Digital Sanskrit Buddhist Canon

हेतुतत्त्वोपदेशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Hetutattvopadeśaḥ

हेतुतत्त्वोपदेशः



मञ्जुश्रीकुमारभूताय नमः



१. साधनं दूषणं चैव साभासं परसंविदे।

प्रत्यक्षमनुमानं च साभासं त्वात्मसंविदे॥

अयं शास्त्रार्थरांग्रहः॥



२. वादिना स्वयं साधयितुमिष्टोऽर्थः साध्यः। येन साध्यते तत्साधनम्॥



३. हेतोस्त्रैरूप्यमुच्यते। किं पुनस्तत्त्रैरूप्यम्। पक्षे सत्त्वमेव प्रथमं रूपम्। सपक्ष एव सत्त्वमिति द्वितीयं रूपम्। विपक्षे [च] असत्त्वमेव निश्चितमिति तृतीयं रूपम्॥



४. तत्र पक्षः प्रसिद्धो धर्मी प्रसिद्धविशेषणेन विशिष्टः स्वयं साधयितुमिष्टः प्रत्यक्षाद्यविरुद्धः। यथा धर्मी शब्दोऽनित्य इति विशेषणेन विशिष्टः साध्यः। कृतकत्वादिति हेतुर्भवतीति॥



५. कः पुनः सपक्षः। साध्यधर्मसामान्येन समानः सपक्षः। यथा घटादिरिति॥



६. को हेतोर्विपक्षः। यत्र साध्याभावाद्धेत्वभावो निश्चयेन प्रदर्श्यते। यथाकाशादिः॥



७. त्रिरूपहेतुप्रदर्शनेन परावगमनिमित्तं कृतः प्रयोगः परार्थानुमानभित्युच्यते। यथा शब्दोऽनित्य इति पक्षवचनम्। कृतकत्वादिति हेतुवचनम्। घटादिवदिति सपक्षवचनम्। आकाशादिवदिति विपक्षवचनम्॥



८. स पुनर्द्विविधो दृश्यते। साधर्म्येण वैधर्म्येण च॥



९. तत्र साधर्म्येण तावत्। यत्कृतकं तत्सर्वमनित्यं दृष्टम्। यथ घटादिः। शब्दोऽपि कृतक इति॥



१०. वैधर्म्येणाप्यनित्यत्वाभावे कृतकत्वाभावः। यथाकाशादिः। शब्दस्तु कृतक इति॥



११. कः पुनः पक्षाभासः। पक्षाभासो वस्तुतो न पक्षः। प्रत्यक्षादिविरोधादयं पक्षाभासः॥



१२. यथा धूमादिर्धर्मी बुद्धिमद्धेतूत्पन्नः साध्य इति प्रत्यक्षविरुद्धः पक्षाभासः। प्रत्यक्षतो वह्नेर्धूमोत्पत्तिदर्शनात्॥



१३. अनुमानविरुद्धो यथा। वेदवचनं धर्म्यपौरुषेयमिति साध्ये शब्दः प्रयत्नानन्तरीयक इति पौरुषेयत्वस्य सिद्धेः॥



१४. स्ववचनविरुद्धो यथा। अनुमानं न प्रमाणमिति। परावगमाय वाक्यप्रयोगः परार्थानुमानमिति निर्देशात्॥



१५. लोकविरुद्धो यथा। शुचि नरशिरः कपालं प्राण्यङ्गत्वाच् छङ्खशुक्तिवदिति॥



१६. प्रतीतिविरुद्धो यथा। यद् यावत्‌कालस्थायि[तत्] अनित्यम्। यद्यावत्कालस्थायि [तत्] सर्वं नित्यमिति लौकिकप्रतीतेः॥



१७. अप्रसिद्धविशेषणो यथा। वैशेषिकस्य सांख्यं प्रति शब्दो विनाशीति॥



१८. अप्रसिद्धविशेष्यो यथा। सांख्यस्य बौद्धं प्रत्यात्मा चेतन इति साध्यम्॥



१९. अप्रसिद्धोभयो यथा। वैशेषिकस्य बौद्धं प्रति समवायिकारणमात्मेति कायः स्थिरस्वभाव इति वा॥



