Digital Sanskrit Buddhist Canon

हेतुबिन्दुः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Hetubinduḥ

हेतुबिन्दुः



नमो बुद्धाय।

(१. १)परोक्षार्थप्रतिपत्तेरनुमानाश्रयत्वादेव तद् व्युत्पादनार्थ संक्षेपत इदमारभ्यते-

पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः।

अविनाभावनियमाद् हेत्वाभासास्ततोऽपरे॥



(१.२) पक्षो धर्मी, अवयवे समुदायोपचारात्। प्रयोजनाभावादनुपचार इति चेत्। न। सर्वधर्मिधर्मप्रतिषेधार्थत्वादुपचारस्य। एवं हि चाक्षुषत्वादि परिहृतं भवति। धर्मवचनेनापि पराश्रयत्वाद् धर्मस्य धर्म्याश्रयसिद्धौ प्रत्यासत्तेः साध्यधर्मिण एव सिद्धिरिति चेत्। न। प्रत्यासत्तेः दृष्टान्तधर्मिणोऽपि। सिद्धे तदंशव्याप्त्या दृष्टान्तधर्मिणि सत्त्वे पुनर्धर्मिणो वचनं दृष्टान्तधर्मिण एव यो धर्मः स हेतुरिति नियमार्थमाशंक्येत। दृष्टं सजातीय एव सत्त्वम् इत्यवधारणेन साध्याभावे सिद्धेऽपि व्यतिरेके साध्याभावे असत्त्ववचनम्, तथेहापि तदंशव्याप्तिवचनात् सिद्धेऽपि दृष्टान्तधर्मिणि सत्त्वे तत्रैव भावनियमार्थ धर्मिवचनमाशंक्येत। तस्मात् सामर्थ्याद् अर्थप्रतीतावपि उपचारमात्रात् समाननिर्देशात् प्रतिपत्तिगौरवं च परिहृतं भवति।



(१.३) पक्षस्य धर्मत्वे तद्विशेषणापेक्षस्यान्यत्राननुवृत्तेरसाधारणतेति चेत्। न। अयोगव्यवच्छेदेन विशेषणात्। यथा चैत्रो धनुर्धर इति। नान्ययोगव्यवच्छेदेन। यथा पार्थो धनुर्धर इति।

तदंशस्तधर्मः।

(१.४) तस्य व्याप्तिर्हि व्यापकस्य तत्र भाव एव। व्याप्यस्य वा तत्रैव भावः। एतेन अन्वयो व्यतिरेको वा पक्षधर्मश्च यथास्वं प्रमाणेन निश्चित उक्तः। सर्वत्र हेतौ साध्यवैधर्म्ये व्याप्त्यसिद्धेर्व्यापकानिवृत्तौ निवृत्त्यभावाद्वा। अन्वयव्यतिरेकानिश्चयाभ्यां हि तद्धर्मव्याप्तिनिश्चयः।



(१.५) तत्र पक्षधर्मस्य साध्यधर्मिणि प्रत्यक्षतोऽनुमानतो वा प्रसिद्धिः। तथा प्रदेशे धूमस्य, शब्दे वा कृतकत्वस्य।

सधूमं हि प्रदेशमर्थान्तरविविक्तरूपमसाधारणात्मना दृष्टवतः स्मार्तं यथादृष्टभेद विषयं लिङ्गज्ञानमुत्पद्यते।

तत्र यदाद्यमसाधारणविषयं दर्शनं तदेव प्रमाणम्।



(१.६) तस्मिंस्तथाभूते दर्शनेन दृष्टेसति स येन येनासाधारणस्तदसाधारणतां ततो भेदमभिलपन्ती अतद्वयावृतिविषया स्मृतिरुत्पत्रा प्रत्यक्षबलेन न प्रमाणम्। यथादृष्टाकारग्रहणात्, प्रागसाधारणं दृष्ट्वा असाधारण इत्यभिलपतः अपूर्वार्थाधिगमाभावात्, अर्थक्रियासाधनस्य आलोचनाज्ञानेन दर्शनाच्च। अदृष्टस्य पुनस्तत्साधनस्य विकल्पेनाप्रतिपत्तेरनुमानवत्।

अर्थक्रियार्थी हि सर्वः प्रेक्षावान् प्रमाणमप्रमाणं वाऽन्वेषते। न च सामान्यं स्वलक्षणप्रतिपत्तेरूर्ध्वं तत्सामर्थ्योत्पत्रविकल्पविज्ञानग्राह्यं काञ्चिदर्थक्रियामुपकल्पयति। यथा नीलं दृष्ट्वा नीलमिति ज्ञाने। तदेव हि नीलस्वलक्षणं तथाविधसाध्यार्थक्रियाकारि। तच्च तेनात्मना दृष्टमेव आलोचनाप्रत्ययेन।

न च तत्स्वलक्षणग्रहणोत्तरकालभाविनो नीलविकल्पस्य विषयेण नीलसाध्यार्थक्रिया क्रियते।



(१.७) तस्मात् अनधिगतार्थविषयं प्रमाणम् इत्यपि अनधिगते स्वलक्षणे इति विशेषणीयम्।

अधिगते तु स्वलक्षणे तत्सामर्थ्यजन्मा विकल्पस्तदनुकारी कार्यतस्तद्विषयत्वात् स्मृतिरेव, न प्रमाणम्, अनधिगतवस्तुरूपस्यानधिगतेः। वस्त्वधिष्ठानत्वात् प्रमाणव्यवस्थायाः। अर्थक्रियायोग्यविषयत्वात् तदर्थिनां प्रवृत्तेः। अर्थक्रियायोग्यलक्षणं हि वस्तु। ततोऽपि विकल्पात् वस्तुन्येव तदध्यवसायेन पुरुषस्य प्रवृत्तेः। प्रवृत्तौ प्रत्यक्षेणाभिन्नयोगक्षेमत्वात्।

पूर्वप्रत्यक्षक्षणेन अभिन्नयोगक्षेमत्वादुत्तरेषां क्वचिदप्रामाण्यप्रसङ्ग इति चेत्। न। क्षणविशेषसाध्यार्थवाञ्चायां नानायोगक्षेमत्वात्। साधारणे हि कार्ये न तेषां सामर्थ्यभेदः। अपरापरधूमप्रमितसत्रिकृष्टाग्निषु इव अनुमानज्ञानानामग्निमात्रसाध्येऽर्थे।

एतेन धर्मिधर्मलिङ्गादिविकल्पस्य प्रमाणपृष्ठभाविनः प्रामाण्यं प्रत्युक्तम्।



(१.८) अन्वयनिश्चयोऽपि स्वभावहेतौ साध्यधर्मस्य वस्तुतस्तद्भावतया साधनधर्मभावमात्रानुबन्धसिद्धिः। सा हि साध्यविपर्यये हेतोर्बाधक- प्रमाण-वृत्तिः। यथा सत् तत् क्षणिकमेव, अक्षणिकत्वेऽ-र्थक्रिया विरोधात् तल्लक्षणं वस्तुत्वं हीयते।

कार्यहेतौ कार्यकारणभावसिद्धिः। यथेदमस्योपलम्भे उपलब्धिलक्षणप्राप्तमनुपलब्धमुपलभ्यते, सत्सु अप्यन्येषु हेतुषु अस्याभावे न भवतीति यस्तद्भावे भावस्तदभावेऽभावश्च प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः तस्य सिद्धिः। कार्यकारणभाव एव ह्यर्थान्तरस्य एवं स्यात्- यत्र धूमस्तत्रावश्यमग्निरिति, अग्निभाव एव हि भावो धूमस्य तत्कार्यत्वमिति।

अनुपलब्धावपि अन्वयनिश्चयः असद्वयवहारस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धिमात्रवृत्ति साधनं, निमित्तान्तराभावोपदर्शनात्।



(१.९) व्यतिरेकनिश्चयोऽपि कार्यस्वभावहेत्वोः कारणव्यापकानुपलब्धिभ्यां दृश्यविषयाभ्यां कार्यकारणव्याप्यव्यापकभावसिद्धौ सत्यां साध्याभावेऽभावसिद्धिरुद्दिष्ट विषयस्याभावोपदर्शने। अनुपलब्धिलक्षणप्राप्तस्यान्यथा क्वचिदभावासिद्धेः। अनुद्दिष्टविषयं साध्याभावे हेत्वभावख्यापनं प्रतिबन्धमात्रसिद्धौ सिध्यतीति न तत्र व्यतिरेक- साधने अनुपलब्ध्योः दृश्यविषयताविशेषणमपेक्ष्यते। व्यतिरेकानिश्चयोऽनुपलब्धावुपलब्धिलक्षणप्राप्तात् सतोऽनुपलम्भाभावदर्शनम्।



(१.१०) एतल्लक्षणः त्रिधैव सः हेतुस्त्रिप्रकार एव। स्वभावः कार्यमनुपलब्धिश्चेति। यथा अनित्ये कस्मिंश्चित्साध्ये सत्त्वमिति। अग्निमति प्रदेशे धूम इति। अभावे च उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरिति। अत्रैव त्रिविधहेतावविनाभावस्य नियमात्। पक्षधर्मस्य यथोक्ता व्याप्तिरविनाभावः। न स त्रिविधाद्धेतोरन्यत्रास्तीत्यत्रैव नियत उच्यते।

(२.१) तत्र साधनधर्मभावमात्रान्वयिनि साध्यधर्मे स्वभावो हेतुः। अपरापरव्यावृत्तिभेदेन धर्मभेदे सत्यपि वस्तुतः लिङ्गस्वभाव एव। हेतुस्वभावे साध्यधर्मेऽन्वयव्यभिचाराभावात् लक्षणे तन्मात्रान्वयेनेति विशेषणं परमतापेक्षम्।

