Digital Sanskrit Buddhist Canon

4 क्षणभङ्गसिद्धिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

4 kṣaṇabhaṅgasiddhiḥ

॥४॥

॥क्षणभङ्गसिद्धिः॥



॥अन्वयात्मिका॥

॥नमस्तारायै॥



आक्षिप्तव्यतिरेका या व्याप्तिरन्वयरूपिणी।

साधर्म्यवति दृष्टान्ते सत्त्वहेतोरिहोच्यते॥



यत् सत् तत् क्षणिकम्। यथा घटः। सन्तश्वामी विवादास्पदीभूता पदर्था इति।



हेतोः परोक्षार्थप्रतिपादकत्वं हेत्वाभासत्वशङ्कानिराकरणमन्तरेण न शक्यते प्रतिपादयितुम्। हेत्वाभासाश्च अशिद्धविरुद्धानैकान्तिकप्रभेदेन त्रिविधाः।



तत्र न तावदयमसिद्धो हेतुः। यदि नाम दर्शने दर्शने नानाप्रकारं सत्त्वलक्षणमुक्तमास्ते, अर्थक्रियाकारित्त्वं, सत्तासमवायः, स्वरूपसत्त्वम्, उत्पादव्ययध्रौव्ययोगित्वं, प्रमाणविषयत्त्वं तदुपलम्भकप्रमाणगोचरत्वं, व्यपदेशविषयत्वमित्यादि, तथापि किमनेनाप्रस्तुतेनेदानीमेव निष्टङ्कितेन। यदेव हि प्रमाणतो निरूप्यमाणं कदार्थानां सत्त्वमुपपन्नं भविष्यति तदेव वयमपि स्वीकरिष्यामः। केवलं तदेतदर्थक्रियाकारित्वं सर्वजनप्रसिद्धमास्ते तत् खल्वत्र सत्त्वशब्देनाभिसन्धाय साधनत्वेनोपात्तम्। तच्च यथायोगं प्रत्यक्षानुमानप्रमाणप्रसिद्धसद्भावेषु भावेषु पक्षिकृतेषु प्रत्यक्षादिना प्रमाणेन प्रतीतमिति न स्वरूपेणाश्रयद्वारेण बासिद्धिसंभावनापि॥



नापि विरुद्धता,सपक्षीकृते घटे सद्भावात्। ननु कथमस्य सपक्षत्वम्, पक्षवदत्रापि क्षणभङ्गासिद्धेः। न ह्यस्य प्रत्यक्षतः क्षणभङ्गसिद्धिः, तथात्वेनानिश्चयात्। नापि सत्त्वानुमानतः,पुनर्निदर्शनान्तरापेक्षायामनवस्थानप्रसङ्गात्। न चान्यदनुमानमस्ति। संभवे वा तेनैव पक्षेऽपि क्षणभङ्गसिद्धेरलं सत्त्वानुमानेनेति चेत्।



उच्यते। अनुमानान्तरमेव प्रसङ्गप्रसङ्गविपर्ययात्मकं घटस्य क्षणभङ्गप्रसाधकं प्रमाणान्तरमस्ति। तथा हि घटो वर्तमानक्षणे तावदेकामर्थक्रियां करोति। अतीतानागतक्षणयोरपि कि तामेवार्थक्रियां कुर्यात्, अन्यां वा, न वा कामपि क्रियामिति त्रयः पक्षाः॥



नात्र प्रथमः पक्षो युक्तः, कृतस्य करणायोगात्।



अथ द्वितीयोऽभ्युपगम्यते, तदिदमत्र विचार्यताम्। यदा घटो वर्तमानक्षणभावि कार्यं करोति तदा किमतीतानागतक्षणभाविन्यपि कार्ये शक्तोऽशक्तो वा। यदि शक्तस्तदा वर्तमानक्षणभाविकार्यवदतीतानागतक्षणभाव्यपि कार्यं तदैव कुर्यात्। तत्रापि शक्तत्वात्। शक्तस्य च क्षेपायोगात्। अन्यथा वर्त्तमानक्षणभाविनोऽपि कार्यस्याकरणप्रसङ्गात्। पूर्वापरकालयोरपि शक्तत्वेनाविशेषात्। समर्थस्य च सहकार्यपेक्षाया अयोगात्। अथाशक्तः, तदैकत्र कार्ये शक्ताशक्तत्वविरुद्धधर्माध्यासात् क्षणविध्वंसो घटस्य दुर्वारप्रसरः स्यात्।



नापि तृतीयः पक्षः सङ्गच्छते, शक्तस्वभावानुवृत्तेरेव। यदा हि शक्तस्य पदार्थस्य विलम्बोऽप्यसह्यस्तदा दूरोत्सारितमकरणम्। अन्यथा वार्तमानिकस्यापि कार्यस्याकरणं स्यादित्युक्तम्।



तस्माद् यद् यदा यज्जननव्यवहारपात्रं तत्तदा तत् कुर्यात्। अकुर्वच्च न जननव्यवहारभाजनम्। तदेवमेकत्र कार्ये समर्थेतरस्वभावतया प्रतिक्षणं भेदाद् घटस्य सपक्षत्वमक्षतम्॥



अत्र प्रयोगः। यद् यदा यज्जननव्यवहारयोग्यं तत् तदा तज्जनयत्येव। यथा अन्त्या कारणसामग्री स्वकार्यम्।



अतीतानागतक्षणभाविकार्यजननव्यवहारयोग्यश्चायं घटो वर्तमानक्षणभाविकार्यकरणकाले सकलक्रियातिक्रमकालेऽपीति स्वभावहेतुप्रसङ्गः। अस्य च द्वितीयादिक्षणभाविकार्यकरणव्यवहारगोचरत्वस्य प्रसङ्गसाधनस्य वार्तमानिककार्यकरणकाले सकलक्रियातिक्रमकाले च घटे धर्मिणि पराभ्युपगममात्रतः सिद्धत्वादसिद्धिस्तावदसंभविनी।



नापि विरुद्धता, सपक्षेऽन्त्यकारणसामग्र्यां सद्भावसंभवात्।



नन्वयं साधारणानैकान्तिको हेतुः। साक्षादजनकेऽपि कुशूलाद्यवस्थितवीजादौ विपक्षे समर्थव्यवहारगोचरत्वस्य साधनस्य दर्शनादिति चेत्। न। द्विविधो हि समर्थव्यवहारः - पारमार्थिक औपचारिकश्च। तत्र यत्पारमार्थिकं जननप्रयुक्तं जननव्यवहारगोचरत्वं तदिह साधनत्वेनोपात्तम्। तस्य च कुशूलाद्यवस्थितबीजादौ कारणकारणत्वादौपचारिकजननव्यवहारविषयभूते संभवाभावात् कुतः साधारणानैकान्तिकता।



न चास्य सन्दिग्धव्यतिरेकिता, विपर्यये बाधकप्रमाणसद्भावात्। तथा हीदं जननव्यवहारगोचरत्वं नियतविषयत्वेन व्याप्तमिति सर्वजनानुभवप्रसिद्धम्। न चेदं निर्निमित्तम्, देशकालस्वभावनियमाभावप्रसङ्गात्। न च जननादन्यन्निमित्तमुपलभ्यते, तदन्वयव्यतिरेकानुविधानदर्शनात्।



