Digital Sanskrit Buddhist Canon

5 क्षणभङ्गसिद्धिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

5 kṣaṇabhaṅgasiddhiḥ

॥५॥

॥क्षणभङ्गसिद्धिः॥



॥व्यतिरेकात्मिका॥



॥नमस्तारायै॥



व्यतिरेकात्मिका व्याप्तिराक्षिप्तान्वयरूपिणी।

वैधर्म्यवति दृष्टान्ते सत्त्वहेतोरिहोच्यते॥



यत् सत् तत् क्षणिकम्। यथा घटः। सन्तश्चामी विवादास्पदीभूताः पदार्था इति स्वभावहेतुः।



न तावदस्यासिद्धिः संभवति, यथायोगं प्रत्यक्षानुमानप्रमाणप्रतीते धर्मिणि सत्त्वशब्देनाभिप्रेतस्यार्थक्रियाकारित्वलक्षणस्य साधनस्य प्रमाणसमधिगतत्वात्।



न च विरुद्धानैकान्तिकते, व्यापकानुपलम्भात्मना विपर्यये बाधकप्रमाणेन व्याप्तेः प्रसाधनात्। यस्य क्रमाक्रमौ न विद्येते न तस्यार्थक्रियासामर्थ्यम्। यथा शशविषाणस्य। न विद्येते चाक्षणिकस्य क्रमाक्रमाविति व्यापकानुपलम्भः। न तावदयमसिद्धो हेतुः, अक्षणिके धर्मिणि क्रमाक्रमसद्भावायोगात्। तथा हि प्राप्तापरकालयोरेकत्वे नित्यत्वम्। तस्य क्रमाक्रमयोगे क्षणद्वयेऽप्यवश्यं भेदः। भेदाभेदयोश्च परस्परविरोधात् कुतोऽक्षणिके क्रमाक्रमसंभवः। क्षणद्वयेऽपि भेदे क्रमाक्रमयोगः। अभेदे हि प्रथम एव क्षणे शक्तत्वाद् भाविनोऽपि कार्यस्य करणप्रसङ्गे कथं कार्यान्तरकरणे क्रमान्तरावकाशः। न चाक्षणिकस्याक्रमेणैव सकलस्वकार्यं कृत्वा स्वास्थ्यम्। क्षणान्तरेऽपि शक्तत्वात् पुनस्तत्कार्यकरणप्रसङ्गात्।



तस्मादक्षणिकमिति पूर्वापरकालयोरभेदः। क्रमाक्रमयोग इति पूर्वापरकालयोर्भेदः। अनयोश्च परस्परपरिहारस्थितिलक्षणो विरोधः।



तदयमक्षणिके धर्मिणि क्रमाक्रमाभावलक्षणो हेतुर्नासिद्धो वक्तव्यः। क्रमाक्रमयोगित्वाक्षणिकत्वयोर्विरोधादेव।



नापि विरुद्धः, सपक्षे भावात्।



न चानैकान्तिकः, क्रमाक्रमाभावस्यार्थक्रियासामर्थ्याभावेन व्याप्तत्वात्।



येनैव हि प्रत्यक्षात्मना प्रमाणेनापरप्रकाराभावाद्विधिभूताभ्यां क्रमाक्रमाभ्यां विधिभूतस्यार्थक्रियासामर्थ्यस्य व्याप्तिः प्रसाधिता, तेनैवार्थक्रियासामर्थ्याभावेन क्रमाक्रमाभावस्य व्याप्तिः प्रसाधितेति स्वीकर्त्तव्यम्। न हि दहनादिना धूमादेर्व्याप्तिसाधकप्रमाणादपरं धूमाद्यभावेन दहनाद्यभावस्य व्याप्तिसाधकं किञ्चित् प्रमाणं शरणभूतमस्ति। तस्माद्विध्योरेव व्याप्तिसाधकं प्रमाणमभावयोरपि व्याप्तिसाधकमिति न्यायस्य दुरतिक्रमत्वात् सत्त्वाभावेन क्रमाक्रमाभावो व्याप्त एवेति नानैकान्तिक इत्यनवद्यो व्यापकानुपलम्भः। तदयमक्षणिकाद् विनिवर्तमानः स्वव्याप्यं सत्त्वं निवर्त्यं क्षणिके विश्रामयतीति सत्त्वहेतोः क्षणभङ्गसिद्धिरप्यनवद्या।



ननु व्यापकानुपलम्भतः सत्त्वस्य कथं स्वसाध्यप्रतिबन्धसिद्धिः , अस्याप्यनेकदोषदुष्टत्वात्। तथा हि न तावदयं प्रसङ्गो हेतुः, साध्यधर्मिणि प्रमाणसिद्धत्वात्, पराभ्युपगमसिद्धत्वाभावात्, विपर्ययपर्यवसानाभावाच्च। अथ स्वतन्त्रः, तदाश्रयासिद्धः। अक्षणिकस्याश्रयस्यासंभवात्। अप्रतीतत्वाद्वा। प्रतीतर्हि प्रत्यक्षेणानुमानेन विकल्पमात्रेण वा स्यात्।



प्रथमपक्षद्वये साक्षात् पारम्पर्येण वा स्वप्रतीतिलक्षणार्थकारित्वे मौलसाधारणो हेतुः व्यापकानुलम्भश्च स्वरूपासिद्धः स्यात्। अर्थक्रियाकारित्वे क्रमाक्रमयोरन्यतरस्या वश्यंभावात्। अन्तिमपक्षे तु न कश्चिद्धेतुरनाश्रयः स्यात्। विकल्पमात्रसिद्धस्य धर्मिणः सर्वत्र सुलभत्वात्।