परे हि अर्थान्तरनिमित्तमतद्भावमात्रान्वयिनमपि स्वभावमिच्चन्ति। तेन च विशेषणेन तथविधस्य अतत्स्वभावतां तस्मिन् साध्ये हेतोर्व्यभिचारं चाह। यथा हेतुमति विनाशे कृतकत्वस्य।



(२.२) तस्य द्विधा प्रयोगः। साधर्म्येणैकः वैधर्म्येणापरः। यथा यत् सत् तत् सर्वं क्षणिकम्। यथा घटादयः। संश्च शब्दः इति। तथा, क्षणिकत्वाभावे सत्त्वाभावः संश्च शब्द इति। सर्वोपसंहारेण व्याप्तिप्रदर्शनलक्षणौ साधर्म्यवैधर्म्यप्रयोगावुक्तौ।



(२.३) अत्र पक्षधर्मसम्बन्धवचनमात्रसामर्थ्यादेव प्रतिज्ञार्थस्य प्रतीतेः न प्रतिज्ञायाः प्रयोग उपदर्शितः। अप्रदर्शिते प्रमेये कथं तत्प्रतीतिरिति चेत्। स्वयं प्रतिपत्तौ प्रमेयस्य क उपदर्शयिता? प्रदेशस्थं धूममुपलब्धवतः तस्याग्निना व्याप्तेः स्मरणे तत्सामर्थ्यादेव अग्निरत्र इति प्रतिज्ञार्थप्रतीतिर्भवति। न च तत्र कश्चित् अग्निरत्रेति अस्मै निवेदयति। नापि स्वयमपि प्रागेव प्रतिपद्यते किञ्चित्, प्रमाणमन्तरेणैवं प्रतीतेः निमित्ताभावात् प्रतीतौ लिङ्गस्य वैयर्थ्यम्। स्वयमेवाकस्मात् अग्निरत्रेति व्यवस्थाप्य तत्प्रतिपत्तये पश्चाल्लिङ्गमनुसरतीति कोऽयं प्रतिपत्तेः क्रमः? परेणापि तदुच्यमानं प्लवत एव उपयोगाभावात्। विषयोपदर्शनमुपयोग इति चेत्, तेनैव तावद्दर्श्यमानेन कोऽर्थः? यदि प्रतीतिरन्यथा न स्यात्तदा सर्वं शोभेत। तस्मादेष स्वयंप्रतीतौ केनचिद् विषयोपस्थापकेन विनापि प्रतियन् अस्मान् कार्यिणो दृष्ट्वा पर्वब्राह्मण इव व्यक्तं मूल्यं मृगयते। अस्मद्वचनादपि स्वयं सिद्धमेव लिङ्गमनुसृत्य साध्यं प्रत्येतीति कोऽनयोरवस्थयोर्विशेषः? दृष्टा च पक्षधर्मसम्बन्धवचनमात्रात् साधर्म्यवत् - प्रयोगादेः प्रतिज्ञावचनमन्तरेणापि प्रतीतिरिति कस्तस्योपयोगः? स्वनिश्चयवदन्येषामपि निश्चयोत्पादनाय साधनमुच्यते। तत्र स्वयं प्रमेयोपदर्शनेन विनापि प्रतिपद्य परं प्रतिपादयत्रपूर्व क्रममाश्रयते इति किमत्र कारणम्? तस्मात्र प्रमेयस्य वचनेन किञ्चित्प्रयोजनमन्यथापि प्रतिपत्तेरुत्पत्तेः।



(२.४) एतेनोपनयनिगमनादिकमपि प्रत्युक्तम्। एतावतैव साध्यप्रतीतेर्भावात्। डिण्डिकरागं परित्यज्याक्षिणी निमील्य चिन्तय तावत् किमियता प्रतीतिः स्यात्र वेति। भावे किं प्रपञ्चमालया? इति इयानेव साधनवाक्ये प्रयोगो ज्यायान्।



(२.५) अत्र पूर्वं हेतुः प्रयोक्तव्यः पश्चाद् दृष्टान्त इति क्रमनियमोऽपि न कश्चित्। सर्वथा गमकत्वात्।



(२.६) सम्बन्धवचनेऽपि नार्थभेदोऽपि कश्चित्। उभयथाऽपि तद्भावस्यैव ख्यापनात्। नहि अतत्स्वभावस्य भावे एकान्तेनान्यस्य भावः कृतकत्वस्य भावे प्रयत्नानन्तरीयकत्ववत्। कार्यस्यापि अतत्स्वभावस्याभावे न तन्निवृत्तिः, यथाऽनयोरेव नैकनिवृत्तावन्यनिवृत्तिः।

तस्मादन्वयव्यतिरेकयोर्यथालक्षणमेकोऽपि प्रयोक्तो द्वितीयमाक्षिपतीति नैकत्रं साधनवाक्ये द्वयोः प्रयोगः इष्यते वैयर्थ्यात्। तत्स्वभावतयाऽन्वयसिद्धौ तदभावेऽभावोऽपि सिध्यत्येव। तथा सिद्धौ चान्वयस्यापि सिद्धेरिति।

तदभाव एव हेतोरभावख्यातिर्यथा स्यात् नान्यत्र विपक्षे विरुद्धे वा इति नियमख्यापनार्थोऽपि व्यतिरेकप्रयोगो न युक्तः , अन्यविरुद्धयोरपि विपक्षत्वात्।



(२.७) कथमिदम् अवगम्यते सदवश्यं नश्वरस्वभावमिति येन अन्वयव्यतिरेकसम्भव इति चेत्। विनाशहेत्वयोगात्। स्वभावत एव भावा नश्वराः नैषां स्वहेतुभ्यो निष्पत्रानामन्यतो विनाशोत्पत्तिः। तस्यासामर्थ्यात्। न हि विनाशहेतुर्भावस्य स्वभावमेव करोति तस्य स्वहेतुभ्यो निर्वृत्तेः। नापि भावान्तरमेव, भावान्तरकरणे भावस्य तदवस्थत्वात् तथोपलब्ध्यादिप्रसङ्गः। नापि स्वभावान्तरमस्यावरणम् तदवस्थे तस्मिन्नावरणायोगात्। नापि विनाशहेतुना भावाभावः क्रियते। अभावस्य विधिनाऽन्यतयोपगमे व्यतिरेकाव्यतिरेक विकल्पानतिक्रमात्। भावप्रतिषेधकरणे न तस्य किञ्चिद्भवति न भवत्येव केवलमिति। एवं च कर्ता न भवतीत्यकर्तुरहेतुत्वमिति न विनाशहेतुः कश्चित्।



(२.८ ) वैयर्थ्याच्च। यदि स्वभावतो नश्वरः स्वात्मन्यनवस्थायी भावः तस्य न किञ्चिन्नाशकारणैः। तत्स्वभावतयैव स्वयं नाशात्। यो हि यत्स्वभावः स स्वहेतोरेव उत्पद्यमानः तादृशो भवति, न पुनस्तद्भावे हेत्वन्तरमपेक्षते। प्रकाशद्रवोष्णकठिनद्रव्यादिवत्। न हि प्रकाशादयस्तदात्मान उत्पन्नाः पुनः प्रकाशादिभावे हेत्वन्तरमपेक्षन्ते। तदात्मनस्तादात्म्याभावे नैरात्म्यप्रसङ्गात्। तद्वदस्थितिधर्मा चेत् स्वभावतो भावो निष्पन्नो न पुनस्तदात्मतायां हेत्वन्तरमपेक्षते।



(२.९) बीजादिवदनेकान्त इति चेत्। स्यादेतद् बीजादयोऽङ्कुरादिजननस्वभावा। अपि सलिलादि-हेत्वन्तरापेक्षणात् न केवला जनयन्ति। तद्वद् भावोऽपि विनाशे स्यादीत्। न। तस्वभावस्य जननादजनकस्य चातत्स्वभावत्वात्। अत एव तयोरवस्थयोर्वस्तुभेदो निश्चेयः। भावानां स्वभावान्यथात्वाभावात् तत्स्वभावस्य पश्चादिव प्रागापि जननप्रसङ्गात्।

तस्माद्योऽन्त्योऽवस्थाविशेषः स एवाङ्कुरजननस्वभावः। पूर्वभाविनस्तु अवस्थाविशेषा अङ्कुरकारणस्य कारणानि इति नानेकान्तः। क्षणिकेषु भावेषु अपरापरोत्पत्तेरैक्याभावात्।



(२.१०) यदि तेऽन्त्याः समर्थाः किं न जनयन्ति प्रत्येकमिति। जनयन्त्येव नात्रान्यथाभावः स्वभास्यावैपरीत्यात्।

ननु तेषु सहकारिषु समर्थस्वभावेषु कोऽपरस्योपयोगः ? न वै भावानां काचित् प्रेक्षापूर्वकारिता यतः अयमस्मास्वन्यतमोऽपि समर्थः किमस्माभिः कर्तव्यम् इत्यालोच्यापरे निवर्तेरन्। ते निरभिप्रायव्यापारा एव स्वहेतुपरिणामोपनिधिधर्माणोनोपालम्भमर्हन्ति, तत्प्रकृतेः।

ते समर्थाः किं नापरापरं जनयन्तीति चेत्। न, तत्रैव सामर्थ्यात् तस्यैवैकस्य जनने समर्था नान्यस्येति नापरापरजननम्।



