Digital Sanskrit Buddhist Canon

सन्तानान्तरसिद्धिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Santānāntarasiddhiḥ

धर्मकीर्तिप्रणीता

सन्तानान्तरसिद्धिः



बुद्धिपूर्वां क्रियां दृष्ट्वा स्वदेहेऽन्यत्र तद्ग्रहात्।

ज्ञायते यदि धीश्चित्तमात्रेऽप्येष नयः समः॥

आत्मनि चित्तस्पन्दनपूर्वौ क्रियाभिलापौ दृष्ट्वाऽन्यत्र तयोर्दर्शनाद्यदि स्पन्दनमनुमीयेत, चित्तमात्रेऽप्यष नयः समः। अतः चित्तमात्रतावादी अपि परचित्तमनुमातुं शक्नोति। तच्च कायवाग्विज्ञप्तिप्रतिभासि ज्ञानं ज्ञानान्तरस्पन्दनवेशेषेण विना भवत्येवं न मतम्। [1-3]



अथ परज्ञानस्य क्रियानुपलम्भात् परधीरनुमातुं न युज्यत इति चेत् ? न; तुल्यत्वात्।परोऽपि परज्ञानपूर्वौ तौ कदापि न पश्यति ऽतः तेनापि तन्न ज्ञायते।

[4-5]

आत्मनश्चित्तस्य परवर्तिनोर्निमित्तत्वानुपपत्तेः परचित्तं ज्ञायत इति चेत्। किं न युज्यते ? स्वसमुत्थापकचित्तस्य प्रतिसंवेदनाभावात्, आत्मचित्तश्रयिणोश्चात्मनि दर्शनात्। तावपि यदि यथा स्यातां तादृशावुपलभ्येयाताम्। अन्यथा दर्शनादन्यनिमित्तं सिध्यतीति चेत् ? अपरस्मिन्नपि समानमेव, स्वसमुत्थापकचित्तस्य संवेदनाभावात्। स्वचित्तस्पन्दननिमित्तके विज्ञप्तिप्रतिभासिनी ज्ञाने चान्तर्मुखप्रतिभासिनी प्रतीतेः बहिर्मुखप्रतिभासिनी अन्यनिमित्तदुत्पद्येते। [6-12]

अनिमित्ते एव बहिर्मुखप्रतिभासिनीति किन्नेष्यते चेत् ? अनिमित्तत्वे सर्वस्यानिमित्तत्वं प्रसज्येत। विच्छिन्नाविच्छिन्नप्रतिभासकृतो भेदो न ज्ञानयोः स्पन्दनत्वनिमित्तभेदविभागकृत्। तेनाविच्छिन्नप्रतिभासिनोरप्यनिमित्तत्वं भवेत्, विशेषाभावात्। तथा सति, अविच्छिन्नत्वविशिष्टः प्रतिभासभेद एव स्पन्दनपूर्वको न भवति। किन्तर्हि ? विच्छिन्नस्यापि क्रियाविशेषस्य प्रतिभास एव। शरोपलप्रक्षेपणयन्त्रनिर्माणपरप्रचालनादिक्रियाविशेषप्रतिभासिनां विच्छिन्नस्यापि प्रतिभासस्य स्पन्दनपूर्वकत्वात्। परकृतचालनादिनां चाविच्छिन्नस्याप्यतद्पूर्वकत्वात्। [13-19]

तेन ह्यत्र क्रियाविशेषमात्रेण स्पन्दनस्य प्रतीतिरिती युज्यते। तत्र यदि कस्यचिद्पूर्वकत्वम्, न कोऽपि तत्पूर्वकः स्यात्, विशेषाभावात्। अतः क्रियाविशेषसामान्यं स्पन्दनविशेषसामान्यस्य गमकम्। तत्र यथा क्रियामुपलभ्य, आत्मनि स्पन्दनानुपलम्भादन्यत्र स्पन्दनप्रतीतिः; तथा क्रियाप्रतिभासोपलम्भनेऽपि। समानमेतत्; परोऽपि परक्रियाभिलापयोर्निमित्तं नास्तीति किन्नेच्छति ? तेनावश्यं तौ स्पन्दननिमित्तकत्वात् तद्भावे न भवत इति वक्तव्यम्। परोऽपि तयोः प्रतिभासौ तथैव वदेत्। अतः नानयोः परस्परं भेदः।[20-26]

