवल” मित्येवोपगन्तु युक्तम्। यतो नायं कस्यचिद् भावेन नष्टो नाम किन्तु यतः स्वयमस्थिररूपतया भूतस्ततो नष्टो नाम। तेन नास्याऽभवनम् अन्यद्वा किञ्चिद् भवति। तथा च भवनधर्म्मणः कस्यचिदभावाद् भावं भवन्तं कुतश्चिन्न करोतीति क्रियाप्रतिषेध एवाग्निसंयोगादेः स्यात्। “एवं च” सति “कर्त्ता” अग्निसंयोगादिः “न भवति इत्यकर्तुरहेतुत्वमिति” तस्मा “न्न विनाशहेतुः कश्चित्।”

[१४. वैयर्थ्यादपि विनाशे हेत्वयोगः।]
न केवलमसामर्थ्याद्धिनाशहेत्वयोगः, किन्तु “वैयर्थ्याच्च” तदेवाह- “यदि स्वभावतो नश्वरो” नशनशीलः स्वात्म“न्यनवस्थायी” स्थातुमशक्तो यथा सूच्यग्रे सर्षपः “तस्य न किञ्चिन्नाशकारणैः”। किं कारणम् ?। “स्वयं नाशात्”। “तत्स्वभावतयैव” अस्थिरस्वभावतयैव। नहि प्रकृत्यैव स्थातुमशक्ते सूच्यग्रे सर्षपे तदस्थितये प्रयासः फलवान् भवेत्।

अत्रैव व्याप्तिमादर्शयति-“यो हि” इत्यादि। “न पुनः तभ्दावे” तत्स्वभावत्वे जनकात् हेतो “र्हेत्वन्तरमपेक्षते।” “न हि प्रकाशादयः” इत्यादिना दृष्टान्तविवरणम्। तदात्मताया हेत्वन्तरानपेक्षणेन व्याप्तिं तादात्म्यसाधकेन प्रमाणेन दर्शयति- “तदात्मनो” यो यस्य स्वभावः तत्स्वभावस्य “तादात्म्याभावे” हेत्वन्तरमपेक्षमाणस्य स्वहेतोर्न्निष्पन्नस्यापि तत्स्वभावत्वाभावे “नैरात्म्यस्य” निःस्वभावतायाः प्रसङ्गात्। “तद्वत्” प्रकाशादिवत् “न पुनः” पश्चात् “तदात्मतायां” अस्थितिधर्म्मात्मतायां “हेत्वन्तरमपेक्षत” इति प्रमाणफलम्। “अस्थितिधर्म्मा चेत्” नश्वरस्वभावश्चेत्। “स्वभावतः” स्वहेतुभ्यो “निष्पन्नो” भाव इति पक्षधर्म्मोपसंहारः। विरुद्ध्व्याप्तोपलब्धिश्चेयम्, हेत्वन्तरापेक्षानपेक्षयोः परस्परपरिहारस्थितलक्षणतया विरोधात्, हेत्वन्तरानपेक्षया च तत्स्वाभावताया व्याप्तत्वात्।

[१५. स्वतो विनश्वरत्वसाधकहेतावनेकान्तदोषोद्धारः।]
अत्र च परस्प वचनावकाशमशङ्कयाह-“बीजादिवत्” इत्यादि। “स्यादेतत्” इत्यादिना एतदेव विभजते “केवला न जनयन्ति” इति। कुतः ? इति चेत्, सलिलक्षित्यादेः स्वहेतुव्यतिरिक्तस्याङ्कुरादिजननस्वभावानामपि बीजादीनां तदात्मतायामपेक्षणात्। ततश्च न पुनस्तभ्दावे हेत्वन्तरमपेक्षन्त इत्यनेकान्तः। “तद्वद् भावोऽपी”न्धनादिः स्वहेतोर्न्नश्वरात्मा निष्पन्नोऽपि “विनाशे” विनश्वरात्मतायां स्यादिति दार्ष्टान्तिकम्। “न” बीजादिवदनेकान्तः। कुतः ? “तत्स्वभावस्य” अङ्कुरादिजननस्वभावस्य बीजादेरङ्कुरादिजननात्, तदात्मतायां हेत्वन्तरानपेक्षणात्। यश्च क्षित्यादीकमपेक्षमाणो न जनयति कुशूलाद्यवस्थः तस्य “अजनकस्य च अतत्स्वभावत्वात्” अङ्कुरादिजननस्वभावत्वाभावात्। तत्र तदात्मतालक्षणो हेतुः न वर्तत एवेति न तेनानेकान्तः।

[१६. प्रत्यक्षेण बाधात् न प्रत्यभिज्ञया स्थिरैकभावसिद्धिः।]
ननु प्रत्यभिज्ञाप्रत्यक्षत एव बिजादीरेकस्वभावो लक्ष्यते। तत्र कुतोऽयं जनस्वभावत्वाजननस्वभावत्वलक्षणो भेदः ? यतोऽनेकान्तो न स्यात्। न चाप्रमाणं प्रत्यभिज्ञा, “तत्रापूर्व्वार्थविज्ञानम्” इत्यादिप्रमाणलक्षणयोगात्, सत्सम्प्रयोगेणेन्द्रियाणां भावतश्च प्रत्यक्षमेव प्रत्यभिज्ञानम्। न च प्रत्यक्षाद् गरिष्ठं प्रमाणमस्ति, यतस्तद्विषयस्य भेदसिद्ध्या बाधामनुभवदप्रमाणमेतत् स्यात् इत्याशङ्कयाह-‘अत एव’ जनकत्वाजनकत्वादेव विरुद्धधर्म्माध्यासात् ‘तयोरवस्थयोः’ जनकाजनकावस्थयोः बीजादेः “वस्तुभेदः” स्वभावभेदो “निश्चेयः”अध्यवसातव्यः। यथा हि शालिबीजं तदङ्कुरजननस्वभावं तभ्दावे शाल्यङ्कुरभावदर्शनात् प्रत्यक्षतोऽवगम्यते, यवबीजं चातज्जननस्वभावम् तभ्दावे शाल्यङ्कुरानुपलब्ध्या तद्विविक्तयवबीजग्राहिप्रत्यक्षरूपया प्रतीयते तथाऽत्राप्यवस्थाद्वये शालिबीजस्य तदङ्कुरविविक्ताविविक्तावस्थाग्राहिप्रत्यक्षबलादेव स्वाङ्कुरजनकाजनकस्वभावता किन्न निश्चीयते ?। इष्यत एवावस्थयोर्भेदोऽवस्थावतस्त्वभेद इति चेत्। न। तस्यावस्थारूपविवेकिना रूपान्तरेण प्रत्यक्षे प्रतिभासनप्रसङ्गात्। न हि यदनात्मरूपविवेकेन स्वज्ञाने न प्रतिभासने तस्य प्रत्यक्षता युक्ता। अवस्था तद्वतोः स्वभावभेदाभावात् कथं रूपान्तरेण प्रतिभासनम् ? इति चेत्। नन्ववस्थाभ्योऽनवाप्तरूपभेदस्यावस्थानामिवात्मनस्तभ्देदे सत्यभेदो न सङ्गच्छते। ततश्चास्यावस्थानामिवात्मभेदमनुभवतः कथमवस्थातृत्वम् ?। अवस्थाभेदेऽप्यभिन्नरूपस्य तथा व्यवस्थानात् कथञ्चिभ्देदस्यापि भावाददोष इति चेत्। यदि यमात्मानं पुरोधाय ‘अयमवस्थाता, अवस्थाश्चेमाः’ इति भण्यते तेनावस्थातद्वतोर्भेदस्तदा भेद एवेति ‘कथञ्चित्’ इत्यन्धपदमेतत्। ततोऽस्य प्रत्यक्षतायां अनात्मरूपविवेकिना रूपान्तरेणावभासनप्रसङ्गो न निवर्त्तते। अथ तेनात्मनाऽभेदः। अवस्थावभ्देदप्रसङ्गोऽवस्थातुः, तद्वदवस्थानामभेदस्य वा। तयोरपि कथञ्चिद् भेदाभेदाविति चेत्। तयोस्तर्ह्यवस्थातद्वदात्मनोर्भेदवतोः कथञ्चिदनिमित्तं रूपान्तरमिष्टं स्यात्। तथा च तस्यापि ताभ्यां कथञ्चिभ्देदः, अन्यथा तदेकस्वभावादत्यन्तमभेदादवस्थातद्वतोः परस्परमत्यन्तं भेदाभेदौ प्रसज्येयाताम्। रूपान्तरस्य कथञ्चिभ्देदे तन्निबन्धनमपरं रूपम्, तथाऽस्यापि तदन्यद् इत्यपरिमितरूपतैवैकैकस्य वस्तुनः समासज्येत। न चापरिमितरूपप्रतिभासि प्रत्यक्षमनुभवामः। अननुभवन्तश्च कथं तत्कल्पनयाऽऽत्मनैवात्मानं विप्रलभेमहि ?। तस्मादवस्थारूपविवेकेनोपलब्धिलक्षणप्राप्तस्यानुपलम्भाद् अपरिमितरूपताप्रसङ्गाच्च कथञ्चिभ्देदाभेदवतोऽवस्थातुरसत्त्वमेव। ताश्चावस्था जनकाजनकस्वभावभेदवत्यः प्रत्यक्षत एवावगम्यन्त इति तदेकत्वाध्यवसायि प्रत्यभिज्ञानं तब्दाधामनुभवत् कथं प्रमाणं स्यात् ?, यतो बीजादिनामङ्कुरादिजननस्वभावानामपि तदात्मतायां हेत्वन्तरापेक्षणात् प्राक्तनस्य हेतोरनैकान्तिकता भवेत्।

भवतु वाऽवस्थाता कश्चित्, तस्याप्येतदेव भेदं साधयति। तथा हि- “तयोः” जनकाजनकावस्थयोरिति सप्तमीद्विवचनमेतत् तदा भवति। तदयमर्थो-जनकावस्थायामजनकावस्थायां च “वस्तुनः” धर्म्मिलक्षणस्य “भेदः” स्वभावनानात्वम् “अत एव” जनकाजनकस्वभावत्वादेव प्रत्यक्षावसितात् “निश्चेयः” निश्चयलक्षणस्तत्र व्यवहारः कर्तव्यः, विषयस्य विरुद्धधर्म्माध्यालसक्षणस्य दर्शनादिति।

न च शाक्यते वक्तुम्-अवस्था एवाङ्कुरादिजननस्वभावा नावस्थाता इति। तस्य सर्व्वसामर्थ्यविरहलक्षणस्यासत्त्वप्रसङ्गात्। ततो यद् एकरूपतया प्रत्यभिज्ञानं भावेषु तत् पूर्व्वोत्तरकालयोर्जनकाजनकस्वभावभेदव्यवस्थापकप्रत्यक्षनिबन्धनामनुभवद्वाधां कथमिव प्रमाणं स्यात् ?। तत्प्रतिभासिनश्चाभिन्नरूपस्यालीकत्वेऽक्षसमुभ्दवामपि वृत्तिमनुभवतोऽस्य सत्सम्प्रयोगजत्वाभावात् तैमिरिकादिधियामिव कुतः प्रत्यक्षता ?। न चार्थक्रियानिबन्धनं रूपमपास्य बीजादेरपरः परमार्थतः स्वभावोऽस्ति, यस्याधिगमात् प्रत्यभिज्ञानं प्रमाणं भवेत्, अर्थक्रियासामर्थ्यलक्षणत्वात् परमार्थसतः। तस्मात् सदृशापरभावनिबन्धन एवायं केशकदलीस्तम्बादिष्विवाकारसाम्यतामात्रापहृतहृदयानां भ्रान्त एव तत्त्वाध्यवसायो मन्तव्यः। ततः सतोऽपि प्रतिक्षणं भेदस्यानुपलक्षणं बालानाम्। यदा तु विधुरप्रत्ययोपनिपाताद् विसदृशापरभावप्रसवः तदाऽस्य तत्त्वाध्यवसायी प्रत्यभिज्ञाप्रत्ययो न भूतिमवलम्बते। न च तदेकाकारपरामर्शप्रत्ययजनकत्वादपरं सादृश्यम्। भेदाऽविशेषेऽपि च स्वहेतुबलायातप्रकृतिवशात् केचिदेवैकाकारपरामर्शप्रत्ययलक्षणामर्थज्ञानादिलक्षणां वाऽर्थक्रियां कुर्व्वन्ति नापर इति विपञ्चितं प्रमाणवार्तिक एव शास्त्रकृतेति नेह प्रपञ्च्यते।

[१७. अनुमानेनापि प्रत्यभिज्ञाया बाधात् न ततः स्थिरभावसिद्धिः।]
अवश्यं च बीजादेर्जनकाजनकावस्थयोर्व्वस्तुभेदो यथोक्तोऽवगन्तव्य इति दर्शयितुमनमानमभेदस्य बाधकमाह-“भावानां” बीजादीनां स्वकार्यजनको यः “स्वभावः” तस्य तेषु सत्सु “अन्यथात्वाभावात्” कदाचिदजनकत्वासम्भवात् “तत्स्वभावस्य” अङ्कुरादिजनकस्वभावस्य “पश्चादिव” सलिलादिकारणसन्निधान इव “प्रागपि” कुशूलाद्यवस्थितिकालेऽपि स्वकार्य “जननप्रसङ्गात्”। तथा हि-सलिलादिसन्निधानेऽपि बीजादिः स्वरूपेणैव कार्यं करोति, न पररूपेण। यश्चास्य तदाकार्यजनकः स्वभावः, स चेत् प्रागप्यस्ति, ‘स एवायम्’ इति प्रत्यभिज्ञायां पुरोऽवस्थायिनो जनकस्वभावस्य प्राच्यरूपाभेदाध्यवसायात्, ततः किमिति प्रागपि तत्कार्यं न कुर्यादिति ?। प्रयोगः-यद् यदा यज्जननस्वभावं तत् तदा तज्जनयत्येव। अजनकस्य जनकत्वस्वभावविरोधात्। अन्यस्यापि वा तत्स्वभावतापत्तेः। यथा-तदेव बीजादिकं सलिलादिसन्निधिकाले। कुशूलाद्यवस्थास्वपि चेदं बीजादिकं स्वकार्यजननस्वभावमेव प्रत्यभिज्ञया व्यवस्थाप्यत इति स्वभावहेतुप्रसङ्गः। न च जनयति। तस्मान्न तज्जननस्वभावमिति। विपर्ययप्रयोगः-यद् यदा यज्जननस्वभावं निर्व्वर्त्त्यं कार्यं न जनयति न तत् तदा तज्जननस्वभावम्, तद्यथा-शाल्यङ्कुरजननस्वभावनिर्वर्त्यं कार्यमजनयत् कोद्रवबीजम्। न जनयति च सलिलादिकारणसन्निधेः प्राक् तत्कार्यजननस्वभावनिर्व्वर्त्त्यं स्वकार्यं बीजादिकमिति व्यापकानुपलब्धिः। ततोऽनुमानतोऽपि बाधामनुभवत् प्रत्यभिज्ञानं कथं प्रमाणं स्यात् ?।

ननु चानेन बाध्यमानस्यानुमानस्याप्रामाण्यात् कथं बाधकत्वम् ?। अनिश्चितप्रमाणभावेन कुतो बाधा ?। नापि इतरेतराश्रयत्वम्। नहि प्रत्यभिज्ञानस्याप्रामाण्यादेतदनुमानं प्रमाणम्, किन्तु स्वसाध्यप्रतिबन्धात्। स च विपर्यये बाधकप्रमाणबलान्निश्चित इति।

[१८. प्रत्यक्षस्यानुमानात् गरीयस्त्वनिरासः।]
न प्रत्यक्षादन्यद् गरिष्ठं प्रमाणमिति चेत्। न। प्रत्यभिज्ञायाः प्रत्यक्षत्वासिद्धेः। न हीयमनुमानेन प्रत्यक्षात्मिका सती बाध्यत इति ब्रूमहे। किं कृतं च प्रत्यक्षस्य गरीयस्त्वम् ?। तद्वयर्थस्यासम्भवेऽभावात् प्रमाणमुच्यते तच्चानुमानस्याप्यर्थप्रतिबद्धलिङ्गजन्यतया समानमिति नास्य कश्चिद्विशेषः। यदि चानुमानविरोधमश्नुवानापि प्रत्यभिज्ञा प्रमाणं तदाऽऽकारस्य साम्यात् तदेकतां प्रतियती नीलेतरकुसुमादेः [प्रतीतिः] किं न प्रमाणम् ?। नहि कुसुमफलादिकार्यदर्शनोन्नीयमानो भेदः प्रत्यक्षतस्तथाभावमनुभवति। विस्तरतश्च प्रत्यभिज्ञाप्रामाण्यनिरासः क्षणभङ्गसिद्धावेव विहित इत्यास्तां तावदिह।

“यतः एवम्” उक्तेन प्रकारेण जनकाजनकावस्थयोः बीजादेर्व्वस्तुभेदः “तस्माद् योऽन्त्योऽवस्थाविशेषो” यदनन्तरं अङ्कुरादिकार्यप्रसवः “स एवाङ्कुरजननस्वभावः”, कार्यदर्शनोन्नीयमानरूपत्वात् तज्जननस्वभावतायाः।

यदि तर्हि स एवाङ्कुरजननस्वभावः, पूर्व्वभाविनामवस्थाभेदानामतज्जननस्वभावत्वात् कथं तेषु तत्कारणव्यपदेशः ? अङ्कुरार्थिभिर्व्वा तदुपादानम् ? इत्यत आह-‘पूर्वभाविनस्तु’ कुशूलाद्यवस्थितिकालभाविनस्तु “अवस्थाविशेषा अङ्कुकारणस्या”न्त्यस्यावस्थाविशेषस्य “कारणानि” प्रत्ययान्तरोपधीयमानविशेषेभ्यः परम्परया “तेभ्यस्तदुत्पत्तेः”। अतस्तेषूपचारतः कारणव्यपदेशोऽङ्कुरार्थिभिश्चोपादानम्। यतस्तत्स्वभावस्य बीजादेर्जननं न हेत्वन्तरापेक्षम्, यज्जानकमपेक्षते न तस्य तज्जनस्वभावत्वम् इति। “तस्मान्नानेकान्तो” बीजादिवत् ‘तत्स्वभावत्वात्’ इत्यस्य हेतोः इत्युपसंहारः।

तदेवं यदा तावत् प्रत्यभिज्ञानं प्रत्यक्षप्रमाणतया स्थैर्यसिद्धये परैरूच्यते बीजादिवदनेकान्तं प्रतिपादयितुम्, तदा तस्योक्तेन प्रकारेण प्रत्यक्षानुमानाभ्यां बाध्यमानत्वात् तदात्मता नास्तीति कुतस्तत एकता भावानाम् ?, यतोऽनेकान्तः स्यादिति प्रतिपादितम्। यदा तु प्रत्यभिज्ञायमानत्वात् पूर्व्वापरकालयोरेकस्वभावा बीजादय इति हेतुतयोच्यते परैः, तदाऽयमसिद्धो हेतुः। न च स पक्षे क्वचिद् वर्त्तत इत्याह- “क्षणिकेषु भावेषु” अस्माभिरिष्यमाणेषु “ऐक्याभावा”दिति सम्बन्धः।

[१९. तत्स्वभावत्वात् इत्यत्र पुनरपि अनेकान्तदोषोद्वारः।]
अथ यस्यापि क्षणिका भावास्तस्यापि बीजादीनां प्रतिक्षणमैक्याभावेऽपि विशेषानुपलक्षणादन्त्यक्षणवत् सर्व्वेषां जनकस्वभावानामपि तभ्दावं प्रति सलिलाद्यपेक्षत्वात् तदवस्थमनैकान्तिकत्वम् इत्याशङ्कयाह- “अपरापरोत्पत्तेः” क्षणिकैरपि नानेकान्तः, अपरेभ्योऽपरेभ्यश्च प्रत्ययेभ्यः प्रतिक्षणमुत्पत्तेः क्षणिकानां भिन्नशक्तित्वादन्त्यक्षणवज्जनकस्वभावताविरहात् कुतस्तैरप्यनेकान्तः स्यात् ?। न हि कारणभेदोपधीयमानजन्मनां विशेषानुपलक्षणेऽप्यभिन्नस्वभावता युक्ता, हेतु भेदाननुविधानेऽहेतुकताप्रसङ्गात्। तथा च वक्ष्यति-‘अपरापरप्रत्यययोगेन प्रतिक्षणं भिन्नशक्तयः सन्तन्वन्तः संस्कारा यद्यपि कुतश्चित् साम्यात् समानरूपाः प्रतीयन्ते तथापि भिन्न एव एषां स्वभावः, तेन किञ्चिदेव कस्यचित् कारणम्’ इति।

यदुक्तं ‘तत्स्वभावस्य जननात्’ इत्यस्यानेकान्तमुभ्दावयन्नाह परः-“ते” बीजक्षित्यादयः “अन्त्याः” अन्ते भवाः प्रत्येकमङ्कुरजनने ‘समर्थाः’ खण्डशः कारणेभ्यः कार्योत्पादाभावाद् भवभ्दिरिष्यन्त इति “किन्न जनयन्ति प्रत्येकम्” ?। ततश्चैषामेक एव कश्चिदङ्कुरं जनयति, तदन्ये तु तत्स्वभावा अपि न जनयन्तीति ‘तत्स्वभावस्य जननात्’ इत्यनेकान्तः। तद्वत् कुशूलाद्यवस्था अपि बीजादयोऽङ्कुरादिजननस्वभावा अपि न जानयिष्यन्तीति तैरनेकान्तः तदवस्थ एवेति मन्यते परः।

अत्राह-“इति” यदेवं त्वं मन्यसे। परेण सामान्येनाभिधानात् सामान्येनैवोत्तरमाह- “जनयन्त्येव” “नात्र” स्वकार्यजनने “अन्यथाभावः” अजनकत्वमाशङ्कनीयम्। कुतः ? “स्वभावस्यावैपरीत्यात्”। यै हि न जनयेयुर्जननस्वभावा एव न स्युः। तत्स्वभावाश्चेष्यन्त इत्यवश्यं जनयन्ति, तथा च कुतोऽनैकान्तः ? इति भावः।

[२०. एकेकैव समर्थेन कार्यजनने परेषामनुपयोगमाशङ्कय तदुद्धारः।]
प्रत्येकमन्त्यानां जनकत्वे कार्यस्यैकेन जननादपरेषामुपयोगस्य निर्व्विषयत्वादजननमेवेति मन्यमान आह परः-“तेषु” अन्त्येषु “सहकारिषु” सह-युगपत् करणशीलेषु “समर्थस्वभावेषु” तत्कार्यक्रियायोग्येषु अभ्युपगम्यमानेषु सत्सु “कार्यस्यैकेनैव जनितत्वात् कोऽपरस्योपयोगः ?” नैव कश्चित्। तत् किमुच्यते ‘जनयन्त्येव’ इति ?। एतत् परिहरति-‘न वै’ नैव “भावानां” बीजादीनां काचित् “प्रेक्षापूर्व्वकारिता” बुद्धिपूर्व्वकारिता, “यतः” प्रेक्षापूर्व्वकारित्वात् ‘अयमस्मास्वन्यतम एकोऽपि समर्थः कार्यजनने, किमत्रास्माभिः कर्त्तव्यम् ?’ इत्यालोच्य “अपरे निवर्तेरन्” औदासीन्यं भजमानास्तत्कार्यजनने न व्याप्रियेरन्। यस्मात् “ते” बीजादयो भावाः “निरभिप्रायव्यापाराः” पर्यालोचनाशून्यव्यापारा एकत उत्पद्यमाने “कार्ये सर्व्व एव व्याप्रियन्ते”। भवनधर्म्मणि च कार्ये तेषां प्राग्भाव एव व्यापारः। तदन्यस्यायोगात्। यदि हि व्यापृतादन्य एव व्यापारः तदा तत एव कार्योत्पादाद् व्यापारवतः कारकत्वमेव हीयते।

तस्यासौ व्यापारः ततस्तस्य कारकत्वम् इति चेत्। नन्वेवं व्यापारोपयोगस्य कार्यानुपयोगिनि तत्रोपचारात् पारमार्थिकमस्य कारकत्वं हीयेत। कश्चास्य व्यापारेण सम्बन्धः ?। समवायश्चेत्। न। तस्य प्रागेव निरस्तत्वात्। समवायाच्च व्यापारवत्त्वे अन्यस्यापि तत्कार्यानुपयोगिनस्तभ्दावप्रसङ्गः, समवायस्येहेति बुद्धिहेतोरेकत्वेन सर्व्वत्र समानत्वात्। अभिमतेनैव व्यापृतेन तब्द्यापारोत्पादनात् नातिप्रसङ्गः इति चेत्। ननु तेन तदुत्पादनं तत्र समवायोदेवोच्यते। स च सर्व्वत्र समानः। येन च परिश्रमेण व्यापारं जनयति तेन कार्यमेव किन्नोत्पादयति ? येन व्यवधानमाश्रीयते। यथा च स्वसन्निधिमात्रेनैवायं व्यापारं जनयति न व्यापारान्तरेण, अनवस्थाप्रसङ्गात्, तथा तत एव कार्यमपीत्युक्तप्रायम्।