२०. पक्षाभासा उक्ताः॥



२१. कीदृशो हेत्वाभासः। यो हेतुरिवाभासते न तु हेतुत्वेन सिध्यति॥



२२. हेत्वाभासस्त्रिविधः। असिद्धो विरुद्धोऽनैकान्तिकश्च॥



२३. तत्र पक्षासिद्धेरसिद्ध इति हेत्वाभासः॥



२४. पक्षे सपक्षे चासन् विपक्षे च सन् [यः] स विरुद्ध इति हेत्वाभासः साध्यविपरीतसिद्धेः॥



२५. सपक्षविपक्षयोरुभयोर्भावेऽभावे वा संशये वासिद्धप्रतिबन्धो यो हेतुः सोऽनैकान्तिको हेत्वाभासः। वादिप्रतिवादिभ्यां साधयितुमिष्टस्यैकान्तेनासिद्धेः॥



२६. उभयासिद्धो यथा। शब्दस्यानित्यत्वे साध्ये हेतुश्चाक्षुषत्वं वादिप्रतिवादिनोरसिद्ध इति॥



२७. चेतनस्तरुरिति साध्ये सर्वत्वगपहरणे मरणादिति हेतुः प्रतिवादिनं बौद्धं प्रत्यसिद्ध इति प्रतिवाद्यसिद्धश्चित्तादिनिरोधस्य बौद्धस्येष्टत्वात्॥



२८. अचेतनाः सुखादय इति साध्ये उत्पत्तिमत्त्वादिति हेतुः सांख्यस्य स्वयं वादिनोऽसिद्ध इति वाद्यसिद्धः॥



२९. वैशेषिकेण प्रतिवादिनं बौद्धं प्रति पृथिव्यादिर्धर्मी कार्य इति साध्य एकैकक्षणवदन्यान्योत्पादादिति वादिनः स्वयमसिद्धः। सिद्धेऽप्युत्पाद एकैकक्षणवदन्यान्योत्पादासिद्धेः॥



३०. पक्षैकदेशासिद्धो यथा। चेतनास्तरवः स्वापादिति हेतुश्चन्दने वादिनः स्वयं पक्षैकदेशेऽसिद्धः। न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाजः॥



३१. एवमेव क्षित्यादिर्घर्मी बुद्धिमज्जात इति साध्ये कार्यमिति हेतुर्बौद्धं प्रत्यसिद्धः प्रत्यक्षानुपलम्भाभ्यां कार्यकारणसम्बन्धसिद्धस्वरूपेण क्षित्यादीनां सिद्धेः। वासभोजनादिसिद्धिरिति चेत्तदा पक्षैकदेशासिद्धिः॥



३२. संदिग्धासिद्धो यथा। यदीह धूमः स्यादत्र वह्निः स्यादिति साध्ये हेत्वनिश्चयात्॥



३३. संदिग्धधर्म्यसिद्धो यथा। एष्वनेकेषु निकुञ्जेषु कस्मिंश्चिन् निकुञ्जे मयूर इति साध्ये केकायितादिति हेतुरिति॥



३४. धर्म्यसिद्धावप्यसिद्धो यथा। धर्म्यात्मा सर्वव्यापीति साध्ये सर्वत्रोपलभ्यमानगुणत्वादिति हेतुरिति॥



३५. नवैतेऽसिद्धा हेत्वाभासाः॥



३६. कीदृशः पुनरनैकान्तिको हेत्वाभासः। उच्यते।



३७. यथा शब्दस्य नित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिति हेतुः सपक्षविपक्षयोः सर्वत्र वर्त्तमानः साधारणोऽनैकान्तिक इति॥



३८. एवं शब्दो नित्य इति साध्ये श्रावणत्वादिति हेतुः सपक्षे विपक्षे चावृत्तेरसाधारणोऽनैकान्तिकः॥



