Digital Sanskrit Buddhist Canon

2 ईश्वरसाधनदूषणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

2 īśvarasādhanadūṣaṇam

॥ २॥

॥ ईश्वरसाधनदूषणम्॥



ओं नमस्तारायै।

सूक्तरत्नाश्रयत्वेन जितरत्नाकरादिदम्।

गुरोर्वागम्बुधेः स्मर्तुं किञ्चिदाकृष्य लिख्यते॥

रीतिः सुधानिधिरियं सत्तमे मध्यवर्तिनि।

विद्वेषिणि विषज्वाला किञ्चिज्ज्ञे तु न किञ्चिन॥



इहैते नैयायिकादयो विवादपदस्य क्षितिधरादेः स्वरूपोपादानोपकरणसंप्रदानप्रयोजनविभागप्रवीणं सर्वज्ञतादिगुणविशिष्टं पुरुषविशेषमिच्छन्ति। यदाहुः



एको विभुः सर्वविदेकबुद्धि -

समाश्रयः शाश्वत ईश्वराख्यः।

प्रमाणमिष्टो जगतो विधाता

स्वर्गापवर्गार्थिभिरर्थनीयः॥ इति॥



स च कथं सिध्यतीति पर्यनुयुक्ताः साधनमिदमाचक्षते।

विवादाध्यासितं बुद्धिमद्धेतुकम्।

कार्यत्वात्।

यत् कार्यं तद्बुद्धिमद्धेतुकम्। यथा घटः।

कार्यं चेदम्।

तस्माद् बुद्धिमद्धेतुकमिति।



हेतोः परोक्षार्थप्रतिपादकत्वमनुभूतेषु हेत्वाभासेषु न शक्यमावेदयितुम्। हेत्वाभासाश्च पञ्च। यथोक्तम्



सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला इति।



तत्र न तावदयं साध्यसमो हेतुः। असिद्धो हि साध्यसमः कथ्यते। स च संक्षेपतो विभज्यमानो द्विधा व्यवतिष्ठते। आश्रयासिद्धत्वाद् वाऽसिद्धो यथा सुरभि गगनारविन्दमरविन्दत्वादिति। सत्यपि चाश्रये प्रमाणेन संबन्धासिद्धेरसिद्धो यथा अनित्यः शब्दः सावयवत्वादिति। न चाभ्यां प्रकाराभ्यां प्रस्तुतस्य हेतोरसिद्धिरस्ति। क्ष्मारुहादौ धर्मिणि प्रमाणसमधिगते कार्यत्वस्य साधनस्य प्रमाणप्रतीतत्वात्। चिरोत्पन्नपर्वतादौ च धर्मिणि कार्यत्वं सावयवत्वेन हेतुना बोद्धव्यम्। तद् यथा



विवादपदं कार्यम्।

सावयवत्वात्।

यत्सावयवं तत् कार्यम्। यथा वस्त्रम्।

तथा चेदम्।

तस्मात् कार्यमिति।



ननु सावयवत्वेन हेतुना द्रव्याणामेव कार्यत्वं सिध्यति। न तु तत्समवेतानां गुणकर्मादीनाम्। तेषामवयवसंबन्धाभावादिति चेत्। सत्यम्। तेषां कार्यगुणादित्वेन हेत्वन्तरेण कार्यत्वमधिगन्तव्यम्। तथा हि



जन्मभाजो विवादाध्यासितनित्येतरसमवायिनो गुणादयः।

कार्यगुणादित्वात्।

यो यः कार्यगुणादिः स सर्वस्तथा, यथा घटादिरूपादिः।

तथा चैते।

तस्माज्जन्मभाजः। इति।



कार्यत्वं च न स्वकारणसमवायः, सामान्यविशेषो वा बोद्धव्यः, येनास्य प्रध्वंसाव्यापकत्वाद् भागासिद्धता स्यात्, किं तु कारणाधीनस्वरूपमात्रम्। तच्च शब्दादिष्विव प्रध्वंसादावपि प्रत्यक्षेणाधिगतमिति न तावदयमसिद्धो हेतुः। नापि विरुद्धः। तथा हि यो विपक्ष एव वर्तते स खलु साध्यविपर्ययव्याप्तेः साध्यविरुद्धं साधयन् विरुद्धोऽभिधीयते। यथा नित्यः शब्दः कृतकत्वादिति। न चायं तथा, प्रसिद्धकर्तृकेषु घटादिषु सपक्षेषु सद्भावदर्शनात्।



ननु बुद्धिमत्पूर्वकत्वे साध्ये सिद्धसाधनम्। अभिमतं हि परेषामपि कर्मजत्वं कार्यजातस्य, कर्मणश्च चेतनात्मकत्वात्, चेतनाहेतुकत्वाद्वा। तद्धेतुकत्वं च जगतः। सर्वज्ञपूर्वकत्वे तु साध्ये व्याप्तिः स्वप्नेऽपि नोपलब्द्धा। दृष्टान्तश्च साध्यहीनः, कुलालादीनामसर्वज्ञत्वात्। विरुद्धता च हेतोरसर्वज्ञपूर्वकत्वेनैव कुम्भादौ कार्यत्वस्य व्याप्तेरुपलब्धेः। न चोपलब्धिमत्पूर्वकत्वमात्रं साधनविषयः, तद्विशेषस्य तु सर्वज्ञपूर्वकत्वस्यातद्विषयस्यापि ततः सिद्धिरिति साम्प्रतम्। तथा हि यद्यसौ विशेषो न साधनविषयः कथमतस्तत्सिद्धिः, सिद्धं वा कथमविषयः, विषयश्चेत् कथमनन्वयदोषं न स्पृशेदिति चेत्।



उच्यते। सामान्यमात्रव्याप्तावपि अन्तर्भावितविशेषस्य सामान्यस्य पक्षधर्मतावशेन साध्यधर्मिण्यनुमानात् विशेषविषयमनुमानं भवत्येव। इतरथा सर्वानुमानोच्छेदप्रसङ्गात्। तथा हि वह्नयनुमानमपि न सामान्यमात्रविषयम्, तस्य प्रागेव सिद्धत्वात्। नापि तद्विशिष्टगिरिगोचरम् वह्नित्वसामान्यस्य तत्सम्बन्धाभावेन तद्विशेषणत्वानुपपत्तेः। इतरथा गोत्वसमवायादिव गावः शाबलेयादयः पर्वतोऽपि वह्नित्वसमवायाद् वह्निः प्रसज्येत। अस्त्येव गिरेर्वह्नित्वेन संयुक्तसमवायः संबन्ध इति चेत्। तर्हि नाप्रतिपद्य पर्वतसंयुक्तं वह्निविशेषमसौ शक्यप्रतिपत्तिरिति वह्निविशेषस्याप्यननुमानम्। तथा चानन्वयदोषप्रसङ्गः। इन्द्रियानुमानेऽप्ययमेव न्यायो द्रष्टव्यः, यथेन्द्रियलक्षणकरणविशेषसिद्धिः। तथा हि तत्रापि नेन्द्रियकरणिका काचित् क्रियोपलब्धा। न खलु च्छिदाद्याः क्रिया इन्द्रियसाधना, व्रश्चनादीनामनिन्द्रियत्वात्। न च व्रश्चनादिसाधना संभवति रूपादिपरिच्छित्तिलक्षणा क्रिया। तस्माद् यथा क्रियात्वसामान्यस्य करणमात्राधीनत्वव्याप्तत्वे पक्षधर्मतावशादिन्द्रियलक्षणकरणविशेषसिद्धिस्तथेहापि सत्यपि कार्यत्वस्योपादानोपकरणसंप्रदानप्रयोजनज्ञकर्तृमात्रव्याप्तत्वेऽपि विवादाध्यासितेषु पक्षधर्मतावशादुपादानाद्यभिज्ञसामान्यस्याक्षिप्तविशेषस्यैव सिद्धिः। अन्यथा सामान्यस्यापि व्यापकाभिमतस्य न सिद्धिः स्यात्, निर्विशेषस्यासंभवद्विशेषस्य वा तस्यानुपपत्तेः। असर्वज्ञस्य चात्रादृष्टादिभेदविज्ञानरहितस्याधिष्ठातृभावासंभवात् सर्वज्ञात्मक एव विशेषो बलादापतति।



ननूपादानाद्यभिज्ञकर्तृ मात्रेणेवासर्वज्ञत्वदेहित्वादिभिरपि व्याप्तिरशक्यपरिहारा, व्यभिचारादर्शनस्य समानत्वादिति चेत्। न सर्वज्ञत्वासर्वज्ञत्वयोर्देहित्वादेहित्वयोर्वा कार्योत्पत्तावनुपयोगात्। न हि सार्वज्ञ्यं कर्तृणां योग्यतामुपस्थापयति, असर्वज्ञेभ्यः कुम्भकारादिभ्यः कुम्भादीनामप्रसवप्रसङ्गात्। नाप्यसार्वज्ञ्यं कुम्भकारादेव केयूरादीनामप्युत्पत्तिप्रसङ्गात्। तथा न देहित्वं कार्योत्पत्तावुपयोगि कुम्भकारादेव केयूरादीनामुत्पत्तिप्रसङ्गात्। नादेहित्वं कुम्भकाराद् घटादीनामनुत्पादप्रसङ्गात्। ततश्वोपादानाद्यभिज्ञपुरुषपूर्वकत्वमेव कार्यत्वस्य व्यापकम्। तदेव च बुद्धिमत्पुरुषपूर्वकत्वशब्दवाच्यम्। तेन यद्यपि बुद्धिमत्पूर्वकत्वमात्रं व्याप्तिविषयस्तथापि तद्विशेषस्य सर्वज्ञत्वस्य पक्षधर्मताबलात् प्रतिलम्भ इति विशेषविषयमनुमानम्। न चोक्तदोषप्रसङ्गः, तस्य साध्यदृष्दान्तयोर्धर्मविकल्पादुत्कर्षापकर्षलक्षणपर्यनुयोगस्य सर्वानुमानसाधारण्येनानुमानमात्रप्रामाण्यप्रतिक्षेपहेतुत्वात्।



एतेन यदुक्तं कणिकायां यदि कुलालादीनां कतिपयोपकरणादिज्ञानं, न समस्तोपकरणादिज्ञता, तर्हि तेनैव निदर्शनेन ईश्वरस्यापि तदुपकरणादिमात्रज्ञानम्। तन्मात्रज्ञाने न सर्वज्ञतासिद्धिः। कतिपयज्ञो हि तथा सति स्यात्। न वा तन्मात्रज्ञानमपीश्वरस्य बालादिवदित्याह। वालोन्मत्तादीनां स्वकार्यप्रयोजनापरिज्ञानेऽपि निरभिप्रायाणां तत्र तत्र प्रवृत्तिदर्शनात्। न च कुलालादयो निदर्शनम् न वालादय इत्यत्र नियमहेतुरस्तीति तन्निरस्तम्॥



ईश्वरस्य हि कतिपयातीन्द्रियोपकरणादिज्ञाने तत्कारणस्य सर्वत्र समानत्वादशेषोपकरणादिज्ञताया दुर्वारत्वात्। कारणं च तज्ज्ञाने सत्तामन्तरेण नान्यत्, धर्माधर्मादीनां लौकिकप्रत्यासत्तिहेतूनां तत्रासंभवात्। कारणाभेदे च कार्याभेदः। अन्यथा कतिपयातीन्द्रियज्ञानमपि न स्यात्। यथा हि कुलालादिस्तुल्यदर्शनसामग्रीकेषु नाकिञ्चिज्ज्ञाः तथातीन्द्रियोपकरणादिष्वपीश्वरः, सामर्थ्यस्याविशेषात्। न च बालोन्मत्तादिनिदर्शनेन कतिपयोपकरणज्ञतानिषेधो युक्तः, बीजदृष्टान्तेन बुद्धिमन्मात्रस्यापि निषेधाभिधानप्रसङ्गात्। तस्माद् यथोपादानाद्यभिज्ञस्यापि संभवाद् बीजादिभिर्न व्यभिचाराभिधानम्, तथा बालोन्मत्तादिभिरपीति कुलालादीनामेव दृष्टान्तता युक्तिमती, उपादानाद्यभिज्ञबुद्धिवन्मात्रकार्यत्वयोः साध्यसाधनयोस्तत्र प्रसिद्धत्वात्। तथा ज्ञानवदीश्वरस्य चिकीर्षाप्रयत्नौनित्यावित्यत्रापि।



यदभिहितम् - नित्यौ चेत् किमीश्वरस्य ज्ञानेन चिकीर्षाप्रयत्नोपयोगिना, तयोर्नित्यत्वात्, स्वोत्पादोपयोगानपेक्षणादित्यादि। तदप्यसारम्। अज्ञातकर्तृत्वानुपपत्तेः। ज्ञानं हि यत्र चिकीर्षाप्रयत्नावनित्यौ तत्र तावुपस्थापयदुपकरणादिकमुपदर्शयति। यत्र तु तौ नित्यौ तत्रोपकरणादिकमुपदर्शयदपि सफलम्। तस्मात् सत्यपि चिकीर्षाप्रयत्नयोर्नित्यत्वे सफलमीश्वरज्ञानं साक्षात्कार्योत्पत्तावनुपयोग्यपि। अत एव च सोऽयमीदृशो विशेषो विचारासहः कथं पक्षधर्मताबलादपि साध्यधर्मिण्युपसंह्रियत इत्यादिरपि प्रलाप एव। ईश्वरज्ञानस्याव्याहतौ सर्वज्ञताविशेषस्य दुर्वारत्वात्।