(२.११) भिन्नस्वभावेभ्यश्चक्षुरादिभ्यः सहकारिभ्य एककार्योत्पत्तौ न कारणभेदात् कार्यभेदः स्यादिति चेत्। न। यथास्वं स्वभावभेदेन तद्विशेषोपयोगस्तदुपयोगैः कार्यस्वभावविशेषासङ्करात्। यथा मृत्पिण्डकुलालसूत्रा दिभ्यो भवतो घटस्य मृत्पिण्डादमृत्स्वभावेभ्यो वृक्षादिभ्यो भिन्नः स्वभावः कुलालात्तस्यैव मृदात्मनः सतः संस्थाविशेषात्मतया तदन्येभ्यो भिन्नः सूत्रात्तस्यैव मृत्संस्थान विशेषात्मनः चक्रादेर्विभक्तः स्वभावो भवति। तदेवं न कुलालान्मृत्स्वभावताः, न मृदः संस्थानविशेषः। न च तयोः शाक्तिविशेषविषयभेदेऽपि तज्जनितविशेषभेदस्य कार्यस्य स्वभावेन भेदः मृत्संस्थानयोरपरस्परात्मतया संस्थानमृद्रूपाभ्यां तयोरप्रतिभासनप्रसङ्गात्।



(२.१२) अन्यदेव संस्थानं गुणो मृद्द्रव्यात् तेन भिन्नस्वभावः कुलालमृत्पिण्डयोरुपयोगविशेष इति चेत्। उक्तमत्र। अपि च यदि संस्थानं भिन्नं मृदः कुलालः किं न पृथक्करोति?

गुणस्य द्रव्यपरतन्त्रत्वात् स कथं पृथक् क्रियेत? तत्संस्थानाधारात्मकं यदि स्वभावेनैव तद् द्रव्यम्, तत्संस्थानं वा तदाधेयात्मकं, तदा किमिति कुलालव्यापारमपेक्षते इति चेत्। न। ततः परस्परसम्बन्धयोग्यताप्रतिलम्भात्। अन्यथा मृत्पिण्डस्य स्वभावत एव तथाविधसंस्थानसम्बन्धयोग्यत्वे वस्तुन एव प्रागपि योग्यतालक्षणा धर्मतास्तीति संस्थानविशेषेण सम्बन्धः स्यादिति। एवं तर्थि सा योग्यता मृद्द्रव्यस्य कुलालाद् भवतीति नानयोः स्वभावभेदः। भेदेहि प्राग्वत् प्रसज्येत। अस्ति तावदेकस्वभावत्वेऽपि एकस्यानेकप्रत्ययोपाधेयविशेषतेति किं मृत्संस्थानयोः एकस्वभावत्वसाधनाय अतिनिर्बन्धेन।



(२.१३) तेन सहकारिणः प्रत्यया नैकोपयोगविषयाः कार्यस्यैकस्वभावत्वेऽपि वस्तुत इति यथेह कारणभेदो भिन्नविशेषोपयोगात् नैककार्यः, तथा चक्षुरादिभ्यो विज्ञानोत्पत्तौ उत्रेयः। तथा हि- समनन्तरप्रत्ययाद्विज्ञानाच्चक्षुर्विज्ञानस्य उपलम्भात्मता तस्यैवोपलम्भात्मनः सतश्चक्षुरिन्द्रियाद्रूपग्रहणयोग्यताप्रतिनियमः विषयात्तत्तुल्यरूपतेति अभिन्नत्वेऽपि वस्तुतः कार्यस्य कारणानां भिन्नेभ्यः स्वभावेभ्यो भिन्ना एव विशेषा भ्वन्तीति न कारणभेदेऽपि अभेदस्तत्कार्यविशेषस्य।

त एवैते कारणशक्तिभेदा यथास्वं प्रतिविशिष्टकार्यजननेऽव्यवधेयशक्तितया प्रत्युपस्थिताः क्षणिकत्वात्सामग्रीकार्यस्य स्वभावस्थित्याश्रयैत्युच्यन्ते। तथाहि तत्तेभ्यः समस्तेभ्यः उपलम्भात्मकं रूपग्रहणं प्रतिनियतं विषयरूपं चेति प्रतिविशिष्टस्वभावमेकमेव जातम्।



(२.१४) अप्रतिरोधशक्तिकेषु अनन्तरकार्येषु अनाधेयविशेषेणु क्षणिकेषु प्रत्ययेषु परस्परं कः सहकारार्थः? न वै सर्वत्रातिशयोत्पादनं सहक्रिया का तर्हि? एकार्थकरणं यद् बहूनामपि। यथाऽन्त्यस्य कारणकलापस्य। तदेव मुख्यं सहकारित्वं सहकारिणां , तस्यैवान्त्यस्य कारणत्वात्। तत्र च क्षणे एकस्य स्वभावस्याविवेकाद् विशेषस्य कर्तुमशक्यत्वात्, स्वभावान्तरोत्पत्तिलक्षणत्वाद् विशेषोत्पत्तेः। भावान्तरजननेऽन्त्यत्वमेव हीयेत। ततश्च न साक्षात्कारणं स्यात्। तस्मान्न कारणस्य सहकारिभ्यो विशेषस्योत्पत्तिः। ते समर्था एव स्वभावतोऽन्त्याः प्रत्ययाः सह जायन्ते क्षणिका येषां प्राक्पश्चात्पृथग्भावो नास्ति, येभ्यश्चानन्तरमेव कार्यमुत्पद्यते। तत्र एकार्थक्रियैव सहकारित्वम्।



(२.१५) समर्थः कुतो जायत इति चेत्। स्वकारणेभ्यः। तानि एनमपरसन्निधान एवं किं जनयन्ति? कदाचिदन्यथाऽपि स्युः ततश्चैकोऽपि क्वचित् जनयेद् इति चेत्। अपरापर प्रत्यययोगेन प्रतिक्षणं भिन्नशक्तयः संस्काराः सन्तन्वन्तो यद्यपि कुतश्चित्साम्यात्सरूपाः प्रतीयन्ते तथापि भित्र एवैषां स्वभावः। तेन किञ्चिदेव कस्यचित् कारणम्।

तत्र योऽव्यवधनादिदेशो रूपेन्द्रियादिकलापः स विज्ञानजनने समर्थो हेतुः। यस्तेषां परस्परोपसर्पणाद्याश्रयः प्रत्ययविशेषः स तद्धेतुजनने समर्थः तेषां च न पूर्वं न पश्चात्र पृथग्भाव इति समर्थानपि पूर्वापरपृथग्भाव्भाविनो दोषा नोपलीयन्ते। तेन यस्तेषां परस्परोपसर्पणादिहेतुः स समर्थस्य हेतुरिति तत्र न कदाचिदन्यथाभावः।



(२.१६) अनेन न्यायेन सर्वत्र हेतुफलभावप्रतिनियमो द्रष्टव्यः प्रतिक्षणमन्यान्यस्वभावभेदान्वयिनीषु शक्तिषु, न तु स्थिरैकस्वभावेषु भावेषु स्वभावस्यान्यथात्वासंभवात्। समर्थासमर्थस्वभावयोः क्रियाक्रियानुपपत्तेः। अन्यसहितः करोति न केवल इति चेत्। किं केवलस्य कार्यजननेऽसमर्थः स्वभावः? समर्थ इति चेत्। किं न करोति? अकुर्वन् कथं समर्थः? कुविन्दादयः पटादिक्रियायां समर्था अपि न सर्वत्र कुर्वन्तीति चेत्। क्रीडनशीलो देवानां प्रियः सुखैधितः कृतमपि पुनः पुनः कारयति, तथाहि बीजादिवद् इत्यनेन निर्लोठितमेव।

तस्मात्स्वभावस्यान्यथात्वासम्भवात् तद्धर्मणः तथाभावः अन्त्यावस्थावदनिवार्यः ।

अन्त्यावस्थायां प्रागसमर्थस्य सामर्थ्योत्पत्तौ तस्य सामर्थ्यस्य तत्स्वभावत्वेऽपूर्वोत्पत्तिरेवसा। अतत्स्वभावत्वे सः अकारक एव सामर्थ्याख्यात्पदार्थान्तरात् कार्योत्पत्त्यभ्युपगमात्।



(२.१७) अपि च योऽसौ सकलेषु सहकारिषु करोति स तदैव कस्मात् करोति। ? कुर्वन् दृष्टस्तेन करोतीति ब्रूमः। अहो महासामर्थ्यं महाप्रभावस्य दर्शनं यस्मादतत्स्वभावान् अपि भावान् स्वभावमात्रेण नानाप्रकारेषु व्यापारेषु नियुङ्क्ते। यदि नाम किञ्चित् कथञ्चिदत्रभवतो दर्शनविषयताम् अतिक्रामेत्, हन्त अप्रसवधर्मकमपेतसन्तानं स्यदितीयं चिन्ता चित्तं दुनोति।

न वै वयम् अतत्स्वभावानां भावानाम् अस्मद्दर्शनवशात् कार्यक्रियां ब्रूमः किन्तु स्वभावेनैव ते कार्यकारणधर्माः , तान् पश्यन्तः केवलं जानीमहे ते एते कारकस्वभावा इति।



(२.१८) सत्यम् इदमप्यस्ति, स्वभावस्तेषां कार्यक्रियाधर्मा तेन समस्तप्रत्ययानामकृत्वा कार्यं नोपेक्षापत्तिरिति। सोऽक्षेपक्रियाधर्मा स्वभावः किं तेषां तदैवान्त्यावस्थायामुत्पन्न आहोस्वित् प्रागप्यासीत्? आसीत्, अप्रच्युता नुत्पत्रस्थिरैकस्वभावाना कदाचित् कस्यचित्स्वभावस्याभावविरोधात्। तत्किमिदानीं माता च वन्ध्या च अस्ति? को वास्य भाषितस्यार्थः- अक्षेपक्रियास्वभावः कार्यं च न करोतीति।