३९. एवं शब्दस्याप्रयत्नानन्तरीयकत्वे साध्येऽनित्यत्वादिति हेतुः सपक्षैकदेशवृत्ति र्विपक्षव्याप्यनैकान्तिकः। अप्रयत्नानन्तरीयकस्य शब्दस्य सपक्षः विद्युदाकाशादिः। तत्र सपक्षैकदेशे विद्युदादावनित्यत्वं वर्त्तते। नाकाशादौ। विपक्षाः प्रयत्नानन्तरीयकादयः सर्वे। तेषु सर्वेष्वस्ति॥



४०. एवं शब्दस्य प्रयत्नानन्तीयकत्वे साध्येऽनित्यत्वादिति हेतु र्घटादौ सर्वत्र [विद्यते]। अप्रयत्नानन्तरीयको विपक्षः पुन र्विद्युदाकाशादिः। तत्रैकदेशे विद्युदादौ वर्त्तते नाकाशादौ। तस्मादयं विपक्षैकदेशवृत्तिः सपक्षव्याप्यनैकान्तिको हेतुः॥



४१. उभयपक्षैकदेशवृत्तिरनैकान्तिको यथा। धर्मी शब्दो नित्य इति साध्येऽमूर्त्तत्वादिति हेतुः। परमाण्वाकाशादिः सपक्षः। तत्र सपक्षैकदेश आकाशेऽमूर्त्तत्वं विद्यते न परमाणौ परमाणूनां मूर्त्तत्वात्। घटसुखादिरनित्यो विपक्षः। तदेकदेशे सुखादौ विद्यते न घटादाविति॥



४२. एवं संदिग्धविपक्षव्यावृत्तिः सपक्षव्याप्यनैकान्तिको हेतुर्यथा। कपिलादि र्धर्म्यसर्वज्ञ इति साध्ये वक्तृत्वादिति हेतू रथ्यापुरुषादौ सपक्षे विद्यते विपक्षे सर्वज्ञे संदिग्धः। सर्वज्ञस्यातीन्द्रियत्वाद्वक्तृत्वमस्ति न वेति संदेहः॥



४३. एवं संदिग्धसपक्षवृत्तिर्विपक्षव्याप्यनैकान्तिको हेतुर्यथा। ऋषभवर्धमानादि र्धर्मी सर्वज्ञ इति साध्ये केवलशास्त्रकर्त्तृत्वादिति हेतुः सपक्षे सर्वज्ञे संदिग्धः। सर्वज्ञस्यातीन्द्रियत्वात् केवलशास्त्रकर्त्तरि संदेहः। विपक्षे...........आदावसर्वज्ञेऽस्तीति॥



४४. अन्वयव्यतिरेकयोः संदेहेऽनैकान्तिको हेतुर्यथा। जीवच्छरीरं सात्मकं प्राणादिमत्वादिति हेतुः। जीवच्छरीरसम्बन्धी प्राणादिः सात्मके निरात्मके वा वर्त्तमानो व्यावृत्तो वेत्यनिश्चयः॥



४५. ततः केवलान्वयी हेतुर्दृष्टान्ताभावात्॥



४६. एवं द्वितीयोऽपि केवलव्यतिरेकी। जीवच्छरीरमिदं न निरात्मकं प्राणाद्यभावप्रसङ्गादिति। दृष्टान्ताभावादन्वयस्यानिश्चयो व्यतिरेकस्य च निश्चय इत्ययं संदिग्धो हेतुः॥



४७. एते दशानैकान्तिकहेत्वाभासा उदाहृताः॥



४८. विरुद्धा हेत्वाभासाः कीदृशाः॥



४९. यथा धर्मी शब्दो नित्य इति साध्यधर्मः। कृतकत्वादाकाशादिवदित्ययं हेतुर्घटादौ विपक्ष एव विद्यते न सपक्षे॥



५०. एवं धर्मी शब्दो नित्य इति साध्ये प्रयत्नानन्तरीयकत्वादिति हेतुः सपक्ष आकाशादौ नास्ति घटादावेकदेशेऽस्ति विद्युदादौ नास्तीति। इमौ द्वौ हेतू धर्मस्वरूपविपरीतसाधनौ॥