यदभिहितम् -प्रेक्षावतां प्रवृत्तिः प्रयोजनवत्तया व्याप्ता। न चेश्वरस्य प्रेक्षावतो जगन्निर्माणे प्रयोजनमुत्पश्यामः, प्राप्तनिखिलप्रापणीयस्य प्राप्तव्याभावात्। तदपि सावद्यम्, तदभिप्रायस्य दुर्वोधत्वात्, प्रयोजनाभावासिद्धेः, व्यापकानुपलब्धेः, सन्दिग्धत्वात्। विचित्रा हि पुरुषमात्रस्य चेतोवृत्तिः प्रागेव विश्वस्य कर्तुः। प्राप्तनिखिलप्रापणीयस्यापि करूणयापि परार्थप्रवृत्तः संभाव्यमानत्वात्। न चास्य नरकादिनिर्माणप्रवृत्तिः कारुणिकतामुपहन्ति, प्रत्युत पितुः पुत्रगण्डपाटनवृत्तिरिवाल्पदुःखदानेन प्रभूतदारुणदुःखापनयनात् करुणातिशयमेव गमयति। प्रेक्षावतामिवास्यापि नियतस्थिरप्रवृत्तिसिद्धेः प्रयोजनानुमितिरेव न्यायप्राप्ता॥



यच्चेदमुदीरितम्-यदि हि सर्वकार्याणामेकः कर्ता स्यात् ततोऽज्ञस्य तत्त्वानुपपत्तेः सर्वज्ञता स्यात्। अथ पुनरेकैकं कार्यमेकैकेन कर्त्रा जन्यत इति यो यज्जनयति स तत्कारणमात्रज्ञ एव न तु सर्वज्ञ इति।



अत्रोच्यते। कार्यलिङ्गाविशेषादेकः कर्ता सदिति ज्ञानाविशेषात् सत्तैकत्ववत्। कुतश्चिल्लिङ्गादनुमितस्य वस्तुनो नानात्वस्य लिङ्गान्तरानुमेयत्वात्, नानात्वमुपपादयितुं प्रमाणान्तरं वक्तव्यम्। यथात्मनानात्वमवस्थापयद्भिः सुखादि (भिर्नानात्व) व्यवस्थापनमुच्यते। न चेह कर्तुरनेकत्वाधिगमे प्रमाणान्तरमस्ति। एकत्वे तु न प्रमाणान्तरमन्वेष्टव्यम्, एकस्य कर्तुरभावे बहूनां व्याहतमनसां स्वातन्त्रेण परस्परविरोधेन मिथः स्वानुकूलाभिप्रायानवबोधेन युगपत्कार्यानुत्पतिः, उत्पन्नस्य वा विलोपादिप्रसङ्गः स्यादिति। एकत्वे तु सिद्धे सर्वज्ञतासिद्धिरविरोधिनी। न चेश्चरस्य सकलक्षेत्रज्ञसमवायिधर्माधर्मज्ञानकारणाभावेन तदज्ञानम्, तत्समवेतानां ज्ञानचिकीर्षाप्रयत्नानां नित्यत्वात्। न च बुद्धितन्नित्यत्वयोः कश्चिद्विरोधः। न च बुद्धेरनित्यतायास्तत्र तत्रोपलब्धेरीश्वरबुद्धेरपि तथात्वं युक्तम्, रूपादीनामप्यनित्यानां तत्र तत्रोपलब्धेस्तोयादिपरमाणुसमवेतानामपि रूपादीनामनित्यत्वप्रसङ्गात्। परपुरुषसमवेतधर्माधर्माधिष्ठानमप्यस्य युक्तमेव, संयुक्तसंयोगिसमवायस्य सम्बन्धस्य सद्भावात्। संयुक्ताः खल्वीश्वरेण परमाणवः, तैश्च क्षेत्रज्ञाः, तत्समवेतौ च धर्माधर्माविति॥



तदेवं कणिकायां वाचस्पतेरीश्वरदूषणं यथासारमुत्थाप्य व्युदस्तमस्माभिः। अपरं च बुसप्रायमनभ्युपगमप्रसिद्धसिद्धान्तग्रस्तमिह ग्रन्थविस्तरभयान्न लिखितम्। तदेवमभिमतस्यैव सर्वज्ञतालक्षणस्य विशेषस्य सिद्धेर्नैष विशेषविरुद्धो हेतुः। नापि कर्मभिः सिद्धसाधनमिति स्थितम्॥



न चानैकान्तिकः। स हि भवन्नसाधारणो वा स्यात्, यथा नित्या पृथ्वी गन्धवत्वादिति; अनुपसंहार्यो वा, यथा सर्वं नित्यं प्रमेयत्वादिति; साधारणो वा यथा नित्यः शब्दः, अस्पर्शवत्त्वादिति।



तत्र न तावदादिमौ पक्षौ, सपक्षसद्भावदर्शनेन प्रतिक्षिप्तत्वात्। नाप्यन्तिमः, अधिगतकर्तृनिवृत्तेर्व्योमादेर्विपक्षाद् व्यावृत्तेरुपलब्धेः।



ननु पुरुषव्यापारमन्तरेण तृणादीनुदयमानानवलोकयन् लोकः कार्यमात्रं पुरुषपूर्वकमिति व्याप्तिमेव न प्रतिपद्यत इति चेत्। एवं तर्हि प्रसिद्धानुमानस्थितिरपि दत्तजलाञ्जलिः। तत्रापि हि व्याप्तिप्रतीतिकाल एव व्याघ्रादिपर्याकुलातिदुर्गप्रदेशे वह्निव्यापारमन्तरेण धूमं पुरुषव्यापारं विना पूर्वं सिद्धं घटं वा विलोकयन् लोको धूममात्रं वह्निपूर्वकं घटमात्रं वा पुरुषपूर्वकमिति व्याप्तिमेव न प्रतिपद्यत इति वक्तुं शक्यत्वात्।



तत्र वह्निपुरुषयोर्देशकालविप्रकृष्टत्वादप्रतिक्षेप इति चेत्। यद्येवं तृणादावपि पुरुषस्य स्वभावविप्रकृष्टत्वादप्रतिक्षेप इति सर्वं समानमन्यत्राभिनिवेशात्। पुरुषव्यापारपूर्वकता तावन्न प्रतीयते तृणादीनाम्। सा च पुरुषस्यादृश्यत्वादसत्त्वाद् वा न प्रतीयताम्, किमनेन विचारितेन। सर्वथा किञ्चित्कार्यमपूर्वपुरुषपूर्वकमपश्यन्न व्याप्तिं कार्यमात्रस्य पुरुषेण कश्चित् चेतनावानवगच्छतीति चेत्। यद्येवं वह्निमात्रपूर्वकता तावन्न प्रतीयते धूमस्य, पुरुषमात्रपूर्वकता च घटस्य। सा च वह्नेर्देशविप्रकृष्टत्वादसत्त्वाद् वा पुरुषस्य कालविप्रकृष्टत्वादसत्त्वाद् वा न प्रतीयताम्, किमनेन विचारितेन। सर्वथा धूममात्रं वह्निव्यापारपूर्वकमपश्यन् घटमात्रं वा पुरुषपूर्वकमपश्यन्नव्याप्तिमेव धूमस्य वह्निमात्रेण घटस्य पुरुषमात्रेण वा कश्चिच्चेतनावानधिगच्छतीत्यप्युच्यमानं न वक्त्रं वक्रीकरोति। तत् किमनेन प्रसिद्धानुमानापलापिना जात्युत्तरेण॥



स्यादेतत्। न सपक्षासपक्षयोर्दर्शनादर्शनमात्रेणाव्यभिचारनिश्चयः, अतदात्मनोऽतदुत्पत्तेश्चाव्यभिचारनियमाभावात्। तदिदं कार्यत्वं सन्दिग्धविपक्षव्यावृत्तिकत्वेनासाधनम्।



अत्रोच्यते। नास्ति विपक्षाद्धेतोर्व्यावृत्तिसन्देहः, धूमानलयोरिव कार्यबुद्धिमतोरुपलम्भानुपलम्भसाधनस्य कार्यकारणभावस्य सिद्धत्वात्।



कार्यविशेषस्यैव तदुत्पादसिद्धिर्न कार्यसामान्यस्य, यथा धूमादिवर्तिनो वस्तुत्वादेर्नानलादिजन्यत्वनिश्चय इति चेत्। न। विशेषहेत्वभावात्। उपलम्भानुपलम्भयोस्तदुत्पत्तिसाधनत्वेनेष्टयोरविशेषात् कार्यविशेषस्येव कार्यसामान्यस्य प्रबोधाश्रयायत्ततासिद्धेः। यथा हि कार्यं वस्त्राद्युपादानवद् दृष्टम्, कार्यान्तरमप्यदृष्टोपादानमुपादानवत् कार्यत्वाद्युपस्थाप्यते तथा तदेव कार्यं वस्त्रादि दृष्टकर्तृकमित्यदृष्टकर्तृकमपि कार्यत्वात् कर्तृमद्‍व्यवस्थाप्यते। उपादानस्येव कर्तुरपिकार्येणानुकृतान्वयव्यतिरेकत्वात्। तन्मात्रनिबन्धनत्वाच्च सर्वत्र कार्यकारणव्यवहारयोः। तस्माद् यथा कार्यं च स्यान्निरुपादानं चेति न शक्यमाशङ्कितुम्, कार्यमात्रस्योपादानमात्रादुत्पादसिद्धेः तथा कार्यं च भवेदकर्तृकं चेति नाशङ्कनीयम्, कार्यमात्रस्य कर्तृमात्रादुत्पादसिद्धेरविशेषात्॥



ननु ब्रूया नाम किञ्चित्। तथापि न कार्यमात्राद् बुद्धिमदनुमानम्, अपि तु कार्यविशेषादेव। यद्दर्शनादक्रियादर्शिनोऽपि कृतबुद्धिः स्यात्। न चानपेक्षिततत्त्वानुगमाच्छब्दमात्रसाम्यात् साध्यसिद्धिर्युक्ता। गोशब्दवाच्यतामात्रेण वागादीनां विषाणित्वानुमितिप्रसङ्गादिति चेत्। तदेतत् खस्थोत्तरमनुत्तरार्हम्, कार्यसामान्यस्यैव व्याप्तिप्रसाधनात्। अपि च का पुनरियं कृतबुद्धिः, किमपेक्षितपरव्यापारावसायोऽथ पुरुषकृतमेतदिति पौरुषेयत्वनिश्चय इति।



यद्याद्यः पक्षः स कथं क्षित्यादिषु नास्ति, कारणव्यापारात्मलाभलाक्षणस्य कार्यत्वस्य कुम्भादिवत् क्षित्यादिष्वविशेषात्। अथ पुरुषेण कृतमिति पौरुषेयत्वनिश्चयः कृतबुद्धिरभिमता, तदापि तादृशी कृतबुद्धिः कस्य नास्तीति वक्तव्यम्। किं कार्यत्वादिति हेतोरविनाभाववेदिन आहोस्वित् तद्विपरीतस्य। नाद्यः पक्षः। अविनाभाववेदिनः साध्याप्रतिपत्तेरयोगात्। अथ तद्विपरीतस्य साध्यबुद्धिर्न भवतीति कृतबुद्धिहेतुकत्वमवनितनुमहीरुहादिषु नास्तीति बुद्धिमतोऽनुमानं प्रतिक्षिप्यते।



नन्वेवं सति सर्वानुमानोच्छेद स्यात्। सर्वहेतूनामगृहीताविनाभावं प्रति अगमकत्वात्। तस्मान्न कृतबुद्धिहेतुत्वं विशेषः। भवतु वा कश्चिदनिरूपितरूपो विशेषस्तथापि किमनेन। कार्यमात्रस्यैव धूममात्रस्येव व्याप्तिप्रतीतेः। न च कार्यत्वेन हेतुना सह मृद्धिकारस्य समकक्षता। तस्य स्वसाध्येन दृश्यकुम्भकारेण सह व्यभिचारस्य शतशो दर्शनात्। कार्यत्वस्य तु दृश्यादृश्यसाधारणेन बुद्धिमन्मात्रेण तद्योगादिति नायमनैकान्तिकः।



नापि प्रकरणसमः, अप्रतिपक्षत्वात् । न ह्यस्य प्रतिपक्षोपस्थापकं धर्मान्तरमस्ति। यथा नित्यः शब्दो वस्तुत्वे सत्यनुपलभ्यमाननित्यधर्मत्वादित्यस्य, अनित्यः शब्दो वस्तुत्वे सत्यनुपलभ्यमाननित्यधर्मत्वादिति प्रतिपक्षकृतं धर्मान्तरमस्ति। न चेदं बाधकं वक्तव्यम्। नेश्वरकर्तृकं जगत्। वस्तुत्वसत्त्वादित्यादि। ईश्वरकर्तृकत्वस्य वस्तुत्वादिति विरोधाभावात्। इति गायं प्रकरणसमोऽपि।



