Digital Sanskrit Buddhist Canon

10 सन्तानान्तरदूषणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

10 santānāntaradūṣaṇam

॥१०॥

॥सन्तानान्तरदूषणम्॥



अथेह प्रकाशसहोपलम्भादिसाधनबलेन जडपदार्थराशावपास्ते नीलपीताद्यशेषपदार्थजाते च स्वचित्तप्रतिभासात्मनि स्वप्नमायादिवदद्वयरूपे सिद्धे सन्तानान्तरसदसत्तानिरूपणार्थमिदमारभ्यते।



एवं हि केचिदाहुः। अस्त्येव सन्तानान्तरमनुमानप्रतीतम्। तथा हीच्छाचित्तसमनन्तरव्याहारव्यवहाराभासस्य दर्शनात् तदभावे चादर्शनादुपलम्भानुपलम्भसाधनमन्वयव्यतिरेकशरीरमिच्छाचित्तेन सह व्याहाराद्याभासस्य कार्यकारणभावमात्मसन्तानेऽवधार्येच्छाचित्तस्याप्रतिसंवेदनसमयेऽपि विच्छिन्नव्याहाराद्याभासदर्शनात् तत्कारणभूतमिच्छाचित्तमनुमीयमानं सन्तानान्तरमेव व्यवतिष्ठत इति।



अत्रेदमालोच्यते। तदिच्छाचित्तं व्याहाराद्याभासस्य कारणतया व्यवस्थाप्यमानमनुमातुर्दर्शनयोग्यमथ दृश्यादृश्यविशेषणानपेक्षमिच्छामात्रम्। यदितावदाद्योविकल्पस्तदानुमातुर्दर्शनयोग्यत्वादिच्छाचित्तस्यानुमानकालेऽनुपलब्धिरभावमेव गमयतीत्यनुपलम्भाख्यप्रत्यक्षबाधितत्वात् क्वानुमानावकाशस्तस्य। यदि पुनरिच्छाचित्तमनुमानकालेऽप्यनुभूयेत, तदा किमस्यानुमानेन। अथैवमग्निधूमयोस्तदुत्पत्तिसिद्ध्यनन्तरं नगनिकुञ्जे धूममुपलभमानो नाग्निमप्यनुमिनुयात्, तत्राप्यग्नेरनुपलब्धिबाधितत्वात्, उपलम्भे चानुमानवैफल्यात्। नैवम्, अनुमानसमये देशविप्रकर्षवतो वह्नेर्दर्शनायोग्यत्वेन दृश्यानुपलब्धिविरहात्, अदृश्यानुपलम्भस्य चाभावसाधनत्वविरोधात्। इच्छाचित्तस्य तु नास्ति देशविप्रकर्षः। इच्छाचित्तं हि स्वसंबद्धमेवानुमातुर्दर्शनयोग्यम्, तस्य च देशादिविप्रकर्ष इत्यलौकिकमेतत्।



अथ द्वितीयो विकल्पः। तथा हीच्छाचित्तमात्रं स्वपरसन्तानसाधारणदृश्यादृश्यविशेषणानपेक्षं व्याहाराद्याभासं प्रति कारणतयावधार्यते। तदवधारणं केन प्रमाणेन। व्याहाराद्याभासस्य हीच्छामात्राभावेऽभावं प्रतीत्य तदुत्पत्तिसिद्धिगवेषणा। न चेच्छामात्रस्य स्वपरसन्तानसाधारणस्य स्वसंवेदनेनान्येन वाभावः शक्यावगमः। यथा हि वह्निमात्रस्य देशकालव्यवहितस्यापि धूमोत्पाददेशकालयोर्यदि स्यादुपलभ्येतैव मयेति संभावितस्यानुमातृपुरुषेन्द्रियप्रत्यक्षेणधूमोत्पादात् प्रागभावेऽवधार्यमाणस्तदुत्पत्तिसिद्धिमध्यासयतीति व्यवहितदेशकालस्यापि वह्नेर्धूममात्रं प्रति कारणत्वावधारणम्, स्वभावविप्रकृष्टस्य तु जठरभवादिसाधारणस्य सर्वथानुमातृपुरुषाशक्याभावप्रतीतिकस्य व्याप्तिबहिर्भाव एव। तथात्रापीच्छाचित्तं परसन्तानसाधारणमपि यावद्यदीय स्यादुपलभ्येतैव मयेति यदि संभावयितुं शक्येत तदा तद्‍व्यतिरेकसिद्धिद्वारेण कारणतयावधार्यते। केवलं स्वभावविप्रकृष्टे चित्तमात्रेऽस्तमितेयं कथेति॥



न च परचित्तं कालविप्रकृष्टं वर्तमानत्वादस्य, अतीतानागतयोरेव कालविप्रकृष्टत्वेन व्यवहारात्।