तस्माद् भाविनि कार्ये प्राग्भाव एव कारणस्य व्यापारः। स च सर्व्वेषामस्तीति सर्व्व एव कार्योत्पत्तौ व्याप्रियन्त इति व्यपदिश्यन्ते।

“तदपि कार्यं सर्व्वेभ्य एव जायते” सर्व्वेषां भाव एव तभ्दावात्। न हि कार्यस्य कारणाभिमतभाव एव भावमन्तरेणापरं जन्म। तथाभावे हि तत्रैव कारणव्यापारात् कार्यक्रियैवैषां न सम्भवेत्। ततश्च सत्स्वपि कारणेषु कथमस्य भाव उपलब्धिर्व्वा स्यात् ?। तत्सम्बन्धिनो जन्मनः करणात् इति चेत्। न। असता तेन सम्बन्धायोगात्। स्वत एव सत्त्वे वा जन्मार्थानुपपत्तेः। जन्मकाले चोपलभ्यस्यात्मनः प्रागपि भावात् तथोपलब्धिप्रसङ्गः, रूपान्तरेण भावे नतस्य भावः स्यात्। रूपभेदलक्षणत्वाद् भावभेदस्य। तस्मादुपलभ्यात्मनो जन्मनः प्रागनुपलम्भादसत्त्वम्। ततोऽस्य जन्मसम्बन्धिता कुतः ?। तस्मात् कार्यमेवाभूत्वा हेतुभावे भवतीति भाव एवास्य ततो जन्मेति सर्व्वेभ्यस्तत् जायते।

नन्वेकस्यापि तज्जनने सामर्थ्यात् अपरेषां तत्र सन्निधिलक्षणो व्यापारो व्यर्थ एवेति न तत्रपरेषां भावः सङ्गच्छत इति चेदाह-“स्वहेतोः” क्षितिबीजसलिलादिसामग्रीलक्षणस्य “परिणामः” कार्योत्पादानुगुणविशेषवतः प्रतिक्षणमुपधीयमानातिशयस्य क्षणान्तरस्य प्रसवः, ततः “उपनिधिः” कार्यदेशे सन्निधानं “धर्म्मो” येषां ते “तथाभवन्तः” कार्यदेशे सन्निधीयमानाः “नोपालम्भमर्हन्ति”- ‘एकस्याप्येतत्कार्यकरणे समर्थत्वात् किमत्र भवन्तः सन्निहिताः ?’ इति न पर्यनुयोगमर्हन्ति। न हि तदपरसन्निधिमन्तरेण तत्रैकस्यापि भाव उपपद्यते। कुतः ? “तत्प्रकृतेः” तत्प्रकृतित्वात् इति भावप्रधानो निर्द्देशः। क्षितिबीजसलिलादिसामग्रीपरिणामजन्यस्वभावत्वादेकैकस्य समर्थस्य तदभावे कुतः केवलस्य सम्भवः ?, सामग्रीशब्दवाच्यैः कारणभेदैः समर्थस्वस्वलक्षणान्तरारम्भात्। ततश्च प्रतिक्षणमुपधीयमानातिशयस्योत्पादात् केवलानां च तज्जननस्वभाववैकल्यात् तदपरप्रत्यययोगजन्यस्वभावत्वात् समर्थजनकस्य हेतोः। एतच्च यथावसरं तत्र तत्र व्यक्तीकरिष्यति। तस्माद् यत्सामग्रीजन्यस्वभावो यो भावः स तत्रैकाभावेऽपि कारणवैकल्यान्न सम्भवतीत्येकसामग्रीजन्मनां सहभावो नियतः। सर्व्वेषां तेषां भाव एव कार्यस्य भावात् सर्व्व एव जनयन्तीति ‘तत्स्वभावस्य जननात्’ इत्यत्र नानेकान्तः इति।

येनाभिप्रायेण ‘तेऽन्त्याः समर्थाः किन्न जनयन्ति’ इत्युक्तं तं प्रकटयन्नाह- “समर्थाः” इत्यादि। सिद्धान्तवाद्यपि ‘जनयन्त्येव’ इति यदभिप्रायवतोक्तं तमादर्शयति- “न, तत्रैव” इत्यादि। एतदेव व्याचष्टे- “तस्यैव” इत्यादि। अयमभिप्रायः- ‘इदमत्र समर्थम्, इदमसमर्थम्’ इति प्रत्यक्षानुपलम्भसाधनाभ्यामन्वयव्यतिरेकाभ्यां व्यवह्रियते, अन्यनिमित्ताभावात्। तौ चान्वयव्यतिरेकावेकत्रैव कार्ये दृश्येते नापरापरत्रेति तस्यैवैकस्य जनने समर्था गम्यन्त इति नापरपरजननम्। ते तु यदवस्था जनयन्तो दृश्यन्ते-किं तज्जननस्वभावास्तदैव ? आहोस्वित् प्रागपि ? इत्यत्र विवादः। तत्र प्रागपि तत्स्वभावत्वे पश्चादिव प्रागपि जनप्रसङ्ग इति प्रतिक्षणं भेद उच्यत इति।

[२१. कारणभेदात् कार्यभेदं स्वीकुर्वभ्दिः क्षपणकजैमिनीयैरनेकान्तस्योभ्दावनम्।]
पुनरन्यथा क्षपणकजैमिनीया अनेकान्तमुभ्दावयन्त आहुः-“भिन्नः” परस्परव्यावृत्तः “स्वभावो” येषां तेभ्यश्चक्षुरादिभ्यः “सहकारिभ्यः” युगपत्कर्तृभ्यः “एकस्य” विज्ञानलक्षणस्य “कार्यस्योत्पत्तौ” सत्याम्, बहूनि भिन्नस्वभावानि कारणानि कार्यं त्वेकमभिन्नस्वभावमिति “न कारणभेदात् कार्यभेदः स्यात् ”। ततश्चक्षुरादयो न भिन्नेनात्मनैकस्य कार्यस्य जनका एष्टव्याः। किन्त्वभिन्नमेषामेककार्यजनकं सामान्यभूतं रूपमुपेयं येनाभिन्नं कार्यं जनयन्ति। तच्च समग्रावस्थायामेव तत्कार्यं जनयति न व्यग्रावस्थायाम्। न चैकैकाभावे तस्याभावः, सामान्यात्मनः कदाचिदभावविरोधात्। न च तदाऽस्याऽजनकस्वभावता, जनकाजनकरूपवतः समग्रेतरावस्थयोर्भेदप्रसङ्गात्। तथा च सामान्यात्मना हानिः। ततो यदस्य समग्रेषु चक्षुरादिषु जनकं रूपं तदेकैकाभावेऽपि विद्यते न च जनयतीति ‘तत्स्वभावस्य जननात्’ इत्यनेकान्त इति।

[२२. सिद्धान्तवादीना दूषणोद्वारः।]
सिद्धान्तवाद्याह-“न, यथास्वम्” इत्यादि। एवं मन्यते-किं पुनरिदं कारणमभिमतं भवतः ?। यदि प्रत्येकं चक्षुरादिकम्; तदयुक्तम्। सामग्रीजन्यस्वभावत्वात् कार्यस्य, तस्या एव कारणत्वात्। ननु तदवस्थायां प्रत्येकमेव सामग्रीशब्दवाच्यानां जननस्वभावत्वाभ्युपगमात् प्रत्येकमेव चक्षुरादिकं कारणम्। यद्येवं कोऽयं नियमो यदनेकस्माद् भवताऽनेकेन भवितव्यम् विपर्यये बाधकप्रमाणाभावात्, एकेनैव तत् कार्यं कर्तव्यमिति च न नियमकारणमुत्पश्यामः। एकं च तत्कार्यं करोतीति कुतोऽवसितम् ?। तभ्दावे भावात् इति चेत्। अनेकत्रापि समानमेतत्। तदुक्तम्-“तस्यैवेकस्य जनने समर्थाः नान्यस्य इति नापरापरजननम्” इति। न चानेकस्माद् भवदनेकं प्राप्नोति। यतो नास्माकं भवतामिव कारणमेव कार्यात्मतामुपैति, यतोऽनेकपरिणतेरनेकरूपत्वात् कार्यस्यानेकता स्यात्। किन्तु अपूर्व्वमेव केषुचित् सत्सु भवति। तच्चानेकभाव एव भावात् तत्कार्यमुच्यते तस्य कुतोऽनेकताप्रसङ्गः?। यत्त्वभिन्नं रूपं जनकमुच्यते तस्यैकस्थितावपि भावात् तत्कार्यजननस्वभावाच्च ततः कार्यप्रसवप्रसङ्गः, तदन्यसन्निधौ तस्य विशेषाभावात् तदापि वान जनयेत्। तस्माद् येषुं भावाभाववत्सु कार्यं भावाभाववद् दृष्टं त एव विशेषा जनका इति कुतोऽनेकान्तः ?।

अथ सामग्रीं कारणमाश्रित्योच्यते ‘न कारणभेदात् कार्यभेदः स्यादिति’, “तन्न”, “यथास्वं” यस्याः सामग्र्याःय आत्मीयः स्वभावस्तभ्देदेन “तद्विशेषोपयोगतः” तस्य-विज्ञानलक्षणस्य कार्यस्य, विशेषाः-सामग्रीभेदाद् भिन्नाः स्वभावाः, तेषूपयोगतः तदुपयोगैः भिन्नसामग्रीव्यापारैः कार्याः ये स्वभावविशेषाः- कार्याणांविशिष्टाः स्वभावाः तेषामसङ्करात्‌परस्परव्यावृत्तरूपत्वात्। सामग्रीभेदाद् भिन्नरूपतैव कार्याणामिति कथन्न कारणभेदाद् कार्यभेदः स्यात् ?। तथा हि-एका सामग्री मनस्कारतत्साग्दुण्यादिलक्षणा, ततो विकल्पविज्ञानमात्रं जायते; अपरा मनस्कारेन्द्रियमात्रलक्षणा, ततो भ्रान्तेन्द्रियविज्ञानसम्भवः; तदन्या विषयेन्द्रियमनस्कारात्मिका, ततोऽप्यभ्रान्तविज्ञानसम्भूतिरिति भिन्नसामग्रीजन्मनां कार्यस्वभावविशेषाणामसाङ्कर्यादस्त्येव सामग्रीलक्षणकारणभेदात् कार्याणां भेद इति।

ननु यदा विषयेन्द्रियमनस्कारेभ्यो विज्ञानसम्भवः तदा तेषामुपयोगविषयस्यैकत्वात् कथमसाङ्कर्यम् ?। तथाविधस्य साङ्कर्यस्येष्टत्वात् अदोषः। तदुक्तम्-“तत्रैवैकत्र सामर्थ्यात्” इत्यादि।

कथं तर्हि तेषां तज्जनकत्वम् ?, यदि तभ्देदात् न भिद्यते कार्यम्। किं नु वै समग्राणामन्यान्यकार्यजननेन जनकत्वम् यतस्तदभावे तन्न स्यात्। जनकत्वं ह्येषां तभ्दाव एव कस्यचिद् भावात्। तत्रैकस्यानेकस्य वा भावे तेषामेकानेकजनकत्वमुच्यते।

[२३. एकसामग्रीजन्येष्वपि कार्येषु भेदोपपादनम्।]
नन्वेकस्याः सामग्र्या अनेकस्य भावे सामग्र्यन्तरजन्येभ्यो भवतु भेदः, परस्परतस्तु कथम् ?। तदतद्रूपहेतुजत्वाद्धि भावास्तदतद्रूपिण इष्यन्ते। तत्र यदा चक्षूरूपमनस्कारेभ्यो विज्ञानजन्म तदा चक्षूरूपक्षणयोरपि भावाद् विज्ञानेनाभिन्नहेतुजत्वात् तयोर्व्विज्ञानात्मता, विज्ञानस्य वा तद्रूपता कथं न प्रसज्येत ?। आह च-

“तदतद्रूपिणो भावास्तदद्रूपहेतुजाः।
तद्रूपादि किमज्ञानं विज्ञानाभिन्नहेतुजम्॥” इति।
नैष दोषः। तेषां यथास्वं स्वभावभेदेन निमित्तोपादानतया तदुपयोगात्। मनस्कारो हि विज्ञानस्योपादानकारणम्। चक्षुषस्तु स्वविज्ञानजननयोग्यस्य जनमनि सहकारिकारणम्। एवमितरत्रापि यथायोगम्वाच्यम्। ततोऽन्यादशी सामग्री चक्षुःक्षणस्य जनिका, अन्यादशी च विज्ञानादेरिति तद्वैलक्षण्यादेव कार्याणां वैलक्षण्यम्।

स्यादेतत्-सर्व्वेषामन्वयव्यतिरेकावनुविधीयेते तदा चक्षुरादिक्षणैरिति कुतोऽयं भेदः-इहोपादानभावे भेद(भावेनेद)मुपयुज्यते, अन्यत्र तु सहकारिभावेनेति ?। बोधरूपतादेरनुकाराननुकाराभ्यां तभ्दावे व्यभिचाराव्यभिचारतश्च। तथा हि-विज्ञानं मनस्कारस्य बोधरूपतामनुकरोति, न चक्षुरादेर्जरा(डा)दिभावम्। एवमन्यदपि प्रत्येयम्। नियमेन च विज्ञानमात्रभावे समनन्तरप्रत्ययस्य व्यापारो न चक्षुरादेः। चक्षुःक्षणान्तरोदये च पूर्व्वभाविनश्चक्षुषो न स्वविज्ञानयोग्यताहेतोः समनन्तरप्रत्ययस्य। एवं रूपस्यापि वाच्यम्। तस्मादवस्थाभेदेऽपि यद् एकाकारपरामर्ष(र्श)प्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यप्रसूतिनिमित्तं तद् उपादानकारणं यत् सन्तानान्तरे प्रागवस्थापेक्षविशेषोदयनिबन्धनं तत् सहकारिकारणम्। सा चेयं भावानां स्वहेतुपरम्परयाता प्रकृतिर्यया किञ्चित् कार्यं स्वसन्तानव्यवस्थानिबन्धनं जनयन्त्यपरं च सन्तानान्तरव्यपदेशनिबन्धनमिति तस्या एव सामग्र्या अवान्तरविशेषकृतत्वाच्चक्षूरूपविज्ञानक्षणानां परस्परतो वैलक्षण्यं न विरुध्यते।

[२४. कारणानेकत्वेऽपि कार्यस्यैकत्वं सामग्रीभेदे च कार्यभेदः।]
तस्माद् यदि ‘कारणभेदात्’ कारणानेकत्वात् “कार्यस्य भेदः” अनेकत्वं तदा प्रतिबन्धाभावादनेकान्तः। न च तदभ्युपगम्यत इति न काचित् क्षतिः।

अथ सामग्रीलक्षणस्य कारणस्य भेदः सामग्र्यन्तराद् वैलक्षण्यं कार्यस्यापि भेदोऽतत्कारणेभ्यो भिन्नस्वभावतोच्यते। तदा तस्येह भावात् कथं न कारणभेदात् कार्यभेदः स्यात् ? इति अभिप्रायवता ‘न’ कारणभेदात् कार्यभेदो न स्यात्। कुतः ?। “यथास्वम्” इत्याद्यभिहितम्।

उभयं चैतत् कार्येषु प्रमाणपरिदृष्टमिति दर्शयन्नाह- “यथा” इत्यादि। मृत्पिण्डादिभ्यो हि भवतो घटस्य न कारणानेकत्वेऽप्यनेकरूपता। नाऽपि सामग्र्यन्तरजन्यादभिन्नस्वभावतेत्युदाहरणार्थः। तत्र सामग्र्यन्तरजन्यात् तावद् भेदं दर्शयति-“मृत्पिण्डात्” इत्यादि। इह मृत्पिण्डकुलालसूत्राणि व्यग्रस्वभावानि कारणान्तरसहितानि इष्टकादिलक्षणानि तदन्यजन्येभ्योऽभिन्नस्वभावानि यानि कार्याणि साधयन्ति तेभ्यो विलक्षणमेव समग्राणि घटात्मकं कार्यं जनयन्ति। तथा हि-कुलालादिनिरपेक्षो मृत्पिण्डः तदन्यजन्याद् वृक्षादेर्विलक्षणमेवोपादानभावेन मृदात्मकं कार्यं जनयन् दृष्टः। कुलालादिसहितोऽपि तदात्मकमेव घटम्। तक्तारणाहितविशेषश्च केवलमृत्पिण्डाद् भिन्नस्वभावतया तक्तार्यादपीष्टकादेर्व्विलक्षणमेव करोति। एवं कुलालादिकमपि तदन्योपादानसहितं सहकारिभावेन यत्कार्यं करोति तद्विलक्षणमेव मृत्पिण्डसहितं तत्कारणाहितविशेषं घटात्मकं कार्यं जनयतीति समुदायार्थः। तत्र मृत्पिण्डाद् भिन्नः स्वभावो घटस्य ये तदन्योपदानकारणतया मृत्स्वभावा न भवन्ति वृक्षादयस्तेभ्यो भवति। “कुलालात्” मृत्पिण्डोपादानाहितातिशयात् सहाकारिभावेनोपयुज्यमानात् “तस्यैव घटस्य” मृत्पिण्डोपादानतया मृदात्मनः सतः “संस्थानविशेषः” पृथुबुध्नोदराद्याकारः तदात्मतया तदन्येभ्यो येषां मृत्पिण्डस्तदन्यनिमित्तसहित उपादानमिष्टकादीनां तेभ्यो भिन्नः स्वभावो भवति। “सूत्रात्” मृत्पिण्डकुलालकारणाहितविशेषात् तस्यैव घटस्य “मृत्संस्थानविशेषात्मनो” मृत्पिण्डकुलालयोस्तज्जननस्वभावत्वात् घटस्य तद्रूपयोगात् “तयोश्च” सूत्रकारणोपहितविशेषयोस्तन्निरपेक्षावस्थातो भिन्नात्मकतया “चक्रादेर्व्विभक्तो” विछिन्नः “स्वभावो भवति” तस्मादनु[क्रा]न्तकारणत्रयजन्यो घटः तदन्यस्मादेकैककार्याद् द्विद्विकार्याच्च भिन्नस्वभाव एव जायत इति सामग्रीभेदाद् भिन्नान्येव कार्याणि परस्परमसङ्कीर्ण्णस्वभावानि भवन्तीति तदुपयोगकार्यविशेषासङ्करः सिद्धः। तस्य चैकैकतद्वस्थाभाविकारणभेदान्वयव्यतिरेकानुविधायितया खण्डशोऽनुत्पादाच्च। तेदेकैकजन्यत्वेऽपि वस्तुतस्तदेकैकसजातीयकारणान्तरसन्निधावदृष्टस्य। विशेषस्येतरसन्निधौ तद्दर्शनात् ‘तज्जन्योऽयम्’ इति तत्त्वचिन्तकैर्व्विवेच्यते। यतः कार्यविशेषार्थिनोऽनेककारणपरिग्रहं कुर्व्वन्ति परस्पराहितोपकारकार्यपरम्परया वाञ्छितकार्यजननयोग्यकारणसामग्रीभावार्थम्। यत एवं सामग्रीभेदाद् भिन्नान्येवेष्टकाचक्राविभक्तघटतव्दिभक्तघटलक्षणानि कार्याणि भवन्ति “तत्” तस्मात् “एवम्” उक्तेन प्रकारेण कुलालात् मृत्पिण्डरहितादन्यसामग्र्यन्तर्भूतात् न मृत्स्वभावता कस्यचित् कार्यस्य, मृत्पिण्डकारणोपकृतात्मन एव तस्य तद्विशेषहेतुत्वात्। न मृदः केवलायाः तत्सामग्रीबहिर्भूतायाः संस्थानविशेषः कुलालोपादानोपकृताया एव मृत्संस्थानविशेषात्मककार्यहेतुत्वात्।

[२५. सहकार्यनेकत्वेऽपि कार्यस्य ऐक्यम्।]
तदेवं सामग्रीभेदाद् भेदं कार्यस्योदाहरणे प्रतिपाद्य सहकारिणामनेकत्वेऽप्यनेकात्मताविरहं प्रतिपादयन्नाह-“न च तयोः” मृत्कुलालयोः सहितयोः परस्परोपादानोपकृतात्मनोः यः शक्तिविशेषः प्रत्ययान्तरसहितावस्थातो विशिष्टा योग्यता तद्विषयस्य तदन्यावस्थाविषयाद् भेदे सत्यपि यथा तदन्यस्माद् भेदः, एवं “स्वभावेन न भेदः”। “स्वरूपतोऽपि न नानात्वं” नानेकात्मकता “कार्यस्य”। ताभ्यां जनितो यो विशेषो मृत्संस्थानविशेषात्मकः स एव तदन्यसामग्रीजन्याद् भिद्यत इति भेदो अस्य।

कथं पुनरेत[द्] ज्ञायते ‘तदन्यस्मादिव स्वभावतोऽप्यस्य भेदो नास्ति’ इत्यत आह- “मृत्संस्थानयोः” इत्यादि। यदि हि मृत्कुलालयोः तदवस्थाभाविनोः “शक्तिविशेषविषयो” मृत्संस्थानविशेषात्मको “भेद”स्तदन्यस्मादिव स्वरूपतो भिद्येत तदा मृत्संस्थानयो “रपरस्परात्मतया” परस्परात्मताविरहेण कारणेन संस्थानविशेषेण मृत् न प्रतिभासेत, न मृत्स्वभावेन च संस्थान विशेषः, यथा तदन्यरूपेण। न हि यो यस्य स्वभावो न भवति स तेनात्मना स्वग्राहिणि ज्ञाने प्रतिभासते, रूपरसवत्; ज्ञानं वा तद्रूपविकलार्थसामर्थ्येनोत्पद्यमानं तद्रूपमनुकर्तुं युक्तम् भ्रान्तताप्रसङ्गेन तद्वशादर्थव्यवस्थानाभावप्रसक्तेः। तस्मात् मृत्संस्थानयोरेकात्मतैवेति न कारणानेकत्वात् कार्यस्यानेकात्मकता ऐकान्तिकी, यतो भिन्नस्वभावेभ्यश्चक्षुरादिभ्यः सहकारिभ्यः एककार्योत्पत्तिविरोधादेकरूपतया तेषां साधारणैककार्यक्रिया, भिन्नरूपतया वा साधारणकार्यकरणमिष्येत। एतच्चैकसामग्र्यपेक्षयैककार्यकर्तृत्वमुच्यते। परमार्थतस्तु तत्सामग्र्यन्तर्ग्गतानां सजातीयस्याऽपि क्षणान्तरस्यारम्भात् सामग्र्यन्तरावयवत्वेन च कार्यान्तरस्यापि यथा एकप्रत्ययजनितं किञ्चिदेकं नास्ति तथाऽनेकप्रत्ययजनितमपीति कारणानेकत्वात् कार्यानेकत्वोपगमेऽपि न काचित् क्षतिः। तत एककार्यापेक्षयाऽनेकत्वप्रसञ्जने सन्दिग्धव्यतिरेकता, सामान्येन साधने सिद्धसाध्यतेति च।

[२६. अह्रीकादिसंमतस्य द्रव्यपर्याययोः भेदाभेदपक्षस्य निरासः।]
ननु च मृत्संस्थानविशेषयोरेकस्वभावत्वेऽप्यह्रीकादिभिः सङ्खयादिभेदाद् भेद इष्यते तत्कथमनेकप्रत्ययजनितस्यैकत्वे एतदुदाहरणम् स्यात् ?। सर्व्वत्रैव हि द्रव्यपर्याययोः सङ्खयासंज्ञालक्षणकार्यभेदाद् भेदो देशकालस्वभावाभेदाच्चाभेद इष्यते, यथा घटस्य रूपादीनां च। तथा हि-एको घटः रूपादयो बहव इति सङ्ख्याभेदः। घटः रूपादयः इति संज्ञाभेदः। अनुवृत्तिलक्षणं द्रव्यन्नित्यं च, व्यावृत्तिलक्षणा भेदाः क्षणिकाश्च; जैमिनीयस्य तु केचित् कालान्तरस्थायिनोऽपीति लक्षणभेदः। घटेनोदकाहरणं क्रियते, रूपादीभिः पुनर्व्वस्तुराग इति कार्यभेदः। एवं सर्व्वत्र द्रव्यपर्यायोः सङ्खयादिभिर्भेदः देशादिभिस्त्वभेद इति मृत्संस्थानयोः कथञ्चित् भेदात् मृत्कुलालाभ्यां जनितस्य कार्यस्यानेकताऽस्त्येव। यथा त्वेकता तथा ताभ्यां तस्य अभिन्नात्मजन्यतैवेति यदनेककारणं तदनेकमेव, यत् पुनरेकं तत् सहकारिणामभिन्नरूपजन्यतयैककारणमेवेति न व्यभिचार इति।

तदयुक्तम्। स्वभावतो भेदानभ्युपगमे अन्यथा भेदासिद्धेः अनेकस्मादेककार्योत्पत्तेरबाधनात्। स्वभावतो भेदोपगमे वाऽपरस्परात्मतया भृत्संस्थानयोः संस्थानमृत्स्वभवविशेषाभ्यां तयोरप्रतिभासनं दुर्न्निवारम्। यदि हि स्वभावतो न भेदो धर्म्मधर्म्मिणोः, सङ्खयादिभेदादपि नैव भेदः। न हि पररूपाः भिद्यमाना अपि सङ्खयादय आत्मभूतमभेदं बाधितुं समर्थाः।

