Digital Sanskrit Buddhist Canon

हेतोः सामान्यनिरूपणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Hetoḥ sāmānyanirūpaṇam

श्रीमदर्चटविरचिता
॥ हेतुबिन्दुटीका॥

॥नमः सर्वज्ञाय॥

[जिनमनस्कारेण मङ्गलम्।]

यः सञ्जातमहाकृपो व्यसनिनं त्रातुं समग्रं जनम्,
पुण्यज्ञानमयं प्रचित्य विपुलं हेतुं विधूतश्रमः।
कृत्स्नज्ञेयविसर्प्पि[निर्मलतरप्रज्ञोद]याद्रिं श्रितो
लोके हार्द्दतमोपहो जिनरविर्मूर्ध्ना नमस्यामि तम्॥१॥

[धर्मकीर्तिवचसां सरसतमत्वख्यापनम्।]
वरं हि धार्म्मकीर्त्तेषु चर्व्वितेष्वपि चर्व्वणम्।
निष्पीडिताऽपि मृद्वी[का ननु स्वादं जहा]ति किम् ?॥२॥

[स्वलाघवं प्रख्याप्य ग्रन्थविवरणप्रतिज्ञा।]
न्यायमार्ग्गतुलारूढं जगदेकत्र यन्मतिः।
जयेत् तस्य क्व गम्भीरा गिरोऽहं जडधीः क्व च ?॥३॥
तथापि मन्दमतयः सन्ति मत्तो[ऽपि केचन।
तेषां कृते] मयाप्येष हेतुबिन्दुर्व्विभज्यते॥४॥

[आदिवाक्यस्य प्रयोजनप्रकटनम्।]
“परोक्षे”- त्यादिना प्रकरणारम्भे प्रयोजनमाह।
तच्च श्रोतृजनप्रवृत्त्यर्थम् इति केचित्।
तदुक्तम्[म्-

“सर्वस्यैव हि शा]स्त्रस्य कर्मणो वाऽपि कस्यचित्।
यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यताम्॥”

इति। तदयुक्तम्। यतोऽस्य प्रकरणस्येदं प्रयोजनमिति [प्रदर्शने प्रयो] जनविशेषं प्रति उपायतां प्रकरणस्य निश्चित्यानुपाये प्रवृत्त्यसम्भवात् प्रेक्षावतां तदर्थितया प्र[करणश्रवणादौ प्रवृत्तिः] स्यादिति तदभिधानस्यार्थवत्ता वर्ण्यते। न चैतद् युक्तम्। यतः प्रेक्षावतां प्रवृत्तिः प्रयोजनार्थिनां तदुपाये तभ्दावनिश्चयात्। यथा कृषीव[लादीनां सस्या]द्युपाये बीजादावऽबीजादिविवेकेनाऽवधृतबीजादिभावानाम्। अन्यथा ह्यनिश्चितोपायानामुपेयार्थिनां प्रवृत्तौ प्रेक्षावत्तैव हीयेत। उपेये तु [प्रमा]णव्यापारासम्भवादनिश्चयेऽपि विवेचितोपायाः प्रतिबन्धवैकल्ययोरसम्भवे ‘योग्यमेतद्विवक्षितं कार्यं निष्पादयितुम्’ इति सं[भावनया प्रवृत्तौ] प्रेक्षावत्तातो न हीयेरन्।

निश्चयश्च प्रमाणादेव। न च प्रयोजनवाक्यस्य प्रामाण्यमस्ति, शाब्दानां बहिरर्थे प्रतिबन्धाभावात्। विवक्षायां [तस्य प्रामाण्येऽपि यथा] वस्तुप्रवृत्तिनियमाभावात् न ततः प्रकरणस्य प्रयोजनविसे(शे)षं प्रति उपायतानिश्चयः समस्ति। न हि ये यथा यमर्थं विवक्षन्ति ते तथैव तमनु[तिष्ठन्ति वि]संवादनाभिप्रायाणामन्यथाऽभिधायान्यथाप्रवृत्तिदर्शनाल्लोके सर्व्वत्रानाश्वासात्।

प्रयोजनविशेषोपन्यासात् प्रकरणस्य तदुपायता[विषये संशयः ज]न्यते ततस्तभ्दावनिर्धारणाय कृषीवलादेरिव बीजाद्यवधृतये प्रवृत्तिर्युक्तेति चेत्; न, प्रयोजनविशेषोपायतासंशयस्य तदभिधा[नात् प्रागपि] भावात्। तत्साधकबाधकप्रमाणाभावे तस्य न्यायप्राप्तत्वात्। अनुमानादिव्युत्पत्त्यर्थानां च प्रकरणानां दर्शनात् किमस्यानुमा[नव्युत्पादनं प्र]योजनमन्यद्धा, न वा किञ्चिदपीत्येवंरूपश्च संशयः प्राक् प्रवर्त्तमानः केन निवार्येत। अपि च किमिदं निष्प्रयोजनम्, उत प्रयोजन[वत्, अथास्मदभिम]तेन वा प्रयोजनेन तद्वदिति जिज्ञासोः प्रवृत्तिसम्भवे व्यर्थ एव प्रयोजनवाक्योपन्यासः।

तस्माद् ‘यत् प्रयोजनरहितं वाक्यम्, तदर्थो वा, न तत् प्रेक्षावताऽऽरभ्यते कर्तुं प्रतिपादयितुं वा। तद्यथा दशदाडिमादिवाक्यं काकदन्त[परीक्षा च। निष्प्रयोजनं चेदं] प्रकरणं तदर्थो वा’ इति व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानस्य तदसिद्धतोभ्दावनार्थमादौ प्रयोजनवाक्योपन्यासः।

[प्रकरणतदभिधेययोः प्रयोजनचिन्ता।]
तत्र “तद्युत्पादनार्थम्” इति वाक्येन स्वयमस्य प्रकरणस्य प्रयोजनमाह। यथास्वमभिधेयप्रतीतिर्हि वाक्यस्य प्रयोजनम्। तच्चेहास्ति पदानामवान्तरवाक्यानां च परस्परसंसर्गात् समासार्थप्रतीतेः। तथा हि-अनुमानमत्र प्रकरणे व्युत्पाद्यत इति तद् अभिधेयम्। तस्यैव तच्छब्देन सम्बन्धात्। यद्यपि परोक्षार्थप्रतिपत्तौ गु[णभूतमनु]मानं तथापि वक्तुरभिप्रायानुविधायितया शब्दवृत्तेः तच्छब्देन परामृश्यते। अन्यथा प्रधानसंस्पर्सो(र्शो)पि कथं स्यात् ?। शब्दानां स्व[भावतः] सम्बद्धा(न्धा)योगात्। “पक्षधर्म्म” इत्यादिना चानुमानस्यैव व्युत्पादनात्। तस्य व्युत्पत्ति [रविपरीतस्वरू] पप्रतीतिरस्य प्रकरणस्य प्रयोजनम्, तत्साध्यत्वात्। अत एव चानुमानव्युत्पत्तिविषयं प्रकरण[व्यापारं प्रतिपाद]यितुं णिचा निर्दिशति-“तद्वयुत्पादनार्थम्” इति। ततश्च प्रकरणप्रयोजनयोः साध्यसाधनलक्षणः सम्बन्धोऽप्युक्तो भवति। यद्यपि शब्दवृत्तेना[नुमानव्युत्पत्तिवि]षयस्य प्रकरणव्यापारस्य प्राधान्यं तथापि वस्तुवृत्तेन व्युत्पत्तेरेव प्रधानता तस्यास्तत्साध्यत्वात्। इतरस्य च तदुपायत्वेनाप्रधानत्वात्। तस्मादनुमानव्युत्पत्ति रेव प्रयोजनतया प्रतीयते न प्रकरणव्यापार इति।

“परोक्षार्थप्रति[पत्तेः अमुमानाश्रय]त्वात्” इत्यनेन तु प्रकरणार्थस्यानुमानलक्षणस्य प्रयोजनमाह। न हि वाक्यस्य स्वार्थप्रतीतिलक्षणं फलमस्तीत्येता[वतैव प्रेक्षावान् प्रव]र्त्ततेऽपि तु तदभिधेयार्थस्य पुरुषार्थोपयोगित्वे सति। तच्चेहास्ति यतः परोक्षार्थस्य या प्रतिपत्तिः-निश्चयः-तस्या अनुमा[नं-त्रिरूपलिङ्गम्] कारणे कार्योपचारात्। अनन्योपायसाध्यतां दर्शयितुं परमतनिरासार्थम् आश्रयः-कारणम्, अनुमानमाश्रयो यस्येति सामान्येन विगृह्य। [तदनु च] कस्यानुमानाश्रयत्वादिति विशेषापेक्षायाम्-यद्यपि परोक्षार्थप्रतिपत्तिशब्दसम्बन्धे स्त्रीत्वं गम्यते तथापि तत् पदसंस्कारवेलायां बुद्ध्यसंनिहितत्वात् बहिरङ्गमिति न स्त्रीप्रत्ययनिमित्तं यथा भूतमियं ब्राह्मणी, आवपनमियमुष्ट्रिकेति।

[सर्वपरोक्षप्रतीतेर्लिङ्गजत्वादेवानुमानत्वसूचनम्।]
अनेन च सर्व्वा परोक्षा[र्थ]प्रतिपत्तिः प्रमाणभूता, अन्यस्मात् तत्प्रतिपत्त्ययोगात्, त्रिरूपलिङ्गाश्रयैवेत्युक्तं भवति अनुमानाश्रयत्वादेवेति अवधारणात्। [ततश्च शब्दादी]नां सति प्रामाण्येऽनुमानता, अन्यथा तेषामपि व्युत्पाद्यताप्रसङ्गो निमित्तस्य समानत्वात्।

तथा हि-सर्व्वा परोक्षार्थप्रतिपत्तिः प्र[माणभूता], न स्वतन्त्रा भवति। तस्याः स्वार्थप्रतिबन्धाभावेन नियमेन तत्संवादायोगात्। अविसंवादलक्षणत्वाच्च प्रमाणस्य। अन्यतोऽपि [यदि स्या]त् सर्व्वतः सर्व्वप्रतिपत्तिप्रसङ्गात् धर्म्यसम्बन्धेऽपि सर्व्वत्र प्रतीतिं जनयेत्, प्रत्यासत्तिविप्रकर्षाभावात्। एवम्भूतश्च त्रिरूप[लिङ्गमेवार्थो भव]तीति सर्व्वा परोक्षार्थप्रतिपत्तिस्त्रिरूपलिङ्गजत्वेनानुमानात् न भिद्यत इति। एष चार्थः “पक्षधर्म्मस्तदंशेन व्याप्तो हेतुः”, कस्य ?, परोक्षा[र्थप्रतिपत्ते]रिति प्रकृतेन संबन्धाद् दर्शितः, पक्षधर्म एव तदंशेन व्याप्त एव च परोक्षार्थप्रतिपत्तेर्हेतुरित्यवधारणात्।

[स्वलक्षणस्यैव वस्तुत्वं न सामान्यस्येति स्थापनम्]
अर्थग्रहणं तु परोक्षार्थप्रतिपत्तेरित्य[नुमा]नस्यापि स्वलक्षणविषयं प्रामाण्यं दर्शयितुम्। अर्थक्रियासमर्थो ह्यर्थः, स्वलक्षणं चैवमात्मकम्। अत एव-“वस्त्वधिष्ठानत्वात् प्रमाणव्यवस्थायाः”-[इति व]क्ष्यति। अन्यथाऽनुमानात् तत्र प्रवृत्तिर्न्न स्यादर्थक्रियार्थिनः।

सामान्यस्यावस्तुत्वेऽपि ज्ञानमात्रलक्षणत्वात् तदर्थक्रियायाः तस्याश्च तदु[त्पाद्य]त्वेन सिद्धत्वात्। न हि जातिर्दाहपाकादावुपयुज्यते, स्वलक्षणस्यैव तत्रोपयोगात्। तत्सम्बन्धात् तत्र प्रवृत्तिरिति चेत्; न, नित्यस्यानुपकार[कत्वेन] केनचित्सम्बन्धाभावात्। सत्यपि च सम्बन्धे कथमन्यप्रतिपत्तावन्यत्र प्रवृत्तिः, अतिप्रसङ्गात्। समवायस्य सूक्ष्मत्वेनानवसितविवेकस्यावसायाद् भ्रान्त्या तत्र प्रवृत्तिरिति चेत्; एवं तर्हि भ्रान्तिमात्रमेवास्तु, किमन्तर्गडुना सामान्येन ?। निर्ब्बीजभ्रान्त्ययोगादिति चेत्; ता एव व्यक्तयस्तदेकका[र्यकारिण्यो भ्रान्तेर्बीजम्]। वर्ण्णाकृतिसमानाकारं हि सामान्यज्ञानम्। न च सामान्यं तद्रूपम्, तत् कथं तद् भ्रान्तेर्ब्बीजम्। सादृश्यनिबन्धना हि भ्रान्तिरिष्यते परैः। व्यक्तय एव चा[समानजा]तीयव्यावृत्ताः सामान्याकारज्ञानस्वरूपास्ततस्ता एव भ्रान्तिबीजम्, अतद्रूपव्यावृत्तेस्तासु भावात्। वस्तुभूतस्य तु सामान्यस्य सम्बन्ध[आसंभवे]न तासु भावायोगाच्च।

यैस्तु व्यक्त्यात्मकमेव सामान्यं कल्पितं तैः स्वलक्षणविषयमनुमानस्य प्रामाण्यमभ्युपगतमेव भवति। स्वलक्षणात्मकं तु सामान्यं कथमनुमाने प्रतिभासते इति चिन्त्यम्। न च व्यक्तिरूपमपास्यापरं सामान्यस्य रूपमिष्यते, वैशेषिकदर्शनोपगमप्रसङ्गात्। ...........................................................................................................

[१. हेतोः सामान्यनिरूपणम्।]

[१. हेतोस्त्रित्वेन व्याप्तिः कथं फलितेति चर्चा।]

.............हि कथितम्। तत्र कार्यस्वभावयोर्व्विधिसाधनत्वान्न प्रतिषेधे साध्ये व्यापारः। अनुपलब्धितोऽपि न हेत्वन्तराभावनिश्चयो यतः सा चतुर्द्धाऽवस्थिता स्वभाव[कारण]व्यापकानुपलब्धयो विरुद्ध विधिश्चेति। तुल्ययोग्यतारूपस्यैकज्ञानसंसर्गिणः स्वभावानुपलब्धिरन्योपलब्धिरूपा अभावव्यवहारहेतुरिष्यते। न [च हेत्वन्]तरमत्यन्ताभावतयोपगतमनुक्रान्तरूपम्, यदि हि स्याद्देशादिनिषेध एवास्य स्यात् नात्यन्ताभावः। कारणव्यापकानुपलब्धी तु सिद्धे कार्य[कारण]व्याप्यव्यापकभावे भवतः। न च हेत्वन्तरेऽत्यन्तासत्तयाङ्गीकृते प्रकारोऽयं सम्भवति। तत् कथं ते तदभावं गमयिष्यतः। विरोधोऽप्यविकल[कारणस्य] भवतोऽन्यभावेऽभावादवगम्यत इति विरुद्धोपलब्धिरप्यसम्भविनी। सम्भवे वा कारणानुपलब्ध्यादीनां कथमत्यन्तनिषेधः ? इत्याशङ्कयाह- “हेत्वाभासास्ततोऽपरे” इति। “ततः” त्रिविधाद्धेतोः “अपरे” अन्ये “हेत्वाभासाः” यतस्ततस्त्रिधैव स इति।

एवं मन्यते-इह यद् यत्र नियम्यते [तद्धि]पर्ययेण तद्विपक्षस्य व्याप्तौ स नियमः सिद्ध्यति। यथा यत् सत् तत् क्षणिकमेवेति सत्त्वस्य क्षणिकेषु नियम उच्यमानः सत्त्वविपर्ययेणा[स]त्त्वेन क्षणिकविपक्षस्याक्षणिकस्य व्याप्तौ सिद्ध्यति। एवमिहापि त्रित्वे हेतुर्नियम्यमानो हेतुविपर्ययेण हेत्वाभासत्वेन त्रिसंख्याबा[ह्यस्यार्थ]स्य व्याप्तौ त्रिसंख्यायामेव नियतो भवति। ततस्त्रिविधहेतुव्यतिरिक्तानामर्थानां हेत्वाभासतां दर्शयति। तेन स्वभावविरुद्धोपलब्ध्या [कार्य-स्व] भावानुपलम्भव्यतिरिक्तानामर्थानां हेतुत्वाभावनिश्चय इति। हेतुतदाभासयोश्च परस्परपरिहारस्थितलक्षणतयैव विरोधो [हेतुल]क्षणप्रतीतिकाल एव प्रतिपन्नः। तदात्मनियतप्रतिभासज्ञानादेव तद्विपरीतस्यान्यतया तदाभासताप्रतीतेः, परस्परमितरेतररूपाभाव[निश्च]यात्। तत्र त्रिविधहेतुव्यतिरिक्तेष्वर्थेषु हेत्वाभासत्वमुपलभ्यमानं स्वविरुद्धं हेतुत्वं निराकरोति। ते च हेतुत्रयबाह्या अर्था नात्यन्तासत्त[योप] गता नापि हेतुत्वं तेषु निषिध्यमानं, केवलं व्यामोहात् हेतुत्वमन्यत्र प्रसिद्धमेव तत्राऽऽरोपितमाशङ्कितं वा तद्विरुद्धोपलम्भादपसार्यते। तत् किमुच्यते- “[अत्यन्तासंभ]विनः कथं विरोधः” इति। न च सहानवस्थानलक्षण एव विरोधो येन तन्न्यायः सर्व्वत्रोपवर्ण्येत। नापि यद् यत्र प्रतिषिध्यते तस्य तत्रैव विरो[धः प्रति]पत्तव्यो येन “कथमसतः केनचिद् विरोधगतिः?” इति चोद्येत। न हि नात्र शीतस्पर्शोऽग्नेरिति साध्यधर्मिण्येव शीतस्पर्शस्याग्निना विरोध[संब]न्धो (?)यथा तु अस्यान्यत्र प्रतीतविरोधस्याग्निना साध्यधर्म्मिणि निषेधः तथा हेत्वाभासत्वोपलम्भाद् हेतुत्रयबाह्येष्वर्थेषु हेतुत्वनिरासः। [अत्यन्तास]तो ऽपि च लाक्षणिको विरोधः प्रतीयते यथा क्षणिकत्वेनाक्षणिकत्वस्य तस्य वस्तुनि क्वचिदप्यसम्भवात्, भावेन वा यद्वदभावस्य सर्व्व[शक्तिविरहल]लक्षणस्येत्यलं दुर्म्मतिविष्पन्दितेष्वत्यादरेणेति स्थितमेतत्-त्रित्वे हेतुत्वं नियम्यमानं [तद्विपर्ययस्या]ऽपि च व्याप्तौ सत्यां तत्र नियतं भवतीत्यभिप्रायवता विपर्ययव्याप्तिं प्रदर्शयितुमिदमुक्तम्-“हेत्वाभास(सा)स्ततोऽपरे” इति।

[२. त्रिविधबाह्यार्थानां हेत्वाभासत्वेन व्याप्तेश्चर्चा।]
तत्रैतत्स्यात्-क्षणिकविपक्ष[स्य सत्त्व]विपर्ययेण व्याप्तिर्बाधकप्रमाणवशादवसिता इह तु त्रिसङ्ख्याबाह्यानामर्थानां हेत्वाभासत्वेन व्याप्तिः कतरेण प्रमाणेनावसितेत्य [त्राह]-“अविनाभावनियमात्” इति। त्रिविधहेतुव्यतिरिक्ते लिङ्गतयोपगते शङ्कयमाने वा वस्तुनि पक्षधर्म्मतासभ्दावेऽप्यविनाभावाभावा[दित्यर्थः]। तथा च वक्ष्यति-“न स त्रिविधाद्धेतोरन्यत्रास्तीत्यत्रैव नियत उच्यते” इति। अविनाभाववैकल्यं च हेत्वाभासत्वेनासिद्धविरुद्धानैकान्तिकसामान्य[धर्मे]ण व्याप्तं प्रमेयत्वादौ निश्चितमिति हेत्वाभासत्वे साध्येऽविनाभाववैकल्यं स्वभावहेतुः।

