Digital Sanskrit Buddhist Canon

वादन्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Vādanyāyaḥ

वादन्यायः



निग्रहस्थानलक्षणम्



१. न्यायवादिनमपि वादेषु असद्‍व्यवस्थोपन्यासैः शठा निगृह्णन्ति, तन्निषेधार्थमिदमारभ्यते।

असाधनाङ्ग गवचनमदोषोद्भावनं द्वयोः।

निग्रहस्थानम्, अन्यतु न युक्तमिति नेष्यते॥

इष्टस्यार्थस्य सिद्धिः साधनम्. तस्य निर्वर्तकम् अङ्गम्. तस्य अवचनं तस्याङ्गस्यानुच्चारणं वादिनो निग्रहाधिकरणम्: तदभ्युपगम्य अप्रतिभया तूष्णीम्भावात्। साधनाङ्गस्यासमर्थनाद् वा॥



२. [स्वभावहेतौ साधनाङ्गसमर्थनम्]

त्रिविधमेव हि लिङ्गमप्रत्यक्षस्य सिद्धेरङ्गम् - स्वभावः, कार्यम्, अनुपलम्भश्च।

तस्य समर्थनं साध्येन व्याप्तिं प्रसाध्य धर्मिणि भावसाधनम्। यथा 'यत् सत् कृतकं वा, तत् सर्वमनित्यम्, यथा घटादिः, सन् कृतको वा शव्दः' इति।

३. अत्रापि न कश्चित् क्रमनियमः, इष्टार्थसिद्धेरुभयत्राविशेषात्।।

यस्माद् धर्मिणि प्राक् सत्त्वं प्रसाध्य पश्चादपि व्याप्तिः प्रसाध्यत एव। यथा - ''सन् शब्दः कृतको वा, यश्चैवं स सर्वोऽनित्यः, यथा - घटादिः' इति।

४. अत्र व्याप्तिसाधनं विपर्यये बाधकप्रमाणोपदर्शनम्।

यदि न सर्वं सत् कृतकं वा प्रतिक्षणविनाशि स्याद्, अक्षणिकस्य क्रमयौगपद्याभ्यामर्थक्रियाऽयोगाद् अर्थक्रियासामर्थ्यलक्षणमतो व्यावृत्तम् - इत्यसदेव स्यात्।

सर्वसामर्थ्योपाख्याविरहलक्षणं हि निरुपाख्यमिति।

एवं साधनस्य साध्यविपर्यये बाधकप्रमाणानुपदर्शने विरोधाभावादस्य विपर्ययवृत्तेरदर्शने सन् कृतको वा स्यात्, नित्यश्च इत्यनिवृत्तिरेव शङ्कायाः।

५. न च सर्वानुपलब्धिर्भावस्य बाधिका, तत्र सामर्थ्यं क्रमाक्रमयोगेन व्याप्तं सिद्धम्; प्रकारान्तराभावात्।

तेन व्यापकधर्मानुपलब्धिरक्षणिके सामर्थ्यं बाधते।

क्रमयौगपद्यायोगस्य सामर्थ्याभावेन व्याप्तिसिद्धेर्नानवस्थाप्रसङ्गः।

६. अत्राप्यदर्शनमप्रमाणम्, यतःक्रमयौगप्द्यायोगस्यैवासामर्थ्येन व्याप्त्यसिद्धेः पूर्वकस्यापि हेतोरव्याप्तिः। इहापि पुनः साधनोपगमेऽनवस्थाप्रसङ्ग इति चेत्। न; अभावसाधनस्यादर्शनस्याप्रतिषेधात्।

यददर्शनं विपर्ययं साधयति हेतोः साध्यविपर्यये, तदस्य विरुद्धप्रत्युपस्थानाद् बाधकं प्रमाणमुच्यते।

एवं हि स हेतुः साध्याभावेऽसन् सिध्येत्, यदि तत्र प्रमाणवता स्वविरुद्धेन बाध्येत। अन्यथा तत्रास्य बाधकासिद्धौ संशयो दुर्निवारः।

ततो व्यतिरेकस्य सन्देहादनैकान्तिकः स्याद्धेत्वाभासः।

नाप्यदर्शनमात्राद् व्यावृत्तिः; विप्रकृष्टेष्वसर्वदर्शिनोऽदर्शनस्याभावासाधनाद्, अर्वाग्दर्शनेन सतामपि केषाञ्चिदर्थानामदर्शनात्।

७. बाधकं पुनः प्रमाणम्। यत्र क्रमयौगपद्यायोगो न तस्य क्वचित् सामर्थ्यम्। अस्ति चाक्षणिके स इति प्रवर्तमानमसामर्थ्यमसल्लक्षणमाकर्षति। तेह 'यत् सत् कृतकं वा तदनित्यमेव' इति सिध्यति।

तावता साधनधर्ममात्रान्वयः साध्यधर्मस्य स्वभावहेतुलक्षणं च सिद्धं भवति।

एवं स्वभावहेतुप्रयोगेषु समर्थितं साधनाङ्गं भवति। तस्यासमर्थनं साधनाङ्गावचनम्। तद् वादिनः पराजयस्थानम्; प्रारब्धार्थासाधनात्। वस्तुतः समर्थस्य हेतोरुपादानेऽपि सामर्थ्याप्रतिपादनात्।

८. [कार्यहेतौ साधनाङ्गसमर्थनम्]

कार्यहेतावपि साधनाङ्गस्य समर्थनम्। यत् कार्यं लिङ्गं कारणस्य साधनायोपादीयते, तस्य तेन सह कार्यकारणभावप्रसाधनं भावाभावप्रसाधनप्रमाणाभ्याम्। यथा - 'इदमस्मिन् सति भवति', 'सत्स्वपि तदन्येषु समर्थेषु तद्धेतुषु तदभावे न भवति' इति।

एवं ह्यस्यासन्दिग्धं तत्कार्यत्वं समर्थितं भवति। अन्यथा केवलं 'तदभावे न भवति' इत्युपदर्शने अन्यस्यापि तत्राभावे सन्दिग्धमस्य सामर्थ्यम्। अन्यत्। तत्र समर्थं, तदभावात् तन्न भूतम्।

एतन्निवृत्तौ पुनर्निवृत्तिर्यदृच्छासंवादः। मातृविवाहो हि त्द्देशजन्मनः पिण्डखर्जूरस्य देशान्तरेषु मातृविवाहाभावेऽभाववत्। एवं हि समर्थितं तत् कार्यं सिध्यति।

सिद्धिं तत् स्वसम्भवेन तत्सम्भवं साध्यति, कार्यस्य कारणाव्यभिचारात्।

अव्यभिचारे च स्वकारणैः सर्वकार्याणां सदृशो न्यायः।

एवमसमर्थनं कार्यहेतावपि साधनाङ्गावचनं तद् वादिनः पराजयस्थानम्। असमर्थिते तस्मिन् कार्यत्वासिद्धेरर्थान्तरस्य तद्भावाप्रतिबद्धस्वभावस्य भावे तद्भावनियमाभावात्, आरब्धार्थासिद्धेसर्वस्तुतः कार्यस्याप्युपादाने तदप्रदिपादनात्।

९. [अनुपलब्धावपि साधनाङ्गसमर्थनम्]

अनुपलब्धावपि प्रतिपत्तुरुपलब्धिलक्षणप्राप्तस्यानुपलब्धिसाधनं समर्थनम्; तादृश्या एवानुपलब्धे रसद्‍व्यवहारसिद्धेः। अनुपलब्धिलक्षणप्राप्तस्य प्रतिपत्तृप्रत्यक्षोपलब्धिनिवृत्तावप्यभावासिद्धेः।

तत्रोपलब्धिलक्षणप्राप्तिः स्वभावविशेषः कारणान्त‍रसाकल्यं च। स्वभावविशेषो यन्न त्रिबिधेन विप्रकर्षेण विप्रकृष्टम्। यदनात्मरूपप्रितिभासविवेकेन प्रतिपत्तृप्रत्यक्षप्रतिभासरूपम्। तादृशः सत्स्वन्येषूपलम्भप्रत्ययेषु तथाऽनुपलब्धोऽसद्‍व्यवहारविषयः, अन्यथा सति लिङ्गे संशयः।

१०. अत्रापि सर्वमेवंविधमसद्‍व्यवहारविषय इति व्याप्तिः, कस्यचिदसतोऽभ्युपगमे तल्लक्षणाविशेषात्।

न ह्येवंविधस्यासत्त्वानभ्युपगमेऽन्यत्र तस्य योगः। न ह्येवंविधस्य सतः सत्स्वन्येषूपलम्भकारणेष्वनुपलब्धिः। अनुपलभ्यमानं त्वीदृशं नास्तीत्येता - वन्मात्रनिमित्तोऽयमसद्‍व्यवहारः, अन्यस्य तन्निमित्तस्याभावात्।

११. सर्वसामर्थ्यविवेको निमित्तमिति चेत्। एवमेतत्, तस्यैव सर्वसामर्थ्यविवेकिन एवं प्रतीतिः, अन्यस्य तत्प्रतिपत्त्युपायस्याभावात्। तत्प्रतिपत्तौ च सत्यामसद्‍व्यवहार इतीदं तन्निमित्तमुच्यते।

१२. बुद्धिव्यपदेशार्थक्रियाभ्यः सद्‍व्यवहारो विपर्यये चासद्‍व्यवहार इति चेत्। भवति बुद्धेर्यथोक्तप्रतिभासायाः सद्‍व्यवहारः, विपर्ययेऽसद्‍व्यवहारः।

प्रत्यक्षाविषये तु स्याल्लिङ्गजाया अपि कुतश्चित् सद्‍व्यवहारः।

असद्‍व्यवहारस्तु तद्‍विपर्ययेऽनैकान्तिकः, विप्रकृष्टेऽर्थे प्रतिपत्तृप्रत्यक्षस्य अन्यस्य वा प्रमाणस्य निवृत्तावपि संशयात्।

१३. न च सर्वे बुद्धिव्यपदेशास्तद्भेदाभेदौ वा वस्तुसत्तां वस्तुभेदाभेदसत्तां वा साधयन्ति, अस्त्स्वपि कथञ्चिदतीतानागतादिषु नानैकार्थक्रियाकारिषु वाऽर्थेषु तद्भावख्यापनाय नानैकात्मताऽभावेऽपिनानैकरूपाणां वृत्तेः - राजा महासम्मतः प्रभवो राजवंशस्य, सङ्खश्चक्रवर्ती महासम्मतनिर्मितस्य यूपस्योत्थापयिता, शशविषाणं, रूपं सनिदर्शनं सप्रतिघं घटश्चेति।

१४. नहि सनिदर्शनादिशब्दा नानावस्तुविषयाः, एकत्रोपसंहारात्।

नानाविषयत्वेऽप्येकत्रोपसंहारस्तन्निमित्तानां तत्तत्समवायादिति चेत्। आयासे बतायं तपस्वी पदार्थे [पदर्थः?] पतितोऽनेकसम्बन्धिनमुपकृत्यानेकंशब्दमात्मनि तेभ्यः समाशंसन् ! स यैः शक्तिभेदैरनेकसम्बन्धिन मुपकरोति तैरेवानेकं शब्दं किं नोत्थापयति ! एवं ह्यनेन प्रम्परानुसारपरिश्रमः परिहृतो भबति।

नानाशब्दोत्थापनासामर्थ्ये नानासम्बन्ध्युपकारोऽपि मा भूत्, अनुपकारे हि तेषां तत्सम्बन्धिताऽपि न सिध्यति। घट इत्यपि च रूपादय एव बहव एकार्थक्रियाकारिण एकशब्दवाच्या भवन्तु, किमर्थान्तरकल्पनया ?

बहवोऽपि हि एकार्थकारिणो भवेयुः, चक्षुरादिवत्। तत्सामर्थ्यख्यापनाय तत्रैकशब्दनियोगोऽपि स्यादिति युक्तं पश्यामः।

१५. न च निष्प्रयोजना लोकस्यार्थेषु शब्दयोजना। तत्र येऽर्थाः सह पृथग्वा एकप्रयोजनाः तेषां तद्भावख्यापनाय हि एक्शब्दो नियुज्येत यदि, किं स्यात् ? तदर्थक्रियाशक्तिख्यापनाय नियुक्तस्य समुदायशब्दस्यैकवचनविरोधोऽपि नास्त्येव; सहितानां सा शक्तिरेका, न प्रत्येकमिति।

समुदायशब्द एकस्मिन् समुदाये वाच्ये एकवचनं घट इति।

जातिशब्देष्वर्थानां प्रत्येकं सहितानां च शक्तिर्नानैका च शक्तिरिति, नानैकशक्तिविवक्षायां बहुवचनमेकवचनं चेच्छातः, वृक्षा वृक्षमिति [? वृक्ष इति] स्यात्।

यद्येष नियमो बहुष्वेव बहुवचनम् एकस्मिन्नेकवचनमिति।

अस्माकं तु साङ्केतिकेष्वर्थेषु सङ्केतवशात् तावित्य भिनिवेश एव।

१६. नानेको रूपादिरेकशब्दोत्थापने समर्थ इति चेत्। किं वै पुरुषवृत्तेरनपेक्षाः शब्दानर्थः स्वयमुत्थ्यापयन्ति, आहोस्वित् पुरुषैः शब्दा व्यवहारार्थमर्थेषु नियुज्यन्ते ? स्वयमुत्थापने हि भावशक्तिः, आशक्तिर्वा चिन्त्येत। न च तद्युक्तम्, पुरुषैस्तेषां नियोगे यथेष्टं नियुञ्जीरन्निति कस्तत्रोपानम्भः ?

निमित्तं च नियोगस्योक्तमेव।

अपि च - यदि न रूपादीनामेकेन शब्देन सम्बन्धः, कथमेकेनैषा - माश्रयाभिमतेन द्रव्येण सम्बन्ध इति केवलमयमसद्भूताभिनिवेश एव।

न वयमेकसम्बन्धविरोधादेकं शब्दं नेच्छामः, अपि त्वभिन्नानां रूपादीनां घटकम्बलादिषु नानार्थक्रियाशब्दविरोधात् ते एकरूपाः समुदायान्तरा - सम्भाविनीमर्थक्रियामेव न कुर्युः, तेन तत्प्रकाशनायैकेनापि शब्देनोच्येरन्।

भवतु नाम कस्यचिदियं वाञ्छा - भवेयुरेकरूपा रूपादयः सर्वसमुदायेषु इति। किमिदं परस्परविविक्तरूपप्रतिभासाध्यक्षदर्शनमेनामुपेक्षते ?

अनिष्टं चेदं रूपादीना। प्रतिसमुदायं स्वभावभेदोपगमात्।

१७. यद्यन्य एव रूपादिभ्यो घटः स्यात् किं स्यात् ?

अस्तु, तस्य प्रत्यक्षस्य सतोऽरूपादिरूपस्य तद्विवेकेन बुद्धौ स्वरूपेण प्रतिभासने किमावरणम् ?

