Digital Sanskrit Buddhist Canon

9 चित्राद्वैतप्रकाशवादः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

9 citrādvaitaprakāśavādaḥ

॥९॥

॥ चित्राद्वैतप्रकाशवादः॥



॥ नमस्तारायै॥



दिगेषा स्वपराशेषप्रतिवादिप्रसाधनी।

चित्राद्वैतमताबोधध्वान्तस्तोमकदर्थिनी॥



इह खलु सकलजडपदार्थराशौ प्रत्याख्याते निराकृते च निराकारविज्ञानवादे प्रतिहते चालीकाकारयोगिनि पारमार्थिकप्रकाशमात्रे सम्यगुन्मूलिते च साकारविज्ञानालीकत्वसमारोपे प्रतिसन्तानं च स्वप्नवदबाधितदेहभोगप्रतिष्ठाद्याकारप्रकाशमात्रात्मके जगति व्यवस्थिते यस्य यदा यावदाकारचक्रप्रतिभासं यद्विज्ञानं परिस्फुरति तस्य तदा तावदाकारचक्रपरिकरितं तद्विज्ञानं चित्राद्वैतमिति स्थितिः। तदेवं चित्रमद्वैतं विज्ञानमिति पदत्रयमिह प्रत्युपस्थितम्॥



अत्र च विप्रतिपत्तिर्नाम किं चित्रतायामद्वैते विज्ञानत्वे सर्वत्रैवेति विकल्पाः॥



न तावदसौ चित्रस्वरूपानुसारिणी भवितुमर्हति, तन्मात्रस्य सर्वज्ञानुभवसिद्धत्वात्, अन्यथा शशविषाणादाविव जडमिदमलीकं विज्ञानं वेति विप्रतिपत्तीनामनवकाशप्रसङ्गात्। नापि विज्ञानत्वे विवादः कर्तुंमुचितः,



सहोपलम्भनियमाद्



इत्यादिना पूर्वमेव नीलादीनां साकारविज्ञानत्वप्रसाधनात्। अत एव सर्वत्रापि विमतिरसङ्गता, साकारविज्ञानसिद्धावेव चित्राद्वैतवादावतारात्। तस्माच्चित्रतेयमद्वैतविरोधिनीति व्यामोहादेकत्व एव विप्रतिप्रत्तिरिति तत्र प्रसाधनं साधनमिदमुच्यते॥



यत् प्रकाशते तदेकम्। यथा चित्राकारचक्रमध्यवर्ती नीलाकारः। प्रकाशते चेदं गौरगान्धारमधुरसुरभिसुकुमारसातेतरादिविचित्राकारकदम्बकमिति स्वभावहेतुः।



न तावदस्यासिद्धिरभिधातुं शक्यते, प्रत्यक्षप्रमाणप्रसिद्धसद्भावे विज्ञानात्मकनीलाद्याकारचक्रे धर्मिणि प्रकाशमानतायाः प्रत्यक्षसिद्धत्वात्। न चास्य हेतोर्विरुद्धता संभवति, विचित्राकारमध्यवर्तिनि नीलाकारे दृष्टान्तधर्मिणि प्रकाशमानतालक्षणस्य साधनस्य दृष्टत्वात्। ननु चैकत्वे साध्ये यदपरमेकत्वाधिकरणं तदिह दृष्टान्तीकर्तुमुचितम्। न चास्य नीलाकारस्य एकता विद्यते, विरुद्धधर्माध्यासप्रसिद्धस्यानेकत्वस्य संभवात्। देशकालाकारभेदो हि विरुद्धधर्माध्यासः। ततश्च यथा चित्रिताकारचक्रस्याकारभेदतो भेदस्तथा नीलाकारस्यापि देशभेदतो भेदः। तदयं साध्यशून्यो दृष्टान्तो हेतुश्च विपक्षे परिदृश्यमानो यदि तत्रैव नियतस्तदा विरुद्धः॥



तत्रापि संभवेऽनैकान्त इति चेत्। अत्रोच्यते। यदि देशभेदतो विज्ञानात्मकस्थूलनीलाकारस्य भेदस्तदास्य प्रतिपरमाणुदेशभेदे भेदसंभवातु परमाणुप्रचयमात्रात्मको विज्ञानात्मकस्थूलनीलाकारः स्यात्। तथा च सति सर्वेषां विज्ञान(अ)त्मकनीलपरमाणूनां स्वस्वरूपनिमग्नत्वेन संतमसनिमग्नानेकपुरुषवत् व्यतिवेदनाभावात् स्थूलनीलाखण्डलकप्रतिभासाभावप्रसङ्गः सङ्गतः स्यात्, ग्राह्यग्राहकलक्षणयोः पुरस्तादपकर्तव्यत्वात्। न चैवं वक्तव्यम् परमाणूनां स्वरूपनिमग्नत्वेऽप्येकोपादानतया पुञ्जात्मैव स्थूलः स्थूलमात्मानं ज्ञास्यतीति, सत्यप्येकोपादानत्वे स्वस्वरूपनिमग्नत्वादेव स्थूलव्यवस्थापकस्य भिन्नस्यात्मनोऽन्योन्यं वा ग्राह्यग्राहकभावस्यायोगात्। तादात्म्येन व्यतिवेदनस्य चानभ्युपगमात्।



वर्गो वर्गं वेत्ति



इत्यस्यानुपदत्वात्। न च यथा बाह्यार्थवादे स्थूलैकाकारज्ञानप्रतिभास एव बाह्यपरमाणुप्रचयप्रतिभासव्यवस्था गत्यन्तराभावात्, तथा ज्ञानपरमाणुप्रचयव्यवस्था(पक) स्थूलैकाकारयोगिविज्ञानान्तरस्थानभ्युपगमात्। अभ्युपगमे वा तस्यैव दृष्टान्तत्वात्। तस्माद् यावद् यावत् प्रतिभासस्तावत्तावत् स्थूलतयैव व्याप्तः। अस्थूले परमाणौ स्थूलनिवृत्तिमात्रे च प्रतिभासस्य दृश्यानुपलम्भबाधितत्वात्। यथा प्रसिद्धानुमाने सत्त्वं क्षणिकत्वेन व्याप्तं क्रमाक्रमकारित्वेनापि, क्षणिकत्वाभावाच्च कर्माक्रमनिवृत्तौ निवर्तमानं क्षणिकत्वे नियतं सिध्यति, तथात्रापि प्रकाशमानत्वं साधनमेकत्वेनापि स्थौल्येनापि, एकत्वाभावाच्च विपक्षात् परमाणुपुञ्जात्मन एकत्वनिवृत्तिमात्रात्मनश्च स्वविरुद्धोपलम्भात् स्थौल्यस्य व्यापकस्य निवृत्तौ निवर्तमानमेकत्वं नियतं सिध्यति। ततश्च यथा बहिर्व्याप्तिपक्षे घटे दृष्टान्तधर्मिणि विपर्ययबाधकप्रमाणबलात् सत्त्वं क्षणिकत्वनियतमवधार्य सत्त्वात् पक्षे क्षणभङ्गसिद्धिः, त(था) त्रापि नीलाकारे दृष्टान्तधर्मिणि विपर्ययबाधकप्रमाणबलादेव प्रकाशमानत्वमेकत्वनियतमवगम्य प्रकाशमानत्वाद् विचित्राकारचक्रे साध्यधर्मिण्येकत्वसिद्धिरिति न दृष्टान्तस्य साध्यशून्यत्वम्। नापि हेतोर्विरुद्धता। न चानैकान्तिकता॥



नन्वेकत्वे साध्ये तत्प्रच्युतिर्द्वित्वं च विपक्षः, तस्माच्च विपक्षाद्धेतुव्यतिरेकप्रतिपत्त्यवसरे किं विपक्षात्मा प्रकाशते न वा। प्रतिभासपक्षे प्रकाशमानत्वस्य हेतोः साधारणानैकान्तिकता, विपक्षेऽपि दृष्टत्वात्। अथ न प्रकाशते तदा सन्दिग्धव्यतिरेकित्वम्, कुतो व्यतिरेक इत्यवधेरेवाप्रकाशमानशरीरत्वात् कथमतः साध्यसिद्धिप्रत्याशा।



