Digital Sanskrit Buddhist Canon

1 सर्वज्ञसिद्धिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1 sarvajñasiddhiḥ

रत्नकीर्ति निबन्धावली

॥ १॥

॥सर्वज्ञसिद्धिः॥



नमस्तारायै

यस्मिन्नवज्ञा नरकप्रसूति-

र्भक्तिश्च सर्वाभिमतप्रदायिनी।

अव्याहतं यो जगदेकबन्धुः

स ज्ञायते सर्वविदत्र निर्मलम्॥



इह हि धर्मज्ञादपरम नवशेषज्ञमनिच्छन्नपि कुमारिलो धर्मज्ञ एव केवले प्रतिषिद्धे वेदमुपादेयमभिमन्यमानः पठति



धर्मज्ञत्वनिषेधस्तु केवलोऽत्रोपयुज्यते।

सर्वमन्यद्विजानंस्तु पुरुषः केन वार्यते॥ इति।



तदयमाचार्योऽपि सर्वसर्वज्ञचरणरेणुसनाथं यावदाकाशं जगदिच्छन्नपि त्रिभुवनचूडामणीभूतसपरिकरहेयोपादेयतत्त्वज्ञपुरुषपुण्डरीकप्रसाधनादप्यप्रमाणकजडवैदिकशब्दराशिप्रमुखसकलदुर्मतिप्रवादप्रतिहतिरित्यन्तर्नयन्नाह



हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः।

यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः॥ इत्यादि॥



तदिदानीमुपयुक्तसर्वज्ञमेव तावत् प्रसाधयामः। पर्यन्ते तु सर्वसर्वज्ञदोहदमप्यपनेष्यामः। स्वास्थ्यमास्थीयताम्।



यो यः सादरनिरन्तरदीर्घकालाभ्याससहितचेतोगुणः स सर्वः स्फुटीभावयोग्यः।



यथा युवत्याकारः कामिनः पुरुषस्य।



यथोक्ताभ्याससहितचेतोगुणाश्वामी चतुरार्यसत्यविषया आकारा इति स्वभावो हेतुः।



तत्र न तावदाश्रयद्वारेण हेतुद्वारेण वासिद्धिसंभावना। संकल्परूढानां चतुरार्यसत्याकाराणां चेतोगुणत्वमात्रस्य च हेतोः प्रत्यात्मवेद्यत्वात्। नापि सादरनिरन्तरदीर्घकालाभ्यासलक्षणं हेतुविशेषणमसंभावनीयम्। तथा हि संसारस्वभावं दुःखातिशयमपनेतुमियं संकल्पारूढा चतुरार्यसत्याकारभावना प्रारब्धा। अस्याश्चासंभावना नाम किं (१) भाव्यस्य संकल्पारूढत्वासंभवात् (२) अनर्थित्वात् (३) हेयरूपानिश्चयात् (४) हेयस्य नित्यत्वात् (५) तस्याहेतुत्वात् (६) तद्धेतोर्नित्यत्वात् (७)हेयहेत्वपरिज्ञानात् (८) तद्बाधकाभावात् (९) बाधकापरिज्ञानात् (१०) चित्तस्य दोषात्मकत्वात् (११) तस्य व्यवस्थितगुणत्वात् (१२) भवान्तराभावात् (१३) ध्वस्तदोषपुनरुद्भवाद् वेति त्रयोदश विकल्पाः॥



तत्र न तावदाद्यः पक्षः। सपरिकरहेयोपादेयात्मकस्य चतुरार्यसत्याकारस्य भाव्यस्य विकल्पारूढस्य प्रत्यात्मवेद्यत्वात्॥



नापि द्वितीयः। दुःखमात्रस्यापि परित्यागार्थित्वेन व्याप्तेः सर्वजनानुभवसिद्धत्वात्॥



नापि तृतीयः। संसारात्मनो दुःखस्वरूपस्य प्रतीतेः। कथमस्य दुःखात्मकत्वमिति चेत्। संक्षेपतः कथितं



साक्षाद्‍दुःखप्रकृति नरकं प्रेततिर्यक्खरूपं

मर्त्ये शर्म क्वचन तदपि ग्रस्तमेवासुखेन।

देवानां च क्षयमुपगते पुण्यपाथेयपिण्डे

चण्डज्वालाव्यतिकरमुचो हन्त भोगास्त एव॥ इति॥



न च चतुर्थः। वार्तमानिकपञ्चस्कन्धात्मकस्य दुःखस्योत्पाददर्शनात्॥

न च पञ्चमः। दुःखस्य कादाचित्कत्वात्॥

नापि षष्ठः। कार्यकादाचित्कत्वस्य अनित्यहेतुकत्वेन व्याप्तत्वात्॥



नापिं सप्तमः। दुःखे विपर्यासतृष्णाप्रवृतिशक्तिकर्मभिः सहितस्यात्मदृष्टिलक्षणस्य हेतोः सांसारिकपञ्चस्कन्धलक्षणकार्यान्यथानुपपत्तितो निश्चयात्। यदाहुः



अहंकारस्तावत्तदनु ममकारस्तदुभय -

प्रसूतो रागादिस्तदहितमतेर्द्वेषदहनः।

ततः शेषः क्लेशस्तत उदयिनः कर्मविसरा -

द्विसारी संसारः शरणरहितो दारुणतरः॥

तस्मात्तृष्णाविपर्यासावात्मदृष्टिपुरःसरौ।

संसारिस्कन्धजनकौ निर्णीतौ कार्यहेतुतः॥



आत्मदर्शनस्य चाविद्यात्वमात्मप्रतिक्षेपतो द्रष्टव्यम्। तदभावेऽपि क्षणभङ्गप्रस्तावे परलोकादिकमनाकुलमवस्थापितम्॥



न चाष्टमः। आत्मदृष्टिरूपायाः अविद्यायाः प्रतिपक्षभूतस्य नैरात्म्यदर्शनस्य संभवात्॥



नापिनवमः। नैरात्म्यदर्शनस्य मार्गशब्दवाच्यस्य प्रमाणतो निश्चितत्वात्॥



दशमोऽप्यसंभवी। दोषावस्थायां चित्तस्य संस्कारापेक्षत्वात्। यो हि यत्स्वभावस्तस्मिन् स्वभावे व्यवस्थितो न संस्कारमपेक्षते। यथा दोषमपनीय तपनीयमक्षयदशायामवस्थितम्। अपेक्षते च चित्तमविद्यावस्थायां संस्कारमिति व्यापकविरुद्धोपलब्धिः। प्रतिषेध्यस्य तत्स्वभावत्वस्य यद्‍व्यापकं संस्कारनिरपेक्षत्वं तद्विरुद्धं तदपेक्षत्वमिति चित्तस्य दोषात्मकत्वक्षतिः॥



एकादशोऽप्ययुक्तः । चेतसस्तत्तत्संस्कारातिशये प्रज्ञातिशयदर्शनात्॥



न च द्वादशः। परलोकप्रसाधनात्। तथा हि,



यच्चित्तं तच्चित्तान्तरं प्रतिसन्धत्ते।

यथेदानीन्तनं चित्तम्।

चित्तं च मरणकालभावीति स्वभावहेतुः।



न चार्हच्चरमचित्तेन व्यभिचारः। तस्यागममात्रतः प्रतीतत्वात्। निःक्लेशचित्तान्तरजननाद् वा। हेतोर्वा क्लेशे सतीति विशेषणादित्यनागतभवसिद्धिः। एवं यच्चित्तं तच्चित्तान्तरपूर्वकं यथेदानीन्तनं चित्तम्। चित्तं च जन्मसमयभावीत्यर्थतः कार्यहेतुरित्यतीतभवसिद्धिः॥



न च त्रयोदशः। दोषकारणस्यात्मदर्शनस्य यद्विरुद्धं नैरात्म्यदर्शनं तस्य निरुपद्रवत्वात्। भूतार्थत्वात्। स्वभावत्वाच्च। सर्वदावस्थितेः। तन्नायं विशेषणासिद्धोऽपि हेतुः। तथापी दृशोऽभ्यासो न कस्य चिद् दॄश्यत इति चेत्। न दृश्यताम्। संभावना तावदशक्यप्रतिषेधा। इदानीन्तनजनप्रवृतिश्चाव्याहतेति नापरं गम्यते। अत एवेदं संभावनानुमानमुच्यते॥



