Digital Sanskrit Buddhist Canon

8 स्थिरसिद्धिदूषणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

8 sthirasiddhidūṣaṇam

॥८॥

॥स्थिरसिद्धिदूषणम्॥



॥नमस्तारायै॥



यद्योगादन्धवद्विश्वं संसारे भ्रमदिष्यते।

सा कृपावशगैः पापा स्थिरसिद्धिरपास्यते॥



इह परे सकलपदार्थस्थैर्यप्रसाधनार्थं प्रत्यक्षमनुमानमर्थापत्तिं (च) प्रमाणान्याचक्षते। तथा हि स एवायं घटस्फटिकादिरिति प्रत्यभिज्ञाख्यं प्रत्यक्षमुदीयमानं स्थैर्यमुत्थापयति। न चेदमप्रमाणमभिघातव्यम्। अप्रामाण्यं हि भवदप्रामाण्यकारणोपपत्त्या वा भवेत्, प्रामाण्यलक्षणविरहाद् वा। यद्याद्यः पक्षः किमप्रामाण्यकारणम्, मिथ्यात्वमज्ञानं संशयो वा। न तावदत्र मिथ्यात्वम्। मिथ्यात्वं हि तद्विषये बाधकप्रत्ययाद् वा हेतूत्थदोषतो वा संभाव्येत। न तावद् बाधगन्धोऽपि संभवति, देशकालनरान्तरेष्वप्यसंभवात्। न चानवगतापि बाधा कदाचिदपि भविष्यतीति शङ्का युक्तिमती, निर्बीजशङ्कानुपपत्तेः।



अवश्यं शङ्कया भाव्यं नियामकमपश्यताम्।



इति दत्तावकाशा संशयपिशाची लब्धप्रसरा न क्वचिन्नास्तीति नायं क्वचित्प्रवर्तेत। अन्ततः स्निग्धान्नपानोपयोगेऽपि मरणदर्शनेन सर्वत्र शङ्कानिवृत्तेः। तस्मात् प्रामाणिकलोकयात्रामनुपालयता यथादर्शनमेव शङ्कनीयं नादृष्टपूर्वमपि। यदुक्तं कारिकायां



नाशङ्का निष्प्रमाणिका।



इति। बृहट्टीकायामपि

उत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधकम्।

स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत्॥



इति।



क्षणभङ्गसाधनं बाधकमस्येति चेत्। न। अनुमानस्य परम्परयापि प्रत्यक्षपूर्वकत्वात् प्रत्यक्षं प्रधानम्। प्राधान्याच्चानुमानस्य बाधकम्। न त्वनुमानमस्य। प्रत्यक्षान्तरं तु बाधकं भवति। यथा सर्पादिप्रत्ययस्य रज्वादिप्रत्यक्षम्। तच्चात्र न संभवति।



ननु प्रत्यक्षेऽपि बाधके कस्मान्न भवति परस्परप्रतिबन्धेन द्वयोरप्यप्रत्यक्षता। न। अर्थक्रियासमर्थवस्तुविषयाविषयत्वेन समानत्वाभावादेकस्य प्रत्यक्षाभासत्वादिति न सद्विषयत्वं बाधकप्रत्ययान्मिथ्यात्वम्। नापि हेतूत्थदोषत्तः, देशकालनरान्तरेऽर्थविसंवादात्। नाप्यज्ञानमप्रामाण्यकारणमत्रास्ति, प्रत्यभिज्ञानसंवेदनसंभवात्। न च संशयः। न हि तदेवेदं स्याद् वा न वेति स्फटिकादिषूदयति मतिः,किं तु तदेवेदं स्फटिकादिकमिति निरस्तविभ्रमाशङ्का। तन्नाप्रामाण्यकारणोपपत्त्या प्रत्यभिज्ञानस्याप्रामाण्यम्। नापि लक्षणक्षयात्। यदेव हि उत्पन्नमसन्दिग्धमदुष्टकारणजन्यं देशकालनरान्तरेष्वबाधितं च तदेव प्रमाणमिति नः सिद्धान्तः। तदुक्तम्



तस्माद् दृढं यदुत्पन्नं न विसंवादमृच्छति।

ज्ञानान्तरेण विज्ञानं तत्प्रमाणं प्रतीयताम्॥



तथा बृहट्टीकापि

तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम्।

अदुष्टकारणारब्धं प्रमाणं लोकसंमतम्॥



इति। एतच्च लक्षणमुक्तन्यायेन प्रत्यभिज्ञानेऽपि संभवतीति प्रमाणमेवेदम्। नन्विदमेकमेव न भवति, कारणभेदात्, विषयभेदात्, स्वभावविरोधाच्च। तथा हि स इति संस्कारकार्यम्, अयमिति चेन्द्रियकार्यम्। न च कारणभेदेऽपि कार्याभेदो विश्ववैचित्र्याहेतुकत्वप्रसङ्गात्। तथा सत्यपि स्फटिकः स्फटिक इति व्यपदेशाभेदे पूर्वदेशकालसंबन्धापरदेशकालसंबन्धाभ्यां विरुद्धधर्माभ्यां योगात् स्फटिकः पूर्वापरकालयोर्भिद्यत इति विषयभेदो वक्तव्यः। तथा स इति परोक्षम्, अयमिति साक्षात्कारः। न चानयोः स्वभावविरुद्धयोर्दहनतुहिनयोरिव शक्या शक्रेणाप्येकता आपादयितुम्, त्रैलोकस्यैक्यप्रसङ्गात्। न चास्य प्रामाण्यम्, विकल्पत्वेनावस्तुनिर्भासित्वात्,स्मार्तादविशेषाच्च। तस्मात् प्रत्यभिज्ञा एकत्वं स्थापयति भावानामिति मनोरथमात्रम्॥



अत्रोच्यते। एकमेवेदं प्रत्यभिज्ञानं समाख्यातम्। यद्यपीन्द्रियं केवलमसमर्थम्, यद्यपि संस्कारमात्रम्, संस्कारसध्रीचीनं तु इन्द्रियं भावयिष्यति प्रत्यभिज्ञानम्, तद्भावाभावानुविधानात् प्रत्यभिज्ञाभावाभावयोः। न हि नाजीजनद् बीजमात्रमङ्कुरमिति मृदादिसहितमपि न जनयति। अथ भवतु देशकालयोस्तत्संसर्गयोर्वा परस्परनानात्वम्, न तदवच्छिन्नस्य पद्मरागस्य, तस्य ताभ्यां तत्संसर्गाभ्यां चान्यत्वात्॥



ततोऽन्यत्वे तत्संसर्गयोः कुतस्तदीयत्वमिति चेत्। स्वभावादेवेति संसर्गपरीक्षायां निपुणतरमुपपादयिष्यते। न च स्वभावविरोधः, अनुमानस्याप्यनेकत्वप्रसङ्गात्। तदपि हि प्रत्यक्षमप्रत्यक्षं च, अविकल्पो विकल्पश्च, असमारोपः समारोपश्च। स्वानुभवावस्थापिताभेदस्य स्वरूपतद्ग्राह्यभेदापेक्षया प्रत्यक्षादीनामविरोध इति चेत्। न, इहापि साम्यात्। न खल्वेतदपि विज्ञानं तत्तेदन्ताधिकरणमेकमाभ्यामनुरक्तं स्फटिकं गोचरयदभिन्नं नानुभूयते नावसीयते वा। एकत्वेऽपि च वस्तुनस्तदनुरञ्जकतत्तेदन्ताभेदापेक्षया प्रत्यक्षतापरोक्षते न विरोत्स्येते, सहसंभवात्, विज्ञानैकत्वस्य च प्रमाणसिद्धत्वात्। न च स इति पूर्वदेशकालसंसर्गोऽयमिति च सन्निहितदेशकालसंसर्गं एकस्य विरुध्यते, यतो युक्तं यत्पद्मरागस्य स्वरूपे परिच्छिद्यमाने तदभावो व्यवच्छिद्यत इति तदव्यवच्छेदे तत्स्वरूपापरिच्छेदात् स्वप्रच्युतिव्यवच्छेद्यस्वभावत्वात् पद्मरागभावस्य तदनवच्छेदे तत्परिच्छेदानुपपत्तेः॥