(२.१९) सहितः स्वकार्यजननस्वभावः न केवल इति चेत्। अन्यस्तर्हि केवलोऽन्यश्च सहितः स्वभावभेदात्। स्वभावभेद एव हि भावभेदस्य लक्षणम्। न हि स साहित्येऽपि पररूपेण कर्ता स्यात्। स्वरूपं च तस्य प्रागपि तदेवेति कथं कदचित् क्रियाविरामः।

यस्यापि भावह् क्षणिकः तस्यापि कस्मात् केवलो न करोति? यदि भवेत् कुर्यादेव। कथं न भवति? क्षणिकत्वात्। उक्तं यादृशस्य क्रिया। स कथमेकक्षणभावी अन्यथा भवेत्? यश्च भवति स एव न भवतीति नायं प्रसङ्गः कारकाकारकयोः स्वभावतद्धेत्वोर्विरोधात्।



(२.२०) योऽपि मन्यते- अक्षेपक्रियाधर्मैव स तस्य स्वभावः, न स साहित्यमपेक्षते, कार्यं तु प्रत्ययान्तरापेक्षमिति सहितेभ्य एव जायते न केवलेभ्य इति, तस्यापि कथं- स भावः केवलोऽपि करोत्येव? कार्यं च तस्मात्रोत्पद्यते इति तदवस्थो विरोधः। न केवलः करोत्येवेति चेत्। कथमिदानीमक्षेपक्रियास्वभावः। ननु एतदेव परिदीपितं भवति, करोत्येवेति। कार्यं चायं केवलोऽपि समर्थः सन् परमपेक्षमाणं कथमुपेक्षेत? परमनादृत्यैतत् प्रसह्य कुर्यात्। एवं हि अनेनात्मनः सामर्थ्यं दर्शितं भवति। कार्यं परमपेक्षत इति ततः केवलाद् अनुत्पत्तिमस्य कथयसि स केवलोऽपि समर्थस्वभाव इति ततः उत्पत्तिं ब्रूषे, एते च कथमेवत्रं स्याताम्? तदयमीर्ष्याशल्यवितुद्यमानमर्मा विक्लवं विक्रोशतीत्युपेक्षामेवार्हति।

तस्मादिदमेकार्थक्रियालक्षणं सहकारित्वं क्षणिकानामेव भावानाम्। न तु अक्षणिकानां येषां पृथगपि भावः सम्भवति पृथक् कार्यकरणसम्भवेन सहकारित्वनियमायोगात्।



(२.२१) यत्र तु सन्तानोपकारेण भावाः हेतुतां प्रतिपद्यन्ते, यथा तण्डुलबीजादिभ्य ओदनाङ्कुरादिजन्मनि दहनोदकपृथिव्यादयः , तत्र सन्तानाश्रयेण विशेषोत्पादनं प्रत्ययानां सहक्रियोच्यते न द्रव्याश्रयेण, क्षणिके द्रव्ये विशेषस्यानुत्पत्तेः। नहि तण्डुलादीनां विशेषानुत्पत्तौ दहनादिभावेऽपि ओदनजन्म स्यात्। तथा प्रभास्वरादपवरकं प्रविष्टस्य यदीन्द्रियं स्वोपकारिभ्योऽतिशयं क्रमेण न प्रतिपद्येत तदा प्रागिवार्थप्रतिल्पत्तिं नैव जनयेत्।

अक्षेपकारिषु इन्द्रियादिषु न विशेषोत्पत्तिः परस्परतः सम्भवति। तत्र यथास्वं प्रत्ययैः परस्परोपसर्पणाद्याश्रयैर्ये योग्यदेशाद्यवस्था जातास्ते सह स्वभावनिष्पत्त्या ज्ञानहेतुतां प्रतिपद्यन्ते इत्येकार्थक्रियैव सहकारित्वम्।



(२.२२) यत्र तु विशेषमुत्पादयन्तः सहकारिणः प्रत्ययाः तत्र हेतुसन्तानः प्रत्ययान्तराण्यपेक्षत इति ततः स्वभावान्तरस्य प्रतिलम्भः। तत्र स्वरसतः हेतुप्रत्ययानां पूर्वोपनिपातक्षणानां निवृत्तौ तेभ्य एव विशिष्टक्षणोत्पत्तिरेवं क्रमेण यावदत्यन्तातिशयवतोऽन्त्यकारणकलापात् कार्योत्पत्तिः।



(२.२३) सहकारिणः समुत्पत्रविशेषात्कारणात्कार्योत्पत्तौ तस्यैव विशेषस्योत्पत्तिर्न स्यात्। अविशिष्टाद्विशेषोत्पत्तौ कार्यस्यापि स्यात्। ततश्च परस्परविशेषोत्पादानपेक्षिण एव सहकारिणः कार्यं कुर्वीरन्। तेनाक्षणिकानामपि सहकारिसापेक्षाणां कारणता स्यात्। अपेक्षणीयेभ्यः स्वभावातिशयोत्पत्तिश्च न स्यात्।

अथ सहकारिणा कार्योत्पादानुगुणविशेषजननाय कृतविशेष एवोपत्तिष्ठेत। एवं सत्यनवस्था स्यात्। न च सहकारिणः परस्परकार्योत्पादानुगुणविशेषोत्पादने नित्यं योग्यावस्थाः, येन नित्यानुषक्त एषां विशेषः स्यात्। तदुपायापाययोः कार्यस्योत्पत्त्यनुत्पत्तिदर्शनात्। तेनाद्यो विशेषः सहकारिभ्यो निरुपकारस्य नोत्पद्यत इति चेत्।

नास्माकं पुनः पुनरभिधानेऽपि कश्चिदुद्वेगो भवति यद्येवमपि लोकस्य न्यायप्रतीतिर्भवति। हन्त तर्हि उच्यताम्। न विशेषोत्पादनात् सहकारिणां सहकारित्वं परमार्थतः सम्भवति। यतः तदभावाद्विशेषे कर्तव्ये सहकारिताविरहः स्यात्।



(२.२४) अथ कथमेकार्थक्रियाऽपि भवेत् सापि न भवेत् परस्परतो विशेषरहितानाम्। अथ भवेत्, पृथगपि सा भवेत्। तथाच, तस्माद् विशेषाद् भवनशीलं कार्यमपि केवलात् स्यादिति चेत्। अत्रोक्तमुत्तरं प्रतिक्षणमपरापरैः प्रत्ययैः यथा भावसन्ताने विशेषस्योत्पत्तिः, योग्यदेशताद्यवस्थाविशेषाः कार्यकरणशीलाः, तेषां च यत उत्पत्तिः, प्रत्येकं च सामर्थ्येऽपि केवलानामक्रिया, कर्तृविशेषस्य पृथगेकैकस्य भावस्याभावात्। कार्यद्वैविध्यं च सहकारिभिः अक्षेपकारिन्द्रियविज्ञानवच्च कार्यकारणयोः स्वभावभेदादिति सर्वमुक्तम्।



( २.२५) तत्र सहकारिभ्यः सन्तानोपकारापेक्षकारणकार्यजन्मनि सहकारिणामाद्यो विशेषः सहकारिकृतविशेषजन्मा न भवति, अनन्तरकार्यवत्, ततः ये विशेषा जायन्ते ते तज्जन्मानः तत्प्रकृतित्वादिति नानवस्था।

तथा यद्यक्षणिकोऽपि भावः कार्य करोति, करोतु नाम, स यदि अक्षेपकर्तृधर्मा, तदा पृथग्भावस्य सम्भवात्केवलोऽपि तथा स्याद् इत्युक्तम्। अतत्स्वभावस्तु तदाप्यकारक एव।

तस्मादक्षणिकानां कारणानाम् एकार्थक्रियया न कश्चित् सहकारित्वनियमः। नापि सन्तत्योपकारेणेति न तस्य कश्चित्सहकारीति केवलोऽपि कुर्यात्। प्रायस्तु संघातस्थायी भावसन्तानः सहकारिप्रत्ययैरुपजनितविशेषः स्वकार्यं कुर्वन् दृष्टो बीजादिवत्। तत्स्थिरहेतुवादिनो हेतोः प्रत्ययान्तरापेक्षकारकस्य व्यक्तं स्वभावान्तरस्योत्पत्तिः। कारकस्वभावस्य प्रागपि सत्त्वेऽक्रिया न युज्यते।



(२.२६) तस्माद्यो यदात्मा स स्वसत्तामात्रेण तादृशो भवति न भूत्वा तद्भावे पराभिसंस्कारमपेक्षत इति स्वभावतोऽस्थितिधर्मणो भावस्य न किञ्चित्राशकारणैः। स्थितिधर्मणोऽपि भावस्य न नाशकारणैः किञ्चित् स्वभावान्यथात्वस्य केनचित् कर्तुमशक्यत्वात्। तदन्यथात्वप्रतिपत्तौ स तत्स्वभाव एव न स्यादिति पूर्व एव विकल्पः स्यात्। तत्र च प्रागेवोक्तं दूषणम्।

यश्च परस्मादन्यथाभावः सोऽपरः स्वभावः यश्चापरः स कथं तस्य स्यात्? स्वभावभेदो हि वस्तुभेदलक्षणम्। तथा च यः स्थितिधर्मा जातः न तस्यान्यथाभावः स्यात्।