न चैष विरुद्धो हेतुः। सपक्षे कामिन्याकारे संभवात्। न चानैकान्तिकः। अभ्याससहितचेतो गुणस्फुटप्रतिभासयोः कार्यकारणयोर्घटकुम्भकारयोरिव सर्वोपसंहारेण प्रत्यक्षानुपलम्भतः कार्यकारणभावसिद्धावभ्याससहितचेतोगुणत्वस्य साधनस्य स्फुटप्रतिभासकरणयोग्यतया व्याप्तिसिद्धेः। तथा हि व्याप्त्यधिकरणे कामातुरवर्तिनि युवत्याकारे सादरनिरन्तरदीर्घकालाभ्याससहितचेतोगुणात् पूर्वमनुपलब्धिः स्फुटाभस्य। पश्चादभ्याससंवेदनं स्फुटाभसंवेदनमिति। त्रिविधप्रत्यक्षानुपलम्भसाध्यः कार्यकारणभावः स्फुटप्रतिभासाभ्याससचिवचित्ताकारयोरियमुपपन्ना सर्वोपसंहारवती व्याप्तिः। अतोऽनैकान्तिकताप्यसंभविनीत्यनवद्यो हेतुः॥



ननु कथमनुमानतः सर्वज्ञसिद्धिप्रत्याशा। तस्य परोक्षत्वेन तत्प्रतिबद्धलिङ्गा निश्चयात्।किं च सर्वज्ञसत्तासाधने सर्वो हेतुर्न त्रयीं दोषजातिमतिपतति। सर्वज्ञे हि धर्मिण्यसिद्धत्वम्। असर्वज्ञे हि विरुद्धत्वम्। उभयात्मकेप्यनैकान्तिकत्वमिति॥



अपि च अभ्यासात् कारणात्कार्यस्य स्फुटाभस्य प्रतीतौ नावश्यं कारणानि कार्यवन्ति भवन्तीत्यनैकान्तिकता। अथ स्फुटीभावयोग्यतानुमीयते। सापि शक्तिरुच्यते। सा च कार्येऽनन्तरा सान्तरा वा। तत्राद्या कार्यसमधिगम्या। न चाधिगतकार्यस्य तया कश्चिदुपयोगः। द्वितीया तु कार्यावसायमैकान्तिकं न साधयेत्॥



न च कार्याप्रतीतौ योग्यतानिश्चयः संभवी। नापि योग्यतामात्रसाधनेकृतार्थः साघनवादी। सर्वज्ञज्ञाने कार्ये विवादस्य तादवस्थ्याद्। भवतु स्फुटीभावस्य सिद्धिः। तथापि कः प्रस्तावः सर्वज्ञविवादे साधनमारब्धवतः स्फुटत्वं चेतसः साधयितुम्॥



किं च प्रसिद्धानुमाने भूतलस्य धर्मिणः कुम्भकारघटयोरपि धर्मयोः प्रतीतत्वात् कार्यकारणभावो ग्रहीतुं शक्यत एव। प्रस्तुते तु कामातुरसन्तानवर्तिनो युवत्याकारस्य धर्मिणस्तत्प्रगताभ्यासस्फुटत्वयोरपि धर्मयोः परोक्षत्वात्। कथं कार्यकारणगृहीतिः। यथा च नैयायिकं प्रति युष्माभिरुच्यते प्रत्यक्षतो न कार्यमात्रं पुरुषव्याप्तं सिध्यति। किं त्ववान्तरमेव घटजातीयं कार्यमिति तथा नाकारमात्रमभ्यासपूर्वकं सिध्यति। किं त्ववान्तरमेव युवत्याकारसामान्यमिति व्यक्तमेव। न चाभ्यासकार्यः स्फुटीभावः। तदभावेऽपि स्वप्ने दर्शनात्॥



किं च सर्वविदोऽपि यदि चतुरार्यसत्यपरिज्ञानतः सर्वज्ञतास्थितिः, तर्हि घटादिकतिपयवस्तुज्ञानेऽपि सर्वज्ञतेति साध्वी शुद्धिः। अपि च



ज्ञानवान् मृग्यते कश्चित् तदुक्तप्रतिपत्तये।

अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः॥



इति युष्माभिरेवोच्यते। न च सर्वज्ञानवान् विशेषनिष्ठतयाधिगन्तुं शक्यते। न चास्य सत्तामात्रसिद्धौ कश्चिदुपयोगः, प्रवृत्तेरनङ्गत्वादिति सर्वमसमञ्जसम्॥



अत्रोच्यते। न वयं साक्षात्सर्वज्ञसत्ताप्रतिज्ञायां हेतुव्यापारमनुमन्यामहे। भूधराधीनवह्निसत्तावत्। किन्तु चतुरार्यसत्याकारस्वरूपे धर्मिणि स्फुटाभत्वस्य साध्यस्यायोगव्यवच्छेदार्थं पर्वतेऽग्निमात्रायोगव्यवच्छेदवत्। स्फुटाभत्वं तु कामिन्याकारादिदृष्टान्ते दृष्टमेव। तच्च पर्वतीयाग्निवत्। पक्षधर्मताबलतः सत्यचतुष्टयाधिकरणं सिध्यत् सर्वज्ञतामाचक्ष्महे। यथोक्तम्



इत्यभ्यासबलात् परिस्फुटदशाकोटिः स्फुरत् संभवी

हेयादेयतदङ्गलक्षणगुणः सर्वज्ञता सैव नः॥ इति।



तदत्राभ्याससहितचतुरार्यसत्याकारः समग्रो धर्मी सामग्र्यमभ्यासविशिष्टचेतोगुणत्वमात्रं हेतुः स्फुटीभावयोग्यतासाध्यम्। यथा साग्नित्वानग्नित्वसन्देहे पर्वतात्मा प्रमाणप्रतीतो धर्मी। तथात्रापि सर्वज्ञत्वासर्वज्ञत्वविवादेऽहि प्रत्यात्मविदितः सत्यचतुष्टयाकारो धर्मी। तस्मात् स्फुटाभत्वेन साध्येन दृष्टान्ते व्याप्तिसिद्धेरस्त्येव तत्प्रतिबद्धलिङ्गनिश्चयः। साध्यसन्देहेऽपि धर्मिणश्चतुरार्यसत्याकारस्य सिद्धेर्न त्रिविधदोषजातेरवसरः। योग्यतायाः प्रसाधनेन च कारणात् कार्यप्रतीतावनैकान्तिकत्वमित्यप्यनभ्युपगमप्रतिहतम्। योग्यता च सान्तरैव साध्यते। इयं च न गमयतु नामैकान्ततः कार्यसत्त्वम्। अनुपपद्यमानं पुनरस्य संभवमाक्षिपत्येव। तदा भाविनि कार्ये सन्देहेऽपि कारणयोग्यता निश्चीयत एव। ब्रीह्यादौ भाविफलानिश्चयेपि योग्यतानिश्चयेन प्रवृत्तेः। अन्यथा शिलाशकलादेरप्युपादानप्रसङ्गः।



तज्जातीयस्य शरावस्थपङ्कोप्तस्य सामर्थ्यमुपलब्धमिति चेत्। अत्रापि कामिन्याकारे भावनाजातीयस्य स्फुटीभावकरणयोग्यता दृष्टेति समानम्।



एवं योग्यतामात्रसाधनेनैव कृतार्थः साधनवादी। सर्वज्ञकारणभावात्तदभाववादिनां निर्दलनात्। कार्यस्य व त्रैकालिकस्य सम्भावनाप्रसाधनात्। मुत्त्क्यर्थिनां च प्रवृत्तेरविरोधात्। वादिनोऽपि तन्मात्रसाधनस्याभिप्रेतत्वात्। अत‍एव कः प्रस्तावः सर्वज्ञसत्ताविवादे स्फुटीभावसाधनस्येत्याद्यप्यनवकाशम्। सर्वज्ञशब्देन स्फुटीभावयोग्यताया विवक्षितत्वात्। तथा कार्यकारणप्रतीतिरपि संभवत्येव। तथा हि कामिन्यभ्याससन्ततिसहचारि संभ्रमकायवचोदर्शनमेव कामिन्याकारस्य तद्भावनायाश्च दर्शनम्। तथाभूतकायवचोऽदर्शनमेव भावनाया अदर्शनम्। एवं स्फुटप्रतिभाससन्ततिसहचारिविशिष्टकायवचोदर्शनं स्फुटप्रतिभासदर्शनम्। तथावस्थितकायवचोऽदर्शनमेव स्फुटप्रतिभासादर्शनमित्यस्त्येव प्रस्तुतेऽपि प्रत्यक्षानुपलम्भतः कार्यकारणभावप्रतीतिः। इयं च तथावस्थकामातुरशरीरवचनग्रहणे तदेकदेशभूतयुवत्याकाराभ्यासस्फुटप्रतिभासग्रहणव्यवस्था व्यावहारिकेणावश्यं स्वीकर्तव्या। अन्यथा चित्यचैत्यरूपरसगन्धस्पर्शपरमाणुपुञ्जाद्यात्मकस्य कुम्भकारघटप्रदेशादेरपि रूपैकदेशग्राहकं चक्षुःप्रत्यक्षं न समुदायव्यवस्थापकमिति सर्वव्यावहारिकप्रमाणोच्छेदप्रसङ्गः। तथा बाह्यघटकामिन्यादीनां शक्तिकृतस्य महतो जातिभेदस्य संभवादन्यजातीयव्याप्तिग्रहेऽन्यजातीयाद् बुद्धिमदनुमानमयुक्तम्। संकल्पारूढानां तु जलज्वलनयुवत्याकारादीनां बाह्यत्वेनाध्यस्तानामपि विज्ञानैकस्वरूपतयैकजातीयत्वमस्तीति भावनासहिताकारमात्रेणैव वैशद्यव्याप्तिरस्तु॥