अत्रोच्यते। इह द्विविधो विज्ञानानां विषयः ग्राह्योऽध्यवसेयश्च। प्रतिभासमानो ग्राह्यः। अगृहीतोऽपि प्रवृत्तिविषयोऽध्यवसेयः। तत्रासर्वज्ञेऽनुमातरिसकलविपक्षप्रतिभासाभावान्न ग्राह्यतया विपक्षो विषयो वक्तव्यः, सर्वानुमानोच्छेदप्रसङ्गात्, सर्वत्र सकलविपक्षप्रतिभासाभावात् ततो व्यतिरेकासिद्धेः। प्रतिभासे च देशकालस्वभावान्तरितसकलविपक्ष साक्षात्कारे साध्यात्मापि वराकः सुतरां प्रतीयत इत्यनुमानवैयर्थ्यम्। तस्मादप्रतिभासेऽप्यध्यवसायसिद्धादेव विपक्षाद् धूमादेर्व्यतिरेको निश्चितः। तत् किमर्थमत्र विपक्षप्रतिभासः प्रार्थ्यते। यदि पुनरस्याध्यवसायोऽपि न स्यात्तदा व्यतिरेको न निश्चीयत इति युक्तम्, प्रतिनियतविषयव्यवहाराभावात्॥



नन्वस्मन्मते वस्त्ववस्त्वात्मकसकलविपक्षप्रतिपत्तिसंभवात् ततो हेतुव्यतिरेकः संप्रत्येतुं शक्यत एव। न च प्रतिभासमात्रेण सत्त्वप्रसङ्गः, अर्थक्रियाकारित्वलक्षणत्वात् सत्त्वस्य। त्वन्मते तु प्रकाश एव वस्तुत्वम्। अतो विपक्षयोरेकत्वप्रच्युतिर्द्वित्वयोः प्रतिभासे प्रकाशमानत्वसाधनस्य विपक्षसाधारणता। अप्रतिभासे चसन्दिग्धव्यतिरेकित्वमिति चोद्यं दुरुद्धरमेवेति चेत्। तदेतदसङ्गतम्। तथा हि धूमादिरवह्न्यादेर्विपक्षाद् व्यावृत्तो वह्न्यादिनियतः सिध्यति, तस्य च वस्त्ववस्त्वात्मकसकलविपक्षपदार्थराशेः स्वरूपनिर्भास इति किं निर्विकल्पकज्ञाने कल्पनायां वा। निर्विकल्पे चेत्। प्रतिभास इति च कोऽर्थः। किं निराकारे ज्ञाने सकलविपक्षादिस्वरूपस्य साक्षात् स्फुरणम्, यदि वा तदर्पितबुद्धिस्वभावभूतसदृशाकारप्रकाशः, अथ समनन्तरप्रत्ययबलायातबुद्धिगतबाह्यसदृशाकारप्रतिभासः, आहोस्विद् बुद्धेरात्मभूतविपक्षसदृशालीकाकारपरिस्फूर्तिः।



न तावदाद्यः पक्षो युक्तः, देशकालस्वभावविप्रकृष्टानां पदार्थानामर्वाचीने जने निराकारे च ज्ञाने स्फुरणायोगादित्यस्यार्थस्य शास्त्रे एव विस्तरेण प्रसाधनात्। स्फुरणे चासाध्यस्यापि प्रकाशनप्रसङ्गेऽनुमानवैयर्थ्यस्य प्रतिपादनात्।



नापि द्वितीयः पक्षः, देशादिविप्रकृष्टत्वादेव साक्षात्स्वाकारसमर्पणसामर्थ्याभावात्।



न च तृतीयः सङ्गतः, सादृश्यसंभवेऽपि समनन्तरबलादेवायातस्य बाह्येन सह प्रत्यासत्तेरभावात्।



न चतुर्थोऽपि प्रकार संभवति, असत्प्रकाशयोर्विरोधात्, स्फुरतोऽलोकत्वायोगात्। तथा ह्यसत्प्रकाश इति किमसदीश्वरादेः ख्यातिः, भासमानो वा आकारोऽसन्, सन् वा न कश्चित् ख्यातीति विवक्षितम्। तत्र यस्य पदार्थस्य स्वरूपपरिनिर्भासः स कथमसन्निति प्राणधारिभिरभिधातव्यः। स्फुरतः केशोण्डुकाकारस्य बाह्यरूपतया बाध्यत्वेऽपि ज्ञानरूपतयार्थत्वस्य आचार्येण प्रतिपादितत्वात् ग्राहकाभिमतनिराकारप्रकाशस्याप्यसत्त्वाभिधानप्रसङ्गात्॥



प्रतिभासेऽपि बाधनादसत्यत्वमिति चेत्। किं तद् बाधकम्, प्रत्यक्षमनुमानं वा। यद्येकत्र स्वरूपसाक्षात्कारिणि प्रत्यक्षेऽविश्वासः कथमन्यत्र बाधके स्वरूपान्तरप्रकाश एव निर्वृत्तिस्तत्पूर्वकमनुमानं च सुतरामविश्वासभाजनमिति न बाधकवार्तापि । यदाहुर्गुरवः



यस्य स्वरूपनिर्भासस्तदेवासत्कथं भवेत्।

बाधातो यदि साप्येका प्रत्यक्षानुमयोर्ननु॥

प्रत्यक्षे यद्यविश्वासः एकत्रान्यत्र का गतिः।

तत्पूर्वमनुमानं च कथमाश्वासगोचरः॥ इति।



ननु

दृष्टमेव द्विचन्द्रादिप्रतिभासेऽपि बाधितम्।

न दृष्टेऽनुपपन्नत्वं तज्ज्ञातमपि बाध्यते॥



इति चेत्। न। बाध्यस्याप्रतिभासनात्। प्रतिभासिनश्चाबाध्यत्वात्। तथा हि

बुद्ध्याकारस्य निर्भासो बाधा बाह्यस्य वस्तुनः।

स्फूर्तावप्यविश्वासे क्व विश्वास इति कीर्तितम्॥



एतेन भासमानो वा आकारोऽसन्निति द्वितीयोऽपि पक्षः प्रतिक्षिप्तः, प्रतिभासादेव सत्तासिद्धेर्बाधकाबकाशाभावात्।



तथा सन् वा कश्चिन्न ख्यातीति तृतीयसङ्कल्पोऽपि व्याकुलः, प्रकाशव्याप्तत्वात् सत्तायाः। अप्रकाशस्यासत्तया ग्रस्तत्वात्॥



ननु प्रकाशो नामः वस्तुनः सत्तासाधकं प्रमाणम्। न च प्रमाणनिवृत्तावर्थाभावः। अर्थक्रियाशक्तिस्तु सत्त्वम्। तच्चाप्रकाशस्यापि न विरुध्यत इति चेत्। सत्यमेतत्। बहिरर्थबादेऽप्रकाशस्यापि सामर्थ्याभ्युपगमात्। केशोण्डुकादिप्रतिभासेऽध्यवसितस्यार्थक्रियाशक्तिवियोगादेवाभावसिद्धेः। सर्वथा बहिरभावे तु ज्ञानस्य प्रकाशाव्यभिचारात्तावतैव सत्त्वे किमर्थक्रियया।



कथमन्यहृदः सत्त्वं प्रकाशादेव नास्य चेत्।

नार्थक्रियापि सर्वस्मै क्वचिच्चेद् भासनं न किम्॥



इति। निर्विकल्पे तावत् स्वसंवेदनसिद्धस्वाकारमन्तरेण विपक्षादयो न परिस्फुरन्ति। अथामी विकल्पे प्रतिभासन्त इति द्वितीयः सङ्कल्पोऽभ्युपगम्यते, अस्मिन्नपि पक्षे प्रतिभासमान आकारोऽसाधारणोऽशब्दसंसृष्टतया स्वसंवेदनतादात्म्ये प्रविष्टत्वाद्वस्तुसन्नेव।