सङ्ख्याभेदस्तावदसमर्थः, एकस्मिन्नपि द्रव्ये बहुत्वेन व्यवहारदर्शनात्। यथा गुरव इति। न च बहुवचनस्य नियमेनादर्शनाद् रूपादयोऽत्र निमित्तम्, रूपादिनिमित्तत्वे हि गुरुः इति न कदाचिदेकवचनं स्यात्। सम्भवि धर्म्मिरूपमात्रमभिधेयत्वेन विवक्षितम् इति चेत्। न। तस्यैकत्वेन विवक्षायां कार्त्स्न्यगौरवयोरप्रतितिप्रसङ्गात्। ब्रीहय इति च जातिवचने धर्म्मिणो रूपादीनां चानभिधानात् न किञ्चिदुत्तरम्। उभयरूपस्य च वस्तुनो गुरुशब्दवाच्यत्वात् कथं सम्भविनो धर्म्मिरूपस्यैकत्वेन विवक्षा ?। ततश्चैको गुरुरिति सामानाधिकरण्यदर्शनात् पर्याया अप्येकसंख्याविषयाः। ते च पर्यायरूपेण भिद्यन्ते। तत् कथं संख्याभेदाद् भेदसिद्धिः ? इति।

संज्ञाऽपि सङ्केतनिबन्धना। स चेच्छायत्तवृत्तिरिति कुतस्ततोऽर्थभेदः ?। एकस्मिन्नपि च संज्ञाभेददृष्टेः कथमस्य भेदनिमित्तता ?। यथा इन्द्रः शक्रः पुरन्दरः इति। अत्रापि इन्दनात् शकनात् दारणाच्च शक्तिभेदो गम्यत इति चेत्। न। समस्तस्य कार्यकर्तृत्वात्। न हि शक्तिरेव इन्दति शन्कोति दारयति च। किं तर्हि ?। धर्म्मिरूपमपि, तयोरेकस्वभावोपगमात्, शक्नोत्यादिपदैस्तद्वाचिनां सामानाधिकरण्यदर्शनाच्च। न चास्खलव्दृत्तिप्रत्ययविषयत्वादुपचारकल्पना युक्तेति। येषां च पर्यायाणां न काचिदर्थानुगममात्रा तत्र किं वक्तव्यम् ?।

लक्षणभेदोऽप्यहेतुः असिद्धत्वात्। नह्येको भावः क्वचिदप्यन्वयी सिद्ध इति। तथा हि-न कूटस्थनित्यतया नित्यं द्रव्यमह्रीकैरिष्यते, परिणामनित्यतोपगमात्। सा च पुर्वोत्तरक्षणप्रबन्धवृत्त्या। नह्यस्य पर्यायाणामिवोच्छेदः तद्रूपेण, पर्याया एव पर्यायरूपेण निरुध्यन्ते न तु द्रव्यमिति नित्यमभ्युपगम्यते। न चेयं कूटस्थनित्यता वा द्रव्ये सम्भवति, पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः तस्योपलब्धिलक्षणप्राप्तस्य तद्विवेकानुपलक्षणात्। पर्यायेष्वेव तुल्यरूपकार्यकर्तृषु द्रव्याभिमानो मन्दमतीनाम्। न पुनस्तत् ततो विलक्षणमुपलक्ष्यते।

कार्यभेदस्त्वस्मान् प्रति असिद्ध एव। रूपादीनामेव केषाञ्चित् तत्कार्यकर्तृत्वात्। तथाप्यभ्युपगम्योच्यते-कार्यं हि द्विविधम्। भिन्नकालमभिन्नकालं च। तत्र पूर्व्वं भवति भेदनिवन्धनम् यदीह सम्भवेत्। तत्तु न सम्भवति धर्म्मधर्म्मिणोस्तुल्यकालत्वात्। अभिन्नकालस्तु कार्यभेदेऽनैकान्तिकः, विभक्तपरिणामेषु पटादिषु सम्भवात्। पटादयोऽपि हि विभक्तपरिणामा अनेकं कार्यं कुर्वन्तो दृष्टाः। न च धर्म्मिरूपेण भिद्यन्ते, एकस्यानेकक्रियाविरोधाभावाच्च। नह्यत्र कारणमेव कार्यात्मतामुपैति, यत एकस्य कारणात्मनः एककार्यरूपतोपगमे तदन्यरूपाभावात् तदन्यकार्यात्मतोपगतिर्न्न स्यात्। किन्त्वपूर्व्वमेव कस्यचिद् भावे प्रागविद्यमानं भवत् तत्कार्यम्। तत्र विषयेन्द्रियमनस्काराणामितरेतरोपदानाहितरूपभेदानां सन्निधौ विशिष्टस्वेतरक्षणभावे प्रत्येकं तभ्दावाभावानुविधानादनेकक्रियोपगमो न विरुध्यते। यत्र एकक्रियायामपि तस्य तभ्दावभावितैव निबन्धनम्। सा चानेकक्रियायामपि समानेति।

ननु च तत्सन्निधौ विज्ञानलक्षणकार्यसम्भवात् तज्जननस्वभावतैवैषामवध्रियते, कार्यस्वभावापेक्षया कारणस्य जनकरूपतावस्थानात्। ततो विज्ञानजननस्वभावेभ्यः प्रत्येकं कथं तदन्यकार्यसम्भवः ?। तभ्दावे वा तेषां तदन्यजननस्वभावता स्यात्। ततश्च विज्ञानमेव न कुर्युः, तदः यजननस्वभावत्वात्।

नैष दोषः, तेषामनेककार्याक्रियास्वभावत्वात्। तथा हि-ते तदवस्थायां प्रत्येकं विशिष्टसजातीयेतरक्षणजननात्मकाः, तेषां तत्सत्तानन्तर्यदर्शनात्। तत्र विज्ञानजननस्वभावतैवेति तस्याजननस्वभावता व्यवच्छिद्यते तस्या एव प्रतियोगित्वात् नान्यजननस्वभावता। न चातस्तेषामनेकात्मता स्यात्, एकस्यैवात्मातिशयस्यानेककार्यहेतुत्वात्। न हि तदन्यापेक्षया विपर्यव्यावृत्तिमुपादायानेकेन शब्देनाभिधीयमानं वस्तु अनेकरूपतां प्रतिपद्यते, प्रतिविशिष्टस्यैकस्यैवात्मनस्तथाभिधानात्। यथा रूपं सनिदर्शनं सप्रतिघमिति। नह्यत्र स्वभावभेदनिबन्धना ध्वनयः, सामानाधिकरण्याभावप्रसङ्गात्। तन्निमित्तानामेकत्र भावात् अदोष इति चेत्। न। तेषां तदेकोपकारानपेक्षिणां तदयोगात्। अपेक्षायां वा कथमेकमनेककार्यं न स्यात् ?। अनेकेनैवात्मनोपयोगात् इति चेत्। न। सामानाधिकरण्याभावदोषस्य तादवस्थ्यप्रसङ्गात्। न च नीलादीनामात्मभेदमध्यक्षमीक्षामहे। नापि कार्यभेदादेवात्मभेदानुमानम्, प्रतिबन्धाभावात्, तदाग्रहकप्रमाणाभावात्। प्रत्यक्षतोऽनेककार्याणामपि भावानामेकात्मतयैवोपलक्षणात् प्रदीपादीनाम्। नानुमानतः, तत्रापि विपर्यये बाधकप्रमाणाभावात्। एकस्यानेकक्रियाऽनभ्युपगमे च योऽयं रूपरसगन्धस्पर्शविशेषाणां क्वचित् सहभावनियमः प्रमाणपरिदृष्टः स न स्यात्। भिन्ननिमित्तानां सहभावनियमायोगात्। तन्निमित्तानामपि तदेककारणानायत्तजन्मनां नियतसाहित्यासम्भवात्। तदेकधर्म्मिस्वभावतयैकत्र सहभावनियम इति चेत्। न। एकस्यानेकस्वभावताया एव चिन्त्यत्वात्। अनेकेनैकस्वभावतां चानुभवतः तद्वदनेकताया दुर्निवारत्वात् अन्यथा धर्म्मधर्म्मिणां कथं नैकान्तिको भेदः ?। तथा हि-यमात्मानं पुरोधायाऽयं धर्म्मी पर्यायाश्चैते इति व्यवस्थाप्यते, यदि तस्य भेदस्तदा भेद एवेति।

अनेकस्याप्येककार्यता न स्यात्। न हि परस्परोपादानकृतोपकारानपेक्षा विषयेन्द्रियमनस्काराः सहैककार्यारम्भिणो युक्ताः। न चैकमेव किञ्चित् क्वचित् जनयति। ततश्च सर्वत्र कार्यकारणभाव एवोऽत्सीदेत्, अनेकस्यैकस्य चैकानेकक्रियाविरहात् प्रकारान्तराभावाच्च।

नाप्येहेतुकमेव विश्वम्, देशकालप्रकृतिनियमात्। तस्मादेकसामग्र्यधीनजन्मनामेव सहभावनियमो भावानामेककार्यक्रियानियमो वा। ततश्च स्वसन्तानक्षणमितरोपादानं च युगपदुपकुर्व्वतः कथमेकस्यानेककार्यता न स्यात् ?। ततः काथं कार्यभेदाद् भेदः कल्प्येत ?। द्रव्यपर्यायाणां चैकस्वभावतामाचक्षाण एकस्यानेककार्यतां प्रतिक्षिपतीति कथं नोन्मत्तः ?, स्वभावस्यैव वस्तुत्वात्, अन्यथा तस्य निःस्वभावताप्रसङ्गात्। एकस्वभावत्वे च द्रव्यपर्यायाणां तत्कार्यभेद एकवस्तुनिबन्धन एवेति कार्यभेदाद् भेदमभिदधानः स्फुटमह्रीक एवायमित्युपेक्षामर्हति।

[२७. वैशेषिककृतोऽप्येकस्यानेककार्यकारित्वाक्षेपो न युक्तः।]
वैशेषिकोऽपि द्रव्यस्यैकस्य द्रव्यगुणकर्म्मणां समवायिकारणतां ब्रुवाणः कर्म्मणश्चैकस्य संयोगविभागसंस्कारनिमित्ततामेकस्यानेककार्यक्रियां प्रतिक्षिपन् स्वकृतान्तकोपेनैव प्रतिहतः। न चात्र शक्तिभेदो निबन्धनम्, यतस्तदेकोपकारनिरपेक्षाः कथमेताः शक्तयो नियतार्थाधाराः ?, न पुनरनवयवेन व्यक्तीर्व्वाऽश्नुवीरन् ?। ततो यत एवास्याऽऽत्मातिशयादनेकशक्त्युपकार तत एवानेककार्यक्रियाऽपि, इत्यलमतिविस्तारिण्या कथयेति।

[२८. देशकालस्वभावाभेदस्याभेदसाधकत्वनिरासः।]
देशकालस्वभावाभेदादभेदस्तु योऽभ्युपगम्यते सोऽप्यनुपपन्न एव। तथा हि-देशकालयोरभेदेऽपि रूपरसगन्धस्पर्शाः पर्यायरूपेण भिद्यन्ते ततः कथमभेदसिद्धिः ?। स्वभावोऽपि यदि द्रव्यपर्याययोर्द्वयोरपि प्रत्येकमनुवृत्तिव्यावृत्तिरूपता; तदा पदार्थद्वयं स्याद् घटपटवद्, न त्वेकं द्विरूपमिति कथन्तस्मादभेदसिद्धिः ?। न चानुवृत्तिव्यावृत्ती स्वभावो युक्तः, तयोरनुवर्त्तमानव्यावर्त्तमानाधीनत्वात्। ततश्चानुवर्तमानव्यावर्त्तमानयोः स्वभावोऽन्यो वक्तव्यः, न तु तयोरनुवृत्तिव्यावृत्ती एव स्वभावः, भावत्वेन भवित्रधीनत्वात्। नहि स्मृतिः स्मर्त्तुः स्वभावो भवति। अनुवृत्तिव्यावृत्त्योश्च स्वभावत्वे लक्षणात् स्वभावस्य भेदो वक्तव्यः। मृदादिरूपता स्वभाव इति चेत्। अत्राप्यभेद इति यदि सादृश्यमुच्यते; तद् भेद एव सम्भवति, सादृश्यस्य सदृशाधिकरणत्वात्। ततश्च पदार्थद्वयमेव स्यात् न त्वेकं द्विरूपमिति। अथैक्यं द्वितीयरूपरहितताऽभेदोऽङ्गीक्रियते कथं तर्हि द्विरूपता ?। रूपशब्देन ह्यत्र स्वभावोऽभिधीयते। तस्य चैक्ये कथं द्वीरूपता ?। विप्रतिषिद्धं ह्येतत् एकस्वभावता द्विरूपता चेति। अथ पुनः स्वभावत ऐक्यं नोपेयते। कथं तर्हि स एक इत्युच्यते अनेकः सन् ?। न तावदेककारणजन्यत्वात्, सर्व्वत्रोपादाननिमित्तकारणभेदेन हेतुभेदसिद्धेः। नाप्येककार्यकर्तृत्वात्, एकस्यापि विभक्तपरिणामाविभक्तपरिणामकार्यभेदाऽभ्युपगमात्। एकाभिधानाभिधेयत्वादपि नैकत्वम्, एकस्याप्यनेकपर्यायसम्भवात्। योग्यत्वाच्च विश्वस्य कृताकृतानामेकाभिधानाभिधेयत्वस्य क्वचिदसम्भवात् शक्तिभेदाच्च विषयभेदं ब्रूवाणं प्रति अभिहितम्। नाप्येकविज्ञानविषयत्वादेकम्, एकत्राप्यनेकविज्ञानप्रसूतेः। तथा हि- शशाङ्कोदयं बहवो निरीक्षन्ते तस्य कथमेकत्वमभ्युपगतम् ?। बहूनां चैकविज्ञानविषयत्वसम्भवात् नीलपीतादीनामेकताप्रसङ्गः। सर्व्वथेदं न कथञ्चिदपि सङ्गच्छते यदुत एकस्य द्वैरूप्यमिति। विज्ञानं तु नीलप्रतिच्छायतयोत्पद्यमानं पीतादिप्रतिभासव्यवच्छेदेन प्रतिविशिष्टं ख्याप्यते, न पुनरस्य भावतो द्वे रूपे स्तः।

अथ पुनर्द्रव्यपर्याययोः सम्मूर्च्छितत्वात् नरसिंहवदेकं शबलरूपत्वात् द्वीरूपमुच्यते। तदयुक्तम्, नरसिंघ[ह]स्य शबलरूपत्वासिद्धेः। स ह्यनेकपरमाणुसङ्घातरूपः, ते च परमाणवः प्रत्येकं नरसिंहरूपा न भवन्ति, ऊर्ध्वभागस्तस्य सिंहरूपः, अधोभागस्तु नररूपः, जात्यन्तरं च स एव नरसिंहाभ्यां स्यात्, न शबलरूपः। विचित्रं हि रूपं शबलमुच्यते। विचित्रता च नानास्वभावतां। नानास्वाभाव्ये चैकत्वं कुतः ? इति केवलमनेकत्वेऽपि बहुष्वेककार्यदर्शनात् सेनादिवदेकव्यवहारदर्शनकृतोऽयं विपर्यासो जडमतीनाम्।

तदेवं तावत् प्रत्यकमहेतुत्वं देशकालस्वभावानामेकत्वप्रसाधने। समुदितानामपि व्यभिचारित्वं पर्यायैः। तथा हि पर्याया अभिन्नदेशकालस्वभावाश्च पर्यायरूपेण च भिद्यन्ते पूर्वोक्ताच्च धर्म्मधर्म्मिणोर्न्निषेधान्नोभयवादसम्भव इति।

[२९. द्रव्यपर्यायानेकान्तवादखण्डनम्।]
आह च-
“द्रव्यपर्यायरूपत्वात् द्वैरूप्यं वस्तुनः किल।
तयोरेकात्मकत्वेऽपि भेदः संज्ञादिभेदतः॥१॥
इन्द्रियज्ञाननिर्भासि वस्तुरूपं हि गोचरः।
शब्दानां नैव, तत् केन संज्ञाभेदाद् विभिन्नता॥२॥
‘परमार्थैकतानत्व’ इत्यादिवचनात् तथा।
शब्देनाव्यापृताक्षस्य बुद्धावप्रतिभासनात्॥३॥
अर्थस्य, दृष्टाविव तच्छब्दाः कल्पितगोचराः।
कल्पितस्यैव तभ्देदः संज्ञाभेदाद् भवेद् यदि॥४॥
व्यावृत्तिभेदः कश्चित् स्याद्, वस्तुनो न कथंचन।
संख्याभेदोऽपि नैवान्यो मतो वचनभेदतः॥५॥
ततोऽपि कल्पितस्यैव कथञ्चित् स्याद् विभिन्नता।
‘येषां वस्तुवशा वाच’ इत्यादेर्न्न तु वस्तुनः॥६॥
अविनाशोऽनुवृत्तिश्च व्यावृर्त्तिर्न्नाश उच्यते।
द्रव्याविनाशे पर्याया नाशिनः किं तदात्मकाः ?॥७॥
नष्टाः पर्यायरूपेण ते चेद् द्रव्यस्वभावतः।
किमन्यरूपता तेषां न चेन्नाशस्तथा कथम् ?॥८॥
द्रव्यात्मनि स्थिते पश्चाद् भवन्तश्च तदात्मकाः।
विरुद्धधर्म्माध्यासेऽपि, केन, भूतं च किं, यतः॥९॥
पर्यायास्तत्र कल्प्यन्ते, भेदरूपं यदीष्यते।
भिन्नं पर्यायरूपं हि द्रव्यरूपाद् भवेद् यदि॥१०॥
तदैतत् स्यादभेदे तु नैतत् संबध्यते वचः।
एकं जातमजातं च नष्टानष्टं प्रसज्यते॥११॥
द्रव्यपर्याययोरकस्वभावोपगमे सति।
ततो लक्षणभेदेन तयोर्न्नैव विभिन्नता॥१२॥
कार्यभेदात् स्वभावस्य तयोर्भेदो भवेद् यति।
स्वभावाभेदतो न स्यादभेदस्तु तथा सति॥१३॥
स्वभावस्यैव भेदेन किं भेदश्च न कीर्त्तितः ?।
न हि पश्चाभ्दवन् भेदः कार्याणां तस्य भेदकः॥१४॥
स्वभावस्याऽपि कार्यत्वान्नशहेतोरयोगतः।
एकान्तेन विभिन्ने च ते स्यातां वस्तुनी स च॥१५॥
तयोः केन, विभिन्नाभ्यामभिन्नस्य विभेदतः।
तेषामभेदसिद्ध्यर्थमभिन्नो यदि तूच्यते॥१६॥
अन्यः स्वभावस्तस्यापि तदभेदप्रसिद्धये।
कल्पनीयः स्वभावोऽन्यः तथा स्यादनवस्थितिः॥१७॥
न चानन्तस्वभावत्वमर्थसामर्थ्यभाविनि।
ज्ञानेऽवभासते येन तथवोपगमो भवेत्॥१८॥
ऐकान्तिकस्त्वभेदः स्यादभिन्नाद् भिन्नयोर्यदि।
भेद एव विशीर्येत तदेकाव्यतिरकतः॥१९॥
अभेदस्यापरित्यागे भेदः स्यात् कल्पनाकृतः।
तस्याऽवितथभावे वा स्यादभेदे मृषार्थता॥२०॥
अन्योन्याभावरूपाणामपराभावहेतुकः।
एकभावो यतस्तस्मान्नैकस्य स्याद् द्विरूपता॥२१॥
अन्योन्याभावरूपाश्च पर्यायाः स्युर्न्न भेदिनः।
तद्विनाशेऽविनाशि स्याद् द्रव्यं वा कथमन्यथा ?॥२२॥
कूटस्थनित्यता द्रव्ये भेदेषु क्षणनाशिता।
कस्मान्नेष्टा ? विरोधश्चेत् नेष्यते भेदलक्षणम्॥२३॥
तदिष्टौ किन्न सामान्यं सर्व्वव्यक्त्यनुयायि च।
एकमिष्टं जनन्या च जायायाः किं न चैकता ?॥२४॥
भेदाभेदोक्तदोषाश्च तयोरिष्टौ कथं न वा?।
प्रत्येकं ये प्रसज्यन्ते द्वयोर्भावे कथं न ते ?॥२५॥
गुडश्चेत् कफहेतुः स्यान्नागरं पित्तकारणम्।
तन्मूलजमन्यदेवेदं गुडनागरसंज्ञितम्॥२६॥
मधुरं न हि सर्व्वं स्यात् कफहेतुर्यथा मधु।
तीक्ष्णं वा पित्तजनकं यथा मागधिका मता॥२७॥
प्रत्येकं यन्निदानं यत् स्वतो मिश्रं तदात्मकम्।
किन्न दृष्टम् ? यथा माषः स्निग्घोष्णः कफपित्तकृत्॥२८॥
शक्त्यपेक्षं च कार्यं स्याद् गुणमात्राऽनिबन्धनम्।
सर्व्वत्राभावतस्तासां कस्यचित् किञ्चिदेव च॥२९॥
ये भेदाभेद मात्रे तु दोषाः सम्भविनः कथम्?।
तत्सभ्दावेऽपि ते न स्युरिति ब्रूयाद् विचक्षणः॥३०॥
विरोधिसन्निर्धेर्द्दोषः तज्जन्मा न भवेदपि।
सति तस्मिंस्तदात्मा तु नानिष्टोऽपि निवर्त्तते॥३१॥
भागा एव च भासन्ते सन्निविष्टास्तथा तथा।
तद्वान् कश्चित् पुनर्न्नैव निर्भागः प्रतिभासते॥३२॥
अन्योन्यप्रत्ययापेक्षास्ते तथास्थितमूर्त्तयः।
कर्म्मणां चापि सामर्थ्यादविनिर्भागवर्त्तिनः॥३३॥
सन्निवेशेन ये भावाः प्राणिनां सुखदुःखदाः।
कर्म्मभिर्जनितास्ते हि तेभ्य एवाविभागिनः॥३४॥
ते चैकशब्दवाच्याः स्युः कथञ्चिन्न त्वभेदिनः।
न च स्वलक्षणज्ञाने शब्दार्थः प्रतिभासते॥३५॥
अस्पष्टरूपा गम्यन्ते शब्देभ्योऽपि त एव हि।
ततः केन सहैषां स्याद् भिन्नभिन्नत्वकल्पना ?॥३६॥
निर्व्विभागस्य चानेकभिन्नदेशांशयोगिता।
कथमिष्टा ? प्रतीतेश्चेत् क्षणध्वंसानुभाविनः॥३७॥
पर्याया ये प्रातीयन्ते स्थेमानन्दवतो मताः।
कुतोऽन्यतः प्रमाणाच्चेद् बाधकादिह तत्समम्॥३८॥
ऐकान्तिकावनन्यत्वाद् भेदाभेदौ तयोर्ध्रुवम्।
अन्योन्यं वा तयोर्भेदो नियतो धर्म्मधर्म्मिणोः॥३९॥
तयोरपि भवेद् भेदो यदि येनात्मना तयोः।
पर्यायो द्रव्यमित्येतद् यदि भेदस्तदात्मना॥४०॥
भेद एव तथा च स्यान्नैवेकस्य द्विरूपता।
द्रव्यपर्यायरूपाभ्यां न वान्योऽस्तीह कश्चन॥४१॥
स्वभावो यन्निमित्तात् स्यात् तयोरेकत्वकल्पना।
ततस्तयोरभेदे हि स्वात्महानिः प्रसज्यते॥४२॥
तस्य भेदोऽपि ताभ्यां चेद् यदि येनात्मना च ते।
धर्म्मी धर्म्मस्तदन्यश्च यदि भेदस्तदात्मना॥४३॥
भेद एवाथ तत्रापि तेभ्योऽन्यः परिकल्प्यते।
तेषामभेदसिद्ध्यर्थं प्रसङ्गः पूर्व्ववद् भवेत्॥४४॥
धर्म्मित्वं तस्य चैवं स्यात् तत्तन्त्रत्वात् तदन्ययोः।
न चैवं गम्यते तेन वादोऽयं जाल्मकल्पितः॥४५॥”

इत्यलं बहुभाषितया। तदेवं मृत्संस्थानयोरेकस्वभावत्वे न कथञ्चिभ्देदसम्भव इति सहकारिणामनेकत्वेऽपि न कार्यस्यानेकत्वमित्यत्र भवत्येतदुदाहरणमिति।