न च स्वप्ने स्फुटताव्यभिचारः। भावनासिद्धलक्षणयोर्हेत्वोर्जातिभेदे तत्कार्ययोरेकत्वाभिमानेऽपि जातिभेदस्यावश्यं स्वीकर्तव्यत्वात्। दृश्यते हि सिद्धसाध्या वैशद्यजातिरनपेक्ष्य विपरीतभावनां निद्राविच्छेदे विच्छिद्यमाना। भावनाभाविनी तु न विना विपक्षाभ्यासं जाग्रतोऽपि यदाहुः



स्वप्नेऽपि स्फुटता तथैव न तथाप्येकत्वमेवानयो -

र्न प्राकारसमत्वमेव समतां जातेः समामंगति।

अन्यन्निधनिरोधबाध्यमितरद्‍बाध्यं प्रयत्नैः पुन-

र्वैशद्यं विपरीतभावनबलान् नैर्घृण्यभेदे यथा॥ इति॥



यदपि घटादिकतिपयज्ञानेऽपि सर्वज्ञः स्यादित्युक्तम्। तत्रापि



घटादिप्रकृताशेषवेदनेऽपि भयं भवा -

द्धीयेत् यदि को दोषः सोऽपि सर्वज्ञतां व्रजेत्।



संसारदुःखमोक्षाय स्पृहयन्तो वयं पुन -

र्भजेम तदुपायज्ञं स्थातुं तद्गीतवर्त्मनि॥



इत्युत्तरं द्रष्टव्यम्। तथा सत्तामात्रे विप्रतिपन्नान् प्रति सत्तैव केवला प्रसाधिता। विशेषजिज्ञासायां तु प्रमाणोपपन्नक्षणिकनैरात्म्यवादिन एव सुगतस्य भगवतः सर्वज्ञता।



अत एतदपि निरस्तं यदाह भट्टः

सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा।

अथोभावपि सर्वज्ञौ मतभेदः कथं तयोः॥ इति॥



तस्मात्

उक्तक्रमेण मुनिराजनये प्रमायाः

शक्तिर्व्यनक्ति गतिमप्रमितां कृपां च।

अन्यत्र तु द्वयमुदस्तमदोऽस्तमाने

तेनैक एव शरणं स निरात्मवादी॥



इति विशेषसिद्धिरप्यनवद्येति सर्वमनाकुलमाकुलाधयः परे न प्रतिपद्यन्ते। साधनेऽस्मिन्नवद्येऽपि दुर्नीतिदहनदग्धबुद्धयः पुनरप्येतदाचक्षते। बाधकप्रमाणसद्भावात् सर्वज्ञस्यासद्‍व्यवहारो युक्तः सद्‍व्यवहारप्रतिषेधो वा प्रसाधकप्रमाणाभावाद्वेति॥



अत्र विचार्यते किं पुनरस्य भगवतो बाधकं प्रमाणं प्रत्यक्षमनुमानं शब्दादिकं वेति विकल्पाः॥



न तावत् प्रत्यक्षम्। प्रत्यक्षं हि केवलप्रदेशादौ प्रवर्तमानं स्वप्रवृत्तियोग्यमेव तत्र वस्तु प्रतिषेधति। न वस्तुमात्रम्। न च सर्वज्ञस्य प्रत्यक्षप्रवृत्तियोग्यतास्ति। स्वभावविप्रकृष्टत्वात्तस्य॥



स्यादेतत्। न वयं प्रत्यक्षं प्रवर्तमानमभावं साधयतीति ब्रूमः। किं तर्हि। निवर्तमानम्। तथा हि यत्र वस्तुनि प्रत्यक्षस्य निवृत्तिस्तस्यासद्भावः। यथा शशविषाणादेः। यत्र तु प्रत्यक्षस्य प्रवॄत्तिस्तस्य सद्भावो यथा घटादेः। अस्ति च सर्वज्ञे प्रत्यक्षनिवृत्तिः। तदस्याप्यभावः केन निवार्यत इति॥



उच्यते। निवर्तमानं प्रत्यक्षमभावं साधयतीति कोऽर्थः। किं प्रत्यक्षस्य या निवृत्तिस्ततोऽभावसिद्धिः, निवृत्तिसहिताद्वा प्रत्यक्षात्, निवृत्ताद्वा प्रत्यक्षादिति।



नाद्यः पक्षः। सत्यपि वस्तुनि प्रत्यक्षनिवृत्तेरुपलभ्यमानाया वस्त्वभावनिय तत्वासिद्धेः॥



नापि द्वितीयः। स्वाभावेन सह कस्यचित् साहित्यानुपपत्तेः। अन्यथा तन्निवृत्तत्वानुपपत्तेः॥



न च तृतीयः। तथा हि निवृत्तात् प्रत्यक्षादभावसिद्धिरित्यसतः प्रत्यक्षादित्युक्तं भवति। न चासतो हेतुभावः संभवति। सर्वसामर्थ्यविरहलक्षणत्वात्तस्य। न हि तच्च नास्ति तेन च प्रतिपत्तिरिति न्याय्यम्। अतो न तावत् प्रत्यक्षं सर्वज्ञबाधकम्॥



नाप्यनुमानम्। तद्धि त्रिविधलिङ्गजत्वेन त्रिविधम्। तत्र कार्यस्वभावयोर्विधिसाधनत्वात्, प्रतिषेधे साध्येऽनवसरः। न च दृश्यानुपलम्भः तत्प्रभेदो वा कार्यानुपलब्ध्यादिर्योग्यानुपलम्भो वा पराभिमतोऽत्र प्रमाणम्। सर्वज्ञतायाः स्वभावविप्रकृष्टत्वेनादृश्यत्वात्॥



ननु कारणानुपलम्भादेव सर्वज्ञताप्रतिषेधः सिध्यति। तथा हि तत्कारणमिन्द्रियविज्ञानं वा मानसं वा भावनाबलजं वा। भावनाबलजमपि चाक्षुषं वा, मानसं वेति विकल्पाः।



तत्र न तावच्चक्षुरिन्द्रियविज्ञानमशेषार्थग्राहि। तस्य प्रतिनियतार्थविषयत्वात्। देशान्तरे कालान्तरे [च] तथैव प्रतिनियमः। अन्यथा हेतुफलभावाभावप्रसङ्गात्। अनेकेन्द्रियवैयर्थ्यप्रसङ्गाच्च। तथा च कारिका



एकेन्द्रियप्रमाणेन सर्वज्ञो येन कल्प्यते।

नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते॥



यज्जातीयैः प्रमाणैश्च यज्जातीयार्थदर्शनम्।

भवेदिदानीं लोकस्य तथा कालान्तरेऽप्यभूत्॥ इति॥



ततश्चैवं प्रयोगः कर्तव्यः।

बुद्धचक्षुर्नातीतादिविषयम्।

चक्षुस्त्वात्।

अस्मदादिचक्षुर्वत्।

अचक्षुर्वा।

अतीतादिविषयत्वात्।

शब्दवत्।



इति सर्वमेतत् श्रोत्रादावपि द्रष्टव्यम्। न चक्षुरादिप्रकर्षः स्वार्थमतिक्रम्य दृष्ट। कारिका



यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात्।

दूरसूक्ष्मादिवृत्तौ स्यान्न रूपे श्रोत्रवृत्तितः (?ता)॥



बृहट्टीका च

श्रोत्रगम्येषु शब्देषु दूरसूक्ष्मोपलब्धितः।

पुरुषातिशयो दृष्टो न रूपाद्युपलम्भनात्॥

चक्षुषापि च दूरस्थसूक्ष्मरूपोपलम्भनम्।

क्रियतेऽतिशयप्राप्त्या न तु शब्दादिदर्शनम्॥



न चैतद् वक्तव्यम्। यदि नामैकैकेनेन्द्रियेण तज्ज्ञानेन वा सर्वस्याग्रहणं तथापि पञ्चभिरिन्द्रियैस्तज्ज्ञानैर्वा स्वस्वविषयप्रवृत्तैरेवातिशयप्राप्तैर्भविष्यतीति। एकैकस्यापि निःशेषस्वविषयग्रहणादर्शनात्। परचित्ताद्यतीन्द्रियाणां ग्रहणा(भावा) च्च। तदेवमिन्द्रियमिन्द्रियविज्ञानं वा नाशेषग्राहीति न प्रथमः पक्षः॥



