Digital Sanskrit Buddhist Canon

6 प्रमाणान्तर्भावप्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 6 pramāṇāntarbhāvaprakaraṇam
॥६॥

॥प्रमाणान्तर्भावप्रकरणम्॥



प्रमाणद्वितयादन्यप्रमाणगणदूषणम्।

नापूर्वमुच्यते तत्तु प्रयोगेणात्र मुद्रयते॥



इह खलु प्रमाणमात्रे न केचिद् विप्रतिपद्यन्ते। अन्ततश्चार्वाकस्यापि संप्रतिपत्तेः। प्रमाणमात्रोच्छेदवादी च तत्तदाङ्शक्य प्रतिविधानादस्मद्गुरुभिरवज्ञातः



प्रमाणमप्रमाणं चेद् विचारावसरो हतः।

ब्रुवता नियतं किञ्चित् साध्यं वा बाध्यमेव वा॥



तत्रायुक्तिं ब्रुवाणस्य श्लाघा सदसि कीदृशी।

नानुमायाः परायुक्तिः किं सिद्धं तदनादरे॥



स्वीकृता तेन सेत्यस्मात्तन्मत्या बाधनं यदि।

अबाधनेऽस्याः स्वीकारात्तद्भिया बाधनं कथम्॥



साध्यं न किञ्चिदिति चेद् बाधाया अपि साध्यता।

साऽपि नेति वचो व्यर्थं प्रश्नमात्रेऽपि किं फलम्॥



फलं यदि गिरः क्वापि नान्यत्तच्चावबोधनात्।

वाचः प्रत्यायने शक्ता नाक्षधूमादि सुन्दरम्॥



सं(वृ)तौ मानमिष्टं चेद् विचारोऽप्येष संवृतिः।

संवृतावपि नेष्टं चेद् वदन् जेता यथा तथा॥



संवृतिश्च विना मानं वाङ्मात्रेण न सिध्यति।

मानतो यदि दुर्वारः प्रमाणस्य परिग्रहः॥



आचार्योप्याह -



अनिष्टेश्चेत् प्रमाणं हि सर्वेष्टीनां निबन्धनम्।

भावाभावव्यवस्थां कः कर्तुं तेन विना प्रभुः॥



इति।

तदेवं प्रमाणमात्राप्रतिक्षेपे प्रत्यक्षं तावदादौ गणनीयम्, तन्मूलत्वादपरप्रमाणोपपत्तेः। न च चार्वाकोऽप्यनुमानमनवस्थाप्य स्थातुं प्रभवति, व्यापारत्रयकरणात्।



तच्छास्त्रे हि प्रत्यक्षेतरसामान्ययोः प्रमाणेतरविधानं लक्षणप्रणयनतो विधातव्यम्। तच्च लक्षणं प्रत्यक्षे धर्मिणि लक्ष्ये प्रामाण्ये प्रत्येतव्ये स्वभावो हेतुः। परबुद्धिप्रतिपत्तौ च कायादिव्यापारः कार्यहेतुः। परलोकप्रतिषेधे च दृश्यानुपलम्भोऽङ्गीकर्तव्य इति कथमनुमानापलापः।

यदाचार्यः



प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः।

प्रमाणान्तरसद्भावप्रतिषेधाच्च कस्यचित्॥

अपि च

अर्थस्यासंभवेऽभावात्प्रत्यक्षेऽपि प्रमाणताः।

प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम्॥



इत्यनुमानमपि प्रमाणम्। प्रामाण्यं च प्रमाणान्तरागृहीतनिश्चितप्रवृत्तिविषयार्थतया तत्प्रापणे शक्तिः॥



नन्वस्तु प्रापणे शक्तिः प्रामाण्यम्, परमसौनार्थादुत्पत्तेः, अपि त्वर्थदर्शनादि(ति) चेत्। किमिदमर्थदर्शनम्। अर्थस्य धर्मो दृश्यत्वम्। ज्ञानस्य धर्मो द्रष्टृत्वम्। प्रथमपक्षे नीलत्ववद् दृश्यत्वस्यापि साधारणत्वादेकगोचरोऽर्थः सर्वगोचरः स्यात्। न हि प्रतिपुरुषमर्थानां भेदो नैरात्म्यप्रसङ्गात्। द्वितीयपक्षे तु कथमन्यस्मिन् ज्ञानस्वभावे द्रष्टृत्वे सत्यन्यस्यासम्ब(द्ध)स्यार्थस्य प्रत्याशा स्यात्। द्रष्टृत्वं दृश्यत्वमन्तरेणानुपपद्यमानं तदाक्षिपतीति चेत्। ननु ज्ञानार्थयोरुत्पत्तिसारूप्यबलतो द्रष्टृदृश्यत्वव्यवस्था(प)नमेतत्। अनभ्युपगमे द्रष्टृत्वं दृश्यत्वं च न संभवतीति किं केनाक्षिप्यताम्। भवतु वा प्रकारान्तरेणापि द्रष्टृदृश्यभावस्तथापि भेदे सत्यव्यभिचारस्तदुत्पत्तिरेव प्राप्तिनिमित्तम्। सा च प्रापणशक्तिः प्रत्यक्षानुमानयोरविशिष्टेति प्रमाणे एव।