कस्मात् पुनस्तदन्ये पुष्परागादयो व्यवच्छिद्यन्ते। तदभावाविनाभावादिति चेत्। स एव कुतः। प्रत्यक्षेण कदाचिदपि पुष्परागपद्मरागयोस्तादात्म्यानुपलम्भादिति चेत्। यत्र तर्हि ततस्तादात्म्यप्रतीतिः, न तत्र तदविनाभावः। समस्ति च सोऽयं पद्मराग इति देशकालावस्थानुगतमेकं पद्मरागमवभासयन्ती साक्षात्कारवती प्रतीतिः। न विकल्परूपतयास्या अप्रामाण्यम्, अभिलापसंसर्गप्रतिभासत्वप्रामाण्ययोरविरोधात्। न चेदं स्मार्तम्, अदेशकालावस्थावतोऽयं देशकालावस्थानुगतत्वेनाधिक्यादिति॥



अथ केशकुशकदलीस्तम्बादौ सत्यपि भेदे प्रत्यभिज्ञानमुत्पन्नमिति चेत्। उत्पद्यतां को दोषः। किमनेन प्रतिपादितं भवति। किं प्रत्यभिज्ञायाः साधारणानैकान्तिकत्वम्, अथ शब्दसाम्यादुभयोरप्यप्रामाण्यम्, उत संशयापादनमात्रम्। प्रथमः पक्षोऽनभ्युपगमादेव निरस्तः। न हीयमनुमानत्वेनोपन्यस्ता। अनुमानत्वेऽप्यबाधितत्वादिति विशेषणे न दोष इति प्रतिपादयिष्यामः। नापि द्वितीयः पक्षः, दृष्टान्तमात्रतः साध्यसिद्धेरयोगात्। केशोण्डुकादिविषयस्य चक्षुर्विज्ञानस्याप्यप्रामाण्ये घटादिप्रत्यक्षस्याप्रामाण्यप्रसङ्गात्। संशयमात्रं तु व्यवहारोच्छेदकत्वान्नाश्रयणीयमेवति प्रतिपादितमिति न तृतीयोऽपि पक्षः॥



किं च केशादौ यदि प्रत्यभिज्ञा व्यभिचारिणो, कार्यकारणप्रतीतिः किं न व्यभिचारिणी। या व्यभिचारिणो सा कार्यकारणप्रतीतिरेव न भवतीति चेत्। यद्येवं या विसंवादिनी सा प्रत्यभिज्ञैव न भवति तदाभासत्वादिति समानम्। प्रत्यभिज्ञानस्य च सति प्रामाण्येऽनुमानादिष्वनन्तर्भावे प्रत्यक्षतैव, संस्कारसहायेन्द्रियान्वयव्यतिरेकानुविधायित्वाच्च। सत्संप्रयोगे सतीन्द्रियाणां भावाच्च। तदियं प्रत्यभिज्ञा अनेकदेशकालावस्थासंबद्धमेकं स्फटिकादिकं गोचरयन्ती स्थैर्यं व्यवस्थापयति॥



तथानुमानतोऽपि स्थिरतासिद्धिः। प्रयोगः - विवादाध्यासितः स एवायं स्फटिकं इत्यादिप्रत्यभिज्ञाप्रत्ययो यथार्थः, अबाधितप्रत्ययत्वात्। यावानबाधितप्रत्ययः स सर्वो यथार्थ उपलब्धः। यथा स्वसंवेदनप्रत्ययः। अबाधितश्चायम्। तस्मात्तथेति। अबाधितत्वं च परोद्भावितक्षणिकत्वसाधनबाधकोद्धारान्निश्चेयम्॥



अथापरः प्रयोगः। विवादाध्यासिता भावाः पूर्वापरकालयोरेकस्वभावाः , अबाधितप्रत्यभिज्ञया प्रत्यभिज्ञायमानत्वात्। यद्यदबाधितप्रत्यभिज्ञया प्रत्यभिज्ञायते तत्सर्वमभिन्नम्। यथा यस्त्वया दृष्टो नीलोऽर्थः स एव मया दृष्ट इति नीलोऽर्थः प्रत्यभिज्ञायते। तथा चैते भावाः। तस्मात्तथेति। पूर्वं प्रत्ययस्य धर्मिता, अधुना भावानामिति विशेषः।



किं च सहेतुकत्वाद्विनाशस्य स्थैर्य सिद्धम्। प्रयोगः -विवादास्पदीभूता भावा यथास्वं विनाशहेतुसन्निधेः प्राङ् न विनाशिनः, सहेतुकविनाशत्वात्। यद्यद्धेतुकं तत्तदसन्निधौ न भवति। यथा वह्न्याद्यभावे धूमादिः। सहेतुकविनाशाश्चामी भावाः। तस्मात्तथेति। सहेतुकविनाशत्वं च घटस्याग्निधूमयोरिव प्रत्यक्षानुपलम्भतो मुद्गरविनाशयोरपि कार्यकारणभावसिद्धौ सिद्धम्। न च विनाशहेतोरसामर्थ्यवैयर्थ्याभिधानमुचितम्, अङ्कुरादिहेतोरपि तथात्वप्रसङ्गात्। शक्यं हि वक्तुमर्थस्याभविष्णुतायामसमर्थो जन्महेतुः, भविष्णुतायां व्यर्थ इति। अपि च अक्षणिकाः सन्तः, कारणवत्त्वात्। यत् कारणवत्तदक्षणिकम्। यथा भावविनाशः। कारणवन्तश्चेमे सन्तः। तस्मादक्षणिका इति।



कारणवत्त्वस्य साध्यविपर्यये वृत्तिशङ्का विनाशस्य सहेतुकत्वमेव निवर्तयतीति प्रसिद्धव्याप्तिकात् कारणवत्त्वादक्षणिकत्वसिद्धिरिति॥



तथा शङ्करः स्थिरसिद्धौ प्राह। नोत्पत्त्यनन्तरविनाशी भावः, प्रमेयत्वात्, वस्तुव्यावृत्तिवदिति। अविद्यमानविपक्षत्वादन्वय्येव हेतुः। प्रमेयत्वस्य क्षणिकत्वेन विरोधाभावात् सन्दिग्धव्यतिरेकित्वमिति चेत्। न खलु क्षणिकत्वे कस्यचित्प्रमेयत्वं सिध्यति, क्षणस्थितिधर्मणः प्रमाणकालेऽपातात्। अतीतस्य च प्रमेयत्वेऽतिप्रसङ्गादिति।



एवमेव प्रयोगमुपस्तुवन् त्रिलोचनोऽप्याह। अक्षणिकाः सर्वभावाः, प्रमेयत्वात्।यत् प्रमीयते तदक्षणिकम्। यथा भावविनाशः। प्रमेयाश्च सर्वभावाः। तस्मादक्षणिका इति।



असिद्धो दृष्टान्तधर्मीति चेत्। न। स्वकारणकलापादुत्पन्नवतो भावस्यान्तरेण निवृत्तिप्रसवं सर्वदावस्थानप्रसङ्गात्। तदैव भावोऽस्ति न पूर्वं न प्रश्चादित्यपि शब्दः क्षणिकपर्यायत्वेनेष्यमाणः क्षणादूर्ध्वं सत्त्वाविच्छेदोपजननमन्तरेण नार्थवान् देवैरपि शक्यः परिकल्पयितुम्। विनाशकालापेक्षया हि क्षणोऽल्पीयान् कालः। तेन सोऽस्यास्तीति क्षणिको वक्तव्यः। इतरथा जन्मविनाशयोरेकस्मिन् काले भवतोः तुल्यहेतुकत्वेनैकत्वप्रसङ्गः। एकत्वे तु द्वयोरेकतरः प्रहातव्यः। तत्र जन्मप्रहाणे भावा निःस्वभावाः प्रसज्येरन्। निवृत्तिपरित्यागे च जन्मिनो भावा नित्या इति दुर्निवारः प्रसङ्गः। तत् सिद्धो दृष्टान्तः॥



ननु प्रमेयत्वक्षणिकत्वयोर्विरोधाऽसिद्धेः सन्दिग्धविपक्षव्यावृत्तिकं प्रमेयत्वमिति चेत्। नैतदस्ति। यस्मादर्थं कञ्चित् प्रापयत् प्रत्यक्षं तेन प्रत्यासन्नत्वात्प्रापयति। प्रत्यासत्तिश्च तदुत्पतिरेवावकल्पते, न तादात्म्यम्, साकारनिराकारवादयोरप्रकृतत्वात्। अन्यत्र निराकृतत्वाच्च। सा च नियतवस्तुप्रतिभासाक्षिप्ता कार्यकारणभावलक्षणा प्रत्यासत्तिस्तुल्यकालं प्रमाणप्रमेययोरनुपपन्ना, सव्येतरविषाणयोरिव। ततः प्रमाणमर्थसत्तां बोधयत्तदधीनोत्पादतया बोधयति। कारणभावमात्रानुबन्धित्वाच्च तस्य पूर्वकालसत्तया भवितव्यम्। अतः पूर्वकालसत्त्वेन व्याप्तं प्रमेयत्वम्। पूर्वकालसत्त्वं च क्षणिकत्वेऽनुपपन्नमिति व्यापकानुपलब्ध्या विपक्षात् क्षणिकत्वाद् व्यावर्तमानं प्रमेयत्वमक्षणिकत्वेन व्याप्यत इति असन्दिग्धो व्यतिरेकः । तदेवमनुमानप्रमाणसिद्धोऽक्षणिक इति॥