यदि तत्र प्रतिभासिन्योः स्पन्दननिमित्तकत्वमुच्यते, स्वप्नावस्थायामपि किन्नोच्यते ? सर्व समानम्। परोऽपि स्वप्नोपलब्धपरक्रियाभिलापौ स्पन्दननिमित्तकाविति किन्न वदति ? तयोरभावादिति चेत्। तथोपलब्धिसाप्यात् किन्न स्तः ? अथ मिद्धेनोपहतत्वात् पुरुषस्य अर्थशून्यं विज्ञानं जायत इति चेत्। परमतेऽपि तस्मादेव पराधिपत्यशून्यं विज्ञानमुपजायते। 27-32]

अथ स्वप्नेऽपि ज्ञानस्यार्थवत्त्वात्तदोपलभ्यमाना अपि परसन्ताना एवेति चेत्।

परं प्रतिविग्रहीतुं यदि युक्त्यागमरहितस्तथाविधोऽसद् वादः समाश्रियेत, तदा पराभिमतं तस्य परायत्तत्वं न कोऽपि निवारयेत्। एतत्केषञ्चिन्मत एव सर्वाणि तथाविधानि ज्ञानानि सन्तानान्तरायत्तानि। विषेषस्तु साक्षात्परम्परया च। कदाचित् स्वप्नेऽपि तस्य साक्षात् सन्तानान्तरयत्ता इष्टैव; देवाद्यधिष्ठानतः सत्यस्वप्नदर्शनात्। तस्मादस्य नैतदसद्वादसमाश्रयः। [33-38]

तावत्तया क्रिययाऽपि तच्चित्तं कथं ज्ञायते ? चित्तस्य कार्यत्वात्। तस्य कार्यत्वं तु चित्तान्तरेऽपि तुल्यमिति कथन्न ज्ञायते ? अपि च, यदि तत्क्रिया स्वसत्तामात्रेण स्वसन्तानं प्रत्यायेत् , तदानुपलभ्यमानेनापि स्यात्तथा प्रतिपत्तिः। न; ज्ञानापेक्षत्वाल्लिङ्गस्य इति चेत्। तद तत्र किमनया परम्परया - परचित्तात् क्रिया, क्रियातः ज्ञानम्, ज्ञानात् तस्य प्रतिपत्तिरिति। [39-44]

परचित्तप्रभवधर्मि क्रियाप्रतिभासिज्ञानमेवास्य गमकं भवति। तस्याधिगतिस्तु अन्तशः तदाश्रितत्वात्। स्पन्दनमात्रसामान्यं क्रियाभिलापज्ञानसामान्यस्य कारणत्वात् कार्येण कारणस्य गतिः। तत्र आत्मस्पन्दननिमित्तकस्यान्तर्मुखवृत्तिः , अन्यस्यान्यथा। प्रायेणाधिकृत्यासौ भेदः। एतयोः सः कार्यकारणभावः स्वापाद्यवस्थायामितरस्यामपि च समानः। भ्रान्त्यवस्थायां यथास्वं प्रत्ययविशेषोपाश्रयात् परस्पन्दनदिनिमित्तोद्भूतविज्ञानवासनैव कदाचित्पराभोगादेः व्यवहितादपि वृत्तिं लभते: न त्वत्यन्तासदाभोगात्। तस्मात् सर्वावस्थासु क्रियादिविज्ञप्तेः चित्तस्पन्दनमनुमीयत एव। [45-51]