नन्वन्यदपि शाब्दोपमानादिकं प्रमाणमस्ति। तथा हि शब्दाच्चोदनारूपादसन्निकृष्टेऽर्थे स्वर्गादौ यज्ज्ञानमुत्पद्यते तदपि शाब्दं ज्ञानं प्रमाणमेव। प्रत्ययितोदितवाक्यप्रसूतं च ज्ञानं प्रमाणम्। यदाह कुमारिलः



तच्चाकर्तृकतो वाक्यादन्याद्वा प्रत्ययितो (?) दितात्। इति।



तत्र यदा शब्दसमुत्थं ज्ञानं प्रमाणं तदोपादानादिबुद्धिः फलम्। यदा तु शब्दस्तदा तदालम्बनं ज्ञानं फलमिति। नैयायिकस्य पुनः



आप्तोपदेशः शब्दः



इति शब्दप्रमाणलक्षणसूत्रम्। तत्र शब्द इति लक्ष्यपदम्। आप्तोपदेश इति लक्षणपदम्। अस्यायं संक्षेपार्थः। आप्तोपदिष्टः शब्दः प्रमाणमिति। आप्तश्च साक्षात्कृतहेयोपादेयतत्त्वो यथादृष्टस्य चार्थस्याचिख्यासया प्रयुक्त उपदेष्टा अभिधीयते। प्रमाणफलव्यवस्था च पूर्ववद् द्रष्टव्येति।



तथा मीमांसकानामुपमानं प्रमाणम्। यदुक्तं शबरस्वामिना उपमानमपि सादृश्यमसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति। यथा गवयदर्शनं गोः स्मरणस्येति।



अस्यायमर्थः। एकत्र दृश्यमानं सादृश्यं कर्तृ। प्रतियोग्यन्तरे दृश्यमानप्रतियोगिसादृश्यविशिष्टतयैतत्सादृश्यविशिष्टोऽसौ इत्यसन्निकृष्टेऽर्थे यां बुद्धिमुत्पादयति तदुपमानं प्रमाणमिति। यत्तदोरध्याहार इति। तस्मात् स्मरतीति स्मरणं पुरुषः। तेनायमर्थः - यथा गवये दृश्यमानं सादृश्यं गां स्मरतो मनुष्यस्य एतत्सादृश्यविशिष्टोऽसौ गौरिति बुद्धिमुत्पादयतीति।



न चेदमुपमानं स्मरणं कर्तव्यम्, गवयसादृश्यविशिष्टस्य गोर्गोविशिष्टस्य च सादृश्यस्य प्रमेयत्वात्। गोसादृश्ययोर्विशेषणविशेष्यभावस्योपमानप्रमाणविषयस्य गोग्राहिणा गवयग्राहिणा वा प्रत्यक्षेण केनचिदग्रहणात्। यदाह भट्टः

प्रत्यक्षेऽपि यथा देशे स्मर्यमाणे च पावके।

विशिष्टस्यान्यतः सिद्धेरनुमानप्रमाणता॥

प्रत्यक्षेणावबुद्धे च सादृश्ये गवि च स्मृते।

विशिष्टस्यान्यतोऽसिद्धेरुपमानप्रमाणता॥



न च ग्रहणमन्तरेण स्मरणमस्ति। तस्मान्नोपमानं स्मरणमतः प्रमाणमिति। नैयायिकादीनां तूपमानसूत्रम्,

प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् इति।



अस्यायमर्थः। प्रसिद्धं साधर्म्यं यस्य तस्माद् गवयादेः साध्यस्य संज्ञासंज्ञिसम्बन्धस्य साधनं सिद्धिस्तदुपमानफलम्। समाख्यासम्बन्धप्रतिपत्तिहेतुरुपमानमित्यर्थः। अयमस्य प्रपञ्चः। यः प्रतिपत्ता गां जानाति न गवयम्, आदिष्टश्च स्वामिना गच्छारण्यम् गवयमानयास्मादिति, गवयशब्दवाच्यमर्थम जानानो वनेचरमन्यं वा तज्ज्ञं पृष्टवान्, भ्रातः कीदृशो गवय इति। तेन चादिष्टं यथा गौस्तथा गवय इति। तस्य श्रुतातिदेशवाक्यस्य कस्याञ्चिदरण्यान्यामुपगतस्यातिदेशवाक्यार्थस्मरणसहकारि यद् गवयसारूप्यज्ञानं तत्प्रथमत एवासौ गवयशब्दवाच्योऽर्थ इति प्रतिपत्तिं प्रस्तुवानमुपमानं प्रमाणमिति।