५१. धर्मिस्वरूपविपरीतसाधनो द्विविधो यथा। एते चक्षुरादयः परार्था इति साध्यधर्मः संघातत्वादिति हेतुः शयनासनादिवदिति सपक्षनिर्देशः। अयं हेतुर्यथा चक्षुरादेः पारार्थ्यं साधयति तथा संहतत्वमपि परस्य साधयति। शयनासनादेः संहतदेवदत्तादिपरार्थत्वदर्शनात्॥



५२. धर्मिस्वरूपविपरीतसाधनो यथा। धर्म्यादिर्बुद्धिमतः कारणादुत्पद्यत इति साध्ये साश्रत्वादिति हेतुः। घटादिवदिति सपक्षनिर्देशः। यथानेन हेतुना बुद्धिमद्धेतुतो जातत्वं साध्यते तथा बुद्धिमत्कर्त्तुः साश्रयत्वमपि साध्यते॥



५३. धर्मिविशेषविपरीतसाधनो यथा। वैशेषिकेण योगाचारं प्रति धर्म्यात्मा चेतना इति साध्ये विज्ञानाधिष्ठानादिति हेतु र्यथाचेतनमात्मानं चेतनं साधयति तथायं हेतुरनित्यमपि साधयति विज्ञानस्यानित्यत्वात्॥



५४. पञ्चभिरेतैर्विरुद्धा हेत्वाभासाः प्रदर्शिताः॥



५५. विरुद्धाव्यभिचारी कुत्रापि हेतुदोषो न भवतीति तस्योदाहरणोपन्यासो न युक्तः। उदाहरणमुच्यते चेत्। यत्सर्वदेशावस्थितैः स्वसम्बन्धिभिर्युगपदभिसम्बध्यते तत्सर्वगतम्। यथाकाशम्। सर्वदेशावस्थितैः स्वसम्बन्धिभिर्युगपत् सामान्यमभिसम्बद्धमिति पैलुकस्य स्वभावहेतुप्रयोगः। द्वितीयोऽपि प्रयोगः पैठरस्य। यदुपलब्धिलक्षणप्राप्तं सद्यत्र नोपलभ्यते न तत् [तत्र] अस्ति। तद्यथा कस्मिंश्चिद्देशेऽविद्यमानो घटः। नोपलभ्यते [च] उपलब्धिलक्षणप्राप्तं सामान्यं व्यक्त्यन्तरालेष्विति। अयमनुपलम्भहेतुः पूर्वोक्तश्च स्वभावहेतुः। अनयोः परस्परविरोधेन संशयजनकत्वात्। सपक्षादन्यो दृष्टान्तो न कश्चिदस्तीति सपक्ष एवायं साधर्म्येण दृष्टान्तो भवति।



५६. तत्र कीदृशा दृष्टान्ताभासाः॥



५७. साधर्म्येण तावत्॥



५८. नित्यः शब्दोऽमूर्त्तत्वात्कर्मवदिति साध्यविकलः कर्मणोऽनित्यत्वात्॥



५९. नित्यः शब्दोऽमूर्त्तत्वात्परमाणुवदिति साधनविकलः परमाणोर्मूर्त्तत्वात्॥



६०. नित्यः शब्दोऽमूर्त्तत्वाद्धटवदिति साध्य[साधन]विकलः॥



६१. एवं संदिग्धसाध्यधर्मो दृष्टान्ताभासो यथा। धर्मी पुरुषः कश्चिद्रागादिमान् वचनाद्रथ्यापुरुषवदिति। रथ्यापुरुषदृष्टान्ते रागादिमत्त्वं संदिग्धम्। परचित्तानुमानस्य दुष्करत्वात्॥



६२. संदिग्धसाधनधर्मो यथा। मरणधर्मा पुरुष इति साध्ये रागादिमत्त्वादिति हेतू रथ्यापुरुषदृष्टान्ते संदिग्धः। वीतरागस्यापि सरागवच्चलत्वात्॥