एवमर्थापत्तिरप्यस्य साधिका। तथा हि कार्यकारणभावग्रहणं क्रमयौगपद्यग्रहणस्मरणम् अभिलाषः स्वयंनिहितप्रत्यनुमार्गणं दुष्टार्थकुतूहलविरमणं कर्मफलसंबन्धः संशयपूर्वकनिर्णयः बन्धमोक्षः मोक्षप्रयत्नः शुभोदर्के कर्मणि प्रवृत्तिः प्रत्यभिज्ञा कार्यकारणभावः उपादानोपादेयभावप्रभृतयः स्थिरसत्तामन्तरेणानुपपद्यमानाः स्थैर्य साधयन्ति। प्रतिक्षणं भेदे सत्यनुभवितुर्विनष्टत्वेऽन्यस्य कार्यकारणभावग्रहणाद्यनुपपत्तेरिति कथं क्षणभङ्गशङ्कापि॥



अत्राभिधीयते। अप्रमाणमेवायं प्रत्यभिज्ञाख्यो विकल्पो मिथ्यात्वं च सद्विषयत्वबाधकप्रत्ययात्। नन्वस्य बाधकं प्रत्यक्षमसम्भवि, अनुमानं चासमर्थमावेदितमिति चेत्। नन्वस्य प्रत्यभिज्ञानस्य स्वार्थाविनाभावदार्ढ्ये प्रत्यक्षसहस्रेणापि किम्। संवादशैथिल्ये तु बाधकप्रत्यक्षवदनुमानमपि प्राप्तावकाशम्, प्रमाणस्यैव सिद्धिबाधयोरधिकारात्। तथा हि मायाकारः शिरसि निमज्जितं गोलकमास्येन निःसारयतीति प्रत्यभिज्ञा शिरसि च्छिद्रप्रसङ्गसङ्गतेनानुमानेन बाध्यमाना प्रतीतैव। बाध्यमाना न प्रत्यभिज्ञेति प्रस्तुतेऽप्यस्तु। यथावनताकाशप्रतिभासः सर्वसंप्रतिपत्तावपि बाध्य एव तद्वदेकताग्रहः सर्वसंप्रतिपत्तावपि बाध्योऽस्तु। तस्मादस्याः प्रत्यक्षताकीर्तनं याचितकमण्डनमात्रमत्राणम्। कथमतः स्थैर्यस्थितिरस्तु । ततश्चानुमानत्वमप्यस्या ध्वस्तम्, उक्तक्रमेण अबाधितत्वविशेषणविरुद्धबाध्यमानतायाः प्रसाधनादिति विशेषणासिद्धो हेतुः। यदापि क्षणभङ्गसाधकं बाधकं नोच्यते अस्यास्तदापीयमप्रमाणमेव, लूनपुनर्जातकेशपाशादौ व्यभिचारोपलम्भात्॥



ननूक्तं या व्यभिचारिणी सा न प्रत्यभिज्ञेत्यादि। युक्तमेतत्, यदि कार्यकारणभावप्रतीतिवल्लक्षणभेदः प्रतिपादयितुं शक्येत। यथा ह्यन्वयव्यतिरेकग्रहणप्रवणप्रत्यक्षानुपलम्भादुपपन्नो निश्चयः कार्यकारणभावप्रतीतेरन्यस्तदाभासप्रतीतिरित्यनयोर्लक्षणभेदः, तथा यदि प्रत्यभिज्ञानेऽपि लक्षणभेदो दर्शितः स्यात्, दर्शयितुं वा शक्यो व्यभिचाराव्यभिचारोपयोगी, तदा भवतु प्रत्यभिज्ञातदाभासयोर्विवेकः। न त्वेवमस्ति, सर्वत्रात्यन्तसदृशे वस्तुनि पृथग्जनप्रत्यभिज्ञाया एकरसत्वात्॥



संवादित्वासंवादित्वे लक्षणभेद इति चेत्। न। अलिङ्गस्य हि विकल्पस्य संवादो नाम प्रमाणान्तरसङ्गतिरर्थक्रियाप्राप्तिर्वा। तत्र न तावदाद्यः पक्षः, पश्चादपि स एवायमिति स्वतन्त्रैकाध्यवसायमात्रादपरस्य प्रमाणगन्धस्याप्यभावात्।



नापि द्वितीयः पक्षः संगच्छते। न हि पूर्वापरकालयोरेकवस्तुप्रतिबद्धा सिद्धा काचिदर्थक्रियाः, भिन्नेनापि तत्समानशक्तिना तादृगर्थक्रियायाः करणाविरोधात्। तथा हि यथैको घटो वारि धारयतीति तत्कालभाविनोऽप्यन्यस्य देशान्तरवर्तिनो न वारिधारणवारणम् तथा द्वितीयादिक्षणोप्यन्यो यदि वारि धारयति, कीदृशो दोषः स्यात्। विसदृशक्रियायां तु चिन्तैव नास्ति। तत्कथं प्रत्यभिज्ञानस्य संवादसंभवः॥



ननु यद्येकं प्रत्यभिज्ञानं बिसंवादि दृष्टमिति सर्वमेव प्रत्यभिज्ञानं विसंवादि शङ्क्यते, तदैकमिन्द्रियज्ञानं केशोण्डुकद्विचन्द्रादौ विसंवाद्युपलब्धमिति घटादिष्वपि सर्वमेव प्रत्यक्षं विसंवादि संभाव्यताम्, इन्द्रियजन्यत्वस्यैकलक्षणस्य सर्वत्र संभवादिति चेत्। न। तत्रापि लक्षणभेदस्य सद्भावात्। तथा हि बहिरर्थस्थिताविन्द्रियार्थकार्यतया साक्षादर्थाकारानुकारित्वं प्रत्यक्षत्वम्। तच्चाभ्यासविशेषासादितपटिम्ना प्रत्यक्षेण निश्चीयते। क्वचित्त्वर्थक्रियाप्राप्तिज्ञानादिति प्रत्यक्षत्वमनवद्यमेव। द्विचन्द्रादौ त्वर्थविनाकृतेन तिमिरादिविप्लुतचक्षुर्मात्रेण तज्ज्ञानं जनितमिति प्रत्यक्षाभासमेव। द्विचन्द्राद्यर्थाभावस्तु देशकालनरान्तरैर्द्विचन्द्रादेरर्थस्य बाधितत्वादव्याहत इति प्रत्यक्षाभासपरिहारेऽपि प्रत्यक्षेषु क आश्चासविरोधः। प्रत्यभिज्ञानेऽपि सर्वमिदमस्तीति न युक्तम्॥



यथा हि पूर्वं पावकादौ पाकादिक्रिया प्रतिबद्धा सिद्धा पश्चादनुभूयमाना दहनज्ञानस्य संवादमावेदयति, अन्यथा बाह्यार्थोच्छेदान्निरीहं जगज्जायते, न तथा प्रथमचरमकालयोरेकीमावप्रतिबद्धा काचिदर्थक्रिया उपलब्धिगोचरा पूर्वापरकालयोरेकत्वमन्तरेण वा प्रवृत्त्यादिक्षतिर्येनैकतावग्रहोऽपि संवादी स्यात्। तदियमनुमानबाधितत्वाद् व्यभिचारशङ्काकलङ्कितत्वाच्चन प्रत्यक्षमनुमानं वेति कथमतः स्थैर्यसिद्धिरनुमानप्रतिहतिर्वा॥