तथार्थापत्तिसंज्ञं प्रमाणं मीमांसकस्य। अर्थापत्तिरपि दृष्टः श्रुतो वार्थोऽन्यथा नोपद्यमानो यदर्थान्तरं परिकल्पयति। सार्थापत्तिः। यथा जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्यार्थस्य परिकल्पना। अस्यायमर्थः। प्रत्यक्षादिभिः षड्भिः प्रमाणैः प्रसिद्धोः योऽर्थः स येन विना न युज्यते तस्यार्थस्य कल्पनमर्थापत्तिरिति। सा च षट्प्रमाणपूर्विका षट्प्रकारैवेति॥



प्रत्यक्षानुमानादिप्रमाणपञ्चकाभावस्वभावमभावाख्यं प्रमाणम्। प्रमेयं घटाद्यभावः। नास्तीह घटादीति ज्ञानं घटाद्यभावालम्बनं फलम्। यदाह कुमारिलः



प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते।

सात्मनोऽपरिणामो वा विज्ञानं वान्यवस्तुनि॥

प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते।

वस्तुसत्तावबोधार्थं तत्राभावप्रमणता॥ इति॥



एतानि षट् प्रमाणानि प्रत्यक्षादीन्यसंकीर्णस्वस्वलक्षणयोगित्वादन्योन्याप्रविष्टस्वभावानि प्रत्येतव्यानीति॥



अत्रोच्यते। चोदनायास्तावद् वाह्येऽर्थे प्रतिबन्धाभावान्न प्रामाण्यम्। प्रयोगः - यस्य यत्र प्रतिबन्धो नास्ति न तस्य तत्र प्रामाण्यम्। यथा दहनेऽप्रतिबद्धस्य रासभस्य। अप्रतिबद्धाश्च बहिरर्थे वैदिकाः शब्दाः इति व्यापकानुपलब्धिः। न तावदयमसिद्धो हेतुः। शब्दानां वस्तुतः प्रतिबन्धाभावात्। प्रतिबद्धस्वभावता हि प्रतिबन्धः। न च सा निर्निबन्धना, सर्वेषां सर्वत्र प्रतिबद्धस्वभावताप्रसङ्गात्। निबन्धनं चास्यास्तादात्म्यतदुत्पत्तिभ्यामन्यन्नोपलभ्यते, अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात्। न हि शब्दानां वहिरर्थस्वभावतास्ति भिन्नप्रतिभासावबोधविषयत्वात्। नापि शब्दा बहिरर्थादुपजायन्ते, अर्थमन्तरेणापि पुरुषस्येच्छाप्रतिबद्धवृत्तेः शब्दस्योत्पाददर्शनात्।



ननु योग्यतयैव किञ्चत् प्रतिबद्धस्वभावमुपलभ्यते। यथा चक्षुरिन्द्रियं रूपे। चक्षुः खलु व्यापार्यमाणम् रूपमेवोपलभ्भयति। तथैवैते वैदिकाः शब्दास्तादात्म्यतदुत्पत्तिवियुक्ता अपि योग्यतामात्रेणातीन्द्रियमर्थं बोधयिष्यन्ति तत्कथं तादात्म्यतदुत्पत्तिविरहमात्रेणाप्रतिबन्धो येनैवं व्यापकानुपलब्धिः सिध्यतीति। नैष दोषः। यतश्चक्षुरिन्द्रियमपि रसादिपरिहारेण रूप एव प्रकाशकत्वेन प्रतिनियतं तत्कार्यत्वात्। रूपं हि चक्षुरुपकरोति। न सत्तामात्रेण चक्षू रूपं प्रकाशयति, व्यवहितस्यापि रूपोपलब्धिप्रसङ्गात्। तस्माद् रूपाद् योग्यदेशसन्निहितात् तज्ज्ञानजननयोग्यतामासाद्य चक्षू रूपज्ञानमुत्पादयत्तत्कार्यमिति व्यक्तमवसीयते। अन्यथा तदुपकारानपेक्षस्य तस्यापि तत्प्रकाशननियमो नोपपद्यते। न ह्यनुपकार्यत्वाविशेषे चक्षू रूपस्यैव प्रकाशकम्, न रसादेरिति घटामुपैति नियमः। अयमेव तर्हि नियमः कुतो यद् रूपेणैव चक्षुरूपकर्तव्यम्, न रसादिनेति। यदि वस्तुवशादेव रूपमुपकरोति न रसादिकम्, हन्त तर्हि यथोपकार्यत्वं प्रति नियमश्चक्षुषो रूपेण, तथा शब्दानामपि स्वाभाविक एवास्तु बहिरर्थप्रत्यायननियम इति।