अविनाभाववैकल्यं च त्रिविधहेतुव्यतिरिक्तत्वादेव [तदन्येषां] [व्याप]कानुपलब्धितः सिद्धम्। तथा हि-तादात्म्यतदुत्पत्तिभ्यामविनाभावो व्याप्तः, तयोस्तत्रावश्यंभावात्। तस्य च तयोरेव भावादतत्स्वभावस्यातदुत्पत्तेश्च [तदनायत्तत]या तदव्यभिचारनियमाभावात्। तदुक्तम्-

“कार्यकारणभावाद्वा स्वभावाद्वा नियामकात्।
अविनाभावनियमोऽदर्शनान्न न दर्शनात्॥
[अवश्यंभाव]नियमः कः परस्यान्यथा परैः।
अन(अर्था)न्तरनिमित्ते वा धर्म्मे वाससि रागवत्॥”

इति।
रूपादिनाऽपि हि रसादेरविनाभावो न स्व[तः किन्तु स्वकार]णाव्यभिचारद्वारक इति तत्कारणोत्पत्तिरेवाविनाभावनिबन्धनम्। अन्यथा तदनायत्तस्य तत्कारणानायत्तस्य वा तेना[विनाभावकल्प]नायां सर्व्वस्य सर्वार्थैरविनाभावः स्यात्, अविशेषात्। एकार्थसमवायनिमित्तो रूपरसादेरविनाभाव इति चेत्। ननु समवायोऽप्याधार्या[धार]भूतानामुपवर्ण्यते। स चाधाराधेयभावस्तदात्मानुपकारेऽतिप्रसङ्गतो न सिध्यतीत्येकसामग्र्यधीनतैवैकार्थसमवायो[ऽवसे]यः। अन्यो वा वस्तुभूतः संबन्धोऽसम्भवी तथा सम्बन्धपरीक्षायां विस्तरतः शास्त्रकृता प्रतिपादिमेवेति तत एवावधार्यम्। अस-न वा ज(नन्वसत्यपि ज)न्यजनकभावे, तादात्म्ये वा, तेनैवाविनाभावो नान्येनेत्यत्र वस्तुस्वभावैरेवोत्तरं वाच्यम् ये एवं भवन्ति नास्माभिः, के[वलं वयं द्रष्टार] इति चेत्; आकस्मिकस्तर्हि स वस्तूनां स्वभाव इति न कस्यचिन्न स्यात्। न ह्यहेतोर्द्देशकालद्रव्यनियमो युक्तः। [तद्धि किञ्चित् क्वचिदुप] नीयेत न वा यस्य यत्र किञ्चिदायत्तमनायत्तं वा। अन्यथा विशेषाभावादिष्टदेशकालद्रव्यवदन्यदेशादिभावः के[न वार्येत विशेषाभावात्। ततो य]द्येनाविनाभूतं दृश्यते तस्य तेनाव्यभिचारकारणं तत्त्वचिन्तकैरभिधानीयम्, न तु पादप्रसारिकाऽवलम्बनीया। तच्चाव्यभिचारकारणम् यथोक्तादन्यन्न युज्यते इति तद्विकला न हेतुलक्षणभाज इति। तथा चाह-

“संयोग्यादिषु येष्वस्ति प्रतिबन्धो न तादृशः।
न ते हेतव [इत्युक्तं] व्यभिचारस्य संभवात्॥” इति।

अत्र प्रयोगः-यस्य येन सह तादात्म्यतदुत्पत्ती न स्तो न स तदविनाभावी, यथा प्रमेयत्वादिरनित्यत्वादिना, न स्तश्च केनचित् तादात्म्यतदुत्पत्ति स्वभावकार्यव्यतिरेकिणामर्थानामिति व्यापकानुपलब्धिः। स्वभावानुपलब्धिस्तु स्वभावहेतावन्तर्भावितेति तस्याः [तादात्म्य]लक्षण एव प्रतिबन्धः। व्यापककारणानुपलब्धी तु तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धवशादेव व्याप्यकार्ययोर्निवृत्ति साधयतः।

[तदुक्तम्-
“तस्मा]त् तन्मात्रसंबद्धः स्वभावो भावमेव वा।
निवर्तयेत्कारणं वा कार्यमव्यभिचारतः॥” इति।

तदेवं हेतुलक्षणं १ संख्यानियमः २ तदुपदर्श[कं च प्रमाण]म् ३ अत्र श्लोके निर्दिष्टमिति।

[३. अविनाभावनियमादित्यस्य प्रकारान्तरेण व्याख्यानम्]
अथवा ‘त्रिधैव सः’ इति स पक्षधर्म्मस्त्रिप्रकार एव स्वभावकार्यानुपलम्भाख्यस्तदंशेन व्याप्तो नान्यः। [स] त्रिप्रकारस्तदंशेन व्याप्त एवेति सम्बन्धः। किं कारणम् ?। “अविनाभावनियमात्”। अविनाभावस्य-व्याप्तेः। त्रिविध एव पक्षधर्म्मे नियमात्। त्रिविधस्य च पक्षधर्म्मस्याविनाभावनियमात्। तेन च [स्व]भावकार्यानुपलम्भात्मकत्रिविधपक्षधर्म्मव्यतिरिक्ता न तदंशेन व्याप्ता इति। त्रिविधश्च कार्यस्वभावानुपलब्धिरूपः पक्षधर्म्मस्तदंशेन व्याप्त एवेति न तस्याहेतुत्वमित्युक्तं भवति। ततस्त्रिविधहेतुबाह्येष्ववि[नाभा]बाद्धेतुव्यवहारं कुर्व्वन्तः, त्रिविधे च हेतावविनाभावस्यावश्यम्भावा[भावा]दहेतुत्वमाचक्षाणा निरस्ता भवन्ति।

[४. हेत्वाभासलक्षणानभिधानेपि तत्सूचनम्।]
तत्रैतत् स्यात्-हेत्वाभासानमपि [लक्षणम्]भिधानीयं तत्र शिष्याणां हेतुव्यवहारनिवृत्तय इत्याह “हेत्वाभासास्ततोऽपरे” इति। “ततः” पक्षधर्म्मस्तदंशेन व्याप्त इति हेतुलक्षणाद् “अपरे” अ[न्ये त]लक्षणविकला हेत्वाभासा गम्यन्त एवेति न तल्लक्षणमुच्यते। तथा हि-“पक्षधर्म्मः” इत्युक्ते यत्र पक्षधर्म्मता नास्ति न स हेतुः। “तदंशेन व्याप्तः” इति वचने यत्र तदंशव्याप्तिविरहो विपर्ययव्याप्तेर्व्यापकस्य वा तत्रावश्यम्भावाभावात्, ते हेतुरूपविकलतया “हेत्वाभासाः” असिद्धविरुद्धानैकान्तिका गम्यन्त एव। तथा हि-यल्लक्षणो योऽर्थः शिष्यस्य व्युत्पादितः तल्लक्षणविरहिते न तद्वयवहारं स्वयमेव प्रवर्तयिष्यति अ[तद्रूप]परिहारेणैव तद्रूपप्रतिपत्तेरिति न तत्र यत्नः फलवान् भवति। यत्त्वन्यत्र हेत्वाभासव्युत्पादनं तन्मन्दबुद्धीनधिकृत्य। इदं तु प्रकरणं विपुलमतीनुद्दिश्य प्रणीतम् “संक्षेपतः” इति वचनात्। त एव हि संक्षेपोक्तं यथावदवगन्तुं क्षमाः न मन्दमतयः, तेषां विस्तराभिधानमन्तरेण यथावदर्थप्रतिपत्तेरभावात्। अत एवार्थाक्षिप्तोपन्यासपूर्वकमेव हेत्वाभासलक्षणं तत्रोपवर्णितमिति। तदत्र व्याख्याने हेतुलक्षणं १ हेतुसंख्यानियमः २ तस्य च त्रिविधस्य हेतुत्वावधारणं ३ तदुभयकारणं ४ श्लिष्टनिर्द्देशा[ख्यानं ५] हेत्वाभासलक्षणानभिधानकारणं ६ चेति षडर्थाः श्लोकेऽत्र निर्दिष्टा इति।

किञ्च-इदमपि साधु दृश्यते-“त्रिधैव” कार्यस्वभावानुपलब्धि[भेद]भिन्नः स हेतुः। तथा, त्रिधैव पक्षधर्म्मान्वयव्यतिरेकरूपभेदात् “त्रिप्रकार एव” त्रिरूप एव। तदंशव्याप्तिवचनेनान्वयव्यतिरेकयोरभिधानात्। नाबाधितविषयत्वादिरूपान्तरयोग्यपि स हेतुः। कुतः ? यतः “हेत्वाभासास्ततोऽपरे” “ततः” त्रिविधात् स्वभा[वा]देः, पक्षधर्म्मादिरूपत्रययोगिनो वा “अपरे” अन्ये संयोग्यादयोऽबाधितविषयत्वादिव्यतिरिक्तरूपवन्तो वा। कस्माद् ?। अविनाभावस्य अत्रैव त्रिविध एव त्रिरूप एव च हेतौ नियमादन्यत्र स्वभावादिव्यतिरिक्त(क्ते) रूपान्तरसम्भविनि वा अविनाभावाभावादित्यर्थः। न हि स्वभावादिव्य[ति]रिक्ते प्रतिबन्धनिबन्धनस्याऽविनाभावस्य संभवः तद्वति वा रूपान्तरस्य। यथा चा(च) सत्येवाविनाभावे रूपान्तरस्य न सम्भवस्तथा “षड्‍लक्षण” इत्यादिना वक्ष्यति।

[५. दिङ्‍नागानुसारेण पक्षशब्दस्य धर्मिमात्रपरत्वम्।]
“पक्षधर्म्मः” इत्यत्र हेतुलक्षणेऽपि क्रियमाणे यदि समुदायः पक्षे(क्षो) गृह्यते योऽनुमानविषयस्तदा सर्व्वो हेतुरसिद्धः, सिद्धौ वाऽनुमानवैयर्थ्यमित्याह “पक्षो धर्म्मी” इति। कथं पुनः समुदायवचनः पक्षशब्दो धर्म्मिमात्रे वर्तत इति चेत्? “अवयवे समुदायोपचारात्”। पक्षाख्यस्य हि समुदायस्य द्वाववयवौ धर्म्मी धर्म्मश्च। तदत्र धर्म्मिमात्रे समुदायोपचारात् पक्षशब्दो वर्तते। तदेकदेशत्वं च समुदायोपचारनिमित्तमिति न साध्यधर्म्मिणोऽन्यत्र तत्प्रसङ्गः। तदुक्तम्-

“समुदायस्य साध्यत्वात् धर्म्ममात्रे [च]धर्म्मिणि।
अमुख्येऽप्येकदेशत्वात् साध्यत्वमुपचर्यते॥”इति।

[६. दिङ्नागव्याख्याने ईश्वरसेनाक्षेपस्ततुद्धारश्च।]
तदेतदाचार्यीयं व्याख्यानमीश्वरसेनेनाक्षिप्तं परिहर्तुं पूर्व्वपक्षयन्नाह “प्रयो[जने]” त्यादिना।

“नर्त्ते, प्रयोजनादिष्ट्रं(ष्टं) मुख्यशब्दार्थलङ्घनम्।”

इत्यसति प्रयोजने नोपचारो युक्तः। ततो धर्म्मिधर्म्म इत्येवास्त्विति परः। “न” प्रयोजनाभावः। कुतः ? सर्व्वश्चासौ विवादाश्रयोऽन्यो वा धर्म्मी यस्तस्य प्रतिषेधोऽर्थः प्रयोजनं यस्योपचारस्य तभ्दावस्तस्मात् “सर्व्वधर्म्मिधर्म्मप्रतिषेधार्थत्वादुपचारस्य” इति प्रयोजनाभावादित्यसिद्धो हेतुः।

क एवं सति गुणः ? इति चेदाह “एवं हि” उपचारे सति “चाक्षुषत्वादि” आदिग्रहणात् ‘काकस्य कार्ष्ण्यात्’ इत्यादि व्यधिकरणासिद्धं “परिहृतं” हेतुत्वेन निरस्तं “भवति”। धर्म्मिधर्म्म इति तु सामान्ये [नाभि]धानात् तेषामपि हेतुता स्यादिति।

असत्युपचारे धर्म्मिग्रहणादप्येतत् सिध्यति। ततोऽनर्थक एवोपचार इत्याह परः- “धर्म्मवचनेनापि ” न केवलं ध[र्म्मिव]चनेन। “धर्म्याश्रयसिद्धौ” धर्म्मिण आश्रयणमाश्रयः परिग्रहस्तस्य सिद्धिस्तस्यां सत्याम्। किं पुनर्द्धर्म्मस्य धर्म्याक्षेपनिमित्तमिति चेत् ? “परा[श्रयत्वा]त्”-धर्म्मिपरतन्त्रत्वात् “धर्म्मस्य” अवश्यमसौ धर्म्मिणमाक्षिपति। ततो धर्म्मिवचनमतिरिच्यमानं विशिष्टं साध्यधर्म्मिणमेव प्रतिपादयति, [न धर्मिमात्रम्]। स्यान्मतम्-धर्म्मिग्रहणाद् विशिष्टोऽत्र धर्म्मी कश्चिदभिप्रेत इति गम्येत। स तु साध्यधर्म्मीति कुतः? इत्याह- “प्रत्यासत्ते”र्न्यायात्। प्रत्यासत्तिश्चात्र धर्म्मि[वचनसामर्थ्याद]भिप्रेतेति गम्यते। व्याप्तौ तु न्याये धर्म्मवचनेनापि धर्म्मिमात्राक्षेपत् धर्म्मिग्रहण-वैयर्थ्यम्। प्रत्यासन्नता च साध्यधर्म्मिण एव, तत्र प्रथमं हे [तूप]दर्शनात्। न प्रत्यासत्तेः साध्यधर्म्मिपरिग्रहः। कुतः ?। “दृष्टान्तधर्म्मिणोऽपि” न केवलं साध्यधर्म्मिणः प्रत्यासत्तेः। कदाचिद् व्याप्तिदर्शनपूर्व्वके प्रयोगे दृष्टान्तधर्म्मिण्यपि प्रथमं हेतुसभ्दावोपदर्शनात्।

यदि न प्रत्यासत्तेः साध्यधर्म्मिसिद्धिः पारिशेष्यात् तर्हि भविष्यति। यतः “तदंशव्याप्त्या” हेतुभूतया “दृष्टान्तधर्म्मिणि” धर्म्मस्य सत्व(त्त्व)सिद्धेः। नहि दृष्टान्तमन्तरेण हेतोः साध्येन व्याप्तिः प्रदर्शयितुं शक्यत इति मन्यते। ततो धर्म्मिग्रहणाद्वयतिरिच्यमानात् साध्यधर्म्मिण एव परिग्रहः। “तदंशेन” इति च तच्छब्देन धर्म्मवचनाक्षिप्तो धर्म्मी सम्भन्त्स्यत इति तत्सम्बन्धनार्थमपि धर्म्मिग्रहणं नाऽऽशङ्कनीयम्। यत्र प्रयोजनान्तरं न सम्भवति स पारिशेष्यविषयः, धर्म्मिवचनस्य त्वन्यदपि प्रयोजनं सम्भाव्यते। तत् कुतः पारिशेष्यात् “धर्म्मिवचनात् साध्यधर्मिपरिग्रहः” ? इति मन्यमानः सिद्धान्तवाद्याह-“सिद्धे तदंशव्याप्त्या दृष्टान्तधर्म्मिणि सत्व(त्त्वे) पुनर्द्धर्मिणो वचनं दृष्टान्तधर्मिण एव यो धर्म्मः स हेतुरिति नियमार्थमाशङ्कयेत। ततश्च चाक्षुषत्वादय एव हेतवः स्युः, न कृतकत्वादय इति अनिष्टमेव स्यात् तस्मादुपचारः कर्तव्यः” इति।

किं पुनस्तर्क्कशास्त्र दृष्टं क्वचित् नियमार्थवचनमित्य आह-
“दृष्टं सजातीय एव” इत्यादि। “तत्र यः सन् सजातीये-” [न्यायमुख ७] इत्यत्राऽचार्यीये हेतुलक्षणे ‘सजातीय ए[व] सत्व(त्त्व)मि’त्यवधारणेन सिद्धेऽपि हेतोर्व्यतिरेके। कुत्र ?। साध्याभावे। यदेतत् “असंस्तदत्यये” [न्यायमुख ७] इति असत्व(त्त्व)वचनं तन्नियमार्थमाचार्येण व्याख्यात[म् अ]सत्येव नास्तिता यथा स्यात् नान्यत्र न विरुद्ध इति। तथेहापि धर्म्मिवचनं तत्रैव भावनियमार्थमाशङ्कयेत। कदा ? सिद्धेऽपि दृष्टान्तधर्म्मिणि [स]त्वे(त्त्वे)। कुतः ? तदंशव्याप्तिवचनात्। क्व भावनियमार्थम् ? “[त]त्रैव” दृष्टान्तधर्म्मिणि, सति चाशङ्कासम्भवे। कुतः ?। पारिशेष्यात् साध्यधर्म्मिपरिग्रहः। ननु अपक्षधर्म्मस्याहेतुत्वात् न नियमार्थताशङ्का। तथा हि-साध्यधर्म्मेण व्याप्तोऽपि धर्म्मो यदि क्वचिद् धर्म्मिण्युपलभ्येत तदा तत्रैव स्वव्यापकप्रतीतिं जनयेत् नान्यत्र [प्रत्या]सत्तिविप्रकर्षाभ्यां यथाक्रमम्। अनुपलव्धस्तु क्वचिद् धर्म्मिणि कथं गमकः ?। तथाभावे वा सर्व्वत्र स्वव्यापकं गमयेत् प्रत्यासत्तिविप्रकर्षाभावादे[वेत्यत] आह- “तस्मात् सामर्थ्यात्” इत्यादि। यदिदमनन्तरं सामर्थ्यं समुपवर्ण्णितम् आस्मात् सामर्थ्यादर्थस्य साध्यधर्म्मिपरिग्रहलक्षणस्य भवति प्रतीति[र्प]टुधियां श्रोतृणाम्, किन्त्वशब्दकमर्थं स्वयमनुसरतां प्रतिपत्तिगौरवं स्यात्। तदुपचारमात्रात् स्वयमशब्दकार्थाभ्यूहरहिताद् धर्म्मिधर्म्म इत्यने [न प]क्षधर्म्म इति “समाननिर्द्देशात् [प्रतिपत्तिगौरवं च] परिहृतं भवति।” “प्रतिपत्तिगौरवं च” इति ‘च’शब्देनैतदाह-ये परोपदेशमाकाङ्क्षन्ति तैरयमर्थो लक्षण[वच]नाद् बोद्धव्य इति।

यथालक्षणं प्रतीतेरपक्षधर्म्मो न हेतुरिति कुतः ? इयमाशङ्का। ततस्तेषां लक्षणानुसारिणां नियमाशङ्कापरिहारार्थं चोपचारकर[णमि]ति।

[७. पक्षधर्म इत्यत्र नियमव्यवस्था।]
इह व्यवच्छेदफलत्वात् शब्दप्रयोगस्यावश्यमेवावधारयितव्यम्। षष्ठीसमासाच्च पक्षधर्म्म इत्यत्र नान्यः समासः सम्भवति। तथा च पक्षस्यैव धर्म्म [इ]त्येवमवधारणात् तदंशव्याप्तिर्व्विरुध्यत इति विरुद्धलक्षणतामुभ्दावयन्नाह “पक्षस्य धर्म्मत्वे त्वं(तं) पक्षं विशेषणमन्यतो व्यवच्छेदकमपेक्षत” इति “तद्विशेषणापेक्षस्य” धर्म्मस्य “अन्यत्र” पक्षीकृतादन्यस्मिन् सपक्षे ”अननुवृत्तिः”। तथा हि-यः पक्षेण विशेष्यते स पक्षस्यैव भवति नान्य[स्य]। यथा-यो देवदत्तस्य पुत्रः स तस्यैव पुत्रो न यज्ञदत्तस्यापि। ततोऽन्यत्राननुवृत्तेः “असाधारणता”-साधारणता न स्यात्। तदं शव्याप्तिविरोध [इ]ति यावत्। साधारणतायास्त्व(याश्च) तदंशव्याप्त्या प्रतिपादनात्। ततो यदि पक्षधर्म्मो न त[दंशे]न व्याप्तिः, अथ तदंशव्याप्तिर्न्न पक्षधर्म्म इति व्याहतं लक्षणमिति।

