Digital Sanskrit Buddhist Canon

7 व्याप्तिनिर्णयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

7 vyāptinirṇayaḥ

॥७॥

॥व्याप्तिनिर्णयः॥



इह दहनादिना धूमादेरर्थान्तरस्य व्याप्तिस्तदुत्पत्तिलक्षणा। सा च विशिष्टान्वयव्यतिरेकग्रहणप्रवणविशिष्टप्रत्यक्षानुपलम्भसाधनेति न्यायः। अत्र च भट्टप्रभृतयो विप्रतिपद्यन्ते। तथा हि तेऽग्निमति प्रदेशे धूमस्य भूयोदर्शनं तद्वियुक्ते च तथैवादर्शनमित्यन्वयव्यतिरेकित्वं कल्पयाम्बभूवुः।



ननु भूयसापि प्रवृत्ते दर्शनादर्शने घटकुलटादावुपलब्धो व्यभिचार इति चेत्। किमेतावता तत्राप्यनुमानमस्तु, तद्वद्वा धूमादावपि भा भूत्। प्रथमपक्षस्तावद् व्यभिचारादेव निरस्तः। द्वितीयो(ऽपि) व्यभिचारादेव। न ह्यन्यस्य व्यभिचारे धूमस्य किञ्चित्। तस्मादग्निधूमयोरव्यभिचारस्यासंभवे शतमपि तदुपपत्तयः तत्प्रसाधकविशिष्टप्रत्यक्षानुपलम्भा वा नानुमानोपयोगिनः। संभवे वा किं तदुत्पत्त्या तदुपयोगिना विशिष्टप्रत्यक्षानुपलम्भेन, दर्शनादर्शनाभ्यामेवाव्यभिचारसिद्धेः। तथा च काशिकाकारः प्राचीनानेकदर्शनजनितसंस्कारसहायेनचरमेण चेतसा धूमस्याग्निनियतत्वं गृह्यत इति॥



त्रिलोचनस्त्वाह - प्रत्यक्षानुपलम्भयोर्विशेषविषयत्वात् कथं ताभ्यां सामान्ययोः संबन्धप्रतिपत्तिः। अथानग्निव्यावृत्तेनाधूमव्यावृत्तस्य संबन्धः प्रतीयत एवेति। ननु सोऽपि कस्य प्रमाणस्य विषयः। न तावत्प्रत्यक्षस्य, स्वलक्षणविषयत्वात्तस्य। नाप्यनुमानस्य, तस्यापि तत्पूर्वकत्वात्। न च व्यावृत्योः कश्चित्संबन्धः। अथ प्रत्यक्षपृष्ठभावी विकल्पो दृष्टे भेदेऽभेदमध्यवस्यति, तदेव सामान्यम्। एवमपि विकल्पानां न वस्त्वेन विषयः। अपि तु ग्राह्याकारः। स च न वस्तु। वस्तु तु तेषां परोक्षमेवेति, कथं तेनापि सम्बन्धग्रहः। अस्माकं तु भूयोदर्शनसहायेन मनसा तज्जातीयानां संबन्धो गृहीतो भवति। अतो धूमो नाग्निं व्यभिचरति। तद्‍व्यभिचारे धूम उपाधिरहितं संबन्धमतिक्रामेदिति हेतोविपक्षशङ्कानिवर्तकं प्रमाणमुपलब्धिलक्षणप्राप्तोपाधिविरहहेतुरनुपलम्भाख्यं प्रत्यक्षमेव। ततः सिद्धः स्वाभाविकः सम्बन्धः॥



वाचस्पतेस्तु प्रपञ्चः। तथा हि धुमादीनां वह्न्यादिभिः स्वाभाविकः संबन्धः। न तु वह्न्यादीनां धूमादिभिः। ते हि विनापि धूमादिभिरुपलभ्यन्ते। वह्न्यादयस्तु यदार्द्रेन्धनसंबन्धमनुभवन्ति तदा धूमादिभिः संबध्यन्ते। वह्नयादीनां तु स्फुटमार्द्रेन्धनाद्युपाधिकृतः संबन्धो न तु स्वाभाविकः। ततोऽनियतः। स्वाभाविकस्तु धूमादीनां वह्नयादिभिः संबन्धः, तदुपाधेरनुपलभ्यमानत्वात्। क्वचिद् व्यभिचारस्यादर्शनात् अनुपलभ्यमानस्यापि कल्पनानुपपत्तेः। न चादृश्यमानोऽपि दर्शनानर्हतया साधकबाधकप्रमाणाभावेन सग्दिह्यमान उपाधिः संबन्धस्य स्वाभाविकत्वं प्रतिबध्नातीति युक्तम्।