प्रतिभासमानाश्च विवेकेन प्रत्यक्षार्था दृश्यन्तेऽपृथग्देशत्वेऽपिगन्धरसादयः. वातातपस्पर्शादयश्चैकेन्द्रियग्राह्यत्वेऽपि।

इदमेव च प्रत्यक्षस्य प्रत्यक्षत्वं यदनात्मरूपादिविवेकेन स्वरूपस्य बुद्धौ समर्पणम्। अयं पुनर्घटादिरमूल्यदानक्रयी यः स्वरूपं च नोपदर्शयति, प्रत्यक्षतां च स्वीकर्तुमिच्छति।

१८. एतेन बुद्धिशब्दादयोऽपि व्याख्याताः, यदि तैस्तत्साधनमिष्यते।

न च प्रत्यक्षस्यानभिभवे रूपानुपलक्षणम्; येन तत्साधनाय लिङ्गमुच्यते। अप्रत्यक्षत्वेऽप्यप्रमाणस्य सत्तोपगमो न युक्तः। तन्न रूपादिभ्योऽन्यो घटः एवं तावन्न बुद्धिव्यपदेशाभ्यां सत्ताव्यवहारः, सत्ताभेदाभेदव्यवहारो वा। अत एव न तद्विपर्ययाद् विपर्ययः।

१९. अर्थक्रियातस्तु सत्ताव्यवहारः स्यात्, न सत्ताभेदाभेदव्यवहारः, एकस्याप्यनेकार्थक्रियादर्शनात्। यथा प्रदीपस्य विज्ञानवर्तिविकारज्वालान्तरोत्पादनानि। अनेकस्यापि चक्षुरादेरेकविज्ञानक्रियादर्शनात्।

न ब्रूमः - अर्थक्रियाभेदमात्रेण सत्ताभेद इति। किं तर्हि ? अदृष्टार्थक्रियाभेदेन। या अर्थक्रिया यस्मिन्नदृष्टा पुनर्दृश्यते सा सत्ताभेदं साधयति। यथा मृद्यदृष्टा सत्युदकधारणाद्यर्थक्रिया घटे दृश्यमाना। अदृष्टा च तन्तुषु प्रावरणाद्यर्थक्रिया पटे दृस्यते इति सत्ताभेदः।

सिध्यत्येवमर्थान्तरं, तथाऽप्यवयवी न सिध्यति। यथाप्रत्ययं संस्कारसन्ततौ स्वभावभेदो त्पत्तेरर्थक्रियाभेदः। अरणिनिर्मथनावस्थादाविवाग्नेः स्थूलकरीषतृणकाष्ठदहनशक्तिभेदः, तथा यथाप्रत्ययं स्वभावभेदोत्पत्तेस्तन्त्वादिष्वर्थक्रियाभेदः।

एतेन बुद्धिव्यपदेशभेदाभेदौ व्याख्यातौ।

२०. तत्रयदुक्तम् - 'अर्थक्रियातः सत्ताव्यवहारसिद्धिः, विपर्ययाद् विपर्ययः' इति; सत्यमेतत्। स एव तु विपर्ययोऽनुपलब्धिलक्षणप्राप्तेषु न सिध्यति।

तत्र पुनरिदमनिच्छतोऽप्यायातम् - 'यस्येदं सामर्थ्यमुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते, सोऽसद्‍व्यवहारविषयः, सामर्थ्यलक्षणत्वात् सत्त्वस्य' इति।

तथापि कोऽतिशयः पूर्वकादस्य ? न हि स्वभावादर्थान्तरं सामर्थ्यम्। तस्योपलब्धिलक्षणप्राप्तस्य योऽनुपलम्भः स स्वभावस्यैवेति पूर्वकैवेयमनुपलब्धिः।

तस्मादनेन क्वचित् केषाञ्चिदसद्‍व्यवहारमभ्युपगच्छता अतोऽनुपलम्भादभ्युपगन्तव्यः।

सोऽन्यत्रापि तथाविधेऽविशिष्ट इति सोऽपि तथास्तु इति। न वा क्वचिद्, विशेषाभावात्। व्याप्तिः - सर्व एवंविधोऽनुपलब्धोऽसद्‍व्यवहारविषय इति।



२१. नैव कश्चित् क्वचित् कथञ्चिदनुपलब्धोऽप्यसद्‍व्यवहारविषय इति चेत्। सर्वस्य सर्वरूपाणां सर्वदाऽनिवृत्तेः सर्वं सर्वत्र सर्वदा समुपयुज्येत।

इदं च न स्यात् - 'इदमतः'‍, 'नात इदम्'‍, 'इहेदम्'‍, 'इह नेदम्'‍, 'इदानीमिदम्'‍, 'इदानीं नेदम्'‍, 'इदमेवम्' 'इदं नैवम्' इति; कस्यचिदपि रूपस्य कथञ्चित् क्वचित् कदाचिद् विविक्तहेतोरभावात्। अनन्वयव्यतिरेकं विश्वं स्यात्, भेदाभावात्।

अवस्थानिवृत्तिप्रवृत्तिभेदेभ्यो व्यवस्थेति चेत्। नन्वत एव सर्वविषयस्यासद्‍व्यवहारस्याभावान्न ते सम्भवन्ति, यतस्तेभ्यो व्यवस्था स्यात्।

क्वचिद् विषयेऽसद्‍व्यवहारोपगमे स कुत इति वक्तव्यम्। न ह्यनुपलम्भादन्यो व्यवच्छेदहेतुरस्ति; विधिप्रतिषेधाभ्यं व्यवच्छेदे सर्वदाऽनुपलम्भस्यैव साधनत्वात्।

अनुपलम्भादेव तदभ्युपगमे, स यत्रैवास्ति सर्वोऽसद्‍व्यवहारविषय इति वक्तव्यम्, विशेषाभावात्।

२२. सर्वप्रमाणनिवृत्तिरनुपलब्धिः। सा यत्र सोऽसद्विषय [ ? सोऽसद्‍व्यवहार-विषय] इष्ट इति चेत्। सुकुमारप्रज्ञो देवानाम्प्रियो न सहते प्रमाणचिन्ता - परिक्लेशं, येन नात्रादरं कृतवान् !

न ह्यनुमानादिनिवृत्तिरभावं गमयति, व्यभिचारात्। न सर्वप्रत्यक्षनिवृत्तिः, असिद्धेः।

नात्मप्रत्यक्षाविशेषनिवृत्तिरपि विप्रकृष्टेषु।

तस्मात् स्वभावविशेषो यतः प्रमाणान्नियमेन् सद्‍व्यवहारं प्रतिपद्यते, तन्निवृत्तिस्तस्यासद्‍व्यवहारं साधयति, तत्स्वभावसत्तायाः तत्प्रमाणासत्तया इष्टेः।

न चोपलब्धिलक्षणप्राप्तस्यार्थस्याप्रप्त्यक्षादन्योपलब्धिः, येनानुमानादस्योपलब्धिः स्यात्। न च तद्रूपान्यथाभावमन्तरेणाप्रत्यक्षता, अन्यथाभावे च तदेव न स्यात्।

अपि च - कुत इदममन्त्रौषधमिन्द्रजानं भावेन शिक्षितम्, यदयमजातानष्टरूपातिशयोऽव्यवधानदूरस्थानस्तस्यैव तदवस्थेन्द्रियादेरेव पुरुषस्य कदाचित् प्रत्यक्षः, अप्रत्यक्षश्च; येन कदाचिदस्यानुमानमुपलब्धिः, कदाचित् प्रत्यक्षं, कदाचिदागमः ! एकस्मिन्नेवानतिशये अमीषां प्रकाराणां विरोधात्।

२३. नानतिशयनिवृत्त्या, [नैकातिशयनिवृत्या ?] अपरातिशयोत्पत्त्या च तैर्व्यवहारभेदोपगमात्।

सोऽतिशयस्तस्यात्मभूतोऽनन्वये [ ... नन्वयः ?] निवर्तमानः प्रवर्तमानश्च कथं न स्वभावनानात्वमाकर्षयति, सुखदुःखवत्। सान्वयत्वे च का कस्य प्रवृत्तिर्निवृत्तिर्वा इति यत्किञ्चिदेतत्।

अथवा यदि च कस्यचित्स्वभावस्य प्रवृत्तिर्निवृत्तिर्वेति स्वयमप्यभ्यनुज्ञायते, तदेतदेव परो ब्रुवाणाः किमिति नानुमन्यते ?

तस्य निरन्वयोपजननविनाशोपगमादिति चेत्।

कोऽयमन्वयो नाम ? भावस्य जन्मविनाशयोः शक्तिः; साऽस्त्येव प्रागपि जन्मनो निरोधादप्यूर्ध्वम्। तेनायं नापूर्वः सर्वथा जायते, न पूर्वो विनश्यतीति।

यदि सा सर्वदाऽनतिशया, किमिदानीमतिशयवद् यत्कृतोऽयं व्यवहारविभागः ?

ता अवस्था अतिशयवत्य इति चेत्, ता अवस्थाः सा च शक्तिः किमेको भवः ? आहोस्वित् नाना ? ?

एकश्चेत् कथमिदानीमिदमेकत्राविभक्तात्मनि निष्पर्यायं परस्परव्याहतं योक्ष्यते - जन्माजन्म, निवृत्तिरनिवृत्तिः, एकत्वं नानात्वं, प्रत्यक्षताऽप्रत्यक्षता, अर्थक्रियोपयोगः अनुपयोगश्चेत्यादि।

२४. अस्ति पर्यायोऽवस्था शक्तिरिति, तेनाविरोध इति चेत्। विस्मरणशीलो देवानाम्प्रियः प्रकरणं न लक्षयति। शक्तिरवस्थेत्येको भावोऽविभाग इति यत् कोऽयं विरोध उक्तः ?

अथाप्यनयोर्विभागः, नकश्चिद् विरोधः, केवलं सान्वयौ भावस्य जन्मविनाशौ इति न स्यात्।

तस्माद् यस्यान्वयो न तस्य जन्मविनासौ, यस्य च तौ न तस्यान्वयः।

तयोरभेदाददोष इति चेद्, अनुत्तरं बत दोषसङ्कटमत्रभवान् दृष्टिरागेण प्रवेस्यमानोऽपि नात्मानं। चेतयति। अभेदो हि नामैक्यम्, 'तौ' इत्ययं च भेदाधिष्ठानो भाविको व्यवहारः। निवृत्तिप्रादुर्भावयोः अनिवृत्तिप्रादुर्भावौ, स्थितावस्थितिः इत्यादिकं नानात्वलक्षणं च कथं योत्स्यते ?

अथ हि भावानां भेद एतद्विरहश्चाभेदः, यथा - सुखादिषु शक्‍त्यवस्थयोच्चैकात्मनि। अन्यथा भेदाभेदलक्षणाभावाद् भेदाभेदयोरव्यवस्था स्यात्सर्वत्र।

तदात्मनि प्रादुर्भावोऽभेदः, विपर्यये भेदः, यथा - मृदात्मनि प्रादुर्भवतो घटस्य तस्मादभेदः, भेदश्च विपर्यये सुखदुःखयोरिति इदं भेदाभेदलक्षणं, तेनाविरोध इति चेत्।

न वै मृदात्मनि घटस्य प्रादुर्भावः। किं तर्हि ? मृदात्मैव कश्चिद् घटः, न ह्येकस्त्रैलोक्ये मृदात्मा। प्रतिविज्ञप्तिप्रतिभासभेदश्च द्रव्यस्वभावभेदात्। एवं ह्यस्यापि सुखादिषु चैतन्येषु भेदावगमः समर्थो भवति।

यद्येव, भेदः स्यात्।

सत्यप्येतस्मिन् कस्यचिदात्मनोऽन्वया देवमिति चेत्। सुखादिष्वप्ययं प्रसङ्गः चैतन्येषु च।

न च घटादिष्वपि सर्वात्मनाऽन्वयः, अवैश्वरूप्यसहोत्पत्त्यादिप्रसङ्गात्।

न च घटं मृदात्मानं च कश्चिद् विवेकेनोपलक्षयति, येनैवं स्यादिदमिह प्रादुर्भूतमिति।

न ह्यधिष्ठानाधिष्ठानिनोर्विवेकेनानुपलक्षणे एवं भवति। न च शक्तेः शक्‍त्यात्मनि प्रादुर्भावः इति तस्याः स्वात्मनोऽभेदो न स्यात् !

२५. एतेनैव परिणामः प्रत्युक्तः। योऽपि हि कल्पयेद् - 'यो यस्य परिणामः स तस्मादभिन्नः' इति। न हि शक्तिरात्मनः परिणाम इति।

किञ्चेदमुक्तं भवति - परिणाम इत्यवस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्तिः, धर्मान्तरप्रादुर्भवश्च परिणामः।

यत्तद्धर्मान्तरं निवर्तते प्रादुर्भवति च, किं तत् तदेवावस्थितं द्रव्यं स्यात्, ततोऽर्थान्तरं वा, अन्यविकल्पाभावत् ?

यदि तत्तदेव, तस्यावस्थानान्न निवृत्तिप्रादुर्भावाविति कस्य ताविति वक्तव्यम्।

अवस्थितस्य धर्मान्तरमिति च न सिध्यति। न हि तदेव तस्यानपाश्रितव्यपेक्षाभेदं धर्मान्तरं भवति।

अथ द्रव्यादर्थान्तरं धर्मः, तदा तस्य निवृत्तिप्रादुर्भावाभ्यं न द्रव्यस्य परिणतिः। न ह्यर्थान्तरगताभ्यां स्यात् निवृत्तिप्रादुर्भावाभ्यामर्थान्तरस्य परिणतिः, चैतन्येऽपि प्रसङ्गात्।

द्रव्यस्य धर्म इति च व्यपदेशो न सिध्यति, सम्बन्धाभावात्। न हि कार्यकारणभावादन्यो वस्तुसम्बन्धोऽस्ति।

न चानयोः कार्यकारणभावः, स्वयमतदात्मनोऽतत्कारणत्वात्, धर्मस्य द्रव्यादर्थान्तरभूतत्वात्।

अर्थान्तरत्वेऽपि धर्मकारणत्वे, अर्थान्तरस्य कार्यस्योत्पादनात् द्रव्यस्य परिणामः इतीष्टं स्यात्। तद्विरुद्धस्यापि हेतुफलसन्ताने मृद्‍द्रव्याख्ये, पूर्वकान्मृत्पिण्डद्रव्यात् कारणादुत्तरस्य घटद्रव्यस्य कार्यस्योत्पत्तौ 'मृद् द्रव्यं परिणतम्' इति व्यवहारस्योपगमात्।

न च धर्मस्य द्रव्यात् तत्त्वान्यत्वाभ्यामन्यो विकल्पः सम्भवति, उभयथा येन परिणामः।

२६. न निर्विवेकन्द्रव्यमेव धर्मः, नापि द्रव्यादर्थान्तरम्, किं तर्हि ? द्रव्यस्य सन्निवेशोऽवस्थान्तरम्, यथा अङ्गुलीनां मुष्टिः। न ह्यङुल्य एव निर्विवेका मुष्टिः, प्रसारितानाममुष्टित्वात्।

नाप्यर्थान्तरं, पृथक्स्वभावान्नोपलब्धिरिति चेत्। न, मुष्टेरङ्गुलिविशेषत्वात्। अङ्गुल्य एव हि काश्चन मुष्टिः, न तु सर्वाः। न हि प्रसारिता अङ्गुल्यो निर्विवेकस्वभावाः मुष्ट्यङ्गुल्यः, अवस्थाद्वयेऽपि उभयप्रतिपत्तिप्रसङ्गात्।

यत्र चहि खलु विवेकः स्वभाभूतः, स एव वस्तुभेदलक्षणं सुखुदुःखवत्।

परभूते च विवेकोत्पादेऽङ्गुल्यः प्रसारिता एवोपलभ्येरन्। न हि स्वयं स्वभावादप्रच्युतस्यार्थान्तरोत्पादेऽन्यथोपलब्धि रतिप्रसङ्गात्।

ननूक्तं, 'द्रव्यमेव निर्विवेकमवस्था, नापि द्रव्यादर्थान्तरम्' इति।

उक्तमिदं, न पुनर्युक्तम्। न हि सतो वस्तुनस्तत्त्वान्यत्वे मुक्‍त्वा अन्यः प्रकारः सम्भवति, तयोर्वस्तुनि परस्पर परिहार-स्थितिलक्षणत्वेनैकत्यागस्यापरोपादाननान्तरीयकत्वात्।

अङ्गुलीषु पुनः प्रतिक्षणविनाशिनीष्वन्या एव प्रसरितः अन्या मुष्टिः।

तत्र मुष्ट्यादिशब्दा विशेषविषयाः, अङ्गुलीशब्दः सामान्यविषयः, बीजाङ्कुरादिशब्दवत्, व्रीह्यादिशब्दवच्च। तेनाङ्गुल्यः प्रसारिता न मुष्टिः।

२७. तद्यदि प्रागसदेव कारणे कार्यं भवेत्, किं न सर्वः सर्वस्मात् भब्वति, न ह्यसत्त्वे कश्चिद् विशेष इति ?