नापि द्वितीयः। तथा हि यद्यपि तन्मानसं सर्वार्थविषयं तथापि न तस्य स्वातन्त्र्येणार्थग्रहणे व्यापारोऽस्ति। मनसो बहिरस्वातन्त्र्यात्। अन्यथाऽन्धवधिराद्यभावप्रसङ्गः। तेषामपि मनसो भावात्। पारतन्त्र्ये चेन्द्रियज्ञानपरिगृहीतार्थविषयत्वादतीतानागतदूरसूक्ष्मव्यवहितपरचित्तादेरर्थस्येन्द्रियपरिज्ञानागोचरस्य मनसा परिच्छेदो न प्राप्नोतीति कथं सर्वज्ञता॥



न च भावनाबलजं सर्वार्थग्राहीति तृतीयः पक्षः। तथा हि तद्भावनाबलजमपि यदीन्द्रियाश्रितमिति चतुर्थः पक्षः, तदा सोऽसङ्गतः। इन्द्रियस्य तज्ज्ञानस्य च नियतविषयविषयत्वप्रतिपादनात्॥



अथ भावनाबलेन तथाविधमुत्पन्नं मनोविज्ञानं सर्वार्थग्राहीति पञ्चमः पक्षः। तदान्वर्थत्वात् प्रत्यक्षशब्दस्य तस्य च भावनाबलावलम्बिनोऽप्यनक्षजत्वात् नार्थसाक्षात्कारित्वमस्तीति प्रतिपादनीयम्। किं च स्वविषयसीमानमनतिपत्यैव प्रकर्षोऽपि दृश्यते। न तु सर्वविषयत्वेनेति। कथं तेनापि सकलार्थजातादिवेदनम्।

यतो न कस्यचिदभ्यासेऽप्यतीन्द्रियार्थदर्शित्वमुपलब्धम्॥



बृहट्टीका

येऽपि सातिशया दृष्टाः प्रज्ञामेधाबलैर्नराः।

स्तोकस्तोकान्तरत्वेन न तेऽतीन्द्रियदर्शनाः॥

प्राज्ञोऽपि च नरः सूक्ष्मानर्थान् द्रष्टुं क्षमोऽपि सन्।

सजातीरनतिक्रामन्नातिशेते परानपि॥

एकाववरकस्थस्य प्रत्यक्षं यत्प्रवर्तते।

शक्तिस्तत्रैव तस्य स्यान्नैवाववरकान्तरे॥

ये चार्था दूरविच्छिन्ना देशपर्वतसागरैः।

वर्षद्वीपान्तरैर्ये च कस्तान् पश्येदिहैव सन्॥



अत्र वर्षः कालविशेषः।



एवं शास्त्रविचारेषु दृश्यतेऽतिशयो महान्।

न तु शास्त्रान्तरज्ञानं तन्मात्रेणैव सिध्यति॥

ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयोः।

आकृष्यते न नक्षत्रतिथिग्रहणनिर्णये॥

ज्योतिर्विच्च प्रकृष्टोऽपि चन्द्रार्कग्रहणादिषु।

न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति॥

तथा वेदेतिहासादिज्ञानातिशयवानपि।

न स्वर्गदेवतापूर्वप्रत्यक्षीकरणे क्षमः॥

दशहस्तान्तरं व्योम्नो ये नामोत्प्लुप्य गच्छति।

न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि।

तस्मादतिशयज्ञानैरतिदूरगतैरपि।

किञ्चिदेवाधिकं ज्ञातुं शक्यते नत्वतीन्द्रियम्॥ इति॥



प्रत्यक्षसूत्रे तु काशिकाकारः परमतमाशङ्क्याह, तन्न, अवगतविषयत्वाद् भावनायाः। न चाकस्मादवगतेरूत्पत्तिः संभवति। सर्वोत्पत्तिमतां कारणवत्त्वात्। अथ प्रमाणान्तरावगतं भाव्यते। किं भावनया। तत एव तत्सिद्धेः। किं च तत्प्रमाणम्। न तावदनुमानं धर्माधर्मयोः पूर्वमग्रहणेन तद्वयाप्तलिङ्गसंवेदनासंभवात्। जगद्वैविध्यार्थापत्तेरपि हि किमपि कारणमस्तीति एतावदुन्नीयते। न तु कश्चिद्विशेषः। न चानिर्दिष्टविशेषविषया भावना भवति। योगशास्त्रेष्वपि हि विशेषा एव ध्येयतयोपदिश्यन्ते।



ध्येय आत्मा प्रभुर्योऽसौ हृदि दीप इव स्थितः।



इत्यादिभिः।



आग(म)मानात्तर्हि अवगतं भावयिष्यते। यदि प्रमाणात्तदा तत एवावगतेः। किं भावनया। हानोपादानार्थं हि वस्तु जिज्ञास्यते। ते च तत एव सिद्धे इति व्यर्था भावना। कारुणिकोऽपि हि धर्मागमानेव शिष्येभ्यो व्याचक्षीत। न भावनाभेदमनुभवेत्।



अथ विप्रलम्भभूयिष्ठत्वादागमानां प्रमाणमागमो न वेति विचिकित्समानो भावनया जिज्ञासते। तन्न। ततोऽपि तदसिद्धेः। भावनावलपरिनिष्पन्नमपि ज्ञानमनाश्वसनीयार्थमेव। अभूतस्यापि भाव्यमानस्यापरोक्षार्थवत् प्रकाशनात्। यथा हि तैरेवोक्तम्



तस्माद् भूतमभूतं वा यद् यदेवाभिभाव्यते।

भावनापरिनिष्पत्तौ तत् स्फुटा कल्पधोः फलम्॥



अपि च भावनाबलजमप्रमाणम्। गृहीतग्रहणात्। यावदेव हि गृहीतं तावदेव भावनया विषयीक्रियते। मात्रयाप्यधिकं न भावना गोचरयति। योगाभ्यासाहितसंस्कारपाटवनिमित्ता हि स्मृतिरेव भावनेति गीयते। सा च न प्रमाणमिति स्थितमेव। न च तदुत्तरकालं साक्षात्कारिज्ञानमुदेतीति प्रमाणमस्ति। इन्द्रियसन्निकर्षमन्तरेणार्थसाक्षात्कारस्य क्वचिददर्शनात्। योगिनां धर्माधर्मयोरपरोक्षप्रतिभासं ज्ञानं नास्ति, इन्द्रियसन्निकर्षाभावादस्मदादिवत्॥



वाचस्पतिस्तु कणिकायामाह। सत्यं श्रुतानुमानगोचरचारिणी भावना विशदाभज्ञानहेतुरिति नावजानीमहे। किन्तु यद्विषयजातं तदेव विशदप्रतिपत्तिगोचरः। न जातु रूपभावनाप्रकर्षो रसविषयविज्ञानवैशद्याय कल्पते।



ननु न विषयान्तरवैशद्यहेतुभावं भावनायाः संगिरामहे। किन्तु श्रुतानुमानविषयवैशद्यहेतुतामेव। तद्विषयश्च समस्तवस्तुनैरात्म्यमिति तद्भावनाप्रकर्षः समस्तवस्तुनैरात्म्यं विशदयन् समस्तवस्तुविशदतामन्तरेण तदनुपपत्तेः समस्तवस्तुवैशद्यमावहतीत्युक्तम्।



सत्यमुक्तम्। अयुक्तं तु तत्। तथा हि नागमानुमानगोचरत्वं निरात्मनां वस्तुभेदानां परमार्थसताम्। नहि ते एतेषामन्यनिवृत्तिमात्रावगाहिनी परमार्थसत्स्वलक्षणं गोचरयितुमर्हतः। नापि तद्विषया भावना। तदग्राह्यमपि स्वलक्षणं तदध्यवसेयतया तद्विषय इति तद्योनिरपि भावना तद्विषयेति तत्प्रकर्षस्तद्वैशद्यहेतुरिति चेत्। न। तदध्यवसेयस्यापि परमार्थसत्वाभावात्। तथा हि यदनुमानेन गृह्यते यच्चाध्यवसीयते ते द्वे अप्यन्यनिवृत्ती, न वस्तुनी। स्वलक्षणावगाहित्वेऽभिलापसंसर्गयोग्यप्रतिभासानुपपत्तेः॥