एतेन कठिनादीनां ताम्रादीनाम् अग्न्यादेः द्रवत्वादिस्वभावान्तरोत्पत्तिः प्रत्युक्ता। तत्रापि पूर्वकस्य स्वरसनिरोधित्वाद्विनाशे ऽग्न्यादेरुपादानाच्चापर एव द्रवादिस्वभावः उत्पन्नः।



(२.२७) स स्वयं स्थितिधर्मैव स्वहेतुभिर्जनितः, विनाशहेतोरसम्भवे ऽवस्थानात्। तस्य परस्माद्विनाशो भवति इति। न च विनाशो नामापरः स्वभावः, भावच्युतिरेव विनाशः इति चेत्।

नेदं विकल्पद्वयमतिक्रामति -किं नित्यो भाव उतानित्यः। प्राङ्नित्यो भूत्वा पश्चादनित्यो भवतीति च ब्रुवाणो भावद्वयं चाह नित्यानित्यस्वभावभेदम्। प्राक्तनस्य नित्याभिमतस्य स्वभावस्य स्वयं नाशं ब्रुवाणः सर्वदैव नाशमनाशं च प्राहेति पूर्वस्मिन् विनाशहेतुरसमर्थ एव।

न प्राङ्नित्यो भूत्वा पश्चादनित्यः भवति, किं तर्हि, पश्चादपि नित्य एव, एकस्वभावत्वात्। स तर्हि भावः स्वभावेन नाशमनाविशन् कथं नष्टो नाम? तत्स्वभावविनाशयोः अपरस्पररूपत्वात्। तस्मात् सत्यस्य विनाशे विनाशस्वभावेन तेन भवितव्यं, तथापि विनाशहेतुर्व्यर्थ इत्युक्तम्। तेन स्वभावतो नश्चरेऽनश्वरे वा भावे न विनाशहेतोरुपयोगः।



(२.२८) तस्माद्विनाशं प्रत्यनपेक्षो भावस्तद्भावनियतः इति यः सन् स विनाशी नश्वरताया निवृत्तौ सत्त्वनिवृतिरित्यन्वयव्यतिरेकसिद्धिः।

स्वभावतो नश्वरत्वेऽपि कश्चिदतत्स्वभावोऽपि स्यात्। न हि सर्वः सर्वस्य स्वभाव इति न तत्रिबन्धनाऽन्वयव्यतिरेकासिद्धिरिति चेत्। न, अक्षणिकत्वेऽवस्तुत्वप्रसङ्गात्। शक्तिर्हि भावलक्षणम्। सर्वशक्तिविरहः पुनरभावलक्षणम्। न चैवाक्षणिकस्य क्वचित् काचित् शक्तिरस्ति, क्रमयौगपद्याभ्यां कार्यक्रियाशक्ति विरहात्। इत्थं च यत् सत्तत् क्षणिकमेवेति व्याप्तिसिद्धिः।

(३.१) अर्थान्तरे गम्ये कार्यं हेतुरव्यभिचारात्। कार्यकारणभावेन गमकत्वे सर्वथा गम्यगमकभावः स्यात्, सर्वथा जन्यजनकभावाद् इति चेत्। न। तदभावे भवतस्तदुत्पत्तिनियमाभावात्। तस्मात् कार्यं स्वभावैर्यावद्भिरविनाभावि कारणे तेषां हेतुः। तत्कार्यत्वनियमात्। तैरेव च धर्मैर्ये तैर्विना न भवन्ति। अंशेन जन्यजनकभावप्रसङ्ग इति चेत्। न, तज्जन्यविशेषग्रहणेऽभिमतत्वात् लिङ्ग विशेषोपाधीनां च सामान्यानाम्। अविशिष्टसामान्यविवक्षायां व्यभिचार इति गमकत्वं नेष्यते।



(३.२) कस्यचित्कदाचित्कुतश्चिद्भावेऽपि सर्वस्तादृशस्तथाविधजन्मेति कुतोऽवसितम्, तथा च नान्वयव्यतिरेकाविति चेत्। न, अतद्भाविनस्तस्य सकृदपि ततोऽभावात्। परस्परापेक्षया जन्यजनकस्वभावलक्षणे कार्यकारणे। तत्र यदि धूमोऽग्न्यादिसामग्ज्या अन्यतोऽपि भवेत्तदा तस्य तज्जन्यः स्वभावो न भवतीति सकृदपि ततो न भवेत्। अर्थान्तरवत्। नापि सामग्री तं जनयेद् अतज्जननस्वभावत्वात्। सामग्ज्यन्तरवत्। न च धूमस्य तदतज्जन्यः स्वभावो युक्तः। एकस्वभावत्वात्। धूमाधूमजननस्वभावाद् भवतो धूमाधूमस्वभावः स्यात्। कार्यस्वभावानां कारणस्वभावकृतत्वात्। अकारणापेक्षणे चाहेतुकत्वप्रसङ्गात्। तस्माद्यो धूमजननः सोऽग्न्यादिसामग्रीविशेषो यः अग्न्यादिसामग्रीविशेषेण जनितः स एव धूमो भवतीति कार्यकारणयोरेवं स्वभावस्य नियमात् तद्विजातीयादुत्पत्तिर्न भवति।

तद्यादृशं कार्यं यादृशात् कारणाद् दृष्टमेकदा तत्तन्न व्यभिचरति। तेन सिद्धे कार्यकारणभावे कार्यस्य कारणेन व्याप्तिः सिद्धा भवति।



(३.३) ननु विजातीयादपि किञ्चिद् भवद् दृष्टं तद्यथा गो मयादेः शालूकादिः। न विजातीयादुत्पत्तिः। तथाविधमेव हि तादृशामादिनिमित्तमिति न कारणभेदः। प्रबन्धेन वृत्तौ तु शराद् भवति। अस्ति च गोमयेतरजन्मनोः स्वभावभेदः रूपस्याभेदेऽपि। न हि आकारतुल्यतैव भावानां तत्त्वे निमित्तम्, अभिन्नाकाराणामपि केषाञ्चिदन्यतो विशेषाज्जातिभेददर्शनात्। अन्यथा हि विलक्षणाया अपि सामग्रया अविलक्षणकार्योत्पत्तौ न कारणभेदाभेदाभ्यां कार्यभेदाभेदावित्यहेतुकौ विश्वस्य भेदाभेदौ स्याताम्। तथा हि न भेदाद्भेद इति अभेदादपि नाभेदः। तद्व्यतिरिक्तश्च न कश्चिद्भावस्वभाव इत्यहेतुकत्वाद्भावानां नित्यं सत्त्वमसत्त्वं वा स्यात्। अपेक्षया हि भावाः कादाचित्का भवन्ति। व्यवस्थावांश्च साध्येषु साधननियोगो न स्यात्। कारणशक्तिप्रतिनियमे हि किञ्चिदेव कस्यचित् साधनायोपादीयेत, नापरं, तस्यैव तत्र शक्तेः, अन्यस्य चाशक्तेः तयोस्तज्जननेतरस्वभावत्वेन भेदात्। तज्जननस्वभावविलक्षणादपि तस्योत्पत्तौ न तज्जननशक्तिप्रतिनियम इति यत् किञ्चित् यतः कुतश्चित्स्यात्। तज्जननशक्तिसाम्ये तु तदेवेति न कार्यं दुष्टं कारणं व्यभिचरति।

(४.१) उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरभावस्याभावव्यवहारस्य वा हेतुः।

अत्रोपलब्धेरुपलभमानधर्मत्वे तज्ज्ञानमुपलब्धिः। तस्मादन्योपलब्धिरनुपलब्धिर्विवक्षितोपलब्धेरन्यत्वात्, अभक्ष्यास्पर्शनीयवत्पर्युदासवृत्त्या। उपलभ्यमानधर्मत्वे स्वविषयविज्ञानजननयोग्यतालक्षणो विषयस्वभावः उपलब्धिः। योग्यताया भावस्वरूपत्वात्। तस्मादन्य उपलम्भजननयोग्य एवानुपलब्धिः पूर्ववत्। यत्र यस्मित्रुपलभ्यमाने नियमेन यस्योपलब्धिः भवति योग्यताया अविशेषात् सतत्संसृष्टः एकज्ञानसंसर्गात्। तयोः सतोर्नैकरूपनियता प्रतिपत्तिरसम्भवात्। तस्मादविशिष्टयोग्यतारूपयोः एकज्ञानसंसर्गिणोस्तयोः परस्परापेक्षमेवान्यत्वमिहाभिप्रेतं, प्रत्यासत्तेराश्रयणात्।

स केवलस्तदपेक्षया तदन्यश्चेदुच्यते तदा तज्ज्ञानं तत्स्वभावो वा ज्ञातृज्ञेय धर्मलक्षणाऽनुपलब्धिः। साऽभावं प्रतियोगिनोऽभावव्यवहारं वा साधयति।



(४.२) कथमन्यभावस्तदभावो येन भावरूपानुपलब्धिरभावमभावव्यवहारं वा साधयेदिति चेत्। उक्तमत्र यथा पर्युदासवृत्त्याऽपेक्षातः तद्विविक्तोऽर्थस्तज्ज्ञानं वाऽभावोऽनुपलब्धिश्चोच्यत इति। न प्रतिषेधमात्रं, तस्य साधनासिद्धेरभावव्यवहारासिद्धिप्रसङ्गात्। तस्यासंसृष्टरूपस्य भावसिद्धिरेवापरस्याभावसिद्धिरित्यन्यभावोऽपि तदभाव इति व्यपदिश्यते। अन्यभावलक्षणोऽभावः स्वयं प्रमाणसिद्धस्तदभावव्यवहारं साधयेत्, तत्सिद्धिसिद्धो वेति न कश्चिद्विशेषो येनानुपलब्ध्याऽभावव्यवहारसिद्धेर्विरोधः स्यात्।



