Digital Sanskrit Buddhist Canon

वज्रसूची

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Vajrasūcī
वज्रसूची



जगद्गुरुं मञ्जुघोषं नत्वा वाक्कायचेतसा।

अश्वघोषो वज्रसूचीं सूत्रयामि यथामतम्॥१॥



वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम्।

यस्य प्रमाणं न भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम्॥२॥



सप्तव्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ।

चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे॥३॥

तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः॥४॥



अधीत्य चतुरो वेदान् साङ्गोपाङ्गेन तवत्त्तः।

शूद्रात्प्रतिग्रहग्राही ब्राह्मणो जायते खरः॥५॥



खरो द्वादशजन्मानि षष्ठिजन्मानि शूकरः।

श्वानः सप्ततिजन्मानि-इत्येवं मनुरब्रवीत्॥६॥



हस्तिन्यामचलो जात उलूक्यां केशपिङ्गलः।

अगस्त्योऽगस्तिपुष्पाच्च कौशिकः कुशसम्भवः॥७॥



कपिलः कपिलाज्जातः शरगुल्माच्च गौतमः।

द्रोणाचार्यस्तु कलशात्तित्तिरिस्तित्तिरीसुतः॥८॥



रेणुकाऽजनयद्राममृष्यशृङ्गमुनिं मृगी।

कैवर्तिन्यजनयद् व्यासं कुशिकं चैव शूद्रिका॥९॥



विश्वामित्रं च चण्डाली वसिष्ठं चैव उर्वशी।

न तेषां ब्राह्मणी माता लोकाचाराच्च ब्राह्मणाः॥१०॥



सद्यः पतति मांसेन लाक्षया लवणेन च।

त्र्यहाच्छूद्रश्च भवति ब्राह्मणः क्षीरविक्रयी॥११॥



आकाशगामिनो विप्राः पतन्ति मांसभक्षणात्।

विप्राणां पतनं दृष्ट्वा ततो मांसानि वर्जयेत्॥१२॥



ब्राह्मणत्वं न शास्त्रेण न संस्कारैर्न जातिभिः।

न कुलेन न वेदेन न कर्मणा भवेत्ततः॥१३॥



निर्ममो निरहङ्कारो निःसङ्गो निष्परिग्रहः।

रागद्वेषविनिर्मुक्तस्तं देवा ब्राह्मणं विदुः॥१४॥



सत्यं ब्रह्म तपो ब्रह्म ब्रह्म चेन्द्रियनिग्रहः।

सर्वभूते दया ब्रह्म एतद् ब्राह्मण लक्षणम्॥१५॥



सत्यं नास्ति तपो नास्ति नास्ति चेन्द्रियनिग्रहः।

सर्वभूते दया नास्ति एतच्चाण्डाललक्षणम्॥१६॥



देवमानुषनारीणां तिर्यग्योनिगतेष्वपि।

मैथुनं नाधिगच्छन्ति ते विप्रास्ते च ब्राह्मणाः॥१७॥



न जातिर्दृश्यते तावद् गुणाः कल्याणकारकाः।

चण्डालोऽपि हि तत्रस्थस्तं देवा ब्राह्मणं विदुः॥१८॥



वृषलीफेनपीतस्य निःश्वासोपहतस्य च।

तत्रैव च प्रसूतस्य निष्कृतिर्नोपलभ्यते॥१९॥



शूद्रीहस्तेन यो भुंक्ते मासमेकं निरन्तरम्।

जीवमानो भवेच्छूद्रो मृतः श्वानश्च जायते॥२०॥



शूद्रीपरिवृतो विप्रः शूद्री च गृहमेधिनी।

वर्जितः पितृदेवेन रौरवं सोऽधिगच्छति॥२१॥



अरणीगर्भसम्भूतः कठो नाम महामुनिः।

तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्॥२२॥



कैवर्तीगर्भसम्भूतो व्यासो नाम महामुनिः।

तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्॥२३॥



उर्वर्शीगर्भसम्भूतो वसिष्ठोऽपि महामुनिः।

तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्॥२४॥



हरिणीगर्भसम्भूत ऋष्यश्रृङ्गो महामुनिः।

तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्॥२५॥



चण्डाली गर्भसम्भूतो विश्वामित्रो ? महामुनिः।

तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्॥२६॥



ताण्डूलीगर्भसम्भूतो नारदो हि महामुनिः।

तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्॥२७॥



जितात्मा यतिर्भवति..................... जितेन्द्रियः।

[यतात्मा यतिर्भवति विजितात्मा (जितात्मा च) जितेन्द्रियः।]