ननु च तदंशव्याप्तिर्नाम साध्यधर्म्मस्य व्यापकस्य तत्र हेतौ सति तदाधारधर्म्मिणि भाव, एव, व्याप्यस्य वा हेतोस्तत्रैव व्यापके साध्यधर्म्मे सत्येव भाव इति स्वसाध्याविनाभावलक्षणा वक्ष्यते। न चानयाऽवश्यं पक्षीकृतादन्यत्र वृत्तिराक्षिप्यते, यतो लक्षणव्याघात आशङ्क्येत। तथा हि-तत्रैव पक्षीकृते सत्येव साध्यधर्म्मे हेतुर्व्वर्त्तमानस्तदंशव्याप्तिं प्रतिपद्यत एव। यैव चास्य साध्यधर्म्मिणि स्वसाध्याविनाभाविता सैव गमकत्वे निबन्धनं नान्यधर्म्मिणि। स च स्वसाध्याविनाभावः प्रतिबन्धसाधकप्रमाणनिबन्धनः, न सपक्षे क्वचिद् बहुलं वा सहभावमात्रदर्शननिबन्धनः। न हि लोहलेख्यं वज्रम् पार्थिवत्वात् काष्ठादिवत् इति तदन्यत्र पार्थिवत्वस्य लोहलेख्यताऽविनाभावोऽपि तथाभावो भवति। यदि च पक्षीकृतादन्यत्रैव व्याप्तिरादर्शयितव्येति नियमस्तदा सत्वं(त्त्वं) कथं क्षणिकतां भावेषु प्रतिपादयेत् ?। यो हि सकलपदार्थव्यापिनीमाक्ष(नीं क्ष)णीकतामिच्छति तं प्रति कस्यचित् [स]पक्षस्यैवाभावात्। यदपि कैश्चित् ज्वालादेः क्षणिकत्वमभ्युपगम्यते तदपि न प्रत्यक्षतः, क्षणविवेकस्यातिसूक्ष्मतयाऽनुपलक्षणात्। अन्यत्रैव च व्याप्तिरादर्शनीया न साध्यधर्म्मिण्यपीति कोऽयं न्यायः ?। एवं हि काल्पनिकत्वं हेतुलक्षणस्य प्रतिपन्नं स्यात्, न वस्तुबलप्रवृत्तत्वम्, तस्मात् स्वसाध्यप्रतिबन्धाद् हेतुस्तेन व्याप्तः सिध्यति। स च विपर्यये बाधकप्रमाणवृत्त्या साध्यधर्म्मिण्यपि सिध्यतीति न किञ्चिदन्यत्रानुवृत्त्यपेक्षया। अत एवान्यत्रोक्तम्- “यत् क्वचिद् दृष्टं तस्य यत्र प्रतिबन्धः तद्विदः तस्य तद् गमकं तत्रेति वस्तुगतिः” इति।

यदपि “अनुमेयेऽथ तत्तल्ये सभ्दावः-” इत्यादि लक्षणं तत्रापि साध्यधर्म्मवानेव सपक्ष उच्यते। ततः सत्येव साध्यधर्म्मे वाऽस्तीत्येवंपरमेतत्। ततश्च तद्धर्म्मणः साध्यधर्म्मिणोऽपि वास्तवं सपक्षत्वं न व्यावर्त्तते। साध्यत्वेनेष्टतयेच्छाव्यवस्थितलक्षणेन पक्षत्वेन तस्य निराकर्त्तुमशक्यत्वात्। तस्मात् तदंशव्याप्तिवचनेन स्वसाध्याविनाभावित्वस्य प्रतिबन्धनिबन्धनस्यान्यथा तदयोगादभिधानान्नावश्य मन्यत्र वृत्तिराक्षिप्तेति, कथमिदमाशङ्कितम्?। सत्यम्, नैवेदमाशङ्कनीयम्, यदि सर्व्वस्य हेतोः पक्षीकृते एव धर्म्मिणि स्वसाध्यप्रतिबन्धः प्रमाणतो निश्चेतुं शक्येत। यथा सत्त्वलक्षणस्य स्वभावहेतोः क्षणिकतायां साध्यायां तादात्म्यं विपर्यये बाधकप्रमाणवृत्त्या। कार्यहेतोस्तु प[क्षीकृतधर्मिणा। कस्यचित् स्वभावहेतोः] प्रत्यक्षानुपलम्भसाधनः प्रतिबन्धः कथं परोक्षे साध्यधर्म्मे गृह्येत?। तस्मात् तस्यान्यत्रैव [प्रसिद्धिरिति तद्विशेषणापेक्षस्य तत्र अपेक्षणात् अन्य]त्राननुवृत्तेः असाधारणता सम्भवमात्रेणाशङ्किता। तदा ह्यन्यत्रावर्तमानः साध्यविपरीत[व्यतिरेक]...........................................................तदुभयबहिर्भावायोगात् तद्धर्म्मिणः साध्यवृत्तिव्यवच्छेदाभ्यां सर्व्वसंग्रहात् तत्र संशयहेतु[र्भवति। स्यान्मतम्- क्वचिदाश्रये सत्तायाः प्राक्‌प्रवृत्तपूर्वगृही]तविस्मृतप्रतिबन्धसाधकप्रमाणस्मृतयेऽन्यत्र वृत्तिरपेक्षणीया। एतत् परिहरति। “न” इत्यादि। [नान्यत्राननुभवत्तिः। कुतः ? अयोगोऽसम्ब]न्धः तव्द्यवच्छेदेन विशेषणात् पक्षस्य। न ह्यन्ययोगव्यवच्छेदेनैव विशेषणं भवति। [किन्तु अयोगव्यवच्छेदेनापि। यत्र धर्मिणि ध]र्म्मस्य सभ्दावः संदिह्यते तत्राऽयोगव्यवच्छेदस्य न्यायप्राप्तत्वात्। अत्र च दृष्टान्तः[“यथा चैत्रो धर्नुर्धर इति”। चैत्रे हि धनुर्धर]त्वं संदिह्यते किमस्ति नास्ति इति। ततश्चैत्रो धनुर्द्धर इति तत्सभ्दावप्रतिपादिका श्रुतीः [पक्षान्तरमधनुर्धरत्वं श्रोतुराशङ्कोपस्थापितं] निराकरोतीत्ययोगव्यवच्छेदोऽत्र न्यायप्राप्तः। पराभिमतव्यवच्छेदनिराचिकीर्षयाऽऽह-[“न, अन्ययोगव्यवच्छेदेन विशेषणात्” अन्यत्राननुवृत्तेर]साधारणतेति सम्बन्धः। अत्रापि दृष्टान्तो “यथा पार्थो धनुर्द्धर इति”। सामान्यशब्दोऽप्ययं ध[नुर्धरशब्दः प्रकरणसामर्थ्यादिना प्रकृष्टगुणवृत्तिः। इह पार्थे] हि धनुर्द्धरत्वं सिद्धमेवेति नायोगाशङ्का। [तादृ]शं तु सातिशयं किमन्यत्रास्ति नास्तीत्यन्ययोग [शङ्कायां श्रोतुः यदा पार्थो धनुर्धर इति उच्य]ते तदाऽन्ययोगव्यवच्छेदो न्यायप्राप्तः, प्रतिपाद्याशङ्कोपस्थापितयोरेव पक्षयोः पर[स्परं विरोधात् एकनिर्देशेन अन्ययोगव्यवच्छेदस्य] न्यायबलायातत्वात्। तदिह पक्षेऽस्त्ययं धर्म्मो न वेति संशीतौ [पक्षधर्म इत्युक्ते पक्षस्य धर्म एव नाधर्मः। धर्मश्च आश्रितत्वाद्विशेषणं तेनायोगो व्य]वच्छिद्यते नान्ययोगस्तदंशव्याप्त्या तस्य प्रतिपादित[त्वेन दृष्टान्ते संदेहाभावात्।

“तदंशः” तद्धर्म इति]। तच्छब्देन पक्षः परामृश्यते न धर्म्मः, धर्म्मस्य धर्म्मासम्भवात्। अंशश्च धर्म्मो नैकदेशः, पक्ष[शब्देन धर्मिमात्रवचनात्। न तदंशः तस्य एक]देशाभावादिति।

[८. व्याप्तेर्व्याप्यव्यापकोभयधर्मत्वम्।]
तस्य पक्षधर्म्मस्य सतो व्याप्तिः- यो व्याप्नोति यश्च व्याप्यते [तदुभयधर्म्मतया प्रतीतेः। यदा व्यापकधर्मतया विवक्ष्यते त]दा व्यापकस्य गम्यस्य। तत्रात सत्सप्तभ्यर्थप्रधानमेतत् नाधारप्रधानम्, धर्म्माणां धर्म्म[आन्तरत्वाभावात्। तेनायमर्थः]-यत्र धर्म्मिणि व्याप्यमस्ति तत्र सर्व्वत्र भाव एव व्यापकस्य स्वगतो धर्म्मो व्याप्तिः। तत[श्च व्याप्यभावापेक्षया व्याप्यस्यैव व्याप्तताप्रतीतिः]। न त्वेवमवधार्यते। व्यापकस्यैव तत्र भाव इति। हेत्वभावप्रसङ्गादव्यापकस्यापि मूर्त्तत्वादेस्तत्र भावात्। नापि ‘तत्रैवे’ ति प्रयत्नानन्तरीयकत्वादेरहेतुतापत्तेः। साधारणश्च हेतुः स्यात्। नित्यत्वस्य प्रमेयेष्वेव भावात्। यदा तु व्याप्यधर्म्मता(र्मतया) विवक्षा व्याप्तेस्तदा व्याप्यस्य वा गमकस्य तत्रैव व्यापके गम्ये सति। य्तत्र धर्म्मिणि व्यापकोऽस्ति तत्रैव भावो, न तदभावेऽपि व्याप्तिरिति। अत्रापि व्याप्यस्यैव तत्र भाव इत्यवधारणं हेत्वभावप्रसक्तेरेव नाश्रितम्, अव्याप्यस्यापि तत्र भावात्। नापि व्याप्यस्य तत्र भाव एवेति सपक्षैकदेशवृत्तेरहेतुत्वप्राप्तेः। साधारणस्य [च] हेतुत्वं स्यात्। प्रमेयत्वस्य नित्येष्ववश्यंभावादिति। व्याप्यव्यापकधर्म्मतासंवर्णनं तु व्याप्तेरुभयत्र तुल्यधर्म्मतयैकाकारा प्रतीतिः संयोगिवत् मा भूदिति प्रदर्शनार्थम्। तथा हि-पूर्व्वत्रायोगव्यवच्छेदेनावधारणम् उत्तरत्रान्ययोगव्यवच्छेदेनेति कुत उभयत्रैकाकारता व्याप्तेः ?। तदुक्तम्-

“लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत् पुनः।
नियमस्य विपर्यासेऽसम्बन्धो लिङ्गलिङ्गिनोः॥”इति।

एतेनाऽऽचार्येण संयोगबलात् गमकत्वे यो दोष उक्तः-
“न च केनचिदंशेन न संयोगी हुताशनः।
धूमो वा सर्व्वथा तेन प्राप्तं धूमात् प्रकाशनम्॥” इति।

स इह नावतरतीत्याख्यातं भवति। तथा हि-संयोगस्य उभयत्राविशेषात् एष प्रसङ्गो न तु व्याप्तेः। न हि यादृशी व्यापकधर्म्म व्याप्तिः तादृश्येव व्याप्यधर्म्म इति। तथा चाह-

“सम्बन्धो यद्यपि द्विष्ठः सहभाव्यङ्गलिङ्गिनोः।
आधाराधेयवद् वृत्तिस्तस्य संयोगिवन्न तु॥” इति।

तेन व्यापको व्याप्यो न भवति व्याप्यश्च [न] व्यापक इति। “तदंशेन व्याप्तो हेतुः” इति वचनात् न संयोगिपक्षोक्तो दोषः। नाऽप्युभयोर्ग्गम्यगमकताप्रसङ्गः, यथोक्ताद् हेतुलक्षणाद् व्यापकस्यैव गम्यत्वप्रतीतेः, व्याप्यस्यैव गमकतासम्प्रत्ययादिति।

[९. व्याप्तेरन्वयव्यतिरेकरूपयोस्सूचनम्।]
यदि तर्हि “पक्षधर्म्मस्तदंशेन व्याप्तः” इत्येतद्धेतुलक्षणं ततः पक्षधर्म्मत्वं तदंशव्याप्तिश्चेति द्विरूपो हेतुः स्यात्, अन्यत्र च त्रिरूप उक्तः तत् कथं न व्याघातः ? इत्याह “एतेन” तदंशव्याप्तिवचनेन “अन्वयो व्यतिरेको वा उक्तः” वेदितव्य इति सम्बन्धः। अन्वयव्यतिरेकरूपत्वाद् व्याप्तेरिति भावः। तथा हि-य एव येनान्वितो यन्निवृत्तौ च निवर्त्तते स एव तेने व्याप्त उच्यते इति तदात्मकत्वाद् व्याप्तेर्व्याप्तिवचनेनान्वयव्यतिरेकाभिधानम्। ततो व्याप्तिवचनेन रूपद्वयाभिधानात् न व्याघात इति।

[१०. व्याप्तेः प्रत्यक्षेणानुमानेन वा निश्चयः।]
तौ च ज्ञपकहेत्वधिकारात् निश्चितौ। “निश्चयश्च तयोर्न्नैकेनैव प्रमाणेन अपि तु यथास्वम्।” यस्य यद् आत्मीयं प्रमाणं निश्चायकं तेन। यस्य च यत् निश्चायकं प्रमाणं तद् उत्तरत्र वक्ष्यति।

“अन्वयो व्यतिरको वा” इति तुल्यकक्षतासूचनार्थो ‘वा’शब्दः। तेन साधर्म्यवैधर्म्यवतोः प्रयोगयोरेकेनैव द्वितीयगतेर्व्विधिप्रतिषेधरूपतया व्यावृत्तिभेदेऽपि परमार्थतस्तादात्म्यात् नोभयोपदर्शनमिति सूचितं भवति। व्यतिरेको हि साध्यनिवृत्तौ लिङ्गस्य निवृत्तिधर्म्मकत्वं स्वभावभूतो धर्म्म इत्यन्वयरूपता वस्तुतोऽस्य न विरुध्यते। “पक्षधर्म्मश्च”। किं ?। “यथास्वं प्रमाणेन निश्चितः” उक्त इति सम्बन्धः। निश्चयप्रसङ्गेन सोऽप्यत्र प्रतिपाद्यते, निश्चितस्य गमकत्वामाख्यातुम्।.................................................................................... इति प्रदर्शनार्थो ‘वा’शब्दः। “प्रत्यक्षेण च स्वयं स्वलक्षणाकारत्वेऽप्यनन्तरसामान्यविकल्पजननात् प्रसिद्धिः” उपचारतो निश्चय उच्यते-प्रत्यक्षपृष्ठभाविनो विकल्पस्यानधिगतार्थाधिगन्तृत्वाभावं दर्शयितुं। तेन यद्यपि सामान्यरूपं लिङ्गमवस्थाप्यते तथापि स्वलक्षणप्रतीतिरेव तद्व्यवस्थानिबन्धनमिति प्रत्यक्षतः पक्षधर्म्मस्य साध्यधर्म्मिणि प्रसिद्धिरुच्यते। एतच्चानन्तरमेव व्यक्तीकरिष्यते। “अनुमानतो वा साध्यधर्म्मिणि पक्षधर्म्मस्य प्रसिद्धि” र्न्निश्चयः। प्रमाणफलभेदाच्च “अनुमानतः” अनुमानेन निश्चय इति आह। “अत्रोदाहरणे” यथाक्रमं “यथा प्रदेशे धूमस्य” धूमसामान्यस्य प्रत्यक्षतो निश्चयः इति।

[११. उद्दयोतकरमतं निरस्य देशाद्यपेक्षकार्यहेतोर्गमकत्वोक्तिः।]
यस्तु मन्यते-‘यः प्रदेशोऽग्निसम्बन्धी सोऽप्रत्यक्षो यस्तु प्रत्यक्षो नभोभागरूप आलोकाद्यात्मा धूमवत्तया दृश्यमानो न सोऽग्निमान् अतः कथं प्रदेशे धूमस्य प्रत्यक्षतः प्रसिद्धिः। तस्माद् धूम एव धर्म्मी युक्तः। साग्निरयं धूमः धूमत्वात् इत्येवं साध्यसाधनभावः’ इति-तस्यापि साग्नेः धूमावयवस्याऽप्रत्यक्षत्वात्, परिदृश्यमानस्य चोर्द्धवभागवर्तिनोऽग्निना सहावृत्तेः, कथं धूमसामान्यस्य साध्यधर्म्मिणि प्रत्यक्षतः प्रसिद्धिः ?। धूमावयवी प्रत्यक्ष इति चेत्; न, अवयवव्यतिरेकेण तस्याभावात्। लोकाध्यवसायतस्तस्यैकत्वे वा प्रदेशस्यापि तावतः कल्पितमेकत्वं न निवार्यते। प्रदेशे एव च लोकोऽग्नि प्रतिपद्यते, न धूमे। देशकालाद्यपेक्षयैव च कार्यहेतुर्ग्गमकः। यदाह-

“इष्टं विरुद्धकार्येऽपि देशकालाद्यपेक्षणम्।
अन्यथा व्यभिचारि स्याद् भस्मेवाऽशीतसाधनः (धने)॥
इति।

“ततो देशाद्यपेक्षाऽग्निसाधने धूमवत्तया।
गृह्यमाणस्य देशस्य धर्म्मिता न विरुध्यते॥”

यथा बलाकावतो वृक्षादेर्द्देशाद्यपेक्षया जलसाधनत्वमिति।
“शब्दे वा कृतकत्वस्य” प्रत्ययभेदभिदित्वादिनानुमानेनेति।

[१२. निर्विकल्पं कथं सामान्यग्राहीति कुमारिलाक्षेपस्योत्तरम्।]
अत्र यथोपवर्ण्णितं प्रत्यक्षतः पक्षधर्म्मस्य साध्यधर्म्मिणि प्रसिद्धावभिप्रायमप्रतिपद्यमानः कुमारिलः-‘कथं प्रत्यक्षेण(णा)विकल्पेन सामान्यात्मनो लिङ्गस्य धूमादेः स्वरूपग्र[हण]मपि तावद् युज्यते, धर्म्मिणो वा कुत एव तत्सम्बन्धग्रहणम्’- इति प्रत्यवतस्थे। तेन हि “प्रत्यक्षपूर्व्वकत्वाच्चानुमानादेर्द्धर्म्मं प्रत्यनिमित्तत्वम्” इत्येतद् भाष्यम्-

“कथं प्रत्यक्षपूर्व्वत्वमनुमानादिनो भवेत् ?।
यदा स्मृत्यसमर्थत्वान्निर्व्विकल्पेन्द्रियस्य धीः॥
न चाविकल्प्यलिङ्गस्य धर्म्मिसम्बन्धयोस्तथा।
गृहीतिः”

इत्याक्षिप्य-
“ प्रत्यक्षाग्रहणं यत्तु लिङ्गादेरविकल्पनात्।
तन्नेष्टत्वाद् विकल्पस्याप्यर्थरूपोपकारिणः॥
अस्ति स्यालोचनाज्ञानं प्रथमं निर्व्विकल्पकम्।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम्॥
ततः परं पुनर्व्वस्तु धर्म्मैर्जात्यादिभिर्यया।
बुद्ध्यावसीयते साऽपि प्रत्यक्षत्वेन सम्मता॥”