मा भूत्तयोः स्वलक्षणं विषयः। तत्प्रभवभावनाप्रकर्षपर्यन्तजन्मनस्तु विशदाभस्य चेतसो भविष्यति। कामिनीविकल्पप्रभवभावनाप्रकर्षादिव कामातुरस्य कामिनीस्वलक्षणसाक्षात्कारः। करिकुम्भकठोरकुचकलशहारिणि हरिणशावलोललोचने चम्पकदलावदातगात्रलते लावण्यसरसि निरन्तरलग्नललितदोःकन्दलीमूल मालिङ्गनमङ्गने प्रेयसितरे प्रयच्छ। सञ्जीवय जीवितेश्वरि, पतितोऽस्मि तव चरणनलिनयोरितिवचनकायचेष्टयोरुपलब्धेः। अस्ति च विकल्पाविकल्पयोः कथञ्चित् समानविषयतेति नातिप्रसङ्ग इति चेत्। सत्यम्। संभवत्ययमनुभवो न पुनरस्यार्थे प्रामाण्यसंभवः। अतदुत्पत्तेरतदात्मनस्तदव्यभिचारनियमायोगात्। अतादात्म्यं चार्थस्य विज्ञानादतिरेकात्। अनतिरेकेऽपि च विज्ञानानामन्योन्यस्य भेदादतादात्म्यात्। एकस्य विज्ञानस्येतरविज्ञानवेदनानुपपत्तेः। विज्ञानस्वलक्षणैकत्वाभ्युपगमे च तन्नित्यमेकमद्वितीयं ब्रह्माभ्यसनीयमिति क्षणिकनैरात्म्याभ्यासाभ्युपगमो दत्तजलाञ्जलिः प्रसज्येत। तन्न तादात्म्यात्तस्याव्यभिचारः। नापि तत्कार्यत्वात्। भावनाप्रकर्षकार्यं खल्वेतन्न विषयकार्यम्। यद्युच्येत पारम्पर्येण तत्कार्यमनुमानवत्। यथा हि वह्निस्वलक्षणाद्धूमस्वलक्षणम्। ततो धूमानुभवस्ततो दहन विकल्पः, ततश्चानुमानमुत्पन्नमिति पारम्पर्येण वह्निप्रतिबन्धात् प्रापकं च वह्नेर्दाहपाककारिणः तथेदमपि अनुमानजनितभावनाप्रकर्षपर्यन्तजं पारम्पर्येणार्थप्रसूत तया तदव्यभिचारनियमात्तत्र प्रमाणमिति। तत् किमनुमानेन वह्निं व्यवस्थाप्य भावयतो यद्वह्निविषयमतिविशदविज्ञानं तत्प्रमाणमिति। ओमिति ब्रुबाणस्य पर्वतनितम्बारोहणे सतीन्द्रियसन्निकर्षजन्मनो दहनविज्ञानस्य भावनाधिपत्य विशदाभविज्ञानेन सह संवादनियमप्रसङ्गः। विसंवादश्च बहुलमुपलभ्यते। लक्षणयोगिनि च व्यभिचारसंभवे तल्लक्षणमेव बाधितमिति विशदाभमपि प्रातिभमिव संशयाक्रान्तमप्रमाणम्। तद्भावनाया भूतार्थत्वं न तज्जविशदाभ विज्ञानप्रामाण्यहेतुः, व्यभिचारात्। एवञ्च प्रासर्पकस्येव सक्तुकर्करीप्राप्तिमूललाभमनोरथपरम्पराहितो द्वविणसंभारसाक्षात्कारस्तथागतस्य निरात्मकसमस्तवस्तुसाक्षात्कार इत्यापतितम्। सर्वार्थवस्तुभावनापरिकर्मितचित्तसन्तानवर्तिविज्ञानं प्रत्यालम्बनप्रत्ययत्वमर्थमात्रस्य।



तथा च तदुत्पत्तेः तदव्यभिचारनियम इति चेत्। न। अर्थस्य ह्यालम्बनप्रत्ययत्वविज्ञानं प्रतीन्द्रियापेक्षत्वेन व्याप्तम्। तच्चास्मात्स्वविरुद्धोपलब्ध्या व्यावर्तमानमालम्बनप्रत्ययतामप्यर्थस्य निवर्तयति। न खल्विन्धनविशेषो धूमहेतुरिति विनापि दहनं सहस्रेणापि संस्कारैर्धूभमाधते। तदाधाने वा समस्तकार्य हेत्वनुमानोच्छेदप्रसङ्गः। भावनायाश्च भूतार्थाया अर्थानपेक्षाया एव विशदविज्ञानजननसामर्थ्यमुपलब्ध कामातुरादिवर्तिन्या इति भूतार्थापि तन्निरपेक्षैव समर्थेति नार्थस्यालम्बनप्रत्ययत्वं शक्यावगमम्। अपि च आलम्बनप्रत्यया अपि त एवास्य क्षणा युज्यन्ते, ये तस्य पुरस्तात्तना अव्यवधानास्तथा च त एवास्य ग्राह्या न पुनः पूर्वतराः। तत्काला अनागताश्चेति न सर्वविषयता। अथ दृश्यमाना धातुत्रयपर्यापन्नाः प्राणभृतो जन्मान्तरपरिवर्तोपात्तातीतानागतस्कन्धकदम्बकोपादानोपादेयात्मान इति तद्दर्शनं दृश्यमानतादात्म्येन तद्विशेषणतयातीतानागतमपि गोचरयति। न चास्मदादिदर्शनस्यापि तथात्वप्रसङ्गः, रागादिमलावृतत्वात्। तस्य च भगवतो निर्मृष्टनिखिलक्लेशोपक्लेशमलं विज्ञानमनावरणं परितः प्रद्योतमान मालम्बनप्रत्ययं सर्वाकारं गोचरयेत्। तस्य च साक्षात् परम्परया च कथञ्चित् सर्वेण संबन्धाद् देश्कालविप्रकीर्णवस्तुमात्रविशिष्टस्वभावतया तथैव गोचरयेत्। न चैतत् सर्वग्रहणमन्तरेणेति सर्वविषयमस्य विज्ञानमनावरणं सिद्धम्।



तदनुपपन्नम्। विचारासहत्वात्। तथा हीयमालम्बनप्रत्ययस्य सर्वविशिष्टात्मता भाविकी न वा। भाविकी चेत्। न तावत्सर्वस्मिन्नालम्बनप्रत्यये चैका संभवति। एकस्यानेकवृत्तित्वानुपपत्तेः। नाना चेत्। आलम्बनप्रत्ययाश्च सर्वे चेति तत्त्वम्। तथा च न संबन्ध इति न तद्ग्रहणे सर्वग्रहणम्। विकल्पारोपिततया त्वविकल्पकं समस्तवस्तुविषयं सर्वत्र प्रतीयत इति सुभाषितम्। स्वालम्बनप्रत्ययमात्रगोचरमेवाविकल्पकं समस्तवस्तुविशिष्टालम्बनाध्यवसायजननम्। तेनाध्यवसायानुगतव्यापारमविकल्पकमपि समस्तवस्तुविषयं भवति। यदाह



व्यवस्यन्तीक्षणादेव सर्वाकारान्महाधियः।



इति चेत्। अथ कतिपयवस्त्वालम्बनानुभवस्य कुतस्त्य एष महिमा यतः समस्तवस्त्ववसाय इति। रागाद्यावरणविगमादिति चेत्। तर्हि यथावद् वस्तूनि पश्येत्। न पुनरस्मादपार्थत्वमस्येति। तदयुक्तं विकल्पनिर्माणकौशलमस्य युज्येत। तत्त्वावरकता हि सुलभमलानां क्लेशादीनां न पुनर्विकल्पनिर्माणप्रतिबन्धता। तस्माद् भावनाप्रकर्षमात्रजत्वात्, अर्थाव्यभिचारनियमाभावात्, विशदाभमपि संशयाक्रान्तत्वादप्रमाणमप्रत्यक्षं चेति साम्प्रतम्॥



यदपि सदर्थप्रकाशनं बुद्धेः स्वभावोऽसदर्थत्वं चागन्तुकमिति, असति बाधके सदर्थत्वमेवेति, तदयुक्तम्। अनुमितभावितवह्निविषयविशदाभज्ञान प्रामाण्यप्रसङ्गात् तद्विधस्य क्वचिद् बाधदर्शनादप्रामाण्यमिहापि समानम्। अन्यत्राभिनिवेशात्। तदिह यदि विशदाभविज्ञानहेतुत्वं भावनाया विशेषणत्रययोगेन साध्यते, ततः सिद्धसाधनम्। भवतु तथागतस्तथाभूतविज्ञानवान्। न त्वेतद्विज्ञानमस्य प्रत्यक्षमप्रमाणत्वात्। तथा चापक्षधर्मतया हेतोरसिद्धता। प्रसिद्धधर्मणो धर्मिणोऽजिज्ञासितविशेषतया अनुमेयत्वाभावात्। अथ प्रत्यक्षविज्ञानहेतुता भावनायाः परं प्रत्यसिद्धा साध्यते, तथा च सति साध्यविपर्ययव्याप्तेर्विरुद्धता हेतोः, विशेषणत्रयवत्या अपि भावनाया विशदाभभ्रान्तविज्ञानजनकत्वात्। दृष्टान्तस्य च साध्यहीनत्वात्। यदा च भूतार्थभावनाजनितत्वेऽपि नास्य प्रामाण्यमभूतार्थत्वात्, तदा यदुच्यते,



निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः।

न बाधा यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः॥



इति। तदनुपपन्नम्। भूतार्थत्वेऽपि हि बुद्धेः तत्पक्षपातिता भूतार्थैः प्रतिपक्षैर्बाधो न भवेत्। अभूतार्था त्वियं सात्मीभाव मापन्नाप्यात्मात्मीयदृष्टिरिव संभवद्बाधा। तस्मात् प्रतिपक्षविबृद्धिमात्रम्। न त्वात्यन्तिकी विवृद्धिः संभवति। यया समूलकाषं कषिता दोषा न पुनरुद्भविष्यन्ति। अत‍एवास्थिराश्रयत्वेऽपि अपुनर्यत्नापेक्षत्वेऽपि अस्य नात्यन्तिकी निष्ठा संभवति। आत्मात्मीयदृश इव विरोधिप्रत्ययसंभवात्। तत्संभवश्चाभूतार्थत्वात्। श्रुतानुमितविषयं तु प्रत्यक्षं न संभवत्येव। तयोः परोक्षरूपावगाहित्वात्। प्रत्यक्षस्य च तद्विपरीतत्वात्। तद्गतभूताभूतार्थानुविधायित्वेन स्वविषये श्रुतानुमानज्ञानापेक्षया प्रामाण्यानुपपत्तेश्व॥



तत् सिद्धमेतत् भूतार्थभावनाप्रकर्षपर्यन्तजविज्ञानमप्रत्यक्षमर्थेऽप्रामाण्यात्।

यदप्रमाणं तदप्रत्यक्षमर्थे।

यथा कामातुरस्य कामिनीविज्ञानम्।

अप्रमाणं च तत्।

नितान्तविशदाभत्वे सति भावना (प्रकर्ष) जत्वात्।

यन्नितान्तविशदाभत्वे सति भावनाप्रकर्षजं विज्ञानं तदप्रमाणम्।



यथानुमितभावितवह्निविशदविज्ञानमिति। समानहेतुजत्वं समानरूपतया व्याप्तम्। यदाह



तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः।



इति। तदस्य प्रामाण्यं निवर्तमानं तुल्यहेतुजत्वमपि निवर्तयति। न चैष भूतार्थभावनाप्रकर्षपर्यन्तजोऽनिन्द्रियसन्निकृष्टानुमितभावितवह्निवैशद्ये च निरात्मकसमस्तवस्तुवैशद्ये च विशिष्यते। न च रागाद्यावरणविरहो विशेषः। न खल्वेते कम्बलादिबदावरका विज्ञानस्य। किं तु तदाक्षिप्तमना विविधविषयभेदतृष्णादिपरिप्लुतो न शक्नोति ब्बावयितुमिति भावनादरमात्र एव तद्विरहोपयोगः। अस्ति चेहापि शिशिरभरसंभृत जडिममन्थरतरकायकाण्डस्यानुमितवह्निभावनाभियोग इति न हेतु भेदतः प्रतिबन्धसिद्धिः। न चैकपार्थिवाणुसमवायिकारणजन्मभिरभिन्नौष्ण्यापेक्षैकवह्निसंयोगासमवायिकारणैर्गन्धरसरूपस्पर्शैर्नानास्वभावैर्व्यभिचारः। सामर्थ्यवैचित्र्यादेकत्वेऽपि पार्थिवस्य परमाणोः। तद्वैचित्र्यं च कार्यवैचित्र्योपलम्भात्। तच्च नित्यसमवेतं नित्यम्, कारणसामर्थ्यप्रक्रमेण च पार्थिवावयविनि कार्ये जायत इति अवदातम्। परिशिष्टं तु ग्रन्थव्याख्यानसमये व्याख्यास्यामः। तदास्तां तावत्॥



त्रिलोचनस्तु न्यायप्रकीर्णके प्राह। इह किल दुःखसमुदयनिरोधमार्गाख्यान्यार्याणां सत्यानि चत्वारि। तेषां सत्यानां स्वरूपसाक्षात्कारिज्ञानं योगिप्रत्यक्षम्। तत्र दुःखं फलभूताः पञ्चोपादानस्कन्धाः। तच्च स्वरूपतो ज्ञातव्यम्। त एव हेतुभूताः समुदयः। स च प्रहातव्यः। निःक्लेशावस्था चित्तस्य निरोधः। स च साक्षात्कर्तव्यः। तदवस्थाप्राप्तिहेतुर्नैरात्म्यक्षणिकत्वाद्याकारश्चित्तविशेषो मार्गः। स च भावयितव्य इति सौगतमतम्।



अत्रोच्यते। मार्गस्तावत् प्रमाणपरिशुद्धो न भवतीत्युक्तं प्राक्। अतोऽभूतविषयस्य विकल्पस्याभ्यासादसत्यार्थविज्ञानं स्यान्न संवादि। अपि च प्रमाणपरिशुद्धमार्गवादो शाक्यः प्रमाणं पृष्टः सन् सत्वाख्यलिङ्गजं विकल्पं ब्रूयात्। ततो यावद्विकल्पेन दर्शितरूपं तत्सर्वमसत्। शब्दसंसृष्टत्वात्। तस्मिंश्च भाव्यमाने सत्त्वे भावकस्य विकल्पकस्य भावनोपहिते विशदाभत्वे शब्दसंसृष्टग्राह्यनिमित्तं विकल्पकत्वं निवर्तते। तद्‍व्यावृत्तौ ग्राह्यमपि शब्दसंसृष्टं निवर्तते। अतो निर्विकल्पकमपि योगिज्ञानं निर्विषयं प्रसक्तम्। यत्तु पारमार्थिकं वस्त्वात्मकं न तत्प्रमाणपरिशुद्धम्। शुद्धौ वा किं भावनया। भाव्यस्य साक्षाद्विज्ञातत्वात्। न चान्यस्मिन् शब्दसंसृष्टे भाव्यमाने स्फुटमन्यद्रूपं भवति। शोकातुरस्यापि निरुद्धेन्द्रियव्यापारस्य तनयभावनायां मित्रादिप्रतिभासप्रसङ्गात्।



क्षणिकत्वे भाव्ये समारोपिते वास्तवं क्षणिकत्वमेव योगिविज्ञानप्रतिभासीति चेत्। न। सत्यासत्ययोरेकत्वाभावात्मके हि भेदेऽसत्यभावनेऽपि यदि सत्यप्रतिभासः, तर्हि सत्यतनयाभ्यासेऽपि शब्दसाम्यादभेदिनस्तनयसंज्ञकस्य कस्यचिदपरस्य स्वरूपप्रतिभासप्रसङ्गः। तस्मादभूतविषयाभ्यासं निर्विकल्पकमपि संवादान्न प्रमाणमिति न सर्वज्ञसिद्धिः।