अध्यवसेयतया विपक्षादयो गृह्यन्त इति चेत्। तदापि तेषां स्वरूपस्य निर्भासोऽस्ति न वा। निर्भासे प्रत्यक्षसिद्धतैव, नासत्ख्यातिः। शास्त्रेऽपि



'स्वरूपसाक्षात्कारित्वमेव प्रत्यक्षत्वम्'



उक्तम्। तस्य चेतरप्रत्यक्षेष्विव विकल्पेऽपि स्वीकारे विरुद्धव्याप्तोपलम्भेन विकल्पभ्रान्तत्वयोर्दूरमपास्तत्वाद्विकल्पेऽपि त्वन्मते प्रत्यक्षत्वमक्षतम्। तत् कथं तत्सिद्धस्य प्रत्यक्षान्तरानुमानाभ्यां बाधाभिधानम्, तयोरपि स्वरूपान्तरप्रकाशपौरुषत्वात्॥



अथ विकल्पभ्रान्तत्वयोर्व्यापकविरुद्धयोः संभवात् विकल्पे प्रत्यक्षत्वमेवासंभवि। नन्वस्य प्रत्यक्षत्वमसंभवीति स्वरूपसाक्षात्कारित्वमसंभवीत्युक्तम्। अथ विपक्षादिरर्थोऽस्मिन् प्रकाशत इति वाचा स्वरूपसाक्षात्कारित्वं कथितमिति माता मे बन्ध्येति वृत्तान्तः। इष्यते च त्वया विपक्षादिस्वरूपसाक्षात्कारित्वं बिकल्पस्येति प्रत्यक्षतानतिक्रमः, अप्रत्यक्षत्वे वस्तुस्वरूपस्फुरणायोगात्। ततश्च तत्प्रतिभासिनोऽपि रूपस्य सत एव ख्यातिर्नासत्ख्यातिः। न च तदेव विकल्पे परिस्फुरद्रूपमसतामीश्वरादीनां स्वरूपम्, असत्त्वस्यैवाभावप्रसङ्गात्। स्वरूपस्फुरणेऽप्यसत्त्वेऽन्यत्रापि प्रकाशिन्यनाश्वासात्।



ततो यत् साकारवादे जल्पितम्

नित्यादयः सन्त एव स्युः

इति तदात्मन एव पतितम्। यदाहुर्गुरवः

स्वरूपसाक्षात्करणादध्यक्षत्वं न चापरम्।

विकल्पभ्रमभूमित्वमत एव हि बाधितम्॥

यदि नाध्यक्षता तस्य रूपनिर्भास एव न।

ततस्तदसदीशादि प्रतिभातीत्यसङ्गतम्॥

यदि तु प्रतिभासेत रूपमस्य सदेव तत्।

तदसत्प्रतिभातीति तच्च भात्यसदेव वः॥



अथाध्यवसायेऽध्यवसेयस्वरूपस्य प्रतिभासो नास्तीत्युच्यते। न तदा कस्यचिदध्यवसायः। कथमतः प्रतिनियतवस्तुव्यवस्थासिद्धिः। किं च कोऽयमध्यवसायोनाम। किं व्यावृत्तिभेदपरिकल्पितस्य प्रकाशांशस्य, स्वाकारांशस्य, अलीकाकारस्य, बाह्यवस्तुनोऽवस्तुनो वा स्फुरणमध्यवसायार्थः। यदि वा स्वाकारे बाह्यारोपः, बाह्ये वा स्वाकारारोपः, स्वाकारबाह्ययोर्योजना, तयोरेकीकरणमेकप्रतिपत्तिरभेदेन प्रतिपत्तिः भेदाग्रहोऽध्यवसायार्थ इति विकल्पाः।



तत्र न तावदादिमौ पक्षौ कल्पनामर्हतः। स्वरूपे सर्वस्यैव स्फुरणस्य निर्विकल्पत्वादवसायानुपपत्तिः। इतरथा निर्विकल्पकज्ञानाभावप्रसङ्गात्।



अलीकस्फुरणं तु प्राक् प्रत्याख्यातम्। सत्यपि स्फुरणेऽस्फुटत्वान्निर्विकल्पकमेतत्। द्विचन्द्रादिज्ञानवत्। अस्तु स्वग्राह्ये तन्निर्विकल्पकम्, बाह्ये तु अध्यवसेये अध्यवसाय इति चेत्। न तत्संबन्धाभावात, तदप्रतिभासाच्च । अन्यथातिप्रसङ्गादित्युक्तप्रायम्। बाह्यवस्तुस्वरूपस्फुरणे तु प्रत्यक्षप्रतिपत्तिरेवासाविति कोऽध्यवसायः। अवस्तुस्फुरणं पुनस्त्रिधा विकल्प्य प्रागेव प्रत्याख्यातम्।



स्वाकारे तु बाह्यारोपो न संभवत्येव। तथा हि ज्ञानं केनचिदाकारेण सत्येनालीकेन वोपजातं नाम। बाह्यारोपस्तु तदाकारे तत्कृतोऽन्यकृतो वा स्यात्। तत्कृतत्वे न तावत् तत्काल एव व्यापारान्तरमनुभूयत इति कुतस्तदारोपः। कालान्तरे च स्वयमेवासत् कस्य व्यापारः स्यात्।



द्वितीयपक्षे ज्ञानान्तरमपि नाकारारोपरागसङ्गिनीमुत्पत्तिमन्तरेण व्यापारान्तरेण क्वचित् किञ्चित्करं नाम। तदेतदर्वाचीनज्ञानसदृशाकारगोचरीकरणेऽपि न बाह्यारोपव्यापारमपरं स्पृशति तदाकारलेशानुकारमपहाय। न च शब्दामुखीकरणमतिरिक्तो व्यापारः, शब्दाकारस्यापि स्वरूप एवान्तर्भावादिति नाकारादन्यो ज्ञानव्यापारः। आरोप्यमाणश्चासावर्थो बाह्यः। तत्र बुद्धौ यदि स्वरूपेण स्फुरति सत्यप्रतीतिरेवासौ, क आरोपः। अथ न परिस्फुरति तथापि क आरोपः। स्फुरणे वा अधिकरणभूतस्वाकारातिरिक्तस्यारोप्यमाणाकारस्यापि प्रतिभासप्रसङ्गः।



तदाकारस्फुरणमेव तस्य स्फुरणमिति चेत्। न। तस्यारोपविषयत्वात्। न हि मरीचिस्फुरणमेव जलस्फुरणमिति न स्वाकारे बाह्यारोपः। अत एव बाह्ये स्वाकारारोपो नास्ति, आरोपविषयस्य बाह्यस्यास्फुरणात्। तत एव स्वाकारबाह्ययोर्योजनाप्यसंभविनी, योग्ययोरप्रतिभासात्। न चैकीकरणमध्यवसायः। कोऽयमेकीकरणार्थः। यद्येकतापत्तौ प्रयोजकत्वं तदारोप्यारोपविषययोः कदाचिदेकीभावाभावादसंभव एव। न हि शशविषाणे कारणं किञ्चित्। न च पूर्वमनेकमेकतामेतीति क्षणिकवादिनः सांप्रतम्। अर्थान्तरोत्पत्तिमात्रं तु स्यात्। न च तदुपलब्धिगोचरोऽन्यत्रारोपविषयात् स्वाकारात्। न च तावताप्यर्थस्य किञ्चिदिति कथमेकीकरणम्।



अथैकप्रतीतिरध्यवसायः। तथापि न द्वयोरेकप्रतिपत्तिरध्यवसेयानुभवाभावात्। न च द्वयोः प्रतीतिरित्येवाध्यवसायः नीलपीतवत्।