अवश्यं शङ्कया भाव्यं नियामकमपश्यताम्



इति तु दत्तावकाशा लौकिकमर्यादातिक्रमेण शङ्कापिशाची लब्धप्रसरा न क्वचिन्नास्तीति नायं क्वचित् प्रवर्तेत। सर्वत्रैव कस्यचिदनर्थस्य कथञ्चिच्छङ्कास्पदत्वात्। अनर्थशङ्कायाश्च प्रेक्षावतां निवृत्त्यङ्गत्वात्। अन्ततः स्निग्धान्नपानोपयोगेऽपि मरणदर्शनात्। तस्मात् प्रामाणिकलोकयात्रामनुपालयता यथादर्शनमेवशङ्कनीयम्। न त्वदृष्टपूर्वमपि। विशेषस्मृत्यपेक्ष एव हि संशयो नास्मृतेर्भवति। न च स्मृतिरननुभूतचरे भवितुमर्हति। तदुक्तं मीमांसावार्तिककृता -



नाशङ्का निःप्रमाणिका इति।



तस्मादुपाधिं प्रयत्नेनान्विष्यन्तोऽनुपलभमाना नास्तीत्यवगम्य स्वाभाविकत्वं संबन्धस्य निश्चिनुमः।



स्यादेतत्। अन्यस्यान्येन सहाकारणेन चेत् स्वाभाविकः संबन्धो भवेत्, सर्वं सर्वेण स्वभावतः संबध्येत। सर्वं सर्वस्माद् गम्येत। अथान्यस्य चेदन्यत् कार्यं कस्मात् सर्वं सर्वस्मान्न भवति, अन्यत्वाविशेषात्। ततश्च स एवातिप्रसङ्गः। यद्युच्येत न भावस्वभावाः पर्यनुयोज्याः, तस्मादन्यत्वाविशेषेऽपि किञ्चिदेव कारणं कार्यं च किञ्चिदिति। नन्वेष स्वभावानामनुयोगो भिन्नानामकार्यकारणभूतानामपि स्वभावप्रतिबन्धे तुल्य एव। तस्माद् यत्किञ्चिदेतदपि। केन पुनः प्रमाणेनैष स्वाभाविकः संबन्धो गृह्यते। प्रत्यक्षसंबन्धिषु प्रत्यक्षेण। तथा हि अभिजातमणिभेदतत्त्ववद् भूयोदर्शनजनितसंस्कारसहायमिन्द्रियमेव धूमादीनां वह्न्यादिभिः स्वाभाविकासंबन्धग्राहीति युक्तमुत्पश्यामः। एवं मानान्तरविदितसंबन्धेषु मानान्तराण्येव यथास्वं भूयोदर्शनसहायानि स्वाभाविकसंबन्धग्रहणे प्रमाणान्युन्नेतव्यानि। स्वभावतश्च प्रतिबद्धा हेतवः स्वसाध्येन यदि साध्यमन्तरेण भवेयुः, स्वभावादेव प्रच्यवेरन्निति तर्कसहाया निरस्तसाध्यव्यतिरेकवृत्तिसन्देहा यत्र दृष्टास्तत्र स्वसाध्यमुपस्थापयन्त्येवेति॥



अत्रोच्यते। इह खलु भेदे तदुत्पत्तिरेव व्याप्तिः। न चासावन्यो वा स्वत एवाविनाभावलक्षणः स्वाभाविकः संबन्धो भूयोदर्शनमात्रतः सिध्यति। तथा हि, किं यत्र भूयोदर्शनप्रवृत्तिस्तत्र नियतत्वव्यवस्था, यत्र वा नियतत्वमस्ति तत्रैव भूयोदर्शनप्रवृत्तिः। प्रथमपक्षे घटादपि कुलटा, पार्थिवत्वादपि लोहलेख्यत्वं सिध्येत्, भूयोदर्शनसंभवेऽपि नियतत्वसंभवात्।