अपि च, तत् कल्पनाज्ञानं प्रत्यक्षपृष्ठभावि वा स्यात्, लिङ्गजन्म वा, संस्कारजं वा, सन्दिग्धवस्तुकं वा, अवस्तुकं वा।



तत्राद्यपक्षद्वयेऽक्षणिकस्य सत्तैवाव्याहता। कथं बाधकावतारः। तृतीये तु न सर्वदाऽक्षणिकसत्तानिषेधः , तदर्पितसंस्काराभावे तत्स्मरणायोगात्। चतुर्थे तु सन्दिग्धाश्रयत्वं हेतुदोषः। पञ्चमे च तद्विषयस्याभावो न तावत् प्रत्यक्षतः सिध्यति, अक्षणिकात्मनः सर्वदैव त्वन्मतेऽप्रत्यक्षत्वात्। न चानुमानतस्तदभावस्तत्प्रतिबद्धलिङ्गानुपलम्भादित्याश्रयासिद्धिस्तावदुद्धता। एवं दृष्टान्तोऽपि प्रतिहन्तव्यः।



स्वरूपासिद्धोऽप्ययं हेतुः, स्थिरस्यापि क्रमाक्रमिसहकार्यपेक्षया क्रमाक्रमाभ्यामर्थक्रियोपपत्तेः। नापि क्रमयौगपद्यपक्षोक्तदोषप्रसङ्गः। तथा हि क्रमिसहकार्यपेक्षया क्रमिकार्यकारित्वं तावदविरुद्धम्।



तथा च शङ्करस्य संक्षिप्तोऽयमभिप्रायः। सहकारिसाकल्यं हि सामर्थ्यम्। तद्वैकल्यं चासामर्थ्यम्। न च तयोराविर्भावतिरोभावाभ्यां तद्वतः काचित् क्षतिः, तस्य ताभ्यामन्यत्वात्। तत्कथं सहकारिणोऽनपेक्ष्य कार्यकरणप्रसङ्ग इति।



त्रिलोचनस्याप्ययं संक्षिप्तार्थः। कार्यमेव हि सहकारिणमपेक्षते। न कार्योत्पत्तिहेतुः। यस्मात् द्विविधं सामर्थ्यं निजमागन्तुकं च सहकार्यन्तरम्, ततोऽक्षणिकस्यापि क्रमवत्सहकारिनानात्वादपि क्रमवत्कार्यनानात्वोपपत्तेरशक्यं भावानां प्रतिक्षणमन्यान्यत्वमुपपादयितुमिति।



न्यायभूषणोऽपि लपति। प्रथमकार्योत्पादनकाले हि उत्तरकार्योत्पादनस्वभावः। अतः प्रथमकाल एवाशेषाणि कार्याणि कुर्यादिति चेत्। तदिदं माता मे बन्ध्येत्यादिवत् स्ववचनविरोधादयुक्तम्। यो हि उत्तरकार्यजननस्वभावः स कथमादौ तत् कार्यं कुर्यात्। (अथ कुर्यात्) न तर्हि तत्कार्यकरणस्वभाव। नहि नीलोत्पादनस्वभावः पीतादिकमपि करोतीति।



वाचस्पतिरपि पठति। नन्वयमक्षणिकः स्वरूपेण कार्यं जनयति। तच्चास्य स्वरूपं तृतीयादिष्विव क्षणेषु द्वितीयेऽपि क्षणे सदिति तदापि जनयेत्। अकुर्वन् वा तृतीयादिष्वपि न कुर्वीत, तस्य तादवस्थ्यात्। अतादवस्थ्ये वा तदेवास्य क्षणिकत्वम्॥



अत्रोच्यते। सत्यं स्वरूपेण कार्यं जनयति न तु तेनैव। सहकारिसहितादेव ततः कार्योत्पत्तिदर्शनात्। तस्माद् व्याप्तिवत्कार्यकारणभावोऽप्येकत्रान्ययोगव्यवच्छेदेन। अन्यत्रायोगव्यवच्छेदेनाववोद्धव्यः। तथैव लौकिकपरीक्षकाणां संप्रतिपत्तेरिति न क्रमिकार्यकारित्वपक्षोक्तदोषावसरः॥



नाप्यक्षणिके यौगपद्यपक्षोक्तदोषावकाशः। ये हि कार्यमुत्पादितवन्तो द्रव्यविशेषास्तेषां व्यापारस्य नियतकार्योत्पादनसमर्थस्य निष्पादिते कार्येऽनुवर्तमानेष्वपि तेषु द्रव्येषु निवृत्तार्थादूना सामग्री जायते। तत्कथं निष्पादितं निष्पादयिष्यति। न हि दण्डादयः स्वभावेनैव कर्तारो येनामी निष्पत्तेरारभ्य कार्यं विदध्युः। किं तर्हि व्यापारावेशिनः। न चेयता स्वरूपेण न कर्तारः, स्वरूपकारकत्वनिर्वाहपरतया व्यापारसमावेशादिति॥



किं च क्रमाक्रमाभावश्च भविष्यति न च सत्त्वाभाव इति सन्दिग्धव्यतिरेकोऽप्ययं व्यापकानुपलम्भः। न हि क्रमाक्रमाभ्यामन्यस्य प्रकारस्याभावः सिद्धः, विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वात्।



किं च प्रकारान्तरस्य दृश्यत्वे नात्यन्तनिषेधः। अदृश्यत्वे तु नासत्तानिश्चयो विप्रकर्षिणामिति न क्रमाक्रमाभ्यामर्थक्रियासामर्थ्यस्य व्याप्तिसिद्धिः। अतः सन्दिग्धव्यतिरेकोऽपि व्यापकानुपलम्भः।