अपि च भाव्यस्य वस्तुनः पुनः पुनश्चेतसि निवेशनमभ्यासः। स च ब्रह्मचर्येण तपसा सादरं दीर्घकालं निरन्तरमासेवितो दृढभूमिरस्फुटाकारस्य विकल्पस्य स्फुटाभत्वजनन इष्टः। स क्षणिकत्वनैरात्म्यवादिना द्रढयितुमशक्यः। तथा हि भाव्यग्राही यादृशो विकल्प उत्पन्नस्तादृश एव निरन्वयं निरुध्यते। तस्मिंश्च निरुद्धे पुनः पुनरुत्पद्यमानः प्रत्ययस्तादृश एवापूर्व उत्पद्यते। तदनेन पर्यायेण कल्पसहस्रेऽपि अपूर्वोत्पत्तेरविशेषान्न तज्जन्यः संस्कारोऽभ्यास उत्पद्यते। एतेन विशिष्टविज्ञानोत्पादोऽभ्यासो व्याख्यातः। निरन्वयनिरुद्धं हि पूर्वपूर्वविज्ञानं कथमुत्तरोत्तरावस्थान्तरं विशिष्टं जनयेत्। सर्वथा क्रमभाविभिः प्रत्ययैरवस्थितमेव रूपं शक्यं संस्कर्तुम्। अनवस्थितं तु स्वोत्पादव्यययोगिमात्रमित्यविशिष्टं स्यात्। तस्मात् प्रत्यावृत्तिभाव्यवस्तुप्रत्ययजः संस्कारो व्युत्थानप्रत्ययसंस्कारविरोधी यस्यास्ति तस्यैवात्मनः प्रकृष्टोऽपि भाव्यसाक्षात्कारिप्रत्ययहेतुरितियुक्तं पश्यामः। किं च चित्तमेकाग्रं व्यवस्थापयितुं विक्षेपत्यागार्थमभ्यासोऽनुष्ठीयते। न च क्षणिकवादिनां विक्षिप्तं चित्तमस्ति। प्रत्यर्थनियततया सर्वस्य चित्तैकाग्रत्वात्। तथा हि यदि साकारं विकल्पविज्ञानं स्वप्रतिभासनियतत्वात् एकाग्रमेव तत् कथं विक्षिप्यते। अथ निराकारं तथापि विकल्पकं प्रति विकल्प्यं भिन्नमेव। न तु सर्वविकल्पानामेकं विकल्प्यमस्ति। ततो निराकारमपि विज्ञानं नियतालम्बनत्वादेकाग्रमेव, न विक्षिप्तम्। सर्वथा नास्ति क्षणिकवादिनामेकमनेकार्थमवस्थितं चित्तं यदेकाग्रं कर्तुमिष्यते। तदेवमभ्यासानुपपत्तेरसर्वज्ञवत्यां चित्तसन्ततौ न च विज्ञानविशेषः सर्वज्ञः सिध्यतीति॥



न्यायभूषणकारस्त्वाह। सर्वज्ञानानां निरालम्बनत्वे संवेदनमात्रत्वे च योगीतरप्रत्यययोः को विशेषः। शुद्धाशुद्धत्वमिति चेत्। भवतु नामैवम्। तथापि चतुरार्यसत्यादिविषयत्वमयुक्तम्। न हि स्वात्ममात्रवेदनेन चतुरार्यसत्यादिकं साक्षात्कृतमिति युक्तमतिप्रसङ्गात्।



तदाकारत्वेन तद्विषयत्वमिति चेत्। तत् किमिदानीं सौत्रान्तिकमतमभ्युपगतं सत्यम्। तथाप्यतोतानागतविषयत्वं कथम्। न ह्यसतः कश्चिदाकारोऽस्ति। दृष्टश्रुतानुमिताकारश्च यदि भावनाबलतः स्पष्ट एवावभाति, तथा च सतिभ्रान्तमेव योगिप्रत्यक्षं स्यात्। अविद्यमानस्य विद्यमानाकारतया प्रतिभासनात्, स्वप्नवत्। तथा(ऽ) विसंवादित्वान्न भ्रान्तम्। न। अनुमानज्ञानस्य भ्रान्तत्वेऽपि अविसंवादित्वाभ्युपगमात्।



अथ भ्रान्तस्यापि संवादित्वेन प्रामाण्यम्। तथापि प्रत्यक्षलक्षणस्याभ्रान्तत्वविशेषणं विरुध्यते। न चाविसंवादित्वमपि त्वन्मते युक्तम्। यतः प्राप्यार्थदर्शकत्वं वा, प्रवृत्तिविषयोपदर्शकत्वं वा, अवभातादर्थक्रियानिष्पत्तिर्वा भवतामविसंवादित्वमभिप्रेतम्। न चैतदतीताद्यर्थज्ञाने संभवति। वर्तमानार्थज्ञानस्यापि क्षणिकत्वपक्षे नोपपद्यत एव। तस्मात् सौगतानां योगिप्रत्यक्षोपवर्णनमयुक्तमेवेति॥



किं चेदमपि वक्तुमुचितम्। यद्यनुमानपूर्वकमर्थेषु भावनाबलजज्ञानमाश्वासभाजनं, तदास्तां तावदनुमानपौरुषप्रत्याशा। प्रत्यक्षेणापि चक्षुर्दहनादिकं गृहीत्वा भावनाप्रकर्षपर्यन्ते जातं स्थिरतरं तदाकारविज्ञानं स्यात्, यावन्न विपरीत भावनाभियोगपर्यन्तः। अस्तं गतश्च तद्विषयोऽवस्थान्तरप्राप्तो वेति कथं प्रमाणोपनीतवस्तुगोचरत्वेऽपि संवादाश्वासः। अपि च यदा हालिक एव हव्याशनमनुमाय भावनया स्फुटयेत्, तदा न तद्योगिज्ञानं परमार्थविषयाभावादिति प्रत्यक्षान्तरप्रसङ्गः।



किं च तद्योगिज्ञानमिन्द्रियज्ञानाद्भिन्नमभिन्नं वा। अभेदपक्षे न योगिज्ञानं नाम प्रत्यक्षेण भिन्नमिन्द्रियज्ञानेनैव संग्रहात्। न च भावनोपस्कृतसन्तानस्य तथोदयाद् भेदव्यवस्था। रसायनादिसंस्कारापेक्षयापि प्रत्यक्षान्तरव्यवस्थाप्रसङ्गात्। भेदपक्षे च भावनासंभवं ज्ञानं क्षणिकसाक्षात्कारि। इन्द्रियज्ञानं च स्यैर्यग्राहीति साध्वी सिद्धिः। इन्द्रियज्ञानस्यापि तदवस्थायामस्थैर्यग्रहणे कृतं योगिज्ञानेन। न च तस्याकस्मिकः क्षणिकत्वावबोधः। भावनोद्भूतवैशद्यस्य हि तद्बोधः। न चेन्द्रियज्ञानस्य भावना। अपि तु मनोविज्ञाने। तामन्तरेणापि साक्षात् क्रियालाभे च भावनावैयर्थ्यमिति कारणाभावादेव सर्वज्ञप्रतिहतिः॥



अत्राभिधीयते। यत्तावत् सर्वपदार्थसंवेदनस्य कारणं किमिन्द्रियज्ञानमित्यादि वल्गितं तत्र भावनाबलजं मनोविज्ञानमेव सर्वपदार्थग्राहीति पञ्चम एवास्माकं पक्षः। अतः पक्षान्तरभाविनो दोषा अनभ्युपगमप्रतिहताः। यच्चास्मदभ्युपगते पञ्चमे पक्षे दूषणमुक्तम्, अनर्थत्वात्प्रत्यक्षशब्दस्य, तस्य च भावनाबलाबलम्बिनोप्य नक्षजत्वान्नार्थसाक्षात्कारित्वमस्तीति, तदसङ्गतम्। तथा हि प्रत्यक्षशब्दस्य तावदक्षाश्रितत्वं व्युत्पत्तिनिमित्तमर्थसाक्षात्कारित्वं तु प्रवृत्तिनिमित्तमिति प्रतिपादितम्। न च भावनाबलावलम्बिनो मनोविज्ञानस्यानक्षाश्रितत्वेऽप्यर्थसाक्षात्करणे कश्चिदस्ति शक्तिप्रतिघातः। यथा हि चक्ष्रुरिन्द्रियं स्वसामर्थ्यानतिक्रमेण योग्यदेशस्थमर्थमपेक्ष्य स्वविज्ञानजनने प्रवर्तते, तथा सर्वाविद्यापरिपन्थिभूतार्थभावनासहितं मन इन्द्रियमपि योग्यदेशस्थमर्थं प्राप्य स्वविज्ञानजनने प्रवर्तिष्यते। अप्राप्यकारिताया उभयोः साधारणत्वात्। अर्थवत्तायाश्च मनसोऽपि तदानीमिष्टत्वात्। पृथग्जनस्य तु न तादृशी शक्तिः, यतो नेत्रश्रोत्रवन्मनोऽपि तादृङ्मर्यादया योग्यदेशस्थमर्थसहकारिणमासाद्य वेदनमुत्पादयेत्, सर्वाविद्योन्मूलकस्य भावनाविशेषस्य सहकारिणोऽभावादिति नातिप्रसङ्गः। तदवस्थायां तु श्रुतिनयनयोरिव मनसोऽपि कियद्‍दूरेण विषयसन्निधिव्यवस्थितिक एव प्रमातुं क्षमः। केवलमेतावदुच्यते। यावत्तेन शक्यमधिगन्तुं स्वाकारार्पणसमर्थ सहकारि वस्तु तावदितरजनासाधारणं त्रुट्यद्रूपतया तस्य गोचरीभवतीति। अत एवार्थाकारो वस्तुतो न भावनामात्रजनित इति न विसंवादशङ्कापि। भावनया पुनस्तदीयसन्ताने नेत्र इवाञ्जनविशेषेण शक्तिरतिशयवती काचिदर्पिता यत्परजनासाधारणदर्शनमस्य। तस्मादनक्षजत्वेऽपि मनोविज्ञानस्यार्थसाक्षात्कारित्वं सम्भवति।