यदि च जननमन्तरेणापि जननव्यवहारगोचरत्वं स्यात् तदा सर्वस्य सर्वत्र जननव्यवहार इत्यनियमः स्यात्। नियतश्चायं प्रतीतः। ततो जननाभावे विपक्षे नियतविषयत्वस्य व्यापकस्य निवृत्तौ निवर्तमानं जननव्यवहारगोचरत्वं जनन एव विश्राम्यतीति व्याप्तिसिद्धेरनवद्यो हेतुः। न चैष घटो वर्त्तमानकार्यकरणक्षणे सकलक्रियातिक्रमणे चातीतानागतक्षणभावि कार्य जनयति। ततो न जननव्यवहारयोग्यः, सर्वः प्रसङ्गः प्रसङ्गविपर्ययनिष्ठ इति न्यायात्॥



अत्रापि प्रयोगः। यद् यदा यन्न करोति न तत्तदा तत्र समर्थव्यवहारयोग्यम्। यथा शाल्यङ्कुरमकुर्वन् कोद्रवः शाल्यङ्कुरे। न करोति चैषा घटो वर्तमानक्षणभाविकार्यकरणकाले सकलक्रियातिक्रमकाले चातीतानागतक्षणभावि कार्यमितिव्यापकानुपलब्धिर्भिनत्ति समर्थक्षणादसमर्थक्षणम्॥



अत्राप्यसिद्धिर्नास्ति, वर्तमानक्षणभाविकार्यकरणकाले सकलक्रियातिक्रमकाले चातीतानागतक्षणभाविकार्यकरणस्यायोगात्।



नापि विरोधः, सपक्षे भावात्।



न चानैकान्तिकता, पूर्वोक्तेन न्यायेन समर्थव्यवहारगोचरत्वजनकत्वयोर्विधिभूतयोः सर्वोपसंहारवत्या व्याप्तेः प्रसाधनात्॥



यत् पुनरत्रोक्तम्, यद् यदा यन्न करोति न तत्तदा तत्र समर्थमित्यत्र कः करोत्यर्थः। किं कारणत्वम्। उत कार्योत्पादानुगुणसहकारिसाकल्यम्। अहोस्वित् कार्याव्यभिचारः। कार्यसंबन्धो वेति। तत्र कारणत्वमेव करोत्यर्थः। ततः पक्षान्तरभाविनो दोषा अनभ्युपगमप्रतिहताः।



न चात्र पक्षे कारणत्वसामर्थ्ययोः पर्यायत्वेन व्यापकानुपलम्भस्य साध्याविशिष्टत्वमभिधातुमुचितम्, समर्थव्यवहारगोचरत्वाभावस्य साध्यत्वात्। कारणत्वसमर्थव्यवहारगोचरत्वयोश्च वृक्षशिंशपयोरिव व्यावृत्तिभेदोऽस्तीत्यनवसर एवैवंविधस्य क्षुद्रप्रलापस्य।



तदेवं प्रसङ्गप्रसङ्गविपर्ययहेतुद्वयबलतो घटे दृष्टान्ते क्षणभङ्गः सिद्धः। तत् कथं सत्त्वादन्यदनुमानं दृष्टान्ते क्षणभङ्गसाधकं नास्तीत्युच्यते। न चैवं सत्त्वहेतोर्वैयर्थ्यम्, दृष्टान्तमात्र एव प्रसङ्गप्रसङ्गविपर्ययाभ्यां क्षणभङ्गप्रसाधनात्॥



नन्वाभ्यामेव पक्षेऽपि क्षणभङ्गसिद्धिरस्त्विति चेत्। अस्तु, को दोषः। यो हि प्रतिपत्ता प्रतिवस्तु यद् यदा यज्जननव्यवहारयोग्यं तत्तदा तज्जनयति इत्यादिकमुपन्यसितुमनलसस्तस्य तत एव क्षणभङ्गसिद्धिः। यस्तु प्रतिवस्तु तन्न्यायोपन्यासप्रयासभीरुः स खल्वेकत्र धर्मिणि यद् यदा यज्जननव्यवहारयोग्यं तत्तदा तज्जनयति इत्यादिन्यायेन सत्त्वमात्रमस्थैर्यव्याप्तमवधार्य सत्त्वादेवान्यत्र क्षणिकत्वमवगच्छतीति, कथमप्रमतो वैयर्थ्यमस्याचक्षीत। तदेवमेककार्यकारिणो घटस्य द्वितीयादिक्षण भाविकार्यापेक्षया समर्थेतरस्वभावविरुद्धधर्माध्यासाद् भेद एवेति क्षणभङ्गितया सपक्षतामावहति घटे सत्त्वहेतुरुपलभ्यमानो न विरुद्धः।



न चायमनैकान्तिकः, अत्रैव साधर्म्यवति दृष्टान्ते सर्वोपसंहारवत्या व्याप्तेः प्रसाधनात्। ननु विपर्ययबाधकप्रमाणबलाद् व्याप्तिसिद्धिः। तस्य चोपन्यासवार्तापि नास्ति। तत्कथं व्याप्तिः प्रसाधितेति चेत्। तदेतत् तरलबुद्धिविलसितम्। तथा हि उक्तमेतद् वर्तमानक्षणभाविकार्यकरणकालेऽतीतानागतक्षणभाविकार्येऽपि घटस्य शक्तिसंभवे तदानीमेव तत्करणम्। अकरणे च शक्ताशक्तस्वभावतया प्रतिक्षणं भेद इति क्षणिकत्वेन व्याप्तैव सा अर्थक्रियाशक्तिः॥



नन्वेवमन्वयमात्रमस्तु। विपक्षात् पुनरेकान्तेन व्यावृत्तिरिति कुतो लभ्यत इति चेत्। व्याप्तिसिद्धेरेव। व्यतिरेकसन्देहे व्याप्तिसिद्धिरेव कथमिति चेत्। न। द्विविधा हि व्याप्तिसिद्धिः। अन्वयरूपा च कर्तृधर्मः साधनधर्मवति धर्मिणि साध्यधर्मस्यावश्यम्भावो यः, व्यतिरेकरूपा च कर्मधर्मः साध्याभावे साधनस्यावश्यम्भावोयः। एनयोश्चैकतरप्रतीतिर्नियमेन द्वितीयप्रतीतिमाक्षिपति। अन्यथैकस्या एवासिद्धेः। तस्माद् यथा विपर्यये बाधकप्रमाणबलात् नियमवति व्यतिरेके सिद्धेऽन्वयविषयः संशयः पूर्वं स्थितोऽपि पश्चात् परिगलति ततोऽन्वयप्रसाधनार्थं न पृथक् साधनमुच्यते तथा प्रसङ्गतद्विपर्ययहेतुद्वयबलतो नियमवत्यन्वये सिद्धे व्यतिरेकविषये पूर्वं स्थितोऽपि सन्देहः पश्चात् परिगलत्येव।



न च व्यतिरेकप्रसाधकमन्यत् प्रमाणं वक्तव्यम्। ततश्च साध्याभावे साधनस्यैकान्तिको व्यतिरेकः। साधने सति साध्यस्यावश्यमन्वयो वेति न कश्चिदर्थभेदः। तदेवं विपर्ययबाधकप्रमाणमन्तरेणापि प्रसङ्गप्रसङ्गविपर्ययहेतुद्वयबलादन्वयरूपव्याप्तिसिद्धो सत्त्वहेतोरनैकान्तिकत्वस्याभावादतः साधनात् क्षणभङ्गसिद्धिरनवद्येति॥



