Digital Sanskrit Buddhist Canon

सामान्यदूषणदिक्प्रसारिता

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Sāmānyadūṣaṇadikprasāritā

पण्डिताशोकविरचिता

सामान्यदूषणदिक्प्रसारिता।



व्यापकन्नित्यमेकञ्च सामान्यं यैः प्रकल्पितं।

मोहग्रन्थिच्छिदे तेषां तदभावः प्रसाध्यते॥



कथमिदमवगम्यते। परस्परविलक्षणक्षणेषु प्रत्यक्षसमीक्ष्यमाणेष्वभिन्नधीध्वनिप्रसवनिबन्धनमनुयायिरूपं सामान्यं न मान्यं मानीषिणामिति। साधकप्रमाणविरहात् बाधकप्रमाणसम्भवाच्चेति ब्रूमः। तथाहि यदिदं सामान्यसाधनमनुमानमभिधीयते परैः। यदनुगताकारं ज्ञानं तदनुगतवस्तुनिबन्धनं यथा बहुषु पुष्पेषु स्रक् स्रगिति ज्ञानं। अस्ति च परस्परसम्पर्कविकलकलासु कार्य्यादिव्यक्तिष्वनुगताकारं विज्ञानं तदनैकान्तिकतादोषाक्रान्तशरीरत्वान्न तद्भावसाधनायालं। यतो भवति बहुषु पाचकेषु पाचकः पाचक इति एकाकारपरामर्शप्रत्ययः। न च तेष्वनुगतमेकं वस्तु समस्ति। तद्भावे हि प्रागेव तथाविधप्रत्ययोत्पादप्रसङ्गो दुर्व्वारप्रचारः। क्रियोपकारापेक्षाणां स्वलक्षणानां सामान्यव्यञ्जकत्वादयमदोष इति चेत्। नैतदस्ति। नित्यानामनाधेयातिशयतयाऽनुपकारिणि सहकारिण्यपेक्षाऽयोगात्। सातिशयत्वे वा प्रतिक्षणं विशरारूशरीरत्वात् क्रिया कुत इति दोषोदुष्परिहरः। क्रियानिबन्धनत्वात् पाचकेष्वनुगताकारप्रत्ययस्य नानैकान्तिकतादोष इत्यपि वार्त्तं। प्रतिभेदं भिद्यमानानां कर्म्मणां तन्निबन्धनत्वायोगात्। भिन्नानामप्यभिन्नाकारज्ञाननिबन्धनत्वे व्यक्तीनामपि तथा भावो न राज दण्डनिवारितः। ततश्च सामान्यमेव नोपेयं स्यात्। इति मूलहरं पक्षमाश्रयता देवानां प्रियेण सुष्ठ अनुकूलमाचरितं। अनेनैव न्यायेन क्रियाकारकसम्बन्धमभिन्नज्ञाननिबन्धनमुपकल्पयन् प्रतिक्षिप्तः। पाकक्रियात्वनिबन्धनः पाचकेष्वनुगताकारः प्रत्ययस्ततो नानैकान्तिकतादोष इत्यपि न मन्तव्यं। नह्यर्थान्तरसम्बन्धिनी जातिरर्थान्तरप्रत्ययोत्पत्तिहेतुः, अतिप्रसङ्गात्। स्यादेतत् समवेतसमवायसम्बन्धबलात् पाकक्रियासामान्यं पाचकेष्वभिन्नाकारं परामर्शप्रत्ययमुपजनयति ततो न यथोक्तदोषः। तदिदमप्यसारं। यत् उदयानन्तरापवर्ज्जितया कर्म्मणामेवासम्भवात्, विनष्टे कर्म्मणि तत् सामान्यं न कर्म्मणि तदभावादेव नापि कर्त्तरीति सम्बद्वसम्बन्धोप्यस्य नास्तीति नाभिन्नप्रत्ययहेतुः। तस्मात् स्थितमेतत्तदनैकान्तिकतादोषदुष्टत्वान्नेदमनुमानं सामान्यसत्त्वासाधनाय पर्य्याप्तमिति। इतश्चापि न सामान्यसत्त्वासाधनमिदमनुमानं। यथैव हि परस्परासङ्कीर्णस्वभावा अपि शाबलेयादयोभावाः कयाचिदेव तदेककार्य्यप्रतिनियमलक्षणया स्वहेतुबलायातया प्रकृत्या तदेकमभिमतमनुगतरूपमुपकुर्ब्बते, तदपरसामान्यान्तरमन्तरेणान्यथानवस्थाप्रसङ्गात्। तथा तमेकं परामर्शप्रत्ययमुपजनयन्तु किमन्तरालगडुना व्यतिरेकवता सामान्येनोपगतेन।