न चाभेदेन प्रतीतिरध्यवसायः। यतः पर्युदासपक्षे ऐक्यप्रतीतिरुक्ता भवति। सा च प्रत्युक्ता, अध्यवसेयप्रतिपत्त्यभावात्। भेदेन प्रतीतिनिषेधमात्रेऽपि न बाह्यस्य प्रतीतिरुक्तेति कुतस्तदध्यवसायः। यदि हि बाह्यं प्रकाशेत एकत्वेनानेकत्वेन वा सता असता वा प्रतीतिरिति युक्तम्।



सर्वाकारतत्स्वरूपतिरस्कारेण सा प्रतीतिरित्येकप्रतीतिरिति चेत्। तत्स्वरूपतिरस्कारे तर्हि तदप्रतिभासनमेव। कस्यचिदंशस्य प्रतिभासनादिति चेत्। न। निरंशत्वाद्वस्तुनः सर्वात्मना प्रतिभासोऽप्रतिभासो वेति शास्त्रमेवात्र विस्तरेण परीक्ष्यते।



न च भेदाग्रहोऽध्यवसायो वक्तव्यः। तथा हि किं बाह्ये गृह्यमाणेऽगृह्यमाणे वा। न च प्रथमः पक्षः, बाह्यग्रहणस्य प्रतिक्षिप्तत्वात्। ग्रहणे वाऽध्यवसायस्य प्रत्यक्षताप्रसङ्गात्। अगृह्यमाणे तु बाह्ये प्रवृत्तिनियमो न स्यात्, अन्येषामपि तदानीमग्रहणादन्यत्रापि प्रवृत्तिप्रसङ्गात्।



त्रिलोचनोऽपीत्थमध्यवसायं दूषयति। कोऽयमध्यवसायः। किं ग्रहणम्, अहोस्वित् करणम्, उत योजना, अथ समारोपः। तत्र स्वाभासमनर्थमर्थ कथं गृह्णीयात्, कुर्याद् वा विकल्पः। न हि नीलं पीतं शक्यं ग्रहीतुं कर्तुं वा शिल्पकुशलेनापि। नाप्यगृहीतेन स्वलक्षणेन स्वाकारं योजयितुमर्हति विकल्पः। न च स्वलक्षणं विकल्पग्रहणगोचरः। न च स्वाकारमनर्थमर्थमारोपयति। न तावदगृहीतस्वाकारः शक्य आरोपयितुमिति तद्ग्रहणमेषितव्यम्। तत्र किं गृहीत्वा आरोपयति, अथ यदैव स्वाकारं गृह्णाति तदैवारोपयति। नाद्यः। न हि क्षणिकं विकल्पविज्ञानं क्रमवन्तौ ग्रहणसमारोपौ कर्तुमर्हति। उत्तरस्मिंस्तु कल्पेऽविकल्पस्वसंवेदनप्रत्यक्षाद्विकल्पाकारादहङ्कारास्पदादनहङ्कारास्पदः समारोप्यमाणो विकल्पेन स्वगोचरो न शक्योऽभिन्नः प्रतिपत्तुम्। नापि बाह्यस्वलक्षणकत्वेन शक्यः प्रतिपत्तुम्, विकल्पाकारे स्वलक्षणस्य बाह्यस्याप्रतिभासनादिति।



बाचस्पतिरपि अध्यवसायं प्रतिक्षिपति। अनर्थं स्वाभासमर्थमध्यवस्यतीति निर्वचनीयमेतत्। नन्वयमारोपयतीति किं विकल्पस्य स्वरूपानुभव एवारोपः, उत व्यापारान्तरं स्वरूपानुभवात्। न तावत् पूर्वः कल्पः, अनुभवसमारोपयोर्विकल्पाविकल्परूपतया द्रवकठिनवत्तादात्म्यानुपपत्तेः। व्यापारान्तरत्वे तु क्रमः समानकालता वा। न तावत् क्रमः, क्षणिकस्य विज्ञानस्य क्रमवद्‍व्यापारायोगात्। अक्षणिकवादिनामपि बुद्धिकर्मणोर्विरम्य व्यापारानुपपत्तेः न क्रमवद्‍व्यापारसंभवः। अनुभवसमारोपौ समानकालाविति चेत्। भवतु समानकालत्वं केवलम्। आत्मा स्वभावस्थित एव वेद्यः, परभावेन वेदने स्वरूपवेदनानुपपत्तेः। तथा चात्मा ज्ञानस्य ग्राह्यग्राहकाकारोऽनुभूतोऽर्थश्च समारोपितः। न त्वात्मा वेद्यमानः समारोपितो नार्थः समारोप्यमाणः प्रत्यक्षवेद्यः। स च समारोपः सतोऽसतो वा ग्रहणमेव। न च ज्ञानातिरिक्तस्य ग्रहणं संभवतीत्युपपादितम्।



स्वप्रतिभासस्य बाह्याद्भेदाग्रहो बाह्यसमारोपस्ततो बाह्ये वृत्तिरिति चेत्। स किं गृह्यमाणे बाह्ये न वा। न तावद् गृह्यमाणे। उक्तं ह्येतन्न तद्ग्रहणं संभवतीति। अगृह्यमाणे तु भेदाग्रहे न प्रवृत्तिनियमः स्यात्, अन्येषामपि तदानीमग्रहादन्यत्रापि प्रवृत्तिप्रसङ्गादिति। तस्माद् यथा यथायमध्यवसायश्चिन्त्यते तथा तथा विशीर्यत एव। तथा विकल्पारोपाभिमानग्रहनिश्चयादयोऽप्यध्यवसायवत् स्वाकारपर्यवसिता एव स्फुरन्तो बाह्यस्य वार्तामात्रमपि न जानन्तीत्यध्यवसायस्वभावा एव शब्दप्रवृत्तिमित्तभेदेऽपि तत्कथं युक्त्यागमबहिर्भूतोऽनात्मस्फुरणमाचक्षीत।



नन्वेवं विकल्पादीनामसंभवे संभवेऽप्यनात्मप्रकाशकत्वानभ्युपगमे सर्वजनप्रसिद्धविधिप्रतिषेधव्यवहारोच्छेदप्रसङ्ग इति लोकविरोधः। विकल्प इत्यध्यवसाय‍इत्यारोप इत्यभिमान इति ग्रह इति निश्चय इत्यादिकं शास्त्रे प्रतिपदं प्रतिपादितम्, तत्सिद्धं च बहिरर्थादिकमभ्युपगतमित्याचार्यविरोधः, न्यायविरोधश्च। तथा हि सवरेव प्रकारैरविपरीतस्वरूपसंवेदनाद् भ्रान्तेरत्यन्तमभावः स्यात्। ततश्च सर्वसत्त्वाः सदैव सम्यक्सम्बुद्धा भवेयुः।



विकल्पिता बुद्धिर्भ्रान्तिः, स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायादिति चेत्। कथमवसीयमानस्तया सोऽर्थो न प्रकाशते। प्रकाशमानो वा कथमसौ तस्यां न प्रकाशते। अथ प्रकाशत एव, तदार्थस्य तादात्म्यप्रसङ्गः। असति चार्थे सारस्यात् अभून्मान्धाता, भविष्यति शङ्खोऽस्त्यात्मा, नित्यः शब्द इति सर्वात्मना च निश्चयः स्यात्। गौरिति स्पष्टेन च स्वेन लक्षणेन प्रकाशेत। स्वलक्षणे च सङ्केतायोगात् विकल्पिकैव सा बुद्धिर्न स्यात्। तस्मादशेषगोव्यक्तिसाधारणेन गोत्वेन गोबुद्धिरलीकेन साभिलापेन विप्लवात् प्रख्यातीति तथा प्रकाशनमस्या गवार्थावसाय इत्येष्टव्यम्। एवं ह्येते दोषा न स्युः, अप्रतिभासमानस्यापि स्वलक्षणस्य भ्रान्त्यावसायादिति॥



अत्राभिधीयते। न तावल्लोकशास्त्रविरोधौ, अगृहीतेऽपि बाह्ये प्रवृत्तिनिवृत्त्यादिसमर्थनात् स्वपरवादिदुरतिक्रमाध्यवसायस्वरूपनिर्वचनात्। न्यायविरोधस्य तु गन्धोऽपि नास्ति।