तपसा तापसो जातो ब्रह्मचर्येण ब्राह्मणः॥२८॥



न च ते ब्राह्मणीपुत्रास्ते च लोकस्य ब्राह्मणाः।

शीलशौचमयं ब्रह्म तस्मात्कुलम कारणम्॥२९॥



शीलं प्रधानं न कुलं प्रधानं कुलेन किं शीलविवर्जितेन।

बहवो नरा नीचकुल प्रसूताः स्वर्गं गताः शीलमुपेत्य धीराः॥३०॥



मुखतो ब्राह्मणो जातो बाहुभ्यां क्षत्रियस्तथा।

उरुभ्यां वैश्यः संजातः पद्भ्यां शूद्रक एव च॥३१॥



पाण्डोस्तु विश्रुतः पुत्रः स वै नाम्ना युधिष्ठिरः।

वैशम्पायनमागम्य प्राञ्जलिः परिपृच्छति॥३२॥



के च ते ब्राह्मणाः प्रोक्ताः किं वा ब्राह्मणलक्षणम्।

एतदिच्छामि भो ज्ञातुं तद् भवान् व्याकरोति मे॥३३॥



क्षान्त्यादिभिर्गुणैर्युक्तस्त्यक्त दण्डो निरामिषः।

न हन्ति सर्वभूतानि प्रथमं ब्रह्मलक्षणम्॥३४॥



यदा सर्वं पर-द्रव्यं पथि वा यदि वा गृहे।

अदत्तं नैव गृह्णाति द्वितीयं ब्रह्मलक्षणम्॥३५॥



त्यक्त्वा क्रूरस्वभावं तु निर्ममो निष्परिग्रहः।

मुक्तश्चरति यो नित्यं तृतीयं ब्रह्मलक्षणम्॥३६॥



देवमानुष नारीणां तिर्यग्योनिगतेष्वपि।

मैथुनं हि सदा त्यक्तं चतुर्थं ब्रह्मलक्षणम्॥३७॥



सत्यं शौचं दया शौचं शौचमिन्द्रियनिग्रहः।

सर्वभूत दया शौचं तपः शौचञ्च पञ्चमम्॥३८॥



पञ्चलक्षणसम्पन्न ईदृशो यो भवेद् द्विजः।

तमहं ब्राह्मणं ब्रूयां शेषाः शूद्रा युधिष्ठिर॥३९॥



न कुलेन न जात्या वा क्रियाभिर्ब्राह्मणो भवेत्।

चण्डालोऽपि हि वृतस्थो ब्राह्मणः स युधिष्ठिर॥४०॥



अहिंसा ब्रह्मचर्यं च विशुद्धाच्च प्रतिग्रहः।

फलेन न समर्थं च ब्राह्मणः स्याद्युधिष्ठिर॥४० अ॥



एकवर्णमिदं पूर्वं विश्वमासीद्युधिष्ठिर।

कर्मक्रियाविशेषेण चातुर्वर्ण्यं प्रतिष्ठितम्॥४१॥



सर्वे वै योनिजा मर्त्याः सर्वे मूत्रपुरीषिणः।

एकेन्द्रियेन्द्रियार्थाश्च तस्माच्छीलगुणैर्द्विजाः॥४२॥



शूद्रोऽपि शीलसम्पन्नोगुणवान् ब्राह्मणो भवेत्।

ब्राह्मणोऽपि क्रियाहीनः शूद्रात्प्रत्यवरो भवेत्॥४३॥



पञ्चेन्द्रियार्णवं घोरं यदि शूद्रोऽपि तीर्णवान्।

तस्मै दानं प्रदातव्यमप्रमेयं युधिष्ठिर॥४४॥



न जातिर्दृश्यते राजन् गुणाः कल्याणकारकाः।

जीवितं यस्य धर्मार्थे परार्थे यस्य जीवितम्।

अहोरात्रं चरेत्क्षान्तिं तं देवा ब्राह्मणं विदुः॥४५॥



परित्यज्य गृहावासं ये स्थिता मोक्षकाक्षिणः।

कामेष्वसक्ताः कौन्तेय ब्राह्मणास्ते युधिष्ठिर॥४६॥



अहिंसानिर्ममत्वं चा मत्कृत्यस्य वर्जनम्।

रागद्वेषनिवृत्तिश्च एतद् ब्राह्मणलक्षणम्॥४७॥



क्षमा दया दमो दानं सत्यं शौचं स्मृतिर्घृणा।

विद्या विज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम्॥४८॥



गायत्रीमात्र सारोऽपि वरं विप्रः सुयन्त्रितः।

नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी॥४९॥



एकरात्रोषितस्यापि या गतिर्ब्रह्मचारिणः।

न तत्क्रतुसहस्रेण प्राप्नुवन्ति युधिष्ठिर॥५०॥



पारगं सर्ववेदानां सर्वतीर्थाभिषेचनम्।

मुक्तश्चरति यो धर्मं तमेव ब्राह्मणं विदुः॥५१॥



यदा न कुरुते पापं सर्वभूतेषु दारुणम्।

कायेन मनसा वाचा ब्रह्म सम्पद्यते तदा॥५२॥



अस्माभिरुक्तं यदिदं द्विजानां मोहं निहन्तुं हतबुद्धिंकानाम्।

गृह्मन्तु सन्तो यदि युक्तमेतन्मुञ्चन्त्वथायुक्तमिदं यदि स्यात्॥५३॥



कृतिरियं सिद्धाचार्याश्वघोषपादानामिति

वज्र-सूची समाप्तेति शुभम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project