इति ब्रुवता-‘सौगतानामेवायं लिङ्ग-धर्म्मि-तत्सम्बन्धाग्रहणलक्षणो दोषो येषामविकल्पकमेव प्रत्यक्षं, नास्माकं सविकल्पमपि प्रत्यक्षमिच्छताम्’ इत्युक्तं भवति। ततस्तदुपवर्ण्णितदोषप्रतिविधानायाऽऽह-“सधूमं हि” इत्यादि। अयमत्र समुदायार्थः-प्रत्यक्षं हि पुरोवस्थितमौत्तराधर्येण धूमप्रदेशादिकं विधिरूपेण धूमादिस्वलक्षणं सकलसजातीयविजातीयव्यावृत्तं च स्वस्वभावव्यवस्थितेः सर्व्वासामर्थमात्राणां परस्परमसंकीर्ण्णरूपत्वात् तत्सामर्थ्यभावियथास्थानमनुकुर्व्वत्पाश्चात्त्यविधिप्रतिषेधविकल्पद्वयं जनयति येन धूमप्रदेशाख्यौ धर्म्मधर्म्मिणौ तयोश्चौत्तराधर्यम् ‘एवमेतत् नान्यथा’ इति विकल्पयति। यथानुभवमभ्यासपाटवादिप्रत्ययान्तरसहकारिणां विकल्पानामुदयात्। ततो धर्म्मधर्म्मिणोः स्वरूपनिश्चयः सम्बन्धनिश्चयश्च प्रत्यक्षनिबन्धनः सम्पद्यते। तथा हि-अयमेव धूमप्रदेशयोः सम्बन्धस्य निश्चयो यः ‘अत्रायम्’ इत्यध्यवसायः। स चाविकल्पेनापि प्रत्यक्षेण यथोक्तेन प्रकारेण सम्पादित एव। न चौत्तराधर्यावस्थिताद् वस्तुद्वयादन्य एव कश्चिदाधा[राधे]यभावलक्षणः सम्बन्धः यतः तस्य प्रत्यक्षेणाननुभूतत्वात् पश्चाद(द्) विकल्पनं स्यात्। वस्तुभूतस्य तस्यान्यत्र निषेधात्। तस्मादयं तदेव तथावस्थितमर्थद्वयमाश्रित्य कल्पनासमारोपित एव। तेन सम्बन्धः सम्बन्धीति भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां धर्म्मधर्म्मितया व्यवहारो लोके न तु पारमार्थिकः। सामान्यव्यवहारोऽपि विजातीयव्यावृत्तानेव भावानासृ(श्रि)त्य कल्पनासमारोपित एव प्रतन्यते। तेषामेव भिन्नानामप्यनुभवद्वारेण विजातीयव्यावृत्ततया प्रकृत्यैवैकाकारपरामर्शप्रत्ययहेतुत्वात्। तथा चाह-

“एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने।
भेदेऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत्॥”

ततः सामान्यवि[कल्पजननद्वारा] तत्प्रतिभासिनो धूमाकारस्य विजातीयव्यावृ[त्तरूपस्य सामान्यरूपतया] प्रत्यक्षेणैव गृहीतत्वात्। न हि विजातीयव्यावृत्तिर्व्यावृत्तादन्यैव काचिद् यस्याः प्रत्यक्षेणाग्रहणं स्यात्। तस्माद् यथापरिदृष्टं धूमादिस्वलक्षणमेवान्यतो व्यावृ[त्तात्मना वि]कल्प्यत इति प्रतिपत्रध्यवसायवशात् स्मृतिरेव। द्विविधो विकल्पः प्रत्यक्षपृष्ठभावी वस्तुतः पुनर्न्निर्व्विषय एव। ततो यदाह- सामान्यस्याननुभूततया-

“स्मार्त्तमेतदभेदेन विज्ञानमिति यो वदेत्।
तस्य वन्ध्यासुतेऽप्यस्ति नूनं स्मरणशक्तता॥”
इति तदप्यपास्तमिति॥

[१३. अनुमितेः सामान्यविषयत्वेऽनवस्थेति कुमारिलाक्षेपस्योत्तरम्।]
अथवाऽपरं कुमारिलेनाभिहितम्- “स्वलक्षणविषयं प्रत्यक्षं सामान्यलक्षणविषयमनुमानम्” इति वचनात् धूमादिसामान्यमनुमानग्राह्यमेव। तत्र चानवस्था लिङ्गग्राहिणोऽप्यनुमानस्य तदन्यलिङ्गबलेनोत्पत्तेः। तस्य च सामान्यरूपतया तदन्यानुमानमानविषयत्वात् तथा तदन्यस्यापीति कस्यचिदेकस्यापि लिङ्गिनः प्रतिपत्तिः युगसहस्रैरपि न सम्भवति। किमङ्ग पुनरेकेन पुरुषायुष्केणेति। तथा चाह-

“सामान्यं नानुमानेन विना यस्य प्रतीयते।
न च लिङ्गविनिर्मुक्तमनुमानं प्रवर्त्तते॥
असामान्यस्य लिङ्गत्वं न च केनचिदिष्यते।
न चानवगतं लिङ्गं किञ्चिदस्ति प्रकाशकम्॥
तस्यापि चानुमानेन स्यादन्येन गतिः पुनः।
तदुभ्दूतिश्च लिङ्गात् स्यात् सामान्यज्ञानसंहितात्॥
तस्य चाप्यनुमानत्वं लिङ्गेन च तदुभ्दवः।
अनुमानान्तरादेव ज्ञातेनैवं च कल्पने॥
लिङ्गलिङ्ग्यनुमानानामानन्त्यादेकलिङ्गिनि।
गतिर्युगसहस्त्रेषु बहुष्वपि न विद्यते॥”

इत्याशङ्कयाऽऽह “सधूमं हि” इत्यादि। एवं मन्यते। यस्यानुमानन्तरेण सामान्यं न प्रतीयते भवतु तस्यायं दोषः, अस्माकं तु प्रत्यक्षपृष्ठभाविनाऽपि विकल्पेन प्रकृतिविभ्रमात् सामान्यं प्रतीयते। लिङ्गविकल्पस्य च स्वलक्षणदर्शनाश्रयत्वात् परम्परया वस्तुप्रतिबन्धादविसंवादकत्वम्, मणिप्रभायामिव मणिभ्रान्तेः। कार्यहेतुत्वमपि विकल्पावभासिनो धूमसामान्यस्य लिङ्गतयाऽवस्थाप्यमानस्य कार्यदर्शनाश्रयतया तदध्यवसायाच्च। न हि धूमस्वलक्षणस्य लिङ्गताऽवस्थापयितुं युक्ता, तस्यासाधारणस्य सपक्षे वृत्त्यभावात्, तदंशव्याप्त्ययोगात्, साध्यसाधनसंकल्पे वस्तुदर्शनासम्भवाच्चेति।

यत्तूक्तम् ‘सामान्यलक्षणविषमनुमानम्‘ इति तत्र नैवमवधार्यते-सामान्यलक्षणविषयमनुमानमेवेति। प्रत्यक्षपृष्ठभाविनो विकल्पस्यापि तद्विषयत्वात् तदन्यस्य च विकल्पस्य। किन्तु सामान्यलक्षणविषयमेवानुमानमित्यवधार्यते स्वलक्षणविषयत्वनिषेधार्थमिति। तत्र सह धूमेन वर्तत इति “सधूमः”। पक्षधर्म्मताप्रतिपदनार्थमेवमुक्तम्। विधिविकल्पस्य चैतदेव बीजम्। तं “सधूमं प्रदेशं दृष्टवतः” प्रत्यक्षेणेति सम्बन्धः। कीदृशम् “अर्थान्तरविविक्तरूपम्” अर्थान्तरैः सजातीयविजातीयैर्व्विविक्तमसङ्कीर्ण्णं रूपमस्येति विग्रहः। सर्व्वभावानां स्वस्वभावव्यवस्थितेः स्वभावसाङ्कर्याभावात्। अन्यथा सर्व्वस्य सर्वत्रोपयोगादतिप्रसङ्गः। अनेन प्रतिषेधविकल्पस्य निमित्तमाख्यातम्, सामान्योत्प्रेक्षायाश्च बीजम्। तदुक्तम्-

“इतरेतरभेदोऽन्त्य(स्य) बीजं संज्ञा यदर्थिका”
इति।
तथा हि-अर्थान्तरव्यावृत्तिं परस्परव्यावृत्तानामपि समानामुत्पश्यतो भिन्नमेषां रूपं तिरोधायाऽभिन्नं स्वभावमारोपयन्ती कल्पनोत्पद्यते। “असाधारणात्मना” इति अर्थान्तरव्यावृत्तेन स्वभावेन। न तु यथा कुमारिलो मन्यते- ‘अर्थान्तरविवेकोऽभावप्रमाणग्राह्यो न प्रत्यक्षावसेयः’ इति। नहि वस्तुबलभाविना प्रत्यक्षेण अन्यथादर्शनसम्भवो भ्रान्तताप्रसङ्गात्। तेनात्मना दृष्टवतः सतः पुंसोऽनन्तरं “स्मार्त्तं लिङ्गज्ञानमुत्पद्यते”इति सम्बन्धः। स्मृतिरेव “स्मार्त्तम्”। लिङ्गप्रतिभासि ज्ञानं “लिङ्गज्ञानम्”। अनेन प्रत्यक्षपृष्ठभाविनि विकल्पे यत्सामान्यमाभाति तस्य लीङ्गव्यवस्थामाह।

परमार्थतः किं विषयं ?। “यथादृष्टभेदपरमार्थ[विषयम्”].............................................................................

[१४. दर्शनविधिप्रतिषेधविकल्पेषु प्रामाण्याप्रामाण्यव्यवस्था।]
[द]र्शनविधिप्रतिषेधविकल्पानां प्रमाणाप्रमाणचिन्तामारभते। “तत्र” तेषु दर्शनविधिप्रतिषेधविकल्पेषु। तदाद्यं यदेतत्-

“अस्ति ह्यालोचनाज्ञानं प्रथमम्-” इति
आदौ विकल्पप्रवृत्तेर्भवमिति “आद्यम्” आख्यातम् “असाधारणविषयम्” स्वलक्षणविषयं दर्शनं तद् “एव” प्रमाणं न विधिप्रतिषेधविकल्पावपि। तस्यैव प्रमाणलक्षणयोगादितरयोश्च तदसम्भवात्। तथा हि-अनधिगतविषयत्वमर्थक्रियासाधनविषयत्वं च प्रमाणलक्षणम्। तद् दर्शनस्यैवास्ति।

तत्र “आद्यम्” इत्यपूर्व्वार्थविज्ञानत्वमाख्यातम् “असाधारणविषयम्” इति अर्थक्रियासाधनविषयत्वम्। स्वलक्षणस्यैवार्थक्रियासाधनत्वात्।

[१५. प्रतिषेधविकल्पस्याप्रामाण्यस्थापनम्।]
तत्र प्रतिषेधविकल्पस्य तावत् प्रत्यक्षगृहीतार्थविषयतया स्मृतित्वं प्रतिपादयन्नाह- “तस्मिन्” असाधारणे “तथाभूते” अर्थान्तरैरसङ्कीर्ण्णरूपे “दर्शनेन” असङ्कीर्ण्णरूपसामर्थ्यभाविना “दृष्टे” अधिगते “सति”। तथा हि-व्यतिरिक्तमपि भावांशादभावांशमिच्छता भावांशः स्वभावेनासङ्कीर्ण्णरूपः कल्पनीयः, अन्यथा स एवाभावांशो न सिध्येत्। न च स्वभावेनासङ्कीर्ण्णरूपतायामसत्यां पृथग्भूताभावांशसभ्दावेऽपि सा युक्तिमती, स्वहेतुबलायातस्य सङ्कीर्ण्णरूपस्याकिञ्चित्कराभावांशसम्भवेऽपि त्यागायोगात्। न च तेनैव तद्विनाशनम्, विनाशहेत्वयोगस्य प्रतिपादयिष्यमाणत्वात्। तेन सङ्कीर्ण्णरूपविनाशने च वरं स्वहेतोरेव स्वभावतोऽसङ्कीर्ण्णरूपाणामुदयोऽस्तु किं परिव्राड्‍मोदकन्यायोपगमेन ?। तस्मात् स्वभावत एव भावानां पररूपविकलत्वमभावांशः नान्यः। स च तथाभूतो दर्शनेन गृहीत एव। तस्मिंस्तथाभूते दृष्टे “स” पदार्थो “येन” वस्तुना “असाधारणः” समानस्वभावो न भवति तद्रूपविकलस्वभावत्वात् “तदसाधारणतां” तेन तेनातद्रूपेणासमानस्वभावतां एतदेव व्यनक्ति। “ततः” अर्थान्तराद् “भेदं” वैलक्षण्यमन्यरूपमिदं न भवतीति “अभिलपन्ती” अभिमुखयन्ती दृष्टवैलक्षण्ये प्रवर्तमानतया “स्मृतिरुत्पन्ना प्रत्यक्षबलेन”। यदि तु लिङ्गबलेनोत्पद्येत व्यवच्छेदविषयाऽपि स्मृतिर्न्न स्यादिति भावः। किं विषया ?। “अतद्‍व्यावृत्तिविषया।” तच्छब्देन दर्शनविषयस्य वस्तुनः परामर्शः कृतः। न तत् अतत् विजातीयम्। अतस्माद् व्यावृत्तिः अतव्द्यावृत्तिः। सा विषयो यस्याः सा तथा। अथादृष्ट एवार्थान्तरेभ्यो भेदो मयाऽपि कल्प्यते इति प्रतिपत्र (त्तर) ध्यवसायाच्चैवमुक्तम्। परामर्थतो निर्व्विषयत्वात्। सा “न प्रमाणं” नाभावप्रमाणफलमित्यर्थः। न हि स्मृतिजनकत्वेन प्रमाणता युक्ता। कस्मात् न प्रमाणम् ?। यथादृष्टस्याकारोऽभ्यासपाटवादिप्रत्ययान्तरसापेक्षो विशेषस्तस्य ग्रहणात्। न हि दृष्टिमित्येव विकल्पेन गृह्यते, दर्शनाविशेषात् सर्व्वाकारेषु विकल्पोदयप्रसङ्गात्, अपि तु कश्चिदेवाभ्यासादिप्रत्ययापेक्ष इत्याकारग्रहणेनाचष्टे।

भवतु यथादृष्टाकारग्रहणम्। प्रमाणं तु कस्मान्न भवतीति परस्य तदुक्तप्रमाणलक्षणविरहं दर्शयन्नाह- “प्राग्” आलोचनाज्ञानोदयकाले “असाधारणम्” अस्सङ्कीर्ण्णरूपं दृष्ट्वा असाधारणमर्थान्तररूपं न भवतीति “अभिलपतः” विकल्पयतः “प्रतिषेधविकल्पस्यापूर्व्वार्थाधिगमाभावाद्” अपूर्व्वार्थविज्ञानताविरहात्। अपूर्व्वार्थविज्ञानं च प्रमाणं भवतोच्यत इति भावः।

[१६. विधिविकल्पस्यास्यप्रामाण्यव्यवस्थापनम्।]
यद्युक्तेन प्रकारेण प्रतिषेधविकल्पो न प्रमाणं, विधिविकल्पस्तर्हि प्रमाणं भविष्यति। नहि तस्यापूर्व्वार्थविज्ञानत्वाभावः सम्भवति। तत्प्रतिभासिनोऽनुगतस्य सामान्याकारस्यासाधारणरूपावलम्बिना दर्शनेनानधिगमात् तत् कुतोऽस्याप्रामाण्यम्। तदुक्तम्-

“ततः परं पुनर्वस्तु”
इत्यादि। तदेतत् कुमरिलवचनमाशङ्क्य विधिविकल्पस्यापि प्रामाण्यमनुप(मप)नुदन्नाह- “अर्थक्रियासाधनस्य” स्वलक्षणस्य “आलोचनाज्ञानेन दर्शनाददृष्टस्य पुनस्तत्साधनस्य” अर्थक्रियासाधनस्य स्वभावस्य “विकल्पेनाप्रतिपत्तेः विधिविकल्पो न प्रमाणम्”। यद्यपि तेनानधिगतं सामान्यमधिगम्यत इति वर्ण्यते तथाऽपि तद् अर्थक्रियासाधनं न भवति इति तदधिगन्ता तैमिरिकादिज्ञानप्रख्यो विधिविकल्पो न प्रमाणम्।

“ततः परं पुनर्व्वस्तु धर्म्मैर्जात्यादिभिर्यया।
बुध्याः(द्ध्या)ऽवसीयते”
इति चोच्यते। तत्र पुनर्व्वस्तुग्रहणेन निर्व्विकल्पकप्रत्यक्षविषयस्यैव वस्तुनो जात्यादि विशिष्टस्य विकल्पबुध्या(द्ध्या)ऽवसाय उच्यते। तस्य च निर्व्विकल्पज्ञानेनैवाधिगमात् न तत्र प्रामाण्यम्, जातेस्त्वर्थक्रियासाधनत्वाभावादनधिगताया अधिगमेऽपि केशादिज्ञानस्येव न प्रामाण्यम्। अत एवार्थक्रियासामर्थ्यविरहिणा सामान्येनेन्द्रियाणां सम्प्रयोगाभावात् प्रत्यक्षताऽप्यसंम्भविनी। ‘च’कारेण स्मृतित्वाच्चेति पूर्वोक्तकारणसमुच्चयः। स्मृतित्वं चास्योत्तरत्र प्रतिपादयिष्यते। “अनुमानवद्” इति वैधर्म्यदृष्टान्तः। यथा प्रत्यक्षेणार्थक्रियासाधने प्रदेशाख्यै धर्म्मिण्यधिगतेऽप्यनधिगतस्याग्नेरर्थक्रियासाधनस्यासामान्याकारेण परोक्षस्य स्वलक्षणाकारेण प्रतिपत्तुमशक्यत्वात् प्रतिपत्तिर्न्नैवं विधिविकल्पेन सामान्यकारेणानधिगमर्थक्रियासाधनमधिगम्यते, तैस्यालोचनाज्ञानेनैवाधिगमात्। तस्मिं(स्मिन्) स्मृतिरेवासाविति न प्रमाणमिति।

[१७. अर्थक्रियासाधनविषयज्ञानस्यैव प्रामाण्यसमर्थनम्।]
“अर्थक्रियासाधनविषयमेव प्रमाणम्” नेतरदिति कुत एतत्? इति चेत् “अर्थक्रियार्थी हि” पुरुषो यस्मात् हिताहितप्राप्तिपरिहारार्थी “सर्वो” न काकतालीयन्यायेन कश्चिदेव, “प्रेक्षावान्” बुद्धिपुर्व्वकारी “प्रमाणमप्रमाणं वा” प्रमाणादेव सर्व्वदा प्रवर्त(र्ते)य अप्रमाणात् मा कदाचित्, विप्रलम्भसम्भवाद्, “उभयमन्वेषते” न व्यसनितया। ततोऽयमर्थक्रियासाधनविषयमेव प्रमाणं ब्रवीति, तस्यार्थक्रियासाधने प्रवृत्त्यङ्गत्वात्। नेतरत्, तद्विपरीतत्वात्। तथाहि-प्रमाणमविसंवादकमप्रतारकमुच्यते लोकेऽपि। यच्चार्थक्रियासाधनमनधिगच्छन्न तत्र प्रवर्तयति, कुत एव तत् प्रापयेत् तत् कथमविसंवादकतया प्रेक्षापूर्व्वकारी प्रमाणमाचक्षीत ?।

[१८. सामान्यस्य विस्तरेणावस्तुत्वसाधनम्।]
यद्येवं सामान्यमप्यर्थक्रियासाधनमेव ततस्तद्विषयो विधिविकल्पः प्रमाणं भविष्यतीति चेद् आह-“न च”नैव “सामान्यं काञ्चित्” तत्साध्यतयोपगतामभिन्नज्ञानाभिधानलक्षणामन्यां वा व्यक्तिसाध्याम् “अर्थक्रियामुपकल्पयति”। कीदृशम् ?, “स्वलक्षणप्रतिपत्तेः” व्यक्तिप्रतिपत्तेरालोचनाज्ञानसंज्ञिताया “उर्द्धम्” उत्तरकालं “तत्सामर्थ्योत्पन्नविकल्पविज्ञानग्राह्यम्” इति। तच्छब्देन स्वलक्षणप्रतिपत्तिः सम्बध्यते। ‘ततः परं पुनर्व्वस्तु’ इत्यादि परैरभिधानादेवं ब्रवीति

दर्शनपृष्ठभाविनो विकल्पस्य प्रत्यक्षप्रमाणतां निराकर्तुम्। सर्व्वमेव तु सामान्यं न काञ्चिदर्थक्रियामुपकल्पयति। यत् तु सामान्यमनुमानविकल्पग्राह्यं तत् कारणव्यापकसम्बद्धलिङ्गनिश्चयद्वाराऽऽयातं सम्बद्धसम्बन्धादनधिगतार्थक्रियासाधनविषयामर्थक्रियामुपकल्पयतीति तद्विषयो विकल्पः प्रमाणम्। इदं तु नैवम्, अधिगतत्वादर्थक्रियासाधनस्यालोचनाज्ञानेनेति। अत्रोदाहरणम् “यथा-नीलं दृष्ट्‍वा नीलमिति ज्ञाने” प्रतिभासमानमिति शेषः। न सामान्यं काञ्चिदर्थक्रियामुपकल्पयतीति प्रकृतेन सम्बन्धः।