ननु सर्वत्र सत्त्वेऽप्ययं तुल्यो दोषः - न हि सत्त्वे कश्चिद् विशेषः, विशेषे वा स विशेष स्त्रैगुन्याद् भिन्नः स्यात्, तद्भावे विशेषस्यानन्वयात्।

सतश्च सर्वात्मना निःस्वभावावस्थायामिव किं जायते ? साधनवैफल्यं च, साध्यस्य कस्यचिदभावात्।

यस्य कस्यचिदतिशयस्य तत्र कथञ्चिदसत उत्पत्तौ सोऽतिशयस्तत्र असन् कथं जायेत ? जातो वा सर्वः सर्वस्माज्जायेत इति तुल्यः पर्यनुयोगः।

नातिशयस्तत्र सर्वथा नास्ति, कथञ्चित्सत एव भावादिति चेत्। यथा नास्ति स प्रकारः, तत्र असन् कथं जायेत ?

२८. न च सर्वथा सतः कश्चिज्जन्मार्थ इत्युक्तम्। असतोऽपि कार्यस्य कारणादुत्पादे यो यज्जननस्वभावस्तत एव तस्य जन्म, नान्यस्मादिति नियमः।

तस्यापि स स्वभावनियमः स्वहेतोरित्यनादिस्वभावनियमः।

अपि च - यदि मृत्पिण्डे घटोऽस्ति, कथं तदवस्थायां न पश्चाद्‍वदुपलब्धिः, तदर्थक्रिया वा?

व्यक्तेरप्रादुर्भावादिति चेत्। तस्या एव तदर्थक्रियादिभावे घत्वात् तद्रूपस्य च प्रागसत्त्वात् कथं घटोऽस्ति ? न हि रूपान्तरस्य सत्त्वे रूपान्तरमस्ति।

न च रूपप्रतिभासवेदे वस्त्वभेदो युक्तः, अतिप्रसङ्गात्।



२९. तस्माद् यः उपलब्धिलक्षणप्राप्तस्वभावानुपलब्धिः स नास्त्येव। न हि तस्यतत्स्वभावस्थितावनुपलब्धितः, अस्थितिश्चातत्त्वम्, परस्परंतथास्थितयोरेव [तथास्थितयोरिव? ] सुखदुःखयोरिति व्याप्तिः, असद्‍व्यवहारनिश्चयेन अनुपलब्धिविशेषस्य। तेनानुपलब्ध्या कस्यचिद् व्यवच्छेदं प्रसाधयता तस्य यथोक्तोपलब्धिलक्षणप्राप्तिरूपता दर्शनीया।

उपदर्श्यानुपलब्धिनिर्देशासमर्थनं स्वभावानुपलब्धौ, व्यापकानुपलब्धावपि धर्मयोर्व्याप्यव्यापकभावं प्रसाध्य व्यापकस्य निवृत्तिप्रसाधनं समर्थनम्।

कारणानुपलब्धावपि कार्यकारणभावं प्रसाध्य कारणस्य निवृत्ति प्रसाधनं समर्थनम्।

तद्विरुद्धोपलब्धिष्वपि द्वयोर्विरुद्धयोरेकस्य विरुद्धस्योपरर्शनं समर्थनम्।

एवमनुपलब्धौ साधनाङ्गस्यासमर्थनं साधनाङ्गावचनम्। तद् वादिनो निग्रहस्थानसमर्थने [ ? निग्रहस्थानम्, असमर्थने] तस्मिन् व्याप्यासिद्धेः।

३०. अथवा - साध्यते येन परेषामप्रतीतोऽर्थ इति साधनं, त्रिरूपहेतु-वचनसमुदायः। तस्याङ्गं पक्षधर्मादिवचनम्। तस्यैक-स्याप्यवचनमसाधनाङ्ग-वचनं, तदपि वादिनो निग्रहस्थानम्। तदवचने हेतुरूपस्यैवावचनम्, अवचने सिद्धेरभावात्।

३१. [प्रतिज्ञादीनामसाधनाङ्गत्वम्]

अथवा - तस्यैव साधनस्य यन्नाङ्गं प्रतिज्ञोपनयनिगमनादि तस्यासाधनाङ्गस्य साधनवाक्ये उपादानं वादिनो निग्रहस्थानं, व्यर्थामिधानात्।

अन्वयव्यतिरेकवचनयोर्वा साधर्म्यवति वैधर्म्यवति च साधनप्रयोग एकस्यैवाभिधानेन सिद्धेर्भावाद् द्वितीयस्यासामर्थ्यमिति तस्याप्यसाधनाङ्गस्याभिधानं निग्रहस्थानं, व्यर्थाभिधानादेव।

ननु च विषयोपदर्शनाय प्रतिज्ञावचनमसाधनाङ्गमप्युपादेयमेव। न, वैयर्थ्यात्। असत्यपि प्रतिज्ञावचने यथोक्तात् साधनवाक्याद् भवत्येवेष्टार्थसिद्धिरित्यपार्थकं तस्योपादानम्।

यदि च विषयोपदर्शनमन्तरेण प्रतीतेरुत्पत्तिः, कथं न प्रतिज्ञा साधनादयः [सधनावयवः? ] ? न हि पक्षधर्मवचनस्यापि प्रतीतिहेतुभावादन्यः साधनार्थः, स प्रतिज्ञावचनेऽपि तुल्य इति कथं न साधनम् ?

केवलस्यासामर्थ्यादसाधनत्वमिति चेत्। तत्तुल्यं पक्षधर्मवचनस्यापीति तदपि न साधनावयवः स्यात्।

न हि पक्षधर्मवचनात् केवला [केवलात्?] प्रतिपत्तेरुत्पत्तिः।

एतेन संशयोत्पत्तिः प्रत्युक्ता, पक्षधर्मवचनादपि केवलादप्रदर्शिते सम्बन्धे संशयोत्पत्तेः।

तस्माद् व्यर्थमेव साधनवाक्ये प्रतिज्ञावचनोपादानं वादिनो निग्रस्थानम्।

३२. अथवा साधनस्य सिद्धेर्यन्नाङ्गम् - असिद्धः, विरुद्धः अनैकान्तिको वा हेत्वाभासः तस्यापि वचनं वादिनो निग्रहस्थानम्, असमर्थोपादानात्।

तथा साध्यादिविकलस्य अन्वयाप्रदर्शितान्वया तैरपि [? अनन्वयाप्रदर्शितान्वयादेरपि] दृष्टान्ताभासस्य साधनाङ्गस्य [?असाधनाङ्गस्य] वचनमपि वादिनो निग्रहस्थानम् असमर्थोपादानादेव। न हि तैर्हेतोः सम्बन्धः शक्यते प्रदर्शयितुम्। अप्रदर्शनादसामर्थ्यम्।

३३. अथवा - सिद्धिः साधनं, तदङ्गं धर्मो यस्यार्थस्य विवादाश्रयस्य वादप्रस्तावहेतोः स साधनाङ्गः। तद्वयतिरेकेणापरस्याप्यजिज्ञासितस्य विशेषस्याशास्त्राश्रयव्याजादिभिः प्रक्षेपो मोषणं [घोषणं?] च परव्यामोहनानुभाषण-शक्तिविघातादिहेतोः, तदप्यसाधनाङ्गवचनं वादिनो निग्रहस्थानम्, अप्रस्तुताभिधानात्।

एभिः कथाविच्छेद एव; तथा विशेषसहितस्यार्थस्य प्रतिवादिनोऽजिज्ञासितत्वात्। जिज्ञासायामदोष्ः। जिज्ञासितं पुनरर्थस्यान्यस्य प्रसङ्गपरंपरया ये ष पन्नादिना (?) बहिः प्रतिवादिनः, प्राश्निकानां च न्यायदर्शिनामिति।



एभिः कथाविच्छेद एव करणीयः। न हि कश्चिदर्थः क्वचित् क्रियमाणप्रसङ्गे न प्रयुज्यते, नैरात्म्यवादिनस्तु तत्साधने नृत्यगीत्यादेरपि तत्र प्रसङ्गात्।

यथा - प्रतिज्ञाभिधानपूर्वकं कश्चित् कुर्यात् - 'नास्त्यात्मा' इति वयं बौद्धा ब्रूमः। के बौद्धाः ? ये बुद्धस्य भगवतः शासनमभ्युपगताः। को बुद्धो भगवान् ? यस्य शासने भदन्ताश्वघोषः प्रव्रजितः। क ः पुनर्भदन्ताश्वघोषः ? यस्य राष्ट्रपालं नाम नाटकम्। कीदृशं राष्ट्रपालं नाम नाटकम् ? इति प्रसङ्गं कृत्वा 'नान्द्यन्ते ततः प्रविशति सूत्रधारः' इति पठेत्, नृत्येद्, गायेच्च। प्रतिवादी तं च सर्वप्रसङ्गं नानुकर्तुं समर्थ इति पराजितः स्यात्। इति सभ्यः साधुसम्मतानां विदुषां तत्त्वचिन्ताप्रकारः !



३४. न चैवं प्रस्तुतस्य पर्यवसानं स भवति [? सम्भवति], 'अनिश्चय फलत्वादनारम्भ एव वादस्य।



कथं चैव जयपराजयौ ? प्रतिवादिनोऽप्यननुभाषणस्यैवम्प्रकारस्य प्रसङ्गस्य विस्तरेणानुभाषणव्याजेन सम्भवाद्, अनिस्चितत्वाच्च।

तस्मात् प्रतिज्ञावचनमेव तावन्न न्याय्यम्। कुतः पुनस्तत्राजिज्ञासितविशेषप्रसङ्गोपन्यासः, तद्‍व्याख्याप्रसङ्गवितथप्रलापश्च ?

सर्वश्चायंप्रकारो दुर्मतिभिः शठैर्न्यायसामर्थ्येनार्थप्रतिपादनेऽसमर्थैः प्रवर्तितः।

यथा - 'पुरुषातिशयपूर्वकाणि तनुभुवनकरणादीनि' इति प्रतिज्ञाय तनुकरणभुवनव्याख्याव्याजेन सकलवैशेषिकशास्त्रार्थघोषणम्।

'नित्यः शब्दोऽनित्यो वा' इति वादे द्वादशलक्षणप्रपञ्चप्रकाशनशास्त्र प्रणेतृ-जैमिनिप्रतिज्ञाततत्त्वनित्यताधिकरणशब्दघटान्यतरसद्वितीयो घःट इति प्रतिज्ञामुपरचय्य द्वादशलक्षणादिव्याख्यानम्।

सर्वोऽयं दुर्मतीनामसामर्थ्यप्रच्छादनोपायः, न तु सत्यैरस्त्युपेतः, तत्त्वपरीक्षायां फलादिप्रतिसरणदण्डप्रयोगादीनामयुक्तत्वात्।

३५. भवत्येव नाटकादिघोषणेऽर्थान्तरगमनात् पराजय इति चेत्, अन्यस्याप्यजिज्ञासितस्य किं न भवति ? न हि तस्यापि काचिद् विवक्षितसाध्यधर्मसिद्धौ नान्तरीयकता। यथा हेतुप्रत्ययपारतन्त्र्यलक्षणसंस्कारदुःखतादिसिद्धिमन्तरेण नानित्यतासिद्धिः।

तथाविधस्तु धर्मः पृथगनुक्तोऽपि साध्यधर्मेऽन्तर्भावात् पक्षीकृत एवेति न पृथगस्योपन्यासः, व्याख्यानं वा। तस्मादेवंविधस्यापि तदानीं प्रतिवादिनो जिज्ञासितस्यार्थस्य प्रतिज्ञायामन्यत्रैवोपन्यासो व्याख्यानं वा अर्थान्तरगमनान्निग्रहस्थानमेव।

तेन जिज्ञासितधर्ममात्रमेव साधनाङ्गं वाच्यं, न प्रसङ्ग उपक्षेप्तव्यः, तदुपक्षेपेऽतिप्रसङ्गात्।

एवमसाधनाङ्गवचनं वादिनो निग्रहस्थानं प्रतिवादिना तथाभावे प्रतिपादिते, अन्यथा द्वयोरेकस्यापि न जयपराजयाविति।

३६. [अदोषोद्भावनं निग्रहस्थानम्]

अदोषोद्भावनं प्रतिवादिनो निग्रहस्थानम्। वादिना साधने प्रत्युक्तेऽभ्युपगतोत्तरपक्षो यत्र विषये प्रतिवादी यदा न दोषमुद्भावयति, तदा पराजितो वक्तव्यः।

साधनदोषाः पुनः - न्यूनत्वम्, असिद्धिः, अनैकान्तिकता, वादिनः साधयितुमिष्टस्यार्थस्य विपर्ययसाधनम्, अष्टादश दृष्टान्ताभासाश्च। तेषामनुद्भावनमप्रतिपादनं प्रतिवादिनः पराजयाधिकरणम्।

तत् पुनः साधनस्य निर्दोषत्वात्, सदोषत्वेऽपि प्रतिवादिनोऽज्ञानात्, प्रतिपादनासामर्थ्याद् वा।

न हि दुष्ट साधनाभिधानेऽपि वादिनः प्रतिवादिनोऽप्रतिपादिते दोषे पराजयव्यवस्थापना युक्ता, तयोरेव परस्परसामर्थ्योपघातापेक्षया जयपराजयव्यवस्थापनात्।

केवलं हेत्वाभासाद् भूतप्रतिपत्तेरभावाद प्रतिपादकस्य जयोऽपि नास्त्येव। न हि तत्त्वचिन्तायां कश्चिच्छलव्यवहारः।

यद्येवं, किंनु पराजयः, तत्त्वसिद्धिभ्रंशात् ? न अनिराकरणात्। निराकरणं हि तस्यान्येन पराजयः, न सिद्ध्यभावः, प्रतियोग्यपेक्षणात्। सिद्ध्यभावस्य साधनाभावेऽसत्यपि प्रतियोगिनि भावात्। प्रतियोगिनश्च तन्निराकरणेऽसामर्थ्यात् पराजयस्यानुत्पत्तेरपराजयः।

तस्मादयमसमर्थसाधनाभिधाय्यपि परेण तथाभावेऽप्रतिपादितेऽपराजितो वक्तव्यः।

३७. [वादे छलव्यवहारनिषेधः]

छलव्यवहारोऽपि विजिगीषुणं वाद इति चेत्। न, दुर्जनविप्रतिपत्त्यधिकारे सतां शास्त्राप्रवृत्तेः। न हि परानुग्रहप्रवृत्ता मिथ्याप्रलापारम्भात् सोत्कर्षपरपंसनादीन् [स्वोत्कर्षपरपंसनादीन् ?] असद्‍व्यवहारान् उपदिशन्ति। न च परविपंसनेन लाभसत्कारश्लोकोपार्जनं सतामाचारः।

नापि तथाप्रवृत्तेभ्यः स्वहस्तदानेन प्राणिनामुपतापनं सत्सम्मतानां शास्त्रकार सभासदां युक्तम्। न च न्यायशास्त्राणि सद्भिर्लाभाद्युपार्जनाय प्रणीयन्ते।

तस्मान्न योगविहितः कश्चिद् विजिगीषुवादो नाम। परानुग्रहप्रवृत्तास्तु सन्तो विप्रतिपन्नं प्रतिपादयन्तो न्यायमनुसरेयुः सत्साधनाभिधानेन, भूतदोषोद्भावनेन वा।

साक्षिप्रत्यक्षं तस्यैवानुप्रबोधाय। तदेव न्यायानुसरणं सतां। वादः - उक्तन्याये तत्त्वार्थी चेत् प्रतिपद्येत, तदप्रतिपत्तावप्यन्यो न विप्रतिपद्येतेति।