अथोच्यते प्रतिनियतशक्तयः सर्व्वभावाः। एतच्च सामान्यापलापिभिरपि नियतमभ्युपगमनीयं अन्यथा कुतः शालिवीजं शाल्यङ्कुरमेव जनयति न कोद्रवाङ्कुरमिति। परपर्य्यनुयोगे भावप्रकृतिं मुक्त्वा किमपरमिह वचनीयमस्ति। एतच्चोत्तरमस्माकमपि न वनौकःकुलकवलितं, तथाहि वयमप्येवं शक्ता एव वक्तुं सामान्यमेवोपकर्त्तुं शक्तिव्यक्तीनां भेदाविशेषेऽपि न तदेकं विज्ञानमुपजनयितुमिति। अनुत्तरं वत दोषसङ्कटमत्रभवान् दृष्टिदोषेण प्रविश्यमानोऽपि नात्मानमात्मना सम्बेदयते। तथाहि शालिवीजतदङ्कुरयोरध्यक्षानुपलम्भनिबन्धने कार्य्यकारणभावेऽवगते शालिवीजं शाल्यङ्कुरं जनयितुं शक्तं न कोद्रवाङ्कुरमिति शक्यमभिधातुं। नैवं सामान्यतद्वतोरुपकार्य्योपकारकभावः कुतश्चन प्रमाणान्निश्चितः। तत्कथमिदमुत्तरमभिधीयमानमादधीत साधिमानमित्यलमलीकनिर्बन्धनेन। न साधकप्रमाणविरहमात्रेण प्रेक्षावतामसद्व्यवहारः। ततस्तदभावसाधकमनुमानमभिधीयमानमस्माभिराकल्यतां। यद्यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्तदसदिति प्रेक्षावद्भिर्व्यवहर्त्तव्यं, यथाम्बराम्बुरुहं, नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं क्वचिदपीति स्वभावानुपलब्धिः। न चात्रासिद्विदोषोद्भावनया प्रत्यवस्थातव्यम्। तथा ह्यत्रासिद्विर्भवन्ती स्वरूपतो विशेषणतो वा भवेत्। तत्र न तावदाद्यं सम्भवति। अन्योपलम्भरुपस्यानुपलम्भस्याभ्युपगमात्। तस्य च स्वसम्बेदनप्रत्यक्षसाक्षात्कृतस्वरूपत्वात् कुतः स्वरूपासिद्वदोषावकाशः।