[३०. द्रव्यगुनयोरभेदे वैशेषिककृतपूर्वपक्षस्योल्लेखः।]
अत्र वैशेषिकमतमाशङ्कयाह-“अन्यदेव” इत्यादि। “संस्थानं” ह्यवयवसन्निवेश उच्यते। स च संयोगलक्षणत्वाद् गुणरूपः। “ततो” मृद्‍द्रव्यादस्यान्यत्वं द्रव्यगुणयोरसंकीर्ण्णस्वभावत्वात्। तेन यदि मृत्पिण्डस्य मृदात्मतायां व्यापारः कुलालस्य तत्संस्थानविशेषे कथ्यते, तदा तयोत्यन्तभेदात् कारणानेकत्वात् कार्यानेकत्वं प्राप्तमिति। सिद्धान्तवाद्याह-“उक्तमत्र” इति। मृत्संस्थानयोः स्वभावभेदे दूषणमुक्तम् “मृत्संस्थानयोरपरस्परात्मतया” इत्यादिकमिति न संस्थानस्य मृद्‍द्रव्यादन्यत्वम्। ततो मृत्पिण्डोपादानाहितातिशयेन तत्कार्यक्षणसहकारिणा कुलालेन तदुपादानोपकृतात्मना तत्कार्यक्षणसहकारिणा मृत्पिण्डेन च प्रत्येकं सकलमेव मृत्संस्थानात्मकं कार्यं क्रियत इति न कारणानेकत्वेऽप्यनेकत्वमस्य। अत्रैवोपचयहेतुमाह- “अपि च” इत्यादि। यत् तद् घटगतं संस्थानं “यदि तत” मृदो “भिन्नं स्यात्” तदा कुलालः पृथगेव किमिति न करोति ?। नहि भिन्नानामावश्यकमपृथक्करणम्, कुलालश्चान्वयव्यतिरेकाभ्यां तस्य संस्थानस्य गुणात्मनः कारणतया गम्यत इति “स पृथगपि” तत् “कुर्यात्”। पर आह-“गुनस्येत्यादि। “द्रव्याश्रय्यऽगुणवान् संयोगविभागेष्वकारणमनपेक्ष” इति गुणलक्षणात् सर्व्वदा गुणो द्रव्यपरतन्त्रः, स कथं कदाचित् पृथक् क्रियेत ?। वैशेषिक एव बौद्धीयं चोद्यमाशङ्कयाह-“तत्संस्थान” इत्यादि। यदि स्वभावेनैव तस्य गुणात्मनः संस्थानस्य “क्रियावद् गुणवद्” इत्यादिवचनादाधारस्वभावं तत् मृद्‍द्रव्यं, संस्थानं वा तथाविधं कपालाधेयात्मकं तदा किमिति कुलालव्यापारमपेक्षते ?। स्वत एव किं न भवति ? इति चोदकाभिप्रायः।

एवं चोद्यमाशङ्कय वैशेषिकः परिहारमाह- “न, ततः” इत्यादि। यत् तत् मृद्‍द्रव्यं पृथुबुध्नोदराद्याकारं च संस्थानं तयोर्यः सम्बन्ध आधाराधेयलक्षणः तत्र या “योग्यता” तां “द्वयमप्येतत् कुलालाद्” यतः प्रतिलभते तस्मात् “कुलालमपेक्षते” कुलालानपेक्षायां दोषमाह-“अन्यथा” यदि तयोः परस्परसम्बन्धयोग्यतायां कुलालापेक्षा न स्यात् तदा स्वभावत एव मृत्पिण्डस्य तथविधसंस्थानसम्बन्धयोग्यत्वं भवेत्। तस्मिंश्च सति वस्तुन एव तत्संस्थानसम्बन्धयोग्यतालक्षणा धर्म्मताऽस्तीति कुलालसन्निधेः प्रागपि संस्थानविशेषेण सम्बन्धः स्यादिति वैशेषिकीयश्चोद्यपरिहारः।

[३१. द्रव्यगुणयोरभेदस्योपपादनम्।]
सिद्धान्तवाद्याह-“एवम्” इत्यादि। यदि परस्परसम्बन्धयोग्यतायां कुलालमपेक्षते “एवं तर्हि सा योग्यता मृद्‍द्रव्यस्य कुलालाद् भवति इति” आपन्नम्। न च “अनयोः” मृद्‍द्रव्ययोग्यतयोः स्वभावस्य “भेदः” नानात्वम्। यदि हि स्यात् तदा योग्यतायाः द्रव्यात् पृथक्करणं “प्राग्वत् प्रसज्येत”। अथ योग्यताया अपि योग्यपारतन्त्र्यादपृथक्‌सिद्धिं ब्रूयात् तदा तस्या अपि वस्तुधर्म्मतयैव प्रागपि समावेशो मा भूदिति द्रव्येण सह सम्बन्धयोग्यताया अन्य योग्यता कुलालाद् भवतीत्येष्टव्या। साऽपि पृथक्करणप्रसङ्गा[त्] द्रव्याद् भिन्नस्वभावा नोपगन्तव्या। पृथक्करणप्रसङ्गे वा पुनः स एव परिहारः तदीयः, पुनस्तदेवोत्तरम्, इत्यनवस्थाप्रसङ्गादवश्यामभिन्नस्वभावता कपालात्मकमृद्‍द्रव्ययोग्यतयोरभ्युपगन्तव्या। किमेवं सति सिद्धं भवति ? इत्यत आह-“अस्ति तावत्” इत्यादि। मृत्पिण्डकुलालभ्यां कपालद्रव्यस्य संयोगविशेषसम्बन्धयोग्यस्यारम्भात् यदैकस्वभावत्वेऽप्येकस्यानेकप्रत्ययोपाधेयविशेषता तदा सिद्धः आस्माकीनः पक्षः। ततश्च किमस्माकं मृत्संस्थानयोरेकस्वभावत्वसाधनाय अतिनिर्ब्बन्धनेन ?। यदि योग्यतामप्याश्रित्यानेकप्रत्ययजन्यत्वेऽप्येकत्वात् नानात्वप्रसङ्गाभावः सिध्यति कार्यस्य, न किञ्चिद् द्रव्यगुनवादनिराकरणेनेह प्रयोजनम्, अन्यत्रैव तन्निराकरणस्य कृतत्वादित्यभिप्रायः। निर्बन्धग्रहणेन च मृत्संस्थानयोरपरस्परात्मतया संस्थानमृत्स्वभावविशेषाभ्यां तयोरप्रतिभासनप्रसङ्गात् इत्यनयोपपत्त्या साधितमेवानयोरेकत्वम्, युक्त्यन्तराणां सम्भवेऽपि तदभिधानलक्षणो निर्ब्बन्धो न क्रियते, प्रकृतसिद्धेरन्यथाऽपि भावादित्याचष्टे।

[३२. सामग्रीभेदे कार्यभेदस्य कारणभेदेऽपि च कार्यस्यैक्यस्योपसंहारः।]
तदेवं सामग्रीभेदात् सामग्र्यन्तरजन्येभ्यो भेदः सहकारिणामनेकत्वेऽपि च कार्यस्यैकत्वमविरुद्धमिति प्रतिपाद्य उपसंहरन्नाह- “तेन सहकारिण” इत्यादि। येन-प्रत्ययान्तरप्रचये तद्विकलसामग्र्याः सामग्र्यन्तरं सम्पद्यते, तच्च पूर्व्वसामग्रीजन्याद् भिन्नं कार्यान्तरमेव जनयति ; एकसामग्रीव्यपदेशविषयाणां च सहकारिणामनेकत्वेऽप्यनेकस्यैकक्रियविरोधाभावात् तदन्वयव्यतिरेकानुविधायिनश्च कार्यस्यैकस्य दर्शनात् स्वभावत एकत्वं साधितम्-तेन कारणेन सहकरणशीला एकसामग्र्यन्तर्ग्गताः प्रत्ययाः सामग्र्यन्तरैः सह “नैकोपयोगविषयाः” एक उपयोगस्य विषयो येषां ते न भवन्ति, सामग्र्यन्तरैरेव सह भिन्नोपयोगविषयत्वस्य न्यायबलात् प्रतीतेः। अनेन यत् प्राग् विकल्पितं ‘यदि कारणशब्देन सामग्री भण्यते तदा तभ्देदादस्त्येवातत्सामग्रीजन्येभ्यः कार्यस्य भेद इति किमुच्यते-न कारणभेदाद् भेदः स्यात्’ इति एतदुदा हरणोपदर्शितं निगमितम्। अथ कारणशब्देन सामग्रीव्यपदेशविषयाः सहकारिण उच्यन्ते तदा तभ्देदादनेकत्वलक्षणात् कार्यस्यानेकत्वलक्षणो भेदो नेष्यत एव, अनेकस्यैकक्रियाविरोधाभावात्, एकस्यानेकत उत्पत्तिदर्शनाच्चेति मृत्संस्थानयोरेकात्मकतोपदर्शितं निगमयति-‘कार्यस्वभावस्य’ मृत्संस्थानात्मन ‘एकत्वेऽपि’ नानात्वाभावेऽपि ‘वस्तुतः’ परमार्थतः कल्पनाबुद्धौ मृत्संस्थानयोर्भिन्नयोरिव प्रतिभासनेऽपीति।

एवम् उदाहरणे सामग्रीभेदात् कार्याणां भेदो नैकसामग्रीविषयप्रत्ययभेदादनेकत्वं कार्यस्येति प्रतिपाद्य प्रकृते चक्षुरादौ योजयन्नाह- “यथा इहो” दाहरणे “कारणभेदः” सामग्रीभेदः कुलालविकलमृत्पिण्डतत्सहितसूत्राधिकसामग्रीत्रितयलक्षणो ‘भिन्नेषु’ नानास्वभावेषु ‘विशेषेषु’ इष्टकादिचक्राविभक्तघटतद्विभक्तघटलक्षणेषूपयोगा “न्नैककार्यः” किन्तु भिन्नकार्य एव, “तथा” तेनैव प्रकारेण चक्षुरादिभ्यो विज्ञानस्योत्पत्तौ सामग्र्यन्तरात् सामग्रीलक्षणकारणभेदोऽनेककार्य इत्युन्नेयः।

एतदेव विभजन्नाह-“तथाहि” इत्यादि। या चक्षूरूपरहिता समनन्तरप्रत्ययाख्याविज्ञानलक्षणा प्रत्ययान्तरसापेक्षा सामग्री, ततो विज्ञानस्य विकल्पकस्येतरस्य वा तदुपादेयत्वेन या बोधरूपतोपलब्धा सा चक्षुर्व्विज्ञानस्यापि भवति। “तस्यैव” चक्षुर्व्विज्ञानस्य। कीदृशस्य ?। “उपलम्भात्मनः सतो भवतः” जायमानस्य तदैव तदेककार्यप्रतिनियतस्य चक्षुरिन्द्रियस्य सन्निधानात् समनन्तरप्रत्ययोपादानोपकृतात् ततो “रूपग्रहणप्रतिनियमो” रूपाकारताप्रतिनियमः, शब्दाद्याकारविवेकवत एवं (व) कार्यस्य चक्षुःसहितसमनन्तरप्रत्ययसामग्र्याः जनकत्वाद्। “विषयाद्” विषयाधिकात् समनन्तरप्रत्ययादिन्द्रियाच्च “तेन” विषयेण “तुल्यरूपता” न केवलैव रूपप्रतिभासिता भ्रान्तविज्ञानस्येवेति विषयेन्द्रियमनस्कारलक्षणसामग्रीकार्यमेवं प्रदर्शितम्। तदन्यदेकद्वयजन्यं तु कार्यं स्वयम्भूह्यम्। अत्राभिन्नत्वेऽपि वस्तुतः “कार्यस्य” चक्षुर्विज्ञानलक्षणस्य “कारणानां” विषायेन्द्रियमनस्काराणां भिन्नेभ्यः स्वभावेभ्यः केवलानामेषां यः स्वभावस्ततो भिन्ना एवातज्जन्येभ्यो विधिशे (न्येभ्योऽपि विशे)षा बोधरूपतादिलक्षणा “भवन्ति”। अतज्जन्यापेक्षया चैकात्मका अपि बहुत्वेन निर्दिष्टाः। यत एवम् “इति” तस्मात् न कारणभेदेऽपि। यथैकसामग्र्यन्तर्ग्गतप्रत्ययभेदेऽप्यभेदो नैवं सामग्रीलक्षणकारणभेदेऽप्यभेदः सामग्र्यन्तरजन्येभ्यः “कार्यविशेषस्य” विशिष्टस्य कार्यस्येति।

तेन यदुच्यते- ‘यदि सहकारिणां भेदेऽप्यभिन्नं कार्यं भवति सामग्रीभेदेऽप्यभिन्नमस्तु, अथ सामग्रीभेदाद् भिन्नं भवति सहकारिभेदादपि किमिति भिन्नं न भवति विशेषाभावात् ?’ इति तदपास्तं भवति। तथा हि-परस्परोपसर्प्पणाद्याश्रयात् प्रत्ययविशेषादेककार्योद्देशेनेतरेतरसन्तानोपकाराच्च सहकारिणां प्रतिनियतशक्तिनामुदयादेकं कार्यं समाजायते। सामग्र्यन्तरस्य तु कार्यान्तरप्रभवशक्तिनिबन्धनेभ्यो हेत्वन्तरेभ्यः स्वभावभेदवतो भावाद् भिन्नकार्यप्रसूतिरिति कुतो विशेषाभावः ?।

[३३. जनकत्वमेवाधारत्वं न तु स्थापकत्वम्।]
ननु च सर्व्वं कार्यं साधारं यथा उपादायरूपम्। तद्धि भूतेभ्यो जायमानं तान्येवाश्रयत इति भवभ्दिरिष्यते। तथाऽन्यदपि विज्ञानादिकं कार्यम्। अतोऽनेनापि किञ्चित् कारणमाश्रयणीयम्। तस्य च कारणस्य पूर्व्वं जनकत्वं पश्चात् कार्यं प्रत्याधारभाव एव, न जननम्, ततस्तत्स्वभावस्य जननादित्यनेकान्तः तदवस्थ एवेत्यत आह-“त एवैते” येऽनन्तरमुक्ताः “कारणशक्तिभेदाः” कारणानां शक्तिविशेषाः। कीदृशाः ? “यथास्वं” येषां कारणशक्तिभेदानां सहकारिलक्षणानां यदात्मीयं सामग्र्यन्तरजन्यात् प्रतिविशिष्टं कार्यं तस्य जननेऽव्यवधेया व्यवधातुं प्रतिबन्धुमशक्या शक्तिर्येषां तभ्दावस्तया “ अव्यवधेयशक्तितया” अवश्यं कार्यकारिशक्तितया “प्रत्युपस्थिताः” उद्युक्ताः सन्तः “सामग्रीकार्यस्य” एकप्रत्ययजनितस्य कस्यचिदभावात् सर्व्वं सामग्र्या एव कार्यमिति कृत्वा सामग्रीकार्यस्य स्वभावस्थित्याश्रय इत्युच्यन्ते। कस्मात् पुनरव्यवधेयशक्तिता ? “क्षणिकत्वात्”। नहि क्षणिकस्य शक्तिः प्रतिबन्द्धुं शक्यते, स्वभावान्तरोत्पादने यावत्प्रतिबन्धको व्याप्रियते तावत् क्षणिकस्य स्वकार्यं कृत्वैव निरोधात्।

कथं पुनरसमानकालं कारणमाधारो युज्यते ?, इत्यत आह- “तथा हि” इत्यादि। यस्मात् “तत्” विज्ञानलक्षण कार्यं “तेभ्यः” चक्षुरादिभ्य “समस्तभ्यो” बोधरूपतया तदन्यस्मात् तदजन्यात् “प्रतिविशिष्टस्वभावमेकं” खण्डशः कार्यस्यानुत्पादादेकैकस्मात् सकलस्यैव भावादेकं जातम्, तस्मात् ते आधारा उच्यन्ते। नहि जनकादन्य एवोपकारकः। न चानुपकारक आधारः, अतिप्रसङ्गात्। ततो भिन्नकालस्याधारभावो न विरुध्यते। यदपि भूतानामुपादायरूपं प्रत्याश्रयत्वमुच्यते तदपि स्वदेशस्यास्य जनकत्वमेवेति न किञ्चित् प्राग्जनकं भूत्वा पश्चात् स्थापकतामुपैति, यतोऽनेकान्तः स्यादिति।

[३४. अतिशयोत्पादनं न सहकारित्वं किन्तु एकार्थकारित्वम्।]
पुनरन्यथा तत्स्वभावस्य जननादित्यनेकान्तोभ्दावनं परस्याशङ्क्याह- “अप्रतिरोधशक्तिकेषु” अविद्यमानः प्रतिरोधःप्रतिबन्धो यस्याः शक्तेः सा येषाम्। अप्रतिरोधशक्तिकत्वं चानन्तरकार्यत्वात्। ये ह्युत्पन्नाः कालक्षेपेण कार्यं कुर्व्वन्ति तेषां स्यादपि शक्तिप्रतिबन्धो, न तु य उदयानन्तरमेव कार्यं कुर्व्वन्ति। अनेन क्षणक्षयिणामुपघातकाभावमाह। अनुग्राहकविरहमप्याह- “अनाधेयविशेषेषु”। तच्चानाधेयविशेषत्वं “क्षणिकेषु” इत्यनेनाह। नहि क्षनिकानां विशेष आधातुं शक्यते, विशेषाधायकेन तत्सहभाविना तदनन्तरं तदुत्पादनात्। तदा च तस्य निरोधात्। तेष्वेवंविधेषु “प्रत्ययेषु परस्परं कः सहकारार्थः” येन सहकारिण उच्यन्ते ?। नन्वनाधेयविशेषत्वेनैव सहकारित्वाभावः प्रतिपादित इति किमर्थमिदमप्रतिरोधशक्तिकेष्विति ?। नहि शक्तिप्रतिरोधकः सहकारि भण्यते। सत्यम्। सर्व्वथा तु तत्राकिञ्चित्करत्वज्ञापनार्थमेतदुक्तम्। शक्तिप्रतिबन्धकापनयनेन चोपकारित्वकल्पनां सहकारिणां निरस्यति। तस्मादतिशयाधायिनः सहकारिणोऽसम्भवात् क्षणिकानां स्वहेतुमात्रप्रतिबद्धमेव जनकत्वम्। तच्चैवंविधं सर्व्वदाऽस्ति। न च केवला जनयन्तीति तत्स्वभावस्य जननादित्यनेकान्त एवेति मन्यते।

एतत् परिहरति-“न वै” नैव अतिशयोत्पादनं सहक्रिया यतस्तदभावात् सहकारिणो न स्युः। क्व पुनरतिशयोत्पादनं सहक्रिया प्रत्ययानां न भवति ?। “सर्व्वत्र”। नहि क्वचिदपि सहभाविनामतिश्योत्पादनलक्षणा सहक्रिया सम्भवति। का तर्हि सहक्रिया ? इत्याह- “एकार्थकरणम्” एककार्यनिष्पादनं यद् “बहूनाम्”। “अपिः” सम्भावनायाम्। न्यायबलादेवंविधामेव सर्व्वत्र सहक्रियां सम्भावयामः, नान्यमिति। अत्रोदाहरणम्-“यथा अन्त्यस्य” अनन्तराङ्कुरादिकार्यस्य “कारणकलापस्य” प्रत्ययसामग्र्या इति।

[३५. एककार्यकारित्वमेव मुख्यं सहकारित्वमितरत्तु गौणम्।]
स्यादेतत्-औपचारिकमेतत् सहकारित्वम्, अतिशयोत्पादनमेव तु मुख्यम् इत्यत् आह- “तदेव” एककार्यकरणलक्षणं “मुख्यं सहकारित्वम्” नातिशयोत्पादनलक्षणम्, तस्यैव गौणत्वात्। एतच्चोत्तरत्र वक्ष्यते। कुत एतत् ? इत्याह- “तस्यैव अन्त्यस्य” विवक्षितकार्यं प्रति “कारणत्वात्”। कारणस्य च सहकारिव्यपदेशः नाकारणस्य। यतः सह-युगपत् कुर्व्वन्तः सहकारिण उच्यन्ते, अन्त्यश्च कारणकलाप एवंविध इति। यथा चान्त्यस्यैकार्थकरणं सहकारित्वम् एवं पूर्व्वस्यापि कारणकलापस्योत्तरोत्तरविशिष्टक्षणान्तरारम्भिण इत्यवसेयम्, अन्त्यस्योदाहरणतया निर्द्देशात्। तस्मात् सर्व्वं कार्यमङ्कुरादिकं विशेषलक्षणं वाऽनेकप्रत्ययजन्यमिति। सर्व्वत्रैकार्थक्रियैव चोपचीयमानापचीयमानकार्यकारिणः कारणकलापस्य सहकारित्वम्, न विशेषोत्पादनमिति।

स्यादेतत्-एकार्थकरणमपि तत्र सहकारित्वमस्तु अतिशयोत्पादनलक्षणमपीत्यत आह-“तत्र च” क्षणेऽन्त्ये “विशेषस्य कर्त्तुमशक्यत्वात्” नातिशयोत्पादनमपि सहकारित्वम्। कुतो विशेषस्य कर्तुमशक्यत्वम् ? इत्यत आह- “एकस्य” अनंशस्य “स्वभावस्याविवेकात्। न हि तत्र ‘अयमनाहितातिशयो भागः स्वहेतुभ्यो जातः, अयं तु सहकारिभिराहितातिशयः’ इति विवेकोऽस्ति। यदि नामविवेकः, विशेषस्तु किमिति न क्रियते ? इत्यत आह-“स्वभावान्तरोत्पत्तिलक्षणत्वाद् विशेषोत्पत्तेः”, निर्भागे च कुतः स्वभावान्तरस्य व्यवस्था ?।

स्यान्मतम्-भिन्नस्वभाव एवान्त्यस्य विशेषोऽस्तु इत्यत आह- “भवान्तर”-इत्यादि। यदि भावान्तरलक्षणो विशेषो भवेत् तदा तस्यान्त्यत्वमेव हीयेत। हीयेनां (हीयतां) को दोषः ? इति चेत्; “ततश्च” अनन्त्यत्वात् “न साक्षात् कारणं स्यात्”। यत एवं “तस्मान्न कारणस्य” मुख्यस्य “सहकारिभ्यः” सकाशाद् “विशेषस्योत्पत्तिः” इत्येकार्थक्रियैव सहकारित्वमिति।

नन्वसत्यां सहकारिभ्यो विशेषोत्पत्तौ कार्यजनने सामर्थ्यमेषां न युज्यत इत्यत आह-“ते समर्थाः” इत्यादि। यदि हि ते स्वभावेनासमर्था उत्पद्येरन् तदैषां सहकारिभ्यः सामर्थ्योत्पत्तिरभ्युपगम्येत। यावता “तेऽन्त्याः स्वभावेनैव समर्थाः प्रत्ययाः सहिता जायन्ते” क्षणमात्रविलम्बिनो। “येषा”मेकक्षणनियतत्वात् ततः “प्राक्‌पश्चात्पृथक्त्वभावो नास्ति। येभ्यश्चानन्तरमेव कार्यमुत्पद्यते” न कालान्तरेण “तत्र” तेष्वेवंविधेषु “एकार्थक्रियैव सहकारित्वम्” नातिशयोत्पादनलक्षणम्।

स्वभावतः सामर्थ्यस्य भावविरोधात्, परस्परतश्चानभ्युपगमात् समर्थस्य जन्मैवायुक्तमिति मन्वानः परः आह-“समर्थः कुतः” इत्यादि। सिद्धान्तवाद्याह-“स्वकारणेभ्यः” इति। परमतापेक्षया तु स्वभावत इत्युक्तम्। परो ह्यत्यन्तस्य (ह्युत्पन्नस्य) कारणस्य सहकारिभ्यः सामर्थ्यमिच्छतीति तन्निषेधपरं स्वभावत इति वचनम्। न तु स्वभावतः किञ्चिज्जायते, तस्याहेतुकत्वप्रसङ्गात्।

[३६. क्षणिकेष्वेकार्थक्रियानियमस्य व्यवस्थापनम्।]
एकार्थक्रियानियम एव क्षणिकानामयुक्तः, केवलानामप्यंत्यक्षणसरूपाणां दर्शनात्। तथाहि-‘इदमेवंरूपं नैव च’ इति दर्शनादर्शनाभ्यां विभज्यते। तत्र यादृशः क्षित्यादयस्तदन्यप्रत्ययसन्निधावुपलभ्यन्ते तादृशा एव केवला अपि। ततस्तदन्यसहिता इव केवला अपि समर्थमङ्कुरजनने स्वं स्वं क्षणान्तरमारभेरन्। ततः केवलस्याप्यङ्कुरादिजननस्वाभाव्यादजननाच्च ‘तत्स्वभावस्य जननात्’इत्यनेकान्त एवेति मन्यमानः पर आह-“तानि” स्वकारणानि क्षितिबीजादीनि “एनं” समर्थम् “अपरस्य” अन्यस्य प्रत्ययस्य “सन्निधान एव किं” कस्मात् “जनयन्ति” ? न केवलानि ?, सहितानामेव सर्व्वदा सम्भवात् इति चेत् आह- “कदाचित्” कस्मिंश्चित् काले “अन्यथाऽपि” केवला अपि “स्युः” भवेयुः। तथा हि-दृश्यन्त एवाध्यात्मिकबाह्याः क्वचित् कार्ये यादृशा यत्सहिताः तादृशा एव तद्रहिता अपीति। जनयन्तु केवला अपि सम्भवन्तः समर्थम्, को दोषः ? इति चेदाह-“ततश्च” केवलानामपि समर्थजनकानां सम्भवात् “एकोऽपि” न केवलमनेकः “क्वचि” द्देशादौ समर्थः उत्पन्नः क्षितिबीजादोरङ्कुरादिकार्यं “जनयेत्” यदि तत्स्वभावस्यावश्यं जनकत्वम्। न च केवलो जनयति तत्स्वभावसम्भवेऽपि ततोऽनेकान्तः इति परः।