तत्त्वरक्षणार्थं सद्भिरुपहर्तव्यमेव छलादि विजिगीषुभिरिति चेत्। नखचपेटशस्त्रप्रहारादीपनादिभिरपीति वक्तव्यम् ! तस्मान्न ज्यायानयं तत्त्वरक्षणोपायः।

साधनप्रख्यापनं सतां तत्त्वरक्षणोपायः, साधनाभासदूषणं च। तदभावे मिथ्याप्रलापादत्र परोपतापविधानेऽपि तत्त्वाप्रतिष्टापनात्। अन्यथापि न्यायोपवर्णने विद्वत्प्रतिष्ठानात्।

तस्मात् परानुग्रहाय तत्त्वख्यापनं वादिनो विजयः, भूतदोषदर्शनेन मिथ्याप्रतिपत्तिनिवर्तनं प्रतिवादिनः।

३८. अथवा - यो न दोषः साधनस्य, तद्भावेऽपि वादिना तदसाधयितुम् [तदा साधयितुम् ?] इष्टस्यार्थस्य सिद्धेर्विघाताभावात्, तस्योद्भावनं प्रतिवादिनो निग्रहाधिकरणं, मिथ्योत्तराभिधानात्। यथा साध्यतयाऽनिष्टोऽपि वादिनो धर्मः शास्त्रोपगमात् साध्य इति तद्विपर्यासेन न विरोधोद्भावनम्।

'नास्त्यात्मा' इति तव प्रतिज्ञापदयोर्विरोध इति प्रतिज्ञादोषोद्भावनं, 'प्रयत्नान्तरीयकः शब्दोऽनित्यः, प्रयत्नान्तरीयकत्वाद्' इति हेतोर्धर्मविशेषत्वात् प्रतिज्ञार्थैकदेश इत्यसिद्धोद्भावनं, सर्वाणि साधर्म्यवैधर्म्यसमादीनि जात्युत्तराणि इत्येवमादेर्दोषस्योद्भावनमदोषोद्भावनम्। तस्य वादिना दोषाभासत्वे प्रख्यापिते प्रतिवादी पराजितो वक्तव्यः, पूर्वपक्षे साधनस्य निर्दोषत्वात्।

दोषवति पुनः साधने न द्वयोरेकस्यापि जयपराजयौ, तत्त्वाप्रख्यापनात्, अदोषोद्भावनं च। अप्रतिपक्षायां च पक्षसिद्धौ कृतायां जेता भवति।

तस्माज्जिगीषता स्वपक्षश्च स्थापनीयः, परपक्षश्च निराकर्तव्यः।

निर्दोषे साधनाभिधानेऽपि वादिनः प्रतिवादिना दोषाभास उद्भाविते दूषणाभावत्वख्यापने एव जयपराजयौ, नान्यथा, भावतस्तत्त्वाभिधानेऽपि प्रतिपक्षनिराकरणेन तत्त्वस्य प्रख्यापनासामर्थ्यात्, न प्रतिवादिन्नोऽप्यत्र, भावतो मिथ्याप्रतिपत्तेरिति।

इदं न्याय्यं निग्रहस्थानलक्षणमुक्तमस्माभिः।



न्यायमतखण्डनम्



३९. अन्यतु न युक्तमिति नेष्यते। यत्रेदं यथोक्तं निग्रहस्थानलक्षणं नास्ति, तस्य निग्रहस्थानत्वमयुक्तमिति नोक्तमस्माभिः।

[१] 'प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः निग्रहस्थानम्' [न्या.सू. ५.२..२] इत्यत्र भाष्यकारमतं दूषयित्वा वार्तिककारो यं स्थितपक्षमाह, तत्रैवं ब्रूमः - प्रतिदृष्टान्तस्य यो धर्मस्तं यदा स्वदृष्टान्तेऽभ्यनुजानाति निगृहीतो वेदितव्यः।

तत्र दृष्टश्चासावन्ते च व्यवस्थित इति दृष्टान्तः। स्वदृष्टान्तःस्वपक्षः। प्रतिदृष्टान्तः प्रतिपक्षः। प्रतिपक्षस्य धर्मं स्वपक्षेऽभ्यनुजानन् पराजितः। यथा 'अनित्यः शब्द ऐन्द्रियकत्वाद्' इति ब्रुवन् प्रतिपक्षवादिनि सामान्येन प्रत्यवस्थिते आह - 'यदि सामान्यमैन्द्रियकं नित्यं शब्दोऽप्येवमस्तु' इत्येषा प्रतिज्ञाहानिः, प्राक्प्रतिज्ञातस्य शब्दानित्यत्वस्य त्यागादिति।

४०. अत्रोपगतप्रतिज्ञात्यागात् प्रतिज्ञाहानौ विशेषप्रतिनियमः किंकृतोऽनेन प्रकारेण प्रतिज्ञां त्यजतः प्रतिज्ञाहानिरिति।

सम्भवति ह्यनेनापि प्रकारेण हेतुदोषोद्भावनादिना प्रतिपक्षसाधनाभिधानेन च स्वपक्षपरित्यागः, परपक्षोपगमश्च।

इदमेव च प्रतिज्ञाहानेः प्रधानं निमित्तम्। एवं प्रतिपादितेन प्रतिज्ञा हातव्या, हानौ च पराजय इति।

४१. इदं पुनरसम्भद्धमेव - 'सामान्यं नित्यमैन्द्रियकम्' इत्युक्ते 'शब्दोऽप्येवमस्तु; इति कः स्वस्थात्मास्वयमैन्द्रियकत्वादनित्यः शब्दो घतवदिति ब्रुवन् सामान्येनोपदर्शनमात्रेण नित्यं शब्दं प्रतिपद्येत ?

सामान्यस्यापि नित्यस्यैन्द्रियकत्वे तस्यानित्ये घटे दर्शनात् संशयितः स्यात्। जात्या प्रतिपद्येतापीति चेत्। तथपि किं सामान्योपदर्शनेन ?

एवमेव नित्यः शब्दः इति वक्तव्यम्, जडस्य प्रतिपत्तौ विचाराभावात्।

न च नित्यसामान्योपदर्शनेन तद्धर्मं शब्दे प्रतिपद्यमानेन प्रतिपक्षधर्मोऽभ्यनुज्ञातो भवति। 'अनित्यः शब्दः' इति च वदतो नित्यशब्द इत्याञ्जसः प्रतिपक्षः स्यात्, न नित्यं सामान्यमिति।

तस्मादैन्द्रियकत्वस्य नित्यानित्यपक्षवृत्तेर्व्यभिचारादसाधनाङ्गस्योपादानान्निग्रहार्हः, न प्रतिपक्षधर्मानुज्ञ्याऽनेन प्रकारेण प्रतिज्ञाहानेः।

४२. [२] 'प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरम्।' [न्या. सू. 5.2.3] प्रतिज्ञातोऽर्थोऽनित्यः शब्द ऐन्द्रियकत्वादित्येव, तस्य हेतुव्यभिचारोपदर्शनेन प्रतिषेधे कृते धर्मभेदविकल्पात् सामान्यघटयो सर्वगतत्वासर्वगतत्वधर्मविकल्पेन प्रतिज्ञान्तरं करोति - यथा घटोऽसर्वगतोऽनित्यः एवं शब्दोऽप्यसर्वगतोऽनित्य इति। एतत्प्रतिज्ञान्तरं नाम निग्रहस्थानं साधनसामर्थ्येऽप्यपरिज्ञानात्। स हि पूर्वस्याः 'अनित्यः शब्द' इति प्रतिज्ञायाः साधनात्तदा याम् 'असर्वगतः शब्द' इति प्रतिज्ञामाह, तद्दर्शनाय तद्दर्थनिर्देश इत्याह। तदर्थः पूर्वोक्तसाध्यसिद्ध्यर्थः। उत्तरप्रतिज्ञानिर्देशस्तदर्थनिर्देशः। न च प्रतिज्ञा प्रतिज्ञान्तरसाधने समर्था, इति निग्रहस्थानम्

४३. अत्रापि नैवं ब्रुवता प्रतिज्ञान्तरं पूर्वप्रतिज्ञासाधनायोक्तं भवति। किं तर्हि ? विशेषणम्। ऐन्द्रियकत्वस्य हेतोः सामान्ये वृत्त्या व्यभिचार उद्भावितेऽसर्वगतत्वे सत्यैन्द्रियकत्वस्यहेतोर्विशेषणोपादाने व्याभिचारं परिहरति, न पुनः प्रतिज्ञान्तरमाह; असर्वगतत्वस्य शब्दे सिद्धत्वात्, प्रतिज्ञायाश्च साध्यनिर्देशलक्षणत्वात्।

यदप्युक्तं - 'पूर्व प्रतिज्ञासाधनायोत्तरां प्रतिज्ञामाह' इति, तदप्युक्तम्। न हि प्रतिज्ञा प्रतिज्ञासाधनायोच्यमाना प्रतिज्ञान्तरं भवति। किं तर्हि ? हेत्वादेरन्यतमः साध्यसाधनायोपादानात्। साधननिर्देशः स स्यात्, न साध्यनिर्देशः।

उदाहरणसाधर्म्यादेश्च हेतुलक्षणस्यासर्वगतत्वे भावात्, प्रतिज्ञालक्ष्णस्य चाभावात्। हेतुत्वमसर्वगतत्वे प्रयुक्तं न प्रतिज्ञान्तरम्।

४४. अत्यन्तासम्बद्धं चेदं - प्रतिज्ञां प्रतिज्ञासाधनायाहेति। यो हि प्राक् प्रतिज्ञामुक्‍त्वा हेतूदाहरणादिकं वक्तुं जानाति, स किञ्चिदनुक्रमं [कञ्चिदनुक्रमं ?] साधनस्य जानात्येव हि। जानन् कथमविकलान्तःकरणः प्रतिज्ञामेव प्रतिज्ञासाधनायोपाददीत ?

उपाददता चानेन प्रतिज्ञामात्रेण सिद्धिरिष्टा भवति। ततश्च न प्रागपि हेतुं ब्रूयात्।

एवंप्रकाराणामसम्बद्धानां परिसंख्यातुमशक्यत्वात् लक्षणनियमोऽप्यसम्बदद्ध एव - प्रतिज्ञान्तराभिधाने प्रतिज्ञान्तरं नाम निग्रहस्थानमिति। एवम्प्रकाराणामेकमेव लक्षणं वाच्यं स्यात्।

न चैवंविधः कश्चिद् विवादेषु दृष्टपूर्वो व्यवहारो येन तदर्थं यत्नः क्रियते। न च बालप्रलापानुद्दिश्य शास्त्रं प्रवर्तते। प्रवृत्तौ च का निष्टा, तेषामनिष्ठानात् ?

४५. दृश्यते च विदुषामपि नातिनिरूपणादसिद्धाभिधानमिति व्यवहारदर्शनात् तादृशं पराजयाधिकरणं व्यवस्थाप्यते। तस्मादिहापि यदि निवृत्ताकंक्षे वादिनि परोऽनैकान्तिकतामुद्भावयेद्, असाधनाङ्गस्यानैकान्तिकस्याभिधानान्निग्रहस्थानं वादिनः।

एवं यदि प्रतिवादी सत्सामान्यमैन्द्रियकं नित्यं च प्रमाणेन प्रतिपादयितुं शक्नुयात् अनुद्दिश्याप्रमाणकं शास्त्रोपगमं, प्रमाणेनैषामर्थानामप्रतिपादनेन भूतदोषोद्भावनमेतत्। न कश्चित्पराजयः, अभ्युपगममात्रेण वस्तुसिद्धेरभावात्, प्रतिवादिना दोषस्याप्रतिपादितत्वात्।

प्रमाणैरसमर्थितसाधनाभिधानात् तु जेताऽपि न भवतीति।

अनित्याकांक्षे [? अनिवृत्ताकांक्षे] पुनर्वादिनि न कश्चद् दोषोः, विशेषणाभिधानेन हेतोः समर्थनोपक्रमात्।

४६. [३.] "प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः।" [न्या.सू.5 2. 4.] यथा 'गुणव्यतिरिक्तिं द्रव्यम्; इति प्रतिज्ञा, 'रूपादिभ्योऽर्थान्तरस्यानुपलब्धेः इति हेतुः, सोऽयं प्रतिज्ञाहेत्वोर्विरोधः। एतेनैव प्रतिज्ञाविरोधोऽलप्युक्तः, यत्र प्रतिज्ञा वचनेन [स्ववचनेन? विरुध्यते। यथा - श्रमणा गर्भिणी, नास्त्यात्मेति वा।

हेतुविरोधोऽपि, यत्र प्रतिज्ञया हेतुर्विरुध्यते। यथा - 'सर्वं पृथक्, समूहे भावशब्दप्रयोगाद्' इति।

एतेन प्रतिज्ञया दृष्टान्तविरोधो व्याख्यातः।

४७. हेतोश्च दृष्टान्तादिभिर्विरोधः, प्रमाणविरोधश्च प्रतिज्ञाहेत्वोर्वक्तव्यः।

यः परपक्षं स्वसिद्धेन गोत्वादिना व्यभिचारयति, तद् विरुद्धमुत्तरं वेदितव्यम्।

स्वपक्षानपेक्षं च। यं च स्वपक्षानपेक्षं हेतुं प्रयुङ्क्ते - 'अनित्यः शब्दः ऐन्द्रियकत्वाद्' इति, तस्य स्वसिद्धस्य गोत्वादेरनित्यविरोधाद् विरुद्धः। इति परपक्षेष्वसिद्धेन गोत्वादिनाऽनैकान्तिकचोदनाविरुद्धः।

उभपक्षसम्प्रतिपन्नस्त्वनैकान्तिकः। यदुभयपक्षं [यदुभयपक्ष-?] प्रतिपन्नं वस्तु तेनानैकान्तिकचोदना इति।

४८. अत्रापि प्रतिज्ञार्थः, साधनवाक्ये प्रयोगप्रतिषेधात्। तदाश्रयस्तत्कृतो वा हेतुदृश्टान्तयोर्न विरोध इति न प्रतिज्ञाविरोधो नाम किञ्चिन्निग्रहस्थानम्।

स्यादेतत्। असत्यपि प्रतिज्ञाप्रयोगे गम्यमानोऽपि प्रतिज्ञाहेत्वोर्विरोधो भवति। यथा - रूपादिभ्योऽर्थान्तरस्यानुपलब्धिस्तद् गुणव्यतिरिक्तम्, नोपलभ्यते च रूपादिभ्योऽर्थान्तरं द्रव्यम्। इत्युक्तेऽपि गम्यत एव साध्यसाधनयोर्विरोधः - कथं ततोऽर्थान्तरस्यानुपलब्धिः, तद्‍व्यतिरेकश्चेति।

सत्यं, स्यादयं विरोधः, यदि हेतुः साध्यधर्मविपर्ययं साधयेत्। यदि ह्युपलब्धिलक्षणव्याप्तत्वेन [ह्युपलब्धिलक्षणप्राप्तत्वेव ?] उपगतस्य सतो द्रव्यरूपादिप्रतिभासविवेकेन स्वप्रतिभासानुपलब्धिस्तस्य तद्‍व्यतिरेके नास्ति [तद्‍व्यतिरेकेणास्ति ?] इति इष्टव्यतिरेकविपर्ययसाधनाद् विरुद्धो हेतुरस्माभिरुक्त एवेति। भवत्येवेदं निग्रहाधिकरणं, यद्येवंविधः प्रतिज्ञाहेतोः [? प्रतिज्ञाहेत्वोः] विरोध इष्टः। अथ पुनरस्योपलब्धिलक्षणप्राप्तिर्लुप्यते, तदा न कश्चित् प्रतिज्ञाहेतोः [? प्रतिज्ञाहेत्वोः] विरोधः, व्यतिरिक्तानामपि भावानां कुतश्चिद् विप्रकर्षिणां तद्‍व्यतिरेकेणानुपलब्धावपि व्यतिरेकस्य भावात्।