ननु च साधनमिदमसिद्धम्। न हि कारणबुद्ध्या कार्य गृह्यते, तस्य भावित्वात्। न च कार्यबुद्ध्याकारणम्, तस्यातीतत्वात्। न च वर्तमानग्राहिणा ज्ञानेनातीतानागतयोर्ग्रहणम्, अतिप्रसङ्गात्। न च पूर्वापरयोः कालयोरेकः प्रतिसन्धाता अस्ति, क्षणभङ्गभङ्गप्रसङ्गात्। कारणाभावे तु कार्याभावप्रतीतिः स्वसंवेदनवादिनो मनोरथस्याप्यविषयः। ननु च पूर्वोत्तरकालयोः संवित्तो, ताभ्यां वासना, तया च हेतूफलावसायो विकल्प इति चेत् तदयुक्तम्।



स हि विकल्पो गृहीतानुसन्धायकोऽतद्रूपसमारोपको वा। न प्रथमः पक्षः। एकस्य प्रतिसन्धातुरभावे पूर्वापरग्रहणयोरयोगात्। विकल्पवासनाया एवाभावात्। नापि द्वितीयः। मरीचिकायामपि जलविज्ञानस्य प्रामाण्यप्रसङ्गात्। तदेवमन्वयव्यतिरेकयोरप्रतिपत्तेरर्थक्रियालक्षणं सत्त्वमसिद्धमिति॥



किं च प्रकारान्तरादपीदं साधनमसिद्धम्। तथा हि बीजादीनां सामर्थ्यं बीजादिज्ञानात् तत्कार्यादङ्कुरादेर्वा निश्चेतव्यम्। कार्यत्वं च वस्तुत्वसिद्धौ सिध्यति। वस्तुत्वं च कार्यान्तरात्। कार्यान्तरस्यापि कार्यत्वं वस्तुत्वसिद्धौ। तद्वस्तुत्वं च तदपरकार्यान्तरादित्यनवस्था।



अथानवस्थाभयात् पर्यन्ते कार्यान्तरं नापेक्षते, तदा तेनैव पूर्वेषामसत्त्वप्रसङ्गान्नैकस्याप्यर्थसामर्थ्य सिध्यति।



ननु कार्यत्वसत्त्वयोर्भिन्नव्यावृत्तिकत्वात् सत्तासिद्धावपि कार्यत्वसिद्धौ का क्षतिरिति चेत्। तदसङ्गतम्। सत्यपि कार्यत्वसत्त्वयोर्व्यावृत्तिभेदे सत्तासिद्धो कुतः कार्यत्वसिद्धिः। कार्यत्वं ह्यभूत्वाभावित्वम्। भवनं च सत्ता। सत्ता च सौगतानां सामर्थ्यमेव। ततश्च सामर्थ्यसन्देहे भवतीत्येव वक्तुमशक्यम्। कथमभूत्वाभावित्वं कार्यत्वं सेत्स्यति। अपेक्षितपरव्यापारत्वं कार्यत्वमित्यपि नासतो धर्मः। सत्त्वं च सामर्थ्यम्। तच्च सन्दिग्धमिति कुतः कार्यत्वसिद्धिः। तदसिद्धौ पूर्वस्य सामर्थ्यं न सिध्यतीति सन्दिग्धासिद्धो हेतुः॥



तथा विरुद्धोऽप्ययम्। तथा हि क्षणिकत्वे सति न तावदजातस्यानन्वयनिरुद्धस्य वा कार्यारम्भकत्वं संभवति। न च निष्पन्नस्य तावान् क्षणोऽस्ति यमुपादाय कस्मैचित् कार्याय व्यापार्येति। अतः क्षणिकपक्ष एवार्थक्रियानुपपत्तेर्विरुद्धता। अथ वा विकल्पेन यदुपनीयते तत् सर्वमवस्तु। ततश्च यस्त्वात्मके क्षणिकत्वे साध्येऽवस्तूपस्थापयन्ननुमानविकल्पो विरुद्धः। यद्वा सर्वस्यैव हेतोः क्षणिकत्वे साध्ये विरुद्धत्वं देशकालान्तराननुगमे साध्यसाधनभावाभावात्। अनुगमे च नानाकालमेकमक्षणिकं क्षणिकत्वेन विरुध्यत इति॥



अनैकान्तिकोऽप्ययम्, सत्त्वस्थैर्ययोर्विरोधाभावादिति।



अत्रोच्यते। यत्तावदुक्तं सामर्थ्यं न प्रतीयत इति, तत् किं सर्वथैव न प्रतीयते, क्षणभङ्गपक्षे वा।



प्रथमपक्षे सकलकारकज्ञापकहेतुचक्रोच्छेदान्मुखस्पन्दनमात्रस्याप्यकरणप्रसङ्गः। अन्यथा येनैव वचनेन सामर्थ्यं नास्तीति प्रतिपाद्यते तस्यैव तत्प्रतिपादनसामर्थ्यमव्याहतमायातम्। तस्मात् परमपुरुषार्थसमीहया वस्तुतत्त्वनिरूपणप्रवृत्तस्य शक्तिस्वीकारपूर्विकैव प्रवृत्तिः। तदस्वीकारे तु न कश्चित् क्वचित् प्रवर्तेतेति निरीहं जगज्जायेत।



अथ द्वितीयः पक्षः। तदास्ति तावत् सामर्थ्यप्रतीतिः। सा च क्षणिकत्वे यदि नोपपद्यते तदा विरुद्धं वक्तुमुचितम्। असिद्धमिति तु न्यायभूषणीयः पापो विलापः। न च सत्यपि क्षणिकत्वे सामर्थ्यप्रतीतिव्याघातः। तथा हि कारणग्राहिज्ञानोपादेयभूतेन कार्यग्राहिणा ज्ञानेन तदर्पितसंस्कारगर्भेण अस्य भावे अस्य भाव इत्यन्वयनिश्चयो जन्यते। तथा कारणापेक्षया भूतलकैवल्यग्राहिज्ञानोपादेयभूतेन कार्यापेक्षया भूतलकैवल्यग्राहिणा ज्ञानेन तदर्पितसंस्कारगर्भेण अस्याभावे अस्याभाव इति व्यतिरेकनिश्चयो जन्यते। यदाहुर्गुरवः -



एकावसायसमनन्तरजातमन्य-

विज्ञानमन्वयविमर्शमुपादधाति।

एवं तदेकविरहानुभवोद्भवान्य-

व्यावृत्तिधीः प्रथयति व्यतिरेकबुद्धिम्॥



एवं सति गृहीतानुसन्धायक एवायं विकल्पः, उपादानोपादेयभूतक्रमिप्रत्यक्षद्वयगृहीतानुसन्धानात्। यदाहालङ्कारः-



यदि नामैकमध्यक्षं न पूर्वापरवित्तिमत्।

अध्यक्षद्वयसद्भावे प्राक्परावेदनं कथम्॥ इति॥



नापि द्वितीयोऽसिद्धप्रभेदः। सामर्थ्यं हि सत्त्वमिति सौगतानां स्थितिरेषा। न चैतत्प्रसाधनार्थमस्माकमिदानीमेव प्रारम्भः। किं तु यत्र प्रमाणप्रतीतेबीजादौ वस्तुभूते धर्मिणि प्रमाणप्रतीतं सामर्थ्यं तत्र क्षणभङ्गप्रसाधनाय। ततश्चाङ्कुरादीनां कार्यादर्शनादाहत्य सामर्थ्यसन्देहेऽपि पटुप्रत्यक्षप्रसिद्धमसत्परावृत्तं सन्मात्रत्वमवार्यमेव। अन्यथाङ्कुरादौ सत्तामात्रानभ्युपगमे प्रतिदर्शनं लक्षणभेदप्रणयनायोगात्। सर्वत्र सद्‍व्यवहाराभावप्रसङ्गाच्च। तस्माच्छास्त्रीयसत्त्वलक्षणसन्देहेऽपि पटुप्रत्यक्षबलावलम्बितवस्तुभावेऽङ्कुरादौ कार्यत्वमुपलभ्यमानं बीजादेः सामर्थ्यमुपस्थापयतीति नासिद्धिदोषावकाशः॥