न च कालात्ययापदिष्टः प्रत्यक्षानुमानागमैर्बाधितविषयस्य तथाभावात्। अस्य च तैरविरोधात्। तत्र प्रत्यक्षविरुद्धः, अनुष्णस्तेजोऽवयवी कृतकत्वात्। अनुमानविरुद्धः, सावयवाः परमाणवो मूर्तत्वात्। आगमविरुद्धः, शुचि न(र) शिरः कपालं प्राण्यङ्गत्वादिति। तत्र न तावदयं प्रत्यक्षविरुद्धः, साध्यविपर्ययस्य प्रत्यक्षाविषयत्वात्। नाप्यनुमानविरुद्धः, धर्मिग्राहिणानुमानेनाबाधितविषयत्वात्। न चागमविरुद्धः, आगमेन साध्यविपर्य(य) स्यापरिच्छेदात्। सौगताद्यागमैर्विपरीतपरिच्छेदादिति चेत्। न, तेषां क्षणिकत्वाद्यर्थविसंवादोपलम्भेन प्रामाण्याभावात्। वेदागमोऽपि बाधकत्वेन नाशङ्कनीयः,



सहस्रशीर्षा पुरुषः



इत्यादिना तत्र कर्तुरेव प्रतिपादनात्। तथाभूतपुरुषातिशयपूर्वकत्वाभावे सत्यप्रामाण्याच्चेति नायमतिक्रान्तकालो हेतुः। तदेवमपनीतहेत्वाभासविभ्रमादतः साधनादुपादानाद्यभिज्ञो बुद्धिमानभिमतः कर्ता सिध्यति। स एव भगवानस्माकमीश्वर इति स्थितम्॥



तथास्य सिद्धये शङ्करः साधनमिदमभिप्रैति -



जगदेतत् प्रबोधाश्रयायत्तप्रसवमभिलाषप्रीतिपरमाणुमूर्त्याधारपरत्वापरत्र्वानुमेयसामान्यसमवायान्त्यविशेषतदेकार्थसमवेत-परिमाणैकत्वपृथक्त्वगुरुत्वस्नेहापार्थिवरूपरसस्पर्शाप्यद्रवत्वामूर्तसंयोगतदितरेतराभावानुत्पत्तिरूपारूपमस्मदादिविनिर्मितेतरत्।



अचेतनोपादानत्वात्।

यदित्थं तत् तथा, यथा कलसः।

तथा चेदम्।

तस्मादिदमपि तथेति।



अस्यायमर्थः। जगदिति धर्मी। प्रबोधाश्रयायत्तप्रसवमिति साध्यम्। अभिलाषेत्यादि अनुत्पत्तिरूपारूपपर्यन्तेन धर्मिविशेषणेनाकाशादिनित्यवर्गपरिहारः। अस्मदादिविनिर्मितेतरदित्यनेनापि धर्मिविशेषणेन प्रसिद्धकर्तृकघटादिपरिहारः। अभिलाषश्च प्रीतिश्च परमाणुमूर्तिश्च। आसामधारः आकाश आत्मा परमाणुः। परत्वापरत्वानुमेयौ दिक्कालौ। सामान्यादयस्तु यथाप्रसिद्धा ग्रहीतव्याः।



तथा नरसिंहः प्राह -



विज्ञानाधाराधीनजन्म(अ) जन्मावच्छिन्नात्मोभयवाद्यविवादास्पदपुरुषपूर्वकव्यतिरेकि भावानुभावि प्रमेयजातम्।



उत्पत्तिमत्त्वात्।

यद् यदाख्यातसाधनसम्बन्धि तत्तदुक्तसाध्यधर्माधिकरणम्। यथा वासः।

तथा चेदम्।

तस्मादिदमपि तथेति।



अस्यायमर्थः। प्रमेयजातं धर्मि। विज्ञानाधाराधीनजन्मेति साध्यम्। अजन्मावच्छिन्नात्मेति धर्मिविशेषणम्। एतेनाकाशादिनित्यवर्गपरिहारः। उभयवाद्यविवादास्पदपुरुषपूर्वकव्यतिरेकीत्यनेनापि प्रसिद्धकर्तृकघटादिपरिहारः। भावानुभावीति वस्तुरूपम्। एतेन प्रध्वंसादिपरिहारः। यद् यदाख्यातसाधनसंबन्धीति व्याप्तिवचनं यद्धर्मिरूपं कथितसाधनयोगीत्यर्थः।



त्रिलोचनस्तु व्यतिरेकिणमिमं प्रयोगमाह -



सर्वं कार्यं प्रबोधवद्धेतुकम्।

उत्पत्तिधर्मकत्वात्।

यन्नित्यं दृष्टमबोधवद्धेतुकं तस्याकाशादेस्तथोत्पत्तिर्नास्तीति दृष्टम्।

उत्पत्तिधर्मकं च पक्षीकृतमस्मदादिविनिर्मितेतरत्।

तस्माद् बोधवद्धेतुकमिति।

पुनर्द्व्‍यणुकेश्वरसिद्धौ त्रिलोचन एव प्राह -



विवादास्पदीभूतं द्वित्वमात्मोत्पत्तौ कस्यचिदेकैकविषयां बुद्धिमपेक्षते।

द्वित्वसंख्यात्वात्।

यद् यद् द्वित्वं तत् तथा। यथा द्वे द्रव्ये।

तथा चेदं द्वयणुकगतं द्वित्वम्।

तस्मात्तथेति।

यस्य चात्र बुद्धिरपेक्ष्यते स भगवानीश्वरः॥

तथा च वाचस्पतिः प्रमाणयति -

विवादाष्यासिततनुतरुगिरिसागरादयः उपादानाद्यभिज्ञकर्तृकाः।

कार्यत्वात्।

यद्यत् कार्यं तत्तदुपादानाद्यभिज्ञकर्तृकम्। यथा प्रासादादि।

तथा व विवादाध्यासितास्तन्वादयः।

तस्मात्तथेति।

एवं स्थित्वा स्थित्वा प्रवृत्तिधर्मकत्वात्, सन्निवेशवत्त्वात्, अर्थक्रियाकारित्वादित्यादयो हेतवः कथितपञ्चावयवक्रमेण बोद्धव्या इति।



तदेतद्‍दुर्मतिविस्पन्दितं जगदन्धीकरणं न सतामुपेक्षितुमुचितमिति किञ्चिदुच्यते। इह खलु बुद्धिमत्कार्यमात्रयोः साध्यसाधनयोः सर्वोपसंहारवती व्याप्तिस्तावदवश्यं ग्रहीतव्या। अन्यथा गम्यगमकभावायोगात्। सा च गृह्यमाणा किं कारणकार्यमात्रयोरिव विपर्ययबाधकप्रमाणबलाद् ग्राह्या। यद्वाऽग्निधूमयोरिव विशिष्टान्वयव्यतिरेकग्रहणप्रवणविशिष्टप्रत्यक्षानुपलम्भाभ्यां बोद्धव्या। उत स्वव्यवस्थया सपक्षासपक्षयोर्भूयोदर्शनादर्शनाभ्यां प्रत्येतव्या। आहोस्वित् सपक्षासपक्षयोः सकृद्दर्शनादर्शनाभ्यां ज्ञातव्येति चत्वारो विकल्पाः।



न तावदाद्यः पक्षः। साध्यविपर्यये बुद्धिमदभावे कार्यत्वसामान्यस्य साधनस्य बाधकप्रमाणाभावात्। ननु बाधकप्रमाणाभावोऽसिद्धः। तथा हीदं कार्यत्वं यथा बुद्धिमता व्याप्तमिष्यते तथा देशकालस्वभावनियतत्वेनापि, कादाचित्ककारणसन्निधिमत्तयापि, सामग्रीकार्यत्वेनापि व्याप्तमुपलब्धम्। स च देशादि नियमः कादाचित्ककारणसन्निधिः सामग्री वा बुद्धिमत्पूर्विका सिद्धा। यदि पुनरचेतनानि चेतनानधिष्ठितानि कार्यं कुर्युः ततो पत्र क्वचनावस्थितानि जनयेयुरिति न देशकालस्वभावनियतप्रसवं कार्यमुपलभ्येत।



हेतुसमवधानजन्मतया न कार्यं प्रत्येकं कारणैर्जन्यत इति चेत्। समवधानमेव तु कारणानां कुतः। कादाचित्कपरिपाकाददृष्टविशेषादिति चेत्। नन्वयमचेतनः कथं यथावत् कारणानि सन्निधापयेत्। नो खलु क्वचिदवस्थितानि दण्डादीनि विना कुम्भकारप्रयत्नमदृष्टविशेषवशादेव परस्परं सन्निधीयन्ते। सन्निहितानि वा कार्याय प्रभवन्तीति बुद्धिमता देशकालस्वभावनियमस्य कादाचित्ककारणसन्निधेः सामग्र्याश्च व्याप्तिसिद्धिः। बुद्धिमदभावे चैषां व्यापकानां निवृत्तौ निवर्तमानं कार्यत्वं बुद्धिमत्पूर्वकत्वेन व्याप्यत इति प्रतिबन्धसिद्धये व्यापकानुपलम्भत्रयमुपन्यस्तम्। तथा च न कार्यं बुद्धिमत्परित्यागात् अहेतुकमेव भवतीति संभाव्यम्, देशकालस्वभावनियमाभावप्रसङ्गात्। नापि बुद्धिमतोऽन्यस्मादेव भवतीति शङ्कनीयम्, सकृदप्युत्पादाभावप्रसङ्गात्। न चान्यस्मादस्मादपि भवतीति संभाव्यम्, अनियतहेतुत्वेऽहेतुत्वप्रसङ्गात्। तथा बुद्धिमन्तमन्तरेणाचेतनेन करणे सर्वदा क्रियाया अविरामप्रसङ्गश्चेत्यपि विपर्ययबाधकमतिप्रसङ्गचतुष्टयं व्याप्तिप्रसाधकमिति कार्यत्वस्य हेतुपूर्वकत्वमिव बुद्धिमत्पूर्वकत्वमप्यवार्यमिति चेत्।



अत्रोच्यते। सिध्यत्येवेदं मनोराज्यं यदि देशकालस्वभावनियमस्य कादाचित्ककारणसन्निधेः सामग्र्याश्च बुद्धिमत्पूर्वकत्वेन व्याप्तिः सिध्यति। केवलमेतदेव दुरापम्। बुद्धिमदभावेऽपि हि स्वहेतुबलसमुत्पन्नसन्निधे(ः) प्रतिनियतदेशकालशक्तिनाऽऽचेतनेनापि सामग्रीलक्षणकारणविशेषेण क्रियमाणानि देशकालस्वभावनियमकादाचित्ककारणसन्निधिसामग्रीकार्यत्वानि युज्यन्त इति सन्दिग्धासिद्धा व्यापकानुपलब्धयः॥



बुद्धिमदभावे समवधानमेव कुत इति चेत्। तदपि चेतनानधिष्ठितयथोक्ताचेतनसामग्रीविशेषादेव। सोऽपि तादृशादित्यनाद्यचेतनसामग्रीपरम्परातोऽपिदेशादिनियमसंभावनायां नावश्यं बुद्धिमदपेक्षा। घटादेर्देशकालस्वभावनियमः कादाचित्ककारणसन्निधिश्च, सामग्री च बुद्धिमत्पूर्विका दृष्टा इत्यपरोपि देशकालस्वभावनियमादिस्तथैवेति चेत्। यद्येवं घटादिकमपि कार्यं बहुशो बुद्धिमत्पूर्वकमुपलब्धमिति सर्वमेव कार्यं तथास्तु, किमनेन व्यापकानु (प)लम्भोपन्यासदुर्व्यसनेन। घटादेर्बहुशो बुद्धिमत्पूर्वकत्वदर्शनेऽपि न सर्वत्र कार्यमात्रस्य तथाभावनिश्चयश्चेत्। देशादिनियमादीनामपीदं समानमिति कथमत्रापि शङ्काव्युदासः॥



अस्तु तदा प्रत्यक्षमेव सर्वत्र व्याप्तिग्राहकमिति चेत्। न तर्हि विपर्ययबाधकप्रमाणबलाद् व्याप्तिग्रहनिर्वाहः। प्रत्यक्षं च तत्राशक्तमिति द्वितीयविकल्पावसरे निवेदयिष्यते।तथा सिद्धे कार्यकारणभावे धूमस्याहेतुकोत्पतावन्यस्मादेवो त्पत्तावन्यस्मादप्युत्पत्तौ संभाव्यमानायां देशादिनियमाभाव (क्लृप्तहेतु) त्याग (अन्य) हेतुत्वप्रसङ्गाः सङ्गच्छन्ते। प्रस्तुते तु बुद्धिमत्कार्यमात्रयोः कार्यकारणभावो नाद्यापि सिद्धः। साधयितुं वा शक्यः। न चाचेतनस्य कर्तृत्वे क्रियाया अविरामप्रसङ्गः सङ्गतः। न ह्यचेतनमित्येव सर्वदा सामर्थ्ययोगि, तस्यापि स्वहेतुपरम्पराप्रतिबद्धसामर्थ्यत्वादित्यचेतनकारणविशेषपरम्परासंभावनायां नावश्यं बुद्धिमदाक्षेप इति स्वमतव्यालोपविक्लवविक्रोशितमात्रमेवेदं न पुनरत्र न्यायगन्धोऽपि।