४९. यदुक्तं - 'स्ववचनप्रतिज्ञायाः [? प्रतिज्ञायाः] स्ववचनविरोधे प्रतिज्ञाविरोधः' इति तत्रेदमेव निग्रहाधिकरणम्, असाधनाङ्गभूतायाः प्रतिज्ञायाः साधनवाक्ये प्रयोगः, न विरोधः, तदधिकरणत्वात्।

यदि प्रतिज्ञानपेक्षोः विरोधः स्यात्, स्यात् पराजयाश्रयः। प्रतिज्ञाधिकरणत्वे पुनस्तत्प्रयोगकृत एव पराजयः, अस्य प्रस्तावोपसंहारावसानत्वाद् व्यर्थं विरोधोद्भावनम्, पराजितपराजयाभावाद् भस्मीकृतानलवत्।

ये तु केचिद् विचारप्रसङ्गेषु एकत्र साध्ये बहवो हेतव उच्यन्ते, तेष। विकल्पेन तत्साध्यसाधनाय वृत्तेः सामर्थ्यम्, अन्यथा द्वितीयस्य वैयर्थ्यात्।

यदि हि तत्राप्येकप्रयोगमन्तरेणापरस्य प्रयोगो न सम्भवेत्, न तदा द्वितीयस्य कश्चित् साधनार्थः, प्रतीतप्रतिपादनाभावात्।

तस्मान्न प्रतिज्ञायाः स्ववचनविरोधो नाम किञ्चिन्निग्रहस्थानम्।

न च 'नास्त्यात्मा' इत्यत्र कश्चित् प्रतिज्ञाविरोधः नास्त्यात्मशब्दार्थस्य भावोपादानत्वनिषेधात्। सब्दार्थनिषेधे हि विरोधः स्यात्। न च स्वलक्षणं शब्दार्थ इति।

५०. यः पुनः प्रतिज्ञाया बाधनाद्धेतुविरोध उक्तः, यथा - 'सर्वं पृथक् समूहे भावशब्दप्रयोगात्' इति। नात्र प्रतिज्ञाप्रयोगः, नापि हेतोः, येन विरोधः स्यात्। किं तर्हि ? प्रतिपादितार्थोपदर्शनेनोपसंहारवचनमेतस्मात् [... वचनमेतत्स्यात् ?।

अन्यैरेव हेतुभिः शब्दस्यैकविशेषानभिधानम्, अनेकार्थसामान्याभिधानं च प्रतिपाद्य सर्वस्य शब्दार्थस्य नानार्थरूपतयैकवस्तुविशेषस्वभावताऽभावमुपदर्शयन् शब्दार्थमधिकृत्य सर्वं पृथगिति ब्रूयात्।

एतेन तद्विरोधः प्रत्युक्तः।

५१. दृष्टान्तोपदर्शनं चैतद् - 'अनित्यः शब्दः कृतकानित्यत्वाद्;।

यथा क्वचिद् अर्थे विप्रतिपत्तौ प्रसिद्धमनेकार्थसामान्ये शब्दप्रयोगमुपदर्श्य प्रतिपादितविप्रतिपत्तिस्थानः सामान्येनोपसंहरति - सर्वं पृथगिति।

यदि दृष्टान्तप्रयोगः, किमृजुनैवतत्प्रयोगक्रमेण न प्रयुक्तः, विप्रतिपत्तिविषयश्च किं न दर्शित इति चेत्।

न, समासनिर्देशात्। एवमपि प्रयोगदर्शनाद्, असाधनवाक्यत्वाच्च।

अत एव न प्रतिज्ञया हेतोर्बाधनम्। न चैकमेव किञ्चिन्नास्तीति ब्रुवाणः कश्चित् तत्समुच्चयरूपमेकं च समूहमिच्छति, येन विरोधः स्यात्।

योऽपि ''युगपत् कङ्केन योगाद्' इत्यादिना परमाणोर्भेदमाह, न तस्याप्येकः समुच्चयरूपः साधयितुमिष्टः। किं तर्हि ? अभाव एव, एकानेकप्रतिषेधात्। अतः सोऽपि न समूहस्तस्येष्टो न तत्र शब्द इति न विरोधः।

५२. न विरुद्धोऽयं पूर्वकात् प्रतिज्ञाहेतुविरोधात् भिद्यते, येन पृथगुच्येत।

तत्र हेतुप्रतिज्ञयोर्बाधनम्, इह प्रितिज्ञया हेतोरित्यस्ति भेद इति चेत्। अर्थविरोधे हि हेतुप्रतिज्ञयोर्बाध्यबाधकभावः स्यात्। 'सर्वार्थविरोधो द्विषु' इति यमपि [यदपि?] परस्परं ब्बाधकम्, एकार्थसन्निधावपरार्थासम्भवात्, तत्र हेतुप्रतिज्ञयोः सहपृथग्वा बाधोदाहरणयोर्न कश्चिदर्थभेदः।

५३. अपि चायं विरुद्धो वा सति हेतुप्रयोगे व्यधिकरणत्वादसिद्ध इत्यसिद्धता हेतोर्निग्रहस्थानम्। स खलूच्यमान एवातद्धर्मतया प्रतीतो वक्तुः पराजयमानयति। पराजिते तस्मिंस्तदर्थविरोधचिन्तया न किञ्चित्।

अपि च - सर्वत्रायं प्रतिज्ञाहेत्वोर्विरोधः सम्भवन् द्वयीं दोषजातिमभिपतति विरुद्धतामसिद्धतां चेति।

विरुद्धता सिद्धे हेतोर्धर्मिणि भावे साध्यधर्मविपर्यय एव, भाव प्रतिज्ञाविरोधात्।

असिद्धतापुनर्धर्र्मिणि प्रतिज्ञातार्थसिद्धौ, विरुद्धयोः स्वभावयोः एकत्रासम्भवात्, न चान्यथा विरोधः।

असिद्धे धर्मस्वभावेऽभिहितयोर्हेतुप्रतिज्ञातार्थयोर्विरोधाद् विरोधसम्भव इति चेत्।

अप्रमाणयोगे तूभयोर्धर्मिणि संशयः। तथा सति हेतोर्धर्मिणि भावसंशयेऽसिद्धतैव हेतुदोष इत्यसिद्धविरुद्धाभ्यामन्यो न प्रतिज्ञया विरोधो नाम पराजयहेतुः।

असिद्धविरुद्धे च हेत्वाभासवचनादेवोक्ते इति न पृथक् प्रतिज्ञाविरोधो वक्तव्य इति।

५४. उभयाश्रयत्वाद् विरोधस्य विवक्षातोऽन्यतरनिर्देश इति चेत्। स्यादेतत्। प्रतिज्ञाहेत्वोर्विरोध इति प्रतिज्ञाहेतू आश्रित्योभयाश्रयो भवति। तत्र यदा प्रतिज्ञाविरोधो विवक्षितस्तदा प्रतिज्ञाविरोध इत्युच्यते, यदा प्रतिज्ञाया हेतोर्वा विरोधस्तदा विरुद्धो हेतुरिति। अतः प्रतिज्ञाविरोधः, हेतुविरोधो वा इत्यदोषोः।

तत्र हेतोरुदाहरणम् - नित्यः शब्दः उत्पत्तिधर्मकत्वादिति। प्रतिज्ञाविरोधस्य - नास्त्यात्मेति। प्रतिज्ञाहेत्वोः परस्परविरुद्धोदाहरणम् - गुणव्यतिरिक्तमित्यादि। प्रतिज्ञया हेतुविरोधोदाहरणम् 'नास्त्येको भव' इत्यादिकम् इति। न, सर्वहेत्वपेक्षस्य विरोधहेत्वाभासानतिक्रमात्, यथोक्तं प्राक्।

अनपेक्षे च केवले स्वतः प्रतिविरोधे [प्रतिज्ञाविरोधे ?] विवक्षिते प्रतिज्ञाहेत्वोर्विरोध इति हेतुग्रहणमसम्बद्धम्।

न चोत्पत्तिधर्मत्वान्नित्यमित्यत्रापि हेतुविरोधो युक्तः। प्रतिज्ञया हि हेतोर्बाधने हेतुविरोधः, इह तु हेतुना प्रतिज्ञा बाध्यते इति प्रतिज्ञाविरोधो युक्तः।

उभयाश्रयेऽपि विरोधे बाध्यमानविवक्षया तद्विरोधव्यवस्थापनात्।

५५. यदप्युक्तम् - एतेन प्रतिज्ञया दृष्टान्तविरोधादयोऽपि वक्तव्या भण्डालेख्यन्यायेनेति, तत्रापि पक्षीकृतधर्मविपर्यवति दृष्टान्ते विरोधः स्यात्। विरुद्धे च दृष्टान्ते यदि पक्षधर्मस्य वृत्तिरनन्यसाधारणा प्रसाध्यते विरुद्धस्तदा हेत्वाभासः।

साधारणायामप्रसाधिते वा तद्‍वृत्तिनियमेऽनैकान्तिकः। अवृत्तौ वाऽसाधारणः।

विरुद्धदृष्टान्तावृत्तौ विपर्ययवृत्तौ च न कश्चिद् हेतुदोषः, दृष्टान्तविरोधश्च प्रतिज्ञाया इति चेत्।

न, तदापि संशयहेतुत्वानतिवृत्तेः। दृष्टान्तविरोधो हि प्रतिज्ञायाः साधर्म्ये दोषो न वैधर्म्ये, अभिमतत्वात्।

साधर्म्यदृष्टान्ते च विपरीतधर्मवति वस्तुतः साध्याव्यभिचारेऽपि हेतोर्नाव्यभिचारधर्मता शक्या दर्शयितुमिति नाप्रदर्शिताविनाभावसम्बन्धात् हेतोर्निश्चयः। तन्न प्रतिज्ञया दृष्टान्तविरोधो हेत्वाभासानतिवर्तते।

५६. उभयथाऽपि दोषोऽस्त्विति चेत्। न। न हेतुदोषस्य प्राक् प्रसङ्गेन पराजितस्य दोषान्तरान्पेक्षणात्।

विशेषेण साधनावयवानुक्रमनियमवादिनः। उदाहरणसाधर्न्यं हेतुलक्षणं विरुद्धे दृष्टान्ते न सम्भवतीति प्राक्प्रयुक्तस्य हेतोर्दोषेण पराजय इति नोत्तरदृष्टान्तापेक्षया विरोधश्चिन्तामर्हति।

हेतोरपि दृष्टान्तविरोधेऽसाधारणत्वं विरुद्धत्वं वा, वैधर्म्ये यदि वृत्तिः स्यात्।

प्रमाणविरोधे तु हेतोर्यथा - 'न दहनोऽग्निः सैत्यात्' इत्यादि ह्यसिद्धो हेत्वाभासः।

प्रतिज्ञाया प्रमाणविरोधः स्ववचनविरोधेन व्याख्यातः इति सर्वे एवैते साधनविरोधे हेत्वाभासेष्वन्तर्भवन्तीति हेत्वाभासवचनेनैवोक्ताः।



५७. यत्तु विरुद्धमुत्तरं परपक्षे स्वसिद्धेन गोत्वादिनानैकान्तिकचोदनेति, तदसम्बद्धमेव। यदि हि स्वसिद्धेन गोत्वादिना परस्य व्यभिचारसिद्धिमाकाङ्क्षेत, तस्य तत्स्वपक्षविरुद्धं नाभिमतमिति विरोधो युज्येत। स हि स्वयं प्रतिपन्ने गोत्वे हेतुवृत्तेः संशयानोऽप्रतिपत्तिमात्मनस्तथा ख्यापयति।

स च हेतुः सत्यसति गोत्वेऽप्रसाधितसाधनसामर्थ्यः संशये हेतुत्वादनैकान्तिक एव।

प्रसाधिते तु सामर्थ्ये गोत्वेऽवृत्त्या हेतौ न संशय एव, सर्वसंशयप्रकाराणां परिहारेण समर्थनात्।

एतेन स्वपक्षानपेक्षहेतुप्रयोगस्यानैकान्तिकता व्याख्याता। सोऽपि स्वाभिमतनित्यगोत्ववृत्तिहेतुमनित्यत्वे ब्रुवाणोऽसमर्थतयाऽसाधनाङ्गतया संशयहेतुमेवाहेति।

यत्पुनरुक्तम् - उभयपक्षसम्प्रतिपन्नेन वस्तुनाऽनैकान्तिकचोदनेति, तत्राप्यवश्यं संशयहेतुत्वमुखेनैवानैकान्तिको वक्तव्यः। तदसमर्थितेऽन्यत्रापि तुल्यमिति नोभयसिद्धेतरयोरनैकान्तिकत्वविशेषः।

५८. यदप्युक्तं - 'दृष्टान्ताभासा हेत्वाभासपूर्वकत्वात् तदभिधानेनैवोक्ता इति न पृथग् निग्रहस्थानेषूक्ताः' इति तदप्यवयवान्तरवादिनोऽयुक्तम्। योऽवयवान्तरं दृष्टान्तहेतोः [दृष्टान्तं हेतोः? ] आह तस्य न हेत्वाभासोक्‍त्या दृष्टान्ताभासोक्तिर्व्याप्या, तद्वचनेन गम्यमान्स्य तस्मात् साधनान्तराभावप्रसङ्गात्।

दृष्टान्ताभासानां हेत्वाभासेऽप्यन्तर्भावाद् दृष्टान्तस्यापि हेतावन्तर्भाव इष्टो भवति। तथा च न दृष्टान्तः पृथक्साधनावयवः स्याद्, अपृथग्वृत्तेः।

यो दृष्टान्तसाध्योऽर्थस्तस्य हेतावन्तर्भावाद्धेतुनैव साधित इति न दृष्टान्तस्य पृथक् किञ्चित्सामर्थ्यम्।

अपि च - न किञ्चित् पूर्वपक्षवादिनो हेत्वाभासासंस्पर्शे न्याय्यं निग्रहस्थानमस्तीति तत्सम्भन्धीनि सर्वाण्येव हेत्वाभासतावचनेनैव उक्तानीति न पृथग्वाच्यानि स्युः।

अर्थान्तरगमनादेरपि हेतोरशामर्थ्ये एव सम्भवात्। न हि समर्थे हेतौ साध्ये च सिद्धेऽर्थान्तरगमनं कञ्चिदारभते, असमर्थस्य मिथ्याप्रवृत्तेरिति

५९. [४] "पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः।" [न्या. सू.५.२.५] यं प्रतिज्ञातमर्थम् ' अनित्यः शब्दः एन्द्रियकत्वाद्' इति सामान्यवृत्त्या हेतोर्व्यभिचारप्रदर्शनेन सः प्रतिषेधे कृते, 'क एवमाह-अनित्यः शब्दः' इति परित्यजति, तस्य प्रतिज्ञासंन्यासो नाम निग्रहस्थानमिति।

अत्रापि यद्युद्भावितेऽपि हेतोर्व्यभिचारे न सपक्षं [स्वपक्षं परित्यजति?[, किं न गृह्येत ? अनिगृह त [?अनिगृहीत] एव हेत्वाभासाभिधानादिति चेत्।

किमिदानीमुत्तरप्रतिज्ञासंन्यासापेक्षया तस्य तदेवाद्यं निग्रहस्थानमिति किमन्यैरशक्तपरिच्छेदैः क्लीबप्रलापप्रचेष्टितैरुपन्यस्तैः ? एवं हि अतिप्रसङ्गः

स्यात्। पक्षप्रतिषेधे तूष्णीम्भवतस्तूष्णीम्भावो नाम निग्रहस्थानम्, प्रपलायमानस्य प्रपलायितं नामेति एवमाद्यपि वाच्यं स्यात्। तस्मादेतदपि असम्बद्धमिति।