नापि देशविप्रकृष्टम्, यस्मिन्नेव हि शुक्लशङ्खादिदेशे स्वचित्तं शुक्लाकारप्रतिभासि स्वसंवेदनेन वेद्यते तद्देशवर्त्येव पीताकारप्रतिभासि परसन्तानभावि चित्तं न वेद्यते। तत् कथमेष देशविप्रकर्षः॥



अथेच्छाचित्तमात्रं स्वसंवेदनमात्रापेक्षया न स्वभावविप्रकृष्टम्। न ह्यग्निरप्येको येनैवेन्द्रियविज्ञानेन दृश्यते तेनैवान्योऽपि दृश्यम्। तत्र यथा चक्षुर्विज्ञानमात्रापेक्षया अग्निमात्रं दृश्यमिति व्यवस्थाप्यते तथात्रापि स्वसंवेदनमात्रापेक्षया इच्छाचित्तमात्रं स्वपरसन्तानसाधारणमपि दृश्यमेवेति।



अत्रोच्यते। किमत्र मात्रशब्देनानुमातृपुरुषसंबन्धासंबन्धाभ्यामविशेषितं यस्य कस्यचित् पुरुषस्येन्द्रियज्ञानं वस्तुविषयीकुर्वाणमस्य दृश्यतासंभवेऽपिनानिमितमभिमतम्। यद्येवं पिशाचादिरपि दृश्यः स्यात्। सोऽपि हि कस्यचित् पुंसो योग्यादेः स्वजातीयस्य वा पिशाचान्तरस्य भवत्येवेन्द्रियज्ञानगोचर इति न कश्चित् स्वभावविप्रकृष्टः स्यात्। तस्मादनुमातृपुरुषसंबन्धित्वमनपास्य विज्ञानस्य स्वलक्षणादिभेदनिरासपर एव मात्रशब्दो युक्तः। एतदेवाशङ्कय धर्मोत्तरेणाभिहितम् -



एकप्रतिपत्त्रपेक्षं चेदं प्रत्यक्षलक्षणम्।



इत्यादि। तेनैवं दृश्यतासंभावना यदीह देशे काले वा स्याद् घटादिर्नियमेनोपलभ्येत, मदीयस्य चक्षुर्विज्ञानमात्रस्य विषयीभवेदिति। परचित्ते तु न शक्यमेवम्। यदीह परचित्तं स्यात् नियमेन मदीयस्य स्वसंवेद(न) मात्रस्य विषयि स्यादिति॥



यदि चेच्छाचित्तमात्रं तदुत्पत्तिग्रहणसमये दृश्यतया संभावयितव्यम्, तदानुमानकालेऽपि दृश्यतया संभाव्य तदनुपलम्भेनाभावसाधने कथमनुमानं प्रवर्तयितुमिदमारब्धम्, प्रत्यक्षेणैव पक्षबाधात्। न च कालभेदेन स्वभावविप्रकर्षेतराविति यत्किञ्चिदेतत्। तस्मादिच्छाचित्तमात्रस्य स्वपरसन्तानसाधारणस्य दृश्यतया संभावयितुमशक्यत्वात् व्यहाराद्युत्पादात् प्रागनुपलम्भेऽप्यभावसिद्धौ न तदभावप्रयुक्तो व्याहाराद्यभावः प्रतीयत इति कथं कारणत्वसिद्धिर्यतः कार्यहेतुद्वारेणानुमीयेत। इच्छाचित्तविशेषस्तु स्वसन्तानभावी न भवत्येवानुमातुर्दृश्यः। किं तु तस्य दृश्यानुपलम्भाज्जिज्ञासितविशेषे धर्मिणि बाधितस्य कथमनुमानमित्युक्तमेव॥



तदेवमिच्छाचित्तविशेषे स्वसन्तानभाविनि साध्ये पक्षस्य प्रत्यक्षबाधः, इच्छाचित्तमात्रेऽपि स्वपरसन्तानसाधारणे साध्ये यद्यनुपलम्भमात्रेण दृश्य विशेषणानपेक्षेण प्रतिबन्धसिद्धिसमये तस्याभावः प्रतीयते, तदा पक्षीकृते धर्मिणि तथेति स एव दोषः। अथ न प्रतीयते तदा सन्दिग्धव्यतिरेको हेत्वाभासो व्याहारादिरिति स्थितम्।