एतत् परिहरन्नाह-“अपरापर-” इत्यादि। अपरैश्चापरैश्च कुशूलतदपनेतृपुरुषप्रयत्नपिटकादिप्रक्षेपक्षेत्रनयनप्रकिरणादिभिः “प्रत्ययै”र्यो “योगः” तेन कारणेन “प्रतिक्षणं भिन्नशक्तयो” न कदाचित् पूर्व्वापरकालभाविन एकशक्तयः अपरापरप्रत्यययोगलक्षणहेतुभेदेऽप्यभिन्नशक्तितायामहेतुकत्वप्रसङ्गात्। अन्यत्रापि च शालियवबीजादौ शक्तिभेदस्य हेतुभेदनिबन्धनत्वात्।

“संस्काराः” समेत्य सम्भूय च प्रत्ययैः क्रियमाणाः “सन्तन्वन्तः” सन्तानेन भवन्तो “यद्यपि कुतश्चित् साम्याद्” वर्ण्णेन संस्थानेन अन्येन वा केनचित्प्रकारेण सादृश्यादेकाकरपरामर्शप्रत्ययजननलक्षणात् समानं रूपमेषामिति “सरूपाः” सदृशाः “प्रतीयन्ते” प्रत्यभिज्ञायन्ते “तथापि” कृत्रिमाकृत्रिमाणामिव मणिमुक्तादीनामपरापरप्रत्ययोगलक्षणसामग्रीभेदाद् “भिन्न एव” विसदृश एव न प्रत्यभिज्ञानवशादभिन्नः तुल्यरूप “एषां” बीजादीनां “स्वभावः” यत एवं “तेन” भिन्नस्वभावत्वेन भिन्नशक्तितया वाऽपरापरसामग्रीजन्यत्वेन क्षणानां सिद्ध्या “किञ्चिदेव” क्षितिबीजादिकं “कस्यचि”देव कार्यस्याङ्कुरादेस्तज्जननसमर्थस्य वा “कारणम्”। न सर्व्वं सर्व्वस्य। तथा च व्यग्राणां क्षितिबीजादीनामङ्कुरजननस्वभावता समर्थक्षणजाननस्वभावता वा नास्त्येवेति तत्स्वभावस्य जननादजनकस्य चातत्स्वभावत्वादित्यत्र नानेकान्तः यतो यो यत्स्वभावः स स्वहेतोरेवोत्पद्यमानः तादृशो भवति न पुनस्तभ्दावे हेत्वन्तरमपेक्षत इत्यत्रानेकान्तः स्यादिति। प्रत्यभिज्ञानस्य च सरूपताविषयस्य सामग्रीभेदादनुमितभिन्नशक्तिस्वभावत्वेन बाध्यमानतया प्रामाण्याभावात् न ततः सरूपतासिद्धिः क्षणक्षयिणामिति।

पूर्व्वं च ‘अत एवान(एव त)योरवस्थयोर्व्वस्तुभेदो निश्चेयः इत्यादिना एकत्वविषयं प्रत्यभिज्ञानं निरस्तम्। अधुना तु तुल्यस्वभावताविषयमिति भेदः। एतदपि तत्र ‘अपरापरोत्पत्तेः’ इत्यनेनोक्तमेव। विपञ्चनार्थं तु पुनः इह उपन्यस्तम्।

[३७. क्षणिकेषु हेतुफलभावव्यवस्थायाः कथनम्।]
किञ्चिदेव कस्यचित् कारणम् इत्युक्तम् तत्र किं कस्य कारणमिति शक्यपरिच्छेदमप्याध्यात्मिकेषु तावद् दर्शयन्नाह-“तत्र” इत्यादि।“तत्र” तेषु प्रतिक्षणं शक्तिस्वभावेषु क्षणिकेषु भावेषु। व्यवधानं-व्यवधीयते यन, तदादिर्येषां अतिदूरात्यासन्नत्वादीनां तेऽविद्यमाना यस्मिन् देशे सोऽव्यवधानादिः देशो यस्य सोऽव्यवधानादिदेशः, रूपमिन्द्रियं चादी यस्य मनस्कारादेः स रूपेन्द्रियादिः स चासौ करणकलापश्च सामग्रीलक्षणस्तथोक्तः, अव्यवधानादिदेशश्चासौ रूपेन्द्रियदिकारणकलापश्च स“विज्ञानजनने समर्थो हेतुः” नान्यः, तभ्दाव एव तस्य भावात्, अन्यभावेऽपि चाभावात्, एतन्मात्रनिबन्धनत्वाच्च समर्थासमर्थव्यवस्थायाः। “यस्तेषा” मिन्द्रियादीनां “परस्परोपसर्प्पणस्य” अन्योन्यढौकनस्य। “आदि” ग्रहणाद् व्यवधानापनयना.................................................................................................................... [सा]मग्र्यधीनत्वेनासंवादिति।

इममेवंविधं हेतुफलभावप्रतिनियमं निरवद्यमाध्यात्मिकेषु दर्शितम् अन्यत्राप्यतिदिशन्नाह-“अनेन न्यायेन” इत्यादि। योऽयमनन्तरं हेतुफलभावप्रतिनियमे न्याय उक्तः सोऽन्यत्राऽपि “सर्व्वत्र” द्रष्टव्यः। सर्व्वत्रेति वचनात् अक्षणिकेष्वपि प्रतीतिर्म्मा भूत् इत्याह-“प्रतिक्षणम्” इत्यादि। याः क्षणे क्षणेऽन्याश्चान्याश्च स्वभावभेदान्वयिन्यः शक्तयो भवन्ति तत्रायमेकार्थक्रियाप्रतिनियमः सहकारिणां द्रष्टव्यः। न तु ये स्थिरैकस्वभावा भावाः परैः कल्प्यन्ते तेष्वपि। स्थैर्यं सन्तानाश्रयेणापि व्यपदिश्येतेत्येकग्रहणम्। क्षणेऽप्येकत्वमस्तीति स्थिरग्रहणम्।

[३८. अक्षणिके एकार्थक्रियाकारित्वस्याभावः।]
कस्मात् पुनः स्थिरैकस्वभावेषु नेष्यते ? इत्याह-“स्वभाव-” इत्यादि। कामं भावः स्वयं न भवेत्। न तु स्वत एव स्वभावस्यान्यथात्वं सम्भवति। ततश्च स्थिरः पदार्थो यदि कार्योत्पादनसमर्थस्वभावः ततोऽस्याक्रिया नोपपद्यते इति सर्व्वदैव कुर्यात्। अथासमर्थस्वभावः। तदापि क्रियाऽनुपपन्ना, सर्व्वदैव न कुर्यादिति भावः। यत्तु कदाचित् करोति कदाचिन्न इत्येतन्न लभ्यते। ततश्चाक्षणिकानां तत्कार्यक्रियासमर्थस्वभावत्वे सहितासहितावस्थयोरेकरूपत्वात् केवलानामपि तत्कार्यक्रियाप्रसङ्गेन कुत एकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं सम्भवेत् ?।

अत्र पर आह-“अन्यसहितः” इत्यादि। यद्यपि केवलस्यप्यक्षणिकस्य समर्थः स्वभावः तथापि अन्यसहितः करोति न केवलः। अयमपि ह्यस्य स्वभावः यद्-‘अन्यसहितेन स्वकार्यं कर्त्तव्यम् न समर्थस्वभावेनापि सता केवलेन’ इति।

सिद्धान्तवाद्याह-“किं केवलस्य” इत्यादि। अन्यसहितेनैव स्वकार्यं कर्त्तव्यं न केवलेन इत्येतत् केवलस्यासमर्थस्वभावत्वे युज्यते नान्यथेति मन्यमानस्य प्रश्नः। परस्त्वनवगताभिप्राय आह- “समर्थ”इति। केवलस्याप्यक्षणिकस्य समर्थ एव स्वभावः अन्यथाऽस्याक्षणिकतैव हीयेतेति। सिद्धान्तवाद्याह-“किन्न करोति” इति। नहि समर्थस्याक्रिया, सहितस्यावस्थायामिव युज्यत इति सहितस्यैव क्रियामिच्छता केवलस्यासमर्थस्वभावतैवोपगन्तव्या।

अथ मतम्-केवलस्य यदि शिरश्छिद्यते तथापि न करोतीत्यत आह “अकुर्व्वन्” इत्यादि। कार्यानुमेयं हि सामर्थ्यं न च केवलस्य कदाचिदपि कार्यक्रियाऽस्तीति कथं सामर्थ्यं कल्प्यते ?। नायं नियमः यत् समर्थस्वभावेनावश्यमेव कार्यं कर्त्तव्यम्, अन्यथाऽपि दर्शनात् इति मन्यमान अह परः-“कुविन्दादयः” इत्यादि। सिद्धान्तवाद्यपहसन्नाह “क्रीडनशीलः” इत्यादि। देवानांप्रियः ऋजुः मूर्खो व सुखसंवर्द्धितत्वात् रमणस्वभावः, क्रीडनं बालधर्म्मः, तत्साधर्म्येण प्रज्ञावैकल्यं दर्शयति, सुखैधितत्वेन शास्त्रेष्वनभियोगम्। यो ह्यनभियुक्तो दुर्बुद्धिश्च स “कृतमपि” वस्तु विस्मरणप्रकृतित्वात् पुनः पुनः “कारयतीति” पुनः प्रतिविधापयति। क्व पुनरेतत् प्रतिविहितम् ? इत्याह-“तथाहि”-इत्यादि। ‘बीजादिवदनेकान्तः’ इत्यनेन प्रस्तावेन निर्ल्लोठितमेवैतत्।

तदेवमक्षणिकस्य समर्थस्वभावत्वे सहितस्यैव कार्यक्रियास्वभावत्वविरोधात् केवलस्याक्रियाऽनुपपन्नेति प्रतिपाद्योपसंहरन्नाह-“तस्मात् तत्स्वभावस्य” कार्यक्रियासमर्थस्य “अन्यथात्वासम्भा(म्भ)वात्” कदाचिदसमर्थत्वाभावात् “तद्धर्म्मणः” कार्यक्रियाधर्म्मणः तथाभावः कार्यक्रिया “अन्त्यावस्थावत्” सहितावस्थायामिव “अनिवार्यः।

[३९. मीमांसकसंमतस्य भावस्वभावरूपसामर्थ्यस्य निरासः।]
स्यान्मतम्-केवलोऽयमक्षणिकोऽसमर्थ एव। ततः केवलो न करोति, सहितावस्थायां त्वस्य सामर्थ्यं सहकारिभ्यो जायते। ततः सहित एव करोतीत्यत आह-“अन्त्यावस्थायां सामर्थ्योत्पत्तौ” कीदृशस्य “प्रागसमर्थस्य” सतः “तस्य सामर्थ्यस्य” यस्य तदुपजायते “तत्स्वभावत्वे” मीमांसकादिभिरिष्यमाणे। नहि तेषां समर्थस्य सामर्थ्यस्य च स्वभावभेदोऽभिमतः। कथञ्चित् तभ्देदेऽपि तत्स्वभावतयैव प्रतीयमानत्वादिति ते मन्यन्ते। “अपूर्व्वोत्पत्तिरेव सा” अपूर्व्वस्यैव वस्तुनः सा उत्पत्तिर्या तत्स्वभावस्य सामर्थ्यस्य। नह्येकस्वभावत्वे सामर्थ्यमेवापूर्व्वमुपजातं न समर्थः इति युक्तम्, तयोः स्वभावभेदप्रसङ्गात्, विरुद्धधर्म्माध्यासस्य भेदलक्षणत्वात्।

ननु प्रतीयमाने एव सामर्थ्यतद्वतोरुत्पत्त्यनुत्पत्ती एकस्वभावता च कथं निन्होतुं शक्यते ? इति चेत्। न। अप्रमाणेन प्रतीतेः, अन्यथा प्रतीत्यनुसारिणा भवता द्विचन्द्रादयोऽपि न निन्होतव्याः। बाधकप्रमाणसम्भवात् तेऽपन्हूयन्त इति चेत्। इहापि वस्तुन एकस्वभावस्योत्पत्त्यनुत्पत्ती परस्परविरुद्धे बाधिके किं नेष्येते ?। व्यवस्थितस्यैव वज्रोपलादेर्द्धर्म्मिणः तत्स्वभावं सामर्थ्यमुत्पन्नमिति च पुर्व्वापरकालयोरप्रतिभासमानविवेकः कथं प्रतीयात् ?।

विज्ञानादिकार्यस्यानुत्पत्तियौगपद्योदयप्रसङ्गात् चक्षुरादिसान्निध्ये प्रागसत् तत् सामर्थ्यमुत्पन्नं क्रमवच्चेति निश्चय इति चेत्। यद्येवमेकाकारतया पूर्व्वापरकालयोरधिकृतं प्रत्यभिज्ञानमुपजायमानमपूर्व्वसामर्थ्यप्रतिभासविविक्तोपलादिग्राह्यप्यनुमानादर्थापत्तितो वा बाधामनुभवन्न प्रमाणमित्युपगतं स्यात्। तथा, उत्पत्त्नुत्पत्त्योरेकस्वभावतायां विरोधात् समर्थस्यैवापूर्व्वस्योत्पत्तिः सदृशापरभवग्रहकृतश्चार्वाग्दर्शनानामेकत्वविभ्रमो लूनपुनर्ज्जातेष्विव केशनखादिष्विति किं नेष्यते ?।

[४०. नैयायिकाभिमतस्य भावास्वभावरूपसामर्थ्यस्य निरासः ]
अथ सामर्थ्यं सहकारिप्रत्ययसान्निध्यलक्षणमेवेत्यतत्स्वभावमिति नापूर्व्वोत्पत्तिप्रसङ्ग इति नैयायिकादयो मन्येरन् अत्राह-“अतत्स्वभावत्वे” सामर्थ्यस्येष्यमाणे “स” बीजादिः पदार्थः “प्रागिव” तद्रूपापरित्यागात् “पश्चादप्यकारक एव”। कुत ?। सामर्थ्यमित्याख्या यस्य पदार्थान्तरस्य सहकारिप्रत्ययसान्निध्यलक्षणस्य स एवातिशय[शब्द]वाच्य इति नैयायिकैरभ्युपगमात्। तत एव तभ्दावभावित्वेन कार्योत्पत्तेः। तेऽपि सहकारिणः प्रत्ययाः यद्यक्षणिकाः तेष्वप्येवं प्रसङ्गोऽनिवारित एवेति क्षणिकतेवैकार्थ[क्रिया]प्रतिनियमलक्षणं सहकारित्वमिच्छतोऽभ्युपेया।

पुनरप्यक्षणिकानामेकार्थक्रियाप्रतिनियमं निराकर्तुमुपचयहेतुमाह- “अपि च” इत्यादि। योऽसावक्षणिको भावः सकलेषु सहकारिषु स्वकार्यं करोतीतीष्यते, स तदैव तावत् कस्मात् करोति ?। येन हि कारणेन तत्कार्यक्रियास्वभावत्वेन तदा करोति तेने(नै)व स्थिरस्वभावत्वात् प्रागपि कुर्यात्, ततः कुतोऽस्यैकार्थक्रियाप्रतिनियमः ? इति भावः।

“का चान्या मृग्यते युक्तिः यथा तद् दृश्यते तथा ” इति सर्व्वत्रेयमप्रतिहता युक्तिरिति मन्यमानः कुमारिलः प्राह- “कुर्व्वन् दृष्टः” इत्यादि। यतस्तदैव कार्यं कुर्व्वम्(न्) दृष्टो मया “तेन दर्शनबलेन करोतीति ब्रूमः”, किमत्रान्ययोपपत्त्याऽभिहितया ?, प्राक् तत् कुर्व्वन्न दृष्टः तेन न करोतीत्येकार्थ[क्रिया]प्रतिनियमः सिध्यति अक्षणिकानामपीति। भावो हि कार्यं करोति तज्जननस्वभावतया न दर्शनबलेनादृष्टस्यापि स्वकार्यकरणात् अतो नेदमुत्तरं सम्बध्यत इत्युपहसन्नाह- “अहो महासमर्थ्यम्” इत्यादि। महाप्रभावस्य भवतो महसामर्थ्यं दर्शनम्, यस्मादेतभ्दावान् कार्यकरणस्वभावविकलानपि-यदि कार्यकरणस्वभावत्वाद् भावाः कार्यं कुर्युः तदैतदेवोत्तरं किं नोक्तम् ?, यतः कार्यकरणे दर्शनमुत्तरीकृतमिति कृत्वा-“स्वभावमात्रेण” आत्मसत्तामात्रेण “नानाप्रकारेषु व्यापारेषु नियुङ्‍क्ते” तत् कथं महासामर्थ्यं न स्यात् ?। न चात्र मे काचिदक्षमा किन्तु “यदि नाम किञ्चित्” कारणं “कथञ्चिद्” अनादृतस्य वा व्याक्षिप्तस्य वा “अत्र भवत” इति पूजावचनम् “दर्शनस्य विषयतामतिक्रामेत्” तदा “हन्त” इति दैन्योभ्दावनमेतत्, अप्रसवो धर्म्मोऽस्य तदिदम्- “अप्रसवधर्म्मकं” ततोऽपेतसन्तानं “स्यादि”ति इयमस्माकं चिन्ता चित्तं दुनोति।

पर आह- “न वै वयम्” इत्यादि। नैव वयं कार्यकरणस्वभावरहितानां “भावानामस्मद्दर्शनवशात् कार्यक्रियां ब्रूमः, किन्तु” स्वभावेनैव ते भावाः तत्कार्यकरणस्वभावाः, ततः स्वकार्यं कुर्व्वन्ति। “तान् पश्यन्तः केवलं जानीमहे” त एते कारकस्वभावा इति। दर्शनस्य हि यथावस्थितवस्तुविज्ञाने व्यापारः, नाविद्या(द्य)मानस्वभावक्रियायामिति।

सिद्धान्तवाद्याह- “सत्यम्, इदमप्यस्ति”। किं वयं न्यायानुरागितया न्याय्यं वचनमुपलक्षयामः, उत भवानेव सर्व्वदा न्याय्यवचनरहितोऽपि कथञ्चिन्न्याय्यमुक्तवान् इति सञ्जातपरितोषः पृच्छति-किं तद् ? इत्याह- “स्वभावस्तेषां” भावानां “कार्यक्रियाधर्म्मा” कार्यकरणधर्म्मा “तेन” कारणेन “समस्ताः” समग्राः प्रत्ययाः सहकारिणो येषां तेषामकृत्वा कार्यं “नोपेक्षापत्तिः” नौदासीन्यप्रतिपत्तिः इति सत्यम्-इदमप्यस्ति भवतो न्याय्यं वचनमिति, किन्तु इदमसि प्रष्टव्यः- “सौ[ऽक्षेप]क्रियाधर्म्मा स्वभावः किं तेषां तदैवान्त्यावस्थायां” समग्रावस्थायां यदनन्तरं कार्यमुत्पद्यते तदैव “उत्पन्नः ? आहोस्वित् प्रागपि” परस्परविरहावस्थायामपि “आसीत्” ?।

तत्र तदैवोत्पन्ने तत्स्वभवत्वेऽपूर्व्वोत्पत्तिरेव, अतत्स्वभावत्वे सोऽकारक एवेति प्रागुक्तदोषभयात् पर आह-“आसीत्”। कुतः ? प्रच्युतश्च उत्पन्नश्च प्रच्युतोत्पन्नः, तस्य प्रतिषेधः “अप्रच्युतोऽनुत्प(अप्रच्युतोत्प)न्नः” स्थिर एकः स्वभावो येषां भावानां तेषां कस्मिंश्चित् काले “कस्यचित्” स्वभावस्य तत्रोपलब्धस्य “अभावविरोधात्”। क्षणिकेष्वेव ह्येकदा दृष्टः स्वभावोऽन्यदा न भवेत् तदा तस्यान्यत्वात्। नाप्रच्युतानुत्पन्नपूर्व्वापररूपेषु स्थिरेषु भावेष्विति।

अत्राह-“तत् किमिदानीम्” इत्यादि। स्यान्मतम्-नैवेदमनेन वाक्येन सदृशमस्मद्वाक्यमित्याह-“को वाऽस्य” इत्यादि। यद्येतदनेन तुल्य न भवति तदा सकलसहकार्यवस्थायाः “प्रागपि” अयम् “अक्षेपक्रियास्वभावः” अविलम्बितकार्यकरणस्वभावः “कार्यं च न करोती”त्यस्य भाषितस्यार्थो वक्तव्य इति।

नैयायिकास्तु मन्यन्ते-भावानां सहकारिसन्निधानासन्निधानापेक्षया कारकाकारकस्वभावव्यवस्था, न स्वभावतः, तेनायमप्रच्युतोत्पन्नस्थिरैकस्वभावत्वेऽपि न प्रागपि स्वकार्यजननस्वभावः, किन्तु सन्निहितसकलसहकारिप्रत्यय एवेति। तन्मतमाशङ्कमान आह- “सहितः” इत्यादि।

एतन्निरस्यति- “अन्यस्तर्हि” इत्यादि। यदि नाम सहितस्य स्वकार्यजननस्वभावता, केवलस्य च तद्विपरीतरूपता, अन्यत्वं तु कस्माभ्दवति ? इत्यत आह- “स्वभावभेद” इत्यादि। “स्वभाव भेद एव हि भावभेदस्य लक्षणम्”। स चेत् तत्कार्यजनकाजनकरूपतया भिद्यते, शालियवबीजादीनामिव कथमिव भावभेदो न स्यात् ?। नहि स्वभावादन्यो भावः यतस्तभ्देदेऽपि न भिद्येत, निःस्वभावताप्रसङ्गात्।

ननु चोक्तं स्वतो जनकाजनकस्वभावताविरहात् प्रत्ययान्तरभावाद्यपेक्षत्वात् जनकाजनकरूपतायास्तभ्देदेऽपि कुतो भावभेदप्रसङ्गः ?, तस्यापरापेक्षस्वभावभेदलक्षणत्वात् इत्यत आह-“नहि स साहित्येऽपि” इत्यादि। तदैतदुत्तरं भावत्कं सम्बध्येत यदि भावो योऽसौ परः सहकारित्वाभिमतः सन्निधीयते तद्रूपेण कर्त्ता स्यात् न स्वरूपेण। न चैतदस्ति, तथाभावे हि परमार्थतः स एव परः कर्त्ता स्यात्। तत्र तु कर्तृत्वव्यपदेशः कल्पनानिर्म्मित एव भवेत्। न च कल्पनानुविधायिन्योऽर्थक्रियाः। नहि माणवको दहनोपचारादाधीयते पाके। ततश्च नास्यानुपकारिणो भावमपेक्षेत कार्यमिति तद्रहितेभ्य एव सहकारिभ्यो भवेत्। यद्वा तेभ्योऽपि न भवेत्। तेषामपि पररूपेण कर्तृत्वे स्वयमकारकत्वात्। ततः सर्व्वेषामेवं स्वयमकारकत्वे पररूपेणाप्यकारकत्वात् सर्व्वथा कारकोच्छेद एवेति न किञ्चित् कुतश्चित् जायेत। तस्मात् स्वरूपेणैव भावः स्वकार्यस्य कर्त्ता न पररूपेणेति नास्योत्तरस्यावकाशः। ततोऽन्यः सहितोऽन्यश्च केवलः इत्येतदविचलमेवेति।

अथ येन स्वरूपेणायं जनकस्तदस्य सहितासहितावस्थयोः सर्व्वदाऽस्ति तदा स्वरूपं च स्वकार्यजनकमस्य स्थिरस्वभावस्य प्रागपि सहितावस्थायास्तदेव यत्सहितावस्थायामक्षेपक्रियास्वभावमिति तस्मात् न कथंचित् कार्यक्रियाविरामः। अथवा कदाचित् परो ब्रूयात् स्वहेतुभिरेवायं प्रत्ययान्तरापेक्षः स्वकार्यजननस्वभावो जनित इति केवलो न करोति। न चास्य सहितासहितावस्थयोः स्वभावभेदः, प्रत्ययान्तरापेक्षस्वकार्यजननस्वभावतायाः सर्व्वदा भावात् इत्यत आह- “नहि स साहित्येऽपि” इत्यादि। स्वरूपेणैवास्य कर्तृत्वात् तस्य च प्रागपि भावात् प्रत्ययान्तरापेक्षायाश्च ततो लभ्यस्यात्मातिशयस्याभावेनायोगात् उपकारलक्षणत्वादस्य, अन्यथाऽतिप्रसङ्गात्, केवलस्य कार्यकरणमनिवार्यमिति अकुर्व्वतः कथं सहितावस्थाया न भेदः स्यात् ? इति भावः। प्रत्ययान्तरापेक्षस्वकार्यकरणस्वभाव इत्यपि पररूपेणाकारकस्य प्रत्ययान्तरसन्निधानोपलक्षितकाले कारकत्वं न प्रागित्ययमर्थः। ततश्च कदाचित् कार्यक्रियास्वभावो न सर्व्वदा इति ब्रूवता कथं सर्व्वदा कार्यजननस्वभावताऽस्योक्ता भवति ?। नन्वेवं स्वभावभेद एवास्य तदतत्कालयोः समर्थितः स्यात्। तस्मान्नाक्षणिकानामेकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वमिति स्थितम्।