(४.३) स एवान्यभावस्तद्विषया चोपलब्धिस्तदभावस्य किं न साधनम्? किं पुनरभावस्य सिद्धिरेव तदभावसिद्धिः? इति चेत्। अपृथक्सिद्धेः सम्बन्धाभावाच्च।

अन्यभावस्तावत्र साधनम्। यत्सिद्धौ यस्य न सिद्धिस्तत्तस्य लिङ्गं भवति धूमाग्निवत्। अन्यभावसिद्धयैव तदभावः प्रसिध्यति , तस्य तदन्यासंसृष्टरूपस्य तत्त्वव्यवस्थापकेन प्रमाणेनैवान्यव्यवच्चेदसिद्धेः।



(४.४) सम्बन्धाभावाच्च तच्च तस्य लिङ्गं यदि स्यात्, तस्य तेन कश्चित्सम्बन्धो भवेत्। यथा कृतकत्वस्यानित्यत्वेन एकार्थसमवायो धूमस्य वा लिङ्गिनैकार्थसमवायः। आधाराधेयभावो वा जन्यजनकभावो वा। नैवं कश्चिद् भावाभावयोः सम्बन्धः येनास्यान्यभावः साधनं स्यात्।

अस्ति विषयविषयिभावः शब्दार्थसम्बन्धवदिति चेत्। शब्दार्थयोः तत्प्रतिपादनाभिप्राये सति तत्प्रयोगात् कार्यकारणलक्षणोऽविनाभावलक्षणो वा सम्बन्धः स्यात्। अयं चात्र न सम्भवति यतः विषयविषयिभावः स्यात्। सिद्धे हि तयोः साध्यसाधनभावे तन्मुखेन विषयविषभिभावः स्यात्। स एव चासति सम्बन्धे न सिध्यति। अन्यथेतरेतराश्रयमिदं स्यात्।



(४.५) अन्यभावाच्चाभावसिद्धावसमुदायश्च साध्यः स्यात्। तथा च घटाभावस्तदन्यभावात् इति घटस्य सर्वत्र सर्वदा चाभावः प्रसज्येत। न, प्रदेशादिर्धर्मी घटाभावेन विशेष्यत इति तद्विशेषणभूतोऽभावः साध्यते न तु केवलः। ततो नासमुदायस्य साध्यता। न च लिङ्गलिङ्गनोरसम्बन्धः, अन्यभावस्य प्रदेशादिना सम्बन्धाद् इति चेत्। न, प्रदेशादेरेवान्यभावत्वात्। यत्रैव हि प्रदेशादौ यत्रास्तीति उच्यते स एव तेनासंसृष्टोऽन्यभावः। तद्दर्शनादेवास्य घटो नास्ति इति विकल्पो भवति इति कथं तस्यैव लिङ्गलिङ्गिभावः?



(४.६) न चात्र सामान्यविशेषभावकल्पना सम्भवति येन सामान्यं हेतुर्भवेद् विशेषो धर्माति, तद्विशेषप्रतिपत्तेरेव तदभावस्य प्रतीतेः, तस्यान्यत्रान्वयस्याभावात् प्रतिज्ञार्थैकदेशत्वाच्च न हेतुता। न च यत्र प्रदेशमात्रं तत्र घटाभावः। तादृशे केवले प्रदेशे सर्वत्राभाव इति चेत्। ननु तस्यैव कैवल्यं घटविरहः। स च तत्प्रतिपत्तावेव सिद्ध इति कस्य इदानीं तल्लिङ्गम्? अन्वयस्यानुगमनमपि निरर्थकम्। तस्मादन्यभावो न साधनमभावस्य।



(४.७) अस्ति विरोधः सम्बन्धः ततोऽन्यभावादभावस्य सिद्धिः इति चेत्। केन कस्य विरोधोऽन्यभावेन प्रतियोगिनः किं नु वै प्रतियोगी प्रमातुमिष्टो येन लिङ्गलिङ्गनोर्विरोधः सम्बन्धः स्यात्? अभावस्तुप्रतियोगिनो घटस्य अन्यभावेन अविरुद्धः सहावस्थानात्। तस्मिन् प्रमेये लिङ्गलिङ्गिनोः कथं विरोधः? तस्मात्सम्बन्धाभावः। अत्रापि असमुदायसाध्यत्वं तदवस्थम्।



(४.८) ननु अन्यभावतदभावयोरसति सम्बन्धेऽन्यभावगत्यापि तदभावगतिर्न स्यादिति चेत्। न वै कुतश्चित् सम्बन्धादन्यभावस्तदभावगमक इष्टः किन्तु अन्यभाव एव तदभावो यथोक्तं प्राक्। तस्यान्यासंसृष्टरूपस्य केवलस्यैकात्मव्यस्थितस्य तदात्मना परिच्चेदस्यैवान्यव्यवच्चेदत्वात् तस्य कैवल्यमेवापरस्य वैकल्यमिति तदन्यभाव एव तदभावः। ततश्च तत्प्रतिपत्तिरेव तदप्रतिपत्तिः। अन्यथा तस्य परिच्चेदेन ततोऽन्यस्य अव्यवच्चेदे तत्परिच्चेद एव न स्यात्। तदतद्रूपयोरविवेकात्। य एव व्यवहारः कस्यचित्क्वचेद्देशे दर्शनात् प्राप्तिपरिहारार्थः स न स्यात्। न ह्ययमनलं पश्यत्रपि केवलम् अनलमेव पश्यतीति कथं सलिलार्थी तत्र न प्रवेर्तेत? अनुपलम्भेन सलिलाभावः प्रतीयत इति चेत्। कोऽयमनुपलम्भो नाम? यदि सलिलोपलम्भाभावः तदा कथमभावः कस्यचित्प्रतिपत्तिः प्रतिपत्तिहेतुर्वा? तस्यापि कथं प्रतिपत्तिः? तस्य ततो वाऽन्यस्य कस्यचिदप्यप्रतिपत्तावपि यद्यभावः प्रतीयते तदा स्वापमदमूर्च्चाव्यवधानपृष्ठीभावाद्यवस्थास्वपि किं न प्रतीयते? इत्येतच्च विचारितं प्रमाणविनिश्चये।

तस्मादयमनलं पश्यत्रपि अनलोऽयं सलिलम् इति नाध्यवस्यतीति न तिष्ठेत्रापि प्रतिष्ठेत। ततश्च दुस्तरं व्यसनं प्रतिपत्तुः स्यात्।



( ४.९) तत एवैकस्य दर्शनाद् अन्याभावगतिश्चेत् कथमेकं दृष्टमन्यत्रास्तीति प्रत्याययति? तस्यैव केवलस्य दर्शनाद् इति चेत्। इदमेवास्माभिः प्रागभिहितं कस्मात्तवात्र परुषमिवाभाति? तस्मात्तीरादर्शिनेव शकुनिना दूरपर्यटयापि प्रत्यागन्तव्यमित्यलम् अविद्यमानप्रतिष्ठानया दिशः प्रतिपत्त्या।



(४. १०) यद्येकपरिच्चेदादेवान्यव्यवच्चेदः सिध्यति तदा सर्वस्यान्यस्य अविशेषेण तत्राभावसिद्धिर्भवेत्। न तु तुल्ययोग्यावस्थस्यैव। उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरभावसाधनीति च विशेषणं न वक्तव्यम्, अनुपलब्धिलक्षणप्राप्तानामपि तत्र व्यवच्चेदात्।



(४.११) एकात्मपरिच्चेदात् तस्य तदन्यात्मव्यवच्चेदो भवति तदात्मनियतप्रतिभासज्ञानात् न हि तदात्मा तदन्यस्यात्मा भवति। अन्यात्माव्यवच्चेदे प्रवृत्तिनिवृत्त्योः अभाव इति पूर्वः प्रसङ्गः। तं च देशकालस्वभावावस्थानियतं तदात्मनोपलभमाना बुद्धिः तथात्वप्रच्युतिमस्य व्यवच्चिनति। एवं हि तद्देशादिनियतः परिच्चित्रो भवति, यदि अन्यथाभावो व्यवच्चिन्नो भवतिः तथात्वं च तस्यैव भवति नान्यस्येति अन्यथाभूतात्तथाभूतं व्यवच्चिन्दत्येव तत् परिच्चिनति। एवमेकप्रमाणवृत्तिः सर्वभावान् द्वैराश्ये व्यवस्थापयति। तस्यान्वयव्यतिरेकबुद्धिजनकत्वेनैव साफल्यात्। तद्वयतिरिक्ताशेषव्यवच्चेदेन व्याप्तिसाधनादेव प्रकारान्तरस्याभावः सिध्यति। तस्य तदन्यतया व्याप्त्यभावे तेन तदर्थाव्यवच्चेदात्पुनरपि भावस्यापरिच्चेदप्रसङ्गात्।



(४. १२) तस्मात्क्वचित्प्रमाणं प्रवृत्तं तत् परिच्चिनत्ति, तदन्यद् व्यवच्चिनाति, तृतीयप्रकाराभावं च सूचयति इति एकप्रमाणव्यापार एषः। तथाहि क्वचित्प्रमाणं प्रवृतं तदेव तदन्यस्माद् व्यवच्चिनत्ती, तस्यैव परिच्चेदात्। तदन्यदेव च तस्माद् व्यवच्चिनत्ति अन्यस्य तत्र अपरिच्चेदात्। अतस्तदेव प्रमाणं प्रकारान्तभावं साधयति, तस्मिन् दृष्टतदन्यत्वेन सर्वस्यैव व्यस्थापनात् , अतदन्यस्यैव च तत्त्वेन व्यवस्थापनात्।