ननु च लिङ्गविकल्पप्रतिभासि सामान्यं प्रकृतम् तत् किमन्यदुदाह्रियते ?। सर्व्वस्य दर्शनपृष्ठभाविनो विकल्पस्य परोपगतां प्रत्यक्षप्रमाणतां तुल्यन्यायतया निराकर्तुम्। कांपुनर्न्नीलमिति विकल्पज्ञाने दर्शनपृष्ठभाविनि प्रतिभासमानं सामान्यमर्थक्रियां नोपकल्पयति ?। यदि व्यक्तिसाध्याम्; तदाऽन्योऽपि पदार्थोऽन्यदीयामर्थक्रियां नोपकल्पयतीति तस्याप्यनर्थक्रियासाधनत्वादवस्तुत्वप्रसङ्गः। अथ स्वसाध्याम्; तदसिद्धम्, अभिन्नज्ञानाभिधानलक्षणायाः स्वसाध्यायाः करणादित्याशङ्कयाह-“तदेव हि” यत् तदालोचनाज्ञाने नोपलब्धं “नीलस्वलक्षणम्” नीलव्यक्तिः “तथाविधसाध्यार्थक्रियाकारि”। तथाविधशब्देन सामान्यमत्राभिप्रेतम्, तादृशपर्यायत्वादस्य, साधारणरूपस्य च तादृशत्वात्। तेन तथाविधसाध्यां नीलसामान्यसाध्यामभिन्नज्ञानाभिधानलक्षणामर्थक्रियां कर्तुं शीलमस्य स्वलक्षणस्येति तत् तथोक्तम्।

एवं मन्यते-यथा भिन्ना अपि व्यक्तयः कयाचित् प्रत्यासत्त्या तदेककार्यप्रतिनियमलक्षणया तदेकमभिन्नं सामान्यमुपकुर्व्वन्ति, तदपरसामान्ययोगमन्तरेणापि, अन्यथाऽनवस्थाप्रसङ्गात्, तथाऽभिन्नज्ञानाभिधानात्मिकामप्यर्थक्रियां साधयिष्यन्ति। किमप्रमाणकेन प्रमाणबाधितेन च सामान्येनोपगतेन ?। तथा हि-अनुमानादिके ज्ञाने यथाविधमस्यास्पष्टं रूपं प्रतिभासते न तथाविधं व्यक्तिषु दृश्यमानासुपलक्षयामः। एकमेव हि व्यक्तिदर्शनकाले स्पष्टं नीलादिरूपं विभावयामः। तत् कथमदृष्टकल्पनयाऽऽत्मानं स्वयमेव विप्रलभेमहि ?। व्यक्तिरूपसंसर्गाद् अयोगोलकवन्हिवदविभावनमिति चेत्; न, सर्व्वत्र भेदाभेदव्यवस्थाया अभावप्रसङ्गात्। अस्योत्तरस्यान्यत्रापि सुलभत्वात्। न च सामान्यस्य द्वे रूपे स्तः स्पष्टमस्पष्टं च, येनैकेन दर्शने प्रतिभासेत अन्येनानुमानादिज्ञाने, पदार्थद्वयोपगमप्रसङ्गात्, प्रतिभासभेदस्यैव सर्वत्र भावभेदव्यवस्थानिबन्धनत्वात्, सामान्यस्यापरसामान्यप्रसक्तेर्न्निःसामान्यस्य चास्योपगमात्।

[१९. कुमारिलोक्तद्वयात्मकबुद्धेर्निरसनम्।]
एतेनैतदपि निरस्तम् यदाह-
“सर्व्ववस्तुषु बुद्धिश्च व्यावृत्त्यनुगमात्मिका।
जायते द्वयात्मकत्वेन विना सा च न युज्यते॥”
“न चात्रान्यतरा भ्रान्तिरुपचारेण चेष्यते।
दृढत्वात् सर्व्वदा बुद्धेर्भ्रान्तिस्तभ्दान्तिवादिनाम्॥”

इति। यतो यदीन्द्रियबुद्धिमभिप्रेत्योच्यते; तदासिद्धम्, अस्पष्टस्य नीलाद्याकारस्य स्पष्टनीलाद्याभासायां तत्रानुपलक्षणात्, स्पष्टस्यापि च द्वितीयस्यानुयायिनः। तभ्दावे च व्यक्तिद्वयान्तरालमप्याप्नुवतः कथं तदनुगमः ?। व्याप्तौ(व्यक्तौ) चोपलभ्यस्य सतः तत्रानुपलक्षणं कुतः ?। नहि तस्य व्यक्ताव्यक्तरूपसम्भवः, एकत्वात्। तथा चाह-

“व्यक्तावेकत्र सा व्यक्ताऽभेदात् सर्व्वत्रगा यदि।
जातिर्दृश्येत सर्व्वत्र [सापि न व्यक्तपेक्षिणि]॥”

इति। एकत्रापि च व्यक्तावुपलभ्यमानायां सकलत्रैलोक्यव्यापि रूपं सकलस्वाश्रयव्यापि वा दृश्येत ?। न ह्येकस्याः किञ्चिद् दृष्टमदृष्टं वा नाम क्षणिकतादिवद्। दृष्टायामप्येकत्रैवाश्रये दर्शनावसायो न सर्व्वत्रेति चेत्; न, विकल्पेन तद्दर्शनाभ्युपगमात्। न हि निश्चयविषयीकृतं चानिश्चितं चेति युक्तम्। ततः सर्व्वगतरूपदर्शने सर्व्वार्थानां दर्शनप्रसङ्गः। न हि तद्दर्शने तत्सहचारिण उपलभ्यस्य तदभिन्नस्वभावस्य चानुपलम्भो युक्तः। ततः कथमिन्द्रियबुद्धेर्द्व्यात्मकता ?।

अथानुमानादिबुद्धिम्; तस्यामपि स्वलक्षणाप्रतिभासनात् कुतो द्वयात्मकत्वम् ?। न हि तासु सामान्यग्राहिणीष्वस्पष्टो व्यक्त्याकार इव लक्ष्यमाणः स्वलक्षणप्रतिभासः। तदभावेऽपि तासां भवात्। आकारान्तरेण च स्वज्ञाने[ऽ]प्रतिभासनात् अनेकाकारायोगाद् एकस्य, अप्रतिप्रसङ्गाच्च। तस्मान्नेयं भिन्नार्थग्राहिण्यभिन्ना सामान्यबुद्धिः प्रतिभाति स्वलक्षणोभ्दवा सती। किन्त्वनादिवितथ विकल्पाभ्यासवासनाजनिता सती तथाऽवभासते। दृढत्वं च बुद्धेर्न्नाविनाशित्वम्, क्षणिकत्वाभ्युपगमात् किन्त्वबाध्यमानत्वम्। न चास्यास्तत् सम्भवति, लेशतो बाधकस्योक्तत्वात्। विस्तरतस्तु स्याव्दादभङ्गाद् यथावसरमिहैव तत्र तत्र विधास्यमानाद् बाधकमवधार्यम्। तस्माद् यथा व्यक्तयः सामान्यान्तरमन्तरेण तदेकमुपकुर्व्वन्ति तथाऽभिन्नज्ञानाभिधाने अपि प्रवर्तयिष्यन्तीति तदेव नीलस्वलक्षणं सामान्यसाध्यत्वोपगतार्थक्रियाकारि।

[२०. कुमारिलदत्तस्य दोषस्य सौगतबुद्ध्यबाधकत्वदर्शनम्।]
यस्तु-
“सामान्यं नान्यदिष्टं चेत् तस्य वृत्तेर्न्नियाकम्।
गोत्वेनाऽपि विना कस्माद् गोबुद्धिर्न्न नियम्यते॥
यथा तुल्येऽपि भिन्नत्वे केषुचिद् वृत्त्यवृत्तिता।
गोत्वादेरनिमित्ताऽपि तथ बुद्धिर्भविष्यति॥”

इति पूर्व्वपक्षयित्वा-
“विषयेण हि बुद्धीनां विना नोत्पत्तिरिष्यते।
विशेषादन्यदिच्छन्ति सामान्यं तेन तद् ध्रुवम्॥
ता हि तेन विनोत्पन्ना मिथ्या स्युर्व्विषयादृते।
न त्वन्येन विना वृत्तिः सामान्यस्येह दुष्यति॥”

इति मिथ्यात्वप्रसङ्गदोष उक्तो नासौ तथागतसमयनयावदातबुद्धीन् बाधते। सामान्यबुद्धीनां बाधकप्रत्ययनिबन्धनस्य मिथ्यात्वस्योपगतत्वात्। तथा हि-

“कस्मात् सास्नादिमत्स्वेव गोत्वं ? यस्मात् तदात्मकम्।
तादात्म्यमस्य कस्मात् चेत्, स्वभावादिति गम्यताम्॥”

इति वचनात् ‘व्यक्तिस्वभावं च सामान्यम्। न चासाधारणम् व्यक्त्युदयविनाशयोर्ध्या(योश्च) नोदयव्यययोगि’ इत्युयुक्तम्, विरुद्धधर्म्माध्यासतो भेदप्रसङ्गादिति। आह च-

“तादात्म्यं चेत्मतं जातेर्व्यक्तिजन्मन्यजातता।
नाशेऽनाशश्च केनेष्टः ? तद्वच्चाऽनन्वयो न किम् ?॥
व्यक्तिजन्मन्यजात चेदागता नाश्रयान्तरात्।
प्रागासीन्न च तद्देशे सा तया सङ्गता कथम् ?॥
व्यक्तिनाशे न चेन्नष्टा गता व्यक्त्यन्तरं न च।
तच्छून्ये न स्थिता देशे सा जातिः क्वेति कथ्यताम्॥
व्यक्तेर्जन्मादियोगेऽपि यदि जातेः स नेष्यते।
तादात्म्यं कथमिष्टं स्यादनुपप्लुतचेतसाम्॥” इति।

[२१. नीलविकल्पस्याप्रामाण्यसमर्थनम्।]
यदि नीलस्वलक्षणमेव सामान्यसाध्यार्थक्रियाकारि तदेव तर्ह्यधिगच्छन् विकल्पः प्रमाणं भविष्यतीत्याह-“तच्च” नीलखलक्षणम्। “तेनात्मना” नीलसाध्यार्थक्रियाकारिणा स्वभावेन “दृष्टमेव” आलोचनाप्रत्ययेन। ततो निष्पादितक्रिये कर्म्मण्यविषेषाधायि विकल्पज्ञानं कथं प्रमाणं स्यात् ?। अथ मतम्- सामान्यमेव तर्ह्यधिगच्छन् नीलविकल्पः प्रमाणमस्तु। तच्च सामान्यमर्थक्रियाकारि। यतो नीलसाध्यामेवार्थक्रियां नीलेन सह सम्भूय करिष्यति। व्यक्तिस्वभावान्येव हि सामान्यानीत्याह- “न च” नैव “तत् स्वलक्षणग्रहणोत्तरकालभाविनो” नीलव्यक्तिदर्शनोत्तरकालं भवनशीलस्य। लिङ्गग्रहणोत्तरकालभाविनस्तु पूर्व्वोक्तेन प्रकारेण व्यक्तिसाध्यार्थक्रिया सामान्यस्य कल्पितस्य व्यवस्थापयितुं शक्यत इति भावः। “नीलविकल्पस्य विषयेण” नीलसामान्येन “नीलसाध्यार्थक्रिया” रञ्जनादिका “क्रियते”। तस्य व्यक्तिस्वाभाव्यायोगे सति कल्पितरूपस्य तदसम्भवात्। न च नित्यस्वभावतामाबिभ्राणेन नीलविकल्पस्य विषयेण नीलसाध्याऽन्या वाऽर्थक्रिया क्रियते। क्रमयौगपद्यविरोधादिति मन्यते।

[२२. मीमांसकसंमतप्रमाणलक्षणे दोषदर्शनम्।]
तदेवं ‘नीलं दृष्ट्वा नीलम्’ इति ज्ञाने प्रतिभसमानं सामान्यं न काञ्चिदर्थक्रियामुपकल्पयतीति प्रसाध्य अनर्थक्रियाकारिविषयस्यापि विकल्पस्य प्रत्यक्षपृष्ठभाविनः प्रामाण्यप्रसङ्गादतिव्याप्तिरिति “तत्रापूर्वार्थविज्ञानम्” इति प्रमाणलक्षणे मीमांसकैर्व्विशेषणमुपादेयमिति दर्शयन्नाह-“तस्माद्” यत एवमनर्थक्रियासाधनविषयतया दर्शनपृष्ठभाविनो विकल्पस्य प्रामाण्यमयुक्तम् तस्मादस्मदभिमतं “प्रमाणमविसंवादि ज्ञानम्” इति प्रमाणलक्षणं व्युदस्य “अनधिगतार्थविषयं प्रमाणम्”, “तत्रापूर्व्वार्थविज्ञानं प्रमाणम्” “इति अपि” एतस्मिन्नप्याहोपुरुषिकयाऽन्यस्मिं(स्मिन्) “प्रमाणलक्षणे” क्रियमाणे “अतिव्याप्तिपरिहाराय विशेषणीयं” विशेषणमुपादेयम्। कथं विशेषणीयम् “अनधिगते स्वलक्षणे इति”। अनेन हि विशेषणेनानुमानविकल्पस्य च प्रामाण्यं सिध्यति, आलोचनाज्ञानपृष्ठभाविनश्च विकल्पस्य प्रामाण्यं व्युदस्यत इति सर्व्वं सुस्थम्।

तदेवं विधिविकल्पस्यानर्थक्रियासाधनविषयतयाऽनधिगतसामान्यधिगमेऽपि प्रामाण्यं निराकृत्य चशब्दसमुच्चितं स्मृतित्वं प्रतिषेधविकल्पेन साधारणमप्रामाण्यकारणं दर्शयन्नाह-“अधिगते तु स्वलक्षणे” आलोचनाज्ञानेन “तत्सामर्थ्यजन्मा” स्वलक्षणाधिगमबलभावी “विकल्पस्तदनुकारी” साक्षादनुत्पत्तेर्द्दर्शनसंस्काराधेयवशच्चास्प(च्च स्प)ष्टनीलस्वलक्षणाकारानुकारी दृश्यविकल्प्ययोश्चैकीकरणादेवमुच्यते। वस्तुतस्तु न किञ्चिदसावनुकरोति। “स स्मृतिरेव”। कुतः ? “कार्यतस्तद्विषयत्वात्” न परमार्थतः। कार्यमत्र स्वलक्षणे पुरुषस्य प्रवर्तनम्, तदध्यवसायश्च। यतश्च कार्यतः तद्विषयत्वात् स्मृतिरेवातो “न प्रमाणम्” दर्शनबलोत्पन्नो विकल्पः। तथा हि-स्मृतेरप्यनुभूतस्वलक्षणांशविषयाया न परमार्थतस्तद्विषयत्वम्। स्वलक्षणस्येन्द्रियबुद्धाविव स्फुटरूपतया स्मृतावप्रतिभासनात्। किन्तु यथोक्तात् कार्यत एव। तच्च विधिविकल्पेऽपि समानमिति कथमसौ स्मृतिर्न्न स्यादिति।

[२३. अनुमानस्य विधिविकल्पवैलक्षण्येन प्रामाण्यसमर्थनम्।]
तत्रैतत् स्यात्-नन्वनुमानविकल्पः स्मृतिरूपोऽपि प्रमाणमिष्यते। तथा हि-यदेवानग्निव्यावृत्तं वस्तुमात्रं महानसादावनुभूतमासीत् तदेव प्रदेशविशेषे धूमदर्शनात् स्मर्यते। तद्वद् विधिविकल्पोऽपि प्रमाणं भविष्यतीत्यत आह-“अनधिगत”स्य “वस्तु”नो “रूप”स्य “अनधिगतेरिति”। एवम्मन्यते-यत् महानसादावनग्निव्यावृत्तं वस्तुमात्रं प्रागनुभूतं न तत् तद्देशादिसम्बन्धितयैवानुमानविकल्पेन स्मर्यते किन्तु यत्र प्रदेशे प्रागननुभूतं तत्सम्बन्धितया। ततः साध्यधर्म्मिदृष्टान्तधर्म्मिग्राहिदर्शनद्वयानधिगतस्यानग्निव्यावृत्तस्य वस्तुरूपस्यायोगव्यवच्छेदेनाधिगमाद् युक्तमस्य प्रामाण्यम्। न तु दर्शनपृष्ठभाविनो विकल्पस्य, तद्विपरीतत्वादिति।

[२४. प्रमाणव्यवस्थायाः वस्त्वधिष्ठानत्वं, स्वलक्षणस्यैव च वस्तुत्वम्।]
यदि नामानधिगतं वस्तुरूपं नाधिगच्छति, प्रमाणं तु कस्मान्न भवतीति चेद् आह-“वस्त्वधिष्ठानत्वात्” इत्यादि। वस्त्वधिष्ठानत्वं च “प्रमाणव्यवस्थायाः” प्रमाणव्यापारविषयमभिप्रेत्योच्यते नालम्बनलक्षणम्, अन्यथाऽनुमानस्य परिकल्पितसामान्यालम्बनतया वस्त्वधिष्ठानत्वाभावादव्यापिनी प्रमाणव्यवस्था स्याद्। यदि वस्त्वधिष्ठाना प्रमाणव्यवस्था कथं विप्रकृष्टविषयाया अनुपलब्धेः प्रामाण्यम् इति चेत्; तत्रापि प्रधानादिविकल्पस्यैव भावानुपादानतया साध्यत्वात् तस्या अपि वस्त्वधिष्ठानताऽस्त्येवेत्यदोषः।

अथ वस्त्वधिष्ठानैव प्रमाणव्यवस्थेति कुत एतद् ? इत्याह-“अर्थक्रियायां” सुखदुःखलक्षणायां यद् “योग्यं” शक्तं “तद्विषयत्वात् तदर्थिनाम्” अर्थक्रियार्थिनां “प्रवृत्तेः” प्राप्तित्यागलक्षणायाः। यदि नामर्थक्रियायोग्ये तदर्थिनां प्रवृत्तिस्तथापि कथं वस्त्वधिष्ठाना प्रमाणव्यवस्था ?, अर्थक्रियायोग्याधिष्ठाना हि तथा सति स्यात् इति चेत्; आह-“अर्थक्रिया”यां यद् “योग्यं” त“ल्लक्षण”मेव “हि वस्तु”। ततोऽर्थक्रियायोग्याधिष्ठानत्वेन वस्त्वधिष्ठानत्वं कथं न स्यात् इति भावः।

इदं च वस्त्वाश्रयेण प्रमाणव्यवस्थाप्रतिपादनमनधिगते स्वलक्षण इत्युक्ते कदाचित् परो ब्रूयात्-वस्तुमात्रनिबन्धना हि प्रमाणव्यवस्था न स्वलक्षणाश्रयैव। ततो यद्यप्यनधिगतं स्वलक्षणं नाधिगच्छति तथाप्यनधिगतवस्तुरूपमधिगच्छतो विकल्पस्य प्रामाण्यं भविष्यतीति तदसिद्धतोभ्दावनार्थमुक्तम्- “अनधिगतवस्तुरूपे”त्यादि। तदसिद्धतोभ्दावने चानधिगतवस्तुरूपाधिगन्तुरेव प्रामान्यं नेतरस्येति कुतः ? इति पर्यनुयोगे “अर्थक्रियायोग्ये”त्यादि उक्तम्। तथा च वस्तुविषयमपि प्रामाण्यं ब्रुवता स्वलक्षणविषयमेवोक्तं भवति, तस्यैवार्थक्रियासामर्थ्यलक्षणत्वात्, सामान्यस्य च तद्विपरीतत्वात् इति मन्यते।

पुनरप्यनुभवोत्तरकालभाविनो नीलविकल्पस्य प्रामाण्यमपनेतुमुपचयहेतुमाह-“ततोऽपि” यथोक्ताद् विकल्पाद् न केवलं नीलस्वलक्षणानुभवाद् “वस्तुन्येव” स्वलक्षण एव “तदध्यवसायेन” स्वलक्षणाध्यवसायेन अन्यथा तत्र प्रवृत्त्ययोगात् “पुरुषस्य प्रवृत्ते” अधिगते स्वलक्षणे तत्सामर्थ्यजन्मा विकल्पो न प्रमाणमिति सम्बन्धः। पूर्व्वमनधिगतवस्तुरूपानधिगतेरप्रामाण्यमुक्तम्। अधुना त्वधिगतस्यैवाधिगमादिति विधिप्रतिषेधरूपतयोपपत्त्योर्भेदः। यद्वा “कार्यतस्तद्विषयत्वात्” इति यदुक्तं तदेवोपचयहेतुव्याजेन स्फुटीकृतनम्।