परः समानदोषतामापादयन्नाह- “यस्यापि” इत्यादि सुबोधम्। यदि नाम क्षणिकस्तथापि किन्न भवति ? इत्याह- “उक्तं यादृशस्य” सहकारिभिरपृथग्भाविनः “क्रिया”। ‘ते समर्था एव स्वभावतोऽन्त्याः प्रत्ययाः सह जायन्ते क्षणिका येषां प्राक्‌पश्चात्पृथग्भावो नास्ति’ इत्यत्र। “स कथमेकक्षणभावी” एकस्मिन्नेवान्त्ये क्षणे भवनशीलः “अन्यथा भवेत्” अन्त्यक्षणात् प्राक् पश्चात् पृथग्वा भवेत् ? “यश्च” अन्यथा “भवति स” एवान्त्यक्षणभावी सहकारिसन्तानोपकृतस्वभावोऽक्षेपक्रियाधर्म्मा “न भवतीति नायम्” अक्षणीकपक्षोदितः “प्रसङ्गः” क्षणिकपक्षे। कुतः ?। “कारकाकारकयोः” इत्यादि। कारकोऽन्त्यः अकारकस्तदन्यः तयोर्यः “स्वभावः” स भिन्नोऽपि भेदाविवक्षयैकत्वेनोक्तः। तथा कारकस्य यो हेतुरुपान्त्यः, अकारकस्यापि यो हेतुस्तदन्यः स भिन्नोऽप्यभेदविवक्षयैवैकत्वेनोक्तः। तेन कारकाकारकयोर्यौ स्वभावौ तयोरेकत्र धर्म्मिणि विरोधात्। तथा तयोः स्वभावयोर्जनकौ यौ हेतू-एकः कारकस्वभावजनकोऽन्यश्चाकारकस्वभावजनकः- तयोरप्येकत्र धर्म्मिणि विरोधात्, अन्यत्वे सति। अकारकस्वभावजनकहेतोरुत्पन्नस्याकारकस्य स्वभावस्यान्यत्वात् “यश्च भवति स एव न भवतीति नायं प्रसङ्ग” इति।

[४१. कार्यस्यैव सहकार्यपेक्षेति मतस्य निरासः।]
अपरस्त्वन्यथा शिररूपेष्वेकार्थक्रियाप्रतिनियमं कल्पितवान् तमुपन्यस्यति “योऽपि मन्यते” इत्यादि। भावस्य ह्यक्षेपक्रियाधर्म्मैव सर्व्वदा स्वभावः, न तु यथा केचिद् ब्रू(ब्रु)वते- सहकारिसन्निधानापेक्षा वस्तूनां करकस्वभावव्यवस्था, न स्वत इति। स्वतोऽकारकत्वे पररूपेण कारकत्वायोगात् करकव्यवस्थोच्छेदप्रसङ्गात्। स एवंविधस्वभावो न कदाचित् साहित्यं स्वकार्यकरणेऽपेक्षते यतोऽन्यः सहितोऽन्यश्च केवलः कारकाकारकस्वभावभेदात् स्यात्। स तर्हि सर्व्वदा तत्स्वभावः कार्यं किन्न करोति ? इति चेत्। कार्यस्य प्रत्ययान्तरापेक्षस्वभावतया तस्मिं (स्मिन्) सर्व्वदा जनकत्वेनावस्थितेऽपि केवलादभावात्, तेनात्र कार्यमेवापराध्यति, यत् तस्मिं(स्मिन्) केवले जनकतयाऽवस्थितेऽपि प्रत्ययान्तराण्यपेक्षत इति। ततः तदात्मनः कार्यस्य सहितेभ्य एव भावादेकार्थक्रियालक्षणं सहकारित्वमक्षणिकानामप्युपपद्यत इति। सिद्धान्तवादी पूर्व्वदोषानतिक्रममस्य दर्शयन्नाह-“तस्यापि” एवंवादिनः “कथं स” नित्याभिमतो भावः “केवलः करोत्येव” ‘अक्षेपक्रियाधर्म्मैव स तस्य स्वभावः’ इति वचनात्। कार्यं च सहितेभ्य एव भवति, ‘सामग्रीजन्यस्वभावत्वात् तस्य’ इति वचनात्। तस्मात् केवलान्न भवतीति “तदवस्थो विरोधो” यः पूर्व्वमुक्तः। तथाहि-यद्यक्षेपक्रियाधर्म्मा तदाऽवश्यमनेन कार्यं कर्तव्यम् न चेदवश्यं करोति कथमक्षेपक्रियास्वभावः।

अक्षेपेणा कार्यदर्शनादक्षेपक्रियास्वभावताऽवगम्यते नान्यथा इति पराभिप्रायाशङ्कयाऽऽह- “न केवलः” इत्यादि। नैवं मयोक्तं केवलः करोत्येवेति किन्त्वक्षेपक्रियास्वभाव इति। अत्राह- “कथमिदानीम्” इत्यादि। यदि करोत्येवेति नेष्यते कथमक्षेपक्रियास्वभाव इति कथ्यते ?। अथ तथोच्यते तथा नन्वेतदेवानेन “वचसा परिदीपितम्” अभिहितं भवति। किं तत् ?। करोत्येवेति। स एव ह्यक्षेपक्रियास्वभावो यः करोत्येव, यस्तु नावश्यं करोति स कथं तद्रूपः स्यत् ?। यदप्युक्तं ‘कार्यस्यैवायमपराधो यत् तस्मिं (स्मिन्) जनकतयाऽवस्थिते प्रत्ययान्तराण्यपेक्षते’ इति तदप्ययुक्तम्, यतः “कार्यं” चायमक्षणिको भावः “केवलोऽपि समर्थः सन् परं” प्रत्ययान्तरम् “अपेक्षमाणं कथमुपेक्षेत ?” नैव। अनुपेक्षमाणेन किं कर्त्तव्यम् ?। आह- “परं” प्रत्ययान्तरम् “अनादृत्य” तिरस्कृत्य एतत् कार्यं “प्रसह्य” हठात् “कुर्यात्”। क एवं सत्यस्य गुणो भवति ? इति चेत्, आह- “एवं हि” परमनादृत्य हठात् स्वकार्यं “कुर्व्वताऽनेन” केवलेनापि समर्थेन सता यत् तदात्मनः केवलस्यापि “सामर्थ्यं” तद् “दर्शितं” प्रकाशितं भवति। अन्यथाऽन्यसहितस्यैव करणात् केवलस्य च कदाचिदप्यकरणात् न ‘अयं केवलोऽपि समर्थः’ इति परेषां बुद्धिः स्यात्। ततोऽयं तिरस्कृतप्रभाव इव कथं भ्राजेत ?। तस्मादयुक्तमुच्यते कार्यं प्रत्ययान्तरापेक्षमिति।

कार्यापेक्षयाऽपि विरोधस्य तादवस्थ्यं दर्शयन्नाह- “कार्यं परम्” इत्यादि। कार्यस्य परापेक्षां ब्रूवन् केवलात् कारणादनुत्पत्तिमस्य कथयसि, ‘स केवलोऽपि समर्थः’ इतीदं वदंस्ततः केवलादुत्पत्तिं कार्यस्य ब्रूषे। एते चैकस्यैव कार्यस्य। तत् एवैकस्मात् कारणादुत्पत्त्यनुत्पत्ती परस्परविरुद्धे “कथमेकत्र” कार्याख्ये धर्म्मिणि “स्याताम् ?” विरुद्धधर्म्माध्यासस्य भेदलक्षणत्वात्। एकत्र ते ब्रूवाणो ‘माता च वन्ध्या च’ इत्यनेन सदृशं ब्रूष इति न पूर्वोक्तदोषान्मुच्यसे, यत एवमपि ब्रूवाणो विरुद्धमेव ब्रूते न च लक्षयति “तत्” तस्मात् “अयम्” अक्षणिकवादी क्षणिकपक्षस्यानवद्यतया तद्वादिनां निर्द्दोषतासम्पत्सु अमर्षलक्षणेर्ष्या एव शल्यं अन्तर्दुःखहेतुत्वात् तेन वितुद्यमानानि व्यथ्यमानानि मर्म्माणि यस्य सो “ऽयमीर्ष्याशल्यवितुद्यमानमर्मा” वराकोऽस्वस्थचित्ततया विरुद्धाभिधानमप्यलक्षयन् “विक्लवम्” आकुलं पूर्व्वापरासम्बद्धं “विक्रोशति” विरोदिति “इति” कृत्वा अस्वस्थचित्तवचनेष्वनादरात् तद्दोषोभ्दावनस्य सुतरां दुःखोत्पादनेन क्षतक्षारनिषेकतुल्यत्वात् “उपेक्षामेव” विपश्चितानां (श्चितां) कृपाधनानाम् “अर्हतीति”।

तदेवमक्षणिकेषु न कथञ्चिदेकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं सम्भवतीति प्रतिपाद्योपसंहरन्नाह- “तस्मादिदम्” इत्यादि। येषां हि स्थिररूपतया पृथगपि भावः सम्भवति तेषामक्षणिकानां “पृथक्” केवलानां “कार्यकरणसम्भवेन” हेतुना सहैव कुर्वन्तीति सहकारित्वनियमायोगादिदमेकार्थक्रियालक्षणं सहकारित्वं क्षणिकानामेव। तेषां स्वहेतुपरिणामोपनिधिधर्म्माणां परस्परोपादानसहकारिप्रत्ययैकसामग्रीजन्यानां पृथगसम्भवात्।

[४२. क्षणीकपक्षे एव एकार्थक्रियारूपसहकारित्वस्य व्यवस्था।]
ननु अतिशयोत्पादनलक्षणमपि सहकारित्वं भावेषु दृश्यते तत् कथमुक्तं प्राक् ‘सर्व्वत्र नैवातिशयोत्पादनं सहक्रिया, किं तर्हि बहूनामेकार्थकरणमेव’ इत्यत आह- “यत्र तु सन्तानोपकारेण” इत्यादि। एकार्थक्रियालक्षणमेव सहकारित्वं सर्व्वत्र न क्वचिदतिशयोत्पादनं सम्भवति। यत्र तु सन्तानोपकारेण पूर्व्वपूर्व्वप्रत्ययेभ्यो विशिष्टविशिष्टतरोत्तरोत्तरक्षणजनेन भावाः सहकारिणो विवक्षितकार्यस्य हेतुतां प्रतिपद्यन्ते-यथा तण्डुलादिभ्य ओदनादिजन्मनि दहनोदकादयः, बीजादिभ्यश्चाङ्कुरादिजन्मनि पृथिव्यादयः - तत्र विशेषोत्पादनं प्रत्ययानां सहक्रियोच्यते लोके। सन्तानाश्रयेण पूर्व्वक्षणेभ्यो द्वितीयादिविशिष्टक्षणलक्षणं सन्तानाख्यं कार्यमाश्रृ(श्रि)त्य पुर्व्वोत्तरक्षणयोरेकत्वाध्यवसायेन तस्यैवायमतिशय इति न द्रव्याश्रयेण। औपचारिकमेव न तु पारमार्थिकम्। पूर्व्वपूर्व्वक्षणेभ्यस्तु स्वहेतुपरिणामोपनिधिधर्म्मभ्य उत्तरोत्तरविशेषोत्पत्तौ पूर्व्वकारणकलापस्यैकार्थक्रियालक्षणमेव तत्र परमार्थतः सहकारित्वमिति न काचित् क्षतिरिति। कस्माद् द्रव्याश्रेयेणातिशयोत्पादनं नेष्यते ?। क्षणिके द्रव्ये वस्तुनि विशेषस्यानुत्पत्तेः तस्यानन्तरक्षणभावरूपत्वाद्।

यदि तर्हि क्षनिके तण्डुलादिद्रव्ये विशेषो नोत्पद्यते, अनन्तरमप्यसौ मा भूत्। ततो यथा परस्परतो विशेषमनासादयन्तोऽपि क्षणिकाः सहिता एव कुर्व्वन्ति न केवलाः, एवमक्षणिका अपि। तेनैषामेकार्थक्रियालक्षणमेव सहकारित्वं भविष्यति। न च शक्यं वक्तुम्-यो यस्य प्रागकारकः स्वभावः स पश्चादपीति। तथा हि-प्रभास्वरादपवरकं प्रविष्टस्येन्द्रियमर्थप्रतिपत्तिमकुर्व्वदपि पश्चात् कुर्व्वाणमुपलभ्यते। तदुक्तम्-

“न हि प्रविष्टमात्राणामुष्णाद् गर्भगृहादिषु।
अर्था न प्रतिभान्तीति गृह्यन्ते नेन्द्रियैः पुनः॥” इति।
अत आह-“नहि तण्डुलादीनाम्” इत्यादि। विशेषानुत्पत्तौ सन्निधानस्याप्यसन्निधानतुल्यत्वात् दहनादिभावेऽपि तण्डुलादिभ्यो नौदनजन्म स्यात्। तथा प्रभास्वरादपवरकं प्रविष्टस्य यदीन्द्रियं स्वोपकारिभ्योऽतिशयं क्रमेण न प्रतिपद्यते तदा प्रागिव पश्चादप्यर्थप्रतिपत्तिं नैव जनयेत्। तस्माद्यदसम्भवि कार्यं यत्र दृश्यते तस्य ततोऽन्यत्वमेव, शालिबीजादिव कोद्रवबीजस्येति निरतिशयादन्यत्वमेव सातिशयतया तत्कार्यकारिण इति। एवं तावद् यत्र सहकारिभ्यः क्रमेण कार्यं भवति तत्रातिशयोत्पादनलक्षणमौपचारिकं सहकारित्वमेकार्थक्रियालक्षणमेव तु मुख्यं तत्रापीति प्रतिपादितम्।

यत्र त्वक्षेपेणैवार्थसन्निधिमात्रेण सहकारिणः कार्यं कुर्व्वन्ति किं तत्रापि सन्तानाश्रयमतिशयोत्पादनमस्ति ? इत्यत आह- “अक्षेपकारिषु” इत्यादि। ‘ये ह्यव्यवधानादिदेशा इन्द्रियादयः स्वहेतुभ्यो जातास्तेष्वविलम्बितकारिषु न विशेषोत्पत्तिः परस्परतः सम्भवति, क्षणिकत्वात्’ इत्युक्तं प्राक्।

यदि न विशेषोत्पत्तिः तदा कथं निर्व्विशेषा ज्ञानस्य कारणीभवन्ति ? इत्यत आह- “तत्र यथास्वं” यस्य ये आत्मीयाः प्रत्ययाः तैः, “परस्परोपसर्प्पणव्यवधानादिविरहादेराश्रयभूतैर्ये जाताः” योग्यश्चासावत्यासन्नत्वातिविप्रकर्षविरहाद् देशश्च स आदिर्यस्याव्यवहितदेशादेः तत्रावस्थानमवस्था येषां “ते सह स्वभावनिष्पत्त्या” स्वभावनिष्पत्तिर्व्विद्यत इत्येव कृत्वा “ज्ञानहेतुतां प्रतिपद्यन्ते” तत्र किं परस्परतो विशेषोत्पत्त्या प्रार्थितया ?। यदि हि स्वहेतुभ्य एव परस्परोपसर्प्पणाद्याश्रयेभ्यः स्वकार्यजननक्षमा योग्यदेशाद्यवस्थानलक्षणविशेषयोगिनो नोत्पद्येरन्, तदैषां परस्परतो विशेषोत्पत्तिः प्रार्थ्येत, न तु स्वहेतुभ्य एव तथाविधानामुत्पत्तौ। यत एवं “इति” तस्मात् “तत्र”तेषु अक्षेपकारिष्विन्द्रियादिषु “एकार्थक्रियैव” मुख्यं “सहकारित्वं” न सन्तानाश्रयेण व्यवस्थाप्यमानमतिशयोत्पादनलक्षणं गौणमिति।

अथ विशेषोत्पादनलक्षणं सहकारित्वं कथं न व्यवस्थाप्यते ?। तदपि हि लोके प्रतीतत्वाद् व्यवस्थापनीयमेवेत्यत आह- “यत्र तु” कार्ये नाव्यवधानादिदेशोपनिपातमात्रेणैवेन्द्रियादय इव सहकारिणः प्रत्ययतां प्रतिपद्यन्ते, किन्तु विवक्षितकार्योत्पादानुगुणं प्रतिक्षणं प्रकृष्यमाणं विशेषमुत्पादयन्तः “तत्र” कालक्षेपभाविनि कार्ये कर्त्तव्ये “हेतुसन्तानो”ऽपरापरक्षणभावलक्षण आत्मातिशयासादनार्थं सहकारीणि प्रत्ययान्तराण्यपेक्षते, न तु तत्समानकालः कारणक्षण इति। “तत” स्तेभ्यः कारणान्तरेभ्यः “स्वभावान्तरस्य” कार्योत्पादानुगुणविशेषपरम्परालक्षणस्य “प्रतिलम्भः” सन्तानस्यैकत्वेनाधिमुक्तस्योच्यते लोके। परमार्थतस्तु तत्रापि पूर्व्वः पूर्व्वः प्रत्ययकलाप उत्तरोत्तरकार्योत्पादानुगुणे विशिष्टक्षणे प्रतिनियत इत्येकार्थक्रियालक्षणमेव सहकारित्वमनुभवति।

कथं पुनः स्वभावान्तरप्रतिलम्भस्तेषाम् ?, यतः क्रमेण कार्यं निर्व्वर्त्तयन्तीत्यत आह- “तत्र स्वरसतः” इत्यादि। “तत्र” तस्मिन् हेतुसन्ताने ये हेतव उपादानकारणाख्याः ये च प्रत्ययाः सहकारिसंज्ञितास्तेषां ये पूर्व्वे प्रथम उपनिपातक्षणाः तेषां विनाशहेत्वनपेक्षितया स्वरसतो निवृत्तौ सत्यां तेभ्य एव स्वरसतो निवर्त्तमानेभ्यः प्रथमक्षणेभ्यः कार्योत्पादानुगुणेन विशेषेण विशिष्टस्य क्षणस्योत्पत्तिः तेभ्योऽनुगुणतरविशेषवतां तृतीयक्षणानां तेभ्योनुगुणतमविशेषवतां चतुर्थक्षणानाम्; एवं यावदत्यन्तातिशयवानन्त्यः कारणकलापो जातः ततः कार्यस्योत्पत्तिः इत्येवं सहकारिभ्यः स्वभावान्तरप्रतिलम्भः, क्षेपवती च कार्योत्पत्तिरिति।

अत्र परश्चोदयन्नाह- “सहकारिणः” सह करणशीलात् कारणात्, जातावेकवचनम्, यत् समुत्पन्नविशेषमनन्तरोक्तेन प्रकारेण कारणं अन्त्यसामग्रीक्षणलक्षणं ततोऽङ्कुरादिकार्योत्पत्तौ इष्यमाणायां तस्यैव विशेषस्याद्यस्य कार्योत्पादनानुगुणस्य यः क्रमेणाभिवर्द्धमानः कार्यस्य जनक इष्यते तस्यैव उत्पत्तिर्न्न स्यात् प्रथमक्षणोपनिपातिनां परस्परतो विशेषानासादनात् क्षणानामविवेकात् अनभ्युपगमाच्च।

परस्परतोऽनवाप्तविशेषा एव कार्योत्पादनानुगुणं विशेषमारप्स्यन्त इति चेदाह- “अविशिष्टाद” विशिष्टेभ्यः परस्परतो “विशेषस्य” कार्योत्पादानुगुणस्योत्पत्ताविष्यमाणायां “कार्यस्य” अङ्कुरादेः स्यात्, विशेषाभावादित्यभिप्रायः। ततश्च परस्परतो विशेषोत्पादानपेक्षिण एव सहकारिणः कार्यं कुर्व्वीरन्।

किमेवंसति सिद्धं भवति ? इति चेत्, आह- “तेन” येन क्षणिका अपि परस्परतो विशेषोत्पादाऽनपेक्षा एव स्वकार्यं कुर्व्वन्ति एककार्यप्रतिनियमलक्षणं च सहकारित्वं प्रतिपद्यन्ते तेन कारणेन “अक्षणिकानामपि कारणता स्यात्, अपेक्षणीयेभ्यः स्वभावातिशयोत्पतिश्च न स्यात्” इत्यक्षणिकवादी क्षणिकपक्षेण स्वपक्षस्य साम्यमापादयति। यदाह-

“कः शोभेत वदन्नेवं यदि न स्यादह्रीकता।
अज्ञता वा यतः सर्व्वं क्षणिकेष्वपि तत्समम्॥
विशेषहेतवस्तेषां प्रत्यया न कथञ्चन।
नित्यानामिव युज्यन्ते क्षणानामविवेकतः॥”

इति। तत्रैतत् स्यात् प्रथमक्षणेऽपि क्षितिबीजादयः परस्परतः समुत्पन्नविशेषा एव सन्निधीयन्ते-

“येन यस्याभिसम्बन्धो दूरस्थस्यापि तेन सः।”
इति न्यायाद्धि दूरदेशवर्त्तिनामपि हेतुफलभावात् इत्याशङ्कयाह-“अथ सहकारिणा” इत्यादि। सहकारिणः परस्परसम्पर्क्कविकला अपि वस्तुधर्म्मतयैवान्योन्यमुपकुर्व्वन्तीति शहकारिणा कार्योत्पादानुगुणविशेषजननाय कृतविशेष एव सम्पर्क्ककाल उपतिष्ठेत, एवं सत्यनवस्था स्यात्। तथा हि- तद्विशेषोत्पत्तावप्यपरः सहकारिकृतो विशेषोऽभ्युपगन्तव्यः, तथा तदुत्पत्तावप्यन्य इति।

अथ नैवं सहकारिणः परस्परस्य कार्योत्पादानुगुणविशेषणिमित्तमपरं विशेषं कुर्व्वन्ति, स्वभावत एव तत्र तेषां योग्यत्वात् इत्यत आह-“न च” इत्यादि। नैव हि सहकारिणः क्षितिबीजादयः परस्परस्य कार्योत्पादानुगुणो यो विशेषः तदुत्पादने “नित्यं” सर्व्वकालं योग्यावस्था “येन” योग्यावस्थत्वेन “नित्यानुषक्तः” नित्यानुबद्धः “एषां” क्षितिबीजादीनां कार्योत्पादानुगुणविशेषजनको विशेषः स्यात् यतः ‘अविशिष्टाद् विशेषोत्पत्तौ कार्यस्यापि स्यात्’ इत्येतदपि परिह्रियेत।

कुत एतद् ? इत्याह- “तदुपाय” इत्यादि। तेषां क्षितिबीजादीनामुपाये-योग्यदेशोपनिपाते कार्यव्यक्तिदर्शनात् अपाये च-परस्परसम्पर्क्कविरामे कार्यानुत्पत्तिदर्शनात्। यदि हि कार्योत्पादनुगुणविशेषोत्पादने सर्व्वदा योग्यावस्थाः स्युः तदा सोऽपि विशेषः सर्व्वदा स्यत्। ततस्तत्परम्पराभावि कार्यमिति तदुपायापाययोः कार्यस्योत्पत्त्यनुत्पत्ती न स्याताम्। तस्मान्न सहकारिणः कार्योत्पादानुगुणविशेषोत्पादने योग्यावस्थाः सर्व्वदेति। यतः सहकारिणा पृथगवस्थितेनानवस्थाभयात् कृतविशेषो नोपतिष्ठते परस्परतश्च प्रथमसम्पर्क्कक्षणभाविनां नोपेयते युज्यते वा। तेन कारणेनाद्यो विशेषः कार्योत्पादानुगुणः सहकारिभ्यः समानकालतया निरुपकारस्य क्षितिबीजादेः “नोत्पद्यते”, उत्पद्यते चासौ इतीष्यते। तेन समग्रावस्थावत् सर्व्वेषां व्यग्रावस्थाभाविनामपि क्षणानामविशेषात् तज्जननस्वभावत्वेऽप्यजननात् समग्रावस्थायामेव जननाद्। यथा क्षणिकानामेकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं तथा स्थिरस्वभावानामपि भविष्यतीति क्षिनसर्व्वोपायोऽक्षणिकवादी साम्यमेवातुर इव बहुमन्यमानस्तत्रैव भरं कृतवान्।

सिद्धान्तवादी भङ्ग्या परमुपहसन्नाह-“नास्माकं पुनः पुनः” इत्यादि। यदि पुनः पुनर्व्वचनेऽपि लोकस्य न्यायप्रतीतिर्भवति शतशोऽपि ब्रूमः। किमङ्ग पुनर्द्धौ त्रीन् वा वारान् ?। नहि परार्थप्रवृत्तानामस्माकं पुनः पुनरभिधाने कश्चिदुद्वेगो भवति। एवंवादिनश्च शास्त्रकृतः क्वचित् प्रकारान्तरेण तमेवार्थं स्फुटीकुर्व्वतो ये पुनरुक्तताप्रिहाराय यतन्ते स तेषामस्थानपरिश्रम एव। यदि नोद्वेगो हन्त तर्ह्युच्यताम् इत्यत आह- “न विशेषोत्पादनादेव” इत्यादि। नैव विशेषोत्पादनात् सहकारिणां सहकारित्वं परमार्थतः क्वचित् सम्भवति, यतः प्रथमक्षणभाविनां बीजादीनां तदभावात् कार्योत्पादानुगुणे विशेषे कर्त्तव्ये सहकारिताविरहः स्यात्। किन्त्वेकार्थाक्रियैव सहकारिणां पारमार्थिकं सहकारित्वं पूर्व्वोक्ताभिर्युक्तिभिः सम्भाव्यते। सा च प्रथममसम्पर्क्कभाजामस्त्येवेति किं न सहकारिणः स्युः ?।