यत् पुनर्वाचस्पतिरूवाच संस्कारेन्द्रिययोर्मिलितयोरेव प्रत्यभिज्ञानं प्रति कारणत्वमिति, तदयुक्तम्, भिन्नसामग्रीप्रसूतत्वादनयोर्ज्ञानयोः। तथा हि निमीलिते चक्षुषि स इत्यत्रेन्द्रियविनाकृतस्यैव संस्कारस्य सामर्थ्यमुपलब्धम्। प्रथमदर्शने त्वयमित्यत्र संस्काररहितस्यैवेन्द्रियस्य सामर्थ्यं दृष्टम्। तस्मात् सामग्रीद्वयप्रतिबद्धं ज्ञानद्वयमिदमवधारितम्। कथमुभाभ्यां मिलित्वैकमेव प्रत्यभिज्ञानमुत्पादितमित्युद्घुष्यते। बीजक्षित्याद्योस्तु पृथक् सामर्थ्यं न दृष्टमित्येकैव सामग्रीत्यङ्कुरोऽप्येक एवास्तु। तथा पूर्वदेशकालापरदेशकालाभ्यां तत्संबद्धाभ्यामन्यत्वात् पद्यरागस्याभेद इत्यप्यसङ्गतम्। विरुद्धयोर्धर्मयोः पद्मरागादन्यत्वेऽपि विरुद्धधर्मयोगात् पद्मरागस्य भेदः कथमपह्नयते, त्रैलोक्यैकत्वप्रसङ्गस्य दुर्वारत्वात्। न हि धर्मधर्मिणोरन्यत्वेऽपि ब्राह्मणत्वचाण्डालत्वे एकाधारे भवितुमर्हत इति पद्मरागस्य भेदो दुरतिक्रमः। तथा च न स्वभावविरोधोऽनुमानस्याप्यनेकत्वप्रसङ्गात्। तदपि प्रत्यक्षमप्रत्यक्षं चाविकल्पो विकल्पश्चासमारोपः समारोपश्चेत्यप्ययुक्तम्। अनुमानस्य हि परमार्थतः स्वसंवेदनप्रत्यक्षात्मनोऽविकल्पस्यासमारोपस्वभावस्याप्रत्यक्षत्वविकल्पत्वसमारोपत्वादेः परापेक्षया प्रज्ञप्तत्वाद् विरुद्धधर्माध्यासाभावात् कथं भेदसिद्धिः। स ए वायमिति तु प्रत्यभिज्ञानस्य स इत्यस्पष्टाकारयोगित्वम्, अयमिति स्पष्टाकारयोगित्वमिति विरुद्धधर्मद्वयं भेदकम्॥



न चैवं वक्तव्यम् तत्तेदन्तापेक्षया प्रत्यभिज्ञानस्याप्येकस्यैव पारोक्ष्यापारोक्ष्यमविरुद्धमिति। न होदमेकाकारतया व्यवस्थितम्, येनानुमानवदस्यापि पारोक्ष्यापारोक्ष्यव्यवस्थामात्रं स्यात्। यावदतीतार्थाकारानुकारो वर्तमानार्थानुकारश्च स्वधर्मो न भवति तावत्तदर्थगोचरतैव नास्ति। कुतः पारोक्ष्यापारोक्ष्यव्यवहारो भविष्यति। तस्मात् स्पष्टास्पष्टाकारद्वयविरुद्धधर्माध्यासात् प्रत्यभिज्ञानं प्रत्ययद्वयमेतदिति स्थितम्॥



तथा सहेतुकविनाशत्वादयमप्यसिद्धो हेतुः। यत्पुनरत्रोक्तम् सहेतुकविनाशत्वं घटस्याग्निधूमयोरिव प्रत्यक्षानुपलम्भतो मुद्गरघटविनाशयोरपि कार्यकारणभावसिद्धौ सिद्धमिति, तदसङ्गतम्, अग्निधूमयोर्द्वयोरपि दृश्यत्वात्, प्रत्यक्षानुपलम्भतो धूमस्य वह्निकार्यता सिध्यतु। विनाशशब्दवाच्यस्त्वर्थो न कश्चिदिदन्तया दृष्टः। कर्परमेव घटमुद्गराभ्यामुत्पद्यमानमुपलब्धम्। यदाहुर्गुरवः



दृष्टस्तावदयं घटोऽत्र च पतन् दृष्टस्तथा मुद्गरो

दृष्टा कर्परसंहतिः परमतो नाशो न दृष्टः परः।

तेनाभाव इति श्रुतिः क्व निहिता किं वात्र तत्कारणं

स्वाधीना पलिघस्य केवलमियं दृष्टा कपालावलिः ॥



तदयमभावो दृश्यानुपलब्धिबाधितः कथं प्रत्यक्षतो मुद्गरादिकार्यमवधार्यः॥



यत्पुनरस्मिन्नदृश्यमानेऽपि दृश्यत इति वाग्जालं सा भण्डविद्या। तद्वचनाद् गृह्णान्नपि पशुरेव। तथा हि



कस्यचित् प्रतिभासेन साध्यतेऽप्रतिभासि यत्।

प्रतिभासोऽस्य नास्येति नोपपत्तेस्तु गोचरः॥ इति।



अथैवं वक्तव्यम् किमन्येन ध्वंसेन, कर्परमेव घटध्वंसोऽस्तु, तथा च सति मुद्गराद्यभावे कर्पराभावात् घटस्थैर्यमव्याहतमिति। दुराशा खल्वेषा। तथा हि यथा नाशशब्देन कर्परमुच्यते तथा यद्यभावशब्देनापि कर्परमेवोच्यते तदैकत्र प्रदेशे घटमेकमपनीय घटान्तरन्यासे तत्रापनीतघटस्याभावव्यवहारो न स्यात्, तत्प्रध्वंसकपालयोस्तत्रानुत्पादात्। तस्माद्यथापनीतघटस्य प्रच्युतिमात्रापेक्षया न्यस्तघटेऽभावव्यवहारस्तथा मुद्गरादिकारणाभावात् प्रध्वंसकर्परयोरनुत्पादेऽपि प्रच्युतिमात्रापेक्षयैव प्रतिक्षणमन्यान्यत्वव्यवहारो घटस्य सिध्यतीति कुतः स्थैर्यसिद्धिः। तस्मात् प्रध्वंसकर्पराभावेऽपि प्रच्युतिमात्रात्मकभावापेक्षयाप्यस्मन्मतमव्याहतम्। यदाहुर्गुरवः



आस्तां कर्परपंक्तिरेव कलशध्वंसो न चेयं पुरा

तेन स्थैर्यमपि प्रसिध्यतु ततो भिन्नेन नाशेन किम्।

अत्रोत्तरम्,

नाशः सैव यथोच्यते यदि तथाभावोऽपि कुम्भान्तर-

न्यासेऽभाववचः कथं मतमतः सिध्यत्यभावोऽपि न॥



इति।

ननु यदि स्वहेतुजनितो नाशो नास्ति, कथं क्वचिदेव देशे काले घटो नष्ट इति प्रतीतिनियमः। न च मुद्गरादन्यो नाशस्य हेतुर्वक्तव्यः, प्रागपि नाशसंभवे नष्टघटबुद्धिसंभवप्रसङ्गात्। यदाहुः



नाशो नास्ति यदि स्वहेतुनियतः किं देशकाले क्वचित्

कुम्भो नष्ट इति प्रतीतिनियमस्तेनास्ति कार्यश्च सः।

नाप्यन्यत् किल कारणं रयवतो दण्डात्पुराप्यन्यथा

नाशोक्ता न कृता विनष्टघटधीः केनोद्धुरा वार्यते॥



इति चेत्। तर्हीदानीमर्थापत्त्या प्रध्वंसं प्रसाध्य मुद्गराधीनत्वमस्य साधयितुमारब्धम्। तथा च सति धूमाग्निवत् प्रत्यक्षतः प्रध्वंसस्य मुद्गरादिकार्यत्वं सिद्धमित्युत्फुल्लगल्लमुल्लपितं व्यालुप्तम्॥



न चार्थापत्तितोऽपि तत्सिद्धिः संद्यपते, कुम्भो नष्ट इति प्रतीतेरन्यथाप्युपपद्यमानत्वात्। विनाशं विनापि हि घटदर्शनवतो मुद्गरकृतकपालानुभव एवनष्टघटावसायसाधनः, किमपरेण नाशेन कर्तव्यम्, घटो नष्ट इति बुद्धेर्घटनिश्चयपूर्वकमुद्गरकृतकपालानुभवमात्रान्वयव्यतिरेकानुविधानदर्शनात्। न चेयं सामग्रीपूर्वमप्यस्ति। मुद्गराभावे कर्परपंक्तेरेवाभावात् कथं प्रागपि नष्टघटबुद्धिप्रसङ्गः संगतो नाम। यदाहुर्गुरवः



दृष्टेऽम्भोभृति मुद्गरादिजनिता दृष्टा कपालावली

सङ्केतानुगमाद्विनष्टघटधीस्तावत् समुत्पाद्यते।

सामग्र्यामिह नाशनाम न किमप्यङ्गं न चास्यामपि

स्यादेषा न कदापि नापि च पुराप्येषा समग्रा स्थितिः॥

अर्थापत्तिरतो गता क्षयमियं न ध्वंससिद्धौ प्रभुः॥ इति॥



यदि नाशानुभवो नास्ति कपालानुभवात् कपालकल्पनैव स्यात्, न नष्टघटबुद्धिरिति चेत्। तदेतदतिसाहसम्, घटनिश्चयपूर्वककपालवलयदर्शनादेव नष्टघटबुद्धेः साक्षादेवानुभूयमानत्वात्। तदपलापे धूमादीनामपि दहनादिपूर्वकत्वनिश्चयो न स्यादित्यतिप्रसङ्गः॥