नापि क्षणिकत्वे सामर्थ्यक्षतिः, यतो विरुद्धता स्यात्। क्षणिकत्वनियतप्राग्भावित्वलक्षणकारणत्वयोर्विरोधाभावात् क्षणमात्रस्थायिनोऽपि सामर्थ्यसंभवादिति नादिमो विरोधः। नापि द्वितीयो विरोधप्रभेदः। अवस्तुनो वस्तुनो वा स्वाकारस्य ग्राह्यत्वेपि अध्यवसेयवस्त्वपेक्षयैव सर्वत्र प्रामाण्यप्रतिपादनाद् वस्तुस्वभावस्यैव क्षणिकत्वस्य सिद्धिरिति क्व विरोधः।



यच्च गृह्यते यच्चाध्यवसीयते ते द्वे अप्यन्यनिवृत्ती न वस्तुनी, स्वलक्षणावगाहित्वेऽभिलापसंसर्गानुपपत्तेरिति चेत्। न। अध्यवसायस्वरूपापरिज्ञानात्। अगृहीतेऽपि वस्तुनि मानस्यादिप्रवृत्तिकारकत्वं विकल्पस्याध्यवसायित्वम्। अप्रतिभासेऽपि प्रवृत्तिविषयीकृतत्वमध्यवसेयत्वम्। एतच्चाध्यवसेयत्वं स्वलक्षणस्यैव युज्यते, नान्यस्य। अर्थक्रियार्थित्वादर्थिप्रवृत्तेः। एवं चाध्यवसाये स्वलक्षणस्यास्फुरणमेव। न च तस्यास्फुरणैऽपि सर्वत्राविशेषेण प्रवृत्त्याक्षेपप्रसङ्गः, प्रतिनियतसामग्रीप्रसूतात्, प्रतिनियतस्वाकारात्, प्रतिनियतशक्तियोगात्, प्रतिनियत‍एवातद्रूपपरावृत्तेऽप्रतीतेऽपि प्रवृत्तिसामर्थ्यदर्शनात्, यथा सर्वस्यासत्त्वेऽपि बीजादङ्कुरस्यैवोत्पत्तिः, दृष्टस्य नियतहेतुफलभावस्य प्रतिक्षेप्तुमशक्यत्वात्। परं बाह्येनार्थेन सति प्रतिबन्धे प्रामाण्यम्। अन्यथा त्वप्रामाण्यमिति विशेषः॥



तथा तृतीयोऽपि पक्षः प्रयासफलः। नानाकालस्यैकस्य वस्तुनो वस्तुतोऽसंभवेऽपि सर्वदेशकालवर्तिनोरतद्रूपपरावृत्तयोरेव साध्यसाधनयोः प्रत्यक्षेण व्याप्तिग्रहणात्। द्विविधो हि प्रत्यक्षस्य विषयः ग्राह्योऽध्यवसेयश्च। सकलातद्रूपपरावृत्तं वस्तुमात्रं साक्षादस्फुरणात् प्रत्यक्षस्य ग्राह्यो विषयो मा भूत्, तदेकदेशग्रहणे तु तन्मात्रयोर्व्याप्तिनिश्चायकविकल्पजननादध्यवसेयो विषयो भवत्येव। क्षणग्रहणे सन्ताननिश्चयवत्। रूपमात्रग्रहणे रूपरसगन्धस्पर्शात्मकघटनिश्चयवच्च। अन्यथा सर्वानुमानोच्छेदप्रसङ्गात्॥



तथा हि व्याप्तिग्रहः सामान्ययोः, विशेषयोः, सामान्यविशिष्टस्वलक्षणयोः स्वलक्षण विशिष्टसामान्ययोर्वेति विकल्पाः।



नाद्यो विकल्पः, सामान्यस्य बाध्यत्वात्। अबाध्यत्वेऽप्यदृश्यत्वात्। दृश्यत्वेऽपि पुरुषार्थानुपयोगितया तस्यानुमेयत्वायोगात्। नाप्यनुमितात् सामान्याद् विशेषानुमानम्। सामान्यसर्वस्वलक्षणयोर्वक्ष्यमाणन्यायेन प्रतिबन्धप्रतिपत्तेरयोगात्।



नापि द्वितीयः, विशेषस्याननुगामित्वात्।



अन्तिमे तु विकल्पद्वये सामान्याधारतया दृष्ट एव विशेषः सामान्यस्य विशेष्यो विशेषणं वा कर्त्तव्यः। अदृष्ट एव वा देशकालान्तरवर्ती। यद्वा दृष्टादृष्टात्मको देशकालान्तर्वर्त्त्यतद्रूपपरावृत्तः सर्वो विशेषः।



न प्रथमः पक्षोऽननुगामित्वात्। नापि द्वितीयः, अदृष्टत्वात्। न च तृतीयः, प्रस्तुतैकविशेषदर्शनेऽपि देशकालान्तरवर्तिनां विशेषाणामदर्शनात्।



अथ तेषां सर्वेषामेव विशेषाणां सदृशत्वात्, सदृशसामग्रीप्रसूतत्वात्, सदृशकार्यकारित्वादिति प्रत्यासत्त्या एकविशेषग्राहकं प्रत्यक्षमतद्रूपपरावृत्तमात्रे निश्चयं जनयदतद्रूपपरावृत्तविशेषमात्रस्य व्यवस्थापकम्। यथैकसामग्रीप्रतिबद्धरूपमात्रग्राहकं प्रत्यक्षंं घटे निश्चयं जनयद् घटग्राहकं व्यवस्थाप्यते। अन्यथा घटोऽपि घटसन्तानोऽपि प्रत्यक्षतो न सिध्यते, सर्वात्मना ग्रहणाभावात्। तदेकदेशग्रहणं त्वतद्रूपपरावृत्तेऽप्यविशिष्टम्। यद्येवमनेनैव क्रमेण सर्वस्य विशेषस्य विशेषणविशेष्यभाववत् व्याप्तिप्रतिपत्तिरप्यस्तु। तत् किमर्थं नानाकालमेकमक्षणिकमभ्युपगन्तव्यं येन क्षणिकत्व साधनस्य विरुद्धत्वं स्यादिति न कश्चिद्विरोध प्रभेदप्रसङ्गः॥



न चायमनैकान्तिकोऽपि हेतुः, पूर्वोक्तक्रमेण साधर्म्यदृष्टान्ते प्रसङ्गविपर्ययहेतुभ्यामन्वयरूपव्याप्तेः प्रसाधनात्। ननु यदि प्रसङ्गविपर्ययहेतुद्वयबलतो घटेदृष्टान्ते क्षणभङ्गः सिध्येत् तदा सत्त्वस्य नियमेन क्षणिकत्वेन व्याप्तिसिद्धेरनैकान्तिकत्वं नस्यादिति युक्तम्। केवलमिदमेवासम्भवि। तथा हि शक्तोऽपि घटः क्रमिकसहकार्यपेक्षया क्रमिकार्यं करिष्यति।



न चैतद् वक्तव्यम्। समर्थोऽर्थः स्वरूपेण करोति। स्वरूपं च सर्वदास्तीत्यनुपकारिणी सहकारिण्यपेक्षा न युज्यत इति। सत्यपि स्वरूपेण कारकत्वे सामर्थ्याभावात् कथं करोतु। सहकारिसाकल्यं हि सामर्थ्यम्। तद्वैकल्यं चासामर्थ्यम्। न च तयोराविर्भावतिरोभावाभ्यां तद्वतः काचित् क्षतिः, तस्य ताभ्यामन्यत्वात्। तस्मादर्थः समर्थोऽपि स्यात्, न च करोतीति सन्दिग्धव्यतिरेकः प्रसङ्गहेतुः॥