तदेवं व्याप्तिसाधनार्थमुपन्यस्तं व्यापकानुपलम्भत्रयं सन्दिग्धासिद्धमतिप्रसङ्गतुचष्टयं च बुद्धिमत्कार्यमात्रयोर्व्याप्त्यसिद्धावसङ्गतम्। अतः कार्यत्वं साधनं सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकम्॥



अत्र वाचस्पतिः प्राह -



सन्दिग्धविपक्षव्यावृत्तिकत्वं नाम हेतुदोष एव न भवति। तत्कथं निरस्यते। तथा हि य एव विपक्षे दृष्टो हेतुः स एव प्रमेयत्वादिवदभिमतं न साधयेत्। यस्तु महतापि प्रयत्नेन मृग्यमाणोऽसपक्षे नोपलक्षितः स कथं साध्यं न साधयेत्।



अवश्यंशङ्कया भाव्यं नियामकमपश्यताम्।

इति तु दतावकाशा लौकिकमर्यादातिक्रमेण संशयपिशाची लब्धप्रसरा न क्वचिन्नास्तोति नायं क्वचित्प्रवर्तेत। सर्वस्यैवार्थस्य कथञ्चिच्छङ्कास्पदत्वादर्शनात्। अनर्थशङ्कायाश्च प्रेक्षावतां निवृत्त्यङ्गत्वात्। अन्ततः स्निग्धान्नपानोपयोगेऽपि मरणदर्शनात्। तस्मात् प्रामाणिकलोकयात्रामनुपालयता यथादर्शनं शङ्कनीयम्, न त्वदृष्टमपि। विशेषस्मृत्यपेक्षो हि संशयो नास्मृतेर्भवति। न च स्मृतिरननुभूतचरे भवति।



तदुक्तं मीमांसावार्त्तिककृता अध्युष्टसहस्रिकायाम् -

नाशङ्का निःप्रमाणिकेति।

तथा तेनैव बृहट्टीकायाम् -

उत्प्रेक्षेत हि यो मोहादजातमपि बाधकम्।

स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत्॥ इति॥



तदेतत् प्रलापमात्रम्। न हि महतापि प्रयत्नेन विपक्षे मृग्यमाणस्य हेतोरदर्शनमात्रेण व्यतिरेकः सिध्यति। तथा हि विपक्षे हेतुर्नोपलभ्यत इत्यनेन तदुपलम्भकप्रमाणनिवृत्तिरुच्यते। प्रमाणं च प्रमेयस्य कार्यम्, नाकारणं विषय इति न्यायात्। न च कार्यनिवृत्तौ कारणनिवृतिरुपलब्धा, निर्धूमस्यापि बह्नेरुपलम्भात्। यदि पुनः प्रमाणसत्तया प्रमेयसत्ता व्याप्ता स्यात्, तदा युक्तमेतत्। केवलमियमेव व्याप्तिरसंभविनी, सर्वस्य सर्वदर्शित्वप्रसङ्गात्। तन्नादर्शनमात्रेण व्यतिरेकसिद्धिः। यथोक्तम् -



सर्वादृष्टिश्च सन्दिग्धा स्वादृष्टिर्व्यभिचारिणी।

विन्ध्याद्रिरन्ध्रदूर्वादेरदृष्टावपि सत्त्वतः॥ इति



सकलविपक्षस्यार्वाचीनं प्रत्यदृश्यत्वात्।



यच्चोक्तम् - संशयपिशाची लब्धप्रसरा न क्वचिन्नास्तीति न क्वचित् प्रवर्तेतेति। तदसङ्गतम्। अर्थसंशयस्यापि प्रेक्षावतां प्रवृत्त्यङ्गत्वात् प्रवृत्तिरविरोधिन्येव। अनर्थसन्देहः सर्वत्र कर्तुं शक्यते। अन्ततः स्निग्धान्नपानोपयोगेऽपि मरणदर्शनादप्रवृत्तिरिति चेत्। दुर्ज्ञानमेतत्। तथा हि अर्थसन्देहोऽनर्थसन्देहो वेति नायं षष्ठीसमासः। किन्त्वर्थोन्मुखः सन्देहोऽर्थसन्देहः, अनर्थोन्मुखः सन्देहोऽनर्थ सन्देह इति शाकपार्थिवादिवन्मध्यपदलोपी समासः। एवं सति स्निग्धान्नपानादावर्थसन्देह एव, तज्जातीयस्य स्वपरसन्ताने दृष्टिपुष्ट्याद्यर्थस्य कोटिशः करणदर्शनात्, मरणादेरनर्थस्य क्वचित् कदाचिद्दर्शनात्। एतद्विविपरीतोऽनर्थसन्देहो द्रष्टव्यः। तस्मात् प्रमाणादिवार्थसंशयादपि प्रेक्षावतां तत्र तत्र प्रवृत्तिर्दुर्वारैव॥



यदपीदं लपितं यथादर्शनं शङ्कनीयं नादृष्टपूर्वमपि विशेषस्मृत्यपेक्षो हि संशय इत्यादि। तदसंबद्धम्। साधकबाधकप्रमाणाभावादेव पर्युदासवृत्त्या वस्वन्तररूपात् सर्वत्र संशयोत्पत्तेः। किंच विशेषस्मृत्यपेक्ष एवायं संशयः। तथा हि लक्षणयोगित्वायोगित्वाभ्यामेव तज्जातीयातज्जातीये वक्तव्ये। अन्यथा लक्षणप्रणयनमनर्थकं स्यात्। एवं च सति तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धवियोगित्वेन साधारणेन धर्मेण प्रमेयत्वधूमत्वकार्यत्वादीनां त्वन्मतेन सजातीयत्वात् प्रमेयत्वव्यभिचारदर्शनमेव शङ्कामुपस्थापयतीति यथादर्शनमेवेदमाशङ्कितम्।



यश्च कुमारिलस्य साक्षित्वेनोपन्यासः सखलु



दधिभाण्डे विडालः साक्षीति



प्रवादं नातिपततीति किमत्र वक्तव्यम्। तदेवं विपक्षेऽदर्शनमात्रेण हेतोऽर्व्यतिरेकासिद्धेः सन्दिग्धविपक्षव्यावृत्तिकत्वं नाम हेतुदूषणं दुर्वारमेव। अत एवास्योपन्यासोऽदोषोद्भावनं नाम निग्रहस्थानमिति यदनेनावेदितं तदपि सावद्यम्। प्रत्युतास्मिन् हेतोः सद्‍दूषणे परिहर्तव्ये नायं हेतुदोषोऽतो न परिहर्तव्योऽस्य चोपन्यासोऽदोषोद्भावनं नाम निग्रहस्थानमिति ब्रुवन्नयमेव तपस्वी स्वमतेन निरनुयोज्यानुयोगलक्षणेन निग्रहस्थानेन निगृह्यत इति कृपामर्हति। तदेवं विपर्ययबाधकप्रमाणाभावादव्याप्तेरसिद्धेः सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकः कार्यत्वलक्षणो हेतुः॥



अथाग्निधूमयोरिव विशिष्टान्वयव्यतिरेकग्रहणप्रवणविशिष्टप्रत्यक्षानुपलम्भाभ्यां व्यप्तिर्निश्वीयत इति द्वितीयः पक्षः। अत्रोच्यते। किं दृश्यशरीरोपाधिना बुद्धिमन्मात्रेण व्याप्तिर्गृह्यते, आहोस्वित् दृश्यशरीरोपाधिविशुरेण दृश्यादृश्यसाधारणेनेति विकल्पौ। यद्याद्यः पक्षः, तदा तथाभूतसाध्यमन्तरेणाप्युत्पद्यमाने विटपादौ कार्यत्वदर्शनात् प्रमेयत्वादिवत् साधारणानैकान्तिको हेतुः।



ननु वृक्षादयः पक्षीकृताः। कथं तैर्व्यभिचारः। त्रिविधो हि भावराशिः। सन्दिग्धकर्तृको यथा वृक्षादिः। प्रसिद्धकर्तृको यथा घटादिः। अकर्तृको यथा आकाशादिः। तत्र प्रसिद्धकर्तृके घटादौ प्रत्यक्षानुपलम्भाभ्यां व्याप्तिमादाय सन्देहपदे क्ष्मारुहादौ कार्यत्वमुपसंहृत्य बुद्धिमाननुमीयते। न पुनरसौ व्यभिचारविषयो भवितुमर्हति।



यदाह - न साध्येनैव व्यभिचार इति। अयुक्तमेतत्। न हि व्यभिचारविषय एव पक्षे भवितुमर्हति,



सन्दिग्धे हेतुवचनाद् व्यस्तो हेतोरनाश्रयः



इति न्यायात्। व्यभिचारविषयता च दृश्यशरीरोपाधेर्बुद्धिमन्मात्रस्य तृणाद्युत्पत्तौ दृश्यानुपलम्भेन प्रतिक्षिप्तत्वात्। ततश्च क्ष्माधरादिरेव सन्दिग्धकर्तृकः पक्षीकर्तुमुचितः क्ष्मारुहादिस्त्वचेतनकर्तृक इति चतुर्थो भावराशिर्नेष्टव्यः। अथ व्यभिचारचमत्कारास्त्रिविधभावराशिव्यवस्थापनार्थं च विटपादौ प्रत्यक्षाप्रतिक्षिप्तेन दृश्यादृश्यसाधारणेन बुद्धिमन्मात्रेण व्यप्तिरवगम्यत इति द्वितीयः सङ्कल्पः। तदा विटपादौ बुद्धिमन्मात्रस्य संभाव्यमानत्वात् न साधारणानैकान्तिकतां ब्रू मः। किं तर्हि व्याप्तिग्रहणकाले दृश्यादृश्यसाधारणस्य बुद्धिमन्मात्रस्य साध्यस्यादृश्यतया दृश्यानुपलम्भेन व्यतिरेकासिद्धेर्व्याप्तेरभावात् सन्दिग्धव्यावृत्तिकत्वमाचक्ष्महे। तथा हि। यदा कुम्भकारव्यापारात्पूर्वं कुम्भस्य व्यतिरेकः प्रत्येतव्यस्तदा न साध्याभावकृतो घटव्यतिरेकः प्रत्येतुं शक्यः। यथा हि विटपादिजन्मसमये बुद्धिमन्मात्रस्यादृश्यत्वेन निषेद्‍धुमशक्यत्वात् सत्तासंभावना तथा घटादावपि व्यतिरेकनिश्चयकाले बुद्धिमन्मात्रस्यादृश्यत्वात् सत्त्वसंभावनायां साध्याभावप्रयुक्तस्य साधनाभावस्यासिद्धत्वेन व्याप्तेरभावात् कथं न सन्दिग्धव्यतिरेको हेतुः।



यथोक्तम् - न च यथा कार्यं च स्यान्निरुपादानं चेति नाशङ्कनीयम्, तथा कार्यं च भवेदकर्तृकं चेति नाशङ्कनीयमिति, तत्रापि कार्यं च स्यान्निरुपादानं च भवेदिति न वक्तव्यमिति केनैव प्रतारितोऽसि। यदि ह्यत्र प्रत्यक्षानुपलम्भाभ्यां व्याप्तिर्गृह्यते तदा कथमुपादानपूर्वकं कार्यमात्र सिध्यति। व्याप्तिग्रहणप्रकारान्तरं च त्वयापि नोपन्यस्तम्। दृश्यादृश्यसाधारणयोरुपादानकार्यमात्रयोर्दृश्यविषयाभ्यां प्रत्यक्षानुपलम्भाभ्यां व्याप्तेरभ्यूहितुमशक्यत्वात्। स्वमतव्यालोपप्रसङ्गस्तु प्रमाणचिन्तावसरेऽप्राप्तावकाशः। विपर्ययबाधकप्रमाणबलाद्वाऽत्र व्याप्तिसिद्धिः। तथा हि यथाङ्कुरादिकं कार्यं नियतदेशकालस्वभावत्वेन व्याप्तं तथा शालित्वादिनापि जातिभेदेन व्याप्तमुपलब्धम्। ततश्चानुपादानपूर्वकत्वाद्विपक्षात्मनः शालित्वादिजातिभेदस्य व्यापकस्य निवृत्तौ निवर्तमानं कार्यत्वमुपादानपूर्वकत्वे विश्राम्यत् तेन व्याप्तं सिध्यति। न चानुपादानेनापि क्रियमाणः शालित्वादिजातिभेदो युज्यते, उपादानं विना कृतानुपादानादेव केवलादेकजातीयकारणात् तदतज्जातीयकार्योत्पत्तौ कार्यभेदस्याहेतुकत्वप्रसङ्गात् तदुक्तम् -



तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः॥ इति।



अन्यथानुपादानादेव क्षित्यादेरङ्कुरादिकमुत्पद्येतेत्यङ्कुरार्थिनो बीजं नानुसरेयुः। तस्माद्विपर्ययबाधकप्रमाणबलादेव कार्यत्वस्य हेतुमात्रपूर्वकत्वेनेवोपादानपूर्वकत्वेनापि व्याप्तिसिद्धिरिति न्यायः। न चैवं कार्यमात्रकर्तृत्वमात्रयोरपि व्याप्तिप्रसाधकं विपर्यये बाधकं प्रमाणमस्ति, पूर्वोक्तस्य व्यापकानुपलम्भत्रयस्याति प्रसङ्गचतुष्टयस्य च प्रागेव प्रत्याख्यातत्वात्। तस्मात्कार्यं च स्यात् न च धीमत्कर्तृपूर्वकमिति शङ्कां कुर्वाणः प्रतिवादी विना चरणमर्दनादिना निषेद्धुमशक्यः॥



ननु यदि दृश्याग्निधूमसामान्ययोरिव दृश्यात्मनोरेव कार्यकारणसामान्ययोः प्रत्यक्षानुपलम्भतो व्याप्तिस्तदा परचित्तानुमानक्षतिः। स्वपरसन्तानसाधारणेन दृश्यादृश्येन चिन्मात्रेण प्रत्यक्षतो दृश्यविषयाद् व्याप्तिग्रहणायोगादित्यपि न वाच्यम्। बाह्यार्थस्थितौ हि स्वपरसन्तानसाधारणस्य चिन्मात्रस्य स्वरूपेणादृश्यत्वेऽपि दृश्यशरीरेण सहैकसामग्रीप्रतिबन्धादविनिर्भागवर्तित्वमस्त्येव। ततो यथा घटविषयं प्रत्यक्षं रूपैकदेशप्रवृत्तमप्यव्यभिचारात् समुदायोपस्थापकम् तथा देहग्राहकमेव प्रत्यक्षं देहाविनिर्भागवर्ति स्वपरसन्तानसाधारणं चिन्मात्रं कम्पादेर्व्यापकमधिगच्छति। तदेवं दृश्यात्मनो दृश्याविनिर्भागवर्तिनो वा पदार्थस्य व्यावहारिकपटुप्रत्यक्षतः सिद्धिर्व्याप्तिग्रहश्च, न तु तथात्वविनाकृतादृश्यसाधारणचिन्मात्रस्येति सन्तानान्तरानुमानमुचितम्। तस्माद् यदि प्रत्यक्षानुपलम्भाभ्यां व्याप्तिग्रहस्तदा दृश्येनैव दृश्यस्येति न्यायः।



तदयं संक्षेपार्थः -



कार्यत्वस्य विपक्षवृत्तिहतये संभाव्यतेऽतीन्द्रियः

कर्ता चेद् व्यतिरेकसिद्धिविधुरा व्याप्तिः कथं सिध्यति।

दृश्योऽथ व्यतिरेकसिद्धिमनसा कर्ता समाश्रीयते

तत्त्यागेऽपि तदा तृणादिकमिति व्यक्तं विपक्षे क्षणम्॥



अतो न प्रत्यक्षानुपलम्भाभ्यामपि व्याप्तिसिद्धिः॥



ननु भूयोदर्शनादर्शनाभ्यां प्रतिबन्धः प्रतीयत इति तृतीय एवास्माकं पक्षः। केवलं स प्रतिबन्धो न तदुत्पत्तिलक्षणो ग्रहीतव्यः। किन्तु स्वाभाविकः। स एव दर्शनादर्शनाभ्यां प्रतीयते। तथा चैतमेवार्थं वाचस्पतिः प्राह -



न सपक्षासपक्षयोर्दर्शनाभ्यां कार्यत्वस्य गमकत्वमपि तु स्वाभाविकप्रतिबन्धबलादिति ब्रू मः। स एव तु सपक्षासपक्षयोर्दर्शनादर्शनाभ्यां बक्ष्यमाणेन क्रमेण प्रतीयत इति तदुपक्षेपोऽपि युक्तः। तेन यस्यासौ स्वाभाविकप्रतिबन्धो नियतः सिद्धः स एव गमको गम्यश्चेतरः सम्बन्धीति युज्यते। तथा हि धूमादीनां वह्न्यादिभिः सह सम्बन्धः स्वाभाविको न तु वह्न्यादीनां धूमादिभिः। ते हि विना धूमादिभिरुपलभ्यन्ते। यदा त्वार्द्रेन्धनसंबन्धमनुभवन्ति तदा धूमादिभिः संबध्यन्ते। तस्माद् वह्न्यादीनामार्द्रेन्धनाद्युपाधिकृतः सम्बन्धो न तु स्वाभाविकस्ततो न नियतः। स्वाभाविकस्तु धूमादीनां वह्न्यादिभिः सम्बन्धः, तदुपाधेरनुपलभ्यमानत्वात्। क्वचिद् व्यभिचारस्यादर्शनात्। अनुपलभ्यमानस्यापि कल्पनानुपपत्तेः। न चानुपलभ्यमानो दर्शनानर्हतया साधकबाधकप्रमाणाभावेन सन्दिह्यमान उपाधिः संबन्धस्य स्वाभाविकत्वं प्रतिबध्नातीति युक्तम्। यथोक्तं प्राक् सेयं संशयपिशाचीत्यादि। तस्मादुपाधिं प्रयत्नेनान्विष्यन्तोऽनुपलभमाना नास्तीत्यवगम्य स्वाभाविकत्वं निश्चिनुमः॥



स्यादेतत्। अन्यस्यान्येन सहाकारणेन चेत् स्वाभाविकः सम्बन्धो भवेत्, सर्वं सर्वेण सम्बध्येत। तथा च सर्वं सर्वस्माद् गम्येत। अथान्यच्चेदन्यस्य कार्यं कस्मात् सर्वं सर्वस्मान्न भवति अन्यत्वाविशेषात्। ततश्च स एवातिप्रसङ्गः। यद्युच्येत स्वभावा न पर्यनुयोज्याः। तस्मादन्यत्वाविशेषेऽपि किञ्चिदेव कारणं कार्यं च किञ्चिदिति। नन्वेष स्वभावाननुयोगोऽकार्यकारणभूतानामपि स्वभावप्रतिवन्धे तुल्य एव। तस्माद् यत्किञ्चिदेतदपि॥



किमस्य संबन्धस्य व्याप्तिग्राहकं प्रमाणमिति चेत्। उच्यते

भूयोदर्शनगम्या हि व्याप्तिः सामान्यधर्मयोः।



इति प्रसिद्धमेव। अस्यायमर्थः काशिकाकारेण व्याख्यातः - प्राचीनानेकदर्शनजनितसंस्कारसहाये चरमे दर्शने चेतसि वकास्ति धूमस्याग्निनियतस्वभावत्वम्, रत्नतत्त्वमिव परोक्षकस्य, शब्दतत्त्वमिव व्याकरणस्मृतिसंस्कृतस्य, ब्राह्मणत्वमिव मातापितृसंबन्धस्मरणसचिवस्येत्यादि। न ह्येतत् सर्वमापाततो न प्रतिभातमिति पुरस्तादपि प्रतिभासमानमन्यथा भवतीति॥



त्रिलोचनेन पुनरयमर्थः कथितः - भूयोदर्शनेन भूयोदर्शनसहायेन मनसा तज्जातीयानां संबन्धो गृहीतो भवति। अतो धूमोऽग्निं न व्यभिचरति। तद्वयभिचारेप्युपाधिरहितं सम्बन्धमतिक्रामेत्। हेतोर्विपक्षशङ्कानिवर्तकं प्रमाणमुपलब्धिलक्षणप्राप्तोपाधिविरहनिश्चयहेतुरनुपलम्भाख्यं प्रत्यक्षमेव। ततः सिद्धः स्वाभाविकः सम्बन्धः। तथेहापीति स्वमतं व्यवस्थापितमिति॥



वाचस्पतिनापीदमुक्तम् - अभिजातमणिभेदतत्त्ववद् भूयोदर्शनजनितसंस्कारसहायमिन्द्रियमेव धूमादीना वह्न्यादिभिः स्वाभाविकसंबन्धग्राहीति युक्तमिति॥



अत्रोच्यते। भेदे सति तदुत्पत्तेरन्यः स्वाभाविकः संबन्धः शब्दास्फालनमात्रमेवेदम्। न खलु निरूप्यमाणः प्राप्यते। तथा हि स्वाभाविकस्तु धूमादीनां वह्न्यादिभिः संबन्धः तदुपाधेरनुपलभ्यमानत्वात्। क्वचिद् व्यभिचारस्यादर्शनादिति त्वयैवास्य लक्षणमुक्तम्। एतच्चासिद्धम्। यतः, उपाधिशब्देन स्वतोऽर्थान्तरमेवापेक्षणीयमभिधातव्यम्। न चार्थान्तरं दृश्यतानियतम्, अदृश्यस्यापि देशकालस्वभावविप्रकृष्टस्य संभवात्। ततश्च धूमस्यापि हुताशेन सह सम्बन्धे स्यादुपाधिः, न चोपलक्ष्यत इति कथमदर्शनान्नास्त्येव यतः स्वाभाविकसंबन्धसिद्धिः॥



अथ यद्यथान्तरमपेक्षणीयं स्यात्। कथं धूम इत्येव पावकसतानियम इति चेत्। नन्विदमेव चिन्त्यते। तदुत्पत्तेरस्वीकारे सहस्रशो दर्शनेऽपि किं सर्वत्र धूमे सत्यवश्यमग्निः सम्भवी न वेति कदाचिदर्थान्तरमुपाधिमपेक्ष्य धूमोऽपि स्यान्नाग्निरिति किमत्र निष्टङ्ककारणम्। तदुपाधेरनुपलभ्यमानत्वात्। क्वचिद् व्यभिचारस्यादर्शनादिति तु यदुक्तं तत्प्रत्युक्तमेव। अदृश्यस्याप्युपाधेः संभाव्यमानत्वात्। व्यभिचारस्य च प्रत्ययान्तरवैकल्येनाहत्यादर्शनेऽपि निषेद्धमशक्यत्वात्। अत एव तयोर्बाधकाभावेऽपि साधकबाधकप्रमाणाभावात् शङ्का संभवत्येव। न पुनस्तवामुना विक्लवविक्रोशितमात्रेण व्यावर्तते। न चैतावता प्रामाणिकलोकयात्रातिक्रमः। प्रामाणिकैरेव साधकबाधकप्रमाणाभावे न्यायप्राप्तस्य संशयस्य विहितत्वात्। न च सर्वत्राप्रवृत्तिप्रसङ्गः, प्रमाणादर्थसंशयाच्च प्रवृत्तेरुपपत्तेः। न चानर्थसन्देहः सर्वत्र व र्तुं शक्यते, क्वचिदर्थोन्मुखताया एव दर्शनात्॥



यच्चान्यत्वाविशेषेऽपि किञ्चिदेव कारणं कार्यं च किञ्चिदिति स्वभावो यथा न पर्यनुयोज्यस्तथैष स्वभावाननुयोगोऽकार्यकारणभूतानामपि स्वभावप्रतिबन्धे तुल्य एवेति ग्राम्यजनधन्धीकरणं प्रतिवन्दीकरणमतिलाघवमाविस्करोति वाचस्पतेः। तथा हि वस्तुत्वाविशेषेऽप्यग्निर्दहति नाकाशमित्यत्र यथा नातिप्रसङ्गः सङ्गतः प्रमाणसिद्धत्वादस्यार्थस्य, तथा भेदाविशेषेऽपि किञ्चिदेव कस्यचित्कारणं कार्यं च किञ्चिदित्यत्रापि नातिप्रसङ्गावतारः। भेदे सति तदन्वयव्यतिरेकानुविधानलक्षणस्य कार्यकारणभावस्य प्रमाणसिद्धत्वादेव। न चैवं स्वाभाविकसंबन्धशब्दवाच्योऽर्थः प्रमाणसिद्धः कश्चिदस्ति, तल्लक्षणस्यासिद्धत्वादुक्तत्वात्। न च प्रतिज्ञासिद्धे वस्तुन्यतिप्रसङ्गो नाभिधातव्यः, सर्वेषां सर्वत्र तद्रूपाभ्युपगममात्रेण विजेतृत्वप्रसङ्गात्। यदाहालङ्कारकारः -



यत्किञ्चिदात्माभिमतं विधाय

निरुत्तरस्तत्र कृतः परेण।

वस्तुस्वभावैरिति वाच्यमित्थं,

तथोत्तरंस्याद्विजयी समस्तः॥



इति॥



किं च स्वाभाविकसंबन्ध इति कोऽर्थः। किं स्वतो भूतः स्वहेतुतो भूतोऽहेतुको वेति त्रयः पक्षाः । न तावदाद्यः पक्षः, स्वात्मनि कारित्रविरोधात्। द्वितीयपक्षे तु तदुत्पत्तिरेव संबन्धो मुखान्तरेण स्वीकृत इति न कश्चिद्विवादः। अहेतुकत्वे तु देशकालस्वभावनियमाभावप्रसङ्गादित्यसङ्गतः स्वाभाविकः संबन्धः॥