ननु घटो नष्ट इति बुद्धिर्विशेष्यबुद्धिः। सा च विनाशं विशेषणमाक्षिपतीति चेत्। तदसत्, यतः



स्वबुद्ध्या रज्यते येन विशेष्यं तद्विशेषणम्।



उच्यते। न चाविद्यमानमदृश्यं वा स्वबुद्ध्या किञ्चिद्रञ्जयति। प्रयोगोऽत्रयस्य न स्वरूपनिर्भासस्तन्न कस्यचित् स्वानुरक्त प्रतीतिनिमित्तम्। यथा करिकेशरः। नास्ति च स्वरूपनिर्भासो ध्वंसस्येति व्यापकानुपलब्धिः। नास्या असिद्धिः, अभावस्य स्वरूपेणैवेदन्तया निर्भासाभावात्। न च विरुद्धता, सपक्षे भावात्। नाप्यनैकान्तिकत्वम्, प्रतिभासाभावेऽपि स्वानुरक्तप्रतीतिहेतुत्वे शशविषाणादेरपि तथात्वं स्यादित्यतिप्रसङ्गः।



ननु

न ध्वंसेन विना विनश्यति जगद् भावेन सार्धं सचेत्

सच्चासच्च किमस्तु वस्तुनियतं भावानुजोऽसौ ततः।

भावात् तेन तु भिन्नकारणतया तत्कारणासंभवे-

ऽभावात्तेन कृतान्यतापि गलिता भङ्गः कुतोऽनुक्षणम्॥



अत्रोच्यते। कारणान्तरादुत्पद्यमानो ध्वंसोऽभिन्नो भिन्नो वा। नाद्यः पक्षः, भिन्नकारणत्वात्, तैरनभ्युपगतत्वाच्च। अथ द्वितीयः पक्ष। तदा कः पुनर्भावस्य प्रद्वेषो येन प्रध्वंसाख्ये वस्तुनि स्वहेतोरुत्पन्ने निवर्तते नाम॥



यत्पुनरेतदुच्यते - नाभावस्योत्पादे भावस्यापरा निवृत्तिः, किं त्वभावोत्पत्तिरेव तन्निवृत्तिरिति। कथमन्यस्योत्पादेऽन्यस्य निवृत्तिः। अत्र स्वभावभेदैरुत्तरं वाच्यम् ये परस्परपरिहारस्थितयः स्वहेतुभ्यो जायन्ते। न हि स्वतोऽन्यस्याङ्कुरस्य वह्निर्न कारणमित्यन्यत्वाविशेषाद् भस्मनोऽपि न कारणम्। स्वभावभेदेनतु कार्यकारणभावसमर्थनं परस्परपरिहारस्थितिनियमेऽपि तुल्यम्। यथा चोत्पादस्य पुरस्तादखिलसामर्थ्यरहितस्याङ्कुरप्रागभावस्यापकारं कञ्चिदकुर्वन्तोऽपि बीजादयोऽङ्कुरमारभमाणाः प्रागभावं निवर्तयन्ति, तदुत्पादस्यैव तत्प्रागभावनिवृत्तिरूपत्वात्; एवं तदभावहेतवोऽपि भावरूपेऽकिञ्चित्करा अपि तदभावमादधानास्तन्निवर्तयन्ति, अभावोत्पादस्यैव भावनिवृत्तिरूपत्वात्। तेन पूर्ववन्नार्थक्रियाकरणप्रसङ्ग इति। तदुचितं स्याद् यदि कार्यकारणयोरिवास्या प्यात्मा प्रमाणप्रतीतः स्यात् , केवलं दृश्यानुपलम्भग्रस्तेऽप्येतस्मिन्नुपलभ्यत इति प्रलापो व्यक्तमियं भण्डविद्येत्युक्तम्। अर्थापत्तिरपि क्षीणेत्यपि प्रागभावस्य च दृष्टान्तत्वेनोपन्यासो भण्डालेख्यन्यायः।



किं च कः पुनरत्र विरोधः

सहस्थानाभावो यदि तव विरोधोऽर्थविपदोः

सहस्थानासङ्गः क्षणमपि यथा शीतशिखिनोः।

स च ध्वंसो ध्वंसान्तरमुपनयन् संप्रति भवेद्

विरोधी सोऽप्यन्यं क्षयमिति न नाशः कथमपि॥



अन्यथा सिद्धसत्तामात्रेण विरोधित्वे सर्वं सर्वेण विरुद्धं प्रसज्येत। स्वभावालम्बनमप्यदर्शनादेव निरस्तमिति।



अथान्योन्याभावप्रकृतिकतयार्थे सतो तदा

क्षयस्यैवाभावः सह भवतु वा हेतुबलतः।

अनेन ध्वंसे च प्रकृतहतिरस्य त्वनुदये

बलीयानेवार्थः स्वयमपचयेऽन्येन किमिह॥



सच्चासच्च किमस्तु वस्त्विति तु प्रसङ्गः त्रिलोचनप्रस्तावे निराकरणीयः। अत एवात्र प्रस्तावे भुवनैकगुरून् भगवतः कीर्तिपादानवमन्यमानः शङ्करः पशोरपिपशुरिति कृपापात्रमेवैष जाल्मः।



यदप्याह त्रिलोचनः भावव्यतिरिक्तां निवृत्तिमनिच्छद्भिरशक्या स्वरूपनिवृत्तिरवस्थापयितुम्। या हि तस्य प्राक्तनी काचिदवस्था भवद्भिरर्थक्रियानिर्वर्तनयोग्या दृष्टा सैव यद्युत्तरकालमप्यनुवर्तते तर्हि स्वरूपेणैव निवृत्तो भावः कथमवस्थाप्यते। तदानीमयं नष्टो नाम यदि स्वहेतुप्रतिलब्धस्वरूपव्यतिरेकिणी तस्य काचिदवस्थोत्पद्येत, उत्पत्तौ सैव तस्यात्मान्तरं जातमित्यतादवस्थ्यमेवास्य विनाशं ब्रूमः। तादवस्थ्ये तादात्म्ये च स्वरूपेण निवृत्तो भाव इत्यस्य शब्दस्य सत्यमर्थं न विद्मः। स्वरूपनिवृत्तिः खल्वियं भवन्ती भाव एव स्यात्, भावादन्या वा। तत्त्वे स्वकारणेभ्यो निष्पन्नस्यार्थस्यान्यथानुपपत्तावुत्पत्तेरारभ्य सत्त्वान्नित्यत्वं प्रसज्येत। अन्यत्वे च तदेव निवृत्तेरन्यत्वनिवृत्ति(रिति) प्रियमनुष्ठितं प्रियेण। तस्मादुत्सृज्य विभ्रमं नाशोत्पत्तिरेव नष्टत्वमभ्युपगन्तव्यमिति।



तदेतदज्ञानफलम्। तथा हि

स्वकारणादेव यथान्यदेश -

विच्छिन्नरूपः समुदेति भावः।

विच्छिन्नभिन्नक्षणवृत्तिरेवं

स्वकारणादेव न जायते किम्॥

अभावतोऽर्थान्तररूपबाधे

तत्रापि चार्थान्तरमीक्षणीयम्।

प्रदीपदृष्टान्तमतं न कान्तं

स्वरूपसंदर्शनविप्रयोगात्॥



यथा हि देशान्तरपरावृत्तमनीलादिपरावृत्तं च स्वहेतोरुत्पन्नं वस्तु तथा द्वितीयक्षणान्तरपरावृत्तमपि। यथा चान्यदेशानवस्थायित्वं तद्देशावस्थायित्वेनाविरुद्धम्, विरुद्धं च देशान्तरावस्थायित्वेनैव तथा द्वितीयक्षणावस्थायित्वं प्रथमक्षणावस्थायित्वेनाविरुद्धम्, विरुद्धं पुनर्द्वितीयक्षणावस्थायित्वेनैव। केवलं देशान्तरद्वितीयक्षणयोस्तत्प्रच्युतिमात्रं व्यवह्रियते। तदन्योन्याभावप्रध्वंसाभावयोः पदार्थयोः सद्भावेऽप्यवार्यम्, अभावान्तरास्वीकारेऽपि भावाभावयोरप्यमिश्रत्वास्वीकारे तादात्म्यप्रसङ्गात्। तस्माद् भावाभावयोस्तादात्म्यमिति। यथार्थक्रियाकारित्वस्य तद्देशवर्तित्वनीलत्वादिभिन्नविरोधस्तथा द्वितीयक्षणानवस्थायित्वेनापीति विवक्षितम्। परमार्थतस्तु धर्मिधर्मयोस्तादात्म्यं व्यावृत्तिकृतो भेदव्यवहार इति अपोहसिद्धौ प्रसाधितम्। एतच्चोक्तक्रमेणाविरुद्धमापादितम्। एतावति तु तत्त्वे वाक्छलमात्रप्रवृत्ता द्वेषविषज्वलितात्मानः क्षुद्राः प्रलपन्तीति किमत्र ब्रूमः।