६०. [५.] 'अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्।" [न्य.सू.५.२.६.] निदर्शनम् - 'एकप्रकृतीदं व्यक्तं, परिमाणात्, मृत्पूर्वकाणां शरावप्रभृतीनं दृष्टं परिमाणम्' इति।

अस्य व्यभिचारेण प्रत्यवस्थानम् - नानाप्रकृतीनामेकप्रकृतीनां च दृष्टं परिमाणमिति।

एवं प्रत्यवस्थित आह - एकप्रकृतिसमन्वयप्रकाराणां परिणामदर्शनात् [परिमाणदर्शनात्?] सुखःदुःखमोहसमन्वितं हीदं सर्वं व्यक्तं परिगृह्यते [परिमितं गृह्यते?]। तस्य प्रकृत्यन्तररूपसमन्वयाभावोऽसति [? प्रकृत्यन्तररूपसमन्वयाभावे सति] एकप्रकृतिकत्वमिति तदविशेषोक्ते हेतौ प्रतिषेधं ब्रुवतो हेत्वन्तरं भवति। सति हेत्वन्तरभावे पूर्वस्य हेतोरसाधकत्वान्निग्रहस्थानम्।

अत्रापि पूर्वस्यैव हेतोरनैकान्तिकस्याभिधानान्निगृहीते हेत्वन्तरचिन्ता क्वोपयुज्यते ? यदि प्राक्साधनवादी हेतुमनैकान्तिकमुक्‍त्वा दत्तोत्तरावसरः तेनैव निगृह्यते। अदत्तोत्तरावसरो हेत्वन्तराभिधानेऽपि न निग्रहमर्हति, अविरामात्।

६१. [६.] "प्रकृतादर्थादप्रतिबद्धार्थमर्थान्तरम्" [न्या.सू. ५.२.७.] यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः साध्यसिद्धौ प्रकृतायां कुर्यात्-नित्यः शब्दोऽस्पर्शत्वादिति हेतुः। हेतुश्च नाम हिनोतेर्धातोस्तुशब्दे प्रत्यये कृदन्तं पदम्। पदं च नामाख्य्हातोपसर्गनिपाता इति प्रस्तुत्य नामादीनि व्याचष्टे।। इदमर्थानन्तरं नाम निग्रहस्थानम्, अभ्युपगतार्थासङ्गतत्वादिति।

न्याय्यमेतन्निग्रहस्थानं, पूर्वोत्तरपक्षवादिनोः प्रतिपादिते दोष प्रकृतं परित्यज्यासाधनाङ्गवचनमदोषोद्भावनं च। साधनवादिना ह्युपन्यस्तसाधनस्य समर्थने



कर्तव्ये तदकृत्वा परस्य प्रसङ्गेनाप्रसङ्गेन वाऽतन्नान्तरीयकस्याभिधानमुत्तरवादिनोऽपि दोषोद्भावनमात्रादपरस्योपक्षेप इति।



६२. [७.] "वर्णक्रमनिर्देशवन्निरर्थकम्।" [न्या. सू.५.२.८] यथा 'नित्यःशब्दो जबगडत्वात् झभघढवद्' इति। साधनानुपादानात् निगृह्यते इति।



इदमप्यसम्बद्धम्। न हि वर्णक्रमनिर्देशसिद्धावानर्थक्यं यदेव किञ्चिदसाधनाङ्गस्य वचनं तदेवानर्थकं; साध्यसिद्ध्युपयोगिनोऽभिधेयस्याभावात्, निष्प्रयोजनत्वाच्वेति। प्रकारविशेषोपादानमसम्बद्धम्।



वतेरुपादानाददोष इति चेत्। स्यादेतत् वर्णक्रमनिर्देशवदिति वतिरत्रोपात्तः सोऽन्यदापि [सोऽन्यदपि?] अननुरूपं गृण्हाति इत्यदोषः इति।



न। अर्थान्तारादेर्निग्रहस्थानस्यावचनप्रसङ्गात्। एवं हि ता निरर्थका वाच्या निरर्थकेनैवाभिधानाहितम् [निरर्थकेनैवाभिधानात् ?]।



न साध्यसिद्धौ अनर्थकं निरर्थकं, यस्य नैव कश्चिदर्थस्तन्निरर्थकमिष्टमिति चेत्।



यस्य कस्यचिदवादिनोऽपि हि निरर्थकाभिधाने किं न निग्रहः ? निग्रहनिमित्ताविशेषात्।

न; तस्येहाप्रस्तावादिति चेत्।



आयातमिह - यो निरर्थकं ब्रवीति, तस्य तेनैव निग्रह इति। तत्तुन्यं सर्वस्यासाधनाङ्गवादिन इति। स सर्वो निरर्थकाभिधानोऽप्यनेनैव निग्रहस्थानेन निग्रहार्हः।



न च वर्णक्रमनिर्देशः सर्वत्र निरर्थकः; क्वचित्प्रकरणे तस्याप्यर्थवत्त्वात्। तस्मादत्रैवास्यानर्थक्यात् निग्रहस्थानत्वम्। अपि चान्यदिदमुच्यते - 'वर्णक्रमनिर्देशो निग्रहस्थानम्' इति; कपोलवादितकंक्ष्यघट्टितकमित्येवमादीनामपि वाच्यत्वात्।



६३. [८.] "पर्षत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातार्थम्।" [न्य. सू. ५.२.९] यद्वाक्यं पर्षदा प्रतिवादिना च त्रिरभिहितं न विज्ञायते क्लिष्टशब्दमप्रतीत - प्रयोगमतिद्रुतोच्चारितमित्येवमादिना कारणेन तदविज्ञातार्थमसामर्थ्यसंवरणाय प्रयुक्तं निग्रहस्थानमिति।

नेदं निरर्थकाद् भिद्यते; सपदिप्रकृतार्थसम्बद्धं गमकमेवकुर्यात्, नास्यासामर्थ्यं, न च जाड्यात् पर्षदादयो न प्रतिपद्यन्ते इति न विद्वान्निग्रहमर्हति।



पर्षत्प्रतिभासपरिकल्प्यार्हवचनात् निग्रहार्ह एवेति चेत्। न्यायवादिनो जाड्यादुक्तमजानन् किं न प्रतिवादी निगृह्यते ? जाड्यात् पर्षदादेः अविज्ञातप्रतिपादनसामर्थ्य इति विजेता न स्यान्न निग्रहार्हः। असम्बद्धाभिधाने निरर्थकमेवेति न पृथक् विवक्षितार्थं [विवक्षितम् अविज्ञातार्थं ?] नाम निग्रहस्थानमिति।



६४. [९.] " पौर्वापर्यायोगादप्रतिबद्धार्थमपार्थकम्।" [न्या. सू. ५.२.१०] यत्रानेकस्य पदस्य वाक्यस्य वा पौर्वापर्येण योगो नास्तीत्यसम्बद्धार्थता गृह्यते, तत्समुदायार्थापायाद् अपार्थकं दशदाडिमादिवाक्यवत्। इदं किल पदानाम् असम्बद्धात् [असम्बन्धात् ?] असम्बद्धवर्णात् निरर्थकात् पृथगुक्तम्।

नन्वेवमसम्बद्धवाक्यमपि पृथग् वाच्यम्; नोभयसङ्ग्रहादपार्थकं युक्तम्; निरर्थकस्य संग्रहप्रसङ्गात्।

एवंविधाच्च विशेषसमाश्रयात् पृथग् निग्रहस्थानलक्षणप्रलपनेऽतिप्रसङ्गोऽप्युक्तः। न च सङ्ग्रहनिर्देशे कञ्चिद्दोषं पश्यामः। प्रभेदे वा गुणान्तरमिति यत्किञ्चिदेतत्।

६५. [१०] "अवयवविपर्यासवचनमप्राप्तकालम्।" [न्या.सू. ५.२.११] प्रतिज्ञादीनां यथालक्षणमर्थवशात् क्रमः, तत्रावयवानां विपर्ययेणाभिधानं निग्रहस्थानम्।

न; एवमपि सिद्धेरिति चेत्। न; प्रयोगापेतशब्दतुल्यत्वात्। यथा- गौरित्यस्य पदस्यार्थे गोणीति प्रयुज्यमानं पदं ककुदादिमन्तमर्थं प्रतिपादयतीति न शब्दार्थाख्यानं व्यर्थम्। अनेन च पदेन गोशब्दमेव प्रतिपद्यते, गोशब्दत् ककुदादिमन्तमर्थम्, तथा प्रतिज्ञाद्यवयवविपर्ययेणानुपूर्वीं प्रतिपद्यते, आनुपूर्व्या चार्थमिति। तथा हि पूर्वं कर्मोपादीयते मृत्पिण्डादिकं लोके, ततः करणम् इति।



६६. तदेतदुन्मत्तकस्योन्मत्तकसंवर्णनमिव प्रयोगापेतशब्दवदेतदिति। यदि गोणीशब्दात् ककुदादिमत्यर्थे प्रतीतिशब्दान्वाख्यानप्रयत्नेन [? प्रतीतिः, शब्दान्वाख्यानप्रयत्ने न] अर्थं पश्यामः।

गोणीशब्दस्यार्थप्रतिपादनेऽसामर्थ्यात्। सत्यं दृष्टा, न तु साक्षादित्युक्तम्

ननु गोणीशब्दादपि लोके प्रतीतिर्दृष्टा। सत्यं दृष्टा, न तु सक्षादित्युक्तम्।



उक्तमेतन्न पुनर्युक्तं; स्त्रीशूद्राणामुभयप्रतीतेरभावात्। यः खलु उभयं वेत्ति, शब्दमपशब्दं च, स एव प्रतिपद्यते। यस्तु नक्कशब्दं मुक्कशब्दमेव वा वेत्ति, न नासाशब्दं, स कथमपशब्दाच्छब्दं प्रतिपदेतत्, ततोऽर्थं प्रतिपद्येत ?

दृष्टा चानुभयवेदिनोऽपि प्रतीतिरिति।

न परम्परया प्रतीतिः, अर्थेऽसमर्थस्य शब्दोऽपि प्रतीतिजननासामर्थ्याच्च।

न ह्यर्थेऽपि वाचकत्वं नामान्यदेव, अन्यत्र तद्विषयप्रतीतिजननात्।

अपशब्दश्चेच्छब्दे प्रतीतिं जनयेद्, अर्थ एव किं न जनयति ? न ह्येतस्यार्थात् कञ्चिद् भेदं पश्यामः, येन तं परिहरेत्।

अकृतसमयस्य शब्देऽप्यप्रतीतिजननाच्च।

न ह्ययमपशब्दः शब्देऽपि स्वभावतः प्रतीतिं जनयति, अदर्शनात् समय एव तु जनयेत्। समयवशात् प्रवर्तते।

एवं हि प्रतिपत्तिपरम्परापरिश्रमः परिहृतो भवति।



६७. विपर्ययदर्शनाच्च। शब्दादर्थमप्रतिपद्यमाना अपशब्दैरेव ज्ञानं व्युत्पद्यमाना लोके दृस्यन्ते इति व्यर्थं शब्दानुशासनम्।

न व्यर्थं, संस्कृतशब्दव्युत्पत्त्यर्थमिति चेत्। कोऽयं शब्दानां संस्कारः ? न ह्येषां प्रज्ञाबाहुश्रुत्यादिकं संस्कारं पस्यामः।

नाप्येषामेकान्तेन श्रव्यता। नाप्यर्थप्रत्यायने कश्चिदतिशयः।

न धर्मसाधनता, मिथ्यावृत्तिचोदनेभ्यः संस्कृतेभ्योऽप्यधर्मोत्पत्तेः।

अन्येभ्योऽपि विपर्ययेण धर्मोत्पत्तेः। शब्द्द्स्य सुप्रयोगादेव स्वर्गमोदनघोषणा वचनमात्रम्। न चैवंविधानागमानाद्रियन्ते युक्तिज्ञाः।

न च दानादिधर्मसाधनचोदनाशून्यकेवलशब्दसुप्रयोगात् नगपातम् इति ब्रुवाणस्य कस्यचिन्मुखं वक्री भवति। तस्मान्न संस्कृतो नाम कश्चिच्छब्दः।



शिष्टप्रयोगः संस्कार इति चेत्। के शिष्टाः ? ये विदितवेद्यादिगुणयुक्ताः। कः पुनरेषां गुणोत्कर्षानपेक्षोऽलीकनिर्बन्धो यत्तेऽमूनेव शब्दान् प्रयुञ्जते नापरान् ? न चात्र कश्चिच्छब्दे ऽपरोक्षः साक्षी, यत इदमेव प्रयुञ्जते नापरान् शिष्टा इति निश्चिनुमः।

नन्वेवं [न त्वेवं ?] वयं गुणातिशयमपस्यन्तः संस्कारं केषाञ्चिच्छब्दानामनुमन्यामहे, तदन्वाख्यानं [तदन्वाख्याने ?] यत्नं वा; गुणातिशयाभावात्। वेदरक्षादिकं चाप्रयोजनमेव अतत्समयस्थायिनः। सत्यपि गुणातिशये न करणीय एवान्वाख्याने यत्नः, तत्स्वभावस्यान्यतोऽपि सिद्धेः। प्राकृतापभ्रंशद्रमिडान्ध्रादिभाषावत्। न हि प्रतिदेशं भाषाणां किञ्चिल्लक्षणमस्ति। अथ च सम्प्रदायसाम्याल्लोकस्तथैव प्रतिपद्यते, तासां च प्रयोगभ्रंशं, तथा संस्कृतानां शब्दानां प्रतीतिर्भविष्यति। इति जडप्रतिपत्तिरेवैषा, या शब्दानां लक्षणे प्रवृत्तिः।



६८. अवयवविपर्ययेऽपि यदि तेषां वचनानां सम्बन्धप्रतीतिः, न विपर्ययः नापि अर्थाप्रतीतिः; सामर्थ्यात्। न ह्यत्र कश्चित् समयः प्रत्यायानाविशेषेऽपि एवमेव अवयवाः प्रयोक्तव्या इति।

स एव तेषां क्रमो यथाऽवस्तितेभ्योऽर्थप्रतीतिर्भवति। इति न विपर्ययात् प्रतीतिः, तत आनुपूर्वीप्रतिपत्त्या प्रतीतिरिति चेत्। नाप्रतीयमानसम्बन्धेभ्यः आनुपूर्वीप्रतिपत्तिः।

येषां शब्दानां कश्चित् सम्बन्धो जायते [ज्ञायते ?] 'इदमिह सम्बध्यते' इति, तेषु विदितसम्बन्धेषु कः कस्य पूर्वोऽपरो वा क्रमः, यो यथावस्थितानां सम्बन्धः प्रतीयते। न हि वाक्येषु पदानां क्रमनियमः कश्चित्, यथा राज्ञः पुरुषः, पुरुषो रज्ञ इति।

यावद्भिः पदैरर्थपरिसमाप्तिस्तदेकं वाक्यं, यथा- 'देवदत्त गामानय कृष्णाम्' इति। अत्र पदानां यथाकामं प्रयोगेऽपि नार्थप्रतीतौ विशेष इति कश्चित् क्रमाभिनिवेशः।



प्रतिपादितं च प्रतिज्ञावचनान्तरेणापि यथा प्रतीतिर्भविष्यतीति। प्रतीयमानार्थस्य शब्दस्य प्रयोगेऽतिप्रसङ्गः। परिशिष्टेषु च सम्बन्धं प्रदर्श्य धर्मिणि भावः प्रदर्श्येत, धर्मिणि भावं प्रदर्श्य सम्बन्धः प्रदर्श्येत इति न नियमः कश्चिद्; उभयथाऽपि प्रतीत्युत्पत्तेः इत्युक्तम्। अप्रतीयमानसम्बन्धेषु च पदेषु न तेभ्य आनुपूर्व्या अपि प्रतीतेरिति नेदमपार्थकाद् भिद्यते इति नाप्राप्तकालं पृथग् वाच्यं स्यादिति।