किं च दृश्यादृश्यसहकारिप्रत्ययसाकल्यवतः क्रमयौगपद्यस्यात्यन्तपरोक्षत्वात् तेन व्याप्तं सत्त्वमपि परोक्षमेवेति न तावत्प्रतिबन्धः प्रत्यक्षतः सिध्यति। नाप्यनुमानतः, तत्प्रतिबद्धलिङ्गाभावादिति।



अपि च क्रमाक्रमाभ्यामर्थक्रियाकारित्वं व्याप्तमित्यतिसुभाषितम्। यदि क्रमेण व्याप्तं कथमक्रमेण। अथाक्रमेण न तर्हि क्रमेण। क्रमाक्रमाभ्यां व्याप्तमिति तु ब्रुवता व्याप्तेरेवाभावः प्रदर्शितो भवति। न हि भवति धूमो वह्निभावाभावाभ्यां व्याप्त इति। अतो व्याप्तेरनैकान्तिकत्वम्।



अपि च किमिदं बाधकमक्षणिकानामसत्तां साधयति, उतस्विदक्षणिकात् सत्त्वस्य व्यतिरेकम्, अथ सत्त्वक्षणिकत्वयोः प्रतिबन्धम्। न पूर्वो विकल्पः, उक्तक्रमेण हेतोराश्रयासिद्धत्वात्। न च द्वितीयः। यतो व्यापकनिवृत्तिसहिता व्याप्यनिवृत्तिर्व्यतिरेकशब्दस्यार्थः। सा च यदि प्रत्यक्षेण प्रतीयते तदा तद्धेतुः स्यादिति सत्त्वमनैकान्तिकम्। व्यापकानुपलम्भः स्वरूपासिद्धः। अथ सा विकल्प्यते तदा पूर्वोक्तक्रमेण पञ्चधा विकल्प्य विकल्पो दूषणीयः। अत एव न तृतीयोऽपि विकल्पः, व्यतिरेकासिद्धौ सम्बन्धासिद्धेः।



किं च न भूतलवदत्राक्षणिको धर्मी दृश्यते। न च स्वभावानुपलम्भे व्यापकानुपलम्भः कस्यचित् दृश्यस्य प्रतिपत्तिमन्तरेणान्तर्भावयितुं शक्यत इति।



किं चास्याभावधर्मत्वे आश्रयासिद्धत्वमितरेतराश्रयत्वं च। भावधर्मत्वे विरुद्धत्वं च। उभयधर्मत्वे चानैकान्तिकत्वमिति न त्रयीं दोषजातिमतिपतति।



यत् पुनरुक्तमक्षणिकत्वे क्रमयौगपद्याभ्यामर्थक्रियाविरोधादिति। तत्र विरोधसिद्धिमनुसरता विरोध्यपि प्रतिपत्तव्यः। तत्प्रतीतिनान्तरीयकत्वाद् विरोधसिद्धेः। यथा तुहिनदहनयोः सापेक्षध्रूवभावयोश्च। प्रतियोगी चाक्षणिकः प्रतीयमानः प्रतीतिकारित्वात् सन्नेव स्यात्, अजनकस्याप्रमेयत्वात्।



संवृतिसिद्धेनाक्षणिकत्वेन विरोधसिद्धिरिति चेत्। संवृतिसिद्धमपि वास्तवं काल्पनिकं वा स्यात्।



यदि वास्तवं कथं तस्यासत्त्वम्। कथं चार्थक्रियाकारित्वविरोधः। अर्थक्रियां कुर्वद्धि वास्तवमुच्यते।



अथ काल्पनिकम्। तत्र किं विरोधो वास्तवः, काल्पनिको वा। न तावद् वास्तवः, कल्पितविरोधिविरोधत्वात्, बन्ध्यापुत्रविरोधवत्। अथ विरोधोऽपि काल्पनिकः न तर्हि सत्त्वस्य व्यतिरेकः पारमार्थिक इति क्षणभङ्गो दत्तजलाञ्जलिरिति।



अयमेव चोद्यप्रबन्धोऽस्मद्गुरुभिः संगृहीतः

नित्यं नास्ति न वा प्रतीतिविषयस्तेनाश्रयासिद्धता

हेतोः स्वानुभवस्य च क्षतिरतः क्षिप्तः सपक्षोऽपि च।

शून्यश्च द्वितयेन सिध्यति न चासत्तापि सत्ता यथा

नो नित्येन विरोधसिद्धिरसता शक्या क्रमादेरपि॥ इति॥



अत्रोच्यते। इह वस्तुन्यपि धर्मिधर्मव्यवहारो दृष्टो यथा गवि गोत्वम्, पटे शुक्लत्वम्, तुरगे गमनमित्यादि। अवस्तुन्यपि धर्मिधर्मव्यवहारो दृष्टो यथा शशविषाणे तीक्ष्णत्वाभावो बन्ध्यापुत्रे वक्तृत्वाभावो गगनारविन्दे गन्धाभाव इत्यादि। तत्रावस्तुनि धर्मित्वं नास्तीति किं वस्तुधर्मेण धर्मित्वं नास्ति, आहोस्विदवस्तुधर्मेणापि।