एतेन क्रमाक्रमादयोऽप्यन्योन्यव्यवच्चेदरूपा व्याख्य्ताः।

तदेवमेकस्योपलम्भात्तस्य तदन्यात्मनो व्यवच्चेदः। न तद्देशकालयोः सर्वस्यान्यस्य भावस्य व्यवच्चेदः। तस्मादतदत्मा च स्यात्तद्देशकालश्च, रसरूपादिवत्।

तस्माद्यथोक्तादेवानुपलम्भात्क्वचित् कदाचित्कस्यचिदभावसिद्धिः।



(४.१३) अन्यभावविषयस्योपलब्धिरपि तदभावस्य साधिकेष्टैव न तु लिङ्गत्वेन। तत्राप्यभावस्य पृथक् साध्यत्वे सम्बन्धाभावस्य तुल्यत्वात्। लिङ्गाविर्भावकाल एव तदभावसिद्धेश्च। न हि अन्यस्य भावं प्रतिपद्य तत्प्रतिपत्तेः अन्वयव्यतिरेकौ प्रसाध्य तदभावं प्रतिपद्यते। किं तर्हि? तदन्यं प्रतिपद्यमान एव तदभावं प्रतिपद्यते। दर्शनानन्तरम् इदमस्ति इदं तु नास्ति इति व्यवस्थापनात्। तच्च तस्य लिङ्गं भवति यस्यान्वयि व्यतिरेको च। दृष्टान्तासिद्धेः। न हि एवं शक्यं दर्शयितुं यत्र अन्यभावोपलब्धिस्तत्र तदभावः इति। तदेकोपलब्धेः क्वचिदप्यभावात्। सामान्येन प्रदर्शने दृष्टान्तेऽपि प्रमाणान्तरं नास्ति, किंतु सैव तदन्यभावोपलब्धिः साध्यधर्मस्य साधिकेति अनवस्था दृष्टान्तानामित्यप्रतिपत्तिः। तस्मात् नैव कुतश्चिल्लिङ्गात् तदभावसिद्धिः। सोऽन्यभावः प्रत्यक्षलक्षणेनानुपलम्भेन सिद्धः सन् मूढप्रतिपत्तावभावव्यवहारं साधयेद् इति अलं प्रसङ्गेन।



( ४.१४) सेयमनुपलब्धिस्त्रिधा। सिद्धे कार्यकारणभावे सिद्धाभावस्य कारणस्यानुपलब्धिः, व्याप्यव्यापकभावसिद्धौ सिद्धाभावस्य व्यापकस्यानुपलब्धिः स्वभावानुपलब्धिश्च।

तत्र कारणव्यापकयोरपि अभावव्यवहारः तदन्यभावसिद्धयैव सिध्यति। स तथा सिद्धः सन् कार्यव्याप्ययोरभावम् अभावव्यवहारं वा साधयति। स्वभावानुपलब्धौ तु अनुपलब्ध्या लिङ्गभूतया अभावव्यवहार एव साध्यते।



(४.१५) यदि कारणव्यापकौ तदन्यभावसिद्धयाऽनुपलब्ध्या सिद्धासद् व्यवहारावन्यस्याभावमभावव्यवहांर च साधयतः। सा च तयोरुपलब्धिलक्षणप्राप्तावेवासद्व्यवहारस्य साधिकेति कथं तयोः परोक्षेऽर्थेप्रयोगः? नैव प्रयोगः प्रमाणतया, लिण्गस्यानिश्चयात्। केवलं कारणव्यापकयोर्हि सिद्धसम्बन्धयोर्यद्यभावः परस्यापि अवश्यमभावः इति एतस्य दर्शनार्थमेते प्रयुज्येते इति।

एष एव पक्षधर्मोऽन्वयव्यतिरेकवान् इति तदंशेन व्याप्तः त्रिलक्षण एव त्रिविध एव हेतुर्गमकः स्वशाध्यधर्माव्यभिचारात्।

(५.१) षड्लिङ्गो हेतुरित्यपरे। त्रीणि चैतानि अबाधितविषयत्वं विवक्षितैकसंख्यत्वं ज्ञातत्वं चेति।

तत्राबाधितविषयत्वं तावत् पृथग् लक्षणं न भवति, बाधाविनाभावयोर्विरोधात्। अविनाभावो हि सत्येव साध्यधर्मे भावो हेतोः। स हेतुस्तल्लक्षणः धर्मिणि स्याद् अत्र च साध्यधर्मः कथं न भवेत्?

प्रत्यक्षानुमाने हि साध्यधर्मं बाधमाने तं धर्मिणो निष्कासयतः तस्मिंश्च सत्येव हेतुर्भवन् तं तत्रैवावस्थापयतीति परं बत भावानामस्वास्थ्यम्।

अन्यत्र साध्यधर्मेणाविनाभावी हेतुर्न पुनः साध्यधर्मिणेवेति चेत्। तत् किमयं तपस्वी शण्ढमुद्वाह्य पुत्रं मृगयते? यस्य धर्मिण्यसत्यपि साध्यधर्मे भावः, तमुपदर्श्य कथं स धर्मी साध्यधर्मवानित्युच्यते?



(५.२) अत एव बाधाभाव उक्तः। स्यादेतद्, यत एव हेतुरन्यथाऽपि भवेदत एव प्रमाणाभ्यामबाधितधर्मा धर्मीत्युच्यत इति।

तत्किमिदानीं हेतोः सामर्थ्यम्? अबाधयैव साध्यसिद्धेर्व्यर्थो हेतुः। बाधायामपि साध्याभावस्य तेन साधनात् कुतः साधनस्य सामर्थ्यम्। अनियमे बाधकप्रमाणवृत्तौ साध्याभावस्य , बाधकप्रमाणस्याभावः साध्याभावस्य च संभवः स्यादिति न सामर्थ्यमबाधायाः।



(५.३) न बाधाया अभावोऽबाधा। किं तर्हि? बाधाया अनुपलब्धिः सा च पुरुषस्य क्वचिद् बाधायाः संभवेऽपि स्यादिति स हेतुप्रयोगस्य विषयः। किं नु वै हेतुर्बाधोपलब्धेर्बिभेति न पुनर्बाधाया येन बाधामनादृत्य तदनुपलब्धौ प्रयोक्तव्य इष्टः? स तर्हि परमार्थेन-'बाधा किमस्ति नास्ति' इत्यनपेक्ष्य बाधाया अनुपलब्धौ प्रयोक्तव्यः? किमर्थं प्रयुज्यते? साध्यसिद्धयर्थम्। स किं क्वचित् सत्यामपि बाधायां साध्यं साधयेद् येनास्या अभावनिश्चयं प्रति यत्नो न क्रियते हेतुश्च प्रत्युज्यते। एवं च सति अबाधितविषयत्वं हेतुलक्षणं न भवति। बाधायामपि सत्यामस्य सामर्थ्यात्। तथा च संशयितस्य प्रवृत्तिर्न युज्यते। यथा च बाधानुपलब्धौ तामभ्युपगम्य प्रयुज्यते तथा तदुपलब्धावपि प्रयुज्यताम्, अभ्युपगमे विशेषाभावात्।



(५.४) न बाधायां सत्यां हेतोः सामर्थ्यमिति चेत्। यद्येवम्, अनिर्णीतबाधाऽसम्भवो हेतुः प्रयोगं हार्हति, मा भूत् बाधायाः संभवपक्षे प्रयुक्तस्याप्यसामर्थ्यमिति।

बाधानुपलम्भे सति सामर्थ्यमिति चेत्। किमुपलम्भो बाधां व्याप्नोति, यतो हेतोर्बाधासम्भवकृतम् असामर्थ्यं न सम्भवेत्? अथ तन्निवृत्तौ बाधा निवर्तते। तथापि बाधानुपलम्भादेव साध्यासिद्धेर्व्यर्थो हेतुः। अनुपलम्भे बाधाया असम्भवात्। उपलम्भस्य निवृत्तावपि बाधाया अनिवृत्तौ तदवस्थं हेतोरसामर्थ्यमित्यप्रयोगः।

तस्मात् स्वसाध्यभावाभावाध्यामन्यथापि भवन्हेतुः धर्मिणि न किञ्चिद्भावयति न विभावयति इति तदुपक्षेपो न समर्थः। इति बाधाविनाभावयोर्विरोधः। तत्राबाधा रूपान्तरम्।



(५.५) तत्राम तस्माद् विशेषणान्तरं भवेत् लक्षणान्तरत्वेन चोपादानमर्हति यस्य भावेऽपि यस्य अपरस्याभावः स्यात्। तद्यथा पक्षधर्मत्वं सपक्षे च भाव इति। न् अचैतद् अबाधाया अविनाभावे सति सम्भवति इति न साध्यविपर्ययाविनाभाविनोर्हेतुविरुद्धयोर्विषये बाधा संभवति इति न तदभावः पृथगनयोर्लक्षणान्तरत्वेन वाच्यः। तस्माद् हेतोः प्रयोगे प्रतिज्ञादोषाणां संभवो नास्ति। नापि केवला प्रतिज्ञैव प्रयुज्यते। ततश्च न प्रतिज्ञादोषा वाच्याः।



(५.६) एतेन एकसंख्याविवक्षाऽपि प्रत्युक्ता।

कथम्? एको हि हेतुः स्वसाध्यभाव एव भवेदिति तत्राव्यभिचारी तत्रैव तस्मादन्योऽपि कथं हेतुर्भवति? एकस्य यत् साध्यं तदबाधकस्य धर्मस्य भाव एव भावादिति बाधया समानम्।



(५.७) अपि च। किं यो वस्तुतोऽसम्भवत्प्रतिहेतुः स सम्यग्ज्ञानस्य विपर्ययस्य वा हेतुरिष्ट आहोस्विदप्रदर्शितप्रतिहेतुः? किं चातः?