क्रियातः स्पन्दनप्रतिपत्तौ स्वाप इतरस्मिञ्च स्यात्प्रतिपत्तिरथ वा नैव कदाचन।

परस्पन्दनभावेऽपि क्रियालम्बनोदयात्। भवत्वालम्बनोदयः, न तु क्रिया। क्रियया स्पन्दनं गम्यते। भ्रान्त्यवस्थानां क्रियैव न भवति, अर्थशून्यज्ञानोदयान्न दोषः। सर्वप्रकारव्यपदेशसाम्यात् कदाचिज्ज्ञानमर्थशून्यम्, अन्यदान्यथा इत्येषोऽधिकारः कुतो लब्धः ? अथ मिद्धादिनाऽवस्थाऽन्यथाभावश्चेत्। यद्येवं सम्भवेत्, भवतु अविद्योपप्लुतत्वात्तथोदयः। तथा सति अर्थान्तरवादहान्या एतेऽनेकाशक्यनिगूहनदोषप्रसङ्गाः महाकृच्छ्रा उत्तेरेणैकेन निहता भवन्ति।[52-58]

ननु तयोः दर्शनात् कायवाग्विज्ञप्तिभ्यां स्वमुत्थापकचित्तस्यानुमानमिति न्याय्यम्। न तु सन्तानान्तरसम्बद्धविज्ञप्तिप्रतिभासिज्ञाने परविज्ञप्ती भवितुमर्हतः, तयोरनुपादानोपादेयत्वादिति चेत्। नोच्यते परचित्तसमुत्थितविज्ञप्तिरूपत्वात्तत्र प्रतिभासिज्ञानेन समुत्थापकचित्तं गम्यत इति।



किं तर्हि ? तस्य कार्यत्वात्। विज्ञप्तिरिति समुत्थापकचित्तसन्तानाज्जाते क्रियावागाकारके ज्ञाने एव। समुत्थापकचित्तं च तयोरेवोपादानकारणम्, सन्तानान्तरज्ञानयोः त्वधिपतिप्रत्ययः। विज्ञप्तेरुपादानात्ते जनिते। तत्सम्बन्धेनोपचाराद् विज्ञप्ती भवतः। भवतु स्वपरयोः स्वस्वप्रतिभासस्यानुभवः, तैमिरिकद्वयदृष्टद्विचन्द्रवत्; तथाविधविज्ञानस्य हेतुः वासनोत्पादस्वभावबिशेषोऽनादिकालिकैकार्थग्राहाध्यवसायित्वात्। एकहेतुसम्भूतयोः स्वपरवोज्ञप्तिज्ञानयोः विज्ञप्तिवेनोपचारः। [59-64]



किञ्च क्रियादिप्रतिभासिविज्ञानात् कार्यलिङ्गाज्जातं यत्परचित्तज्ञानं तत्परचित्तं विषयीक्रियत आहोस्विन्न ? विषयीकरणेऽर्थान्तरं स्यात्। अविषयत्वे तु कथं ज्ञानेन परचित्तसत्ता प्रतीयते ? तत्स्वरूपाज्ञाने तत्सिद्धैरसम्भवादिति चेत् 3? एष प्रसङ्गोऽपि समः। क्रियावाग्भ्यां परचित्तं प्रतिपत्तिमतामपि तत्स्वरूपविषयीकरणे स्वचित्तज्ञानवत् तदाकारस्यापि ज्ञानं प्रसज्येत। तदज्ञाने तु तेन तत्स्वरूपस्य ग्रहणं कथम् ? [65-67]



अथ लिङ्गात् सामान्यधिगतेः नाकारस्य प्रतीतिरिति चेत् ? किञ्च तत्सामान्यं परचित्तम् एवान्यद्वाऽऽहोस्विदवाच्यम्। अन्यत्वावाच्यत्वयोरेकत्वे त्वनेन तत्सामान्यमेव गृह्येत, न परचित्तम्। तत्कथमनेन तद् गम्यते ? नापि सामान्यं परचित्तमेव। तथा सति तदाकारस्यापि ज्ञानं प्रसह्येत इत्युक्तम्। [86-71]



न ह्येषा अनुमानप्रक्रिया। न ह्यनुमानमर्थस्वरूपस्य ग्राहकम्। प्रत्यक्षवत् प्रतिभासाविशिष्टत्वादेः प्रसङ्गात्। तेन नास्य प्रामाण्यम्। तत्स्वरूपाग्रहेऽप्यभिप्रेतार्थाविसंवादात् प्रामाण्यम्। धूमादिलिङ्गाज्जातमपि न वह्नयादिस्वरूपविषयि, दृष्टेनाविशेषप्रसङ्गात्। अनुमानस्यातीतादौ निःस्वभावताया चाप्रवृत्तेः, अर्थक्रियाप्रसङ्गाच्च। [72-76]