तथा हि का पुनरियं भ्रान्तिरसत्ख्यातिरतस्मिंस्तद्ग्रहो वा यदभावादिदानीमेव मुक्तिरासज्यते।



न तावदाद्यः पक्षः, असत्ख्यातेः प्रत्याख्यानात्। यदाहुर्गुरवः

यस्य स्वरूपनिर्भासो बाधकाद् यदि तन्न सत्।

बाधकेऽपि क आश्वासः स्वरूपान्तरभासिनि॥

अन्यस्वरूपोपनयात् तत्स्वरूपनिवारणम्।

तत्रापि संशयो जातः पूर्वबाधोपलब्धितः॥

इयमेवाग्रहे बाधा नाद्यजस्यापरा यदि।

अस्य पूर्वैव भवतु रूपनिर्भासनं समम्॥

नान्या व भाविनीत्यत्र प्रमाणं किञ्चिदस्ति वः।

अपि स्वरूपनिर्भासे यदा बाधकसंभवः॥

अनिर्भासे स्वरूपस्य हेतुशोधनविप्लवे।

बाधशङ्काविनिर्भासेऽप्येवं चेद् विप्लवो महान्॥ इति॥



शास्त्रे च अतस्मिंस्तद्ग्रहात् स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायाद् दृश्यविकल्प्ययोरेकीकरणाद् भ्रान्तिरुक्ता। तामयं समर्थयितुमसमर्थः स्वातन्त्र्येणालीकस्फुरणं भ्रान्तिरिति काव्यं विरचय्य विस्तारयति॥



नन्वतस्मिंस्तद्ग्रहोऽपि भ्रमः स्वाकारपर्यवसितज्ञानादतिरिक्तो बहुभिर्बहुधा विचार्यं प्रत्याख्यातः। तत् कथं तस्मिन्नपि पक्षे न भ्रान्तिक्षतिर्येनेदानीमेव मुक्तिप्रसङ्गो न स्यादिति चेत्। तदेतद् भगवतो भाष्यकारस्य मतविद्वेषविषव्याकुलविक्रोशितमतिकातरयति कृपापरवशधियः। तथा हि समनन्तरप्रत्ययबलायातस्वप्रतिभासविशेषवेदनमात्रादगृहीतेऽपि परत्र प्रवृत्त्याक्षेपोऽध्यवसायः। न चासौ पूर्वोक्तवाग्जालैः प्रतिहन्तुं शक्यः, सर्वप्राणभृतां प्रत्यात्मविदितत्वात्, कैश्चिदप्यनुद्भिन्नत्वात्। अयमेव च संसारस्तत्क्षयो मोक्ष इति क्वेदानीमेव तद्वार्ताऽपि। तथा हि विचित्रानादिवासनावशात् प्रबोधकप्रत्ययविशेषापेक्षया विकल्पः केनचिदाकारेणोपजायमान एव बहिर्मुखप्रवृत्त्यनुकूलमर्थक्रियास्मरणाभिलाषादिप्रबन्धमाधत्ते। ततः पुरुषार्थक्रियार्थिनो बहिरर्थानुरूपाणि प्रवृत्तिनिवृत्त्यवधारणानि भवन्ति। पृथग्जनसन्तानज्ञानक्षणानां तादृशो हेतुफलभावस्य नियतत्वात्। अनिश्चितार्थसंबन्धविकल्पकालेऽपि सदसत्तानिर्णयादिप्रवृत्तिप्रसवः। तत्र यदुभयथा प्रवृत्तिसाधनसामर्थ्यमस्य स्वहेतुबलायातमयमेव प्रवृत्तिविषयत्वारोपोऽध्यवसायापरनामा। यथा चन्द्रादिज्ञानस्य भ्रान्तस्याभ्रान्तस्य वा तद्दर्शनावसायजननमेव ग्रहणव्यापारः।



स्वविदपीयमर्थविदेव कार्यतो द्रष्टव्येति



न्यायात्। तथा विकल्पस्याप्यग्निरत्रेत्यादिनाकारेणोत्पद्यमानस्य प्रवृत्त्याक्षेपकत्वमेव बाह्यावसानं नाम। यथा च निर्विकल्पद्विचन्द्राद्याकारतैव तथावसायसाधनी, एवमवसायस्यापि तादृशाकारतैव विषयान्तरविमुखप्रवृत्तिसाधनी॥



ननु तथा च तच्च तेन प्रतिपाद्यते न च तज्ज्ञाने तत् प्रकाशत इति शपथेनापि न संप्रत्यय इति चेत्। असंबद्धमेतत्। न ह्यध्यवसायाद् बाह्यस्य पटादेर्वस्तुनो बाधकावतारात् पूर्वसन्दिग्धवस्तुभावस्य क्षणिकादेरवस्तुनो वा शशविषाणादेरस्फुरणेऽपि सिद्धिप्रतिबन्धो ब्रह्मणापि प्रतिविधातुं शक्यः। द्विविधो हि विषयव्यवहारः, प्रतिभासादध्यवसायाच्च। तदिह प्रतिभासाभावेऽपि परापोढस्वलक्षणादेरध्यवसायमात्रेण विषयत्वमुक्तम्, सर्वथा निर्विषयत्वे प्रवृत्तिनिवृत्त्यादिसकलव्यवहारोच्छेदप्रसङ्गात्। ततश्च तेन च तत् प्रतिपाद्यते न च ज्ञाने तत्प्रकाश इति सङ्गतिरस्त्येव, प्रकाश्यप्रकाशकभावाभावेऽप्यध्यवसायाध्यवसायकभावेनापि विषयविषयिभावोपपत्तेः।



ननु यदि नाध्यवसेयप्रतीतिस्तदाऽगृहीतेऽपि स्वलक्षणादौ प्रवृत्तिरिति सर्वत्राविशेषेण प्रसज्येत, सर्वत्रागृहीतत्वेन विशेषाभावात्, ततश्च प्राप्तिरपि नाभिमतस्य नियमेनेत्यनुमानमपि विप्लुतम्। अत्र ब्रूमः। यद्यध्यवसेयमगृहीतं विश्वमप्यगृहीतम्, तथापि नियतविषयैव प्रवृत्तिर्न सर्वत्र, तथाभूतसमनन्तरप्रत्ययबलायातनियताकारतया नियतशक्तित्वाद्विकल्पस्य। नियतशक्तयो भावा हि प्रमाणपरिनिष्ठितस्वभावाः, न शक्तिसाङ्कर्यपर्यनुयोगभाजः, असदुत्पत्तिवत् सर्वत्रासत्त्वेऽपि हि बीजादङ्कुरस्यैवोत्पत्तिः, तत्रैव तस्य शक्तेः प्रमाणेन निरूपणात्। तथेहापि हुतवहाकारस्य विकल्पस्य दाहपाकाद्यर्थक्रियार्थिनस्तत्स्मरणवतो हुतवहविषयायामेव प्रवृत्तौ सामर्थ्यं प्रमाणप्रतीतं कथमतिप्रसङ्गभागि। प्रत्यासत्तिचिन्तायां च तात्त्विकस्यापि वह्नेर्ज्वलद्भास्वराकारत्वं विकल्पोल्लिखितस्यापीति, तावता तत्रैव प्रवर्तनशक्तिर्ज्वलनविकल्पस्य न जलादौ॥



ननु च सादृश्यारोपेण किं स्वाकारस्य बाह्ये स्वाकारे वा बाह्यस्यारोपः। उभयथाप्यसङ्गति, आरोप्यारोपविषययोः स्वाकारबाहययोर्द्वयोर्ग्रहणासंभवादिति चेत्। न वयमारोपेण प्रवृत्तिं ब्रूमः। किं तर्हि, स्ववासनापरिपाकवशादुपजायमानैव सा बुद्धिरपश्यन्त्यपि बाहयं बाहये प्रवृत्तिमातनोतीति विप्लुतैव संसारात्मिका च। यत् शास्त्रं