अत्रोच्यते। न चक्षुषः स्वाभाविको रूपोपकार्यतानियमः, कस्यचिद् वस्तुनः स्वाभाविकत्वानुपपत्तेः। तथा हि स्वाभाविकत्वं वस्तुधर्मस्यानुजानानः प्रष्टव्यः - किं स्वाभाविक इति स्वतो भवति, आहोस्वित् परतः, अथाहेतुतः। यदि स्वतो भवति, तदसङ्गतम्, स्वात्मनि क्रियाविरोधात्। अथाहेतुतः तदयुक्तम्, अहेतोर्देशादिनियमायोगात्। तस्मान्न स्वाभाविको रूपोपकार्यताप्रतिनियमश्चक्षुषः। किंनिबन्धनस्तर्हि स्वहेतुप्रतिबद्ध इति, ब्रूमः - चक्षूः खलु स्वहेतुना जन्यमानं तादृशमेव जनितम् यद्रूपोपकर्तव्यमेव भवति। रूपमपि तादृशमेव स्वहेतुना जनितं यत्तदुपकारकस्वभावम्।



शब्दानामपि स स्वभावः स्वहेतुप्रतिबद्धो येनैते बाह्यार्थाव्यभिचारिण इति चेत्। न शक्यमेवमभिधातुम्, नित्यत्वाभ्युपगमाद्वेदवाक्यानाम्। अथानित्यत्वमभ्युपगम्यायमाक्षेपः परिहर्तुमिष्यते, तदपि दुष्करम्, दोषान्तरप्रसङ्गात्। यदि स्वहेतुनैव ते नियमार्थोपदर्शनशक्तिमन्तो जनिताः, तदाव्युत्पन्नसमयस्यापि स्वार्थमववोधयेयुः। यथा चक्षुः स्वहेतो रूपप्रकाशकमुत्पन्नं सत् प्रकाशयत्येव रूपमसङ्केतविदोऽपि, न च शब्दादुच्चरितात् प्रागप्रतीतसमयस्यापि विशेषावगमः समस्ति। तस्मान्न स्वहेतुप्रतिबद्धश्चक्षुरादेरिव शब्दानामर्थप्रतिपादननियम इति निश्चयः॥



अथ स्वहेतुभिरेवायमीदृशस्तेषां स्वभावो दत्तो येन ते संकेतविशेषसहाया एव कमप्यर्थमवबोधयन्ति। न तर्हि सङ्केतपरावृत्तौ पदार्थान्तरवृत्तयो भवेयुः। यदि ह्ययमग्निहोत्रशब्दः संकेतापेक्षो यागविशेषप्रतिपादकः, कथं सङ्केतान्यत्वेनार्थान्तरं प्रतिपादयति। न हि क्षित्याद्यपेक्षेण बीजेन स्वहेतोरङ्कुरजननस्वभावेनोत्पन्नेन रासभः शक्यो जनयितुम्, तथा शब्दोऽपि यदर्थप्रतिपादननियतस्तमेव प्रकाशयेत्॥



अथ तत्तत्सङ्केतापेक्षस्तत्तदर्थप्रत्यायनयोग्य एवायं जात इत्युच्यते। तदपि न प्रस्तुतोपयोगि। न ह्येवमस्य प्रामाण्यमवतिष्ठते। यदा हि सङ्केतेनापुरुषार्थ प्रतिपादनमपि संभाव्यत एव, तदा न शक्यमुपकल्पयितुं किमयमभिमतस्यैवार्थस्य द्योतको न वेति। तर्हि वाच्यवाचकलक्षणः शब्दार्थयोः संबन्धो भविष्यति। तथा चाह



वाच्यवाचकसंबन्धाः सन्ति यद्यपि वास्तवाः।

सङ्केतैरनभिव्यक्ता न तेऽर्थव्यक्तिहेतवः॥



इति चेत्। ननु तस्य वास्तवत्वेऽसङ्केतविदोऽप्यर्थप्रतिपत्तिर्भवेदित्युक्तम्, सङ्केतापेक्षायां चार्थान्तरे न प्रवर्तेतेत्याद्यभिहितम्। अतः पूर्वमेवायं प्रत्याख्यातो वाच्यवाचकलक्षणः सम्बन्धः। तस्मान्न बहिरर्थे प्रतिबन्धः शब्दानामिति निर्णयः॥



ततश्च नासिद्धो हेतुः॥



नापि विरुद्धः, विपर्ययव्याप्त्यभावात्। तदभावश्च सपक्षे वृत्त्युपदर्शनात्। न हि विरुद्धस्य साधर्म्यवति धर्मिणि सद्भावो युक्तः, साध्यविपर्ययस्य तत्राभावात्। न च व्यापकमन्तरेण व्याप्यस्य संभवः, तत्प्रच्युतिप्रसङ्गात्॥