६३. संदिग्धोभयधर्मो दृष्टान्ताभासो यथा। धर्मी कश्चित् पुरुषः [अ-]सर्वज्ञ इति साध्ये रागादिमत्त्वादिति हेतुः। रथ्यापुरुषदृष्टान्ते साध्यं साधनं च संदिग्धम्॥



६४. अनन्वयोऽप्रदर्शितान्वयो विपरीतान्वयश्च दृष्टान्ताभासाः॥



६५. तत्रानन्वयो यथा। यो वक्ता स रागादिमान् रथ्यापुरुषवत्। वक्तृत्वरागादिमत्त्वयोः कार्यकारणभावप्रतिषेधात्॥



६६. अप्रदर्शितान्वयो यथा। अनित्यः शब्दः कृतकत्वादिति। अत्रान्वयव्याप्तिरप्रदर्शिता। वक्तृदोषादयं दृष्टान्ताभासः॥



६७. विपरीतान्वयो यथा। यदनित्यं तत्कृतकमिति। घटादिवदिति। अत्रानित्यत्वं साध्यम्। साध्येन साधनस्य व्याप्तिर्दर्शनीया साधनेन तु साध्यस्य व्याप्तिर्दर्शिता। ततो विपरीतान्वयो दृष्टान्ताभासः॥



६८. साधर्म्येणैते नव दृष्टान्ताभासा उक्ताः॥



६९. वैधर्म्येण दृष्टान्ताभासा उच्यन्ते॥



७०. साध्याव्यावृत्तो दृष्टान्ताभासो यथा। नित्यः शब्दोऽमूर्त्तत्वात्परमाणुवदिति। इह परमाणुर्वैधर्म्यदृष्टान्त इति साधनधर्मोऽमूर्त्तत्वं व्यावृत्तं मूर्त्तत्वात्परमाणुनाम्। साध्यधर्मो नित्यत्वं न व्यावृत्तं नित्यत्वात्परमाणुनामिति॥



७१. साधनाव्यावृत्तो यथा। नित्यः शब्दोऽमूर्त्तत्वात् कर्मवदिति। इह साध्यधर्मो नित्यत्वं व्यावृत्तं कर्मणोऽनित्यत्वात् साधनधर्मो न व्यावृत्तोऽमूर्त्तत्वात्कर्मणः॥



७२. उभयाव्यावृत्तो यथा। नित्यः शब्दोऽमूर्त्तत्वादाकाशादिवदिति। अत्राकाशादेर्वैधर्म्यदृष्टान्तात् साध्यं साधनं च न व्यावृत्तम्॥



७३. तथा संदिग्धसाध्यव्यतिरेकः संदिग्धसाधनव्यतिरेकः संदिग्धोभयव्यतिरेकश्च॥



७४. संदिग्धसाध्यव्यतिरेको दृष्टान्ताभासो यथा। असर्वज्ञाः कपिलादयोऽविद्यमानसर्वज्ञतालिङ्गभूतकेवलशास्त्रकर्त्तृत्वादिति। अत्र वैधर्म्येणोदाहरणमुच्यते। यः सर्वज्ञः स ज्योतिर्ज्ञानादिकमुपदिष्टवान्। तद्यथा ऋषभवर्द्धमानादिरिति। इह वैधर्म्योदाहरण उक्त ऋषभवर्धमानादेरसर्वज्ञत्वं व्यावृत्तमव्यावृत्तं वेति संदेहः॥



७५. संदिग्धसाधनव्यतिरेको यथा। इह त्रयीविदा ब्राह्मणेन कपिलकणादादिः पुरुषो न ग्राह्यवचनो रागादिमत्त्वादिति। अत्र वैधर्म्योदाहरणमुच्यते यो ग्राह्यवचनो न स रागादिमान् यथा गोतमादयः धर्मशास्त्राणां प्रणेतार इति। गोतमादिभ्यो रागादिमत्वस्य [साधन]धर्मस्य व्यावृत्तिः संदिग्धा॥