एतेन यदुक्तम् - न सपक्षासपक्षयोर्दर्शनादर्शनाभ्यां कार्यत्वस्य गमकत्वमपि तु स्वाभाविकसंबन्धबलादिति ब्रूमः, स एव तु सपक्षासपक्षयोर्दर्शनादर्शनाभ्यां वक्ष्यमाणेन क्रमेण प्रतीयत इति, तदिष्टकामतामात्राविष्करणमिति मन्तव्यम्। स्वाभाविकसंबन्धस्य ह्युपाधिनिरपेक्षनियतत्वं लक्षणमुक्तम्। तस्य चोक्तन्यायेनासिद्धौ भूयोदर्शनजनितसंस्कारसहाये चरमे चेतसि मनसि वा तथाभूतं नियतत्वं परिस्फुरतीति सदयेन वक्तुमशक्यत्वात्।



यच्च शब्दतत्त्वमिव ब्राह्मणत्वमिवेति दृष्टान्तीकृतं तद्‍द्वयमप्यस्मान् प्रत्यसिद्धमिति दृष्टान्तयितुमनुचितम्। अभिजातमणिभेदतत्त्वं तु परिस्फुरतीति युक्तम्। तस्य ह्युपदेशपरम्परातो माणिक्यवत्तेनापि कष्टेनेन्द्रधनुराकारज्योतिरादिकं लक्षणं निश्चितम्। न चैवं स्वाभाविकसंबन्धलक्षणं त्वया स्वकपोलरचितमपि प्रमाणेन निश्चितम्। येनास्यापि तादृशी व्यवस्था स्यादिति यत्किञ्चिदेतत्॥



किं च भवतु तावदयमनवधारितरूपः स्वाभाविकः संबन्धः, तथापि दर्शनादर्शनाभ्यामस्य ग्रहणमतिदुर्लभम्। तथा हि यदि प्राचीनानेकदर्शनजनितसंस्कारसहायेन चरमचेतसा धूमस्याग्निनियतत्वं ग्राह्यं तदा सपक्षासपक्षयोः कोटिशः प्रवृत्तदर्शनादर्शनजनितसंस्कारसहायेन चरमचेतसा पार्थिवत्वस्यापि लोहलेख्यत्वनियतत्वं गृह्यत इति पार्थिवत्वादपि लोहलेख्यत्वसिद्धिरस्तु। अथ पार्थिवत्वस्य लोहलेख्यत्वनियतत्वमेव नास्ति वज्रे व्याभिचारदर्शनात्। तत् कथं प्रत्यक्षेण नियतत्वग्रहः। तर्हि धूमस्य वह्निनियतत्वमेव नास्ति, व्यभिचाराभावस्य दर्शयितुमशक्यत्वात्। तत्कथं चरमचित्तेन नियमग्रह इत्यपि तुल्यम्।



व्यभिचारादर्शनादव्यभिचार इति चेत्। ननु व्यभिचारादर्शनादव्यभिचार इति कोऽर्थः। किं व्यभिचारादर्शनादव्यभिचारः, व्यभिचाराभावात् वा। प्रथमे पक्षे व्यभिचारो भवतु मा वा व्यभिचारादर्शनादेवाव्यभिचार इति निष्णातं पाण्डित्यम्। अथ द्वितीयः पक्षः। तदा व्यभिचाराभावः कुतो ज्ञातः। अदर्शनादिति चेत्। तत् किमदर्शनमात्रं दृश्यादर्शनं वा। प्रथममशक्तम्। न ह्यदर्शनेऽपि व्यभिचारो नास्तीत्यभिधातुं शक्यते, चिरकालनष्टब्राह्मणीव्यभिचारवत्। आहत्यादर्शनेऽप्यतिचिरकालव्यवधानेन व्यभिचारदर्शनात्। द्वितीयं चासम्भवि, क्वचित् कदाचित् केनचिद् व्यभिचारदर्शनसामग्र्यां सत्यां व्यभिचारदर्शनात्। दर्शनसामग्र्यभावे तु प्रत्ययान्तरवैकल्यात् देशकालान्तरवर्तित्वाद् वा व्यभिचारस्य स(र्वं) प्रत्युपलब्धिलक्षणप्राप्तत्वाभावात्। तस्मात् सत्यपि व्यभिचारे तदुपलम्भसामग्र्यभावाद् व्यभिचारानुपलम्भः। प्रकारान्तरेण वा तदुत्पत्तिलक्षणेनाव्यभिचारे व्यभिचारानुपलम्भ इत्युभयथापि व्यभिचारोपलम्भनिवृत्तिरस्तु। त्वया तु यदव्यभिचारप्रतिपत्तिनिबन्धनं दर्शनादर्शनमुपवर्णितं तत्पार्थिवत्वादौ व्यभिचाराद् धूमेऽपि नाव्यभिचारनिबन्धनमिति धूमोऽपि त्वन्मते नाश्वासभाजनमिति प्रसक्तम्।



अस्मन्मते तु प्रत्यक्षानुपलम्भाभ्यामेकत्र कार्यकारणभावसिद्धौ न व्यभिचारशङ्कासंभवः। तदभावे तु



हेतुमत्तां विलङ्घयेदिति



न्यायात् न संशयपिशाचावसरः। तदेवं भूयोदर्शनादर्शनाभ्यामपि न व्याप्तिसिद्धिः।



तर्हि सकृत् सपक्षासपक्षयोदर्शनार्दनाभ्यां व्याप्तेर्निश्चय इति चतुर्थ एव पक्षोऽस्तु। तथा हि कार्यत्वस्य बुद्धिमन्मात्रपूर्वकत्वेनान्वयो घटादौ दृष्टः, आकाशादौ बुद्धिमत्कारणनिवृत्तौ कार्यत्वस्य व्यतिरेकः। ततश्च सकृदन्वयव्यातिरेक सिद्धौ व्याप्तेः सिद्धत्वात् कुतोऽनैकान्तिकता।



अत्राभिधीयते। यदि बुद्धिमत्कारणकार्यत्वयोरेकत्र प्रतिबन्धः प्रमाणप्रतीतः स्यात्तदा आकाशादौ बुद्धिमन्निवृत्तौ कार्यत्वस्य निवृत्तिरिति युक्तम्। स च प्रतिबन्धः तादात्म्यं तदुत्पत्तिः स्वाभाविकोऽन्यो वा न सिध्यति साधकप्रमाणाभावादित्यनन्तरमेवावेदितम्। ततश्चाकाशादौ बुद्धिमन्निवृत्तिरपि स्यात्। न च कार्यत्वस्य निवृत्तिरिति सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकं कार्यत्वम्।



नन्वाकाशस्यास्मन्मते नित्यत्वं त्वन्मते चासत्त्वम्। तत्कथमतः कार्यत्वव्यतिरेकः सन्दिग्ध इति चेत्। उच्यते। नह्याकाशे कार्यव्यावृत्तिमात्रं व्यतिरेकः। किन्तु साध्याभावप्रयुक्तः साधनाभावो व्यतिरेकः। स चाकाशे ग्रहीतुमशक्यः। यथा तत्र बुद्धिमत्कारणनिवृत्तिस्तथा कारणमात्रस्यापि निवृत्तिः। तत् कस्याभावप्रयुक्तः कार्याभावः प्रतीयतां येन व्यतिरेकः सिध्यति ॥



ननु सत्यमेवैतत्। यथाकाशे बुद्धिमत्कारणनिवृत्तिस्तथा कारणमात्रस्यापि तत्र निवृत्तिर्न बुद्धिमत्कारणव्यतिरेकानुविधायित्वं कार्यत्वस्य निश्चेतुं शक्यते। तथापि घटादौ कार्यत्वस्य बुद्धिमतान्ययदर्शनादाकाशेऽपि बुद्धिमदभावप्रयुक्तः कार्यत्वाभावः प्रतीयते। तत्कथं व्यतिरेकासिद्धिरिति चेत्। हन्त घटादावपि न कार्यत्वस्य सत्तामात्रमन्वयः। किं तु साध्यसद्भावप्रयुक्तः साधनसद्भावः। स च घटे ग्रहीतुमशक्यः। यथा हि तत्र बुद्धिमद्भावस्तथा कटकुड्यादिभावोऽपि। तत् क एवं जानातु किं बुद्धिमद्भावे कार्यत्वस्य भावो यद्वा कटकुड्यादिभावे भाव इति। तस्मादत्र विशिष्टान्वयव्यतिरेकग्रहणप्रवणविशिष्टप्रत्यक्षानुपलम्भावनुसर्तव्यौ यद् दृश्ययोरेव कार्यकारणयोस्तदुत्पत्तिसिद्धावन्वयव्यतिरेकौ सिध्यतः॥



न च प्रतिबन्धसाधकं प्रमाणं स्वप्नेऽप्यस्तीति चतुर्थोऽपि पक्षः क्षतः। तदेवं बुद्धिमत्कार्यमात्रयोर्व्याप्तेरसिद्धावधिकरणसिद्धान्त न्यायाद्युपादानाद्यभिज्ञः सर्वज्ञः पुरुषविशेषः सिध्यतीति प्रत्याशा दुराशैव॥



यच्च क्रियासामान्यस्य पक्षधर्मतावशाच्चक्षुर्लक्षणकरणविशेषसिद्धिरिति दृष्टान्तो दर्शितः सोऽपि साध्या(भि)न्नः। तत्र हि रूपज्ञानान्यथानुपपत्त्या सिद्धस्य कारणान्तरस्यैव चक्षुरिन्द्रियमिति नामकरणात्। रूपज्ञानजनकत्वातिरिक्तस्य चक्षुर्लक्षणविशेषस्यासिद्धत्वात्। अथ रूपज्ञानजनकत्वमेव चक्षुष्ट्वमुच्यते। भवतु को दोषः। एतदेवास्माभि कारणान्तरमुच्यते। तथैव यदि त्वयापि बुद्धिमत्सामान्याश्रयमात्रस्य पुरुषविशेषः इति नाम क्रियते, तदा नास्माकं काचिद्विप्रतिपत्तिः। परमार्थतो बुद्धिमत्सामान्याश्रये सर्वज्ञत्वादिविशेषश्चक्षुरादिविशेषवत् सिध्यतीति तत्र विवदामहे। उभयोरपि दृष्टान्तदार्ष्टान्तिकयोर्विशेषसाधनसामर्थ्याभावात्॥



तदयं संक्षेपार्थः -



दृश्ये तु साध्ये व्यभिचार एव

दृश्यं न चेन्न व्यभिचारसिद्धिः।

साधारणत्वादथ वा विपक्ष-

सन्देहतः साध्यमतो न सिध्यति॥



इतीश्वरो दत्तजलाञ्जलिः॥



इदानीं साधनस्वरूपं निरूप्यते। यदेतन्मेरुमन्दरमेदिनीघटपटादिसाधारणं कार्यमात्रं साधनमुपन्यस्तम् यावदस्य बुद्धिमदन्वयव्यतिरेकानुविधानमेकत्र नावधार्यते तावद् गमकत्वमयुक्तम्। न च तत् स्वप्नेऽपि प्रत्येतुं शक्यम्। तथा हि कुम्भकारव्यापारे सति मृत्पिण्डाद् घटलक्षणं कार्यमुपलभ्यतां नाम। न तु व्यापारात् पूर्वं घटवत्कार्यमात्रस्य व्यतिरेकः प्रत्येतुं शक्यः, कुम्भकारव्यतिरेकेऽपि शोषभङ्गादिलक्षणस्य कार्यस्य मृत्पिण्डे दर्शनात्। न च यद्विनाभूतं यदुपलभ्यते तत्तस्य कार्यमतिप्रसङ्गात्। तृणादिवन्मृत्पिण्डस्य शोषभङ्गादिकार्यमात्रमपि पक्षीकृतमिति चेत्। क्रियतां बुद्धिमद्‍व्यतिरेके कार्यमात्रव्यतिरेकस्त्वेकत्रापि प्रतिपाद्यतां येन व्याप्तिसिद्धौ तृणादिरिव शोषभङ्गादेरपि बुद्धिमदनुमानं स्यात्। आकाशादिवैधर्म्यदृष्टान्तस्तु पूर्वं प्रतिहतः, बुद्धिमत्पूर्वकत्वस्येव कारणमात्रपूर्वकत्वस्यापि तत्र संभवात् किंप्रयुक्तः कार्यत्वाभाव इत्यपरिज्ञानात्॥



एतेन यदुक्तम् - न व्यभिचारोपलम्भात्प्रातिस्विकविशेषपरित्यागेन घटादीनामभूत्वाभवनादन्यरूपं विशेषमुपलक्षयामो यन्निष्ठं पुरुषपूर्वकत्वं व्यवस्थापयाम इति तदपि प्रतिव्यूढम्। कुम्भकाराद्यभावेऽपि मृत्पिण्डादौ शोषभङ्गादिकार्यदर्शनादभूत्वा भावलक्षणस्य कार्यमात्रस्य व्यतिरेकासिद्धेर्व्याप्तेरभावात्॥