प्रथमपक्षे सिद्धसाधनम्। द्वितीयपक्षे तु स्ववचनविरोधः। यदाहुर्गुरवः



धर्मस्य कस्यचिदवस्तुनि मानसिद्धा

बाधाविधिव्यवहृतिः किमिहास्ति नो वा।

क्वाप्यस्ति चेत् कथमियन्ति न दूषणानि

नास्त्येव चेत् स्ववचनप्रतिरोधसिद्धिः॥



अवस्तुनो धर्मित्वस्वीकारपूर्वकत्वस्य व्यापकस्याभावादा श्रयासिद्धिदूषणस्यानुपन्यासप्रसङ्ग इत्यर्थः। येनैव हि वचनेनावस्तुनो धर्मित्वं प्रतिषिध्यते, तेनैवावस्तुनो धर्मित्वाभावेन धर्मेण धर्मित्वमभ्युपगतम्। परन्तु प्रतिषिध्यत इति व्यक्तमिदमीश्वरचेष्टितम्। तथा ह्यवस्तुनो धर्मित्वं नास्तीति वचनेन धर्मित्वाभावः किमवस्तुनि विधीयते, अन्यत्र वा, न वा क्वचिदपीति त्रयः पक्षाः।



प्रथमपक्षेऽवस्तुनो न धर्मित्वनिषेधः, धर्मित्वाभावस्य धर्मस्य तत्रैव विधानात्। द्वितीयेऽवस्तुनि किमायातम् अन्यत्र धर्मित्वाभावविधानात्। तृतीयस्तु पक्षो व्यर्थ एव निराश्रयत्वादिति कथमवस्तुनो धर्मित्वनिषेधः। तस्माद्यथा प्रमाणोपन्यासः प्रमेयस्वीकारपूर्वकत्वेन व्याप्तः, वाचकशब्दोपन्यासो वा वाच्यस्वीकारपूर्वकत्वेन व्याप्तस्तथावस्तुनो धर्मित्वं नास्तीति वचनोपन्यासोऽवस्तुनो धर्मित्वस्वीकारपूर्वकत्वेन व्याप्तः। अन्यथा तद्वचनोपन्यासस्य व्यर्थत्वात्। तद् यदि वचनोपन्यासो व्याप्यधर्मस्तदाऽवस्तुनो धर्मित्वस्वीकारोऽपि व्यापकधर्मो दुर्वारः। अथ न व्यापकधर्मः तदा व्याप्यस्यापि वचनोपन्यासस्यासंभव इति मूकतैवात्र बलादायातेति कथं न स्ववचनप्रतिरोधसिद्धिः।



यदाहाचार्यः - न ह्यब्रुवन् परं बोधयितुमीशः। ब्रुवन् वा दोषमिमं परिहर्तुमिति महति संकटे प्रवेशः।



अवस्तुप्रस्तावे सहृदयानां मूकतैव युज्यत इति चेत्। अहो महद्वैदग्ध्यम्। अवस्तुप्रस्तावे स्वयमेव यथाशक्ति वल्गित्वा भग्नो मूकतैव न्यायप्राप्तेति परिभाषया निःसर्तुमिच्छति। न चावस्तुप्रस्तावो राजदण्डेन विना चरणमर्दनादिनानिष्टिमात्रेण वा प्रतिषेद्धं शक्यते। ततश्वात्रापि क्रमाक्रमभावस्य साधनत्वे सत्त्वाभावस्य च साध्यत्वे सन्दिग्धवस्तुभावस्यावस्त्वात्मनो वा क्षणिकस्य धर्मित्वं केन प्रतिषिध्यते।



त्रिविधो हि धर्मो दृष्टः। कश्चित् वस्तुनियतो नीलादिः। कश्चिदवस्तुनियतो यथा सर्वोपाख्याविरहः। कश्चिदुभयसाधारणो यथाऽनुपलब्धिमात्रम्। तत्र वस्तुधर्मेणावस्तुनो धर्मित्वनिषेध इति युक्तम्। न त्ववस्तुधर्मेण, वस्त्ववस्तुधर्मेण वा, स्ववचनस्यानुपन्यासप्रसङ्गादित्यक्षणिकस्याभावे सन्देहेऽपि वा वस्तुधर्मेण धर्मित्वमव्याहतमिति नायमाश्रयासिद्धो व्यापकानुपलम्भः।



अक्षणिकाप्रतीता वाश्रयासिद्धो हेतुरिति युक्तमुक्तम्, तदप्रतीतौ तद्‍व्यवहारायोगात्। केवलमसौ व्यवहाराङ्गभूता प्रतीतिर्वस्त्ववस्तुनोरेकरूपा न भवति। साक्षात्पारम्पर्येण वस्तुसामर्थ्यभाविनो हि वस्तुप्रतीतिः। यथा प्रत्यक्षमनुमानं प्रत्यक्षपृष्ठभावी च विकल्पः। अवस्तुनस्तु सामर्थ्याभावाद्विकल्पमात्रमेव प्रतीतिः। वस्तुनो हि वस्तुबलभाविनी प्रतीतिर्यथा साक्षात्प्रत्यक्षम्, परम्परया तत्पृष्ठभावी विकल्पोऽनुमानं च। अवस्तुनस्तु न वस्तुबलभाविनी प्रतीतिस्तत्कारकत्वेनावस्तुत्वहानिप्रसङ्गात्। तस्माद्विकल्पमात्रमेवावस्तुनः प्रतीतिः। न ह्यभावः कश्चिद्विग्रहवान् यः साक्षात्कर्तव्योऽपि तु व्यवहर्तव्यः। स च व्यवहारो विकल्पादपि सिध्यत्येव। अन्यथा सर्वजनप्रसिद्धोऽवस्तुव्यवहारो न स्यात्। इष्यते च तद्धर्मित्वप्रतिषेधानुबन्धादित्यकामकेनापि विकल्पमात्रसिद्धोऽक्षणिक स्वीकर्तव्य इति नायमप्रतीतत्वादप्याश्रयासिद्धो हेतुर्वक्तव्यः।