७६. संदिग्धोभयव्यतिरेको यथा। अवीतरागाः कपिलादयः परिग्रहाग्रहयोगादिति। अत्र वैधर्म्येणोदाहरणमुच्यते। यो वीतरागः स न परिग्रहाग्रहवान् यथा ऋषभवर्द्धेमानादिरिति। ऋषभादेः [वै]धर्म्यदृष्टान्ताद् वीतरागत्वपरिग्रहाग्रहयोः साध्यसाधनधर्मयोर्व्यतिरेकोऽव्यतिरेको वेति संदेहः। प्रागलब्धस्य वस्तुनो लाभः परिग्रहः लब्धस्यापरिवर्जनमाग्रहः। उभयोरपि तयो रृषभे सम्भवः। छत्रचामरमहादुन्दुभीनां परिग्रहाग्रहश्रवणात्।



७७. अव्यतिरेको वैधर्म्यदृष्टान्ताभासोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्चेति॥



७८. अव्यतिरेको यथा। कपिलादिरवीतरागो वक्तृत्वात्। यत्रावीतरागत्वं नास्ति न स वक्ता यथोपलखण्ड इति। यद्यपीदमुपलखण्डाद्व्यावृत्तं तथापि सर्वस्माद्वीतरागाद्वक्तृत्वं न व्यावृत्तं सन्देहात्॥



७९. अप्रदर्शितव्यतिरेको यथा। अनित्यः शब्दः कृतकत्वादाकाशादिवदिति। परमार्थतः सम्यगुदाहृतोऽपि वक्तुरपराधाद्दृष्टान्ताभासः। परार्थानुमाने वक्तुर्गुणदोषयोर्द्वयो र्विचारणीयत्वात्। एवं यन्नित्यं तत्सर्वं नियतमकृतकं दृश्यते यथाकाशादिरिति वाग्‌‍विभागो वक्त्रा कर्त्तव्यः। पूर्ववर्त्तिनो व्यतिरेकस्याप्रदर्शनादप्रदर्शितव्यतिरेकः॥



८०. विपरीतव्यतिरेको यथा। यदकृतकं तन्नित्यं दृष्टमिति। इह तु साध्यविपरीते व्याप्तिर्दर्शनीया। तेन यद्यत्साध्यविपरीतं तत्तन्नियतं साधनविपरीतं भवेत्॥



८१. अष्टादश दृष्टान्ताभासा उक्ताः॥



८२. एभिरेव पक्षहेतुदृष्टान्ताभासैर्वादिना साधनस्याव्युत्पत्तेः [प्रति]वादी दूषणमुपन्यस्यति। तस्य दूषणस्य पूर्वपक्षवादिनोऽभीष्टार्थसिद्धौ प्रतिबन्धकत्वात्साधनन्यूनतोद्भावनमेव दूषणमुच्यते। तस्मात्साधनवद्दूषणलक्षणविभगाः पृथग् नोक्तः॥



८३. दूषणाभासो दूषणमेवेति स प्रतिवादिनोच्यते। यदा पूर्वपक्षवादिनोऽभूतं दोषमुद्भावयति [तदा] स दूषणाभासो जातिरिति। अभूतदोषोद्भावनं विपरीतोत्तरं जातिरित्युच्यते। यथा पक्षदोषाभावे पक्षदोषोद्भावनं हेतुदोषाभावे हेतुदोषोद्भावनं दृष्टान्तदोषाभावे च दृष्टान्तदोषोद्भावनं दूषणाभास इति॥



८४. तत्राहुरन्ये। प्रतिज्ञा हेतुः [उदाहरणम्] उपनयः निगमनं चेति पञ्चावयवं साधनमिति। यथानित्यः शब्दः इति प्रतिज्ञा। कृतकत्वादिति हेतुः। यत्कृतकं सर्वं तदनित्यं दृष्टं यथा घटादिरित्युदाहरणम्। तथा शब्दोऽपि कृतक इति उपनयः। तस्मादनित्य इति निगमनम्। दृष्टान्तप्रतीतसामर्थ्यस्य हेतोर्धर्मिण्युपसंहार उपनय इति। प्रतिज्ञाया पुनः श्रवणं निगमनमित्युच्यते। मैवमन्वयो व्यतिरेकः पक्षधर्मश्चेति त्रयेणैव साध्यार्थसिद्धेः॥