व्यभिचारदर्शनान्नैवमिति चेत्। कस्य पुनर्व्यभिचारदर्शनम् यस्य कस्यचित् शास्त्रकारस्य, प्रतिपत्तुर्वा। प्रथमपक्षे प्रतिपत्तुः किमायातं यतो नानुमानमयं कुर्यात्। अन्यथान्यस्य तद्विषयप्रत्यक्षीकारेणैव सोऽपि कृतार्थ इति किमवश्यमनुमानमन्वेषते। न चाप्तवचनादव्यभिचारदर्शनादनुमानम्। आप्तस्य निश्चेतुमशक्यत्वादित्यन्यत्र प्रसाधनात्। शास्त्रकारं च पृष्ट्वा दृष्टसंबन्धोऽपि धृमादग्निमनुमास्यत इत्यलौकिकम्। प्रतिपत्तुस्तु नावश्यं सन्नपि व्यभिचारो गोचरीभवति। न हि यत्र व्यभिचारस्तत्रैव तावति काले देशे वावश्यं प्रतीतिमवतरति। अप्रतीयमानश्च नास्त्येवेति न नियमः। सत्यपि व्यभिचारे दर्शनसामग्रयभावात् तस्मादर्शनात्। अतिचिरकालव्यवधानेऽपि दर्शनात् ब्राह्मण्यादिव्यभिचारवत्॥



घटपार्थिवादौ प्रतिपत्तैव प्रवृत्तः। तदैव क्रमेण वा व्यभिचारं पश्येदिति चेत्। यदि तावदसौ कथञ्चित् प्रवर्तते, प्रवृत्तोऽपि वा सामग्र्यभावाव्यभिचारं न पश्येत्। वज्रं वा लोहेन व्यापारयेत्। व्यक्तं तस्य तावत् तदप्यमानमापन्नमिति महत् पाण्डित्यम्। तस्माद् यदि व्यभिचारादर्शनादनुमानं तदादृष्टव्यभिचारस्य प्रतिपत्तुर्घटपार्थिवत्वादप्यस्ति। तथा अदर्शनमात्रेण व्यभिचाराभावो न सिध्यति, योग्यानुपलब्धेरेव सर्वत्राभावसाधनेऽधिकारात्। ततो बहुलं सहचारमात्रेण न व्यभिचारी न वाव्यभिचारी निश्चित इति शङ्कावकाशः॥



यद्येवमदृष्टव्यभिचारादपि धूमादनुमानं मा भूत्। न। ईदृशस्य शङ्कावकाशस्य सर्वत्र तदुत्पत्तिरहिते संभवादिति। अथ कदाचित् प्रतिपत्ता प्रवृत्तो व्यभिचारं पश्यति। न तर्हि यत्र भूयोदर्शनम्, तत्र नियतत्वस्थितिः। तत्र कुतो धूमे प्रतिबन्धसिद्धिः। भूयोदर्शनस्यान्यत्र नियतत्वोपस्थापकत्वक्षतौ मलिनपौरुषत्वेन सर्वत्रानाश्वासात्॥



यद्येवं द्विचन्द्रादौ चक्षुरादिप्रत्यक्षं मलिनपौरुषमुपलब्धमिति घटादिकमपि नोपस्थापयेदिति चेत्। न। इन्द्रियविषयकार्यं हि प्रत्यक्षम्। न द्विचन्द्रादिज्ञानमीदृशमर्थकार्यत्वाभावात्। ततो भिन्नलक्षणस्य प्रत्यक्षाभासत्त्वेऽपि घटज्ञानं प्रत्यक्षमेव। न चैवं धूमादौ पार्थिवत्वादौ च व्याप्तिग्राहकस्य भूयोदर्शनस्य लक्षणभेदो येनैकत्राश्वासः स्यात्॥