ततश्चाक्षणिकस्य विकल्पमात्रसिद्धत्वे यदुक्तम्, न कश्चिद्धेतुरनाश्रयः विकल्पमात्रसिद्धस्य धर्मिणः सर्वत्र सुलभत्वादिति तदसङ्गतम्। विकल्पमात्रसिद्धस्य धर्मिणः सर्वत्र संभवेऽपि वस्तुधर्मेण धर्मित्वायोगात्। वस्तुधर्महेतुत्वापेक्षया आश्रयासिद्धस्यापि हेतोः संभवात्। यथात्मनो विभुत्वसाधनार्थमुपन्यस्तं सर्वत्रोपलभ्यमानगुणत्वादिति साधनम्। विकल्पश्चायं हेतूपन्यासात् पूर्वं सन्दिग्धवस्तुकः। समर्थिते तु हेताववस्तुक इति ब्रूमः।



न चात्र सन्दिग्धाश्रयत्वं नाम हेतुदोषः। आस्तां तावत्। सन्दिग्धस्यावस्तुनोऽपि विकल्पमात्रसिद्धस्यावस्तुधर्मापेक्षया धर्मित्वप्रसाधनात्। वस्तुधर्महेत्वपेक्षयैव सन्दिग्धाश्रयस्य हेत्वाभासस्य व्यवस्थापनात्। यथेह निकुञ्जे मयूरः केकायितादिति। अवस्तुकविकल्पविषयस्यासत्त्वं तु व्यापकानुपलम्भादेव प्रसाधितम्। एवं दृष्टान्तस्यापि व्योमोत्पलादेर्धर्मित्व विकल्पमात्रेण प्रतीतिश्चावगन्तव्या। तदेव मवस्तुधर्मापेक्षयाऽवस्तुनो धर्मित्वस्य विकल्पमात्रेण प्रतीतेश्चापह्नोतुमशक्यत्वान्नायमाश्रयासिद्धो हेतुः। न च दृष्टान्तक्षतिः।





न चैष स्वरूपासिद्धः, अक्षणिके धर्मिणि क्रमाक्रमयोर्व्यापकयोरयोगात्। तथा हि यदि तस्य प्रथमे क्षणे द्वितीयादिक्षणभाविकार्यकरणसामर्थ्यमस्ति तदा प्रथमक्षणभाविकार्यवत् द्वितीयादिक्षणभाव्यपि कार्यं कुर्यात्, समर्थस्य क्षेपायोगात्। अथ तदा सहकारिसाकल्यलक्षणसामर्थ्थं नास्ति, तद्वैकल्यलक्षणस्यासामर्थ्यस्य संभवात्। न हि भावः स्वरूपेण करोतीति स्वरूपेणैव करोति, सहकारिसहितादेव ततः कार्योत्पत्तिदर्शनादिति चेत्। यदा तावदमी मिलिताः सन्तः कार्यं कुर्वते तदैकार्थकरणलक्षणं सहकारित्वमेषामस्तु, को निषेद्धाः। मिलितैरेव तु तत्कार्यं कर्त्तव्यमिति कुतो लभ्यते। पूर्वापरकालयोरेकस्वभावत्वाद् भावस्य सर्वदा जननाजननयोरन्यतरनियमप्रसङ्गस्य दुर्वारत्वात्। तस्मात् सामग्री जनिका, नैकं जनकमिति स्थिरवादिनां मनोराज्यस्याप्यविषयः।



किं कुर्मो दृश्यते तावदेवमिति चेत्। दृश्यताम्, किं तु पूर्वस्थितादेव पश्चात् सामग्रीमध्यप्रविष्टाद् भावात् कार्योत्पत्तिरन्यस्मादेव विशिष्टसामग्रीसमुत्पन्नात् क्षणादिति विवादपदमेतत्। तत्र प्रागपि संभवे सर्वदैव कार्योत्पत्तिर्न वा कदाचिदपीति विरोधमसमाधाय तत एव कार्योत्पत्तिरिति साध्यानुवादमात्रप्रवृत्तः कृपामर्हति।



न च प्रत्यभिज्ञानादेवैकत्वसिद्धिः , तत्पौरुषस्य लूनपुनर्जातकेशकुशकदलीस्तम्बादौ निर्दलनात्। विस्तरेण च प्रत्यभिज्ञादूषणमस्माभिः स्थिरसिद्धिदूषणे प्रतिपादितमिति तत एवावधार्यम्।



ननु कार्यमेव सहकारिणमपेक्षते। न तु कार्योत्पत्तिहेतुः। यस्माद् द्विविधं सामर्थ्यं निजमागन्तुकं च सहकार्यन्तरम, ततोऽक्षणिकस्यापि क्रमवत्सहकारिनानात्वादपि क्रमवत्कार्यनानात्वमिति चेत्। भवतु तावत् निजागन्तुकभेदेन द्विविधं सामर्थ्यम्। तथापि तत् प्रातिस्विकं वस्तुस्वलक्षणं सद्यः क्रियाधर्मकमवश्याभ्युपगन्तव्यम्। तद्यदि प्रागपि, प्रागपि कार्यप्रसङ्गः। अथ पश्चादेव, न तदा स्थिरो भावः।



न च कार्यं सहकारिणोऽपेक्षत इति युक्तम्, तस्यासत्त्वात्। हेतुश्च सन्नपि यदि स्वकार्यं न करोति, तदा तत्कार्यमेव तन्न स्यात्, स्वातन्त्र्यात्।