एवं तर्हि सन्तानान्तरसाधकस्याभावाद् बाधकस्यापि कस्यचिददर्शनाद्भवतु तत्र सन्देह एवेति केचित्। तैरिदं बाधकमभिधीयमानमवधीयताम्। यदि हि सन्तानान्तरं संभवेत् तदा ततो भेदेन स्वसन्तानस्यावश्यं भवितव्यम्। अन्यथा स्वसन्तानादपि प्रकाशमानात्तस्य परसन्तानाभिमतस्य भेदो न स्यात्। न चाभेदस्तयोरिति स्वसन्तानाद् भेदाभेदाभ्यामबाध्यस्य परसन्तानस्य सामान्यशशविषाणादिवदभाव एवायात इति कथं सन्देहः। तस्मात् परसन्तानापेक्षया स्वसन्तानस्य भेदोऽप्यवश्यम्भाव्यः। स च भेदः सन्तानस्य स्वभावः स्वसन्ताने प्रतिभासमाने नियमेन प्रतिभासेत। कथमपरथा प्रतिभानाप्रतिभानलक्षणविरुद्धधर्माध्यासेऽपि स्वसन्तानस्य परसन्तानाद् भेदः स्वभावतामासादयेत्॥



न चासौ भेदः प्रतिभासते। भेदप्रतिभासे हि उपगम्यमाने तदवधिभूतस्यापि परसन्तानस्य प्रतिभासो दुरपह्नवः स्यात्।



अस्माद्भिन्नमितीदं चेत् स्वरूपं स्वस्य चेतसः।

सावधेरस्य भासः स्यान्न वा ग्राह्यं तदात्मना॥

भेदेऽन्यलेशमपि नैति कुतो भिन्नः।



एवमादिकमशेषमिह प्रवचनप्रदीपश्रीसाकारसङ्ग्रहादिवचनमनुस्मर्यताम्।



यथा हि स्वसन्तानमात्रे परिस्फुरति शशविषाणादस्फुरतो न भेदः प्रतिभाति तथा परसन्तानादपि स्फुरणविरहिणो न भात्येव भेदः। न हि परसन्तानापेक्षया कश्चिद् विशेषलेशः स्वसन्तानस्य परिस्फुरति यो नास्ति शशविषाणापेक्षया। न च शशविषाणपरसन्तानावपेक्ष्य समाने स्वसन्तानप्रतिभासे शशविषाणापेक्षया न भेदो नाप्यभेदः प्रतिभाति। परसन्तानापेक्षया तु भेद एव भातीत्येवमवस्थापयितुं शक्यम्।



भेदाभेदयोरभावपरिहारेण हि यथा भेदो व्यवस्थितः तद्वद् भेदप्रतिभासोऽपि भेदाभेदाभावप्रतिभासविलक्षण एवोचितो भवितुम्, न च तथानुभूयते। तथापि भेदः प्रतिभातीति वचनरचनमेतत्। भाष्यकारन्यायोऽप्यत्र भेदप्रतिभासदूषणे विस्तरतोऽवगन्तव्यः॥



यदि चावधिप्रतिभासविरहेऽपि भेदप्रतिभानमिदं परचित्तानु(कम्पया) क्षमितव्यं (तर्हि) बहिरर्थस्यापि कथमभावः सिध्यति। शक्यं हि तत्रापि सन्देहमवतारयितुम्, न बहिरर्थः कस्यचिदाभासते, परसन्तानस्तु परस्य प्रतिभासत एव, ततश्चात्रैव सन्देहो न बहिरर्थ इति चेत्। एतदपि सकलं सन्दिग्धमेव। न ह्यवश्यं परसन्तानः परस्याभासते, कदाचिदसौ नास्त्येव न चासाववभासत इत्यपि वक्तुं शक्तेः।



किं च मा नाम भासीष्ट बहिरर्थः कस्यचिदपि तथापि कथं तदभावसिद्धिर्भेदप्रतिभासाभ्युपगमवादिन इतीयन्मात्रमिह विवक्षितम्। न चात्र कश्चिद् दोषः। तस्माद् बहिरर्थेन साधारणं सन्तानान्तरमिति कथं विज्ञप्तिवादिनामपि संमतं भविष्यति। किं च कार्यकारणभावोऽपि विज्ञानद्वयस्य भेदप्रतिभासवादिना बाधितुमशक्यः। पूर्वभाविनी हि संवित्तिः परसंवित्त्यपेक्षया भेदं पूर्वत्वं चात्मनो गृह्णात्येवावधिप्रतिभासविगमेऽपि॥



परभाविन्यपि संवित्तिः पूर्वसंवित्त्यपेक्षया भेदं परत्वं चात्मनोऽधिगच्छत्येव सन्तानान्तरवदिति नियतपूर्वापरभावलक्षणे कार्यकारणभावेऽवभासमानेऽवसीयमाने च नीलादिचित्राकारवत् कथम्