न ज्ञाने तुल्यमुत्पत्तितो धियः।

तथाविधायाः



इति। तस्मान्न रूप्यादिवदारोपद्वारेण प्रवृत्तिरपि तु तथाविधाकारोत्पत्तिप्रतिबद्धशक्तिनियमात्। न च विचारकस्य वस्त्वदर्शननिश्चयादप्रवृत्तिः सङ्गच्छते। दर्शनेऽपि हि प्रवृत्तिरर्थक्रियार्थितया। अर्थक्रियाप्राप्तिश्च वस्तुसत्तानियमे। स च नियमो यथा दर्शनाद् वस्तुप्रतिबन्धकृतः, तथा विकल्पविशेषादपि पारम्पर्येण वस्तुप्रतिवस्तुप्रतिबन्धकृत इत्यदर्शनेऽपि अध्यवसायात् प्रवृत्तिर्युज्यत इति नानुमानमनवस्थितम्। एतेन तच्च न प्रतीयते, तेन चाभेदाभासनमित्युपालम्भोऽसंभवीत्युपदर्शितम्, अप्रतिभासेऽपि प्रवृत्तिविषयीकरणमित्यभेदादिनिष्ठाया दर्शितत्वात्। तस्मादविचाररमणीयोऽतस्मिंस्तद्ग्रह एव भ्रान्तिरारोपापरनामा, तत्क्षयश्च मोक्ष इति युक्तम्।



यदाहुर्गुरवः



तस्मात्प्रवृत्तेराक्षेपे विकल्पाकारजन्मनि।

मतो जलाद्यारोपोऽपि सत्यासत्यसमश्च सः॥

ततो यद्यपि तत्त्वेन नारोपो नाम कस्यचित्।

व्यवहारकृतस्त्वेष प्रतिषेद्धुं न शक्यते॥

मरीचौ जलवद् यावदनात्मन्यात्मकल्पनम्।

भ्रम एव हि संसारो निर्वाणं तत्त्वसंस्थितिः॥

ततश्च यावन्न विचारसंभवो

भवोऽयमन्यः शम इत्ययं नयः।

विचारलीलाललिते तु मानसे

भवः शमो वा क इहेति कथ्यताम्॥

तथा आर्यमैत्रेयनाथपादा अपि

न चान्तरं किंचन विद्यतेऽनयोः

सदर्थवृत्त्या शमजन्मनोरिह।

तथापि जन्मक्षयतो विधीयते

शमस्य लाभः शुभकर्मकारिणाम्॥

आर्यनागार्जुनपादाश्च

निर्वाणं च भवश्चैव द्वयमेव न विद्यते।

परिज्ञानं भवस्यैव निर्वाणमिति कथ्यते॥



इति सर्वैरेव प्रकाशैरविपरीतस्वरूपसंवेदनेऽपि भ्रान्तिव्यवस्थासंभवादस्ति संसारः॥



यदप्युक्तं विकल्पस्याविषयश्च बाह्यम् ग्रहणं चास्य शब्देन संयोज्येति विकल्पत्वमपि दुर्योजम्, आत्मनि च शब्दयोजना नास्तीति विकल्पो नाम नास्त्येव, तत्कस्य विकल्पचिन्तेति। अत्रभिधीयते। इहाग्निरत्रेत्यध्यवसायो यथा कायिकीं वृत्तिं प्रसूते तथाग्निर्मया प्रतीयत इति वाचिकीमपि प्रसूते, एतदाकारानुव्यवसायरूपां मानसीमपि प्रसवति। एवं च सति यथा विकल्पेनायमर्थो गृहीत इति निश्चयः, तथा शब्देन संयोज्य गृहीत इत्यपि, अर्थाकारलेशवच्छब्दाकारस्यापि स्फुरणात्। तस्मादर्थग्रहाभिमानवान् मानवस्तावदभिधानसंयुक्तग्रहणाभिमानवानपीत्यवसायानुरोधादेव विकल्पव्यवस्था न तत्त्वतः। यदाहुर्गुरवः



न शब्दैः संसर्गः क्वचिदपि बहिर्वा मनसि वा-

क्षराकाराकीर्णः स्फुरति पुनरर्थाकृतिलवः।

उभावप्याकारौ यदपि धिय एवाध्यवसिति-

र्विधत्ते तौ बाह्ये वचसि च विकल्पस्थितिरतः॥

अभाने प्रतिभाने वा न चारोपोऽपि कस्यचित्।

प्रतीत्योत्पादभेदेन व्यवस्थामात्रमीदृशम्॥

निर्विकल्पाद्विकल्पस्य भावे लेशानुकारिणः।

सङ्केतकारिवचनाद् बुद्ध्याकारे विशेषिणि॥

सङ्केतः कृत इत्यास्था तादृक् शब्दश्रुतौ पुनः।

प्रवृत्त्याक्षेपबुद्‍ध्यात्मभावे वाच्यव्यवस्थितिः॥



इति।

तस्माद् वस्तु वा घटपटादि सन्दिग्धवस्तु वा साधकबाधकातिक्रान्तम्, अवस्तु वात्मदिक्कालाक्षणिकादिकमध्यवसितमिति, अप्रतिभासेऽपि प्रवृत्तिविषयीकृतमित्यर्थः। अयमेव चारोपैकीकरणाध्यवसायाभेदग्रहादीनामर्थः सर्वत्र शास्त्रे बोद्धव्यः। तस्मादध्यवसायस्याकारविशेषयोगादगृहीतेऽपि प्रवर्तनयोग्यता नाम यो धर्मस्तया बाह्याध्यवसाययोर्ग्राह्यग्राहकभावश्चेत् संवृत्त्या दुष्परिहरः, तदा विषयिविषयभावोऽपि लब्ध इत्यध्यवसायमात्रेण विषयविषयित्वमुक्तमिति युक्तम्। यदाह अलङ्कारकारः

कथं तद्विषयत्वं तत्र प्रवर्तनादिति।



एतेन यदुक्तम् कथमवसीयमानस्तयात्मार्थो न प्रकाश्यत इत्यादि, तन्निरस्तम्, तदप्रकाशेऽपि तदध्यवसायस्य व्यवस्थापितत्वात्। असति चार्थे सा न स्यादित्यप्ययुक्तम्, आत्मादेरध्यवसेयस्य प्रतिभासप्रतिक्षेपे बुद्ध्या सह तादात्म्याभावात्। न च सर्वाकारनिश्चयप्रसङ्गदोषः सङ्गतः। सर्वाकारनिश्चयो हि सर्वेष्वाकारेषु प्रवृत्तिकारकत्वात्मा निरुक्तः, न चैकाकारोल्लेखिनो विकल्पस्याकारान्तरे प्रवर्तनशक्तिरनुभवविषय इति कुतः शब्दप्रमाणान्तरानपेक्षेति युक्तम्। तत्र निर्विकल्पकं स्पष्टप्रतिभासत्वाद् ग्राहकं व्यवस्थाप्यते। विकल्पस्तु स्पष्टैकव्यावृत्त्युल्लेखादारोपकादिव्यवहारभाजनम्। यथा च बाह्ये सति क्वचिद् भ्रमव्यवस्था तथान्तर्नयेऽपि सर्वत्र। केवलं बहिर्मुखप्रवृत्यपेक्षया क्रियमाणो नात्मनि कश्चिद् भ्रम इत्युक्तं भवति। न च गोस्वलक्षणप्रकाशावकाशः, स्वाकारस्यैव स्फुरणात्, स्वलक्षणे च संकेतायोगात्। विकल्पिकैव न स्यादिति तु स्वरूपापेक्षया सिद्धसाधनम्। बाह्यापेक्षया त्वध्यवसायवद् विकल्पिकैव सा बुद्धिस्तथा। तस्मादशेषगोव्यक्तिसाधारणेन गोत्वेन गोबुद्धिरलीकेन साभिलापेन विप्लवात् प्रख्यातीति तथा प्रख्यानमस्या गवावसाय इत्येष्टव्यमित्यपि नेष्टव्यमेव, चरणमर्दनादिना प्रत्यवस्थानेऽपि युक्तिशास्त्रबहिर्भूतत्वादेतदभावेऽपि कथितदोषप्रध्वंसात्। न हि विकल्पबुद्धावलीकाकारस्फुरणमेव बाह्यस्याध्यबसाय इति काचिदर्थसङ्गतिः, अर्थस्येति संबन्धानुपपत्ते। बुद्धेरत्र क्रमाभावात् प्रत्यक्षतैव, कथमध्यवसायः। अप्रतिभासमानस्यापि स्वलक्षणस्य भ्रान्त्यावसायादिति तु न बुध्यामहे। अवसायेन हि तद्वितिस्पर्शे प्रतिभासः कोऽपरः। तद्वित्तावप्यस्पष्टत्वादध्यवसाय इत्यप्ययुक्तम्, तद्‍रूपवित्तावस्पष्टत्वस्यैवाभावात्।