पर आह- साऽप्येकार्थक्रिया न भवेत् परस्परतो विशेषरहितानाम्। यदि पुनः परस्परतो विशेषरहितानामपि तदेकार्थक्रियाऽङ्गिक्रियते तदा प्रत्येकं तदवस्थायां तदुत्पादनसामर्थ्याभ्युपगमात् तदवस्थायामिव पृथगपि सा भवेत्। तथाहि-ते तदवस्थायामपि परस्परतो निर्व्विशेषा एव कुर्व्वन्ति। तेषां पृथगपि तद्विशेषक्रिया कथमिव न प्रसज्येत ?। नह्येषां संहतासंहतावस्थयोः कश्चिद्विशेषोऽस्तीति। भवतु, को दोषः ? इति चेत्; “तथा च” कार्योत्पादानुगुणविशेषस्य पृथक्करणप्रसङ्गे सति “तस्माद् विशेषाद् भवनशीलम्” अङ्कुरादि “कार्यमपि” विशेषवत् केवलात् सहकारिणः स्यात् इति चेन्मन्यसे, अत्रापि सर्व्वमुक्तमुत्तरम्। तथा हि- संहतासंहतावस्थयोन्निर्विशेषा एव क्षणक्षयिणो भावा इति यदुच्यते तत् किं तावद्विशेषमात्रापेक्षया ? आहोस्वित् कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया ?। यदि प्राच्यो विकल्पः तदयुक्तम्। न हि काचिद् विशेषमात्ररहिताऽवस्था सम्भवति, सर्व्वदाऽपरपरप्रत्यययोगनिबन्धनस्यापरापरविशेषस्य भावात्। नहि कदाचित् किंचिदेकमेव, आधारच्छायातपवातशीतादेर्यथासम्भवं भावात्। न च तभ्दावेऽपि तत् तादृशमेव, कारणभेदात्। एतावत्तु स्यात्- कश्चिद् विशेषः क्वचित् कार्येऽनुगुणो न सर्व्वः सर्वत्रेति। एतच्च प्रागेवोक्तमिति दर्शयन्नाह- “प्रतिक्षणमपरापरैः प्रत्ययैः” इति। ‘अपरापरप्रत्ययोगेन प्रतिक्षणं भिन्नशक्तयः संस्काराः सन्तन्वन्तो यद्यपि कुतश्चित् साम्यात् सरूपाः प्रतीयन्ते, तथापि भिन्न एवैषां स्वभावः, तेन किञ्चिदेव कस्यचित् कारणम्’ इति, ‘क्षणिकेषु भावेष्वपरापरोत्पत्तैरैक्याभावात्’ इति चात्र संक्षिप्यतरमुक्तम्। एवं च ’नास्माकं पुनः पुनर्व्वचन’ इत्यत्र द्विः पुनर्ग्रहणं युज्यते। यथा येन प्रकारेण भावसन्ताने विशेषस्योत्पत्तिः [त]दप्युक्तम् ‘तत्र स्वरसतः पूर्व्वक्षणनिरोधे तेभ्य एव विशिष्टक्षणोत्पादाद् विशेषोत्पत्तिः’ इति। अथ कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया प्राग्वत् प्रथमसम्पर्क्कभाजः परस्परतो निर्व्विशेषा इत्यभिमतं तदप्ययुक्तम्। यतः कार्योत्पादानुगुणस्य विशेषस्य जनकाः क्षितिबीजादयः कीदृशाः ये व्यवधानादिरहितत्वेनोपनिपातिनः। तभ्दाव एव तस्य भावात् एतावन्मात्रनिबन्धनत्वाच्च जनकं व्य(कव्य)वस्थायाः। ते च तथाविधाः सर्वदा न भवन्तीति कथं पृथगपि कार्योत्पादानुगुणविशेषारम्भ एषां स्यात् ?, यतः केवलानामपि कार्यक्रिया प्रसज्येत तद् दर्शयति- योग्यो देशो येषां ते योग्यदेशाः, तभ्दावो योग्यदेशता, सा आदिर्येषामव्यवहितदेशत्वादीनानवस्थाभेदानां ते तथोक्ताः, ते च ते अवस्थाभेदाश्च तथोक्ताः। “योग्यदेशता अ(ताद्य) व्यवहितदेशतादयो” ये “अवस्थाविशेषाः” क्षितिबीजादीनामुपजायन्ते ते कार्योत्पादानुगुणविशेषलक्षणकार्यकरणशीलाः, नैवंविधाः सर्व्वदा बीजादय इति कथमेषां पृथगपि तथाविधविशेषारम्भः स्यात् ?। एतदपि प्रागेवोक्तम् ‘तत्र योऽव्यवधानादिदेशो रूपेन्द्रियादिकलापः स विज्ञानजनने समर्थो हेतुः’ इति वचनात्। तस्य चोदाहरणमात्रत्वात्। इहापि तत्र योऽव्यवधानादिदेशः क्षितिबीजादिकलापः स कार्योत्पादानुगुणविशेषजनने समर्थो हेतुरिति प्रतीयत एव। स च तथाविधोविशेषः सर्व्वदा न भवति, तज्जनकस्य हेतोरभावात्। परस्परोपसर्प्पणाद्याश्रयस्यैव प्रत्ययविशेषस्य तद्वेतुत्वात्। एतदपि पूर्व्वमेवोक्तमित्याह-तेषां च कार्योत्पादानुगुणविशेष[जनने] विशेषवतां यत उत्पत्तिस्तदप्युक्तमसकृदेव ‘यस्तेषां परस्परोपसर्प्पणाद्याश्रयः प्रत्ययविशेषः स तद्धेतुजनने समर्थो हेतुः’ इति। तथा ‘यथास्वं प्रत्ययैः परस्परोपसर्प्पणाद्याश्रयैर्ये योग्यदेशाद्यवस्था जातास्ते सह स्वभावनिष्पत्त्या ज्ञानहेतुतां प्रतिपद्यन्त’ इत्यनेन, इहापि गम्यमानत्वात्। ततो यद्यप्येषां परस्परतोऽनुपपत्तेर्व्विशेषो न भवति, स्वहेतुकृतस्तु केन वार्यते ?। न च स्वहेतुत एव सञ्जातविशेषाणां भावे परस्परतस्तदाशंसा, यतः परस्परतो विशेषायोगः प्रतिपाद्यमानः शोभेत। तेषां च कार्योत्पादानुगुणविशेषजनकानां प्रत्ययानां प्रत्येकं सामर्थ्येऽपि खण्डशः कार्योत्पादायोगात् सकलस्यैव प्रत्येकं करणात्। यथा केवलानामक्रिया कर्तृविशेषस्याव्यवधानादिदेशक्षितीबीजादिकलापस्य पृथगेकैकस्य समर्थस्य भावस्याभावादित्येतदप्यसकृदेवोक्तम् ‘तेषां च न पूर्व्वं न पश्चात् न पृथग्भाव इति समर्थानपि पूर्व्वापरपृथग्भावभाविनो दोषा नोपलीयन्ते’ इत्यादिवचनात्। ततस्तथाविधविशेषस्य स्वोपादानमात्रनिबन्धनस्यानभ्युपगमेन केवलानामप्रसङ्गात् कुतः कार्योत्पादानुगुणविशेषारम्भद्वारकं कार्यमपि स्यादिति ?।

कुतः पुनरयं कामचारो लभ्यते यदङ्कुरादिकार्यं सहकारिणः परस्परस्य कार्योत्पादानुगुणां विशेषपरम्परां जनयन्तः कुर्व्वन्ति, कार्योत्पादानुगुणं तु विशेषं व्यवधानादिरहितदेशोपनिपातमात्रेणेत्यत आह- “कार्यद्वैविध्यं च यस्मात् तस्मादेवं विभज्यते”। कथं द्वैविध्यं कार्याणामिति ? अत आह-सहकारिभिरव्यवधानादिदेशैरनन्तरं सञ्जनिताः परस्परस्य प्रागवस्थापेक्षविशिष्टक्षणभावलक्षणा ये विशेषास्तत्परम्परया उत्तरोत्तरविशिष्टविशिष्टतरादिक्षणभवरूपया उत्पत्तिर्द्धर्म्मो यस्य तदात्मकमेकं कार्यम्। अन्यच्च तद्विपरीतं यत् सहकारिसन्निधिमात्रेण भवति न परस्परकृतां विशेषपरम्परामपेक्षते। अत्रोदाहरणम्- “अङ्कुरादिवत्”, आदिग्रहणादोदनादिवत्। तथाऽक्षेपेण करणशीलं यदिन्द्रियं तद्विज्ञानादिवच्च। प्रभास्वरादपवरकप्रविष्टेन्द्रियनिरासार्थं चैतद् विशेषणम्। कुत एतद् ? इति चेत् ; कार्यकारणयोः स्वभावभेदात्। किंचिद्धि कार्यं कारणसामग्रीसन्निधिमात्रजन्यस्वभावम्, तदन्यत्तु तत्परिणामापेक्षमिति। कारणमपि किञ्चित् स्वसन्निधिमात्रेण कार्यजननस्वभावं स्वकारणेभ्य एव भवति, येन परस्परकृतां विशेषपरम्परां स्वकार्यकरणे नापेक्षते। अन्यत्तु तद्विपरीतस्वभावम्। यथा किञ्चिदेव शाल्यङ्कुरजननस्वभावम्, तद्विपरीतं चापरम्। शाल्यङ्कुरश्च तब्दीजजन्यस्वभावो न यवादीबीजजन्यस्वभाव इति न भावानां स्वहेतुबलायाताः प्रमाणाधिगताः स्वभावाः पर्यनुयोज्याः। ये तु यज्जननस्वभावाः प्रमाणतोऽधिगताः ते किं सर्व्वदैव तत्स्वभावाः ? आहोस्वित् तदैव ? इत्यत्र चिन्ता प्रवर्त्तते। तत्र सर्व्वदा तत्स्वभावत्वे पश्चादिव प्रागपि तत्कार्यक्रियाप्रसङ्गेन पररूपेणाकारकस्य भिन्नस्वभावता कारकाकारकावस्थयोः शालियवबीजादीनामिव तत्त्वचिन्तकैरूच्यते। सदृशापरभावनिबन्धनं चैकतया प्रत्यभिज्ञानं लूनपुनर्जातेष्विव केशनखादिषु इत्यत्र विरोधाभावादिति। यदा च तक्तार्यकारणस्वभावभेदात् कार्यव्दैविध्यम्, “तत्रै”तस्मिं(स्मिन्) सति “सहकारिभ्यः” क्षितिबीजादिभ्यस्तेषां परस्परसन्तानोपकारमपेक्षते यत् कारणमन्त्यावस्थाप्राप्तं तस्य यत् कार्यमङ्कुरादिकं तज्जन्मनिमित्तं “सहकारिणां” प्रथमक्षणान्तरं विशिष्टद्वितीयक्षणभावरूपो यो विशेषः कार्योत्पादानुगुणः “आद्यो” भवति “स तेषां” सहकारिणां प्रथमसम्पर्क्कभाजां परस्परकृतो यो विशेषस्तज्जन्मा न भवति परस्परोपसर्प्पणाद्याश्रयादेव प्रत्ययविशेषात् तस्य भावात्। ततः कार्योत्पादानुगुणादाद्याद् विशेषात् प्रथमक्षणोपनिपातिभिः सहकारिभिरन्यतः समासादितविशेषैः जनितात् तत्प्रभृति “ये विशेषाः” प्रकृष्यमाणतदुत्तरोत्तरक्षणभावलक्षणा जायन्ते “ते तज्जन्मानः” सहकारिकृतविशेषजन्मानः। कुतः ? “तत्प्रकृतित्वात्” तस्याद्यस्य विशेषस्य परस्परोपसर्प्पणाद्याश्रयात् प्रत्ययविशेषादासादिततदनुकूलविशेषैः सहकारिभिः परस्परोपकारनिरपेक्षैर्जन्यस्वभावत्वात्, तदुत्तरेषां च विशेषाणां सहकारिकृतकार्योत्पादानुगुणविशेषजन्यस्वभावत्वात्। यत एवम् “इति” तस्मात् “नानवस्था” प्रागुक्ता। अथ सहकारिणा क्षित्यादिना कुशूलाद्यवस्थोऽपि बीजादिः तेनापि क्षित्यादिः कृतविशेष एवोपतिष्ठेतानवस्थैवं स्यात् इति। तस्य प्रकारस्यानभ्युपगमात् पुरुषप्रयत्नादेरेव क्षेत्रप्रकिरणहेतोरव्यवहितस्निग्धपृथिवीबीजसम्पर्क्कलक्षणस्य कार्योत्पादानुगुणविशेषजनकस्य विशेषेऽस्योपगमात्। तत्र यदुक्तं परेण ‘यथा प्रथमसम्प्रर्क्कभाजः क्षितिबीजादयः परस्परस्य विशेषमनादधानाः कार्योत्पादानुगुणं विशेषं जनयन्ति, तथा स्थिररूपा अपि भावाः तदेककार्यप्रतिनियताः परस्परकृतविशेषनिरपेक्षा एव भविष्यन्ति’ इति, तदभ्युपगच्छन्नाह् “तथा यद्यक्षणिकोऽपि” इत्यादि। क्षणिकवदक्षनिकोऽपि यदि कार्यं करोति करोतु नाम। ना कश्चिद् वारयति। किन्तु येन स्वभावेन कार्यं करोति स यदि “अविलम्बितकार्यकर्तृधर्म्मा” अक्षेपेण करोतीत्येवंशीलो धर्म्मो यस्य स तथोक्तः, तदा “पृथग्भावस्य सम्भावात् केवलोऽपि” न केवलं सहितः “तथा स्यात्” तत्कार्यकारकः स्यादित्युक्तं बहुशः। “अतत्स्वभावस्तु” अक्षेपकर्तृस्वभावविकलस्तु “तदाऽपि” सहितावस्थायामपि प्राग्वत् “अकारक एव” पररूपेण कर्तृत्वस्य पूर्व्वमेव निषेधात्।

तदेवमेकार्थक्रियया विशेषोत्पादनेन चाक्षणिकानां सहकारित्वं निषिध्योपसंहरन्नाह- “तस्मात्” इत्यादि। द्विविधस्यापि सहकारित्वस्यायोगान्नैवाक्षणिकस्य कश्चित् सहकारीति केवलोऽपि स्वकार्यं कुर्यादिति सहकारिप्रत्ययापेक्षस्याक्षणिकस्य हेतुतां ब्रुवाणस्य किं युक्तमिति दर्शयन्नाह- “प्रायस्तु” इत्यादि। यो हि स्थिरहेतुवादी तस्य यदि स हेतुः प्रत्ययान्तराण्यपेक्ष्य कार्यं करोति तदा “व्यक्तम्” अवश्यं तस्य स्थिरस्य हेतोः प्रत्ययान्तरापेक्षकारकस्य स्वभावान्तरस्योत्पत्तिरिति। “नाकार्यस्य” कार्यतामननुभवतो अपेक्षेत्युच्यते। यतः सहकारिणां यः “संघातः” सन्निपातः “तत्स्थायी” तत्र वर्त्तमानो भावसन्तानः “प्रायः” बाहुल्येन “सहकारिप्रत्ययैरुपजनितविशेषः” सन् “स्वकार्यं कुर्व्वन् दृष्टो बीजादिवत्” तस्मादेवं विभज्यते। प्रायोग्रहणं चाक्षेपकारीन्द्रियादिसङ्घातव्यवच्छेदार्थम्। तत्सम्भविनो न्यायस्याक्षणिकेषु पृथग्भावसम्भवेन कथञ्चिदपि कल्पयितुमशक्यत्वात्। प्रागकारकस्य पश्चात् कारकस्वभावान्तरोत्पत्तिस्तु न विरुध्यते। तस्यैव ह्यकारकस्य तदात्मा कारकः स्वभावो न युज्यते न त्वतदात्मा। अत एव स्वभावान्तरग्रहणम्। तत्र केवलमकारकस्वभावस्य स्वरसनिरोधितामात्रमुपेयम्। ततः सर्व्वं सुस्थमिति।

अथ मतम्-कारकस्वभावान्तरोत्पत्तिरिष्येत यदि स्थिरस्य हेतोः प्रागपि कारकस्वभावो न स्यत्। तस्य तु प्रागपि भावात् प्रत्ययान्तरापेक्षा तदुत्पत्तिरप्ययुक्तेति अत आह- “कारकस्य” इत्यादि। यदि हि समग्रावस्थायाः प्रागपि कारकस्वभावो भवेत् तदाऽस्याक्रिया न युज्यते, संहतावस्थायामपि तत्स्वभ्वतयैव करणात्, पररूपेण कर्तृत्वस्य प्रागेव निषिद्धत्वात्। न च करोति। तस्मात् सोऽस्य स्वभावः प्राङ्नैवासीत्। यदि च प्रत्ययान्तरैरप्यसौ न क्रियेत तत् किमिति मुधैव तान्यपेक्षते ? इति।

[४३. निर्हेतुकविनाशचर्चाया उपसंहारः।]
तदेवं ‘तत्स्वभावस्य जननात्’ त्यस्य ‘यो यत्स्वभावः स स्वहेतोरेवोत्पद्यमानः तादृशो भवति पुनस्तभ्दावे हेत्वन्तरमपेक्षते’ इत्यस्यानेकान्तपरिहारायोक्तस्य प्रकारान्तरेणानेकान्ते उभ्दाविते तत्परिजिहीर्षया “अपरापरप्रत्यययोगेन” इत्याद्यभिहितम्। तत्र येन न्यायेन क्षणिकानां हेतुफलस्वभावः तस्याक्षणिकेष्वसम्भवं प्रतिपादयितुं प्रासङ्गिकं यदुपक्रान्तं तत् परिसमापय्य प्रकृतमनुबध्नन्नाह- “तस्माद् यो यदात्मा” इत्यादि। यदि स्वभावेनास्थितिधर्म्मणो भावस्य न नाशकारणैः प्रयोजनं स्वभावेन स्थितिधर्म्मणो भविष्यतीत्यत आह- “स्थितिधर्म्मणोऽपि” इत्यादि। स्थितिधर्म्मणोऽपि हि नैव नाशकारणैः किञ्चित् प्रयोजनम्। तस्य स्वहेतुभ्यः समुपजातो यः स्थिरः स्वभवः तदन्यथात्वस्यास्थिरात्मतापत्तेः केनचित् कर्त्तुमशक्यत्वात्। कामं हि भावाः स्वयं न भवेयुः। न तु सन्त एव स्वं स्वभावं परित्यजन्ति। अथ स्थितिधर्म्मणोऽप्यन्यथात्वप्रतिपत्तिरिष्यते तदाऽन्यथात्वप्रतिपत्तौ वा “तत्स्वभाव एव” स्थितिधर्म्मैव “न स्यात्” आत्मभूतस्यास्थितिधर्म्मणः स्वभावस्य पश्चात् सम्भवे प्रागप्यभावायोगात्। नहि तदात्मनस्तस्मिं(स्मिन्) सन्निहिते कदाचिदभावो युक्तः, अतस्त्वभावताप्रसङ्गात् ‘विरुद्धधर्म्माध्यास्य भेदलक्षणत्वात्’ इत्युक्तम्। तथा च सति “पूर्व्व” एव “विकल्पः” स्वभावेनास्थितिधर्म्मा भाव इति। “तत्र च” पूर्व्वविकल्पे प्रागेवोक्तं दूषणं विनाशहेतोर्वैयर्थ्यमिति।

अथासौ शिरस्वभाव एव, केवलमस्याशिरस्वभावता प्रागसति विनाशहेतोरुपजायते, अन्यथा निवृत्त्ययोगादित्यत आह- “यश्च परस्मात्” नाशहेतोः स्थितिधर्म्मणः सत “अन्यथाभावः” अस्थितिधर्म्मतालक्षणो भवति, स पूर्व्वकात् स्थितिधर्म्मणः स्वहेतुसमुभ्दूतात् स्वभावात् “अपरः” अन्यः “स्वभावस्तस्मिन्निष्पन्ने” पश्चा[ज्जन्य]त्वाद् भिन्नहेतुकत्वाच्च “कथं तस्य” स्वभावः “स्यात्” ?। तदात्मतया प्रतिभसनादिति चेत्। सारूप्यादलक्षितविवेकस्य तथा प्रतिभासनं स्यात् यद्यसौ पूर्व्वस्वभावे सत्येवान्यतो भवेत्। अन्यथा विरोधः कथं परिह्रियेत ?। भवत्वपरः स्वभाव इति चेत्। यश्चापरः स्वभावः स कथं तस्य ?। न ह्यन्योऽन्यस्य स्वभावो युक्तः, अतिप्रसङ्गात्। योऽपरः स्वभावः स किमिति तस्य न भवति ? इत्यत आह- “स्वभावभेद-” इत्यादि। भवतु वस्त्वन्तरमेव तदपरस्वभावतया को दोषः ? इत्यत आह- “तथा च” वस्त्वन्तरत्वे सति विनाशहेतोरुपजायमानस्य स्वभावस्य पूर्व्वको भावः स्वहेतुभ्यो यः स्थितिधर्म्मा जातः सोऽच्युतिधर्म्मे स्थितो निवृत्तिभाङ्‍न भवति, विनाशहेतोर्व्वस्त्वन्तरोत्पत्तौ व्यापृतत्वादिति न “तस्य” स्थितिधर्म्मणो “ऽन्यथाभावो” निवृत्तिः। नहि मुग्दरादेर्व्वस्त्वन्तरस्य भावेऽपरस्य निवृत्तिर्युक्ता, अतिप्रसङ्गात्। तदुपमर्द्देन तदुत्पत्तौ च प्रागेव प्रोक्तम्।

ननु च दृश्यत एव कठिनादिरूपस्य ताम्रादेरग्नयादेर्व्विनाशहेतोर्द्रवादिस्वभावान्तरोत्पत्तिः। न च पूर्व्वकस्य प्रच्युतिधर्म्मता इत्यत आह- “एतेन” अनन्तरोक्तेन “कठिनादीनाम्” आदिशब्दाद् द्रवादीनां ताम्रसुवर्ण्णादिनामग्निशीतवातादिभ्यो द्रवत्वकठिनत्वादिस्वभावान्तरोत्पत्तिर्व्यवस्थितरूपस्य ताम्रादेः “प्रत्युक्ता” प्रत्याख्याताः, तुल्यदूषणत्वात्।

कथं तर्हि स्वभावान्तरोत्पत्तिः पूर्व्वस्य चाप्रच्युतिधर्म्मे स्थितस्याभावो युक्तः ? इत्याह- “तत्रापि” कठिनादिरूपे ताम्रादौ “पूर्व्वकस्य” कठिनद्रवादिरूपस्य “स्वरसनिरोधित्वात्” विनाशहेत्वयोगेन। “विनाशे” सति “अग्न्यादेः” आदिग्रहणाज्जलनिषेकशीतवातादेः। सहकारिणः परस्परोपसर्प्पणाद्याश्रय प्रत्ययविशेषोपजातातिशया “दुपादानाच्च” यत् तत् कठिनादिरूपं ताम्रादि स्वरसतो निरुध्यते। तत एव उपादानकारणादग्न्यादिसहकारिकारणोपादानप्रत्ययोपजातविशेषाद् “अपर एव” अन्य एव द्रवकठिनादिस्वभावो द्रवग्रहणस्योपलक्षणत्वात्, “उत्पन्नो” न तु पूर्व्वकमेव कठिनद्रवादिरूपं ताम्रादि व्यवस्थितात्मकं द्रवकठिनादिस्वभावेन परिणतमिति।

अत्र पर आह- “केनोक्तं” यथा ‘स्थितिधर्म्मणः सतो विनाशहेतोरस्थितिस्वभावोत्पत्तिस्ततो विनाशः’ इति, येन ‘यश्च परस्मादन्यथाभावः सोऽपरः स्वभावः’ इत्याद्युच्यते। किन्तु स स्वयं स्थितिधर्म्मैव स्वहेतुभिर्जनितो नास्यास्थिरस्वभावता विनाशहेतोरुपजायते। कथं ज्ञायते यथा ‘स्वहेतुभिः स्वभावेन स्थितिधर्म्मैव जनितः’ इति ?। विनाशहेरग्न्यादेरसम्भवे अवस्थानात्। यदि स्वभावेनास्थितिधर्म्मा स्वहेतोर्जातः स्यात् तदा तदसम्भवेऽपि नावतिष्ठेत। तस्य स्वभावेन स्थितिधर्म्मणः स्वहेतुभिरेवायमपरः स्वभावो नियमितो यदुत “परस्मात्” विरोधिनोऽग्न्यादे “र्व्विनाशः स्वयं भवतीति”। परस्मादिति कर्म्मणि ल्यप्‌लोपे पञ्चमी परमपेक्ष्य इत्यर्थः। स्वहेतुभिरेवायं नियमितस्वभावो जातो यथा त्वया विरोधिनमपेक्ष्य स्वयं निर्व्व(व)र्त्तितव्यमिति। तदुक्तम्-