अत्रोच्यते। भवतु तावत् सहकारिसाकल्यमेव सामर्थ्यम्। तथापि सोऽपि तावद् भावः स्वरूपेण कारकः। तस्य च यादृशश्चरमक्षणेऽक्षेपक्रियाधर्मा स्वभावस्तादृश एव चेत् प्रथमक्षणे तदा तदापि प्रसह्य कुर्वाणो ब्रह्मणाप्यनिवार्यः। न च सोऽप्यक्षेपक्रियाधर्मा स्वभावः साकल्ये सति जातो भावाद् भिन्न एवाभिधातुं शक्यः, भावस्याकर्तृत्वप्रसङ्गात्। एवं यावद् धर्मान्तरपरिकल्पस्तावत्तावदुदासीनो भावः। तस्माद् यद्रूपमादाय स्वरूपेणापि जनयतीत्युच्यते तस्य प्रागपि भावे कथमजनिः कदाचित्। अक्षेपक्रियाप्रत्यनीकस्वभावस्य वा प्राच्यस्य पश्चादनुवृत्तौ कथं कदाचिदपि कार्यसंभवः॥



ननु यदि स एवैकः कर्ता स्याद् युक्तमेतत्। किं तु सामग्री जनिका। ततः सहकार्यन्तरविरहवेलायां बलीयसोऽपि न कार्यप्रसव इति किमत्र विरुद्धम्। न हि भावः स्वरूपेण करोतीति स्वरूपेणैव करोति, सहकारिसहितादेव ततः कार्योत्पत्तिदर्शनात्। तस्माद् व्याप्तिवत् कार्यकारणभावोऽप्येकत्रान्ययोगव्यवच्छेदेनान्यत्रायोगव्यच्छेदेनावबोद्धव्यः, तथैव लौकिकपरीक्षकाणां संप्रतिपत्तेरिति॥



अत्रोच्यते। यदा मिलिताः सन्तः कार्यं कुर्वते तदैकार्थकरणलक्षणं सहकारित्वमेषामस्तु, को निषेद्धा। मिलितैरेव तु तत् कार्यं कर्त्तव्यमिति कुतो लभ्यते। पूर्वापरयोरेकस्वभावत्वाद् भावस्य सर्वदा जननाजननयोरन्यतरनियमप्रसङ्गस्य दुर्वारत्वात्। तस्मात् सामग्री जनिका, नैकं जनकमिति स्थिरवादिनां मनोरथस्याप्यविषयः।



दृश्यते तावदिदमिति चेत्। दृश्यताम्। किं तु पूर्वस्थितादेव सामग्रीमध्यप्रविष्टाद् भावात् कार्योत्पत्तिरन्यस्मादेव वा विशिष्टाद् भावादुत्पन्नादिति विवादपदम्। तत्र प्रागपि संभवे सर्वदैव कार्योत्पत्तिर्न वा कदाचिदपीति विरोधमसमाधाय चक्षुषी निमील्य तत एव कार्योत्पत्तिदर्शनादिति साध्यानुवादमात्रप्रवृत्तः कृपामर्हतीति।



न च प्रत्यभिज्ञादिबलादेकत्वसिद्धिः। तत् पौरुषस्य लूनपुनर्जातकेशनखादावप्युपलम्भतो निर्दलनात्। लक्षणभेदस्य च दर्शयितुमशक्यत्वात्। स्थिरसिद्धदूषणे चास्माभिः प्रपञ्चतो निरस्तत्वात्। तस्मात् साक्षात् कार्यकारणभावापेक्षयोभयत्राप्यन्ययोगव्यवच्छेदः। व्याप्तौ तु साक्षात् परम्परया कारणमात्रापेक्षया कारणे व्यापकेऽयोगव्यवच्छेदः। कार्ये व्याप्येऽन्ययोगव्यवच्छेदः। तथा तदतत्स्वभावे व्यापकेऽयोगव्यवच्छेदः। तत्स्वभावे च व्याप्येऽन्ययोगव्यवच्छेदः। विकल्पारूढरूपापेक्षया व्याप्तौ द्विविधमवधारणम्।



ननु यदि पूर्वापरकालयोरेकस्वभावो भावः सर्वदा जनकत्वेनाजनकत्वेन वा व्याप्त उपलब्धः स्यात्, तदायं प्रसङ्गः संगच्छते। न च क्षणभङ्गवादिना पूर्वापरकालयोरेकः कश्चिदुपलब्ध इति चेत्। तदेतदतिग्राम्यम्। तथा हि पूर्वापरकालयोरेकस्वभावत्वे सतीत्यस्यायमर्थः। परकालभावी जनको यः स्वभावो भावस्य स एव यदि पूर्वकालभावी, पूर्वकालभावी वा योऽजनकः स्वभावः स एव यदि परकालभावी तदोपलब्धमेव जननमजननं वा स्यात्। तथा च सति सिद्धयोरेव स्वभावयोरेकत्वारोपे सिद्धमेव जननमजननं वासज्यत इति।



ननु कार्यमेव सहकारिणममेक्षते, न तु कार्योत्पत्तिहेतुः। यस्माद् द्विविधं सामर्थ्यं निजमागन्तुकं न सहकार्यन्तरम्, ततोऽक्षणिकस्यापि क्रमवत् सहकारिनानात्वादपि क्रमवत् कार्यनानात्वोपपत्तेरशक्यं भावानां प्रतिक्षणमन्यान्यत्वमुपपादयितुमिति चेत्। उच्यते। भवतु तावन्निजागन्तुकभेदेन द्विविधं सामर्थ्यम्। तथापि यत् प्रातिस्विकं वस्तुस्वलक्षणमर्थक्रियाधर्मकमवश्य मभ्युपगन्तव्यम्, तत् किं प्रागपि पश्चादेव वेति विकल्प्य यद्‍दूषणमुदीरितं तत्र किमुक्तमनेनेति न प्रतीमः। यत्तु कार्येणैव सहकारिणोऽपेक्ष्यन्त इत्युपस्कृतं तदपि निरुपयोगम्। यदि हि कार्यमेव स्वजन्मनि स्वतन्त्रं स्याद् युक्तमेतत्। केवलमेवं सति सहकारिसाकल्यसामर्थ्यकल्पनमफलम्। स्वतन्त्रादेव हि कार्यं कादाचित्कं भविष्यति। तथा च सति सन्तो हेतवः सर्वथाऽसमर्थाः। असदेतत् कार्यं स्वतन्त्रमिति विशुद्धा बुद्धिः।



अथ कार्यस्यैवायमपराधो यदिदं समर्थे कारणे सत्यपि कदाचिन्नोपपद्यत इति चेत्। न तत्तर्हि तत्कार्यं स्वातन्त्र्यात्। यद्भाष्यम्



सर्वावस्थासमानेऽपि कारणे यद्यकार्यता।

स्वतन्त्रं कार्यमेवं स्यान्न तत्कार्यं तथा सति॥



अथ न तद्भावे भवतीति तत्कार्यमुच्यते। किंतु तदभावे न भवत्येवेति, व्यतिरेकप्राधान्यादिति चेत्। न। यदि हि स्वयं भवन् भावयेदेव हेतुः स्वकार्यम्, तदा तदभावप्रयुक्तोऽस्याभाव इति प्रतीतिः स्यात्। नो चेद् यथा कारणे सत्यपि कार्य स्वातन्त्र्यान्न भवति, तथा तदभावेऽपि स्वातन्त्र्यादेव न भूतमिति शङ्का केन निवार्येत। यद् भाष्यम्