ततश्च व्यतिरिक्तनिवृत्त्युत्पत्तिमन्तरेण स्वरूपनिवृत्तेरुपपत्तेः कथं क्षणादूर्ध्वं प्राक्तनसत्तावस्थितिः। तस्मादुत्सृष्टविभ्रमं नष्टव्यवहारमात्रमस्तु, न त्वस्यान्यत् किञ्चिज् जायेत, भावस्य तादवस्थ्यप्रसङ्गात्। अभावः कथं निषिध्यत इति चेत्। न, तदनुत्पत्तिमात्रविषयस्य वाचानिश्चयेन च पश्चादभावव्यवहारमात्रप्रवर्तनस्येष्टत्वाद् वस्तूत्पत्तेरेव निषिद्धत्वात्।



ननु केयं वाचोयुक्तिः, अभावव्यवहारमात्रमिष्यते पश्चान्नाभाव इति। एवं सति विसंवादिताप्रसङ्गोऽभावव्यवहारस्य। अभावश्च मिथ्येति भाव एव प्रतिषेध्यस्य स्यात्। स चाभावः पश्चा(द्) भवतीति स्फुटतरमस्य कादाचित्कत्वात्सहेतुकत्वम्, वस्तुत्वं चेति। असदेतत्, अभावाख्यवस्त्वन्तरास्वीकारेऽपि प्रच्युतिमात्रापेक्षयापि व्यवहारस्य चरितार्थत्वप्रतिपादनात्।



यत्तु तद्विविक्तभूतलादेर्विषयत्वमाशङ्क्योक्तम्, न भूतलादेर्वस्त्वन्तरत्वात्। न च वस्त्वन्तरे प्रतिपादिते प्रतीते वा घटादि वस्तुभूतमिति प्रतिपादितं प्रतीतं वा भवति। एवं वस्त्वन्तरमेव नाश इति अस्मिन् मते यद् दूषणमुक्तं तत् स्वयमेव परिहृतं स्यादिति, तदप्यसंबद्धम्, केवलं हि भूतलमस्य विषय इति कथं न घटादेरभूतत्वबोधः। यैव हि घटाद्यपेक्षया कैवल्यावस्था प्रदेशस्य स एव घटविरहः। वचनादिनाप्येवं केवलप्रदेशप्रतिपादने कथमिव न प्रकृतघटाद्यभावप्रतिपादनम्। कैवल्यं चासहायप्रदेशादव्यतिभिन्नमेव॥



न चेह घटो नास्तीति प्रत्ययस्य घटवत्यपि प्रदेशे प्रसङ्गः, स्वहेतोस्तथोत्पन्नस्य सघटप्रदेशस्य केवलप्रदेशादन्यत्वात्। न च प्रत्यभिज्ञानतः सघटाघटप्रदेशयोरेकत्वम्, पूर्वमस्य निराकरणात्। न च विनाशहेतोरसामर्थ्यवैयर्थ्याभिधानेऽङ्कुरादिहेतोरपि तथाभिधातुमुचितम्। असिद्धे हि कार्ये हेतोराश्रयणमवार्थम्। सिद्धे चेयं चिन्ता , यदि हेतोर्नित्योऽनित्यो वार्थो जातः किं नाशकारणेनेति हेतुपुरस्कारेणैव प्रवृत्तेः। न चैवमसिद्धेऽङ्कुरादौ कार्ये शक्यमभिधातुम्, स्वरूपस्यैवाभात् तद्धर्मकत्वा(तद्) धर्मकत्वादिपर्यनुयोगस्य निर्विषयत्वात्॥



ननु त्वयापि भावाभावयोर्लक्षणभेदोऽभिहितः। तत्कथमेकत्वं सर्वार्थानाम्। लक्षणभेदादेव भेदव्यवस्था। ततोऽपि चेन्न भेदव्यवस्थितिः, न कस्यचित् कुतश्चिद् भेदव्यवस्थितिरित्यद्वैतप्रसङ्ग इति चेत्। न। यो हि नश्वरस्वभावः स एव नाशोः, नश्यतीति बहुलाधिकारात् कर्तरि घञः प्रसाधनात्, तं नाशं भावस्वभावमिच्छामः। नशनं नाश इति तु प्रसज्यात्मा द्विधा कर्तव्यः। तत्त्वतस्तावद् वस्तुत्वविरहात् तत्त्वान्यत्वविरहित एवासौ भावो न भवतीति तद्भावनिषेधमात्रपातं तु भवति खरशृङ्गादिवत्। संवृतौ तु यथा कालभेदेन विकल्प्यमानः कादाचित्क इव प्रतिभाति तथा सर्वोपाख्याविरहरूपतया भावाद्भिन्न इव प्रतिभातीति नावस्तुत्वोपलक्षणभेदाख्यानविरोधः। एवं च सति संवृत्त्या लक्षणभेदे भावाभावयोर्भेदस्येष्टत्वात्। तत्वेन च लक्षणैकताविरहे भावस्य तेनैक्यनिषेधात् कथमद्वैतप्रसङ्गोपालम्भः॥



स्यादेतत्। न च विवेकाप्रतीतौ तद्विविक्तग्रहणं भवति। तद्विवेकश्च न भूतलादिस्वरूपमेव विशेषणत्वादिति। तदेतन्न्यायबहिष्कृतम्। विशेषणविशेष्यभावो हि सङ्कल्पारुढे रूपे बाह्यार्थस्पर्शे विकल्पशब्दलिङ्गान्तराणां वैयर्थ्यप्रसङ्गादिति शास्त्रे विस्तरेण प्रतिपादनात्। स च सङ्कल्पोऽभिन्नमपि भावं भिन्नमिवाकलयति। यथा शिलापुत्रकस्य शरीरम्, शरीरे करणादयः, लम्बकर्णो देवदत्त इत्यादि। तस्मात् कल्पनाधीनो विशेषणविशेष्यभावः। अभिन्नेऽपि भावे भेदविवक्षापेक्षो भेदव्यवहारः कथं भेदनियतमात्मानमातनोतु॥



स्खलद्गतिरयं राहोः शिर इत्यादिनिर्देश इति चेत्। यदि सत्यमेतत्, तदा शिरोऽतिरिक्तस्य राहोरिव क्ष्मातलादेरतिरिक्तस्य विवेकस्य दृश्यानुपलम्भबाधितत्वादयमपि निर्देशः स्खलद्गतिरेव, तथापि नेति कोषपानं प्रमाणम्। तस्मात्सघटात् प्रदेशान्तरात् प्रदेश एवायमन्यो घटविविक्तः स्वहेतोरुत्पन्नो न तु घटविवेकेन विशेषितः, स्वहेतोरुत्पन्नस्य विविक्तस्याभावे विवेकस्याभावात्। किं च



व्याप्तं भिदा यदि विशेष्यविशेष(ण)त्वं

भेदात्ययान्ननु तदा तदभाव एव।

देशो विशिष्ट इति चास्ति यथा तथेद-

मप्यस्ति दृश्यमतभेददृगस्ति नेति॥



तस्मान्नाभावो नाम कश्चिद् यत्र कारणव्यापारः। तदेवं सहेतुकविनाशत्वादिति हेतुः स्वरूपासिद्ध इति स्थितम्॥



सतामक्षणिकत्वं कार(ण)वत्त्वादित्यप्यसंबद्धमेव, क्षणिकत्वकारणवत्त्वयोर्विरोधाभावादक्षणिकत्वेन कारणवत्त्वस्य व्याप्तेरसिद्धेः सन्दिग्धव्यतिरेकित्वात्। न चास्य विपर्यये वृत्तिशङ्का नाशस्य सहेतुकत्वमेव निवर्तयति, उक्तक्रमेण नाशस्यैवाभावादिति॥