संवृत्त्यास्तु यथा तथा



इति भगवतो वार्तिककारस्य वचनेन फलितमत्र मते। अपि च चित्राकारचक्रे धर्मिण्यद्वैतसाधनार्थमुपन्यस्तस्य प्रकाशमानत्वादिहेतोर्भेदग्राहकप्रत्यक्षापहृतविषयत्वमुद्भावयतः प्रतिवादिनो भेदग्रहणमनुमन्यमानेन सन्तानान्तरसन्देहं च विना कथमुत्तरितव्यं भवता॥



नन्वेवमपि सन्तानान्तराभावः केन प्रमाणेन सिद्धः। न तावत् प्रत्यक्षेण, तस्य विधिविषयस्य प्रतिषेधसाधनातधिकारात्। नाप्यनुमानेन, तस्य दृश्याभावसाधननियतस्यातीन्द्रियपरचित्ताभावसाधनेऽनवतारादिति चेत्। अत्र ब्रूमः। सन्तानान्तरसंभवे नियतभावः तत भेदः स्वचित्तस्य। अभेदे स्वसन्तानात् परसन्तान एव स्यात्। यथा च यदुपलभ्यमानं येनं रूपेण न भासते न तत् तेन रूपेण सद्‍व्यवहारयोग्यं यथा नीलं पीतरूपेण। नोपलभ्यते च स्वचित्तमुपलभ्यमानं परसन्तानाद् भिन्ने(न)रूपेणेति भेदस्य स्वचित्ततादात्म्यनिषेधे दृश्यविशेषणप्रयोगानपेक्षा स्वभावानुपलब्धिरियम्॥



नाप्यसिद्धिः, भेदप्रतिभासे तदवधेरपि प्रतिभासप्राप्तेः। अवध्यप्रतिभासे तु भेदप्रतिभासाभावः शशविषाणभेदप्रतिभासाभाववत् सिद्ध एव। एवमनेन प्रमाणेन सन्तानान्तरस्य स्वचित्तापेक्षया भेदे प्रतिक्षिप्ते अभेदे च स्वयमेवासंभविनि भेदाभेदाभ्यामवाच्यत्वं सिद्धम्। सामान्यादिवद् वस्तुतापहतिरिति, कथं बाधकाभावात् सन्तानान्तरे सन्देहोऽभिधीयते। एतच्च शास्त्रीयप्रमेयस्मारणमात्रफलं किञ्चिल्लिखितमिति। परमिह स्वयमनुसन्धेयम्।



अपि च सन्तानान्तरे तावदर्वाग्दृशां सन्देहो भवद्भिरनुमन्यते। भगवतस्तु किमवस्थाप्यताम्। संदेहावस्थापने कथं सर्वज्ञता। विद्यमानमेव कदाचित् सन्तानान्तरं भगवता नावधार्यते तथाप्यसौ सर्वज्ञ इति कथमेतत्। अनुमानं च सन्तानान्तरविषयं प्रागेव चिन्तितम्। न चानुमानेन प्रतीतावपि सर्वज्ञता भवितुमर्हति। प्रत्यक्षेण परचित्तप्रतीतौ ग्राह्यग्राहकभावोऽपि परचित्तस्य भगवच्चित्तेन सहायात इति बहिरर्थवाद एव मुखान्तरेणोपगतः स्यात्, कथमयं वञ्चयति वादः॥



अस्मदीयमतेन तु परचित्तं नास्त्येवेति तदवधारणकृतो(न) भगवतः सर्वज्ञताक्षतिदोषः। यावच्च भेदग्रहणाभिमानरूपा संवृस्त्तितावत् सन्तानान्तरे सन्देहात्तदवबोधनार्थं वचनादिरपि प्रवर्तत इति स्ववचनविरोधोऽपि न संभवत्येव। न खलु सन्तानान्तरविषयः सर्वथा सन्देहो नास्त्येवेत्यभिमतमस्माकम्, अपि तु परमार्थगतिरियमुपदर्शिता। इदं हि सन्तानान्तराभावसाधनमद्वयसाधनेन साधारणमिति नैकनियतः स्ववचनादिविरोधस्तत्परिहारो वा। चित्राकारसंभवमात्रेणापि च वेदान्तध्वान्तापसारो भाष्यकारेण दर्शितः। तथा च



आत्मा स तस्यानुभवः स च नान्यस्य कस्यचित्

इत्यादिवार्तिकव्याख्यानभाष्यम्।



आत्मवादस्तर्हि प्रसक्त इति चेत्। न चित्राकारसंवेदनात् इत्यादि द्वेषविकलुषाशेषा एव तुषाकारोऽपि वेदान्तसिद्धान्त इति अलक्षित तद्ग्रन्थानुत्थापयन्ती सन्तानान्तरापेक्षया पठितवतीत्यवस्था (?) सर्वा संवृतिसत्यान्तः पातिनी ह्येवापै(ती) ति सकलमनाकुलमिति॥



॥सन्तानान्तरदूषणं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project