ननु यदि कार्यत्वमात्रस्य न बुद्धिमता प्रत्यक्षतो व्याप्तिग्रहः व्यतिरेकाभावात्, त्वयापि तर्हि कथं कृतकत्वस्यानित्यत्वेन व्याप्तिरवधार्यत इति चेत्। अनपेक्षालक्षणविपर्ययबाधकप्रमाणबलादिति ब्रूमः। तच्चातद्रूपपरावृत्तस्यैव कृतकत्वस्य विपक्षाद् व्यतिरेकं साधयति। न च त्वया विपर्ययबाधकप्रमाणमभिधातुं शक्यत इति प्रागेव प्रतिपादितम्। सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकमिदं कार्यत्वमात्रम्॥



एतेन यदेतत् नैयायिकानामाक्षेपपरिहारविडम्बनम्। इह खलु द्वे कार्यत्वे। कार्यमात्रम्। विशिष्टं च। तत्राद्यस्य प्रतिबन्धासिद्धेरनैकान्तिकत्वम्। विशिष्टस्य भूधरादिष्वसंभवादसिद्धत्वमिति। तदसङ्गतम्। कार्यत्वमात्रस्यैव प्रतिबन्धोपपादनात्॥



यच्चोक्तं विशिष्टं कार्यत्वमिति। कीदृशं पुनस्तदिति वक्तव्यम्। अथ यत्कार्यं षुरुषान्वयव्यतिरेकानुविधायितया तत्पूर्वकमुपलब्धम्। यद्‍दृष्टेरक्रियादर्शिनोऽपि कॄतबुद्धिरुत्पद्यते तत्कार्यं सकलप्रासादाद्यनुगतं भूधरादिव्यावृत्तं विशिष्टमित्यभिधीयते। तदसुन्दरम्। विकल्पानुपपत्तेः॥



तथा चाह शङ्करः - कृतबुद्धिः किं साध्यबुद्धिः किं वा साधनबुद्धिः। साध्यबुद्धिरपि यदि गृहीतव्याप्तिकस्य, सा भवत्येव। अथागृहीतव्याप्तिकस्य, किमन्यत्रापि सा भवन्ती दृष्टा। अथ साधनबुद्धिः। तर्हि स्वोपगमविरोधः, सर्वस्य भावस्य कृतकत्वोपगमादिति॥



वाचस्पतिः पुनरत्राह - इदमत्र निपुणतरं निरूपयतु भवान् किं बुद्धिमदन्वयव्यतिरेकानुविधानं विशेषः। आहोस्वित् तद्दर्शनं यत्पर्वतादिषु नास्तीत्यभिधीयते। यदि पूर्वकः कल्पः, स बुद्धिमद्धेतुकत्वं तनुभुवनादीनामातिष्ठमानैरभ्युपेयत एव। न हि कारणं कार्याननुविहितभावाभावमन्यो वक्त्यह्रीकात्। अथ तद्दर्शनमिति चरमः कल्पः। न तर्हि अक्रियादर्शिनः कृतबुद्धिसंभवः। य एव हि घटोऽनेन बुद्धिमदन्वयव्यतिरेकानुविधायी दृष्टः, स एव कार्यो न तु विपणिवर्ती। तज्जाती यस्य तदन्वयव्यतिरेकानुविधानदर्शनाददृष्टान्वयव्यतिरेकानुविधानमपि तज्जातीयं तथेति चेत्। हन्तोत्पत्तिमद्घटादि बुद्धिमदन्वयव्यतिरेकानुविधायीति अन्यदपितनुभुवनादिकं तथा भवन्न दण्डेन पराणुद्यते घटजातीयमुत्पत्तिमद्बुद्धिमत्पूर्वकमिति चेत्। ननु प्रासादादि तद्धेतुकं न भवेत्। अघटजातीयत्वात्। अथ यज्जातीयमन्वयव्यतिरेकानुविधायि दृष्टम्, तज्जातीयमेवादृष्टान्वयव्यतिरेकमपि तद्धेतुकम्। तत् किं कार्यजातीयं प्रासादादि बुद्धिमद्धेतुकं न दृष्टम् येनोत्पत्तिमत्तनुभुवनादि तथा न स्यात्। न खलु तज्जातीयत्वे कश्चिद्विशेष इति॥



वित्तोकस्त्वाह - भवतु वा कश्चिदनिरूपितरूपो विशेषः। किं पुनरनेन विशेषं प्रतिपादयताभिप्रेतम्। किं कार्यत्वसामान्यस्यासिद्धत्वम्। अथ कार्यविशेषस्य। अथ कार्यमात्रस्य बुद्धिमत्कर्तृव्यभिचारः। अथ साध्यदृष्टान्तयोर्वैधर्म्यमात्रम्। किं चातः यदि तावत् कार्यसामान्यस्यासिद्धत्वम्। तन्नास्ति। विश्वम्भरादिष्वपि कारणव्यापारजन्यत्वस्योभयसिद्धत्वात्। अथ कार्यविशेषस्य कुम्भादिवर्तिनः पक्षेऽसिद्धिरभिधीयते। तदा न काचिदत्र क्षतिर्विशेषस्य हेतुत्वेनानुपादानात्। यदि कार्यसामान्यस्य कर्तृव्यभिचारः प्रतिपादयितुमिष्टः। स न शक्यो विपक्षेऽदर्शनात्। तृणादेश्च पक्षीकृतत्वात्। शङ्कामात्रस्य सर्वथानिषिद्धत्वात्। सन्दिग्धव्यतिरेकित्वं नैयायिकानां निरनुयोज्यानुयोगो बौद्धानामदोषोद्भावनं निग्रहस्थानमिति तु प्रतिपादितम्। तथापि बाधकप्रमाणान्यभिहितान्येव। तस्मान्न प्रतिबन्धासिद्धेः सर्वत्र व्यभिचाराशङ्का। अथ साध्यदृष्टान्तयोर्वैधर्म्योद्भावनम्। तन्न। तस्य सर्वत्र सुलभत्वात्। यदि साध्यदृष्टान्तयोर्वैधर्म्यमात्रात् साध्यासिद्धिः निर्वृत्तेदानीमनुमानवार्तापि निकुञ्जमहानसयोरपि धूमवत्त्वेऽपि कथञ्चिद् वैधर्म्योपपत्तेरिति सकलं यत्किञ्चिदेतदिति।



तदयमत्र संक्षेपार्थः। यत्तावत् कार्यत्वमात्रं तदेवोक्तेन क्रमेण प्रतिबन्धसिद्धेर्भूधरादिषु दृष्टं पुरुषमनुमापयतीत्यस्माकमभिमतसाध्यमसिद्धिरुपपन्नैवेति किमस्माकमधिकचिन्तयेत्यङ्गीकृत्याप्युक्तं विशिष्टकार्यत्वम्। तदेव तु नास्तीति पुनर्विस्तरेण प्रतिपादितमिति तदपि सर्वमनवधेयमेव। तथा हि कार्यत्वमात्रस्य तावदुक्तेन क्रमेण व्याप्तेरसिद्धत्वादनैकान्तिकत्वमनिवार्यम्। यच्च विशिष्टकार्यत्वं विकल्प्य दूषितं तस्यास्माभिरनभ्युपगतत्वात् तद्‍दूषणाय प्रबन्धः प्रयासैकफलः। न हि कार्यत्वं द्विविधमभिमतम्। एकं सर्वकार्यानुगतम्, अपरं पर्वतादिव्यावृत्तं घटपटप्रासादाद्यनुयायीति। किं तु कार्यमनेकजातीयकम्। तत्र यदि नाम पटस्य प्रासादादिभिः सह वस्तुत्वसंस्थानविशेषयोगित्वकार्यत्वादिभिर्धर्मैः सजातीयत्वमस्ति तथापि न तान् धर्मान् बुद्धिमत्पूर्वकानधिगच्छति व्यावहारिकं प्रत्यक्षम्, कार्यत्वादीनां बुद्धिमद्‍व्यतिरेकानुविधानाभावात्। तत्कथं प्रासादपर्वतादिषु कार्यत्वादिदर्शनाद् बुद्धिमदनुमानमस्तु। किं तु यस्यैव घटजातीय कार्यंचक्रस्य व्यतिरेकसिद्धिस्तस्य बुद्धिमद्‍व्याप्तत्वं प्रत्यक्षतः सिध्यतीत्युक्तम्। तेन देशकालान्तरे घटजातीयादेव बुद्धिमदनुमानम्। यदा तु प्रासादजातीयकमपि बुद्धिमद्धेतुकमेकत्र पृथगवधार्यते तदा तज्जातीयादपि बुद्धिमत्सिद्धिः। एवं तत्तज्जातीयसराबोदञ्चनशकटपटकेयूरप्रभृतेः कार्यचक्राद् बुद्धिमत्पूर्वकत्वेन पृथक् पृथगवधारिताद् बुद्धिमदनुमानमनवद्यम्।



अमुमेवार्थमभिसन्धायाचार्यपादैरभिहितम्-

सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत्।

सन्निवेशादि तद्युक्तं तस्माद् यदनुमीयते॥



इति। एवं घटपटपर्वतादीनां कार्यत्ववस्तुत्वादिभिर्धर्मैः सजातीयत्वेऽपि अवान्तरं घटपटपर्वतत्वादिजातिभेदमादाय लोकस्य व्याप्तिग्राहकं प्रत्यक्षं प्रवर्ततं इति दर्शयितुं संव्यवहारप्रगल्भपुरुषबुद्ध्यपेक्षया यद्दर्शनादक्रियादर्शिनोऽपि कृतबुद्धिर्भवतीत्युक्तम्। न तु शास्त्रपरवशबुद्धिपुरुषापेक्षया। तथा हि शास्त्रसंस्काररहितस्य व्यवहारप्रगल्भस्य पुरुषस्य देवकुलजातीयकं पुरुषपूर्वकतयावधारितवतो नगराद्वनं प्रविष्टस्य पर्वतदेवकुलयोर्दर्शने तयोर्द्वयोरप्यक्रियादर्शिनोऽपि देवकुले कृतबुद्धिर्भवति न पर्वते। तदनयोर्देवकुलपर्वतयोः कार्यत्वादिना एकजातित्वेऽपि कृतबुद्धिभावाभावौ न तयोः पर्वतदेवकुलत्वलक्षणावान्तरजातिभेदमनवस्थाप्य स्थातुं प्रभवतः। जातिभेदे च सिद्धे देवकुलजातीये व्याप्तेर्ग्रहणात् न पर्वतजातीयस्य, न च प्रासादजातीयस्य व्याप्तिसिद्धिरिति न ततो बुद्धिमदनुमानम्। यदा तु प्रासादस्यापि पृथग् व्याप्तिग्रहः तदा तज्जातीयादपि बुद्धिमदनुमानमस्तु। न क्षितिधरादिजातीयस्य स्वप्नेऽपि व्याप्तिग्रहः क्रीडापर्वतादेर्नाममात्राभेदेऽपि पर्वतादिभिरेकान्ततो भिन्नस्वरूपत्वात्। यच्च पृष्टं केयं कृतबुद्धिरित्यादि। तत्र कामं साध्यबुद्धिरेवेति ब्रूमः। यच्चात्रोक्तं साध्यबुद्धिरपि यदि गृहीतव्याप्तिकस्य सा भवत्येव। अथागृहीतव्याप्तिकस्य किमन्यत्रापि सा भवन्ती दृष्टेति॥



अत्रोच्यते। गृहीतव्याप्तिकस्यानुमानं भवति, अगृहीतव्याप्तिकस्य न भवतीत्यत्रास्माकं न काचिद्विप्रतिपत्तिः। केवलं गृहीतव्याप्तिकोस्मिन् विषये न संभवतीति ब्रूमः। उक्तक्रमेण व्यतिरेकासिद्धेर्व्यावहारिकप्रत्यक्षेण कार्यत्वस्य व्याप्तत्वानिश्चयात्। तस्मादवान्तरजातिभेदप्रसिद्ध्यर्थं व्यावहारिकपुरुषापेक्षयैवास्या बुद्धेर्भावाभावावुक्तौ। जातिभेदे च प्रयोजनं पूर्वमेव प्रतिपादितम्।



यदप्यत्र निपुणम्मन्येन वाचस्पतिना कथितं तत् किं कार्यजातीयं प्रासादादि बुद्धिमद्धेतुकं न दृष्टं येनोत्पत्तिमत्तनुभुवनादि तथा न स्यात्, न खलु तज्जातीयकत्वे कश्चिद्विशेष इति। तदसङ्गतम्। तथा हि भवतु प्रासादपर्वतादीनां कार्यत्वादिना सजातीयत्वम्। तत्तु न व्यावहारिकप्रत्यक्षेण बुद्धिमद्‍व्याप्तं प्रत्येतुं शक्यम्, व्याप्तिग्रहणसमये दृष्टान्ते बुद्धिमदभावप्रयुक्तस्य कार्यमात्रव्यतिरेकस्य दर्शयितुमशक्यत्वात्।