एते एवार्थकार्यत्वाकार्यत्वे लक्षणभेद इति चेत्। न। घटादिज्ञानस्य ह्यर्थकार्यत्वविवादे प्रमाणान्तरतोऽर्थक्रियालाभतो वा निश्चयः , न प्रतिज्ञामात्रेण। न चात्र धूमस्याग्निसहचारः सदातनोऽयमथ सुहृद्‍द्वयस्येव सात्ययो गृहीत इति संशये सदातनसहचारप्रसाधकप्रमाणान्तरसङ्गतिरस्ति, तत्कार्यं वा किञ्चिदुपलभ्यते। तर्हि बाध्यमानत्वाबाध्यमानत्वलक्षणो लक्षणभेदो भविष्यतीत्यपि न वक्तव्यम्, अव्यभिचारग्राहकस्य भूयोदर्शनस्य बाधितत्वासिद्धेः। अबाधमात्रं हि प्रसज्यप्रतिषेधोऽप्रमाणम्। प्रमाणान्तरसङ्गतिरर्थक्रियालाभो वा पर्युदासश्चासिद्ध इति न तावत् प्रथमः पक्षः। नापि द्वितीयः। नियतत्वाभावेऽपि पार्थिवत्वादौ भूयोदर्शनसंभवादिति न भूयोदर्शनगम्या व्याप्तिः॥



त्रिलोचनचोद्येऽपि ब्रूमः। यदि प्रत्यक्षं स्वलक्षणविषयमित्ययोगव्यवच्छेदेनोच्यते तदा सिद्धसाधनम्। अन्ययोगव्यवच्छेदस्त्वसिद्धः, प्रत्यक्षानुमानादिसर्वज्ञानानां ग्राह्यावसेयभेदेन विषयद्वैविध्यानतिक्रमात्। यद्वि यत्र ज्ञाने प्रतिभासते तद् ग्राह्यम्। यत्र तु तत् प्रवर्तते तदध्यवसेयत्। तत्र प्रत्यक्षस्य स्वलक्षणं ग्राह्यम्। अध्यवसेयं तु सामान्यम्, अतद्रूपपरावृत्तस्वलक्षणमात्रात्मकम्। अनुमानस्य तु विपर्ययः। ततश्च सांव्यवहारिकप्रमाणापेक्षया रूपरसगन्धस्पर्शसमुदायात्मकस्य घटस्य रूपभेदमात्रग्रहणेऽपि प्रत्यक्षतः समुदायसिद्धिव्यवस्था। तथैकस्यातद्रूपपरावृत्तस्य ग्रहणेऽपि साध्यसाधनसामान्ययोरतद्रूपपरावृत्तवस्तुमात्रात्मनोरयोगव्यवच्छेदेन विषयभूतयोर्व्याप्तिग्रहो युक्त एव। अत एव विकल्पानामवस्त्वेव विषयः, वस्तु तु तेषां परोक्षमेवेत्यपि दुर्ज्ञानम्, सर्वविकल्पानामध्यवसेयापेक्षया वस्तुविषयत्वात्। शास्त्रेऽपि तथैव प्रतिपादनात्। न च मनसा तज्जातीयानां व्याप्तिग्रहः शक्यः, मनसो बहिरस्वातन्त्र्यात्। अन्यथा अन्धबधिराद्यभावप्रसङ्गात्। न च वह्निव्यभिचारे धूम उपाधिरहितं आंबन्धमतिक्रामेदिति वक्तुमुचितम्, स्वकपोलकल्पितस्वाभाविकसंबन्धस्य याचितकमण्डनत्वादिति॥



यदपि वाचस्पतिजल्पितम्, यो यत्रोपाधिना नियतस्तत्र तस्य स्वाभाविकः संबन्धः। यथा दहने धूमस्य। तदुपाधेर्दृश्यस्यानुपलभ्यमानत्वात् क्वचिद् व्यभिचारस्यादर्शनादित्यत्रेदं विचार्यते। यस्यादर्शनतः स्वाभाविकः संबन्धो व्यवस्थापनीयः, स खलु धूमस्वरूपादर्थान्तरमुपाधिर्वक्तव्यो यथा दहनादिन्धनम्। अर्थान्तरं च किञ्चिद् दृश्यमदृश्यं च किञ्चित्, न तु सर्वमेव दृश्यतानियतम्। ततश्च धूमस्यापि हुताशने स्यादुपाधिः, न चोपलभ्यते इत्युपाधिमात्रानुपलब्धिरनैकान्तिकी। तत्कथमदर्शनमात्रान्नास्त्येवोपाधिः, यतः स्वाभाविकसंबन्धसिद्धिःस्यात्। दृश्योपाध्यभावसाधने तु सिद्धसाधनम्। परमदृश्योपाधिशङ्कासंभवे स्वाभाविकत्वप्रतिरोधस्तदवस्थ एव। क्वचिद् व्यभिचारादर्शनादित्यसंबद्धमेव, उपाधिवत् व्यभिचारस्याप्यदर्शनमात्रादभावासिद्धेः। व्यभिचारस्य सर्वदेशकालयोः संभवेऽपि दृश्यत्वेऽपि सर्वदा सर्वत्र सर्वेण सामग्र्यभावादपि निश्चेतुमशक्यत्वात्। ब्राह्मण्यादिव्यभिचारवदेवाहत्यादर्शनेऽपि देशकालान्तरे तद्दर्शनस्य निषेद्धुमशक्यत्वात्।