यद्यसम्भवत्प्रतिहेतुः अशक्यनिश्चयत्वादलक्षणमेतद् हेत्वभावो वा। न हि अनिश्चितात्मनः प्रतिपादकधर्मस्य तल्लक्षणत्वं यथा सन्दिग्धस्य पक्षधर्मत्वस्य। नापि सन्दिग्धलक्षणो हेतुर्भवेदिति न कश्चिद् हेतुर्भवेत्।

तुल्ये लक्षणे दि दृष्टः प्रतियोगिनः संभवोऽदृष्टप्रतियोगिषु अपि शंकामुत्पादयति विशेषाभावात्। सति वा विशेषे स विशेषो हेतोर्लक्षणम्। यतस्तद्विशेषाद् हेतुरेकान्तेन निरस्तप्रतिपक्षः स्वसाध्यं निश्चाययतीति अतल्लक्षणो न हेतुः स्यात् तथा च व्यर्था एकसंख्याविवक्षा। अतो विरुद्धाव्यभिचारिणो लक्षणं हीयेत स्वलक्षणयुक्तयोर्हेत्वोरेकत्र धर्मिणि विरोधेनोपनिपाते सति विरुद्धाव्यभिचारी इति ।



(५.८) न च तस्य विशेषस्य स्वरूपं निर्दिष्टं, यद्रूपं प्रतीत्य प्रतियोगिनः सम्भवासम्भवावुत्पश्यामः। तस्मात्रास्त्येवं विशेष इति सर्वत्र शङ्कया भवितव्यम्।

दृष्टप्रतिहेतोरपि हेतोः प्रागितरेण न कश्चिद्विशेषो लक्ष्यते। न च संभवत्प्रतिहेतूनामपि सर्वदा तस्योपलब्धिः।

अतिशयवती तु प्रज्ञा प्रतिहेतूत्प्रेक्षिणी दृष्टा। तेनानिश्चयः प्रतियोगिनः संभवासंभवयोरिति वस्तुतो। सम्भवत्प्रतिहेतुत्वलक्षणस्य अनिश्चितत्वात्र कश्चिद् हेतुः स्यात्।



(५.९) अथाप्रदर्शितप्रतिहेतुः यथाह, "यदा तर्हि शब्दत्वं नित्यमभ्युपगच्चति तदायं हेतुरेव स्याद् यद्यत्र अनित्यत्वहेतुं कृतकत्वादि कश्चित्र दर्शयेद् " इति। इदमिदानीं सुमहद् व्यसनमायातं गुरुभिरभिहितत्वादप्रकाश्यं, न्यायमनुपालयद्भिरसंवरणीयमिति कष्टतरं व्यसनं कथं निर्वोढुं शक्येत? स तावदयं हेतुः वस्तूनि स्वसाध्यप्रकृतीनि कृत्वा तत्प्रमाणकान् पुरुषान् अभ्युदयनिः श्रेयसाभ्यां योजयित्वा पुनश्च प्रतिभावता पुरुषेण हेत्वन्तरनिदर्शनेन उत्कीलितसाधनसामर्थ्यः तानि वस्तूनि तद्भावसम्पदस्तांश्च पुरुषान् अभ्युदयनिः श्रेयससम्पदः प्रच्याव्य भ्रष्टराज्य इव राजा तपोवनं गच्चतीति किमत्र ब्रूमः।



(५.१०) पुरुषप्रतिभाकृतं हि यदि साधनत्वं स्यात् तदा न किञ्चित् साधनमसाधनं वा। स च हेतुर्यदि स्वभावतस्तद्धर्मभावी तदा कथमन्यथा क्रियेत? वस्तुस्वभावान्यथाभावस्याभावात्। एकस्य च विरुद्धोभयस्वभावस्याभावात्। अतद्धर्मभावी च कथमन्यदापि साधनं कस्यचित्।

तस्मात् स्वभावतः स्वस्वसाध्याविनाभाविनोर्यथोक्तलक्षणयोः कार्यस्वभावहेत्वोः तल्लक्षणस्य प्रतिहेतोरसंभवादलक्षणमेकसंख्याविवक्षा, व्यवच्चेद्याभावात्।



(५.११) ज्ञानं पुनर्न लिङ्गस्यात्मरूपमिति कथं लिङ्गलक्षणं भविष्यति। किंरूपाद् हेतोरनुमेयोऽर्थो ज्ञातव्य इति चिन्तायां प्रतिपत्तुरविसंवादकलिन्गस्वरूपमभिधीयते यस्य दर्शनाद् अयं प्रविभागेन साधनं व्यवस्थाप्य तस्येष्टार्थसंनिधानसंप्रत्ययात् प्रवृत्तिमवलम्बते। तथा यदस्यात्मरूपं तल्लक्षणं न तु पररूपम्।

प्रतिपत्तिजन्मनि उपयोगमात्रात् तल्लक्षणत्वे प्रमेयपुरुषादीनामपि तल्लक्षणत्वं भवेत्। न हि तेष्वपि असत्सु लिङ्गिनि ज्ञानं भवति।



(५.१२) निश्चितग्रहणं तर्हि न कर्तव्यम्। न, तस्यान्यार्थत्वात्। सपक्षविपक्षयोर्दर्शनादर्शनमात्रतो गमकं हेतुमिच्चतां नैव समर्थो हेतुर्भवति सतोरपि दर्शनादर्शनयोरगमकत्वदर्शनात्। तेन भावाभावाभ्यामेव गमको हेतुरिति ज्ञापनार्थ निश्चितग्रहणम्। तेन पररूपं लिङ्गस्य लक्षणं न भवति, तेन लिङ्गस्य रूपविशेषानमिधानात्। तौ हि भावाभावौ तद्भावसाधकप्रमाणवृत्त्या बोद्धव्यौ, उपायान्तराभावात्।



(५. १३) यद्यपि भावाभाववचनमात्रेण तत्साधनप्रमाणवृत्तिः आक्षिप्यते, अन्यथा तयोरेव सत्ताऽ प्रसिद्धेः, ज्ञानसत्तानिबन्धनत्वाज्ज्ञेयसत्ताव्यवस्थायाः इति सर्वत्र ज्ञेयसत्ताव्यवस्थैव तत्साधनं प्रमाणमाकर्षतिः परार्थत्वाच्च शास्त्रप्रणयनस्यः त्रिरूपं लिङ्गं संवादकमिति तद्रूपमप्रतिपत्तृणां ततः प्रवृत्तिर्न भवतीति परोपलक्षणात्वादेव प्रवर्तके ज्ञानं सिद्धम्ः तथापि तावेव विशिष्टौ भावाभावौ केचिद् दर्शनादर्शनमात्रेण व्यवस्थापयन्तीति तेषां निषेधार्थोऽयं निश्चितशब्दः प्रयुक्तः। सतोरपि भावाभावदर्शनयोः अन्वयव्यतिरेकयोः संशयात्। तस्मात् प्रतिबन्धसाधकप्रमाणवृत्त्यैव भावाभावौ सिध्यत इति विप्रतिपत्तिनिरासार्थमस्माभिर्निश्चितग्रहणं कृतम्।

यतोऽपि त्रैरूप्यवचनमात्रेण तत्साधनप्रमाणाक्षेपसिद्धिः, न ज्ञानं पृथगतो रूपान्तरं भवति, तेनैवावगतत्वाद्, उपलयार्थवत् पक्षधर्मत्वात्।



(५.१४) अन्वयव्यतिरेकयोरपि तर्हि न पृथकत्वम्, एकस्य प्रयोगादुभयगतेरिति चेत्। न। हेतोः सपक्षासपक्षयोर्भावाभावौ न परस्परमाक्षिपतः। एकं वाक्यमुभयं गमयतीत्युच्यते नैकोऽर्थः स्वभावो द्वितीयस्येति। ननु तत्रैव भाव इत्यत्र तदर्थतया तदभावेऽभावो गम्यते, अतद्भावेऽवश्यमभाव इत्यत्र च तद्भावे भाव इति परस्पराक्षेप इति चेत्। वचनमेतत् सामर्थ्यादुभयमाक्षिपति एकस्यापि नियमख्यापकस्य द्वितीयाक्षेपनान्तरीयकत्वात्। न च तावतोभयोरेकस्वभावता। पृथगभिधानं तु प्रयोगनियमार्थम्। न पुनः केवलौ भावाभावौ परस्परमाक्षिपतः। नियमवन्तौ च न केवलौ नियमस्योभयरूपत्वात्।



(५.१५) तस्मात् तत्रैव भाव इति न भाव एवोच्यते इतरेणापि ना भाव एव येन भावोऽभावो वा द्वितीयमाक्षिपेत्। नैवं ज्ञानं, परोपलक्षणशास्त्रागृहीतज्ञानात् त्रैलक्षण्यादव्यतिरेकादिति न लक्षणान्तरम्। तस्मात्र हेतुः षड्लक्षणः।

हेतुबिन्दुराचार्यधर्मकीर्तिकृतः समाप्तः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project