नाप्यनैकान्तिको हेतुः, विपर्यये बाधकप्रमाणसंभवात्। प्रामाण्यप्रतिषेधे हि साध्ये प्रमाण्यमेव विपक्षः। न च तस्मिन् प्रतिबन्धाभावलक्षणो हेतुरस्ति, स्वविरुद्धेन प्रतिबन्धेन व्याप्तत्वात्। न खल्वयं प्रादेशिकः प्रमाणशब्दो ज्ञानेषु निर्निबन्धन एव, सर्वज्ञानेषु प्रामाण्यव्यपदेशप्रसङ्गात्। निबन्धनं च स्वविषयप्रतिबन्धादन्यन्नोपपद्यते। तस्मात् प्रमाणस्य प्रमाणव्यपदेशविषयत्वं स्वविषयप्रतिबन्धने व्याप्तम्। अतः प्रमाणे धर्मिणि विपक्षे प्रामाण्यस्य विरुद्धव्याप्तस्योपलम्भेन विपक्षे व्यवच्छेदसिद्धेर्नानैकान्तिको हेतुः।



न चान्यो दोषः संभवी। तस्मान्निरस्ताशेषदोषेण हेतुना यत् प्रसिद्धं तदुपादेयमेव सताम् (इति) पण्डितश्रीजितारिपादैरेव वेदाप्रामाण्ये दर्शितम्।



एवं च वैदिकशब्दानां प्रमाण्ये निरस्ते तदुत्थं ज्ञानमप्यप्रमाणमेव। आप्तप्रणीतस्य पुनर्वचनस्यार्थाव्यभिचारे तज्जन्मनो ज्ञानस्याव्यभिचारसंभवेऽपि न प्रामाण्यमुपगन्तुं शक्यते, परचित्तवृत्तीनामशक्यनिश्चयत्वेनाप्तत्वापरिज्ञानात् वचनस्यापि तत्प्रणीतत्वाप्रतिपत्तेः। प्रयोगश्चात्र -



यद् येन रूपेण न निश्चितं न तत् तेन रूपेण व्यवह्रियते। यथा रथ्यापुरुषः सर्वज्ञत्वेन। न प्रतीयते चाभिमतपुरुष आप्तत्वेनेति व्यापकानुपलब्धिः॥



नायमसिद्धः, आप्ताभिमतस्य तथात्वानिश्चयात्। तथा हि परचित्तवृत्तयोऽतीन्द्रियत्वान्न प्रत्यक्षसमधिगम्या इति कायवाग्व्यवहारतोऽनुमातव्याः। तौ च कायवाग्व्यवहारौ बुद्धिपूर्वमन्यथापि कर्तुं शक्येते। ततस्तत्प्रतिबद्धत्वेनानिश्चयात् कथं कायवाग्व्यवहारतो विशिष्टपरचित्तवृत्त्यनुमानम्॥



नापि विरुद्धः, सपक्षे सद्भावसंभवात्॥



नाप्यनैकान्तिकः, प्रामाणिकतद्रूपव्यवहर्तव्यत्वनिश्चितत्वयोर्व्याप्यव्यापकभूतयोर्विधिभूतयोर्वृक्षत्वशिंशपात्वयोरिव प्रत्यक्षानुपलम्भाभ्यां सर्वोपसंहारेण व्याप्तेः सिद्धत्वात्। तदतः साधनाद् दोषत्रयरहितात् साध्यं सिद्‍ध्यदवाच्यमेव। तदेवमाप्तत्वस्य दुर्बोधत्वेन तत्प्रणीतत्वानिश्चयादेकप्रहारनिहतमाप्तवचसः प्रामाण्यम्।



अतो यदेतस्य प्रामाण्यप्रसिद्ध्यर्थं वाचस्पतिप्रभृतीनां वल्गितं तदप्राप्तावसरमेव। एवं प्रत्ययोदितमपि भट्टाभिमतं शाब्दं प्रमाण्यं व्यस्तमिति बोद्धव्यम्। तस्मात् स्थितमेतत् न शाब्दं बहिरर्थे प्रमाणमस्तीति। बुद्ध्याकारे तु तत्कार्यप्रसूतत्वात्तदनुमानमेवेति।



मीमांसकोक्तं तावदुपमानं मानमेव न भवति, निर्विषयत्वादस्य। इहापि प्रयोगः -



यस्य न विषयवत्त्वं न तस्य प्रामाण्यम्। यथा केशोण्डुकज्ञानस्य। न सिद्धं च विषयवत्त्वमुपमानज्ञानस्येति व्यापकानुपलम्भः।