तथा प्रमेयत्वादपि स्थिरसिद्धिर्मनोरथमात्रम्। साकारवेदनोदयपक्षस्थितौ हि द्वितीयक्षणानुवृत्तावप्यर्थस्य व्यवहितत्वात्, प्रकाशानुपपत्तेर्विषयस्वरूपवेदनमेव ज्ञानस्य विषयवेदनम्। एवं च वर्तमानानुरोधः। अतीतेऽपि तत्प्रत्यासत्तेरप्रच्युतेः। न चातिप्रसङ्गः, अनन्तरातीतादन्येन क्षणेन सारूप्यासमर्पणात्। ततश्च कारणत्वाद् यदि नाम प्रमेयत्वस्य पूर्वकालसत्त्वेन व्याप्तिस्तथापि प्रमेयत्ववत् पूर्वकालसत्त्वमपि क्षणिकेऽविरुद्धमिति प्रमेयत्वाक्षणिकत्वयोर्व्याप्तिसाधनो व्यापकानुपलम्भोऽसिद्धः। ज्ञानाकारार्पकत्वं हि हेतुत्वम्, प्रमेयत्वं प्रामाणिकप्रतीतत्वम्। तच्चानन्तरातीत एव क्षणे समुपपद्यते॥



ज्ञानसत्त्वासमयेऽर्थानुवृत्तेरभावान्निर्विषयतेति चेत्। नन्वनुवृत्तावपि तदर्पिताकारस्वरूपसंवेदनमेव तद्वेदनम्। तदेव च सविषयत्वम्। इयं च प्रत्यासत्तिरनन्तरातीतेऽपि क्षणेऽक्षीणेति न द्वितीयक्षणानुवृत्तेरनुरोध इत्युक्तम्। अतः सन्दिग्धव्यतिरेकित्वादनैकान्तिकमेव प्रमेयत्वम्॥



अथ साकारवादविद्वेषादनाकारज्ञानग्राह्यत्वं प्रमेयत्वमभिप्रेतं तदासिद्धतास्य हेतोः। इन्द्रियार्थसन्निकर्षादेर्ज्ञानमुत्पद्यतां नाम। तच्चानुभवैकरसत्वेन सर्वत्रार्थे सदृशाकारत्वात् कस्य ग्राहकमस्तु, येनाभिसंबद्धमिति चेत्। आत्ममनःसंयोगादीनामपि ग्रहणं स्यात्। जनकस्य ग्रहणमिति चेत्। तथाप्यात्मादीनां ग्रहणप्रसङ्गः। विषयत्वेन जनकस्य ग्रहणमित्यप्यसाधु, विषयत्वस्याद्याप्यनिश्चयात्। इदं दृष्टं श्रुतं वेदमित्यध्यवसायो यत्रार्थे स विषय इति चेत्। नन्वस्त्येव प्रतिनियतो व्यवहारः। कः पुनरत्र प्रत्यासत्तिनियम इति पृच्छामः। स चेदुपवर्णयितुं न शक्यते, व्यवहारोऽपि त्वन्मते नियतो न स्यादिति ब्रूमः। अस्ति तावदिति चेत्। अत एवार्थसारूप्यमसाधारणं प्रत्यासत्तिनिमित्तमस्तु, निर्मिमित्ते नियमायोगात्॥



ननु सारूप्यमप्यर्थादर्शने कथमवधार्यते। तच्च किमेकदेशेन, सर्वात्मना वा। आद्ये पक्षे सर्वं सर्वस्य वेदनं स्यात्। द्वितीये तु ज्ञानमज्ञानतां व्रजेत्। किं च सारूप्यादर्थवेदनेऽनन्तरं ज्ञानं तुल्यविषयं विषयः स्यादिति चेत्। माभूदर्थस्य दर्शनम्। आकारविशेषबलादध्यवसितार्थस्यार्थक्रियाप्राप्तेरेवार्थोऽपीदृश इति सारूप्यव्यवहारोऽविरुद्धः। अत एव स्थूलगतं परमाणुगतं वा सारूप्यं न चिन्त्यते। ज्ञानाकारस्य स्थूलत्वेऽप्येकसामग्रीप्रतिबद्धपुञ्जविशेषादप्यभीष्टक्रियाकरणात् पुरुषार्थसिद्धेः। सारूप्यं चैकदेशेनैव। न चात्र सर्ववेदनप्रसङ्गः, सर्वेषां ज्ञानं प्रत्यजनकत्वात्। जनकानां च स्वव्यपदेशनिमित्तासाधारणैकदेशार्पकत्वेन ग्राह्यत्वात्। नापि तुल्यविषयान्तरज्ञानग्रहणप्रसङ्गः, तस्य स्वसंवेदनादेव प्रमाणात् सिद्धत्वात्। प्रमाणान्तरस्य तत्र वैयर्थ्यात्। जडत्वे सत्याकारार्पकस्य वस्तुनो ग्राह्यत्वादित्यस्यार्थस्याभीष्टत्वाच्च। बाह्यार्थस्थितौ चेयं चिन्तेति सर्वमनवद्यम्। तदेवमयं प्रमेयत्वादिति हेतुः साकारवादपक्षे सन्दिग्धव्यतिरेकः, निराकारपक्षे चासिद्ध इति स्थितम्।



न चार्थापत्तिरति स्थिरात्मसाधनी, कार्यकारणभावग्रहणादीनामन्यथोपपत्तेः। तथा हि उपादानोपादेयभावस्थितचित्तसन्ततिमप्याश्रित्येयं व्यवस्था सुस्थेति कथमात्मानं प्रत्युज्जीवयतु। तत्र कार्यकारणभावप्रतीतिस्तावदनाकुला। तथापि प्राग्भाविवस्तुनिश्चयज्ञानस्योपादेयभूतेन तदर्पितसंस्कारगर्भेण पश्चाद्भाविवस्तुज्ञानेनास्मिन् सतीदं भवतीति निश्चयो जन्यते। तथा प्राग्भाविवस्त्वपेक्षया केवलभूतलनिश्चायकज्ञानोपादेयभूतेन तदर्पितसंस्कारगर्भेण पश्चाद्भाविवस्त्वपेक्षया केवलभूतलनिश्चायकज्ञानेनास्मिन्नसतीदं न भवतीति व्यतिरेकनिश्चयो जन्यते। यथोक्तम्



एकावसायसमनन्तरजातमन्य-

विज्ञानमन्वयविमर्शमुपादधाति।

एवं तदेकविरहानुभवोद्भवान्य-

व्यावृत्तिधीः प्रथयति व्यतिरेकबुद्धिम्॥



अत एव देवदत्तेनाग्नौ प्रतीते यज्ञदत्तेन च धूमे प्रतीते न कार्यकारणभावग्रहणं तज्ज्ञानयोरुपादानोपादेयभावाभावात्। यत्र त्वेकसन्ताने ज्ञानक्षणयोरुपादानोपादेयभावस्तत्र कार्यादिग्रहः सुग्रहः। अन्यथा सत्यपि नित्यात्मनि प्रतिसन्धातरि कार्यकारणभावादीनाम्अप्रतीतिरेव स्यात्।



तथा हि आत्मनः सकाशात् प्रतिसन्धेयबुद्धीनामभेदो भेदो वा भेदाभेदो वा। प्रथमपक्षे आत्मैव स्यात् प्रतिसन्धाता, बुद्ध्य एव वा स्युः प्रतिसन्धेया इति कः प्रतिसन्धानार्थः। भेदपक्षऽपि बुद्धिभ्यो भिद्यमानस्य जडस्यात्मनः कः प्रतिसन्धानार्थ इति न विद्मः। बुद्धियोगाद् द्रष्टुत्ववत् प्रतिसन्धातृत्वमिति चेत्। बुद्धि रेव तर्हि द्रष्टी प्रतिसन्धात्री चेती नियमस्वीकारे तद्योगादस्य तथात्वमिति किमनेन याचितकमण्डनेन। बुद्धीनां कर्तृत्वाभावादिति चेत्। तद्‍द्वारेणापि तर्हि तस्यात्मनो द्रष्टृत्वादिव्यवहारानुपपत्तिः। यदि हि बुद्धिर्हेतोः फलस्य वा द्रष्ट्री स्यात् तदानन्तर्यप्रतिनियमस्य चानुसन्धात्री कल्पिता। तद्योगाद् द्रष्टृत्वं प्रतिसन्धातृत्वं चोच्यत इति स्यादपि प्रतिविषयमलब्धविशेषायां च बुद्धौ संबन्धोऽपि न विशेषं व्यवहारयितुमीशः - अधुना निबन्धनाधिगन्ता, अधुना फलस्य, इदानीं प्रतिसन्धातेति। तथाविधबुद्धिगतविशेषस्वीकारे तु किमपरेणात्मना कर्तव्यम्, तावतैव पर्याप्तत्वाद् व्यवहारस्य।