परचित्तानुमानेऽप्यभिप्रेतार्थाविसंवादोऽस्त्येव। तत्प्रवर्तनद्वारेण प्राण्यन्तरसत्तां प्रतिपद्य पुनः पुनर्व्यवहारप्रवृत्तौ तदाधिपत्यादागार्थस्य प्राप्तेः। तन्मात्रफ़लचिन्तकस्यलोकस्य प्राण्यन्तरानुमाने प्रवृत्तेश्च। उत्तरार्थविशेषप्रतिभासिज्ञानानुभवोदयमात्रेण पुरुषस्य निराकाङ्क्षत्वात्। पूर्वज्ञानेन व्यवहारसमाप्तेः कृतार्थतत्वं प्रमाणत्वेन सिद्धत्वात्। [77-81]

ननु स्वप्नेऽपि पूर्वज्ञानादुत्तरार्थप्रतिभासिज्ञानमुत्पद्यते। न तन्मात्रेण पूर्वज्ञानस्य प्रामाण्यं युज्यते, तदानीं सर्वेषां ज्ञानानां भ्रान्तत्वात्। तत्र विज्ञप्तिज्ञानं न कदाचिच्चित्तस्पन्दनाधिपत्येन विना उद्भवतीत्यतः ताभ्यां ये अनुमीयते। भ्रान्तिवशात् कदाचिद् व्यवहितेऽपि उदेति, न तु तदाधिपत्यरहितत्वम्। विशेषस्त्वस्ति साक्षात्परम्परया चेत्युक्तम्। तत्र यथा पूर्वविज्ञप्तिज्ञानानां परम्परया स्पन्दनाधिपत्यादुदयः तथा तदुत्तरावस्थाभाविनामपि। विज्ञप्तिज्ञानाश्रयस्पन्दनोत्तरावस्थाचित्तसन्तानादेव परम्परयोत्पादः। तत्रापि यादृगनुमानं तादृगविसंवादो व्यवहारश्चाप्यस्त्येवेति केनापि न गृह्यते। [82-86]



परचित्तानुमानेन तत्स्वरूपाग्रहेऽप्यविसंवादाद् भवतु तथा प्रामाण्यम्। साक्षात् परचित्तविदां तु कथम् ? यदि ते परचित्तस्य स्वरूपं साक्षाज्जानन्ति, तदा तस्यार्थान्तरग्रहणं स्यात्। अथ न जानन्ति, कथं ते साक्षाद्विदः ? कथं नाम प्रत्यक्षेणार्थस्वरूपस्य अग्रहणं च भवति। अथ न गृह्यते, कथं तर्हि प्रमाणमिति चेत् ? अप्रहीणग्राह्यग्राहक विकल्पयोगिनां परचित्तज्ञानमपि व्यवहारेऽविसंवादादेव प्रमाणम्, रूपादिदर्शनवत्; आश्रयापरावृतेः। योगबलाद्धि तेषां ज्ञानं परचित्ताकारविशेषानुकारि स्फ़ुटाभमुपजायते, कर्मदेवाद्यधिष्ठानबलात् सत्यस्वप्नदर्शनवत्। तेषामपि न परचित्तविषयित्वेन ज्ञानमुदेति, तेऽपि तदाकारसदृशस्वचित्तप्रतिभासमेव जानन्तीत्येवमवधारणाद् परचित्तविद इति व्यवहारः। तदाकारानुकारिस्फ़ुटाभत्वात् तत्प्रत्यक्षम्, अविसंवादित्वाच्च प्रमाणम् इति मतम्। अचिन्त्यो हि भगवतः सर्वार्थाधिगमः, सर्वथा ज्ञानभिधानविषयातीतत्वात्॥ [87-93]॥

आचार्यधर्मकीर्तिप्रणीतं सन्तानान्तरसिद्धिप्रकरणं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project