८५. एवं वादकाले व्याप्तिपूर्वक एव प्रयोगः। यत्कृतकं सर्वं तदनित्यं दृष्टं यथा घटादिरिति दृष्टान्ते साध्यसाधनयोर्व्याप्तिप्रतिपादनमन्वय इत्युच्यते॥



८६. विपक्षे पुनः साध्यव्यावृत्त्या साधनव्यावृत्तिर्व्यतिरेक इत्युच्यते। यथाऽनित्यत्वाभावे कृतकत्वाभावः स्याद्यथाकाशादिः॥



८७. शब्दोऽपि कृतक इति पक्षधर्म उच्यते। प्रतिज्ञा निगमनं च सर्वथा न वक्तव्ये॥



८८. तथा साधर्म्यप्रयोगेऽन्वयवचनसामर्थ्याद्व्यतिरेकावगमादयं पृथग् नोच्यते। यथा यत्कृतकं सर्वं तदनित्यं दृष्टं यथा घटादिः शब्दोऽपि कृतक इति साधर्म्यप्रयोगः। वैधर्म्यप्रयोगे व्यतिरेकवचनसामर्थ्यादन्वयप्रतीतिः। अत्र पुनरन्वयो न वाच्यः। यन्नित्यं तदकृतकं दृष्टं यथाकाशादिः शब्दस्तु कृतक इति वैधर्म्यप्रयोगः॥



८९. साधनाभासो दूषणाभासश्चोक्तः॥



९०. किं नाम प्रत्यक्षमिति। प्रत्यक्षं कल्पनापोढमभ्रान्तम्। अक्षं प्रतिगतमाश्रितं यद्विज्ञानं तत्प्रत्यक्षम्। पञ्चेन्द्रियाश्रितं ज्ञानमित्यर्थः। अत्यादयः क्रान्ताद्यर्थे द्वितीययेति समासेनाभिधेयलिङ्गः प्रत्यक्षशब्दः सिद्धः। प्रत्यक्षोऽवबोधः प्रत्यक्षा बुद्धिः प्रत्यक्षं ज्ञानं चेति युक्तं भवति॥



९१. चक्षुः श्रोत्रं नासिका जिह्वा कायश्चेति पञ्चेन्द्रियाणि। तदाश्रितस्य ज्ञानस्य पञ्च ग्राह्यविषया रूपं शब्दो गन्धो रसः स्प्रष्टव्यञ्चेति पञ्चैव प्रमेयाणि॥



९२. तच्च प्रत्यक्षं नामजात्यादिकल्पनापोढं निर्विकल्पं वा यदि पुनरभ्रान्तं प्रमाणमुच्यते प्रदर्शितार्थेऽविसंवादात्।



९३. तत्र नामविकल्पः देवदत्तोऽयमिति ज्ञानम्। जातिविकल्पोऽयं गौरिति ज्ञानम्। विशेष्यविशेषणविकल्पो नीलमुत्पलमिति। अन्योऽपि सविकल्पः प्रत्यक्षाभासः। विद्यमानेऽर्थे विभ्रमस्तैमिरिकस्य द्विचन्द्रज्ञानम्। शुक्तौ रजतज्ञानम्। अयं स्थाणुर्वा पुरुषो वेति ज्ञानं च। ज्ञानान्तरमपि प्रत्यक्षाभासः प्रदर्शितार्थाप्रापकत्वात्॥



९४. तत्र प्रत्यक्षं त्रिविधम्। व्यावहारिकमिन्द्रियज्ञानं सर्वचित्तचैत्तानामात्मसंवेदनं स्वसंवेदनं भूतार्थभावनास्फुटप्रकर्षपर्यन्तजं योगिज्ञानं चेति॥



९५. तस्य विषयः स्वलक्षणम्। अर्थक्रियासमर्थं स्वलक्षणम्। न सामान्यमर्थक्रियासमर्थम्।