जातो नामाश्रयोऽन्योन्यश्चेतसां तस्य वस्तुनः।

एकस्यैव कुतो रूपं भिन्नाकारावभासि यत्॥



इति आचार्यः स्मर्यताम्। न च तदासौ भ्रान्तिर्भवितुमर्हति, वस्तुस्वरूपस्यैव निर्भासात्॥



अलीकवृत्तेरिति चेत्। सैवास्तु। बाह्यस्यास्फुरतोऽध्यवसायः कथम्। सैव स इति चेत्। अलीकमिदमिति विदुषो बाह्याध्यवसायव्यस्थाभावात्, बाह्यास्फुरणात् तदप्रतिबद्धत्वाच्च। प्रतिबन्धेऽपि तस्येपि स्यात्, न पुनस्तदध्यवसायः, तदस्फुरणस्फुरणयोरपि तदयोगादित्यलमतिनिर्बन्धेन। तदेवमप्रतिभासिनोऽपि विपक्षादध्यवसायमात्रसिद्धादेव व्यावृत्तो दोषत्रयनिर्मुक्तः प्रकाशमानतात्मको हेतुर्यावत्प्रकाशावधिज्ञानात्मकचित्राकारचक्रस्यैकत्वं साधयत्येव॥



यदाहुर्गुरवः

भासते यत्तदेकं तद्यथा चित्रे सिताकृतिः।

भासते चाखिलं चित्रं पीतशीतसुखादिकम्॥

नात्रासिद्धिः प्रकाशस्य चित्रे धर्मिणि दर्शनात्।

न च साध्यवियुक्तत्वं दृष्टान्तस्यापि दृश्यते॥

एकैकाणुनिमग्नत्वात् संवित्तिर्न परस्परम्।

न चैकाणुप्रकाशोऽस्ति स्थूलमेव स्फुरत्यतः॥

बाह्याणूनां प्रतीभासो बुद्धिरेका स्थवीयसी।

ज्ञानाणूनां क एकस्तु प्रतिभासो भविष्यति॥

तस्मात् स्थूलतया व्याप्तो निर्भासस्तन्निवृत्तितः।

निवर्तमानोऽनेकस्मादेकत्वे विनियम्यते॥

यथा सजातीयमताद् भागाद्भेदनिराक्रिया।

अनाभासप्रसङ्गेन विजातीयमतात् तथा॥

तन्नास्तु साध्यो दृष्टान्तो न च शङ्काविपर्यये।

अतो निर्दोषतो हेतोश्चित्राद्वैतव्यवस्थितिः॥



संग्रहश्लोकश्च

एकत्वेन यथाप्तिमानभिमतो भासस्तथा व्याप्यते

स्थौल्येनाप्यणुशो न हि क्वचिदिदं स्वप्नेऽपि निर्भासनम्।

तेन प्रत्यणुभेदनेत्युपरतं तद्‍व्यापकस्यात्यया-

देकत्वेन परीतमाकृतिचयश्चायं विनिर्भासते॥

इति॥

ननु चात्र दृष्टान्तदार्ष्टान्तिकयोरुभयमात्राप्येकत्वं प्रत्यक्षतोऽनुमानाच्च विरुद्धधर्माध्यासलक्षणात् प्रतिहतम्, तत् कथमनुमानादेकत्वसिद्धिरिति चेत्। उच्यते। यदेतत् प्रत्यक्षं भेदसाधकमुपनीयते, तत् किं नीलादीनामनात्मभूतमात्मभूतं वा। प्रथमपक्षे, आस्तां तावदेषामतो भेदसिद्धिः, सत्तामात्रमपि न सिध्येत्। स हि नीलादिकोऽर्थो जडो विज्ञानान्तरात्मालीकस्वभावो वा स्वीकर्तव्यः। त्रिष्वपि पक्षेषु प्रकाश्यप्रकाशकभावाभावः। तथा हि ज्ञानस्य प्रकाशकत्वं नाम किं विद्यमानत्वं व्यापारावेशो वा। प्रथमपक्षे सर्वसर्वदर्शित्वप्रसङ्गः, सर्वपुरुषज्ञानविद्यमानतायाः सर्वं प्रत्यविशिष्टत्वात्। तथा नीलादिभिरपि ज्ञानस्य ग्रहणप्रसङ्गः, तेषामपि विद्यमानत्वलक्षणग्राहकत्वसंभवात्॥



अथ ज्ञानत्वे सति विद्यमानत्वमिति सविशेषणं लक्षणमुच्यते। तत् किं नीलादीनामज्ञानत्वे कोशपानमायुष्मता कर्तव्यम्, येन सत्तामात्रेण समसमयं स्फुरतोर्विज्ञाननीलाद्योः प्रतिज्ञामात्रादेकस्य जडत्वालीकत्वबाध्यत्वाप्रकाशत्वादि व्यवस्थाप्यते।



अथ द्वितीयस्तदा स किं व्यापारः प्रत्यक्षस्यात्मा ज्ञानान्तरम्, अर्थस्यात्मार्थान्तरं वा स्यात्। प्रथमविकल्पे स्वात्मनि कारित्रविरोधः। द्वितीयपक्षे ज्ञानान्तरं यद्यन्यविषयम् अर्थस्य न किञ्चित्। तद्विषयत्वं चाद्यापि न सिद्धम्, तत्प्रत्यासत्तेरेव चिन्त्यमानत्वात्॥



तृतीये पुनः सङ्कल्पे नीलादिकं कृतमेव स्यात्, न प्रकाशितम्, तैलवर्त्यादिभिरिव प्रदीपः। प्रकाशस्तु स्वयमेव। तथा च ज्ञानान्तरत्वात् सन्तानान्तरवदप्रतिभासप्रसङ्गः।



चतुर्थे तु विकल्पे अर्थान्तरे कृते नीलादिकं तदवस्थमेव। न चानात्मप्रकाशनसामर्थ्यं ज्ञानस्य स्वीकर्तुमुचितम्, व्यापारवत् प्रकाशनस्याप्येवं निराकर्तव्यत्वात्। न चाग्निधूमयोः कार्यकारणभाव इव ज्ञानज्ञेययोरपि स्वाभाविको ग्राह्यग्राहकभावो वक्तव्यः, प्रमाणसिद्धकार्यकारणभाववद् ग्राह्यग्राहकस्वरूपयोरद्यापि निर्वक्तुमशक्यत्वादिति क्व नीलादिवार्तापि यद्भेदसिद्धिप्रत्याशा प्रत्यक्षतः सम्पद्यते॥



अथात्मभूतं तत् प्रत्यक्षमिति द्वितीयः पक्षः, तदात्मस्वसंवेदनमेव भेदसाधकमभ्युपगतं भवेत्। तच्च यदि प्रत्याकारं भिन्नं तदा सर्वेषां स्वस्वरूपनिमग्नत्वाच्चित्रप्रकाशप्रणाशप्रसङ्ग इत्युक्तम्।