तद्भावेऽपि न भावश्चेदभावेऽभाविता कुतः।

तदभावप्रयुक्तोऽस्य सोऽभाव इति तत् कुतः।



तस्माद् यथैव तदभावे नियमेन न भवति तथैव तद्भावे नियमेन भवेदेव। अभवच्च न तत्कारणतामात्मनः क्षमते।



यच्चोक्तं प्रथमकार्योत्पादनकाले हि उत्तरकार्योत्पादनस्वभावः, अतः प्रथमकाल एवाशेषाणि कार्याणि कुर्यादिति। तदिदं माता मे बन्ध्येत्यादिवत् स्ववचनविरोधादयुक्तम्। यो हि उत्तरकार्यजननस्वभावः स कथमादौ कार्यं कुर्यात्। न तर्हि तत्कार्यकरणस्वभावः। न हि नीलोत्पादनस्वभावः पीतादिकमपि करोतीति।



अत्रोच्यते। स्थिरस्वभावत्वे हि भावस्योत्तरकालमेवेदं कार्यं न पूर्वकालमिति कुत एतत्। तदभावाच्च कारणमप्युतरकार्यकरणस्वभावमित्यपि कुतः। किं कुर्मः। उत्तरकालमेव तस्य जन्मेति चेत्। अस्तु स्थिरत्वे तदनुपपद्यमानमस्थिरतामादिशतु।



स्थिरत्वेऽप्येष एव स्वभावस्तस्य यदुत्तरक्षण एव करोतीति चेत्। हतेदानीं प्रमाणप्रत्याशा। धूमादत्राग्निरित्यत्रापि स्वभाव एवास्य यदिदानीमत्र निरग्निरपि धूम इति वक्तुं शक्यत्वात्। तस्मात् प्रमाणप्रसिद्धे स्वभावालम्बनम्। न तु स्वभावावलम्बनेन प्रमाणव्यालोपः। तस्माद् यदि कारणस्योत्तरकार्यकारकत्वमभ्युपगम्य कार्यस्य प्रथमक्षणभावित्वमासज्यते, स्यात् स्ववचनविरोधः। यदा तु कारणस्य स्थिरत्वे कार्यस्योत्तरकालत्वमेवासङ्गतमतः कारणस्याप्युत्तरकार्यजनकत्वं वस्तुतोऽसम्भवि तदा प्रसङ्गसाधनमिदम्। जननव्यवहारगोचरत्वं हि जननेन व्याप्तमिति प्रसाधितम्। उत्तरकार्यजननव्यवहारगोचरत्वं च त्वदभ्युपगमात् प्रथमकार्यकरणकाल एव घटे धर्मिणि सिद्धम्। अतस्तन्मात्रानुबन्धिन उत्तराभिमतस्त कर्यस्य प्रथमे क्षणेऽसंभवा देव प्रसङ्गः क्रियते। न हि नीलकारकेऽपि पीतकारकत्वारोपे पीतसंभवप्रसङ्गः स्ववचनविरोधो नाम। तदेवं शक्तः सहकार्यनपेक्षितत्वाद् जननेन व्याप्तः। अजनर्यश्च शक्ताशक्तत्वविरुद्धधर्माध्यासाद् भिन्न एव॥



ननु भवतु प्रसङ्गविपर्ययबलादेककार्यं प्रति शक्ताशक्तत्वलक्षणविरुद्धधर्माध्यासः। तथापि न ततो भेदः सिध्यति। तथा हि बीजमङ्कुरादिकंकुर्वद् यदि येनैव स्वभावेनाङ्कुरादिकं करोति तेनैव क्षित्यादिकं तदा क्षित्यादीनामप्यङ्कुरस्वाभाव्यापत्तिः। नानास्वभावत्वेन तु कारकत्वे स्वभावानामन्योन्याभावाव्यभिचारित्वादेकत्र भावाभवौ परस्परविरुद्धौ स्यातामित्येकमपि बीजं भिद्येत। एवं प्रदीपोऽपि तैलक्षयवर्त्तिदाहादिकम्। तथा पूर्वरूपमप्युत्तररूपरसगन्धादिकमनैकैः स्वभावैः परिकलितं करोति। तेषां च स्वभावानामन्योऽन्याभावाव्यभिचाराद्विरुद्धानां योगे प्रदीपादिकं भिद्येत। न च भिद्यते।



तन्न विरुद्धधर्माध्यासो भेदकः। तथा बीजस्याङ्कुरं प्रति कारकत्वं गर्दभादिकं प्रत्यकारकत्वमिति कारकत्वाकारकत्वे अपि विरुद्धो धर्मौ। न च तद्योगेऽपि बीजभेदः। तदेवमेकत्र बीजे प्रदीपे रूपे च विपक्षे परिदृश्यमानः शक्ताशक्तत्वादिर्विरुद्धधर्माध्यासो न घटादेर्भेदक इति।



अत्र ब्रूमः। भवतु तावद् बीजादीनामनेककार्यकारित्वाद्धर्मभूतानेकस्वभावभेदः, तथापि कः प्रस्तावो विरुद्धधर्माध्यासस्य। स्वभावानां ह्यन्योन्याभावाव्यभिचारे भेदः प्राप्तावसरो न विरोधः। विरोधस्तु यद्विधाने यन्निषेधो यन्निषेधे च यद्विधानं तयोरेकत्र धर्मिणि परस्परपरिहारस्थिततया स्यात्। तदत्रैकः स्वभावः स्वाभावेन विरुद्धो युक्तो भावाभाववत्। न तु स्वभावान्तरेण घटत्ववस्तुत्ववत्। एवमङ्कुरादिकारित्वं तदकारित्वेन विरुद्धं न पुनर्वस्त्वन्तरकारित्वेन। प्रत्यक्षव्यापारश्चात्र यथा नानाधर्मैरध्यासितं भावमभिन्नं व्यवस्थापयति तथा तत्कार्यकारिणं कार्यान्तराकारिणं च। तद् यदि प्रतियोगित्वाभावादन्योन्याभावाव्यभिचारिणावपि स्वभावावविरुद्धौ तत्कारकत्वान्याकारकत्वे वाविषयभेदादविरुद्धे तत् किमायातमेककार्यं प्रति शक्ताशक्तत्वयोः परस्परप्रतियोगिनोर्विरुद्धयोर्धर्मयीः। एतयोरपि पुनरविरोधे विरोधो नाम दत्तजलाञ्जलिः॥



भवतु तर्ह्येककार्यापेक्षयैव सामर्थ्यासामर्थ्ययोर्विरोधः। केवलं यथा तदेव कार्यं प्रति क्वचिद्देशे शक्तिर्देशान्तरे चाशक्तिरिति देशभेदादविरुद्धे शक्त्यशक्ती तथैकत्रैव कार्यकालभेदादप्यविरुद्धे। यथा पूर्वं निष्क्रियः स्फटिकः स एव पश्चात् सक्रिय इति चेत्। उच्यते। न हि वयं परिभाषामात्रादेकत्र कार्ये देशभेदादविरुद्धे शक्त्यशक्ती ब्रूमः, किं तु विरोधाभावात्। तद्देशकार्यकारित्वं हि तद्देशकार्याकारित्वेन विरुद्धम्। न पुनर्देशान्तरे तत्कार्याकारित्वेनान्यकार्यकारित्वेन वा॥