९६. तदेव च प्रत्यक्षं प्रमाणमर्थप्रतीतिरूपत्वात् फलमपि। तथात्वेन च प्रमाणफलयोर्न मनागपि भेदः॥



९७. द्विविधमनुमानं स्वार्थं परार्थं च॥



९८. तत्र स्वार्थं तावत् पक्षधर्मग्रहणात् साध्यसाधनसम्बन्धस्मृतेः पश्चात् प्रतिपत्तुरर्थस्य यथावद्या प्रतीतिस्तदेव स्वार्थानुमानम्॥



९९. पक्षधर्मस्त्रिप्रकार एव कार्यं स्वभावोऽनुपलब्धिश्च॥



१००. कार्यकारणसिद्धौ कार्यं हेतुरिति। यथा यत्न धूमः [तत्र] अग्निर्यथा महानसादौ। अत्रपि धूमसद्भावादिति। अग्न्यभावे धूमाभावो यथा सजले देश इति अत्र तु धूमादिति॥



१०१. स्वभावो हेतुः। वृक्षोऽयं शिंशपात्वात् पूर्वव्यवहारापन्नशिंशपावत्। वृक्षाभावे शिंशपाभावो यथा वृक्षरहिते प्रदेशे। इह पुनस्तेन व्यापकेन रूपेण व्याप्यो हेतुः॥



१०२. अनुपलब्धिहेतुः। अत्र घटो नास्तुपलब्धिलक्षणप्राप्तस्यानुपलब्धेः शशविषाणादिवत्। अत्रापि यदोपलब्धियोग्यानुपलब्धावुपलब्धियोग्याभावव्याप्तिर्निश्चीयते तदायं हेतुस्तत्प्रतिपादको भवति॥



१०३. कीदृशा अनुमानाभासाः। पूर्ववच्छेषवत्सामान्यतोदृष्टञ्च परकल्पितानि सर्वाणि अनुमानान्यनुमानाभासाः। तेषां तादात्म्यदुत्पत्तिलक्षणेन प्रतिबन्धाभावात्। हेतुफलसम्बन्धे व्याप्यव्यापकसम्बन्धे च सिद्धे साध्यसाधनसम्बन्धो भवति नान्यथा विसंवादकत्वात्॥



१०४. यथा मेघोऽयं वृष्टिमान् दृश्यते। गम्भीरनिर्घोषवत्त्वादित्यत्र गम्भीरघोषवतो मेघाद्वृष्ट्यनुद्भवसम्भवात्।



१०५. यथोपरिष्टाद्वृष्टं नदीवृद्धिदर्शनादिति। नदीनिरोधादपि नदीवृद्धिदर्शनात्॥



१०६. एवमिमे तण्डुलाः सिद्धा एकपात्रमध्यवर्तित्वाद् दृष्टतण्डुलवत्॥



१०७. इमानि फलानि पक्वान्येकशाखातो जातत्वाद्भुक्तफलवदित्यत्र प्रायेणैवं दृष्टेऽपि साध्यसाधनयोर्विसंवाद एव॥



१०८. यत्पार्थिवं तत्सर्वं लोहलेख्यं दृश्यते यथा वृक्षादय इति। अत्र वज्रोऽपि पार्थिवः॥



१०९. ये प्राणिनस्ते सर्वे सकन्धरा यथोष्ट्रादय इति। अत्र कुलीरोऽपि प्राणी॥



११०. यद्द्रवद्रव्यं तदार्द्रं दृश्यते यथा जलमिति। अत्र रसोऽपि द्रवद्रव्यम्॥



१११. एवमन्येऽप्यनुमानाभासा दृश्यन्ते॥



[इति] पण्डितप्रवरजितारिपादकृतो

हेतुतत्त्वोपदेशः सम्पूर्णः।



भारतीयोपाध्यायेन पण्डितेन कुमारकलसेन भाषान्तरकारकेण

भिक्षुणा शाक्यप्रभेण च भोटभाषायां विपरिणमय्य

संशोध्य च विन्यस्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project