यच्चोक्तम्-यो हि उत्तरकार्यजननस्वभावः स कथमादौ कार्यं कुर्यात्, (अथ कुर्यात्) न तर्हि तत्कार्यकरणस्वभावः, न हि नीलोत्पादनस्वभावः पीतादिकमपि करोतीति तदसङ्गतम्। स्थिरस्वभावत्वे भावस्योत्तरकालमेवेदं न पूर्वकालमिति कुत एतत्। तदभावाच्च कारणमप्युत्तरकार्यस्वभावमित्यपि कुतः।



किं कुर्मः, उत्तरकालमेव तस्य जन्मेति चेत्। स्थिरत्वे तदनुपपद्यमानमस्थिरतामादिशतु। स्थिरत्वेऽप्येष एव स्वभावस्तस्य यदुत्तरक्षण एव कार्यं करोतीति चेत्। न। प्रमाणबाधिते स्वभावाभ्युपगमायोगादिति न तावदक्षणिकस्य क्रमिकार्यकारित्वमस्ति। नाप्यक्रमिकार्यकारित्वसंभवः, द्वितीयेऽपि क्षणे कारकस्वरूपसद्भावे पुनरपि कार्यकरणप्रसङ्गात्।



कार्येनिष्पन्ने तद्विषयव्यापाराभावादूना सामग्री न निष्पादितं निष्पादयेदिति चेत्। न। सामग्रीसंभवासंभवयोरपि सद्यः क्रियाकारकस्वरूपसंभवे जनकत्वमवार्यमिति प्रागेव प्रतिपादनात्। कार्यस्य हि निष्पादितत्वात् पुनः कर्तुमशक्यत्वमेव कारणमसमर्थमावेदयति। तदयमक्षणिके क्रमाक्रमिकार्यकारित्वाभावो न सिद्धः। न च क्रमाक्रमाभ्यामपरप्रकारसंभवो येन ताभ्यामव्याप्तौ सन्दिग्धव्यतिरेको हेतुः स्यात्। प्रकारान्तरशङ्कायां तस्यापि दृश्यत्वादॄश्यत्व प्रकारद्वयदूषणेऽपि स्वपक्षेऽप्यनाश्वासप्रसङ्गात्। तस्मादन्योन्यव्यवच्छेदस्थितयोर्नापरः प्रकारः संभवति। स्वरूपाप्रविष्टस्य वस्तुनोऽवस्तुनो वातत्स्वभावत्वात्। प्रकारान्तरस्यापि क्रमस्वरूपाप्रविष्टत्वात्। तथातीन्द्रियस्य सहकारिणोऽदृश्यत्वेऽप्ययोगव्यवच्छेदेन दृश्यसहकारिसहितस्य दृश्यस्यैव सत्त्वस्य दृश्यक्रमाक्रमाभ्यां व्याप्तिः प्रत्यक्षादेव सिध्यति। एवं क्रमाक्रमाभ्यामर्थक्रियाकारित्वं व्याप्तमिति क्रमाक्रमयोरन्योन्यव्यवच्छेदेन स्थितत्वादेतत्प्रकारद्वयपरिहारेणार्थक्रियाकारित्वमन्यत्र न गतमित्यर्थः। अत एवैतयोर्विनिवृत्तौ निवर्तते॥



त्रिलोचनस्यापि विकल्पत्रये प्रथमदूषणमाश्रयासिद्धिदोषपरिहारतो निरस्तम्। द्वितीयं चासङ्गतम्, विकल्पज्ञानेन व्यतिरेकस्य प्रतीतत्वात्। न ह्यभावः कश्चिद्विग्रहवान् यः साक्षात्कर्तव्यः, अपि तु विकल्पादेव व्यवहर्तव्यः। न ह्यभावस्य विकल्पादन्या प्रतिपत्तिरप्रतिपत्तिर्वा सर्वथा। उभयथापि तद्‍व्यवहारहानिप्रसङ्गात्। एवं वैधर्म्यदृष्टान्तस्य हेतुव्यतिरेकस्य च विकल्पादेव प्रतिपत्तिः। तृतीयमपि दूषणमसङ्गतम्। व्यापकानुपलम्भेन निर्दोषेण सत्त्वस्य क्षणिकत्वेन व्याप्तेरव्याहतत्वात्। तदयं व्यापकानुपलम्भोऽक्षणिकस्यासत्त्वम् सत्त्वस्य ततो व्यतिरेकं क्षणिकत्वेन व्याप्तिं व साधयत्येकव्यापारात्मकत्वादिति स्थितम्॥



ननु व्यापकानुपलब्धिरिति यद्यनुपलब्धिमात्रं तदा न तस्य साध्यबुद्धिजनकत्वमवस्तुत्वात्। न चान्योपलब्धिर्व्यापकानुपलब्धिरभिधातुं शक्या भूतलादिवदन्यस्य कस्यचिदनुपलब्धेरिति चेत्। तदसङ्गतम्। धर्म्युपलब्धेरेवान्यत्रानुपलब्धितया व्यवस्थापनात्। यथा हि नेह शिंशपा वृक्षाभावादित्यत्र वृक्षापेक्षयाकेवलप्रदेशस्य धर्मिण उपलब्धिर्वृक्षानुपलब्धिः। शिंशपापेक्षया च केवलप्रदेशस्य धर्मिण उपलब्धिरेव र्शिशपाया अभावोपलब्धिरिति स्वभावहेतुपर्यवसायिव्यापारो व्यापकानुपलम्भः। तथा नित्यस्य धर्मिणो विकल्पबुद्ध्यवसितस्य क्रमिकारित्वाक्रमिकारित्वापेक्षया केवलग्रहणादेव क्रमिकारित्वाक्रमिकारित्वानुपलम्भः। अर्थ क्रियापेक्षया च केवलप्रतीतिरेवार्थक्रियाऽयोगप्रतीतिरिति व्यापकानुपलम्भान्तरादस्य न कश्चिद्विशेषः॥