६९. [११.] "हीनमन्यतमेनाप्यवयवेन न्यूनम्।" [न्या.सू. ५.२.१२.] यस्मिन् वाक्ये प्रतिज्ञादीनामन्यतमोऽवयवो न भवति, तद्‍वाक्यं हीनं; साधनाभावे साध्यासिद्धेः।

न प्रतिज्ञान्यूनं हीनं; तदभावे प्रतीतिभावादिति प्रतिपादितम्।

हीनमेव तत्; न्यूनतायामपि निग्रहादित्यपरः।

यः प्रतीयमानार्थमनर्थकं शब्दं प्रयुङ्क्ते, स निग्रहमर्हेत्, नार्थोपसंहितस्याभिधातेति असमीक्षिताभिदानमेतत्। अत एव प्रतिज्ञाया न साधनाङ्गभाव इति।

७०. [१२] "हेतूदाहरणाधिकमधिकम्।" [न्या.सू.५.२.१३. ] एकेन कृतकत्वाद् इतरस्य आनर्थक्यमिति तदेतन्नियमाभ्युपगमे वेदितव्यम्। यत्रैकसाधनवाक्यप्रयोगपूर्वको विचारस्तत्राधिकाभिधानमनर्थकमिति निग्रहस्थानम्।

प्रपञ्चकथायां तु न कश्चिदोषः, नियमाभावादिति।



७१. [१३.] "शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्।" [न्या.सू. ५.२.१४] शब्दपुनरुक्तम् - अनित्यः शब्दोऽनित्यः शब्द इति। अर्थपुनरुक्तम् ‍अनित्यः शब्दो निरोधधर्मको ध्वान इति।

अत्र न शब्दपुनरुक्तं पृथग्वाच्यम्: अर्थपुनरुक्तवचनेनैव गतत्वात्। न ह्यर्थभेदे शब्दसाम्येऽपि कश्चिद् दोषः। यथा-

हसति हसति स्वामिन्युच्चै रुदत्यभिरोदिति।

कृतिपरिकरं स्वेदोऽङ्गारं [स्वेदोद्गारं ?] पूर्धावति [प्रधावति ?] धावति॥

गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति।

धनलवपरिक्रीतं यन्त्रं प्रनृत्यति नृत्यति॥

यथा वा- यद्यस्मिन् सति भवति भवति, न भवति न भवति तत्तस्य कार्यमितरत् कारणमिति।



७२. गम्यमानार्थं पुनर्वचनमपि पुनरुक्तम्; नियतप्रदप्रयोगे साधनवाक्ये यथा प्रतिज्ञावचनमिति अर्थपुनरुक्तेनैव गतार्थत्वान्न पृथग्वाच्यम्।

अयमपि नियतसाधनवाक्ये एव दोषो वक्तव्यः; न विस्तरकथायाम्। व्याचक्षाणो हि कदाचिदसम्यक् श्रवणप्रतिपत्तिशङ्कया साक्षिप्रभृतीनां पुनः पुनर्ब्रूयादिति न तत्र किञ्चिच्छलम्।

नाविषयत्वादिति चेत्; नायं गुरुर्न शिष्य इति न यत्नतः प्रतिपादनीयः, येन पुनः पुनरुच्यते, इति पुनर्वचने निग्रह एवेति चेत्। न; साक्षिणां यत्नेन प्रतिपाद्यत्वात्, तद्प्रतिपादने दोषाभिधानात्, प्रतिपाद्यस्य शिष्यत्वात्, विजिगीशुवादप्रतिषेधत्वात्, त्रिरभिधानवचनात्, पुनर्वचनप्रसङ्गे समयनियमाभावाच्च।



७३. न चेदमधिकाद् भिद्यते इति न पृथग्वाच्यम्। विनियतप्रदप्रयोगे हि साधनवाक्ये आधिक्यदोष इति पुनर्वचनेऽपि गतार्थस्याधिक्यमेव पदस्येति।

प्रपञ्चकथायाम् अनिरूपितै कार्थसाधनाधिकरणायां नानार्थसाधनेप्सायां नानासाधनेप्सायां वा श्रोतुः हेत्वादि बाहुल्यस्य पुनर्वचनस्य दोषत्वात्। प्रतीतप्रत्ययाभावाद् हेत्वादिबाहुल्यं वचनबाहुल्यं च साधनदोष इति।

आधिक्यपुनर्वचनयोस्तुल्यदोष इति संग्रहवचनं न्याय्यम्; दोषाभावादेव गुणाभावात्, एवम्प्रकाराणां भेदानां वचने चातिप्रसङ्गादित्युक्तम्।

पर्यायशब्दकल्पो ह्यपरो हेतुः प्रतिपादिते विषये प्रवर्तमानः' प्रतिपाद्यस्य विशेषाभावात्।

अर्थः पुनः प्रतिपादनान्न भिद्यते।



७४. यत्पुनरुक्तम्- "अनुवादे त्वपुनरुक्तं; शब्दाभ्यासादर्थविशेषोपपत्तेः"। यथा "हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्" [न्य. सू. १.१.३९] इति। प्रतिज्ञाया एवं [एव?] गम्यमानार्थाया वचनं पुनर्वचनं. किं पुनरस्याः पुनर्वचनम् इत्युयुक्तं निगमनम्।



७५. [१४.] "विज्ञातस्य पर्षदा त्रिरभिहितस्याप्रत्युच्चारणमननुभाषणम्।" [न्या.सू. ५.२.१७] विज्ञातवाक्यार्थस्य पर्षदा त्रिरभिहितस्य यदप्रत्युच्चारणं तदननुभाषणं नाम निग्रहस्थानमप्रत्युच्चारयन् किमाश्रयं परपक्षप्रतिषेध कुर्यादिति।



उत्तरेणावसानान्नेदं निग्रहस्थानमिति चेत्। स्यादेतत्। उत्तरेण गुणदोषवता मूढामूढत्वं गम्यते इति किमुच्चारितेन ? अस्ति हि कश्चिद् उत्तरेण समर्थो न प्रत्युच्चारणेन, नासौ तावता निग्रहमर्हेदिति। न: उत्तरविषयापरिज्ञानात्। यद्ययं न प्रत्युच्चारयति, निर्विषयमुत्तरं प्रसज्येत। अथोत्तरं ब्रवीति, कथं नोच्चारयति ? तदिदं व्याहतमुच्यते- 'नोच्चारयति, उत्तरं च ब्रवीति' इति। अप्रतिज्ञानाच्च। न चेदं न [? न चेदं ] परिज्ञायते- पूर्वं सर्वमुच्चारयितव्यं पश्चादुत्तरमभिधातव्यमिति। अपितु यथाकथञ्चिदुत्तरं वाच्यम् उत्तरं चाश्रयाभावेऽयुक्तमिति युक्तमप्रत्युच्चारणं निग्रहस्थानमिति।



७६. यदि नाम वादी स्वस् आधनार्थविवरणव्याजेन प्रसङ्गादपरं घोषयेद्, विवादास्पदं च जिज्ञासितमर्थमात्रमुक्‍त्त्वा प्रतिज्ञादिष्वर्थविशेषपरम्परया अपरानर्थानुपक्षिप्य कथां विस्तारयेत्, तच्च सर्वं यदा नानुवक्तुं शक्नुयात्, कस्तस्य विवादाश्रयार्थमात्रोत्तरवचने सामर्थ्यविघातः येन वादिवचनानुभाषणं निग्रहस्थानमुच्यते। तस्मान्न सर्वं वादिकथामननुभाषमाणो नोत्तरे समर्थः।



यद्वचनान्तरीयका जिज्ञासितार्थसिद्धिः, यथा पक्षधर्मताव्याप्तिप्रसाधनमात्रं, न तत्रापि प्रसङ्गान्तरोपक्षेपः, तदवश्यं साधनाङ्गविषयत्वाद् दूषणस्य उपदर्श्यत एव। तत्रापि न सर्वं प्रागनुक्रमेणोच्चारयितव्यं, पश्चाद् दूषणं वाच्यं; द्विरुच्चारणप्रसङ्गात्। दूषणविषयोपदर्शनार्थेऽनुभाषणे वादिवचनानुक्रमघोषणं व्यर्थमिति न कार्यमेव दूषयता। 'अस्यायं दोषोः' इति नान्तरीयत्वात् प्रतिदोषवचनं विषयोपदर्शनं क्रियते एव।



७७. न हि सर्वविषयोपदर्शनं कृत्वा युगपद् दोषः शक्यतेऽभिधातुम्; प्रत्यर्थं दोषभेदात्। तस्माद् यं पदार्थं दूषयति, स एव तद्दूषणविषयस्तदा प्रदर्शनीयः। नापरस्तुः; दूष्णेऽपरोपदर्शनस्यासम्भवात्। तस्मिन् दूषिते पुनरन्योऽर्थोऽपरदोषविषय इत्ययमनुभाषणे दूषणे च न्यायः।





सकृत् सर्वानुभाषणेऽपि दोषवचनकाले पुनर्विषयः प्रदर्शनीय एव; अप्रदर्शिते दोषस्य वक्तुमशक्यत्वात्। तथा च द्विरनुभाषणं कृतं स्यात्। तत्र प्रथमं सर्वानुक्रमानुभाषणं निष्प्रयोजनम्। दूषणवादिना दूषणे वक्तव्ये यन्न तत्रोपयुज्यते तस्याभिदानमदोषोद्भावनम्। द्विरुक्तिश्च। इति सकृत् सर्वानुभाषणं पराजयाधिकरणं वाच्यम्।



तथाऽस्त्विति चेत्। स्यादेतत्। उक्तमेतदर्थान्तरं निग्रहस्थानमिति। तत्र साधने यतः कुतश्चित् प्रसङ्गादिना नान्तरीयकाभिधान। [ऽनान्तरीयकाभिधानं ?] वादिनोऽर्थान्तरगमनमेवेति स निग्रहार्हः। न कश्चित् क्वचित् क्रियमाणप्रसङ्गो न प्रयुज्यते, नापि तत् तस्यानुभाषणीयम्। न चेदमप्यस्माभिरनुज्ञायते- सर्वं प्राक् सकृद्वक्तव्यं, पश्चाद्दूषणमिति। किन्तु दूषयताऽवश्यं विषयो दर्शनीयः, अन्यथा दूषणावृत्तेरिति।



७८. एवं तर्हि नाननुभाषणं पृथग् निग्रहस्थानं वाच्यम्, अप्रतिभया गतत्वात्। उत्तरस्य ह्यप्रतिपत्तिरप्रतिभा [न्या.सू. ५.२.१८]। न चोत्तरविषयमप्रदर्शयन् उत्तरं प्रतिपत्तुं सरर्थः। न ह्यनाक्षिप्तानुत्तरप्रतिपत्तिकमननुभाषणम्। तेनाननुभाषणस्य व्यापिकायामप्रतिभायां विहितं निग्रहस्थानत्वम् अननुभाषणम् [अननुभाषणे?]। गव्यपरामृष्टतद्भेदायां विहितमिव सास्नादिमत्त्वं बाहुलेयेऽपि। तस्माद्प्रतिभैव निग्रहाधिकरणत्वेन वा [वाच्या?] नाननुभाषणम्।



कश्चायंसमयनियमस्त्रिरभिहितस्याननुभाषणमिति ? यदि तावत् परप्रत्यायनार्था प्रवृत्तिः, किं त्रिरभिधीयेत ? तथा तथा स ग्राहणीयो यथाऽस्य प्रतिपत्तिर्भवति। अथ परोपतापनार्था तदापि किं त्रिरभिधीयते ? साक्षिणां कर्णे निवेद्य प्रतिवादी कष्टाप्रतीतद्रुतसंक्षिसादिभिरुपद्रोतव्यः, यथोत्तरप्रतिपत्तिविमूढस्तूष्णीम्भवति। न हि परोपतापनक्रमे कश्चिन्न्यायः, येन कष्टाप्रतीतप्रयोगद्रुतोच्चारिता निवार्यन्ते, त्रिरभिधानं वा विधीयते। न च परोपतापाय सन्तः प्रवर्तन्ते, शास्त्राणि वा प्रणीयन्ते इत्यदो वक्‍त्तव्यम् ! तस्मात्तावद्वक्तव्यं, यावदनेन न गृहीतम्। न त्रिरेव।



अग्रहणसामर्थ्ये प्रागेव वा परिच्छिन्नसामर्थ्ये परिहर्तव्यः पुनरनुप्रतिबोध्येति।



७९. [१५.] "अविज्ञातमज्ञानम्।" [न्या.सू. ५.२.१७] विज्ञातं पर्षदा प्रतिवादिना यदविज्ञातं तदज्ञानं नाम निग्रहस्थानम्। अर्थे खल्वविज्ञाते न तस्य प्रतिषेधं ग्रूयादिति।



एतदप्यननुभाषणवदत्रेति तत्रैव गम्यत्वादवाच्यम्। यथाऽननुभाषणेऽप्रदर्शितविषयत्वादुत्तरप्रतिपत्तिरशक्येति अनुत्तरप्रतिपत्त्यैव निग्रहस्थानत्वम्; उत्तरविषयप्रदर्शनप्रसङ्गमन्तरेणानुभाषणस्य वैयर्थ्यात्।



तथाऽज्ञानेऽप्युत्तराप्रतिपत्त्यैव निग्रहस्थानत्वम्। अजानानः कथमुत्तरम् उत्तरविषयं च ब्रूयात् ? इति विषयाज्ञानमुत्तराज्ञानं च निग्रहस्थानम्। अन्यथा एवं सति अप्रतिभया [? अप्रतिभाया] निर्विषयत्वात्।



अनवधारितार्थो हि नानुभाषते, अननुभाषमाणो विषयमुपदर्श्योत्तरं प्रतिपत्तुं न शक्नुयादित्युत्तरं न प्रतिपद्येत; ज्ञातोत्तरतद्विषयस्योत्तराप्रतिपत्तेरसम्भवात्। उभयमेतदुत्तराप्रतिपत्तेः कारणमिति।



तदभावे प्रतिपत्तिर्भवत्येवेति तयोः पृथग्वचनेऽप्रतिभायाः को विषय इति वक्तव्यम् ! निर्विषयत्वादवाच्यैव स्यात्।



८०. नोत्तरज्ञानम् [? नोत्तराज्ञानम्] अज्ञानम्। किं तर्हि ? विषयाज्ञानम्। ज्ञाते हि विषये उत्तराज्ञानात् तन्न प्रतिपद्येतेति अस्ति विषयोऽप्रतिभाया इति चेत्। एवं तर्हि अननुभाषणं निर्विषयम्; अज्ञानेनाक्षेपात्। न हि विषयं सम्यक् प्रतिपद्यमानः कश्चिन्नानुभाषेतेति नाननुभाषणं पृथग् वाच्यम्।



उत्तराज्ञानस्य चाक्षेपात्। विषयाज्ञानेनोत्तराज्ञानमप्याक्षिप्तमेव न हि विषयमजानन्नुत्तरं जानातीति नैवाप्रतिभाया विषयोऽस्ति।



ज्ञातेऽपि विषये पुनरुत्तराज्ञानमप्रतिभाया विषय इति चेत्। एवं तर्हि विषयोत्तराज्ञानयोरपि प्रभेदात् निग्रहस्थानान्तरालवाच्यानि [निग्रहस्थानान्तराणि वाच्यानि ?]। यथाऽज्ञानस्य विषयो ज्ञानम् [? विषयाज्ञानम् ] उत्तराज्ञानमिति प्रभेदादसत्यपि गुणातिशये निग्रहस्थानान्तरव्यवस्था क्रियते, तथाऽज्ञानयोरपि सर्वोत्तराज्ञानमित्यादि प्रभेदान्निग्रहस्थानान्तराणि किं नोच्यन्ते ? न चोभयस्याप्यज्ञानस्य संग्रहवचने दोषः, गुणस्तु लाघवसंज्ञः स्यादिति संग्रहवचनं न्याय्यम्। तस्मादननुभाषणाज्ञानयोरप्रतिभाविषयत्वान्न पृथग्वचनम्।