स्थिरात्मानमन्तरेण सैव बुद्धिर्न स्यादिति चेत्। केनैवं प्रतारितोऽसि। अहो मोहमाहात्म्यं यदीदृशानपि परवशीकरोति। तथा हि नेदमिदमन्तरेण यदुच्यते तत् खल्वन्यत्र प्रत्यक्षानुपलम्भाभ्यां सामर्थ्यावधारणे सति युज्यते वह्नेरिव धूमे, चक्षुरादिवद्वा दृष्टकारणान्तरसामग्र्या कार्यादर्शने पश्चाद् दर्शने च किञ्चिदन्यदपेक्षणीयमस्तीति सामान्याकारेण।



आद्यः पक्षस्तावन्नास्तीति व्यक्तम्। द्वितीयोऽपि न संभवी। न हि कारणबुद्धिसमनन्तरं कार्यबुद्धौ सत्यां निश्चयप्रवृत्तस्येदमस्यानन्तरं दृष्टं मयेति प्रतिसन्धानमदृष्टपूर्वं कदाचित् यतोऽन्यस्य सामर्थ्यपरिकल्पनं स्यादित्युदस्य व्यामोहमुक्तक्रमेणैव कार्यकारणग्रहणव्यवस्था स्वीकर्तव्या।



भेदाभेदपक्षस्तु धिक्कार एव, तस्यैव तदपेक्षया भेदाभेदविरुद्धधर्माध्यासादेकत्वानुपपत्तेः। ततश्च यद्भिन्नं भिन्नमेवाभिन्नं चाभिन्नमिति नैकस्य भेदाभेदौ। तथाप्यभेदे विश्वमेकमिति युगपदुत्पादस्थितिप्रलयप्रसङ्गः। एवं क्रमिवस्तुग्राहकैः क्रमिज्ञानैरुपादानोपादेयभूतैः साक्षात् पारम्पर्येण क्रमेणामी जायन्त इति निश्चयो जन्यते। ऐककालिकानेकवस्तुग्राहकैरेव तज्ज्ञानैरेकोपादानत्वात् सकृदिमानि जातानीति विकल्पः क्रियत इति क्रमाक्रमग्रहणमप्यनवद्यम्।



कथमनेकज्ञानादेकविकल्प इति चेत्। कि दोषः।

भवन्तु भिन्ना मतयस्तथापि ता

दधत्युपादानतयैककल्पनम्।

न भिन्नसंख्या फलहेतुबाधिनी

न चान्यसन्तानभवा इवाक्षमाः॥



यदप्युक्तं शङ्करेण पूर्वोत्तरक्षणयोः संवित्तीः, ताभ्यां वासना, तया हेतुफलभावाध्यवसायी विकल्प इति चेत्। किमिदानीं यत्किञ्चिदाशङ्कितेन वक्तव्यमित्येवं विधिरनुष्ठीयते भवता। विकल्पो हि गॄहीतानुसन्धानमतद्रूपसमारोपो वा स्यात्। न तावत् पूर्वः पक्षः, अदृष्टान्वयव्यतिरेकस्य पुरुषस्य हेतुफलभावाग्रहेऽनुसन्धानप्रत्ययहेतोर्वासनाविशेषस्यैवानुपपत्तेः। अगृहीतस्य चानुसन्धानेऽतिप्रसङ्गादिति।



तदेतन्न सम्यगालोचितम्। यतो हेतुफलभूतयोः पूर्वोत्तरक्षणयोरेकैकेन ज्ञानेनाननुभवेऽप्युपादानोपादेयभूताभ्यां क्रमिज्ञानाभ्यां हेतुफलत्वे गृहीते एव। केवलं हेतुकाले फलाभावात्। तद्विषयसामर्थ्यग्रहणेऽपि फलादर्शनात् तदवसाय एवाप्रवृत्तः कार्यदर्शनेन प्रवर्त्यते। तथा फलावलोकनेऽपि तत्कार्यता गृहीतैव विकल्पेनानुसन्धीयत इति गृहीतानुसन्धानरूप एवायं विकल्प इति यत्किञ्चिदेतत्।



यदाह महाभाष्यालङ्कारः

यदि नामैकमध्यक्षं न पूर्वापरवित्तिमत्।

अध्यक्षद्वयसद्भावे प्राक्परावेदनं कथम्॥ इति॥



तथा स्मरणमभिलाषः, स्वयं विहितप्रत्यनुमार्गणम्, दृष्टार्थकुतूहलविरमणम्, कर्मफलसंबन्धः, संशयपूर्वकनिर्णयश्च पूर्वपूर्वानुभवैकोपादानकारणैः समर्पितसंस्कारगतैरुत्तरोत्तरार्थानुभवैवोपादेयभूतैर्जन्यमानो युज्यत इति किमधिकेनात्मना परिकल्पितेन। उपादानोपादेयभावनियमादेव च न सन्तानान्तरे स्मरणादिप्रसङ्गः सङ्गतः। किमिदमुपादानमिति चेत्। उच्यते। यत्सन्ताननिवृत्त्या यदुत्पद्यते तत्तस्योपादानकारणम्। यथा मृत्सन्ताननिवृत्त्योत्पद्यमानस्य कुम्भस्य मृदुपादानमिति शास्त्रे प्रपञ्चितम्। न चात्र परलोकक्षतिः॥



यदप्युक्तम् - चित्तशरीरयोः कियत्कालस्थितिनिबन्धनस्य दृष्टस्य निवृत्तौ चित्तस्यापि निवृत्तिप्रसङ्गः। मरणवेदनया हि चित्तं विकलम्। ततोऽविकला चित्तान्तरजननावस्था न संभवति। तस्मादुपस्थिते मरणदुःखे सर्वसंस्कारविरोधिनि चित्तमप्युच्छिद्येतेति नास्तिक्यमायातमिति। तदयुक्तम्। यतो मरणदुःखं चित्तविशेष एव, तस्य चित्तान्तरजननसामर्थ्यस्वभावस्य स्वभावादवार्यैव ज्ञानोत्पत्तिरिति। बन्धान्मोक्षोऽपि संसारिचित्त सबन्धादनाश्रवचित्तप्रबन्धो यः। शुभादिमोक्षयोरपि प्रवृत्तिरवार्या। यतः सत्यप्यात्मन्यहमेव मुक्तो भविष्यामि सुखी चेत्यात्मग्रहणक्षणादध्यवसायात् प्रवर्तते। न पुनरात्मना गलहस्तितः। स चानाद्यविद्यापरम्परायातः पूर्वापरयोरेकत्वारोपको मिथ्यासङ्कल्पो बाधितेऽप्यात्मन्यव्याहतप्रसर इति कथमप्रवृत्तिः। ननु



नैरात्म्यवादपक्षे (तु) पूर्वमेवावबुध्यते।

मद्विनाशात्फलं न स्यान्मत्तोऽन्यस्याथवा भवेत्॥ इति।



अप्रवृत्तिरेवास्त्विति चेत्। अस्तु, को दोषः। यद्ययमात्मग्रहो निर्विषयोऽपि प्रवृत्तिमनाक्षिप्त क्षणमपि स्थातुं (न) प्रभवति। यथा हि जातस्यावश्यं मृत्युरिति ज्ञातवतोप्यप्रतिक्रियपुत्रादिमरणे सोरस्ताडमाक्रन्दो मरणादौ च यत्नः शोकोद्रेकात् एवमविद्योद्रेकादेव नैरात्म्यं जानन्नपि प्रवर्तते, न सुखमास्त इति किमत्र क्रियताम्, अविद्यायाः प्रवर्तनशक्तेरवार्यत्वात्। प्रत्यभिज्ञा च पूर्वमेव ध्वस्ता। कार्यकारणभावनियता पश्चाद्भाविपूर्वभाविता। सा च क्षणिकेऽप्यविरुद्धा। उपादानोपादेयता च क्रमिस्वसंवेदनज्ञानद्वयेन साक्षात्कृता तत्पृष्ठभाविना निश्चीयत इति, असत्यप्यात्मनि प्रतिसन्धातरि कार्यकारणग्रहणादय उपपद्यमाना नात्मानमुपस्थापयितुं प्रभवन्ति। अतोऽर्थापत्तिरति न क्षमेति भाग्यहीनमनोराज्यमिव स्थिरसिद्धिर्विशीर्यत एव। तथा च क्षणभङ्गसन्देहे सत्त्वाद्यनुमानं प्राप्तावसरम्॥



॥ स्थिरसिद्धिदूषणं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project