[२५. विकल्पस्य दर्शनात् पृथक्प्रमाण्याभावः।]
यदि नाम तदध्यवसायेन वस्तुन्येव पुरुषस्य प्रवृत्तिस्तथाप्यनधिगतसामान्यग्राहिणोऽस्य दर्शनात् पृथक् प्रामाण्यं किमिति नेष्यते? इति चेत्; आह-“प्रवृत्तौ” स्वलक्षण एव सत्यां “प्रत्यक्षेण” आलोचनाज्ञानाख्येन “अभिन्नयोगक्षेमत्वात्”। योगः अप्राप्तस्य विषयस्य परिच्छेदलक्षणा प्राप्तिः, क्षेमः तदर्थक्रियानुष्ठानलक्षणं परिपालनम्। अभिन्नौ योगक्षेमावस्येति स तथोक्तः। तत्र विकल्पस्य निर्व्विकल्पप्रत्यक्षेणाभिन्नो योगः स्वलक्षणाध्यवसायतः। अभिन्नः क्षेम आलोचनाविज्ञानादिव विकल्पादपि स्वलक्षण एव प्रवृत्तेः। अयमस्याभिप्रायः-यदि विकल्पो निर्विकल्पचेतसः प्रमेयान्तरविषयस्तदा तत्रैव पुरुषं प्रवर्तयतु तत्साध्यामर्थक्रियामधिगन्तुम्। नैव वा प्रवर्तयेत्, तद्विषयत्वाभिमतस्य सामान्यस्याभिन्नज्ञानलक्षणाया एवार्थक्रियाया उपगमाद् विकल्पोदयादेव च तत्सिद्धेः। नहि नीलानुभवात् प्रमेयान्तरविषयाः पीतादिप्रत्ययाः पुरुषं नीलवस्तुनि प्रवर्तयन्ति, साधितार्थक्रिया वा क्वचिदपीति। तस्मादालोचनाज्ञानानैवायं प्रमेयान्तरविषयः। विशेषेण यैरेव व्याख्यायते-

“निर्विकल्पकबोधेन द्वयात्मकस्यापि वस्तुनः।
ग्रहणम्”
इति। ततो नीलदर्शनस्यैव निर्विकल्पस्य प्रामाण्यं युक्तम्, न तदभिन्नोपयोगस्य स्मृतेरिव विकल्पस्यापि दर्शनात् पृथगेव। अन्यथा निष्फलां प्रमाणान्तरकल्पनां कुर्व्वतः स्मृतिच्छाद्वेषप्रयत्नादि प्रमाणमनुषज्यत इति प्रमाणानामियत्ता विशीर्येतेति।

[२६. धारावाहिकज्ञानेषु योगितदितरापेक्षया प्रामाण्याप्रामाण्ये।]
यदैकस्मिन्नेव नीलादिवस्तुनि धारावाहीनीन्द्रियज्ञानान्युत्पद्यन्ते तदा पूर्व्वेणाभिन्नयोगक्षेमत्वाद् उत्तरेषामिन्द्रियज्ञानानामप्रामाण्यप्रसङ्गः। न चैवम्, अतोऽनेकान्त इति प्रमाणसंप्लववादी दर्शयन्नाह-“पूर्व्वप्रत्यक्षक्षणेन” इत्यादि। एतत् परिहरति-“न”, उत्तरेषां प्रामाण्यप्रसङ्गः। कुतः ?। “नानायोगक्षेमत्वात्”। तथा हि-प्रतिक्षणं विषयपरिच्छेदलक्षणो योगः, तदर्थक्रियानुष्ठानलक्षणश्च क्षेमः परिपालनरूपो भिद्यते। ततो विपक्षे वृत्त्यभावात् न हेतुरनैकान्तिकः। कदा नानायोगक्षेमत्वम् ?। “क्षणविशेषसाध्यार्थवाञ्छायाम्”। यदा क्षणविशेषसाध्येऽर्थे हिताहितलक्षणे वाञ्छा प्राप्तिपरिहारेच्छा योगिनां परोपकारमुद्दिश्य भवति कस्यचित् कथञ्चित् क्वचिदुपयोगात् तदा। यथा दर्शनमार्ग्गे दुःखे धर्म्मज्ञानक्षान्तिर्द्दमानामनुशयानां वासनां निरोधयति, तद्विरुद्धाशयोत्पादनात्। दुःखे धर्म्मज्ञानं क्लेशविविक्ततालक्षणां निर्व्वाणप्राप्तिमुत्पादयति, अनुशयविरुद्धाशयदार्ढ्योत्पादनात्। तत् एषां ग्राहकाणि परचित्तज्ञानानि पृथगेव प्रमाणानि। परहिताधानदीक्षावतां च समस्तवस्तुविस्तरव्यापिज्ञानालोकावभासितान्तरात्मनां भगवतां कश्चिदेवार्थक्षणः कस्यचिदेव परार्थस्यानुग्राहको बिबन्धको वेति सर्व्वभावान् प्रतिक्षणं वीक्षमाणानामध्यक्षचेतसां तद्विषयक्षणानां भिन्नार्थक्रियासूपयोगतो नानायोगक्षेमत्वात्। तद् यदि प्रतिक्षणं क्षणविवेकदर्शिनोऽधिकृत्योच्यते तदा भिन्नोपयोगितया पृथक् प्रामाण्यात् नानेकान्तः। अथ सर्व्वपदार्थेष्वेकत्वाऽध्यवसायिनः सांव्यवहारिकान् पुरुषानभिप्रेत्योच्यते तदा सकलमेव नीलसन्तानमेकमर्थं स्थिररूपं तत्साध्यां चार्थक्रियामेकात्मिकामध्यवस्यन्तीति प्रामाण्यमप्युत्तरेषामनिष्टमेवेति कुतोऽनेकान्तः ? इति दर्शयन्नाह-“साधारणे हि” इति। तत्सन्तानवर्त्तिनां सर्व्वक्षणानामेकत्वेनाध्यवसितानां व्यवहर्तृभिर्यत् साधारणं प्रतिक्षणमन्यान्यकारणतया विभिन्नमपि परमार्थतो विपर्यासादेकतायाऽभिनिविष्टं रञ्जनादिकं नीलादिककार्त्यं तत्र “न तेषाम्” उक्तरेषां ज्ञानक्षणानां “सामर्थ्य” स्यार्थप्रापणशक्ते“र्भेदः”। पूर्व्वप्रत्यक्षक्षणविषय एव तेभ्योऽपि प्रवृत्तेराद्यस्यैव तत्र प्रामाण्यम्। तथा हि-अर्थक्रियार्थिनां तत्साधनप्रापणसमर्थे ज्ञाने प्रमाणव्यवहारं कुर्व्वतामविक्लवधियामर्थक्रियासाधनभेदादेव प्रामाण्यभेदव्यवहारो ज्ञानेषु युक्तः अन्यथा स्मृत्यादेरपि प्रामाण्यप्रसङ्गः कथमपाक्रियेत ?, आद्रियेत वा निष्फला प्रमाणव्यवस्था प्रेक्षावता इति ?।

केषामिव साधारणे कार्ये न सामर्थ्यभेदः ? इत्याह- “अपरापरे” च ते “धूमा”श्च तैः “प्रमिता”श्च ते “सन्निकृष्टाग्रय”श्च तेष्विव तद्विषयाणमिव “अनुमानज्ञानामग्निमात्रसाध्येऽर्थे” सन्धुक्षणादिके वाञ्छिते तदर्थक्रियासाधनप्रापणव्यक्तिभेदाभावात् यथा प्रामाण्यभेदो न युक्तो विदुषां तथाऽत्रापि। यदा तु पञ्चतपस्तप्तुकामो भवति तदाऽपरापरधूमप्रमितसन्निकृष्टाग्निविषयाणामप्यनुमानानां सामर्थ्यभेदात् प्रामाण्यमनिवारितमेव।

[२७. विकल्पप्रामाण्यनिरासस्य फलितार्थः।]
तदेवं ‘यथा नीलं दृष्ट्वा नीलमिति ज्ञान्(म्)’ इत्युदाहरणे नीलविकल्पस्य प्रामाण्यं निराकृत्य प्रकृते योजयन्नाह- “एतेन” नीलस्वलक्षणदर्शनोत्तरकालभाविनो नीलविकल्पस्य प्रामाण्यनिराकरणेन।

“तन्नेष्टत्वाद् विकल्पस्यार्थरूपोपकारिणः।”
इति ब्रूवता कुमारिलेन प्रदेशादिदर्शनोत्तरकालभाविनो धर्म्मिविकल्पस्य, तता सम्बन्धप्रतिपत्तिकालेऽग्निस्वलक्षणदर्शनसामर्थ्यभाविनोऽग्निसामान्यविषयस्य साध्यधर्म्मविकल्पस्य, धूमालोचनाज्ञानपृष्ठभाविनो धूमसामान्यवभासिनो लिङ्गविकल्पस्य, आदिग्रहणाद्, धर्म्मधर्म्मिसम्बन्धविकल्पस्य च प्रमाणपृष्ठभाविनो “ धर्म्म्यादिस्वरूपमात्रविषयालोचनाख्यप्रत्यक्षपूर्व्वकस्य”

“न चाविकल्प्यलिङ्गस्य धर्म्मिसम्बन्धयोस्तथा
गृहीतिः”
इत्याक्षेपभयाद् यद् अभ्युपगतं “प्रामाण्यं” तत् “प्रत्युक्तं” प्रत्याख्यातम्। पूर्व्वकमेव स्वलक्षणविषयं दर्शनं यत् परेणालोचनाज्ञानमिति व्यवहृत तत् प्रमाणं न तु तद्वलभावी विकल्पो यथोक्तेन न्यायेनेति स्थितमेतत्-“पक्षधर्म्मस्य साध्यधर्म्मिणि प्रत्यक्षतोऽनुमानतो वा प्रसिद्धिः” निश्चय इति।

तदेवं प्रत्यक्षतः पक्षधर्म्मनिश्चयं ब्रुवता प्रसङ्गेन दर्शनपृष्ठभाविनो विकल्पस्य प्रामाण्यनिराकरणात्

“प्रत्यक्षं कल्पनापोढम्”
इति प्रतिपादितम्।

[२८. अनुमानप्राधान्यज्ञापनम्]
यद्येवं कस्मद् “अनुमानव्युत्पादनार्थमिदमारभ्यते” इत्युक्तम् न सामान्येन ‘सम्यग्‌ज्ञानव्युत्पादनार्थम्’ इति ?। सङ्खयादिविप्रतिपत्तिरप्यत्र तद्विषया निरस्तैव। परोक्षार्थप्रतिपत्तेरनुमान[मेवाश्र]यः। कस्माद् ? यतः पक्षधर्म्म एव तदंशेन व्याप्त एव च हेतुः कारणं तस्याः, नान्य इत्यभिधानात् परोक्षार्थविषयं सर्व्वं प्रमाणमनुमानेऽन्तर्भावितमिति सङ्क्षेपतः सङ्खयाविप्रतिपत्तिः सम्यग्ज्ञानविषया निरस्ता। तथा, व्यापकांशस्य गम्यत्वप्रतीतेः तदंशव्याप्तिवचनेन सामान्यविषयमनुमानं न स्वलक्षणविषयमित्याख्यातम् तस्यासाधारणत्वात्, असाधारणस्य च व्यापकत्वायोगात्, विकल्पाविषयत्वाच्च। “तत्र तदाद्यमसाधारणविषयम्” इत्याचक्षाणेन स्वलक्षणविषयमेव प्रत्यक्षमुक्तम्। “दर्शनमेव प्रमाणम्” इत्याख्यानात् प्रमाणमेव फलमिति सूचितम्, तस्यार्थप्रतीतिरूपत्वात्। तथा, तस्य द्विधा प्रयोग इति वक्ष्यमाणत्वात् परार्थानुमानं कथयिष्यते, तस्य त्रिरूपलिङ्गाख्यानरूपत्वात्। सङ्क्षेपतश्चानुमानव्युत्पादनमप्यभिमतम्। तच्च सर्व्वत्रास्येवेति कस्मात् “अनुमानव्युत्पादनार्थम्” इत्युक्तम् ?।

सत्यम्, प्राधान्यात् तु तद्ग्रहणम्। तता हि-प्रधानपुरुषार्थोपयोगिनस्तत्त्वस्य चतुरार्यसत्यलक्षणस्यानुमानत एव निश्चयात् तस्य प्राधान्यम्। तथा प्रत्यक्षेऽपि विषये विवादसम्भवे, नानुमानादन्यन्निर्ण्णयनिबन्धनम् इत्यतोऽप्यस्य प्राधान्यम्। प्रवर्तकत्वाच्च प्राधान्यमस्य। तथा हि-यदनुभूतफलं सुखदुःखसाधनम्, अनुभूयमानफलं वा दृश्यमानं तत्प्रवृत्तिविषयो निस्पन्नत्वात् फलस्य। तस्माद् यदनागतफलं सुखदुःखसाधनं प्रत्यक्षमपि तत्राप्यनुमानमेव प्रवर्तकम्। न हि तस्यानागते सुखदुःखे प्रति योग्यतां प्रत्यक्षं निर्द्धारयति, फलस्य परोक्षत्वात्। तदुक्तम्-“ न ह्यप्रत्यक्षे कार्ये कारणभावगतिः” इति।

तस्मात् पूर्व्वानुभूतसुखदुःखसाधनसाधर्म्यात् प्रत्यक्षविषयस्यापि वस्तुनोऽनागतफलयोग्यतानिश्चयः न प्रत्यक्षतः। तथा चाह-“तद्यथादृष्टसाधर्म्यात् तथाप्रसाधितं नानुमेयतामतिपतति” इति। कथं तर्हि द्वयोरपि प्रवर्तकत्वम् ? “न ह्याभ्यामर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यते” इत्युक्तम्। सुखदुःखसाधनस्य जलानलादेः स्वरूपस्य प्रत्यक्षतः प्रसिद्धेः, फलमनागतं प्रति योग्यताया अनुमानत इत्युभयोरपि प्रवर्तकत्वम्। सम्यग्ज्ञानपूर्व्वकत्वं च हिताहितप्राप्तिपरिहारयोरक्तम् न त्वनागतफलं प्रति योग्यतायाः प्रत्यक्षतोऽनिश्चयात्। न ह्यर्व्वाग्दर्शिनां भाविफलयोग्यतायास्ततो निश्चयः, ततः प्राधान्यादनुमानग्रहणमित्यलमतिविस्तरेणेति।

[२९. स्वभावहेतावन्वयनिश्चयः स्वप्रमाणायत्तः।]
तत्र स्वभावकार्यानुपलम्भानां पक्षधर्म्मनिश्चयस्तुल्योपायसाध्यतयाऽभेदेनैवोक्तः अन्वयव्यतिरेकनिश्चयस्य तु भिन्नोपायसाध्यतया भेदेनैव निर्द्देशः कार्य इति स्वभावहेतौ तावदन्वयनिश्चयं स्वप्रमाणनिबन्धनं दर्शयन्नाह-“अन्वयनिश्चयोऽपि” न केवलं पक्षधर्म्मनिश्चय उक्तः किन्त्वन्वयनिश्चयोऽपि “स्वभावहेतौ” उच्यत इति शेषः। “साधनधर्म्म” स्य यद् “भावमात्रं” सत्तामात्रं मुग्दरादिनिमित्तन्तरानपेक्षं तस्य “अनुबन्धो” अनुगमनं व्याप्तिः तस्य “सिद्धिः” या स स्वभावहेतावन्वयनिश्चयः। कस्य साधनधर्म्मभावमात्रानुबन्धसिद्धिः?। “साध्यधर्म्मस्य” साध्यश्चासौ असिद्धत्वात् धर्म्मधर्म्मिसमुदयैकदेशत्वात् धर्म्मश्चेति तथोक्तः। यत्र यत्र साधनधर्म्मस्य भावः तत्र तत्र साध्यधर्म्मस्यापि निमित्तान्तरानपेक्षो भव इत्येतस्यार्थस्य सिद्धिः स्वभावहेतावन्वयनिश्चयः। कथं पुनः साध्यधर्म्मः साधनधर्म्मभावमात्रमनुबध्नाति। ? “तभ्दावतया” स साधनधर्मो भावः-स्वभावो यस्य तस्य भावतया तभ्दावतया। यो हि साधनधर्म्मः साध्यधर्म्मस्य स्वभावः स कथं तं नानुबध्नीयात्, नीरूपत्वप्रसङ्गात् ?।

[३०. स्वभावहेतावैक्येपि साध्यसाधनभावव्यवस्था।]
ननु तत्स्वभावत्वे भेदाभावात् कथं साध्यसाधनभावः ? इत्याह-“वस्तुतः” परमार्थतः। साध्यसाधनसंकल्पकाले तु परम्परया तत्तद्वयावृत्तपदार्थनिबन्धनायां कल्पनाबुद्धौ भेदेन प्रतिभासनात् साध्यसाधनभावो न विहन्यते। न ह्यसौ पारमार्थिकं साध्यसाधनधर्म्मयोर्द्धर्मिणश्च कृतकत्वादौ भेदमवलम्बते, सम्बन्धाभावेन साध्यसाधनभावायोगात्।

एकार्थसमवायः कृतकत्वानित्यत्वादेः सम्बन्धः इति चेत्; न, तस्यापि ततोऽर्थान्तरत्वे ‘अयमनयोरस्मिन्नर्थे समवायः’ इति सम्बन्धाभावस्य तदवस्थत्वात्, सम्बन्धान्तरकल्पनायां चानवस्थाप्रसङ्गात्। समवायाद् वृत्तिकल्पनायां च कृतकत्वादयो नित्याभिमतेष्वप्यात्मादिषु वर्तेरन्। य एव हि कृतकत्वादेः शब्दे समवायो यब्दलात् तत्रैव तद् वर्तते स एव नित्याभिमतेष्वपि, तस्यैकत्वेनोपगतत्वात् इत्यात्मादौ वृत्तिः कृतकत्वादेः केन निवार्येत ?। अथ ‘य एवाभूत्वा भवनधर्म्मा भूत्वा चाभवनधर्म्माऽस्थिररूपो भावः तत्रैव कृतकत्वादयो धर्म्मा वर्तन्ते ’ इति व्यवस्थाप्यते। सैव तर्ह्यभूत्वा भवनस्वभावता भूतस्य चास्थिरस्वभावता तद्विपरीतरूपसमारोपव्यवच्छेदविषयायाः कल्पनाबुद्धेर्निबन्धनं किं नेष्यते ?। तयैव परमार्थाभेदवतोर्द्धर्म्मयोः साध्यधर्म्मिणि वृत्तेः किमन्तरालगडुना कृतकत्वादिना व्यतिरेकवता उपगतेन ?। तथा हि-न सत्तामात्रेण कृतकत्वादयो धर्म्माः साध्यधर्म्मप्रतिपत्तिनिबन्धनम्, तेषां सदा सन्निहितत्वेनानवरतं तद्धर्म्मप्रतीतिप्रसङ्गात्, किन्तु विकल्पप्रतिभासिन एव। स च विकल्पः स्वप्रतिभासिनमेवकारं बहीरूपतयाऽध्यवसितमनुसरन् कृतकानित्यादिरूपतां वस्तुनः प्रतिपद्यते, परमार्थतोऽसंस्पर्शेऽपि तद्रूपस्य, परम्परया तदुपादानत्वात्। व्यतिरिक्तास्तु धर्म्मास्तुदुत्पत्तिनिमित्तमात्रतया परिकल्प्यन्ते, तद् वरं यदेव तत्कल्पनान्निबन्धनं तदेव तथाविधविकल्पप्रसवनिमित्तमस्तु, तस्यावश्यमभ्युपगमनीयत्वात्, तदभ्युपगमे च चरितार्था व्यतिरेकवन्तो धर्म्मा इत्यलं तत्कल्पनया। अवश्यं च व्यतिरिक्ताऽनित्यताद्वारेणापि वस्तुन एवानवस्थायिनमात्मानं प्रतिपद्यते, तदनुरूपार्थकृ(क्रि)यार्थितया प्रवृत्तेः, अन्यथा व्यतिरिक्ताऽनित्यतया नित्यत्वात् तदवगमार्थित्वेनायमनित्यसाध्यार्थक्रियार्थी नित्यं शब्दादिकमाशङ्कमानः किमनित्यताविचारं प्रति आहीतास्थः ?। व्यतिरिक्तायां चानित्यतायामवगतायां तत्रैव प्रवर्तताम्, किमिति नित्ये शब्दात्मनि ?। तद्वा(द्द्वा)रेण प्रतिपत्तेः इति चेत्; तत् किमनेन व्यवधिना ?। वरमव्यवहितस्यैव प्रतिपत्तिरस्तु, तेनैवार्थित्वादिति। तदेतदतिप्रचर्च्च्यमानमतिगहनं सम्पद्यत इत्यास्तां तावत्।