अध्यवसायापेक्षया व बाह्येऽक्षणिके वस्तुनि व्यापकाभावाद् व्याप्याभावसिद्धिव्यवहारः। अध्यवसायश्च समनन्तरप्रत्ययबलायाताकारविशेषयोगादगृहीतेऽपि प्रवर्तनशक्तिर्बोद्धव्यः। ईदृशश्चाध्यवसायोऽस्मच्चित्राद्वैतसिद्धौ निर्वाहितः। स चाविसंवादी व्यवहारः परिहर्तुमशक्यः। यद् व्यापकशून्यं तद्वयाप्यशून्यमिति। एतस्यैवार्थस्यानेनापि क्रमेण प्रतिपादनात्। अयं च न्यायो यथा वस्तुभूते धर्मिणि तथावस्तुभूतेऽपीति को विशेषः। तथा ह्येकज्ञानसंसर्ग्यत्र विकल्प्य एव। यथा च हरिणशिरसि तेनैकज्ञानसंसर्गि शृङ्गमुपलब्धं शशशिरस्यपि तेन सहैकज्ञानसंसर्गित्वसंभावनयैव शृङ्गं निषिध्यते, तथा नीलादावपरिनिष्ठितनित्यानित्यभावे क्रमाक्रमौ स्वधर्मिणा सार्धमेकज्ञानसंसर्गिणौ दृष्टौ, यदि नित्ये भवतः, नित्यग्राहिज्ञाने स्वधर्मिणा नित्येन सहैव गृह्येयातामिति संभावनया एकज्ञानसंसर्गद्वारकमेव प्रतिषिध्यते। कथं पुनरेतस्मिन्नित्यज्ञाने क्रमाक्रमयोरस्फुरणमिति यावता क्रमाक्रमक्रोडीकृतमेव नित्यं विकल्पयाम इति चेत्। अत एव बाधकावतारो विपरीतारोप मन्तरेण तस्य वैयर्थ्यात्। कालान्तरेऽप्येकरूपतया नित्यत्वम्। क्रमाक्रमौ च क्षणद्वये भिन्नरूपतया। ततो नित्यत्वस्य क्रमाक्रमिकार्यशक्तेश्च परस्परपरिहारस्थिति लक्षणतया दुर्वारो विरोध इति कथं नित्ये क्रमाक्रमयोरन्तर्भावः अनन्तर्भावाच्च शुद्धनित्यविकल्पेन दूरीकृतक्रमाक्रमसमारोपेण कथमुल्लेखः। ततश्च प्रतियोगिनि नित्येऽपि विकल्प्यमाने एकज्ञान संसर्गिलक्षणप्राप्ते नित्योपलब्धिरेव नित्यविरुद्धस्यानुपलभ्यमानस्य क्रमाक्रमस्यानुपलब्धिः। तत एव चार्थक्रियाशक्तेरनुपलब्धिः। तस्माद् व्यापकविवेकिधर्म्युपलब्धितया न व्यापकानुपलम्भान्तरादस्य विशेषः॥



न त्वेतदवस्तु धर्मित्वोपयोगिवस्त्व धिष्ठानत्वात् प्रमाणव्यवस्थाया इति चेत्। किमिदं वस्त्वधिष्ठानत्वं नाम। किं परम्परयापि वस्तुनः सकाशादागतत्वम्, अथ वस्तुनि केनचिदाकारेण व्यवहारकारणत्वम्, वस्तुभूतधर्मिप्रतिबद्धत्वं वा।



यद्याद्यः पक्षस्तदा क्रमाक्रमस्यार्थक्रियायाश्च व्याप्तिग्रहणगोचरवस्तुप्रतिबद्धत्वमस्यापि न क्षीणम्। न द्वितीयेऽपि पक्षे दोषः संभवति, क्षणभङ्गिवस्तुसाधनोपायत्वादस्य। न चान्तिमोऽपि विकल्पः कल्प्यते, तस्यैव नित्यविकल्पस्य वस्तुनो धर्मिभूतस्य क्रमाक्रमवद्‍बाह्यनित्योपादानशून्यत्वेनार्थक्रियावद् बाह्यनित्योपादानशून्यत्वे प्रसाधनात्। पर्युदासवृत्त्या बुद्धिस्वभावभूताक्षणिकाकारे वस्तुभूते धर्मिणि प्रतिबद्धत्वसंभवात्॥



अयमेव न्यायो न वक्ता बन्ध्यासुतश्चैतन्याभावादित्यादौ योज्यः। एतेन यथा वृक्षाभावादिरन्तर्भावयितुं शक्यते न तथायमिति त्रिलोचनोऽपि निरस्तः॥



न च क्रमाद्यभावस्त्रयीं दोषजातिं नातिक्रामति, अभावधर्मत्वेऽपि आश्रयासिद्धिदोषपरिहारात्। यत्त्वनेन प्रमाणान्तरान्नित्यानामसत्त्वसिद्धौ क्रमादिविरहस्याभावधर्मता सिध्यतीत्युक्तम्, तद्वालस्यापि दुरभिधानम्। नित्यो हि धर्मी। असत्त्वं साध्यम्। क्रमिकार्यकारित्वाक्रमिकार्यकारित्वविरहो हेतुः। अस्य चाभावधर्मत्वं नाम असत्त्वलक्षणस्वसाध्याविनाभावित्वमुच्यते। तच्च क्रमाक्रमेण सत्त्वस्य व्याप्तिसिद्धौ सत्त्वस्य व्याप्यस्याभावेन क्रमाक्रमस्य व्यापकस्य विरहो व्याप्तः सिध्यतीत्यभावधर्मत्वं प्रागेव विध्योर्व्याप्तिसाधनात् प्रत्यक्षादनुमानादेकस्माद्वा प्रमाणान्तरात् सिद्धमिति नेतरेतराश्रयदोषः।