यद्येवं तत्कालकार्यकारित्वं तत्कालकार्याकारित्वेन विरुद्धम्। न पुनः कालान्तरे तत्कार्याकारित्वेनान्यकार्यकारित्वेन वा। तत्कथं कालभेदेऽपि विरोध इति चेत्। उच्यते। द्वयोर्हि धर्मयोरेकत्र धर्मिण्यनवस्थितिनियमः परस्परपरिहारस्थितिलक्षणो विरोधः। स च साक्षात्परस्परप्रत्यनीकतया भावाभाववद् वा भवेत्, एकस्य वा नियमेन प्रमाणान्तरेण बाधनान्नित्यत्वसत्त्ववद् वा भवेदिति न कश्चिदर्थभेदः। तदत्रैकधर्मिणि तत्कालतत् कार्यकारित्वाधारे कालान्तरे तत्कार्याकारित्वस्यान्यकार्यकारित्वस्य वा नियमेन प्रमाणान्तरेण बाधनाद्विरोधः। तथा हि यत्रैव धर्मिणि तत्कालकार्यकारित्वमुपलब्धं न तत्रैव कालान्तरे तत्कार्याकारित्वमन्यकार्यकारित्वं वा ब्रह्मणाप्युपसंहर्तुं शक्यते, येनानयोरविरोधः स्यात्। क्षणान्तरे कथितप्रसङ्गविपर्ययहेतुभ्यामवश्यंभावेन धर्मिभेदप्रसाधनात्॥



न च प्रत्यभिज्ञानादेकत्वसिद्धिः, तत्पौरुषस्य निर्मूलितत्वात्। अत एव वज्रोऽपि पक्षकुक्षौ निक्षिप्तः। कथमसौ स्फटिको बराकः कालभेदेनाभेदप्रसाधनाय दृष्टान्तीभवितुमर्हति। न चैवं समानकालकार्याणां देशभेदेऽपि धर्मिभेदो युक्तो भेदप्रसाधकप्रमाणाभावात्। इन्द्रियप्रत्यक्षेण निरस्तविभ्रमाशङ्केनाभेदप्रसाधनाच्चेति न कालभेदेऽपि शक्त्यशक्त्योर्विरोधः स्वसमयमात्रादपहस्तयितुं शक्यः, समयप्रमाणयोरप्रवृत्तेरिति॥



तस्मात् सर्वत्र विरुद्धधर्माध्याससिद्धिरेव भेदसिद्धिः। विप्रतिपन्नं प्रति तु विरुद्धधर्माध्यासाद् भेदव्यवहारः साध्यते॥



ननु तथापि सत्त्वमिदमनैकान्तिकमेवासाधारणत्वात् सन्दिग्धव्यतिरेकित्वाद् वा। यथा हीदं क्रमाक्रमनिवृत्तावक्षणिकान्निवृत्तं तथा सापेक्षत्वानपेक्षत्वयोरेकत्वानेकत्वयोरपि व्यापकयोर्निवृत्तौ क्षणिकादपि। तथा हि उपसर्पणप्रत्ययेन देवदत्तकरपल्लवादिना सहचरो बीजक्षणः पूर्वस्मादेव पुञ्जात् समर्थो जातोऽनपेक्ष आद्यातिशयस्य जनक इष्यते। तत्र च समानकुशूलजन्मसु बहुषु बीजसन्तानेषु कस्मात् किञ्चिदेव बीजं परम्परयाऽङ्कुरोत्पादानुगुणमुपजनयति वीजक्षणं नान्ये बीजक्षणा भिन्नसन्तानान्तः पातिनः। न हि उपसर्पणप्रत्ययात् प्रागेव तेषां समानासमानसन्तानवर्तिनां बीजक्षणानां कश्चित् परम्परातिशयः। अथोपसर्पणप्रत्ययात् प्राङ् न तत्सन्तानवर्तिनोऽपि जनयन्ति, परम्परयाप्यङ्कुरोत्पादानुगुणं बीजक्षणं बीजमात्रजननात् तेषाम्। कस्यचिदेव बीजक्षणस्योपसर्पण प्रत्ययसहभुव आद्यातिशयोत्पादः। हन्त तर्हि तदभावे सत्युत्पन्नोऽपि न जनयेदेव। तथा च केवलानां व्यभिचारसंभवादाद्यातिशयोत्पादकमङ्कुरं वा प्रतिक्षित्यादीनां परस्परापेक्षाणामेवोत्पादकत्वमकामेनापि स्वीकर्त्तव्यम्। अतो न तावदनपेक्षा क्षणिकस्य सम्भविनी। नाप्यपेक्षा युज्यते, समसमयक्षणयोः सव्येतरगोविषाणयोरिवोपकार्योपकारकभावायोगात् इति नासिद्धः प्रथमो व्यापकाभावः। अपि चान्त्यो बीजक्षणोऽनपेक्षाङ्कुरादिकं कुर्वन् यदि येनैव रूपेणाङ्कुरं करोति तेनैव क्षित्यादिकं तदा क्षित्यादीनामप्यङ्कुरस्वाभाव्यापत्तिरभिन्नकारणत्वादिति न तावदेकत्वसंभवः॥



ननु रूपान्तरेण करोति। तथा हि बीजस्याङ्कुरं प्रत्युपादानत्वम्। क्षित्यादिकं तु प्रति सहकारित्वम्। यद्येवं सहकारित्वोपादानत्वे किमेकं तत्त्वं नाना वा। एकं चेत् कथं रूपान्तरेण जनकम्। नानात्वे त्वनयोर्बीजाद्भेदोऽभेदो वा। भेदे कथं बीजस्य जनकत्वं ताभ्यामेवाङ्कुरादीनामुत्पत्तेः। अभेदे वा कथं बीजस्य न नानात्वं भिन्नतादात्म्यात्, एतयोर्वैकत्वमेकतादात्म्यात्।



यद्युच्येत क्षित्यादौ जनयितव्ये तदुपादानं पूर्वमेव क्षित्यादिबीजस्य रूपान्तरमिति। न तर्हि बीजं तदनपेक्षं क्षित्यादीनां जनकम्। तदनपेक्षत्वे तेषामङ्कुराद्भेदानुपपत्तेः । न चानुपकारकाण्यपेक्षन्त इति त्वयैवोक्तम्। न च क्षणस्योपकारसंभवोऽन्यत्र जननात्, तस्याभेद्यत्वादित्यनेकत्वमपि नास्तीति द्वितीयोऽपि व्यापकाभावो नासिद्धः। तस्मादसाधारणानैकान्तिकत्वं गन्धवत्त्ववदिति।



यदि मन्येतानुपकारका अपि भवन्ति सहकारिणोऽपेक्षणीयाश्च कार्येणानुविहितभावाभावाच्च सहकरणाच्च।



नन्वनेन क्रमेणाक्षणिकोऽपि भावोऽनुपकारकानपि सहकारिणः क्रमवतः क्रमवत्कार्येणानुकृतान्वयव्यतिरेकानपेक्षिष्यते। करिष्यते च क्रमवत्सहकारिवशः क्रमेण कार्याणीति व्यापकानुपलब्धेरसिद्धेः सन्दिग्धव्यतिरेकमनैकान्तिकं सत्त्वं क्षणिकत्व सिद्धाविति।