नायमसिद्धो हेतुः, निर्विषयत्वादुपमानस्य। तथा हि सादृश्यविशिष्टः पिण्डः पिण्डविशिष्टं वा सादृश्यमुपमानस्य विषयो वर्ण्यते। न सदृशवस्तुव्यतिरिक्तं सादृश्यं व्यवस्थापयितुं शक्यते, प्रमाणेनाप्रतीतत्वात्।



ननु सादृश्यं वस्तु दुर्वारमेव। यदाह

सादृश्यस्य च वस्तुत्वं न शक्यमपवाधितुम्।

भूयोऽवयसामान्ययोगो जात्यन्तरस्य तत्॥



इति। अत्रोच्यते। यदि सदृशातिरिक्तं सादृश्यं वस्तु दृश्यं स्यात्, तदा दृश्यानुपलम्भग्रस्तमेव, शास्त्रानाहितसंस्कारेणापि केनचित्तस्यादर्शनात्। तस्य चास्तित्वे सर्व सर्वत्रास्तीत्यप्रवृत्तिनिवृत्तिकं जगदापद्येत। अथादृश्यं तत्सादृश्यमुपेयते, तथापि तत्र प्रसिद्धलिङ्गाभावादसिद्धमेव। सिद्धेन च तेन विषयवत्तोपमानस्य सिध्येत। सादृश्यप्रत्ययस्तु स्वहेतोस्तथोत्पन्नेन सदृशवस्तुनापि क्रियमाणोघटत एव इति न सादृश्यमुपस्थापयितुं प्रभवति। उपमानप्रमाणबलादेव सादृश्यसिद्धिरिति चेत्। न। प्रमाणान्तरसिद्धयोरेव सादृश्यपिण्डयोर्विशेषणविशेष्यभावस्योपमानविषयत्वात् कथं सादृश्यमात्रस्योपमानात् सिद्धिः। ततश्च सादृश्यस्यासिद्धेर्न तद्विशिष्टः पिण्डः पिण्डविशिष्टं वा सादृश्यमुपमानस्य विषयः। तदेवमुपमानस्य निर्विषयत्वं सिद्धमिति नासिद्धो हेतुः।



नापि विरुद्धः, सपक्षे भावात्।



न चानैकान्तिकः। तथा हि प्रामाण्याभावे साध्ये प्रमाण्यमेव विपक्षः। तच्च विषयवत्तया व्याप्तम्, निर्निमित्तत्वे सर्वज्ञानप्रामाण्यप्रसङ्गात्। तदयं विरुद्धव्याप्तोपलब्ध्या विपक्षान्निवर्तमानो विषयवत्त्वाभावलक्षणो हेतुः प्रामाण्याभावलक्षण एव विश्राम्यतीति व्याप्तिसिद्धिः। अतो नोपमानं प्रमाणमिति।



नैयायिकपरिकल्पितोपमाननिराकरणार्यमप्ययमेव प्रयोगो द्रष्टव्यः, तस्यापि निर्विषयत्वात्। तथा हि समाख्यासंबन्धस्तस्य विषयो वर्ण्यते। स च परमार्थतो नास्ति। स हि संबन्धः संबन्धिभ्यां भिन्नोऽभिन्नो वा। यदि भिन्नस्तदा तयोरिति कुतः। न च संबन्धान्तरादिति वक्तव्यम्, तदपि कथं तेषामिति चिन्तायामनवस्थाप्रसङ्गः। न च यथा प्रदीपः प्रकाशान्तरमन्तरेण प्रकाशते तथा संबन्धोऽपि संबन्धान्तरमन्तरेण संबद्धो भविष्यतीति वक्तुमुचितम्। प्रमाणसिद्धे हि वस्तुरूपेऽयमस्य स्वभाव इति वर्ण्यते। यथा प्रदीपस्यैव। संबन्धस्तु न प्रमाणप्रतीतः। तत्क एवं जानात्वयमस्य स्वभाव इति, यद्वा नास्त्येवायमिति। अयमनयोः संबन्धः संबद्धावेताविति तु बुद्धिः स्वहेतुबलात् संबद्धवस्तुद्वयादपि संभाव्यमाना न संबन्धमाक्षेप्तुं प्रभवति। तस्मान्न भिन्नसंबन्धसिद्धिः। अथाभिन्नः तदा संबन्धिनावेव केवलाविति न समाख्यासंबन्धो नाम, यः कश्चिदुपमानस्य विषयः स्यात्।



ननु संबन्धबुद्धिजनकत्वं संबद्धपदार्थाद्भिन्नमभिन्नं वा। भेदे च स एव सम्बन्धः, नाम्नि परं विवादः। अथाभिन्नम्, तदा यथा संबद्धपदार्थस्य स्वभावः सर्वपदार्थसाधारणस्तथा तदपि रूपं तदव्यतिभिन्नं सर्वपदार्थसाधारणमिति स पदार्थोऽभिमतपदार्थेनेव परैरपि पदार्थैः सह संबद्धः स्यात्।