ननु यदि धूमस्यापेक्षणीयमर्थान्तरमुपाधिः स्यात् कथं धूम इत्येव पावकसत्तानियम इति चेत्। नन्विदमेव चिन्त्यते किं धूमे सत्यवश्यमग्निः संभवीन वेति। कदाचिदर्थान्तरमुपाधिमपेक्ष्य धूमोऽपि स्यान्नाग्निरिति किमत्र निष्टब्धं कारणम्। तस्मात् पावकपराधीनोदयो धूमः परिनिष्ठितः कथं तदभावे भावं स्वीकुर्यादित्येव साधु।



अथ व्यक्तौ जातौ वा वह्निव्यभिचारो न दृष्टः, कथं तत्र शङ्कयत इति चेत्। तत् किं स्थाणुव्यक्तौ जातौ वा पुरुषत्वं दृष्टं येन स्थाणौ शङ्कयते। अन्यत्रोर्ध्वतालिङ्गिते दृष्टमिति चेत्। इहाप्यन्यत्र भूयः सहचारिणि पार्थिवत्वादौ दृष्ट एव व्यभिचारः। यत्रैव तु यत् संशय्यते तत्रैव तस्य दर्शनमपेक्ष्यत इत्यलौकिकम्। यदि धूमव्यक्तौ व्यभिचारो दृष्टस्तदा धूमसामान्यं व्याप्तौ बहिर्भूतमेव, कथं संशयः। अथ जातौ दृष्टस्तदापि व्यभिचारनिश्चय एव, कथं संशयः। अतो धूमजातावदृश्यमानोऽपि व्यभिचार उपाधिर्वा दर्शनायोग्यतया निषेद्धुमशक्य इति संशयो दुर्वारप्रसरः। स चेदानीमुपाधेर्व्यभिचारस्य वा संशयः स्वाभाविकत्वसंशयस्वभावः स्वाभाविकत्वनिश्चयं तावदवश्यं प्रतिबध्नाति। तस्मात् स्वाभाविकत्वनिश्चयप्रतिबन्ध एवार्थतः, निश्चयमन्तरेण गमकस्य स्वयमकिञ्चित्करत्वात्। तदेवमुपाध्यनुपलब्धिर्व्यभिचारस्यानुपलब्धिर्वाऽनैकान्तिकी न तयोरभावं साधयति, यतः संबन्धस्य स्वाभाविकत्वसिद्धिः स्यात्। असिद्धा चेयमुपाध्यनुपलब्धिः। यथा दहनो नेन्धनेन विना धूमेन संबध्यते तथा धूमोऽपि न तेन विनाग्निना संबध्यत इति समानमुपाधित्वमिन्धनस्योभयत्र।



अथ सिद्धस्याग्नेरिन्धनसाहित्येन धूमलाभ इत्युपाधिव्यवस्था, असिद्धस्य तु धूमस्य तन्निमित्तात्मलाभतयाव्यभिचारात् स्वाभाविकः संबन्ध इति व्यवस्था प्यत इति चेत्। एवमपि सैव तदुत्पत्तिरायाता। सैव स्वाभाविकः संबन्धः। न पुनः प्रतिज्ञासिद्धः सहचारमात्रात्मकः। किं च स्वाभाविकत्वादव्यभिचारः सर्वत्र, सर्वत्राव्यभिचाराच्च स्वाभाविकत्वमितीतरेतराश्रयत्वमनिवार्यम्। यस्य तु सकृत्तदुत्पत्तिप्रतीतिरेव सर्वत्राव्यभिचारप्रतीतिस्तस्य नायं प्रसङ्गः।