अथोच्यते स्वसम्बेदनमेव न सम्भवति। स्वात्मनि क्रियाविरोधात्। न हि तयैवासिधारया सैवासिधारा च्छिद्यते। तदेबाङ्गल्यग्रं तेनैवाङ्गुल्यग्रेण स्पृश्यते इति। अतोऽसिद्व एवायं हेतुः। तदिदं स्वसम्बेदनशब्दार्था परिज्ञानविजृम्भतमेव प्रकटयति वावः। तथाहि कलसकलधौतकुवलयादिभ्यो व्यावृत्तं विज्ञानमुपजायते। तेन बोधरूपतयोत्पत्तिरेवास्य स्वसम्बित्तिरुच्यते, प्रकाशवत्। न कर्म्मकर्त्तृक्रियाभावात्। एकस्यानंशरूपस्य त्रैरूप्यानुपपत्तितः। यथैव हि प्रकाशकान्तरनिरपेक्षः प्रकाशः प्रकाशमान आत्मनः प्रकाशक उच्यते। तथा ज्ञानमपि ज्ञानान्तरनिरपेक्षं प्रकाशमानमात्मनः प्रकाशमुच्यते। ततोऽयं परमार्थः। न ज्ञानं ज्ञानान्तरसंवेद्यमुपपद्यते नाप्यसम्बिदितमुच्यते। यथाप्रकारे च स्वसम्बेदनशब्दार्थ विवक्षिते न किञ्चिद् वचनीयकमस्ति कुतो यथोक्तदोषावसरः। नापि विशेषणासिद्व्याऽसिद्विरूद्भावनीया। उपलब्धिलक्षणप्राप्ततया सामान्यस्य स्वयमेव परैरुपगमात्। तथानभ्युपगमे वा न सामान्यबलेन वा कुलेयादिष्वनुगताकारौ धीध्वनी स्यातां। न हि यतो यत्र ज्ञानाभिधानप्रवृत्तिस्तदनुपलक्षणे तस्य प्रतीतिर्भवति, दण्डिवत्। यत् पुनरिदमुद्योतितमुद्योतकरेण। किं सामान्यं प्रतिपद्यसे, न वा। यदि प्रतिपद्यसे कथमपन्हुषे। अथ न प्रतिपद्यसे तदा तस्यासिद्वत्वादाश्रयासिद्वो हेतुः। तदिदं तस्य धर्म्मिस्वरूपितानभिज्ञताविजृम्भितमाभाति। यतो न वयं वहीरूपतया सामान्यं धर्म्मितयाऽङ्गीकुर्म्महे। अन्तर्म्मात्राभिनिवेशिनो भावाभावोभयानुभवाहितवासनापरिपाकप्रभवस्याध्यस्तवहिर्वस्तुनो ज्ञानाकारस्य धर्म्भितयोपयोगात्।



स च स्वसम्बेदनप्रत्यक्षसिद्वतया न शक्यः प्रतिक्षेप्तुं। तदत्र धर्म्मिणि व्यवस्थिताः सदसत्वे चिन्तयन्ति। किमयं सामान्यशब्दविकल्पप्रतिभासार्थो धर्म्मी परपरिकल्पितवहिःसामान्यनिबन्धनो वेति। तस्य वाह्यानुपादानत्वे साध्यतयाऽनुपलम्भो हेतुः। न पुनस्तस्यैवाभावः साध्यते। तद्विषयशब्दप्रयोगप्रसङ्गात्। एवम्बिधे च धर्म्मिणि विवक्षिते कुत आश्रयासिद्विदोषः। यत्तूच्यते। प्रत्यक्षप्रमाणसिद्वस्वभावतया सामान्यस्यासिद्व एवायं हेतुरिति। तदयुक्तं, तस्य स्वरूपेणाप्रतिभासनात्।



इदमेव हि प्रत्यक्षस्य प्रत्यक्षत्वं यत् स्वरूपस्य स्वबुद्वौ समर्पणं। इदं पुनर्मूल्यादानक्रयि सामान्यं स्वरूपञ्च नादर्शयति प्रत्यक्षताञ्च स्वीकर्त्तुमिच्छति। तथाहि न वयं परस्परासंकीर्णशावलेयादिव्यक्तिभेदप्रतिभासनवेलायां तद्विलक्षणमपरमनुगतमध्यक्षेणेक्षामहे। कण्ठेशनमिव भूतेषु। शावलेयसामान्यबुद्वेरसिद्वेः। तत् कथमदृष्टकल्पनयात्मानमात्मना विप्रलभेमहि।



इति नासिद्वो हेतुः। नाप्यनैकान्तिकता शङ्काविषयमतिपतति, विपक्षवृत्त्यदर्शनात्। असपक्षे सम्भवानुपलम्भात्। साधारणानैकान्तिकता माभूत। सन्दिग्धविपक्षव्यावृत्तिकता तु प्रतिबन्धादर्शनादनिवारित प्रसरैव।