नचैवम्, तस्माद्भिन्नं तत्सबन्धबुद्धिजनकत्वं संबद्धपदार्थादेष्टव्यमिति चेत्। नन्वेतदाशङ्क्य राजकुलपादैः परिहृतमेव। तथा हि



संबद्धं स्वयमेव चेन्ननु यथा तं तस्य संबन्धिनं

प्रत्यात्मा जगतीमपि प्रति तथा तत्केन योगोऽस्य न।

संबन्धे परतोऽपि तुल्यमखिलं तेनैव चेत् संयमो

हेतुः किं न नियामकः स च कथं योगः क्वचिन्नापरे॥



इति॥ तस्मात् संबन्धाभावात् पूर्वोक्तेन न्यायेन सारूप्याभावाच्चासिद्धं नैयायिकस्यापि निर्विषयमुपमानं प्रमाणमतोऽनन्तरेणैव व्यापकानुपलम्भेन निराकृतम्।



अर्थापत्तिरपि। यदेतत् सामान्यलक्षणं प्रत्यक्षादिप्रतीतो योऽर्थः स येन विना नोपपद्यते तस्यार्थस्य परिकल्पनमर्थापत्तिरित्यत्र विचार्यते। यस्यार्थस्य दर्शनाद् योऽर्थः परिकल्प्यते तयोर्यदि प्रतिबन्धोऽस्तितदार्थापत्तिरनुमानमेव। अर्थापत्तिरिति नामान्तरकरणे नास्माकं काचिद्विप्रतिपत्तिः। तथा हि प्रमाणपरिदृष्टोऽर्थः केनचिद्विना नोपपद्यत इति कुतो लभ्यते, यदि परिदृश्यमानपरिकल्प्यमानयोः कश्चित् संबन्धः स्यात्। अन्यथा तेन विना नोपपद्यत इत्यह्रीकादन्यो न ब्रूयात्, घटपटवत्। स च सम्बन्धः क्वचित् पूर्वमवश्यं प्रत्यक्षानुपलम्भतः क्वचिददृश्यत्वेऽपि विपर्ययबाधकप्रमाणबलाद्वा निश्चेतव्यः। अन्यथा तेन विनानुपपत्तिज्ञानस्यैवानुपपत्तेः। सति चैवम्, एकं संबन्धिनं दृष्ट्वा यत्रस्थेन विना तत्रस्थं नोपपद्यते, तस्य द्वितीयस्य संबन्धिनः कल्पनमनुमानमेव। तत्र स्वभावप्रतिबन्धे स्वभावहेतुजैव सार्थापत्तिः। तदुत्पत्तिप्रतिबन्धे कार्यालिङ्गजैव। तदुक्तम् - अन्यथानुपपन्नत्वमन्वयव्यतिरेकिण्यर्थे भवति यत्, तस्मान्नार्थापत्तिः प्रमाणान्तरमिति। तस्मात् परिदृश्यमानपरिकल्प्यमानयोः सति प्रतिबन्धे नार्थापत्तिः प्रमाणान्तरमिति। अथ तयोर्न प्रतिबन्धः, तदार्थापत्तिः प्रमाणमेव न भवतीति मन्तव्यम्, साक्षात् पारम्पर्येण च संबन्धाभावात्। यस्य यत्र प्रतिबन्धो नास्ति न तस्य तत्र प्रामाण्यमित्यादिर्वेद निराकरणार्थ यः पूर्वमुपन्यस्तः स एवास्या अपि प्रामाण्यनिराकरणाय द्रष्टव्यः। सामान्येनैवार्थापत्तौ निराकृतायां प्रत्यक्षादिपूर्वकत्वलक्षणस्तत्प्रपञ्चो निरस्तो भवत्येवेति तदर्थं न प्रबन्धोऽभिधीयते, गवि निराकृते शावलेयनिराकृतिवत्। तस्मान्नार्थापत्तिः प्रमाणान्तरमिति।