“स्वभावोऽपि स तस्येत्थं येनापेक्ष्य निवर्त्तते।
विरोधिनं यथाऽन्येषां प्रवाहो मुग्दरादिकम्॥” इति।
ननु यद्यस्य विनाश विरोधिसन्निधाने स्वयमेव भवत्यहेतुकः प्राप्नोति, अहेतोश्च देशकालस्वभावनियमो न युक्त इत्यत आह- “न च” नैव विनाशो नाम विनष्टुरपरः स्वभावः, यतोऽयं दोषः स्यात्, किन्तु “भावच्युतिरेव विनाशः”। तस्याश्च निःस्वभावत्वाद्धेतुमत्ता नैव युज्यते। नहि सा तस्य भवति। केवलमसौ स्वयमेव न भवति। ततो भवितुरभावात् कस्य हेतुमत्तोपगम्यते ?।

सिद्धान्तवाद्याह- “नेदमनन्तरोक्तं विकल्पद्वयमतिक्रामति”। कीदृशं विकल्पद्वयम् ?। ‘किं नित्यो भावः ?’ इत्यादि। ननु च कालान्तरस्थितिरधर्म्मतामुपगच्छतो नैव नित्यविकल्पस्यावकाशः। न। तदुपगमेऽपि नित्यतैवोपगता भवति। तथा हि- यद्ययं संवत्सरस्थितिधर्म्मा स्वहेतुभिर्जनितस्तदा संवत्सरपरिसमाप्तौ योऽस्यादावुदयकाले संवत्सरस्थितिधर्म्मा स्वभावो यतोऽयं संवत्सरं स्थितः स एव तदन्तेऽपि। ततोऽपरं संवत्सरमवतिष्ठेत। तदन्तेऽपि प्रथमोत्पन्नसंवत्सरस्थितिधर्म्मस्वभावापरित्यागादपरापरसंवत्सरस्थितिप्रसङ्गात् कालान्तरस्थितिधर्म्मतोपगमेऽपि नित्यतैवोपगता भवतीति नित्यविकल्पो दुर्न्निवारः। विनाशहेतुसन्निधौ स्वयं निवर्त्तत इति चोपगमादनित्यविकल्पो नश्वरात्मताविकल्पः। तथा हि- विनाशहेत्वभिमतसन्निधौ स्वयं विनश्यतो योऽस्य स्वभावः स एव भावस्यैकरूपत्वादुत्पन्नमात्रस्येति तदैव विनाशप्रसङ्गात् कथमस्य कालन्तरस्थितिधर्म्मता सम्भवति ?। एवं विकल्पे कृते पाश्चात्यविकल्पोपगमे कालान्तरस्थितिरेवास्य त्रुट्यतीति नित्यविकल्प एवानेनोपगन्तव्यः। तत्र विनाशहेतुसन्निधौ स्वयं नाशोपगमे प्राङ्‍नित्यो भूत्वा पश्चादनित्यो विनश्वरस्वभावो भवतीति ब्रूते। “एवं च ब्रूवाणो भावद्वयं चाह”। वक्ष्यमाणापेक्षश्चकारः। कीदृशं भावद्वयम् ?। नित्यानित्यौ स्वभावौ भेदौ यस्य तथा। योऽसौ नित्यः स्वभावः प्राक्तनः तस्य नित्याभिमतस्य स्वयं पश्चान्नाशं ब्रूवाणः सर्व्वदा प्रतिक्षणमेव नाशं प्राह। अन्यथा पूर्व्वोक्तेन न्यायेन पश्चादपि नाशासम्भवात्। अथ प्रतिक्षणमस्य नाशो न भवति तदा पश्चादपि तदयोगात् सर्व्वदैवानाशं प्राहेति कृत्वा पूर्व्वस्मिन्नित्याभिमते स्वभावे विनाशहेतुरसमर्थोऽकिञ्चित्कर एव।

ननु च विनाशहेतोर्नैव सामर्थ्यमुपगतं परेन विरोधिसन्निधिमपेक्ष्य स्वयं नाशोपगमात्। न। अत एव तन्निबन्धनत्वप्रसङ्गात् नाशस्य। अन्यथा ह्यकिञ्चित्करः किमित्यसावपेक्ष्यते ?, हेतुभावस्यापेक्षालक्षणत्वात्। स्वहेतव एवात्रापराध्यन्ति यदकिञ्चित्करेऽपि तत्रापेक्षायां नियुञ्जत इति चेत्। कः पुनरयमस्थानाभिनिवेशः तेषां यत् तत्र तथा नियुञ्जते। तस्मादुपकार्यपेक्षायामेव हेतवो नियुञ्जानाः शोभन्ते। अन्यथा तेऽपि कार्यात्मानो नैव तन्नियोगमाद्रियेरन्। कथं चाकिञ्चित्करो विरोधी नाम ?। न ह्यस्याविरोधित्वाभिमताद्विशेषः कश्चिदिति यत्किञ्चिदेतत्।

यदप्युक्तं ‘यथाऽन्येषां क्षणिकवादिनामकिञ्चित्करमपि मुग्दरादिकमपेक्ष्य घटादिप्रवाहो निवर्त्तते तथाऽस्माकमपि कालान्तरस्थायी भावः’ इति तदपि परसमयानभिज्ञतयोच्यते। यतो नास्माकं प्रवाहो नाम क्षणव्यतिरिक्तोऽस्ति योऽकिञ्चित्करमुग्दरादिसन्निधौ निवर्त्तेत। क्षणा एव हि केवलं सन्ति। ते च स्वनिवृत्तौ न मुग्दरादिकमपेक्षन्ते, स्वरसत एव निरोधात्। या तु तेषां कपालादिवृत्तिलक्षणा पर्युदासवृत्त्या निवृत्तिः यस्यां सत्यामेकत्वाभिनिवेशिनो लोकस्य सदृशापरभावरूपस्य विभ्रमनिमित्तस्यापगमात् ‘निवृत्ता घटादयः’ इति व्यवहारः, तत्राकिञ्चित्करत्वं मुग्दरादीनां नैवास्ति, तभ्दाव एव तेषां भावात्। वेगवन्मुग्दरादिसहकारिणो घटक्षणात् परस्परोपसर्प्पणाद्याश्रयात् प्रत्ययविशेषात् सञ्जातातिशयात् कपालदेर्भवनधर्म्मत्वात् तस्य च तज्जन्नस्वभावत्वादिति।

स्वभावद्वयोपगमप्रसङ्गादिति परिजिहीर्षया पर आह- “न प्राग्” इत्यादि। कुत एतत् ?। “एकस्वभावत्वात्”। सर्व्वदैकस्वभावस्य सर्व्वदा नित्यतैव न पश्चादनित्यस्वभावतासम्भव इति।

सिद्धान्तवाद्याह- “स तर्हि भावः” सर्व्वदा नित्यस्वभावः स्वभावेन “नाशमनाविशन्” अप्रतिपद्यमानः कथं नैव नष्टो(कथं नष्टो) नाम ?। कुतः ? “तत्स्वभावविनाशयोः” नित्यस्वभावताया, विनाशस्य चानित्यरूपतायाश्च “अपरस्पररूपत्वात्” परस्परपरिहाररूपत्वात्। उपसंहरन्नाह- “यत एवं” स्थितिधर्म्मणां विनाशो नैव युज्यते तस्मात् सति अस्य विनाशे यद्यवश्यम्भावी कृतकरूपस्य सतो विनाश इष्यते परैस्तदा “विनाशस्वभावेन”- विनश्यति नावतिष्ठत इति विनाशः। कर्त्तरि बहुलवचनाद् घञ्। स स्वभावो यस्य तेन विनाशस्वभावेनास्थितिधर्म्मणा। “तेन” कृतकरूपेण सता वस्तुना स्वहेतुभ्यो “भवितव्यम्” अन्यथाऽवश्यम्भावितयोपगतस्य कृतकात्मनां सतां विनाशस्यैवायोगात्।

भवत्वेवम् इति चेत्। आह- “तथापि” स्वयं विनाशस्वभावत्वेऽपि न केवलमविनश्वरस्वभावत्वे स्वभावान्यथात्वासम्भवाद् व्यर्थो विनाशहेतुरिति प्रथमविकल्पोपन्यास एवोक्तम् न पुनरुच्यते। यत एवं “तेन” इत्यादि सुगमम्।

तदेवं विनाशं प्रत्यनपेक्षामसामर्थ्य-वैयर्थ्याभ्यां तद्धेत्वयोगेन कृतकलक्षणस्य सत्त्वस्य पूर्व्वाचार्यदर्शितां प्रतिपाद्य यथाऽसौ विपर्यये बाधकप्रमाणतामनुभवति तद दर्शयन्नाह- “तस्माद् विनाश” इत्यादि। प्रयोगस्त्वेवम्- ये यभ्दावं प्रत्यनपेक्षास्ते तभ्दावनियताः। तद्यथा-अन्त्या कारणसामग्री स्वकार्योत्पादने। अनपेक्षश्च कृतकरूपः सन् भावो विनाशेऽवश्यम्भाविविनाशतयोपगतः परैरिति स्वभावहेतुप्रसङ्गप्रयोगो विपर्यये बाधकं प्रमाणं पूर्व्वाचार्यप्रदर्शितम्। “ततः” तभ्दावनियतत्वे, नाशस्याकादाचित्कत्वादुदयानन्तरं नाश इति “यः सन्” कृतकलक्षणो भावः “स विनाशी” विनश्वरस्वभावो नश्वरतायाः साध्यधर्म्मस्य निवृत्तौ च कृतकलक्षणसत्त्वनिवृत्तिरिति कृत्वा कृतकलक्षणस्य सत्त्वस्य क्षणिकतायामन्वयव्यतिरेकसिद्धिः सम्पद्यते अनपेक्षयाऽनुक्रान्तसत्त्वक्षणिकत्वयोस्तादात्म्यसिद्धेः तन्निबन्धनयोरन्वयव्यतिरेकयोरपि निश्चयात्।

तदेवं पूर्व्वाचार्यान् प्रति अकृतकस्य सतोऽभावात् “सदकारणवन्नित्यम्” इति नित्यलक्षणविरहादेव न तन्नित्यत्वम्। यत्तु सद् उत्पत्तिमत् तद् उक्तेन न्यायेनावश्यंनाशितयोपगतं परैः कालान्तरस्थायि न भवतीति प्रति पादितम्।

[४४. सामान्येन सत्त्वक्षणिकत्वयोस्तादात्म्यव्याप्तिप्रदर्शनम्।]
यदा तु यत् सत् तत् क्षणिकमेवेति सामान्येनोच्यते कृतकाकृतकलक्षणं सतो भेदमनपेक्ष्य प्रौढवादितया कृतकस्यापि चावश्यम्भावी विनाश इति परोपगमो नापेक्ष्यते, तदा विनाशं प्रत्यनपेक्षत्वमेव सर्व्वस्य न सिध्यति। येषां हि विनाशो भवं(वन्) दृष्टो घटादीनां तेषामेव तद्धैत्वयोगत् तत्रानपेक्षा युज्यते। ये तु देशादिव्यवहिताः पर्व्वतादयो वा विनशामाविशन्तो न दृष्टाः तेषामवश्यं विनाशित्वोपगमनिबन्धनाभावादन्त्येऽप्ययं विनाशं प्रत्यनपेक्ष एव विनश्यन्नऽविशेषादादावपि तभ्दावनियत इति वक्तुमशक्यत्वात् तत्स्वभावसापेक्षत्वात्। विनाशं प्रत्यनपेक्षत्वासिद्धेरकृतकानां चाकाशादीनां विनाशिस्वभावसापेक्षाणामित्यनपेक्षया सतो नश्वरस्वभावताऽसिद्धेः अन्वयव्यतिरेकयोस्तन्निबन्धनयोरयोगमुत्पश्यन्नर्थक्रियाविरोधलक्षणमेव तदा बाधकं प्रमाणं तादात्म्यप्रसाधकमभिधानीयमिति मन्यमानः पूर्व्वपक्षमुत्थापयन्नाह- “स्वभावतो” नश्वरत्वेऽप्युक्तेन न्यायेन परिदृश्यमानविनाशानां घटादीनां “कश्चिद्” देशादिव्यवहितः पर्व्वतादिर्व्वाऽनुपलब्धविनाशः कृतकोऽपि सद्रूप आकाशादिर्व्वाऽकृतकः सन्न “ऽतत्स्वभावोऽपि” अविनाशिस्वभावोऽपि स्यात्। अपिशब्दः सम्भावनायाम्। तस्य विनाशिस्वभावसंसाधकप्रमाणाभावादाशङ्कयत एतत्। ततश्च विनाशिस्वभावसापेक्षत्वात् तदनपेक्षत्वमसिद्धमिति तद्वशात् साध्यस्य क्षणिकत्वस्य सत्त्वस्वभावत्वासिद्धेः तन्निबन्धना नान्वयव्यतिरेकसिद्धिरिति। किं पुनरत्राशङ्कानिमित्तं येन कश्चिदतत्स्वभावोऽप्याशङ्कयत इत्याह- “न हि सर्व्वः सर्व्वस्य स्वभावः” इति। विचित्रस्वभावा हि भावा दृश्यन्ते- केचित् सप्रतिघाः केचिदप्रतिघाः, तथा नीलानीलादिस्वभावाः, तथा केचिद्विनाशिनः अन्ये त्वविनाशिस्वभावाः शङ्कयन्त इति पूर्व्वपक्षाशङ्का।

न-‘कश्चिदतत्स्वभावोऽपि स्यात्’- इति आशङ्कनीयम्, तथाभावे ह्यक्षणिकत्वं तस्य स्यात्। तस्मिंश्च सत्यवस्तुत्वप्रसङ्गात् कुतोऽतत्स्वभावताशङ्का ?। कथं पुनरक्षणिकत्वेऽवस्तुत्वप्रसङ्गः ?। यतः सत्त्वस्य क्षणिकत्वस्वभावतयाऽन्वयव्यतिरेकसिद्धिरित्यत आह-“शक्तिर्हि” इत्यादि।

[४५. अर्थक्रियाकारित्वमेव सत्त्वं, तच्च क्षणिकानामेवेति।]
एवं मन्यते- इह तावदिदमेव विचारणीयम् किंलक्षणमेतद् भावानां सत्त्वं युक्तमिति। तत्र न सत्तायोगलक्षणमव्याप्तेः, सामान्यदिष्वभावात्। वन्ध्यासुतादिष्वपि भावाद् अतिव्याप्तेर्वा। वन्ध्यासुतादीनामसत्त्वात् कथं सत्तायोगः ? इति चेत्। न। इतरेतराश्रयात्। यतस्तेषामसत्त्वं सत्तायोगविरहादेव तद्विरहश्चासत्त्वादिति। यदि च सतामेव सत्तायोगः एवं तर्ह्यन्यत् सत्त्वलक्षणमभिधानीयम् सत्तायोगस्य च वैयर्थ्यम्, तत् एव वस्तुनः सत्त्वात्। सर्व्वार्थक्रियासामर्थ्यविरहात् सत्तायोगाभावस्तेषामिति चेत्। एवं सति यदेवार्थक्रियसामर्थ्ययुक्तं तस्यैव सत्तायोग इत्यर्थक्रियासामर्थ्यमेव भावलक्षणमायातमित्यपार्थकः। सत्तायोगः। “इत्थं च” एवम्। अन्यथा सामान्यादीनां कथं स्वरूपं सत्त्वं स्यात् ?। अर्थक्रियासामर्थ्यं तु सर्व्वेषामस्तीति तदेव भावलक्षणम्।

“उत्पादव्यव्यघ्नौव्ययुक्तं सत्” इत्येतदप्ययुक्तम्, ध्रौव्येणोत्पादव्यययोर्व्विरोधात् एकस्मिं(स्मिन्) धर्म्मिण्ययोगात्। कथञ्चिदुत्पादव्ययौ कथञ्चित् ध्रौव्यमिति चेत्। यथोत्पादव्ययौ न तथा ध्रौव्यम्, यथा च ध्रौव्यं न तथोत्पादव्ययाविति नैकं वस्तु यथोक्तलक्षणं स्यात्। ततोऽन्यस्य भावलक्षणस्यायोगात् शक्तेश्चान्तशः स्वज्ञानजननेऽप्युपगमात् परैः, अन्यथा षट्‍पदार्थादिव्यवस्थानायोगात् सैव भावलक्षणम्, सर्व्वशक्तिविरहः पुनरभावलक्षणम्।

सर्व्वग्रहणं च सर्व्वस्य वस्तुनो वस्त्वन्तरशक्तिविरहरूपत्वादभावतानिरासार्थम्। यस्य तु न क्वचिच्छक्तिः स एवैकान्तेनाभाव उच्यते।

शक्तिलक्षणमेव सत्त्वमक्षणिके स्यात् ततः क्षणिकात्मता सत्त्वस्य न सिध्यतीति कुतोऽन्वयव्यतिरेकौ ? इति चेत्, आह- “न चैवाक्षणिकस्य” क्वचित् कार्येऽन्तशो ज्ञानलक्षणेऽपि शक्तिरस्ति तत् कुतस्तस्य तल्लक्षणं सत्त्वमतीतादेरिव भविष्यति ?, यतः सत्त्वस्य क्षणिकात्मता न सिध्येत्।

ननु च शक्तेरतीन्द्रियत्वात् कारणानां कार्यरम्भनियमाभावाच्च कथं तद्विरहोऽक्षणिकस्य भवेत् यतोऽस्य सर्व्वशक्तिविरहलक्षणेनासत्त्वेन विरोधिना निराक्रियमाणं सत्त्वं क्षणिकात्मतामेवानुभवेत् यतोऽन्वयव्यतिरेकौ स्यातामित्यत आह- “क्रमयौगपद्याभ्याम्” इत्यादि। नैव प्रत्यक्षतः कार्यविरहाद्वा सर्व्वशक्तिविरहोऽक्षणिकत्वे उच्यते, किन्तु तव्द्यापकविरहात्। तथा हि- क्रमयौगपद्याभ्यां कार्यक्रिया व्याप्ता प्रकारान्तराभावात्। ततः कार्यक्रियाशक्तिव्यापकयोस्तयोरक्षणिकत्वे विरोधात् निर्वृत्तेस्तव्द्याप्तायाः कार्यक्रियाशक्तेरपि निवृत्तिरिति सर्व्वशक्तिविरहलक्षणमसत्त्वमक्षणिकत्वे व्यापकानुपलब्धिराकर्षति, विरुद्धयोरेकत्रायोगात्। ततो निवृत्तं सत्त्वं क्षणिकेष्वेवावतिष्ठमानं तदात्मतामनुभवतीति- ‘यत् सत् तत् क्षणिकमेव’ इत्यन्वयव्यतिरेकरूपाया व्याप्तेः सिद्धिर्निश्चयो भवति।

ननु च प्रकारान्तराभावात् कार्यमङ्कुरादिकं बीजादिना क्रमयौगपद्याभ्यामेव क्रियत इत्युच्यते स एव तु प्रकारान्तरविरहः कार्यात्मनः कुतः सिद्धः ?। प्रकारान्तरस्योपलब्धिलक्षणप्राप्तत्वे कथमत्यन्तासम्भवः ?। केवलं देशादिनिषेधमात्रमेव स्यात्। अनुपलब्धिलक्षणप्राप्तत्वेनाऽसत्तानिश्चयो विप्रकर्षिणामिति कुतस्तदभावसिद्धिः ?। ततः प्रकरान्तरेणार्थक्रियासम्भवात् क्रमयौगपद्यनिवृत्तावपि नार्थक्रियासामर्त्थ्यनिवृत्तिरिति कुतोऽक्षणिकत्वे सति सर्व्वसामर्थ्यविरहलक्षणमसत्त्वम् ?, यतः सत्त्वस्य क्षनिकात्मतयाऽन्वयव्यतिरेकौ स्याताम् ?। न। उभयथाऽप्यदोषात्। तथा हि-क्रमो नाम परिपाटिः कार्यान्तरासाहित्यं कैवल्यमङ्कुरादेः, यौगपद्यमपि तस्यापरैर्ब्बीजादिकार्यैः साहित्यं। प्रकारान्तरं चाङ्कुरादेः तदुभयावस्थाविरहेऽप्यन्यथाभवनम्। तस्य चाङ्कुरादिस्वभावस्यान्यसहितस्य केवलस्य वाऽभावे प्रत्यक्षबोधगम्यमाने सत्युपलब्धिलक्षणप्राप्त एव स्वभावः क्रमयौगपद्यभावबहिर्भूतो नोपलभ्यते। वस्तुनः उपलभ्यस्यान्यसाहित्ये कैवल्ये चापनीते तद्विविक्तदेशादिप्रतिभासिनः प्रत्यक्षस्योदयात् स्वभावानुपलम्भत एवाभावनिश्चयादिलक्षणव्यवहारवृत्तेः। तस्य चाङ्कुरादिभावस्यावस्थाद्वयबहिर्भावनिषेधे कयोश्चिद्देशकालयोः देशान्तरादौ क्रमेणाङ्कुरादिभाववतीरतरस्मिन् वा भावेऽपि न काचित् क्षतिः। ततः प्रत्यक्षत एव प्रकारान्तराभावसिद्धेः कथं क्रमयौगपद्याभ्यामर्थक्रियाशक्तिरव्याप्ता स्यात् ?। शास्त्रकारस्तु यथा प्रत्यक्षत एव प्रकारान्तराभावसिद्धिः तथा स्वयम् “एतेन क्रमाक्रमादयोऽपी”ति अतिदिशन् वक्ष्यति।

अनुपलब्धिलक्षणप्राप्तत्वेऽपि प्रकारान्तरस्य क्रमयौगपद्ययोरन्योऽन्यव्य वच्छेदरूपत्वादेवाश्रयसि (देवाभावसि)द्धि तथाहि-अन्योन्यव्यवच्छेदरूपाणामेकनिषेधेनापरविधानात् तस्याऽप्रतिषेधे विधिप्रतिषेधयोर्व्विरोधादुभयप्रतिषेधात्मनः प्रकारान्तरस्य कुतः सम्भवः ?। अत्र प्रयोगः- यत्र यत्प्रकारव्यवच्छेदेन यदितरप्रकारव्यवस्थानं न तत्र प्रकारान्तरसम्भवः, तद्यथानीलप्रकारव्यवच्छेदेनानीलप्रकारान्तरव्यवस्थायां पीते। अस्ति च क्रमयौगपद्ययोरन्यतरप्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्थानं व्यवच्छिद्यमानप्रकाराविषयीकृते सर्व्वत्र कार्यकारणरूपे वस्तुनीति विरुद्धोपलब्धिः व्यवच्छिद्यमानप्रकारेतरव्यवस्थानं च, प्रकारान्तरसम्भवश्च ततो बहिर्भावलक्षण इत्यनयोस्तत्त्वाऽन्यत्वरूपयोरन्योन्यपरिहारस्थितलक्षणत्वात्। न चात्रापि बाधकान्तराशङ्कयाऽनवस्थानमाशङ्कनीयम्, पूर्वप्रसिद्धस्य विरोधस्य स्मरणमात्रत्वात्। विरुद्धोपलब्धिषु बहिर्द्धर्म्मिणि हेतोः सभ्दावमुपदर्श्य विरोधसाधनमेव बाधकम्, तच्चेहास्ति। ततो विरुद्धयोरेकत्रासम्भावात् प्रतियोग्यभावनिश्चयः शीतोष्णस्पर्शयोरिव भावाभावयोरिव वेति कुतोऽनवस्था ?।

तत्र न क्रमेणाक्षणिकः कार्याणि करोत्यविशेषादकारकावस्थायामिव। सहकार्यपेक्षा च द्विविधस्यापि सहकारित्वस्यायोगादनुपन्यसनीया। सर्व्वेषां चैकक्रियाकाल एव क्रियाप्रसक्तेः, तत्कारकस्य स्वभावस्य तदैव भावात्। नापि युगपत्, प्रत्यक्षादिविरोधात्, पुनस्तत्क्रियाप्रसङ्गाच्च। कृतत्वान्नेति चेत्, न, सामर्थ्यानपायात्। अन्यथा प्रागप्यकारकरूपविशेषादक्रिया स्यात्। कृतस्य कर्त्तुमशक्यत्वादिति चेत्। शक्ताशक्ततया तर्ह्येकत्रैव कार्ये भेदप्रसङ्ग शालिकोद्रवबीजादेरिव। नित्यश्च यदा युगपत् करोति ततः प्रागपि भावात् तदैव तत्क्रियाप्रसङ्गः पुनस्ततोऽपि पूर्व्वतरम् इत्येवं न कदाचिद्युगपत् क्रिया स्यात्। पृर्व्वोत्तरकालयोश्चैकदा युगपत्कारिणोऽन्यदा सर्व्वार्थक्रियासामर्थ्यविरहलक्षणमसत्त्वं स्यादिति कथं न क्षणिकता ?। क्रियोपगमे वा क्रमपक्ष एव। तत्र चोक्तो दोषः। एवमक्षणिकत्वे सति चक्षुराद्यायतनानामसत्त्वप्रसङ्गात् क्षणिकतायामेव सत्त्वमिति यत् सत् तत् क्षणिकमेवेति सतो नश्वरात्मतासिद्धेः अन्वयव्यतिरेकरूपव्याप्तिसिद्धिरिति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project