तदयं संक्षेपार्थः। कार्यत्वमात्रस्याव्यतिरेकादव्याप्तस्यागमकत्वम्। अवान्तरं तु घटप्रासादादिसाधारणं कार्यत्वमात्रमस्माभिरपि न स्वीकृतमेव। यथा तु घटत्वपटत्वादिप्रातिस्विकानेकजातिपुरस्कारेण प्रसिद्धानुमानव्यवस्था सा चानवद्यमवस्थापितेति।



संप्रति साध्यात्मा विचार्यते। ननु वादिना साधने समुपन्यस्ते तद्‍दूषणोपन्यासमपास्य साध्यस्वरूपविकल्पनं नाम नैयायिकमते निरनुयोज्यानुयोगः, सौगतमते त्वदोषोद्भावनं निग्रहस्थानमिति चेत्। तदेतज्जाल्मजल्पितम्। तथा हि साध्यस्वरूपेऽपरिनिष्ठिते तदनुसारिणी पक्षसपक्षविपक्षव्यवस्था कुतः। तदसिद्धौ चासिद्धतादयो दोषाः पक्षधर्मतादयश्च गुणा न व्यवस्थिता इत्युक्तम्। नेदानीं हेतोर्दोष गुणकथेति मूकेन प्रतिवादिना स्थातव्यम्। तस्माद्धेतुदोषोपन्यासायैवेयं साध्यनिरुक्तिरित्ययमेव वादी स्वमते निरनुयोज्यानुयोगदूषणेन निग्रहस्थानेन निगृह्यत इति किमत्र निर्बन्धेन।



यदेतत् कार्यत्वं साधनं किमनेन विश्वस्य बुद्धिमन्मात्रपूर्वकत्वं साध्यते। आहोस्विदेकत्वविभुत्वसर्वज्ञत्वनित्यत्वादिगुणविशिष्टबुद्धिमत्पूर्वकत्वम्। प्रथमपक्षे सिद्धसाधनम्। द्वितीये तु व्याप्तेरभावादनैकान्तिकता।



ननु सामान्येन व्याप्तौ प्रतीतायामपि पक्षधर्मताबलाद् विशेषसिद्धिः। यथाग्नेः पर्वतायोगव्यवच्छेदादिसिद्धिः। अन्यथा सर्वानुमानोच्छेदः। अनुमानद्वेषी ह्येवं जल्पति -



अनुमानभङ्गपङ्केऽस्मिन् निमग्ना वादिदन्तिनः।

विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यता॥



अत्रोच्यते। सिध्यत्येव पक्षधर्मताबलतो विशेषः। न तु सर्वः । येन हि विना पक्षस्थं साधनं नोपपद्यते स विशेषः सिध्यतु। यथा वह्नेरेव पर्वतवर्तित्वादिविशेषो न पञ्चवर्णशिखाकलापकमनीयः। न च गिरीणां तरूणां कार्यत्वं कर्तुरेकत्वविभुत्वसर्वज्ञत्वादिकमन्तरेण नोपपद्यते, तदितरेष्वपि दर्शनात्। तस्मात्



पक्षायोगव्यवच्छेदभेदमात्रे न दूषणम्।

इष्टसिद्ध्यन्वयाभावादतिरिक्ते तु दूषणम्॥



यद्येवं स्वस्वरूपोपादानोपकरणसंप्रदानप्रयोजनाभिज्ञ एव कर्ता साध्यते। स्वरूपमिह च द्वयणुकं कार्यम्। उपादानमिह परमाणुजातिचतुष्टयम्। उपकरणं समस्तक्षेत्रज्ञसमवायिधर्माधर्मौ। सम्प्रदानं क्षेत्रज्ञाः, यानयं भगवान् स्वकर्मभिरभिप्रैति। प्रयोजनं सुखदुःखोपभोगः क्षेत्रज्ञानाम्। एवं भूते बुद्धिमति साध्ये कुतः सिद्धसाधनम्। न चाव्याप्तिः। कुलालदृष्टान्तेन उदापानद्यभिज्ञत्वस्य संभवात्।



तथा च वाचस्पतिः प्रमाणयति -

विवादाध्यासितास्तनुगिरिसागरादयः उपादानाद्यभिज्ञकर्तृकाः। कार्यत्वात्।

यद्यत्कार्य तत्तदुपादानाद्यभिज्ञकर्तृकम्। यथा प्रासादादि।

तथा च विवादाध्यासितास्तन्वादयः।

तस्मात्तथेति।



एवमतः साधनादुपादानाद्यभिज्ञकर्तृमात्रं प्रसाध्य तस्य सर्वज्ञत्वसाधनाय वाचस्पतिरेव पुनरपीदमाह - भवतु तावदुपादानाद्यभिज्ञकर्तृमात्रसिद्धिः। पारिशेष्यात् तु व्यतिरेकिद्वितीयनाम्नोऽनुमानाद्विशेषसिद्धिः। तथा हि



तनुभुवनाद्युपादानद्यभिज्ञः कर्ता नाऽनित्यासर्वविषयबुद्धिमान्।

तत्कर्तुस्तदुपादानाद्यनभिज्ञत्वप्रसङ्गात्।

न ह्येवंविधस्तदुपादानाद्यभिज्ञो यथाऽस्मदादिः।

तदुपादानाद्यभिज्ञश्चायम्।

तस्मात्तथेति।



नो खलु परमाणुभेदान् क्षेत्रज्ञसमवायिनश्च कर्माशयभेदानपरिमेयानन्यः शक्तो ज्ञातुमृते तादृगीश्वरादिति।



अत्रोच्यते। यावन्ति द्वयणुकानि भिन्नदेशकालस्वभावानि कार्याणि सन्ति तेषु सर्वेष्वेव किमेक एव बुद्धिमान् व्याप्रियते। अनेको वा। यद्वा स्वस्वविषयमात्रोपादानादिवेदिनः परस्परव्यापारानभिज्ञा भिन्नदेशकालस्वभावाः प्रतिद्वयणुकमन्य एव बुद्धिमन्तो व्याप्रियन्ते इति त्रयः पक्षाः।



न तावत् प्रथमपक्षः। देशकालस्वभावभिन्नानां सर्वेषां द्वयणुकानां कर्तुरेकत्वासिद्धेः। यच्चैकत्वसाधनाय कार्यलिङ्गाविशेषादित्याद्यपि साधनमुपन्यस्तं तदसङ्गतम्। धूमलिङ्गाविशेषेऽपि ह्यग्नेरनेकत्ववत् तत्रापि तच्छङ्कासंभवात्। सदिति लिङ्गाविशेषादिति तु दृष्टान्तोऽस्मान् प्रत्यसिद्ध एव, तस्माद् यथा मया नानात्वसाधनाय प्रमाणं वक्तव्यं तथा त्वयाप्येकत्वसाधनाय साधनमभिधानीयम्।



अथ मन्यते अनेकत्वसाधनाभावादेकत्वसिद्धिरिति। यद्येवमेकत्वसाधनाभावादनेकत्वमेव किं नावगच्छसि।



यदप्युक्तम् - एकत्वे तु न प्रमाणान्तरमन्वेष्टव्यमेकस्य कर्तुरभावे बहूनां व्याहतमनसामित्यादि। तदपि चिन्त्यताम्। बहुभिः करणे युगपत्कार्यानुत्पत्तिरिति किं भिन्नदेशकालानां कार्याणामनुत्पत्तिर्विवक्षिता। एकस्यैव वा महावयविनः। क्षितिघटादिरूपस्य। तत्र एकस्मिन्नपि कार्ये बहुभिः करणे उत्पत्तिविरोधि (नं) न पश्यामः। बहूनां परस्परं वैमत्यनियमाभावात्। परस्पराव्याघातपुरुषत्वयोर्द्विविधस्यापि विरोधस्यासंभवात्। पुरुषत्वं हि अपुरुषत्वेन विरुद्धम्। न तु परस्पराव्याघातेन।



ये त्वनन्तदेशकालस्वभावभेदभिन्नास्तेषु सुतरामेवानेकव्यापारनिषेधोऽसम्भवीति द्वितीयोपि पक्षो व्युदस्तः। न च कर्तुरेकत्वेन दृष्टा व्याप्तिसिद्धिः। अनेकेनापि स्वतन्त्रेण स्वस्वप्रयोजनार्थिना ग्रामप्रविष्टहरिणादिमारणैककार्यदर्शनात्। तस्यापि पक्षीकरणे एककर्तृपूर्वकाभिमतस्यापि पक्षीकरणे आत्मकर्तृपूर्वकत्वमस्तु। तदेवं न सर्वद्वयणुकानां कर्तुरेकत्वसिद्धिः। तथा चोक्तम्



एककर्तुर्न सिद्धौ तु सर्वज्ञत्वं किमाश्रयम्।



अत एव द्वितीयोऽपि पक्षः क्षीणः।सर्वेषु द्वयणुकेष्वेकस्यापि कर्तुरप्रवृत्तौ बहूनां सुतरामप्रवृत्तेः।



तृतीयस्तु पक्षो यदि भवेद् तदा स्वस्वव्यापारविषयमात्रोपादानाद्यभिज्ञत्वेऽपि नैकः कश्चित् सर्वज्ञः सिध्यति। न च ज्ञानं सत्तामात्रेण कतिपयातीन्द्रियदर्शनवत् सर्वार्थग्रहणं येन तदभेदात् प्रस्तुतपरमाणूवत् सर्वस्यैवाविशेषेण ग्रहणात् सर्वज्ञता स्यात्। अनुमानतो हि कतिपयातीन्द्रियदर्शने सिद्धेऽपीश्वरस्य तत्कारणयोगित्वं निश्चीयते। न तु ज्ञानसत्तामात्रेण प्रकारान्तरेणेति निश्चय इति कुतः सर्वज्ञता।



नन्वतीन्द्रियं परमाण्वादिकं जानतो न कथं सार्वज्ञ्यमिति चेत्। तत् किमिदानीमसर्वदर्शित्वेष्वतीन्द्रियदर्शनमात्रेण सर्वज्ञताप्रत्याशा। एवमेवेति चेत्। हन्त यदि नाम न्यायविहस्तेन त्वया ईदृशो हस्तसमारचितः सर्वज्ञः परिभावितस्तथाप्यन्येषामपारदूरदेशकालवर्तिनां द्वयणुकादीनामुपादानादिषु जनुषान्धप्रख्यस्य परमपुरुषार्थावेदिनो वा लोकैः प्रामाणिकैश्च नास्य सार्वज्ञ्यमनुमन्यते॥



अस्माकन्तु नातीन्द्रियदर्शिमात्रे प्रद्वेषः। एवं च कर्तुरेकत्वासिद्धौ व्यतिरेक्यपि हेतुरसमर्थः विश्वेषामेकस्य कर्तुरसिद्धौ तदुपादानाद्यभिज्ञभावस्या सिद्धत्वात्। यश्च यन्मात्रकारः स तन्मात्रोपादानाद्यभिज्ञो भवन्न सर्वज्ञः। अनेकाश्रयेणापि उपादानाद्यभिज्ञसामान्यस्य चरितार्थत्वात्। तदेवमुपादानाद्यभिज्ञपुरुषमात्रसिद्धावपि नैकत्वसर्वज्ञत्वादिविशिष्टपुरुषविशेषसिद्धिः। पुरुषमात्रे च सिद्धसाधनमुक्तम्। बुद्धिमन्मात्रपूर्वकतामिच्छतामुपादानाद्यभिज्ञबुद्धिमत्पूर्वकत्वे साध्ये कथं सिद्धसाधनमिति चेत्। न तदपेक्षया सिद्धसाध्यताया जनितत्वात् केवलमसिद्धोद्धारेऽभिमते विशेषे सिद्धेऽपि नैयायिकस्यापि नाभिमतसिद्धिरिति ब्रूमः॥



सौगतस्य तावदनिष्टसिद्धिरिति चेत्, न, स्वाभिमतसाध्यसाधनेनैव हि परस्यानिष्टमपि साधनीयम्। अन्यथा मातृशोकस्मरणादिनापि तदनिष्टसिद्धिः स्यादिति। अस्य संग्रहः



परेष्टसिद्धिर्नपरेष्टबाधकं

प्रसाधने वेदनयत्नमात्रयोः।

अनन्वयोऽभीष्टविशेषसाधने

विपक्षसन्देहसहन्तु साधनम्॥

साध्यचिन्ताधिकारस्तृतीयः॥



एवमन्येऽपि हेतवो यथायोगमभ्युह्य दूषणीयाः। तदेवं तावदीश्वरस्य सद्‍व्यवहारो निषिद्धः। असद्‍व्यवहारार्थन्तु तल्लक्षणविलक्षणक्षणभङ्गसाधकं सत्तादिसाधनमेव द्रष्टव्यमिति॥



इत्यबोधजनकर्तृविकल्प

व्यापि मोहतिमिरप्रतिरोधि।

रत्नकीर्तिरचनामलरम्य

ज्योतिरस्तु चिरमप्रतिरोधि॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project