तदेतन्न समालोचिततर्ककर्कशधियामभिधानं। विपर्य्यये बाधकप्रमाणसामर्थ्यादपसारितसद्भावत्वात्तदाशङ्कायाः। तथाह्यसत्त्वे साध्ये सत्त्वं विपक्षः। तत्र प्रत्यक्षवृत्त्या भवितव्यं। यतो यद्यदाऽविकलाऽप्रतिहतसामर्थ्यं तत्तदा भवत्येव। तद्यथाऽविकलबलसकलकारणकलापोऽङ्कुरः। सति च चक्षुरादिसाकल्ये दृश्ये वस्तुन्यविकलाप्रतिबद्वशक्तिकारणं प्रत्यक्षं ज्ञानमिति स्वभावहेतुः। ततो विरुद्वोपलम्भाद्विपक्षाद्व्यावर्त्तमानो हेतुः। असद्व्यवहारयोग्यत्वेन व्याप्यत इति व्याप्तिसिद्वेर्नानैकान्तिकः। अभिमतसाध्य प्रतिबन्धसिद्वेस्तु विरुद्वता दूरतरसमुत्सारितरभसप्रसरैव। अतोऽसिद्वतादिदूषणशङ्काकलङ्कालङ्कि(कृ)ताद्वेतोः प्रस्तुतवस्तुसिद्वौ सिद्वमसत्त्वं सामान्यस्येत्यलमतिबद्वविस्तरविसारिण्या कथयेति विरम्यते।



न च वस्तुसंस्थानवत् सामान्यं व्यक्तेर्लक्षणं। न चानुवृत्तव्यावृत्तवर्णाद्यात्मके जातिव्यक्ती वर्णादिनियतप्रतिभासप्रतीतिप्रसङ्गात्। व्यक्तेरेवासौ प्रतिभास इति चेत् कोऽपरस्तर्हि सामान्यस्यानुगताकार इति चेत्।



ननु वर्णसंस्थाने विरहय्य किमपरमनुगामि विद्यते। जातिब्यक्तयोः समवायबलादविभावितविभागयोः क्षीरोदकयोरिव परस्परमिश्रणेन प्रतिपत्तेरिति चेत्। न तर्हि सामान्यविशेषयोरेकतरस्यापि रूपं गृहीतं। स्वरूपाग्रहणेऽनयोरप्यग्रहणमिति निरालम्बनैव सा तादृशी प्रतिपत्तिरिति परमार्थ आवेदितस्तावत् निरालम्बनया च प्रतीत्या व्यवस्थाप्यमानं सामान्यं सुव्यवस्थापितं। तस्माद्विशेष्यासिद्व्यापि नायमसिद्वो हेतुः। सपक्षे वर्त्तमानो विरुद्व इत्यपि न मन्तव्यः। अनैकान्तिकताप्यस्य न सम्भावनाम् अर्हति। असद्व्यवहारा नपेक्षत्वेन हि दृश्यानुपलम्भो व्याप्तः। यदि हि सन्नपि तत्र न प्रवर्त्तयेत्। इह सापेक्षः स्यात्। ततो विपक्षाद्व्यापकविरुद्वावरुद्वात्। व्यावर्त्तमानोऽसद्व्यवहारे विश्राम्यतीति अतस्तेनासद्व्यवहारेणानुपलम्भो व्याप्यत इति कुतोऽनेकान्तः। ततश्च स एवार्थः समायातः।



एतासु पञ्चस्ववभासनीषु

प्रत्यक्षवोधे स्फुटमङ्गुरीषु।

साधारणं षष्ठमिहेक्षते यः

शृङ्गं शिरस्यात्मन ईक्षते सः॥इति॥



सर्व्वस्य च पूर्व्वोक्तस्यायं परमार्थः।

प्रत्यक्षप्रतिभासि वर्त्मन पञ्चस्वङ्गुलीषु स्थितं सामान्यं प्रतिभासते न च विकल्पाकारबुद्वौ तथा।

ता एवास्फुटमूर्त्तयोत्र हि विभासन्ते न जातिस्ततः

सादृश्यभ्रमकारणौ पुनरिमावेकोपलब्धिध्वनी इति॥



सामान्यसिद्विदूषणदिक्‍प्रसारिता॥३॥



कृतिरियं पण्डिताशोकस्य॥०॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project