अत्र ब्रूमः। कीदृशं पुनरपेक्षार्थमादाय क्षणिके सापेक्षानपेक्षत्वनिवृत्तिरुच्यते। किं सहकारिणमपेक्षत इति सहकारिणास्योपकारः कर्त्तव्यः। अथ पूर्वावस्थितस्यैव बीजादेः सहकारिणा सह संभूयकरणम्। यद्वा पूर्वावस्थितस्येत्यनपेक्ष्यमिलितावस्थस्य करणमात्रमपेक्षार्थः। अत्र प्रथमपक्षस्यासंभवादनपेक्षैव क्षणिकस्य, कथमुभयव्यावृत्तिः। यद्यनपेक्षः किमित्युपसर्पणप्रत्ययाभावेऽपि न करोति। करोत्येव यदि स्यात्। स्वयमसंभवी तु कथं करोतु। अथ तद्वा तादृग्वाऽसीदिति न कश्चिद्विशेषः।



ततस्तादृक्स्वभावसंभवेऽयकरणं सहकारिणि निरपेक्षतां न क्षमत इति चेत्। असंबद्धमेतत्, वर्णसंस्थानसाम्येऽप्यकर्तृंस्तत्स्वभावताया विरहात्। स चाद्यातिशयजनकत्वलक्षणः स्वभावविशेषो न समानासमानसन्तानवर्तिषु बीजक्षणेषु सर्वेष्वेव संभवी। किं तु केषुचिदेव कर्मकरकरपल्लवसहचरेषु।



नन्वेकत्र क्षेत्रे निष्पत्तिलवनादिपूर्वकमानीयैकत्र कुशूले क्षिप्तानि सर्वाण्येव बीजानि साधारणरूपाण्येव प्रतीयन्ते। तत् कुतस्त्योऽयमेकबीजसंभवी विशेषोऽन्येषामिति चेत्। उच्यते। कारणं खलु सर्वत्र कार्ये द्विविधम्- दृष्टमदृष्टं चेति सर्वास्तिकप्रसिद्धमेतत्। ततः प्रत्यक्षपरोक्षसहकारिप्रत्ययसाकल्यमसर्वविदा प्रत्यक्षतो न शक्यं प्रतिपत्तुम्। ततो भवेदपि कारणसामग्रीशक्तिभेदात्तादृशः स्वभावभेदः केषाञ्चिदेव बीजक्षणानां येन त एव बीजक्षणा आद्यातिशयमङ्कुरं वा परम्परया जनयेयुः। नान्ये च बीजक्षणाः।



ननु येषूपसर्पणप्रत्ययसहचरेषु स्वकारणशक्तिभेदादाद्यातिशयजनकत्वलक्षणो विशेषः संभाव्यते स तत्रावश्यमस्तीति कुतो लभ्यमिति चेत्। अङ्कुरोत्पादादनुमितादाद्यातिशयलक्षणात् कार्यादिति ब्रूमः । कारणानुपलब्धेस्तर्हि तदभाव एव भविष्यतीति चेत्। न । दृश्यादृश्यसमुदायस्य कारणस्यादर्शनेऽप्यभावासिद्धेः कारणानुपलब्धेः सन्दिग्धासिद्धत्वात्। तदयमर्थः



पाणिस्पर्शवतः क्षणस्य न भिदा भिन्नान्यकालक्षणाद्

भेदो वेति मतद्वये मितिबलं यस्यास्त्वसौ जित्वरः।

तत्रैकस्य बलं निमित्तविरहः कार्याङ्गमन्यस्य वा

सामग्री तु न सर्वथेक्षणसहा कार्यं तु मानानुगम्॥ इति॥



तदेवं नोपकारोऽपेक्षार्थ इत्यनपेक्षैव क्षणिकस्य सहकारिषु नोभयव्यावृतिः॥



अथ संभूयकरणमपेक्षार्थः, तदा यदि पूर्वस्थितस्येति विशेषणापेक्षा तदा क्षणिकस्य नैवं कदाचिदित्यनपेक्षैवाक्षीणा।



अथ पूर्वस्थितस्येत्यनपेक्ष्य मिलितावस्थितस्यैव करणमपेक्षार्थस्तदा सापेक्षतैव, नानपेक्षा। तथा च नोभयव्यावृत्तिरित्यसिद्धः प्रथमो व्यापकानुपलम्भः। तथैकत्वानेकत्वयोरपि व्यापकयोः क्षणिकाद् व्यावृत्तिरसिद्धा। तत्तद्‍व्यावृत्तिभेदमाश्रित्योपादानत्वादिकाल्पनिकस्वभावभेदेऽपि परमार्थत एकेनैव स्वरूपेणानेककार्यनिष्पादनादुभयव्यावृत्तेरभावात्।



यच्च बीजस्यैकेनैव स्वभावेन कारकत्वे क्षित्यादीनामङ्कुरस्वाभाव्यापत्तिरन्यथा कारणाभेदेऽपि कार्यभेदेऽपि कार्यस्याहेतुकत्वप्रसङ्गादित्युक्तम् तदसङ्गतम्। कारणैकत्वस्य कार्यभेदस्य च पटुनेन्द्रियप्रत्यक्षेण प्रसाधनात्। एककारणजन्यत्वैकत्वयोर्व्याप्तेः प्रतिहतत्वात्। प्रसङ्गस्यानुपदत्वात्।



यच्च कारणाभेदे कार्याभेद इत्युक्तं तत्र सामग्रीस्वरूपं कारणमभिप्रेतम्। सामग्रीसजातीयत्वे न कार्यविजातीयतेत्यर्थः। न पुनः सामग्रीमध्यगतेनैकेनानेकं कार्यं न कर्तव्यं नाम, एकस्मादनेकोत्पत्तेः प्रत्यक्षसिद्धत्वात्। न चैवं प्रत्यभिज्ञानात् कालभेदेऽप्यभेदसिद्धिरित्युक्तप्रायम्। न चेन्द्रियप्रत्यक्षं भिन्नदेशं सप्रतिघं दृश्यमर्थद्वयमेकमेवोपलम्भयतीति क्वचिदुपलब्धम् येन तत्रापि भेदे शङ्का स्यात्। शङ्कायां वा पटुप्रत्यक्षस्याप्यपलापे सर्वप्रमाणोच्छेदप्रसङ्गादिति।



नापि सत्त्वहेतोः सन्दिग्धव्यतिरेकित्वम्, क्षित्यादेर्द्रव्यान्तरस्य बीजस्वभावत्वेनास्माभिरस्वीकृतत्वात्। अनुपकारिण्यपेक्षायाः प्रत्याख्यातत्वात् व्यापकानुपलम्भस्यासिद्धत्वायोगात्।



तदेतौ द्वावपि व्यापकानुपलम्भावसिद्धौ न क्षणिकात् सत्त्वं निवर्तयत इति नायमसाधारणो हेतुः॥



अपि च विद्यमानो भावः साध्येतरयोरनिश्चितान्वयव्यतिरेको गन्धवत्तादिवदसाधारणो युक्तः। प्रकृतव्यापकानुपलम्भाच्च सर्वथाऽर्थक्रियैवासती उभाभ्यां वादिभ्यामुभयस्माद्विनिवर्तितत्वेन निराश्रयत्वात्।



तत् कथमसाधारणानैकान्तिको भविष्यतीत्यलं प्रलापिनि निर्बन्धेन।



तदेवं शक्तस्य क्षेपायोगात् समर्थव्यवहारगोचरत्वं जननेन व्याप्तमिति प्रसङ्गविपर्यययोः सत्वे हेतोरपि नानैकान्तिकत्वम्। अतः क्षणभङ्गसिद्धिरितिस्थितम्॥



इति साधर्म्यदृष्टान्तेऽन्वयरूपव्याप्त्या

क्षणभङ्गसिद्धिः समाप्ता॥

कृतिरियं महापण्डितरत्नकीर्तिपादानामिति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project