येऽपि जैमिनीया मन्यन्ते- ‘येषामत्यन्तव्यतिरेकवन्तो धर्म्माः तेषामेवायं नैयायिकादीनां दोषः, अस्माकं तु कथञ्चिद् भेदाभेदवतां धर्म्माणां तत्स्वभावतया नैष दोषः’ इति; तेषामपि वस्तुतः साधनधर्म्मरूपतोपगमे साध्यधर्म्मस्य, कथञ्चिद् भेदाभ्युपगमे न किञ्चित् फलमुत्पश्यामः, साध्यसाधनभावस्य कल्पितभेदद्वारेणाप्युपपत्तेः। न चैकात्म्ये कथञ्चिदपि भेदो युक्तः, एकस्मात् स्वभावादभेदात्। ततोऽपि तयोः कथञ्चिद् भेदाभेदौ स्त एवेति चेत्; न, अनवस्थाप्रसङ्गात्। तथा हि-धर्म्मयोस्तदेकस्वभावादपि भेदवतोस्तेन स्वभावेन कथञ्चिदभेदनिमित्तमभिन्नोऽपरः स्वभावोऽभ्युपगन्तव्यः, तथा तेनाऽप्यपरः इत्यनन्तैव भिन्नाभिन्नस्वभावपरम्परा स्यात्। न च कल्पनाबुद्धावनन्तोभयरूपस्वभावपरम्परा प्रतिभासत इति किमिति तत्कल्पनयाऽऽत्मानं विप्रलभन्ते भवन्तः ?। कथञ्चित् च भेदोपगमात् कथं भेदपक्षभाविनां दोषाणामनवसरः ?। यं चात्मानं पुरोधाय ‘इमौ धर्म्मौ, अयं धर्म्मी’ इति व्यवस्थाप्यते यदि तेन भेदस्तदा भेद एवेति कुतोऽनेकान्तवादः ?। अथाभेदः; तदा ‘अयं साधनधर्म्मः, अयं साध्यधर्म्मः, धर्म्मी चायम्’ इति कथं पारमार्थिकं तृ(त्रि)तयं सिध्येत् ?। तस्मात् तत्तत्पररूपव्यावृत्तिसमाश्रयायां कल्पनाबुद्धौ भेदवतामिव धर्म्मधर्म्मिणां प्रतिभासनात् साध्यसाधनभावः। तन्मात्रानुबन्धस्तु वस्तुतः तत्तत्स्वभावतयैव युक्तः इति मन्यमानेन “वस्तुतस्तभ्दावतया” इत्युक्तम्।

[३१. बाघकप्रमाणादेव स्वभावहेतौ साध्यसाधनतादात्म्यम्।]
का पुनरसौ वस्तुतस्तभ्दावता यया हेतुभूतया साध्यधर्म्मस्य साधनधर्म्मभावमात्रानुबन्धः सिध्यति ? इत्याह- “सा” वस्तुतस्तभ्दावता “साध्य”स्य “विपर्ययो” विपक्षः तत्र, “हेतोः” यद् “बाधकं प्रमाणं” तद्विपरीतधर्म्मप्रत्यवस्थापकम्, येन बाध्यमानो हेतुस्तत्र न प्रवर्तते, विरुद्धयोरेकत्र सहभावासम्भवात्, तस्य या “वृत्ति” प्रवृत्तिः “बाधकप्रमाणवृत्तिः” तत्साध्यत्वाच्च वस्तुतस्तभ्दावतायाः सा बाधकप्रमाणवृत्तिरुक्ता। तस्यां हि सत्यां विपक्षात् निवृत्तो हेतुः साध्यधर्म्मवत्येव धर्म्मिणि वर्तते इति साध्यधर्म्मस्यानर्थान्तरस्य साधनधर्म्मस्वभावता सिध्यति। “तया च” वस्तुतस्तभ्दावतया साधनधर्म्मभावमात्रानुबन्धः साध्यधर्म्मस्य सिध्यतीति “अन्वयनिश्चयः” ‘यत्र यत्र साधनधर्म्मस्तत्र तत्र साध्यधर्म्मः’ इत्येवंरूपो जायते।

अत्रोदाहरणं “यथा-यत् सत् तत् क्षणिकमेव।” अवधारणेन व्याप्तिमाह। साधनधर्म्मभावमात्रानुबन्धस्य चैतद्रूपमाख्यातं, निमित्तान्तरमन्तरेण सत् इत्येव कृत्वा क्षणिकमित्युपदर्शनात्। स च वस्तुतस्तभ्दावतया सिध्यतीति तत्सिद्ध्युपायं बाधकप्रमाणवृत्तिं दर्शयति-“अक्षणिकत्वे” क्षणिकविपर्यये सति “अर्थ क्रियाविरोधात्” अर्थस्य- कार्यस्य क्रिया- निष्पत्तिस्तस्या विरोधात् “तल्लक्षणं” साऽर्थक्रिया लक्षणं यस्य “वस्तुत्वस्य” अर्थक्रियासामर्थ्यात्मन, तत्तथोक्तम्। अर्थक्रियया हि तत्सामर्थ्यरूपं वस्तुत्वं लक्ष्यते। “तद्” एवंविधं वस्तुत्वं “हीयते” निवर्तते, तद्विपर्ययरूपस्यासत्त्वस्याऽऽकर्षणात्। एतच्च बाधकं प्रमाणं व्यापकानुपलब्धिरूपमुत्तरत्रावसरप्राप्तं स्वयमेव वक्ष्यति। तदनया बाधकप्रमाणवृत्त्या साध्यधर्म्मस्य वस्तुतः साधनधर्म्मस्वभावता सिध्यति। तया च वस्तुतस्तभ्दावतया साधनधर्म्मभावमात्रानुबन्ध इति।

[३२. कार्यहेतावन्वयनिश्चयनिरूपणम्।]
एवं स्वभावहेतौ विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यसिद्धितोऽन्वयनिश्चयं प्रतिपाद्य कोर्यहेतौ प्रतिपादपन्नाह- “कार्यहेतौ” अन्वयनिश्चयः इति प्रकृतम्। कः पुनरसौ कार्यकारणयोर्भावः?। “कार्यत्वं” “कारणत्वं” च। तस्य या “सिद्धिः” प्रतीतिः सा कार्यहेतावन्वयनिश्चयः। यथा च कार्यकांरणभावसिद्धिर्भवति तथोपदर्शयन्नाह- “यथा” इत्यादि। यथाशब्द उपदर्शनार्थः। “इदं” धूमादिकम् “अस्य” अग्नेः “उपलम्भे” सति “उपलभ्यत” इति सम्बन्धः। अनेन कार्यकारणभावसिद्धौ प्रत्यक्षव्यापारमाह। न च केवलं प्रत्यक्षं कार्यकारणभावमसन्दिग्धं साधयति, किन्तु प्राक्प्रवृत्तानुपलम्भसहायमिति दर्शयितुमाह- “उपलब्धिलक्षणप्राप्तमानुपलब्धम्” इति। यदि तद् धूमादिकमुपलब्धिलक्षणप्राप्तं सत्स्वन्यै(न्ये)षूपलम्भप्रत्ययेषु दृश्यात्मकं सत् नोपलब्धं भवति अग्न्यादिसामग्रीसन्निधानात् प्राक् तादात्म्यादिसामग्र्यामुपलभ्यमानायामुपलभ्यमानं तत्कार्यं सिध्यति। न तूपलम्भप्रत्ययान्तरवैकल्यादनुपजातोपलब्धियोग्यरूपं सत्, तद्देशसन्निहितमप्यनुपलब्धिलक्षणप्राप्ततयाग्न्यादिसामग्रीसन्निधानात् प्रागनुपलब्धमिति। उपलब्धिलक्षणप्राप्तस्य चानुपलम्भे नाग्न्यादिसामग्रीसन्निधानात् प्रागन्यत आगमनं, तद्देशकालसंन्निहितात् कतकुट्‍या देरुत्पत्तिः, तद्देशे चाऽसन्निधानमिति, त्रितयमपाक्रियते। एतावभ्दिश्च प्रकारैरतत्कार्यता भवन्ती भवेत्। ततोऽनुपलम्भेनाऽतत्कार्यताशङ्कानिरासाद् तभ्दावे भावग्राहिप्रत्यक्षनिबन्धनः कार्यकारणभावोऽसन्दिग्धः सिध्यति।

न चाग्नीन्धनादिभावे नियतसन्निधेरदृश्यात्मनः कुतश्चित् धूमस्य भावः स्यात् इत्याशङ्कनीयम्। अग्नीन्धनादिभेदानुविधानाद् धूमस्य। चन्दनागुरुकर्पूरकेशोर्ण्णादीन्धनभेदे तदनुरूपभेदस्यास्य दर्शनादल्पमहदिन्धनविकारकारिणश्चाग्नेस्तदनुरूपस्य। न चाग्नीन्धनादिसन्निधावदृश्यात्मनो नियतसन्निधानता युक्ता, प्रतिबन्धाभावात्। प्रतिबन्धे वा तत्कार्यता तत्कारणता वा स्यात्। तत्कार्यत्वे, नाग्नीन्धनसम्पर्क्कानन्तरं धूमजन्म स्यात्, तभ्दावाभावानुविधानादेव चास्यापि तत्कार्यत्वम्। तच्च धूमेऽपि समानम्। नापीन्धनादिकारणत्वम् अदृश्यात्मनः, इन्धनादेः स्वहेतोरेव वृक्षादेर्भावदर्शनात्। तत्रापि तथाभावकल्पनायां तदेवोत्तरं वाच्यम्। पुनश्चोद्ये स एव परिहारोऽनवस्था च। एतेनैकसामग्र्यधीनताऽपि प्रत्युक्ता। तदन्वयव्यतिरेकानुविधानादेव च धूमस्य तत् कारणं कल्पेत। तच्चाग्न्यादावपि तुल्यम्। तदपि तत्र कारणमस्तु इति चेत्; न, अग्नयादिभावेऽवश्यम्भाविनोऽन्यस्यापि कारणत्वकल्पनायां निमित्ताभावात्, कार्यव्यतिरेकनिबन्धनत्वात् कारणभावकल्पनायाः। यथा अग्नीन्धना देरेवान्यतराभावे अभवतः। भवतु वाऽन्यस्यापि तभ्दावे नियतसन्निधेः कारणता। न तु तावताग्न्यादेः कारणत्वहानिः, यतो धूमदर्शनात् तन्निश्चयेन प्रवृत्तौ तद्विसंवादः स्यात्। नहि सर्व्वसत्त्वकर्म्माधिपत्यजनितत्वेऽपि जगद्वैचित्र्यस्य दृष्टकारणहानितस्तत्कार्यदर्शनाद् वा प्रवृत्तानां अतत्प्राप्तिरित्यलमतिप्रसङ्गेन।

किंरूपः पुनरसौ कार्यकारणभावोऽनुपलम्भसहायप्रत्यक्षनिबन्धन इत्याह- “तभ्दावे भावः तदभावेऽभावश्च” इति। य एव हि कारणाभिमतस्य भावे भाव एव। कार्यत्वेनाभिमतस्य भावः। “तदभावे” कारणत्वाभिमतस्याऽभावे “अभाव एव” कार्यत्वेनाभिमतस्याभावश्च। स एव कार्यकारणाभावो नान्यः।

स हि ताभ्यामन्यो भवन् स्वभावतोऽप्रतिपन्नकार्यकारणरूपयोर्व्वा भवेद्, यद्वा स्वभावेनैव कार्यकारणात्मनोः। यद्याद्यः पक्षः तदा सर्व्वत्रैवाकार्यक(का)रणभूतेऽपि वस्तुनि भवेत् तन्नियमकारणाभावात्। ततः सर्व्वं सर्व्वस्य कार्यं स्यात्। स्वभावेन चातद्रूपस्यान्ययोगेऽपि न तद्रूपता। नहि भावाः प्रतिनियतरूपत्यागेनान्ययोगेऽपि रूपान्तरमाभजन्ते, यतो नान्ययोगस्तेषां पूर्व्वरूपं नाशयति विनाशहेत्वयोगाद् वक्ष्यमाणकात्। नाऽप्यपूर्व्वमुत्पादयति तस्य ततोऽर्थान्तरत्वप्रसङ्गात्। नहि तेषु निष्पन्नेष्वनिष्पन्नो भिन्नहेतुको वा तत्स्वभावो युक्त्सः। अयं हि भेदो भेदहेतुर्वा विरुद्धधर्म्माध्यासः कारण भेदश्च ततश्चेत् न भेदः, अन्यनिमित्ताभावात् एकं द्रव्यं विश्वं स्यात् इत्यादि प्रसज्येत। प्रतिभासभेदोऽपि हि इतरेतराभावरूपतया विरुद्धधर्म्माध्यासतां नातिक्रामति। ततश्च पूर्व्वके वस्तुनी तदवस्थे एवेति न तयोरन्ययोगेऽपि कार्यकारणरूपतापत्तिः।

अथ द्वितीयः पक्षः, तदा स्वभावत एव तयोः कार्यकारणरूपत्वादन्यस्तभ्दावः कथं न वैयर्थ्यमनुभवेत् ?। कार्यकारणवुद्धी अपि तभ्दावभावित्वमात्रनिबन्धने नार्थान्तरनिमित्ते, तस्योपपलब्धिलक्षणप्राप्तस्य कार्यकारणरूपविवेकिना रूपान्तरेणाप्रतिभासनात्। तथाविधस्यापि ग्रहणकल्पनायामतिप्रसङ्गः। अनुपलब्धिलक्षणप्राप्ततायां कथं कार्यकारणभावबुद्धी तन्निबन्धने ?। नहि तद् अर्थान्तरं स्वसत्तामात्रेण तब्दुद्धी प्रवर्तयति। सदा सन्निहितत्वेनास्य तयोः सर्वदोदयप्रसङ्गात्। न च विशेषणमगृहीतं विशेष्ये स्वविशिष्टप्रत्ययनिबन्धनमित्ययुक्ताऽस्यानुपलब्धिलक्षणप्राप्तता। न च दृष्टस्याप्यनुपलक्षणं युक्तम्, कार्यकारणबुद्ध्योस्तन्निबन्धनतोपगमात्। न हि यन्निमितो योऽन्यत्रातब्दुद्धिभाजि तब्द्यवसायः स तदनुपलक्षणे युक्तः। देवदत्ते दण्डिव्यवसायवद् दण्डानुपलक्षणे। न चार्थान्तरस्य कार्यकारणाभ्यां सम्बन्धो घटते, सम्बन्धान्तरकल्पनायामनवस्थाप्रसक्तेः। कार्यकारणभावाभ्युपगमे कार्यकारणाभ्यामसहभाविता सभ्दावस्य। ततश्च कार्यकारणकाले तस्यासन्निधानात् कथं कार्यकारणबुद्धिहेतुता ?। निरुद्धयोरध्याहृत्य तत्प्रत्ययकल्पनायां च कल्पितविषय एव कार्यकारणताध्यवसायः स्यात् न वस्तुविषयः। स च विशिष्टभावाभावनिबन्धनोऽभ्युपगत एवेति किमर्थान्तरकल्पनया ?। कल्पितविषयत्वे तव्ध्यवसायस्य, तस्या वैयर्थ्यात् कार्यकारणयोश्चायौगपद्यात्। हनि ताभ्यामसौ जन्यते, प्रत्येकजन्यश्च कथं कार्यकारणभावः ?। यदा च कारणेन जन्यते तदा किं स्वकार्यसहितो जन्यते, अथ केवलः ?। केवलोऽपि किं स्वकार्यात् प्राग्, अथ पश्चात् ?। यदि स्वकार्यसहितस्तुदुभयोरन्यत एव भावात् परस्परमसम्बन्ध इति कार्यसम्बन्धिताऽस्य हीयेत। अथ केवलः स्वकार्यात् प्राक्; तदा क्षणिकतया कारणस्य तमेव जनयित्वा ध्वंसात् कथं स्वकार्यक्रीया ?। तस्यां चासत्यां कथं तदपेक्षमस्य कारणत्वम् ?। तस्मिंश्चासति कथमकारणेन कार्यकारणसम्बन्धो जन्यते ?। अथ स्वकार्यं कृत्वा पश्चाज्जन्येत तदाऽपि स्वकार्यकाले एव विनष्टत्वाद् असतस्तदुत्तरकालभाविकार्यकारणभावजननं कुतः ?। तभ्दावश्च सम्बन्ध उच्यते।

....................................................................................................................................................................................... जन्यतायां वा यदि समग्राः स्वरूपत एव तां जनयन्ति कार्ये क एषां शक्तिव्याघातः ? यतोऽन्यत्र कल्प्यते। तत्राप्यपरसामग्रीयोगापेक्षायां चानवस्थाप्रसङ्गः। ततः समग्रा एव जनकाः।

तेषां च कारणत्वमेकैकापाये कार्यव्यतिरेकतः समुन्नीयत इत्याह- “सत्स्वप्यन्येषु” तत्सामग्र्यन्तर्ग्गतेषु “हेतुषु” जनकेषु प्रत्येकं तेषां व्यञ्जनकत्वाद् “अस्याभावे” जनकत्वेन निर्द्धार्यमाणतया विवक्षितस्याभावे “न भवति” इत्यनेनानुपलम्भस्य विषय उक्तः। प्रत्यक्षवृत्तिस्तु पूर्व्वोक्तैवाऽनुपलम्भरहिता तभ्दावे भावग्राहिणी संबन्ध्यते।

तथा चायमपि तभ्दावे भावः तदभावेऽभावश्च कार्यकारणभावः किंसाधनः ? इत्याह- “प्रत्यक्षानुपलम्भसाधनः” प्रत्यक्षपूर्व्वकोऽनुपलम्भः तव्दिविक्रान्यपदार्थग्राहिप्रत्यक्षात्मकः साधनमस्येति “प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः”। यस्त्वनुपलम्भसापेक्षेण प्रत्यक्षेण साध्यत इति प्रागुक्तः सोऽनुपलम्भपूर्व्वकं प्रत्यक्षं साधनमस्येति अनुपलम्भप्रत्यक्षसाधन इति वक्तव्यः। “तस्य” कार्यकारणभावस्यान्वयव्यतिरेकात्मनः “सिद्धिः” निश्चयो “यथोक्ताभ्यां” प्रत्यक्षानुपलम्भाभ्यां कार्यहेतावन्वयनिश्चय इति सम्बन्धते।

ननु चान्वयनिश्चयो नाम कार्यहेतोः सर्व्वत्र कार्यस्य भवतः स्वकारणसत्तयाऽनुगमनमित्येवमवसायः तत् कथं कार्यकारणभावसिद्धिरेवाऽसावुच्यते ? इत्याशङ्क्य कार्यकारणभावसिद्धिनिबन्धनत्वादन्वयनिश्चयस्य कारणे कार्योपचारादनन्योपायसाध्यतां दर्शयितुम्, दर्शनमात्रनिबन्धनं ये तमिच्छन्ति तन्मतनिषेधार्थमसावेवमुक्त इति दर्शयन्नाह- “कार्यकारणभाव एव हि” कार्यकारणभावे सत्येव ‘हिः’ यस्मात् “अर्थान्तरस्य” साध्याद् व्यतिरिक्तस्य, यस्त्वव्यतिरिक्तः तस्य विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यनिश्चयादेवान्वयनिश्चय इति पूर्व्वमुक्तमेवेत्यर्थान्तरग्रहणम्। तस्यार्थान्तरस्य “एवं स्यात्”। कथम् ?। ‘यत्र नाम क्वचिद् धूमः तत्रावश्यमग्निः’ इति नियमेन ‘अग्नेः तत्र भावः’ इत्येवंरूपोऽन्वयनिश्चयः। यस्त्वकार्यकारणभावेऽपि रसस्यार्थान्तरस्य रूपेणान्वयनिश्चयः स एकसामग्र्यधीनतया तस्य स्वकारणाव्यभिचारद्वारक एवेत्यदोषः।

अथ यदि नाम कार्यमग्नेर्धूमस्तथापि किमिति यत्रासौ तत्रावश्यमग्निर्भवति यतः कार्यकारणभावसिद्धिनिबन्धनोऽन्वयनिश्चय उच्यत इत्याह-“अग्नेः भावे एव” सत्तायामेव ‘हिः’ यस्मात् “भावः” सत्ता धूमस्य “कार्यत्वमिति”। तस्मात् कार्यकारणभावे सत्येव यथोक्तोऽन्वयनिश्चय इति। यदि हि यत्र धूमस्तत्रावश्यमग्निर्न्न स्यात् तदाऽग्निमन्तरेणाप्यस्य भावाद् अग्निभाव एव भावलक्षणं कार्यत्वं हीयेत।