अथैतद्दोषभयात् सर्वेषामाकाराणामेकत्वमेव स्वभावभूतं स्वसंवेदनमिष्यते, तदैतदेव चित्राद्वैतं विज्ञानमुच्यते, यदनेकाभिमतानां सहोपलब्धानां नीलसुखाद्याकाराणां स्वभावभूताखण्डस्वसंवेदनप्रत्यक्षं नाम। यदाहुर्गुरवः

भ्रमाभ्रमाकल्पनकल्पनानि,

शातासितादीन्यखिलाक्षजानि।

ज्ञानान्यभिन्नानि सहोपलब्धेः,

पूर्वापरत्वं तु न वेद्यमेव॥ इति।



तदेवं दृष्टान्तदार्ष्टान्तिकयोरुभयत्रापि स्वसंवेदनप्रत्यक्षसिद्धमेकत्वमविद्यावशाद् विप्रतिपत्तौ सत्यामनुमानतः साध्यते। अत एव स्वसंवेदनप्रत्यक्षादनुमानाच्च एकत्वसिद्धौ न प्रत्यक्षान्तरम्। नापि विरुद्धधर्माध्यासलक्षणमनुमानं भेदसाधनाय प्राप्तावसरम्, भेदग्राहकस्य भिन्नस्य प्रत्यक्षस्योक्तक्रमेणाप्रामाण्यात्, पक्षस्य प्रत्यक्षादिबाधितत्वात्।



ननु ब्रूयान्नाम किञ्चित्, तथापि प्रतिभासभेदाद् भेद एव, न हि दृष्टेऽनुपपन्नं नामेति चेत्। हन्त 1 प्रतिभासशब्देन किमभिप्रेतम्, किमाकारचक्रं स्फुरणं वा। तत्र यदि प्रथमः पक्षः, तदा बाह्येऽर्थे प्रत्येतव्ये बुद्ध्याकारः प्रमाणम्। तथाचाकारभेदो व्यवहर्तव्य एव। अन्यथा बाह्यभेदो न सिध्येत्। यदा पुनराकारचक्रमेव प्रमेयम् स्वसंवेदनं च प्रमाणं तदा तेनैव नीलादीनां स्वभावभूतेनाखण्डात्मना एकीकृतानां कथमप्रमादी भेदमाचक्षीत।



द्वितीयपक्षे तु स्फुरणं स्वभावभूताखण्डस्वसंवेदनमेवोक्तमिति। तथापि कथं भेदस्तस्माद् यथोर्ध्वमिन्द्रियप्रत्यक्षतः क्षणभेदे प्रतीतेऽप्यविद्यावशादेकत्वाध्यवसायः तथा तिर्यक्स्वसंवेदनप्रत्यक्षेणाकाराभेदेऽधिगतेऽप्यविद्यावशादेव भेदावसायः॥



यद्येवं विरुद्धधर्माध्यासतो विज्ञानाकारचक्रवद् व्याप्तोऽपि न भिद्येतेति चेत्। न, बाह्ये धर्मिण्यनेकत्वस्य साध्यस्य प्रत्यक्षाद्यबाधितत्वात्। बुद्ध्याकारकदम्बके तूक्तक्रमेण स्वसंवेदनादिसिद्धैकत्वेऽनेकत्वस्य प्रत्याख्यानाद् बाधकावतार एव नास्ति। तस्माद् विज्ञानत्वे सतीति हेतुविशेषणं कर्तव्यम् येन बाह्यस्यैव भेदः सिध्यति॥



ननु यदि विज्ञानात्मकं विचित्राकारचक्रमेकं तदा नीलाकार एव पीताद्याकारवृन्दं प्रविशेत्। तथा प्रकाशाकारचक्रयोरभेदो व्यक्तिसामान्यवत् प्रकाश एव, आकारचक्रमेव वा स्यादिति चेत्। असदेतत्। तथा हि द्वयोरप्यनयोः प्रसङ्गविपर्यययोः भेदः, स च बाह्यार्थवाद एव युज्यते, तत्र भेदग्राहकस्येन्द्रियप्रत्यक्षस्येष्टत्वात्। विज्ञानवादे त्वनात्मप्रकाशाभावात् स्वसंवेदनमेवैकं प्रमाणम्। ततोऽपि विपर्ययस्य भेदस्य सिद्धेः प्रसङ्गोऽप्यसङ्गतः इत्यद्वैतमेव।



किं च एवं स्थूलनीलाद्याकारोऽपि परमाणुमात्रे प्रविशेदित्यप्रतिभासंजगदापद्येत। अस्ति च प्रतिभासः। तस्माद् यथावस्थितानामेवाकाराणामखण्डस्वसंवेदनात्मतैवैकत्वम्, न भेदो न संकोचः स्वीकर्तव्योऽप्रतिभासप्रसङ्गात्। तथा कृतकत्वस्यानित्यत्ववस्तुत्वादिभिरभेदे कृतकत्वमेवानित्यत्वमेव वा स्यादित्यपि प्रसङ्गो वक्तव्य आपद्येत, सामान्यव्यक्त्योरिव तयोर्वस्तुतोऽभेदोऽखण्डात्मत्वात्॥



व्यावृत्तिभेद एव परमिति चेत्। यद्येवं प्रकाशनीलाद्योरप्ययमेव क्रमो जागर्तीत्येकावशेषप्रसङ्गो बालप्रलापः। तदेवं बाह्यं न नश्यति भिदाणुतयापि सत्त्वा-

दर्थक्त्रियाविरहसंकरतात्मभेदे।

बुद्धिस्तु नश्यति भिदैव विदैव सत्त्वा-

च्चित्राप्यतो न भिदमेति किमत्र कुर्मः॥

ननु देशवितानाप्तिर्नात्मान्तरवियोगिनः।

देशवितानहानौ न भास इत्यपि शक्यते॥

इति चेत्।

न स्वात्मान्तरमन्यात्मा स बाह्यस्यैव युज्यते।

बुद्धेः स्ववित्तिनिष्ठायाः यः परस्तस्य का गतिः॥

हन्त तथापि



नीलादिवत्तदेकं च कथमेतत् समेतु चेत्।

नीलमंशान्तरं चैकं कथं तद्भाति सङ्गतम्॥

नेष्टं तदपि चेत् तर्हि क्वाण्वन्तर्भिदि भासनम्।

न परीक्षाक्षमं चाणुः कुतस्तस्य तदा भिदा॥

मा भूदवस्तुभावाच्चेत् सोऽप्येकत्वहतौ भवेत्।

निर्भासादेकतासिद्धौ स्ववित्तेर्वस्तुता स्थिता॥

न प्रतीत्यसमुत्पादोऽनुत्पादो वास्य बाधकः।

एकानेकवियोगेऽपि स्फूर्तिमात्रेण सत्त्वतः॥

किं च पूर्वापरज्ञानमद्वैते यन्न विद्यते।

प्रतीत्योत्पन्नता तस्मादसिद्धेरप्यसाधनम्॥

अनुत्पादोऽप्यनेकान्तोऽकार्यकारणरूपकम्।

हानेऽपि हेतुफलयोः स्फुरद्‍रूपं क्व गच्छतु॥

एकानेकतया वस्तुव्याप्तिः सिद्धा यदि क्वचित्।

सर्वशून्यत्वसमये हेतुरिष्टविघातकृत्॥

अथ लोकप्र(सि)द्धौ च न सर्वलोककल्पितम्।

वस्तुव्यवस्था शरणं किं तु मानेन सङ्गतम्॥

न चाध्यक्षानुमानाभ्यामनङ्गं क्वचिदीक्षितम्।

यस्य राशिरनेकं स्यान्नापि वस्तु च किञ्चिन॥

यस्य चैकतरत्वाभ्यां सत्त्वव्याप्तिः स हन्यताम्।

अभ्रान्तवित्तिमात्रेण सत्तावादी तु जित्वरः॥



॥समाप्तश्चित्राद्वैतप्रकाशवादोऽयम्॥



ग्राहयं न तस्य ग्रहणं (न) तेन

ज्ञानान्तरग्राहयतापि शून्यः।

तथापि च ज्ञानमयः प्रकाशः

प्रत्यक्षपक्षस्तु तवाविरासीत्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project