यद्येवं ममापि भूयोदर्शनादव्यभिचारसिद्धिरिति चेत्। न। भूय इत्यपरिनिष्ठितवारसंख्यत्वात् कियता दर्शनेन लक्षणानुसारी निर्वृतिमासादयेत्। अस्माकं तु प्रत्यक्षानुपलब्धौ परिगणितसंख्यावेव। यदाहुः

प्रागदृष्टौ क्रमात् पश्यन् वेत्ति हेतुफलस्थितिम्।

दृष्टौ वा क्रमशोऽपश्यन्नन्यथा त्वनवस्थि(ति) रिति॥



यत्त्वनुपलभ्यमानस्यापि कल्पनानुपपत्तेरिति विलपितम्, तद्वालस्याप्यसाम्प्रतम्। अनुपलभ्यमानेऽर्थे च कल्पनावकाशात्। न हि दृश्यमानो घटः कल्पित उच्यते। न च सन्दिह्यमान उपाधिः संबन्धस्य स्वाभाविकत्वं प्रतिबध्नातीति युक्तम्, साधकबाधकाभाव एव संशयस्य न्यायप्राप्तत्वात्। अत एव न सर्वत्र शङ्कापिशाचावकाशः। तत्कथं नायं प्रवर्तेतं।



प्रमाणविषयेऽपि शङ्का कर्तुं शक्यत इति चेत्। न। स्वीकृतप्रमाणस्य हि निश्चयफलत्वात् प्रमाणस्याविप्रतिपन्नप्रमाणविषये निश्चयस्वीकारनान्तरीयक एव तत्स्वीकारः। न च शङ्केत्येव न प्रवृत्तिः, अर्थसंशयेनापि प्रवृत्तेरनिवार्यत्वात् स्निग्धान्नपानोपयोगवत्। तदुपयोगे कदाचिन्मरणदर्शनेऽपि कोटिशो जीवितदर्शनात्। न च प्रामाणिकलोलयात्राक्षतिः, प्रामाणिकैरेव प्रमाणाभावे संशयस्य विहितत्वात्। यथादर्शनमाशङ्कनीयमित्याद्यपि सिद्धसाधनम्, अन्यत्र दृष्टस्यैवोपाधेर्व्यभिचारस्य वा शङ्कितत्वात्। किं च बाधकादर्शनेऽपि साधकभावादपि शङ्का स्यादेव।



यदपि स्यादेतदिति वल्गितं तदपि निःसारम्। प्रमाणसिद्धे हि रूपे स्वाभावावलम्बनम्। नतु स्वभावावलम्बनेनैव वस्तुस्वरूपव्यवस्था। तद्यदि नियतविषयान्वयव्यतिरेकग्राहकप्रत्यक्षानुपलम्भप्रमाणसिद्धे हेतुफलभावे स्वभाववादस्तत् किमायातं स्वाभाविकसंबन्धे। यत्र तदुत्पत्तिसामग्रीं हृदयेन दूरीकृत्यान्यतः सहचरितद्वयाद् विशेषंण प्रतीतौ प्रत्युपाय एव देवीयान्। तत्सामग्र्यपेक्षणे च तदुत्पत्तिरेव सा। किमाहोपुरुषिकया नामान्तरकरणेन। केन पुनः प्रमाणेन एष स्वाभाविकः संबन्धो गृह्यत इत्यादिस्तद्ग्रहणप्रकारः पूर्वमेव निराकृतः। तथा स्वाभाविकत्वासिद्धौ स्वभावतश्च प्रतिबद्धा हेतव इत्याद्युपसंहारोपि मनोराज्यमात्रम्। तस्मादर्थान्तरे गम्ये कार्यहेतुस्तद्भावसिद्धिश्च प्रत्यक्षानुपलम्भादिति स्थितम्। तदेवं स्वाभाविकवादेन हृदयानुलेपनमशुचिनेव परिहार्यं दूरत इति।



॥ व्याप्तिनिर्णयः समाप्तो रत्नकीर्तिपादानाम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project