[३३. अनुपलब्धावन्वयनिश्चयोपायकथनम्।]
इदानीमनुपलब्धावन्वयनिश्चयमाह-“अनुपलब्धावपि” न केवलं स्वभावकार्यहेतो(त्वो)रन्वयनिश्चय उक्तः किन्त्वनुपलब्धावप्यन्वयनिश्चय उच्यते। किंरूपोऽसौ ? इत्याह- “असद्‍व्यवहारस्य” साध्यधर्म्मस्य योग्यतायाश्च साध्यत्वात् तद्योग्यताऽसव्द्यवहारोऽभिप्रेतः, तस्य, उपलब्धिलक्षणप्राप्तस्य या “अनुपलब्धिः” तदन्योपलब्धिरूपा त“न्मात्रे” निमित्तान्तरानपेक्षणी, या “वृत्तिः” प्रवृत्तिरसव्द्यवहारस्य तस्याः “साधनं” सिद्धिः अनुपलब्धवन्वयनिश्चयः। कुतः पुनरसव्द्यवहारस्य तन्मात्रे वृत्तिर्भवति ? इत्याह- “निमित्तान्तराभावोपदर्शनात्” इति। यदा ह्यसव्द्यवहारस्य यथोक्तानुपलभ्दिव्यतिरिक्तं बुद्धिव्यपदेशार्थक्रियाविरहादिकं निमित्तं न भवतीति साध्यते तदा यथोक्तानुपलब्धिमात्रेऽस्य वृत्तिः सिद्धा भवति। तथा(तया) चानुपलब्धावन्वयनिश्चयः। अन्यथा हि निमित्तान्तरापेक्षाशङ्कायां सत्यामपि यथोक्तानुपलब्धौ नावश्यमसव्द्यवहारस्य भाव इति कुतोऽन्वयनिश्चयः स्यात् ?। निमित्तान्तराभावस्तु विस्तरतो वादन्याय उक्त इति तत एवावधार्यः।

अथवा सव्द्यवहारस्य यन्निमित्तमुपलब्धिलक्षणप्राप्तस्य सत्त्वम् तद् असव्द्यवहारनिमित्तादन्यत्वात् निमित्तान्तरं तत्रानुपलब्धेरभाव उपदर्श्यते येन प्रमाणेन तदेवमुक्तम्, तेन, सति वस्तुनि तस्या असम्भवनिश्चयाद् अनुपलब्धावन्वयनिश्चयः। तच्च तव्द्यतिरेकचिन्तायां दर्शयिष्यामः।

तदेवं त्रयाणामपि हेतूनां यथास्वं प्रमाणेनान्वयनिश्चय उक्तः। स्वभावहेतौ विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यसिद्धिनिबन्धनत्वात्, कार्यहेतौ प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावसिद्धिनिमित्तत्वात्, अनुपलब्धौ निमित्तान्तराभावप्रसाधकप्रमाणस्तदभवसिद्धिहेतुत्वाच्चेति।

[३४. कार्यस्वभावयोर्व्यतिरेकनिश्चयोपायकथनम्।]
सम्प्रति त्रयाणामपि हेतूनां स्वस्वप्रमाननिबन्धनं व्यतिरेकनिश्चयं प्रतिपादयितुकाम आह- “व्यतिरेकनिश्चयोऽपि” न केवलमन्वयनिश्चयो यथास्वं प्रमाणनिबन्धनस्तयोरुक्तः अपि तु “व्यतिरेकनिश्चयोऽपि कार्यस्वभावहेत्वो” र्यथास्वं प्रमाणनिमित्त उच्यते।

कः पुनरसौ ? “साध्याभावेऽभावसिद्धिः”। यावतदात्मक[तदात्मकौ हेतू कारणव्यापकरूपसाध्यस्य साधकौ] साध्याभावे चाभावसिद्धिस्तयोः। केन प्रमाणेन ?। “कारणव्यापकानुपलब्धिभ्यां”। कार्यहेतौ कारणानुपलब्ध्या साध्याभावेऽभावनिश्चयः। स्वभावहेतौ व्यापकानुपलब्ध्या। कदा पुनस्ते अनुपलब्धी साधिके तस्य भवतः ?। “कार्यकारणव्याप्यव्यापकभावसिद्धौ” प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावसिद्धौ सत्यां कारणानुपलब्धिः कार्यहेतौ साध्याभावेऽभावस्य साधिका, विपर्यये च बाधकप्रमाणवृत्त्या तभ्दावतासिद्धितः। व्याप्यव्यापकभावसिद्धौ सत्यां व्यापकानुपलब्धिः स्वभावहेतौ साध्याभावेऽभावस्य साधिकेति। तदेवं ब्रुवता उभयत्र तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धनिश्चयादेव द्वयोरप्यन्वयव्यतिरेकयोः निश्चय इति उक्तं भवति। अत एवान्यत्र-“कार्यकारणभावाद् वा” इत्यादि उक्तम्। कीदृशीभ्याम् ? “दृश्यविषयाभ्यां” दृश्यो विषयो ययोस्ते तथोक्ते। यदि कारणव्यापकावुपलब्धिलक्षणप्राप्तौ भवतस्तदा तदनुपलब्धी साध्याभावेऽभावं साधयत इति यावत्। कदा पुनस्तयोः दृश्यविषयताविशेषणमपेक्ष्यते ? इत्याह-“उद्दिष्टविषयस्य” उद्दिष्टः- कथितो विषयः- आधारो वैधर्म्म्यदृष्टान्तलक्षणो यस्य साध्याभावेऽभावस्य तस्योपदर्शने क्रियमाणे। तत्रापि कस्माद् दृश्यविषयताऽपेक्ष्यते ? इति चेत् आह- “अनुपलब्धि” इत्यादि। “अन्यथा” यदि दृश्यविषयताविशेषणमनुपलब्ध्योर्न्नापेक्ष्यते। यदाऽनुपलब्धिलक्षणप्राप्तं विषयं वैधर्म्यदृष्टान्तरूपमुपादत्ते तदाऽनुपलब्धिलक्षणप्राप्तौ तत्र कारणव्यापकावपि भवत इति “अनुपलब्धिलक्षणप्राप्तस्यः” कारणस्य व्यापकस्य वा “क्वचिद्” विप्रकृष्टे विषये सुमेर्व्वादौ “अभावासिद्धेः” कथमाभ्यां साध्याभावेऽभावसिद्धिः स्यात्, कारणव्यापकानुपलब्ध्योरेवासिद्धत्वात् इत्यभिप्रायः।

अथानुद्दिष्टविषयस्याप्यभावस्योपदर्शनेऽनुपलब्ध्योर्द्दश्यविषयताविशेषणं किमित्ति नापेक्ष्यते ? इत्याह- “अनुद्दिष्टविषयम्” अनुद्दिष्टो विषयः- वैधर्म्यदृष्टान्तरूपो यस्मिन् साध्याभावे हेत्वभावख्यापने तत् “प्रतिबन्धमात्रसिद्धौ” सत्यां दृश्यविषयताविशेषणमन्तरेणापि यस्मात् “सिध्यति इति” तस्मात् “न तत्र” अनुद्दिष्टविषये “व्यतिरेकसाधने” अनुपलब्ध्यो “र्दृश्यविषय ताविशेषणमपेक्ष्यते” अङ्गीक्रियते। तथा हि-अशेषपदार्थपरिग्रहेण सामान्येनापि ब्रुवतो यो यत्र प्रतिबद्धस्वभावः तादात्म्यतदुत्पत्तिभ्यां स तदभावेऽवश्यमेव न भवतीति निःस्वभावत्वाऽहेतुकत्वप्रसङ्गात्। तदुक्तम्-

“स्वभावेऽप्यविनाभावो भावमात्रानुरोधिनी।
तदभावे स्वयं भावस्याभावः स्यादभेदतः॥”
तथा- “कार्यं धूमो हुतभुजः कार्यधर्म्मानुवृत्तितः।
स भवंस्तदभावेऽपि हेतुमत्तां विलङ्घ्येत्॥” इति।

ततस्तत्र दृश्यविषयताऽपेक्ष्यमाणानुपकारिकैवेति न तया किञ्चिदिति भावः।

“प्रतिबन्धमात्रसिद्धौ” इत्यनेन ये प्रतिबन्धं हेतोर्न्न वर्ण्णयन्ति किन्त्वदर्शनमात्रादेव व्यतिरेकमाहुस्तेषां तदसम्भवं व्च दर्शयति। तथा हि-असति प्रतिबन्धे यदि सर्व्वे साध्यविरहिणोऽर्था दृश्या भवन्ति तदा तेष्वनुपलब्धस्य साधनस्याभावः शिष्येत्। तदाह कुमारिलोऽपि-

“गत्वा गत्वा तु तान् देशान् यद्यर्थो नोपलभ्यते।
तदान्यकारणाभावादसन्नित्यवगम्यते॥” इति।

देशादिविप्रकर्षितया त्वदृश्यत्वे सत्यपि तत्र हेतावनुपलम्भमात्रस्य सम्भवात् सन्दिग्धोऽसावऽशेषे साध्याभावे साधनाभावलक्षणो व्यतिरेकः तथाविधस्यैव यत्र यत्र साध्याभावः तत्र तत्र साधनाभाव इति वीप्सापदाभ्यामभिधानात्। अन्वयनिश्चयोऽपि प्राक्प्रतिबन्धनिबन्धन एव वर्ण्णितः ततस्तेनापि परेषां दर्शननिबन्धनामन्वयसिद्धिमिच्छतामभावोऽस्यापि कथित एव, सर्व्वार्थानां हेतुमतां साध्यधर्म्मवत्तया द्रष्टुमशक्यत्वादनुमातृभिः। अशेषदेशादिविषयस्य च साध्यानुगमस्य यत्र यत्र हेतुः तत्र तत्र साध्यम् इति वीप्सया प्रतिपादनात्। न च कतिपयदेशादौ साधनधर्म्मस्य साध्यधर्म्मेण सहभावस्य भूयो दर्शनेऽपि व्याप्तिः सिध्यति, असति प्रतिबन्धे क्वचिद् बहुलं तथादृष्टानामप्यन्याथात्वस्यापि सम्भवात्, तदसम्भवे बाधकप्रमाणाभावात्।

[३५. अनुपलब्धौ व्यतिरेकनिश्चयोपायाकथनम्।]
अनुपलब्धिमधिकृत्याधुनाऽऽह- “व्यतिरेकनिश्चयोऽनुपलधौ” उच्यत इति शेषः। किमात्मकोऽसौ ? इत्याह “उपलब्धिलक्षणप्राप्ताद्” विद्यमानोपलम्भप्रत्ययान्तराद् दृश्यस्वभावाच्च “सतः” विद्यमानात् साध्याभावरूपाद् “अनुपलम्भस्य” तद्विविक्तोपलम्भात्मनो योऽभावः सतो यद्‍ग्राहकं प्रत्यक्षं तभ्दावलक्षणस्तस्य “दर्शनं” दर्श्यते- प्रत्याय्यतेऽनेनेति दर्शनम् उपदर्शकं प्रमाणं तदात्मकोऽनुपलब्धौ व्यतिरेकनिश्चयः। तद्धेतुत्वाच्च तत् प्रमाणं तथोच्यते। यदि हि सन्निहितान्योपलम्भप्रत्ययो दृश्यस्वभावो भावो विद्यमानोऽपि नोपलभ्येत कथमसौ दृश्यस्वभावः स्यात् ?। यो हि सत्स्वन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स एव दृश्यस्वभाव आख्यायते। तस्मात् तथाविधे सन्निहितेऽवश्यं प्रत्यक्षवृत्त्या भवितव्यम्, अन्यथाऽस्य न कदाचिदपि प्रत्यक्षता स्यात्, विशेषाभावादिति। प्रयोगः-यद् यन्मात्रनिमित्तं तत्स्मिन् सति नियमेन भवति। तद् यथा-बीजादिसामग्रीमात्रनिमित्तोऽङ्कुरः। यथोक्तोपलब्धिलक्षणप्राप्ततामात्रनिमित्तं च सति वस्तुनि तथाविधे प्रत्यक्षमिति स्वभावहेतुः। [एते]न प्रमाणेन स्वभावानुपलब्धौ साध्याभावेऽभावलक्षणो व्यतिरेको निश्चीयते। एतच्च प्रमाणमन्वयनिश्चयस्यापि निमित्तम्। अनेनैव निमित्तान्तरेऽनुपलब्धेरभावोपदर्शनात्। कारणव्यापकानुपलब्ध्योस्तु वक्ष्यमाणयोः प्रतिबन्धद्वयसिद्व्युपाय एवान्वयव्यतिरेकनिश्चयनिबन्धनम्। स च कार्यस्वभावहेत्वोरुपदर्शित एवेति पृथग्नोक्तः। तथा हि-कारणव्यापकयोरभावः कार्यव्याप्याभावाभ्यामवश्यमन्वितः कार्यव्याप्याभावव्यतिरेके च तभ्दावलक्षणेऽवश्यं व्यतिरिच्यते कारणव्यापकयोर्भावात्। अन्यथा कार्यव्याप्ययोरहेतुकत्वनिःस्वभावताप्रसङ्गादिति न किञ्चित् पृथगभिधानेनेति।

[३६. हेतोः प्रकारत्रयस्य नामनिर्देशः।]
तदेतावता ग्रन्थेन “पक्षधर्म्मस्तदंशेन व्याप्तो हेतुः” इति व्याख्यातम्। अधुना “त्रिधैव सः” इत्येतद् व्याख्यातुमाह- “एतल्लक्षणः” ‘पक्षधर्म्मः सन् यस्तदंशेन व्याप्तो हेतुः’ इत्येतल्लक्षणं यस्य स एतल्लक्षणः। “त्रिधैव सः”। ‘सः’ इत्येतस्य व्याख्यानं “हेतु”रिति,। ‘त्रिधैव’ इत्यस्य विवरणं “त्रिप्रकार एवे” ति। तान् हेतून स्वेन स्वेन नाम्ना कीर्त्तयति- “स्वभावः कार्यम् अनुपलब्धिश्चेति”। “च”कारो हेतुत्वसमुच्चयार्थः। “इति” शब्दः समाप्तिं सूचयन्नवधारणार्थमेव स्फुटयति। “यथा-अनित्ये” कस्मिंश्चित् शब्दादौ “साध्ये सत्व(त्त्व)मिति” स्वभावहेतूपदर्शनम्, “अग्निमति प्रदेशे” साध्ये “धूम इति” कार्यहेतोः प्रदर्शनम्, “अभावे च” अभावस्य व्यवहारे च “उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरिति” अनुपलब्धेरुपन्यासः।

[३७. त्रिविधहेतुबाह्यानां हेत्वाभासत्वे प्रमाणोपदर्शनम्।]
कस्मात् पुनः त्रिविध एव हेतुः ? इत्याशङ्कय त्रिविधहेतुव्यतिरिक्तानामर्थानां हेत्वाभासतया हेतुविरुद्धया व्याप्तेस्त्रिष्वेव हेतुत्वं नियतं भवतिति हेत्वाभासतां प्रमाणवतीं तद्व्यतिरेकिणां दर्शयन्नाह- “अत्रैव” स्वभावकार्याऽनुपलब्ध्याख्ये “त्रिविधहेतौ अविनाभावस्य नियमादिति” त्रिविधहेतुव्यतिरिक्तेष्वर्थेष्वविनाभावाऽभावादित्यर्थः। ततश्चाविनाभावविकलत्वात् स्वभावकार्यानुपलब्धिव्यतिरेकिणोऽर्था हेत्वाभासाः प्रमेयत्वादिवत् इत्युक्तं भवति। अविनाभावाभावश्च त्रिविधहेतुव्यतिरिक्तत्वादेव तादात्म्यतदुत्पत्त्योरविनाभावव्यापिकयोरभावाद् व्यापकानुपलब्धितोऽवगतः।

[३८. अविनाभावनिरूपणम्।]
अथ कोऽयमविनाभावः ? कस्य चासौ ? कथं वाऽत्रैव नियत उच्यते ? इत्यत आह- “यथोक्ता व्याप्तिः व्यापकस्य”- तत्कारणतया तभ्दावतया च। यत्र तद्वयाप्यं कार्यं स्वभावो वा सन्निहितस्तत्र भाव एव। “व्याप्यस्य वा”- कार्यस्य स्वभावस्य वा। यत्र तत्कारणस्वभावाख्यं व्यापकं सन्निहितं तत्रैव धर्म्मिणि न तदभावेऽपि भाव इति या व्यापकव्याप्यधर्म्मतया व्याप्तिरुक्ता सा “यथोक्ता व्याप्तिरविनाभावः”। कस्य ?। “पक्षधर्म्मस्य”। साध्यधर्म्मिधर्म्मस्य। “स” एवंरूपोऽविनाभावः “तृ(त्रि)विधाद्” यथोक्ताद् हेतोः “अन्यत्रः” तद्व्यतिरेकिण्यर्थे “नास्ति”। यतोऽत्र च तृ(त्रि)विधेऽस्ति तादात्म्यतदुत्पत्त्योरविनाभावेन व्याप्तयोर्भावात्, कृतकत्वानित्यत्ववदनयोर्व्याप्यव्यापकभावादिति “तस्मादत्रैव” त्रिविधे हेतौ तदन्यत्राभावमुखेन “नियतः” उच्यते। तदनेन “हेत्वाभासास्ततोऽपरे” इत्यस्य “अविनाभावनियमात्” इत्युपपत्तिसहितस्यार्थः प्रदर्शितः। यथा च त्रिविधाद् हेतोरन्यत्राविनाभावो नास्ति तथा प्रागेवोक्तम्।

यदि वा स्वभावादन्योऽर्थोऽर्थान्तरम्, तच्च कार्यादप्यन्यत् कारणमनुभयं वा। अनुपलब्धेरप्यन्यद् यथोक्तायाः अनुपलब्धिमात्रमुपलब्धिर्व्वा प्रतिषेध्यस्य तदन्यस्यापि विरुद्धस्याविरुद्धस्य वा। तत्रार्थान्तरम् यद्यनन्तरकार्यं तस्यार्वाग्दर्शिभिः इतरविवेकेन लक्षयितुमशक्यत्वात् अलिङ्गत्वम्। कार्यदर्शनात् विवेकावसायेऽपि साध्यसिद्युत्तरकालभावी पक्षधर्म्मतावसायोऽन्वयानुगमनं च व्यर्थं। व्यवहितकार्यमपि कारणं न कार्यस्य लिङ्गम्, अन्तरालप्रतिबन्धवैकल्यसम्भवेन व्यभिचारात्। तदुक्तम्-

“सामग्रीफलशक्तीनां परिणामानुबन्धिनि।
अनैकान्तिकता कार्ये प्रतिबन्धस्य सम्भवात्”॥

इति। योग्यतानुमाने तु नार्थान्तरं लिङ्गम्।

नाप्यनुभयम्, अप्रतिबन्धेन गमकत्वायोगात्। कथं कृत्तिकोदयविज्ञानाद् रोहिण्यासत्तिक्लृप्तिः ? इति चेत्। ननु साऽपि नैवासति प्रतिबन्धे युक्ता विशेषाभावेन सर्व्वतः सर्व्वप्रतीतिप्रसङ्गात् इत्युक्तत्वात्। तस्मान्नक्षत्रचक्रस्य सङ्क्रान्तिहेतुरेव कालव्यवधानेन कश्चित् कल्पयितव्यः, यथा भूतसंक्षोभः पश्चात्कालभाविनो वर्षस्येति हेतुधर्म्मानुमानेन कार्यलिङ्गजैव कल्पयितव्या।

अनुपलब्धिमात्रमपि संशयहेतुः, प्रमाणनिवृत्तावप्यर्थाभावासिद्धेः। उपलब्धिरपि प्रतिषेध्यस्य कथमभावं साधयेत् ?, अभ्रान्तोपलम्भस्याभावायोगात्। विरुद्धोपलब्धिस्तु प्रतियोग्यभावं साधयति। किन्तु स विरोधस्तभ्दावे सत्यन्यानुपलम्भादेव सिद्ध इति तद्‍द्वारेणानुपलब्धिरेव प्रयुक्ता भवति। अन्यथाऽनिषिद्धोपलब्धेरभावासिद्धेः। अविरुद्धोपलब्धिः पुनः प्रतिषेधेऽनैकान्तिकी, सहभावसम्भवादविरुद्धानाम्। न चापरः प्रकारः सम्भवतीति नाविनाभावोऽन्यत्र विद्यत इति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project