न च सत्तायामिवासत्तायामपि तुल्यः प्रसङ्गो भिन्नन्यायत्वात्। वस्तुभूतं हि तत्र साध्यं साधनं च। तयोर्धर्म्यपि वस्त्वेव युज्यते। वस्तुनस्तु प्रत्यक्षानुमानाभ्यामेव सिद्धिः। तयोरभावे नियमेनाश्रयासिद्धिरिति युक्तम्। असत्तासाधने त्ववस्तुधर्मो हेतुरवस्तु विकल्पमात्रसिद्धे धर्मिणि नाश्रयासिद्धिदोषेण दूषयितुं शक्यः। तथा अक्षणिकस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधः सिध्यत्येव। तथा विकल्पादेवाक्षणिको विरोधी सिद्धः। विकल्पोल्लिखित श्चास्य स्वभावो नापर इत्यपि व्यवहर्तव्यम्। अन्यथा तदनुवादेन क्रमाक्रमादिरहितत्वादिनिषेधादिकमयुक्तम्, तत्स्वरूपस्यानुल्लेखादन्यस्योल्लेखा दित्यक्षणिकशशविषाणादिशब्दानुच्चारणप्रसङ्गः। अस्ति च। अतो यथा प्रमाणाभावेऽपि विकल्पसिद्धस्य बन्ध्यासुतादेः सौन्दर्यादिनिषेधोऽनुरूपस्तथा विकल्पोपनीतस्यैवाक्षणिकरूपस्य तत एव प्रत्यनीकाकारेण सह विरोधव्यवस्थायां कीदृशो दोषः स्यात्। यदि चाक्षणिकानुभवाभावाद् विरोधप्रतिषेधस्तर्हि बन्ध्यापुत्राद्यनुभवाभावादेव सौन्दर्यादिनिषेधोऽपि मा भूत्॥



नन्वेवं विरोधस्यापारमार्थिकत्वम्। तद्‍द्वारेण क्षणभङ्गसिद्धिरप्यपारमार्थिकी स्यादिति चेत्। न हि विरोधो नाम वस्त्वन्तरं किञ्चिदुभयकोटिदत्तपादसंबन्धाभिधानमिष्यते अस्माभिरूपपद्यते वा येनैकसंबन्धिनो वस्तुत्वाभावेऽपारमार्थिकं स्यात्। यथा त्विष्यते तथा पारमार्थिक एव। विरुद्धाभिमतयोरन्योऽन्यस्वरूपरिहारमात्रं विरोधार्थः। स च भावाभावयोः पारमार्थिक एव। न भावोऽभावरूपमाविशति, नाप्यभावो भावरूपं प्रविशतीति योऽयमनयोरसंकरनियमः स एव पारमार्थिको विरोधः। कालान्तरैकरूपतया हि नित्यत्वम्। क्रमाक्रमौ क्षणद्वयेऽपि भिन्नरूपतया। ततो नित्यत्वक्रमाक्रमिकार्यकारित्वयोर्भावाभाववद् विरोधोऽस्त्येव॥



ननु नित्यत्वं क्रमयौगपद्यवत्त्वं च विरुद्धौ धर्मौ विधूय नापरो विरोधो नाम, कस्य बास्तवत्वमिति चेत्। न। न हि धर्मान्तरस्य संभवेन विरोधस्य पारमार्थिकत्वं ब्रूमः। किं तु विरुद्धयोर्धर्मयोः सद्भावे। अन्यथा विरोधनामधर्मान्तरसंभवेऽपि यदि न विरुद्धौ धर्मौ क्व पारमार्थिकविरोधसंभवः। विरुद्धौचेद्धमौ तावतैव तात्त्विको विरोधव्यवहारः किमपरेण प्रतिज्ञामात्रसिद्धेन विरोधनाम्ना वस्त्वन्तरेण।



तदयं पूर्वपक्षसंक्षेपः



नित्यं नास्ति न वा प्रतीतिविषयस्तेनाश्रयासिद्धता

हेतोः स्वानुभवस्य च क्षतिरतः क्षिप्तः सपक्षोऽपि च।

शन्यश्य द्वितयेन सिध्यति न चासत्ताऽपि सत्ता यथा

नो नित्येन विरोधसिद्धिरसता शक्या क्रमादेरपि॥ इति॥



अत्र सिद्धान्तसंक्षेपः



धर्मस्य कस्यचिदवस्तुनि मानसिद्धा

बाधाविधिव्यवहृतिः किमिहास्ति नो वा।

क्वाप्यस्ति चेत् कथमियन्ति न दूषणानि

नास्त्येव चेत् स्ववचनप्रतिरोधसिद्धिः॥



तदेवं नित्यं न क्रमिकार्यकारित्वाक्रमिकार्यकारित्वयोगीति परमार्थः। ततश्च सत्तायुक्तमपि नैवेति परमार्थः। ततश्च क्षणिकाक्षणिकपरिहारेण राश्यन्तराभावादक्षणिकान्निवर्तमानमिदं सत्त्वं क्षणिक एव विश्राम्यत्तेन व्याप्तं सिध्यतीति सत्त्वात् क्षणिकत्वसिद्धिरविरोधिनी॥



प्रकृतिः सर्वधर्माणां यद्बोधान्मुक्तिरिष्यते।

स एव तीर्थ्यनिर्माथी क्षणभङ्गः प्रसाधितः॥



इति कृतिरियं रत्नकीर्तेः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project