अपि च - न पूर्वोत्तरपक्षवादिनो हेत्वाभासाप्रतिभाभ्यामन्यत् निग्रहस्थानं न्याय्यमस्ति, तदुभयवचनेनैव सर्वमुक्तमिति। तदुभयाक्षिसेषु प्रभेदेषु गुणातिशयमन्तरेण वचनादरेऽतिप्रसङ्गात् व्यर्थः प्रपञ्च इति।



८१. [१६.] "उत्तरस्याप्रतिपत्तिरप्रतिभा।" [न्या.सू. ५.२.१८] परपक्षप्रतिषेधे उत्तरं यदा न प्रतिपद्यते, तदा निगृहीतो वक्तव्यः।

साधनवचनानन्तरं प्रतिविषयमुत्तरे व्यर्थं तदज्ञानक्रमघोषणश्लोकपाठादिना कालं गमयन् कर्तव्याप्रतिपत्त्या निग्रहार्ह इति न्याय्यं निग्रहस्थानमिति।



८२. [१७.] "कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः।" [न्या. सू. ५.२.२०] यत्किञ्चित् कर्तव्यं व्यासज्य कथां विच्छिनत्ति। 'इदं मे करणीयं प्रहीयते, अस्मिन्नवसिते पश्चात् करिष्यामि। प्रतिश्याकलामे कण्ठं क्षिणोति' - इत्येवमादिना कथां विच्छिनत्ति। स विक्षेपो नाम निग्रहस्थानमेकतरनिग्रहान्तायां कथायां स्वयमेव कथान्तं प्रतिपद्यते इति।

इदमपि यदि पूर्वपक्षवादी कुर्याद् व्याजोपक्षेपमात्रेण, न पुनर्भूतस्य तथाविधकथोपरोधिनः कर्यस्य भावे, तस्य स्वसाधनासामर्थ्यपरिच्छेदादेव विक्षेपः स्यात्। तथा चेदमर्थान्तरगमने एवान्तर्भवेत्; असमर्थसाधनाभिधानात् हेत्वाभासेषु वा। प्रकृतसाधनासम्बद्धप्रतिपत्तेश्च निरर्थकापार्थकाभ्यां च न भिद्यते। अतिप्रसङ्गश्चैवम्प्रकाराणामसम्बद्धसाधनवाक्यप्रतिपत्तिभेदानां पृथग् निग्रहस्थानव्यवस्थापने प्रोक्तः।

अथोत्तरवादी एवं विक्षिपेत्, साधनानन्तरम् उत्तरे प्रतिपत्तव्ये तदप्रतिपत्त्या विक्षेपप्रतिपत्तिरप्रतिभायामर्थान्तरे वाऽन्तर्भवति।

८३. ननु नावश्यं साधनदूषणाभ्यामेव सर्वस्य प्रतिपत्तिः, येन सर्वा वादिप्रतिवादिनोर्न सम्यक् प्रतिपत्तेर्हेत्वाभासेऽर्थे प्रतिभायां वान्तर्भवात्। भवति हि अनिबद्धेनापि कथाप्रपञ्चेन विवाद इति। न; असम्भवात्। एकत्राधिकरणे विरुद्धाभ्युपगमयोर्विवादः स्यात्; अविरुद्धाभ्युपगमयोरनभ्युपगमयोर्वा विरोधाभावात्। तत्रावश्यमेकस्य वाग्वचनप्रवृत्तिः; युगपत्प्रवृत्तौ परस्परवचनग्रहणावधारणोत्तराणामसम्भवेन प्रवृत्तिवैफल्यात् स्वस्थात्मनामप्रवृत्तेः। तेन च स्वोपगमोपन्यासेऽवश्यं साधनं वक्तव्यं; अन्यथा परेषामप्रत्तिपत्तेः। अपरेण च तत्सम्बन्धि दूषणम्। उभयोरसम्यक्प्रतिपत्तौ हेत्वाभासाप्रतिभयोः प्रसङ्ग इति सर्वो न्यायप्रवृत्तः पूर्वोत्तरपक्षोपन्यासो द्वयं नातिपतति।

एतेनैव वितण्डा प्रत्युक्ता; अभ्युपगमाभावे विवादाभावात्।



८४. यदा तर्ह्यभ्युपगम्य वादं विफलतया न किञ्चिद् वक्ति, अन्यद्वा यत्किञ्चित् प्रलपति, तदा कथं हेत्वाभासान्तर्भावः ?

असमर्थितसाधनाभिधाने एवमुक्तम्। अनभिधानान्याभिधानयोरपि पराजय एवेत्युक्तम्; अभ्युपगम्य वादमसाधनाङ्गवचनात्।

एतेनाधिकस्य पुनरुक्तस्य च प्रतिज्ञादेर्वचनस्य न निग्रहस्थानत्वं व्याख्यातम्। तदपि हि प्रतिपादितार्थविपर्ययत्वात्साधनसामर्थ्यविधानमप्रतीतप्रत्ययतया न लक्षणात् साधनस्य। असाधनाङ्गवचनमिति निग्रहस्थानमिति।



८५" [१८.] :स्वपक्षदोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा।" [न्या. सू. ५.२.२१] यः परेण चोदितं दोषमनुद्‍धृत्य भवतोऽप्ययं दोष इति ब्रवीति, यथा - 'भवांश्चौरः पुरुषत्वात्' इत्युक्ते स तं प्रति ब्रूयाद्-भवानपीति। स स्वपक्षे दोषाभ्युपगमात् परपक्षे तं दोषं प्रसञ्जयन् परमतमनुजानातीति मतानुज्ञा निग्रहस्थानमिति।

अत्रापि यदि पुरुषत्वाच्चौरो भवानपि स्यात्, न च भवतात्मैवमिष्टः, तस्मान्नायं चौर्यहेतुरिति यद्ययमभिप्रायः, तदा न कश्चिद्दोषः, अनभिमते तदात्मनि चौरत्वेन हेतुदर्शने दूषणात्।

प्रसङ्गमन्तरेणैवमृजुनैव क्रमेण किं न व्यभिचारित इति चेत्। यत्किञ्चिदेतत्। सन्ति ह्येवम्प्रकारा अपि व्यवहारा लोक इति।

अथ तदुपक्षेपमभ्युपगच्छति, एतदपि उत्तराप्रतिपत्त्यैव तत्साधने निग्रहार्हः। नापरत्र; स्वदोषोपक्षेपात्। तत्साधननिर्दोषतायां हि तदभ्युपगम एवोत्तराप्रतिपत्तिरिति तावतैव पूर्वमापन्ननिग्रहस्य परदोषोपक्षेपस्यानपेक्षणीयत्वादिति।



८६. [१९.] : निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपक्षणम्।" [न्या.सू. ५.२.२२]पर्यनुयोज्यो गाम निग्रहोपपत्त्या चोदनीयः। तस्योपेक्षणं निग्रहप्राप्तौ सत्यननुयोगः। एतच्च 'कस्य पराजयः' इत्यनुयुक्तया पर्षदा वक्तव्यं, न खलु निग्रहप्राप्तः स्वकौपीनं विवृणुयादिति।

अत्रापि यदि साधनवादिनं निग्रहप्राप्तमुत्तरवादी न पर्यनुयुङ्क्ते, अप्रति-भैवास्योत्तराप्रतिपत्तेरिति न पर्यनुयोज्योपेक्षणं पृथग् निग्रहस्थानम्। न्यायचिन्तायां पुनर्न द्वयोरेकस्याप्यत्र जयपरजाजयौ; साधनाभासेनार्थाप्रतिपादनात्, भूतदोषानभिधानाच्च।



८७. अथ कञ्चिद्दोषमुद्भावयति, कञ्चिन्न, न तदा निग्रहमर्हति; उत्तरप्रतिपत्तेः। अर्हत्येव, सतो दोषस्यानुद्भावनादिति चेत्। न सन्त इति कृत्वा सर्वे दोषा अवश्यं वक्तव्याः।

अवचने वा निग्रहः; एकेनापि तत्साधनविघातादेकसाधनवचनवत्।

यथैकस्यार्थस्यानेकसाधनसद्भावेऽप्येकेनैव साधनेन तत्सिद्धेर्न सर्वोपादानम् इति न दोषमुद्भावयन्नेवापरस्यानुद्भावनान्निग्रहार्हः पूर्ववत्।

अथ पूर्वपक्षवादी उत्तरपक्षवादिनं निग्रहप्राप्तं न निगृण्हाति, तदा तयोर्न्याये नैकस्यापि पूर्ववत् जयपराजयौ; दोषाभासं ब्रुवाणमुत्तरवादिनं स्वसाधनादनुत्सारयतोऽसमर्थितसाधनत्वान्न जयो वादिनः; सर्वदोषासम्भवप्रदर्शनेन साधनाङ्गासमर्थनात्। नाप्युत्तरवादिनः, उभयदोषाप्रतिपादनात्।

तस्मादेवमपि न पर्यनुयोज्योपेक्षणं नाम पराजयाधिकरणमिति।

८८. [२०.] "अनिग्रहस्थाने निग्रहस्थानानुयोगो निरनुयोज्यानुयोगः।" [न्या. सू. ५.२.२३] निग्रहस्थानलक्षणस्य मिथ्याव्यवसायादनिग्रहस्थाने निगृहीतोऽसीति परं ब्रुवन् निरनुयोज्यानुयोगान्निगृहीतो वक्तव्यः।



अत्रापि यदि तत्साधनवादिनमभूतैस्तद्दोषैरुत्तरवाद्यभियुञ्जीत, सोऽस्थाने निर्दोषे निग्रहस्थानस्य नियोक्तोद्भावयिता न भवति तथा। भूतदोषोद्भावनलक्षणस्योत्तरस्या-प्रतिपत्तेरितरेणोत्तराभासत्वे प्रतिपादितेऽप्रतिभयैव निगृहीत इति नेदमतो निग्रहस्थानान्तरम्।



अथोत्तरवादिनं साधनदोषमुद्भावयन्तमपरो दोषाभासवचनेनाभियुञ्जीत, तस्य तेन भूतदोषत्वे प्रतिपादिते साधनाभासवचनेनैव निगृहीत इति।



एवमपि नेदं हेत्वाभासेभ्यो भिद्यते। अवश्यं हि विषयान्तरप्राप्त्यर्थं हेत्वाभासा निग्रहस्थानत्वेन वक्तव्याः, तदुक्तावपरोक्तिरनर्थिकेति।



८९. [२१.] "सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः।" [न्या. सू. ५.२.२४] कस्यचिदर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययात् कथाप्रसङ्गं कुर्वतोऽपसिद्धान्तो विज्ञेयः। तथा 'न सतो विनाशः, नासदुत्पद्यते' इति सिद्धान्तमभ्युपेत्य पक्षमवस्थापयति - 'एकान्ता प्रकृतिः व्यक्तस्य अव्यक्तलक्षणा; विकाराणाम् अन्वयदर्शनात्। मृदन्वयानां शरावादीनां दृष्टमेकप्रकृतिकत्वम्। तथा चायं व्यक्तभेदः सुखदुःखमोहसमन्वितो गृह्यते, तत्सुखादिभिरेकप्रकृतिः' इति।

स एवमुक्तवान् पर्यनुयुज्यते - अथ प्रकृतिर्विकार इति कथं लक्षयितव्यम् ? यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते सा प्रकृतिः, यत् तद् धर्मान्तरं स विकार इति। सोऽयं प्रकृतार्थविपर्ययादनियमात् कथां प्रसञ्जयति। प्रतिज्ञातं चानेन - 'नासदाविर्भवति, न सत् तिरोभवति' इति।



९०. सदसतोश्च तिरोभावाविर्भावावन्तरण न कस्यचित् प्रवृत्त्युपरमः, प्रवृत्तिर्वा-इत्येवं प्रत्यवस्थिते यदि स सत आत्महानमसतश्चात्मलाभमभ्युपैति, अपसिद्धान्तो भवति। अथ नाभ्युपैति, पक्षोऽस्य न सिध्यतीति।



इतोऽपिन कश्चिदनियमात् कथाप्रसङ्गो यत्तेनोपगतं नासदुत्पद्यते न सद्विनश्यति' इति तस्य समर्थनायेदमुक्तम् 'एकप्रकृतिकमिदं व्यक्तमन्वयदर्शनाद्' इति। तत्रैका प्रकृतिः सुखदुःखमोहास्तदविभक्तयोनिकम् इदं व्यक्तं, तदन्वयदर्शनात्। व्यक्तस्य तत्स्वभावताऽभेदोपलब्धेरिति।

सुखादीनामुत्पत्तिविनाशाभ्युपगमाभावात् सर्वस्य तदात्मकस्य नोत्पत्ति-विनाशाविति सिद्धं भवति।



९१. अत्र तदुक्तस्य हेतोर्दोषमनुद्भाव्य विकारप्रकृतिलक्षणं पृच्छन् स्वयमयं प्रकृतासम्बन्धेन अनियमात् कथां प्रवर्तयति। तत्रेदं स्याद् वाच्यं - व्यक्तं नाम प्रवृत्तिनिवृत्तिधर्मकं, न तथा सुखादयः, व्यक्तस्य सुखाद्यन्वये सुखादिस्वभावता प्रवृत्तिनिवृत्तिधर्मतालक्षणमवहीयत इति। न तद्रहितसुखादिस्वभावता, व्यक्तलक्षणविरोधादिति, सुखाद्यन्वयदर्शनादित्यसिद्धो हेतुरिति।

एवं हि तस्य साधनदोषोद्भावनेन पक्षो दूषितो भवति। सोऽनुपसंहृत्य साधनदोषं, कथां प्रतानयन् स्वदोषं परत्रोपक्षिपति।

अयमेव दोषोऽनेन प्रकारेणोच्यते इति चेत्।

एष नैमित्तिकानां विषयः, न लोकः शब्दैरप्रतिपादितमर्थं प्रतिपत्तुं समर्थ इति, स एवायं भण्डालेख्यन्यायोऽत्रापि।

यथोक्तेन न्यायेन पूर्वकस्यासाधनाङ्गस्यासिद्धस्य हेतोरभिधानादेव निग्रहः, नापि नियमात् [अनियमात्?] कथाप्रसङ्गात् इति इदमपि हेत्वाभासेष्वन्तर्भावात् न पृथग्वाच्यम्।



९२. [२२.] "हेत्वाभासाश्चयथोक्ताः।" [न्या.सू. ५.२.२५] हेत्वाभासाश्च नित्रहस्थानानि। किं पुनर्लक्षणान्तरयोगाद् हेत्वाभासा निग्रहस्थानत्वमापद्यन्ते, यथा प्रमाणानि प्रमेयत्वम् ? इत्यत आह यथोक्तहेत्वाभासलक्षणेनैव निग्रहस्थानभाव इति।

अत्रापि यथोक्तत्वाच्चिन्त्येमेव - किं ते यथा लक्षितप्रभेदास्तथैव, आहोस्विदन्यथैवेति ? तत्तु चिन्त्यमानमिहातिप्रसज्यते इति न प्रतन्यते। हेत्वाभासाश्च यथान्यायं निग्रहस्थानमिति, एतावन्मात्रमिष्टमिति।



९३. लोकेऽविद्यातिमिरपटलोल्लेखनस्तत्त्वदृष्टे -

र्वादन्यायः परहितरतैरेष सद्भिः प्रणीतः।

तत्त्वालोकं तिमिरयति तं दुर्विदग्धो जनोऽयं,

तस्माद्यत्नः कृत इह मया तत्समुज्ज्वालनाय॥

वादन्यायो नाम प्रकरणं समाप्तम्।



[कृतिरियमाचार्यधर्मकीर्तिचरणानाम्]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project