तथा अभावप्रमाणस्यापि प्रामाण्यं नोपपद्यते, तस्यापि निर्विषयत्वात्। ततश्च मीमांसकोपवल्गितोपमाननिराकरणार्थमुपन्यस्तो यो विषयवत्त्वाभावलक्षणोऽनुपलम्भः स एवास्यापि निरासार्थमुपन्यसितव्यः। ननु चात्रासिद्धो हेतुः। तथा हि यदि घटाभावो वास्तवः प्रमेयभूतो न स्यात्, तदा नास्तीह घट इति प्रत्ययः कथमुत्पद्यत इति चेत्। केवलप्रदेशग्राहिप्रत्यक्षादिति ब्रूमः। ननु यदि कैवल्यं प्रवेशस्वरूपं तत्तर्हि सघटेऽपि प्रदेशे विद्यत इति तत्रापि तस्य प्रत्ययस्य सद्भावप्रसङ्गः। अथातिरिक्तः, मुखान्तरेणाभाव एवाभ्युपगतो भवतीति चेत्, न। कैवल्यं तद्विविक्तत्वमसङ्कीर्णत्वमित्यादिभिः पदैः प्रदेशस्य घटं प्रत्यनापन्नाधारभावस्य स्वहेतुत उत्पन्नस्य घटप्रदेशादन्य एवात्माभिधीयते। स एव चाभावप्रत्ययं जनयतीति किमपरेणाभावेन कर्तव्यम्।



ननु घटं प्रत्यनापन्नाधारभावस्य प्रदेशस्येति घटाभावयुक्तस्य प्रदेशस्येत्युक्तं भवतीति चेत्। तर्हि घटाभावोऽपि घटं प्रत्यनापन्नाधारभावः किमभावान्तरेण स्वरूपेणैव वा। प्रथमपक्षेऽनवस्था। अथ तदभावरूपत्वादभावान्तरमन्तरेणैव घटाभावो घटं प्रत्यनापन्नाधारभावः। यद्येवमसहायः प्रदेशविशेषोऽपि पर्युदासवृत्त्या घटाभावरूपत्वादभावं विनैव घटं प्रत्यनापन्नाधारभावो युक्त इति किमकाण्डमाहोपुरुषिकया मिथ्याप्रलापेनाबोधविक्लवं शिष्यपुद्गलमाकुलयसि। तस्माद् भूतलातिरिक्तस्याभावस्यासिद्धत्वान्नायं विषयवत्ताभावलक्षणो हेतुरसिद्धः। प्रमाणपञ्चकाभावादेव तु प्रमेयाभावसिद्धिप्रत्याशापि न युज्यते, विप्रतिपत्तिविषयत्वादस्या नेनैव प्रमेयाभावसिद्धेरयोगात्।



विरुद्धानैकान्तिकत्वे च पूर्वमेव हेतोः परिहृते। तदतः सिद्धमभावप्रमाणाभिमतस्याप्रामाण्यमिति।



अथवाभावप्रमाणस्वरूपमेव निरूप्यताम्। कःपुनः प्रमाणाभावात्माभिमतो भवताम्, किं प्रसज्यवृत्त्या प्रमाणानुत्पत्तिमात्रम्, अथ वा पर्युदासवृत्त्या भावान्तरम्। वस्त्वन्तरमपि जडरूपं ज्ञानरूपं वा। ज्ञानरूपमपि ज्ञानमात्रकमेकज्ञानसंसर्गिवस्तुज्ञानं वेति षड् विकल्पाः।





तत्र न तावन्निवृत्तिरूपोऽभावो युज्यते। स खलु निखिलशक्तिविकलतया न किञ्चित्। यच्च न किञ्चित् तत्कथमभावं परिच्छिन्द्यात्, तद्विषयं वा ज्ञानं जनयेत्, प्रतीतं वा तत्कथमिति सर्वमन्धकारनर्तनम्। यदाहुः -



न ह्यभावः कस्यचित् प्रतिपत्तिः प्रतिपत्तिहेतुर्वा तस्यापि कथं प्रतिपत्तिरिति। नापि वस्त्वन्तरतापक्षे जडरूपोऽभावः सङ्गच्छते, तस्याभावलक्षणप्रमेयपरिच्छेदाभावात्, परिच्छेदस्य ज्ञानधर्मत्वात्। नापि ज्ञानमात्रस्वभावोऽभावो वक्तव्यः, देशकालस्वभावविप्रकृष्टस्यापि ततोऽभावप्रसङ्गात्, तदपेक्षयापि ज्ञानमात्रत्वात् तस्य। अथैकज्ञानसंसर्गिवस्तुज्ञानस्वभावोऽनुमन्यते तदास्तमभावप्रमाणप्रत्याशया, प्रत्यक्षविशेषस्यैवाभावनामकरणात्। तस्य चास्माभिर्दृश्यानुपलम्भाख्यसाधनत्वेन स्वीकृतत्वात्। अतो न काचिद् विप्रतिपत्तिर्नाम। तस्मादभावप्रमाणस्वरूपमर्पि निरूप्यमाणं विशीर्यत एव। यदप्यस्य लक्षणमुक्तम्



प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते।



इत्यादि, तदपि याचितकमण्डनम्। तस्मात् स्थितमेतत्, प्रमाणस्य सतोऽत्रैवान्तर्भावात् प्रमाणे एव।



॥प्रमाणान्तर्भावप्रकरणं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project