ननु मनसो बहिरस्वातन्त्र्यम्। अन्यथान्धबधिराद्यभावप्रसङ्गात्। उक्तंच

योगिनां धर्माधर्मयोरपरोक्षप्रतिभासं ज्ञानं नास्ति।

इन्द्रियसन्निकर्षाभावादस्मदादिवदिति।



अपि च, अर्थस्य हि आलम्बनप्रत्ययत्वमिन्द्रियापेक्षत्वेन व्याप्तम्। तच्चास्मात् स्वविरुद्धोपलब्ध्या व्यावर्तमानमालम्बनप्रत्ययतामपि तस्य निवर्तयति। न खल्विन्धनविशेषो धूमहेतुरिति विनापि दहनं सहस्रेणापि संस्कारैर्धूममाधत्ते। तदाधाने समस्तकार्यहेतुकानुमानोच्छेदप्रसङ्गः। न च भावनाबलेन कस्यचिदतीन्द्रियदर्शित्वं सर्वज्ञत्वं वा दृष्टमिति चेत्।



अत्रोच्यते। मनःशब्देन तावदस्माकमनक्षजं विज्ञानमेवाभिप्रेतम्। न चास्मिन्नन्धबधिराद्यभावप्रसङ्गः। सर्वाविद्याप्रतिपक्षभूतार्थभावनालक्षणस्य सहकारिविशेषस्यान्धादीनामभावात्। इन्द्रियसन्निकर्षाभावादिति त्वर्थसाक्षात्कारित्वमात्रापेक्षया सन्दिग्धव्यतिरेकित्वे अनैकान्तिकी कारणानुपलब्धिः। अस्मद्विधार्थसाक्षात्कारित्वापेक्षया पुनः सिद्धसाधनम्॥



अस्मदादिविशेषणशून्यस्यार्थसाक्षात्कारित्वमात्रस्यैवेन्द्रियाधीनत्वदर्शनादनैकान्तिकत्वमसंभवीति चेत्। यद्येवमर्थसाक्षात्कारित्वमात्रस्येन्द्रियवदालोकाधीनत्वमुपलब्धमिति न सन्तमसे पश्येयुरुलूकादयः। अथ व्यभिचारदर्शनादालोकस्याव्यापकत्वम्, व्यभिचारशङ्कया तर्हीन्द्रियस्याप्यव्यापकत्वम्। व्याप्त्या शङ्का खण्ड्यत इति चेत्। शङ्कासंभवाद् व्याप्तिरेवासंभविनी। यदि हि प्रथमत एव व्याप्तिः, व्यभिचारोऽपि न दृश्येत।



तस्माद् व्यभिचारदर्शनं व्याप्तिशैथिल्यादेव। सति च व्याप्तिशैथिल्ये शङ्कापि न्यायादापतन्ती केन प्रतिहन्यते। उलूकादीनां भिन्नजातीयत्वादालोकाभावेऽप्यर्थसाक्षात्कारित्वमस्त्विति चेत्। तर्हि भगवतोऽपि भूतार्थभावनाप्रकर्षपर्यन्तमहाप्रलयवायुना निरस्तानाद्यविद्याविपक्षस्य संसारकूपपतितेभ्यः प्राणिभ्योऽस्त्येवाद्भुतवैजात्यमिति युक्तमस्याविद्याप्रतिपक्षभावनातिशयसहितात्मकानन्तरप्रत्ययादालम्बनप्रत्ययाच्च साक्षादुत्पन्नस्येन्द्रियमन्तरेणार्थसाक्षात्कारित्वम्। अतः कारणानुपलब्धिः काशिकाकारस्य व्यापकविरुद्धोपलब्धिश्च वाचस्पतेः सन्दिग्धव्यतिरेकित्वादनैकान्तिकी। सन्दिग्धव्यतिरेकित्वं तु दूषणमस्मदीश्वरदूषणे प्रसाधितम्॥



तस्मात्साधारणकर्मनिर्जातानामस्मदादीनामर्थसाक्षात्कारित्वमिन्द्रियापेक्षत्वेन व्याप्तमिति सिद्धसाधनम्। प्रसिद्धानुमानस्य च न क्षतिर्दृश्यत्वोपाधेर्धूमादेः प्रत्यक्षानुपलम्भतो व्याप्तिग्रहणाविरोधात्। सांसारिकागोचरार्थसाक्षात्कारित्वमात्रापेक्षया तु सन्दिग्धव्यतिरेकित्वम्। अदृश्यस्य प्रत्यक्षानुपलम्भाभ्यां केनचिद् व्याप्तिग्रहणायोगात्। विपर्यये बाधकप्रमाणस्य चासंभवादिति। न चतीन्द्रियदर्शित्वं सर्वज्ञत्वं वादर्शनेऽपि निषेद्धुं शक्यते, अदृश्यानुपलम्भतो निषेधायोगात्। कारणानुपलम्भतस्तन्निषेध इति चेत्। कारणाभावोऽपि अदर्शनमात्रतो न सिध्यतीति तदवस्थः परिभवः॥



यदपि काशिकाकारेणाभिहितम्, अथ प्रमाणान्तरावगतं भाव्यते, कि भावनया, तत एव तत्सिद्धेरिति। तदप्यसंगतम्। प्रमाणान्तरं ह्यनुमानम्। न च चतुरार्यसत्यस्वरूपे वस्तुतत्त्वे निश्चिते साक्षात्कारमन्तरेण क्लेशज्ञेयावरणक्षतिरिति स्वार्थमपि तावद् भावना युक्तिमती। तत्त्वसाक्षात्कारिणि च चित्तसन्ताने सति शक्यसाक्षात्क्रियमिदमित्यन्येऽपि निश्चयानन्तरं साक्षात्क्रियायै प्रवर्त्यन्ते, तदुपदिष्ट स्वर्गसाधनं चार्थभावनयानुसरन्तीति स्वर्गापवर्गलक्षणपरार्थसिद्धये च भावना सफलेति। अन्यथा तत्त्वासाक्षात्कारिणो लोकानतिक्रान्तस्य वचनमनादेयमेव स्यादिति क्व परार्थवार्तापि। यच्च किं च तत्प्रमाणमित्याद्यारभ्य तस्माद् भूतमभूतं वेति एतत्पर्यन्तेन धर्माधर्मयोरनुमानाप्रवर्तनमुक्तम्, तत्र धर्माधर्मशब्देन किमभिप्रेतम्। यदि क्षणिकनिरात्मकवस्तु तत्त्वम्, तदा तस्य प्रत्यक्षेणानिश्चयेऽपि यथा विपर्यये बाधकप्रमाणबलेन व्याप्तिसंवेदनं तथा क्षणभङ्गसाधनावसरे व्यवस्थापितम्। अथ वस्तूनां स्वर्गादिसाधनत्वमभिप्रेतम्, तदा तद्विषयपरिज्ञानाप्रसाधनेऽपि नास्माकं काचित् क्षतिः। सपरिकरसंसारनिर्वाणपरिज्ञानेनैवोपयुक्तसर्वज्ञप्रसाधनात्। यदाहुः



हेयोपादेयतत्त्वस्येत्यादि।



यदपि, अपि च भावनाबलजं गृहीतग्रहणादप्रमाणमित्युक्तम्, तत्र गृहीतं नाम प्रत्यक्षेणानुमानेन वा। प्रमाणान्तरस्याभावात्। न तावत् प्रत्यक्षं क्षणिकत्वादावर्वाचीनस्य कस्यचिदस्ति। अनुमानेन चैकव्यावृत्तिविशिष्टे वस्तुतत्त्वेऽवसितेऽपि सर्वात्मना स्पष्टवस्तुतत्त्वसाक्षात्कारि प्रत्यक्षं न गृहीतग्राहि, अनुमानेन वस्तुतत्त्वास्पर्शनात्। न च तदुत्तरकालमित्यादि तु कारणानुपलब्धिदूषणप्रस्तावे प्रतिव्यूढमिति।



यदपि वाचस्पतिना सत्यमित्यादिना पुनः पुनरुत्तरोत्तरमाशङ्कय तत् किमनुमानेन वह्नि व्यवस्थाप्येत्यादिना भावनाबलजस्यानुमानपूर्वकत्वे विसंवादमुपदर्श्योपसंहृतम्, तन्न भावनाया भूतार्थत्वं तज्जविशदविज्ञानप्रामाण्यहेतुः, व्यभिचारादिति। तदसङ्गतम्। तथा ह्ययं वह्निविषयेनुमानपूर्वकभावनाबलतः स्पष्टवह्निप्रत्ययः किं वह्नेरप्युत्पन्नः, तथाभूतभावनामात्रादेव वा।



प्रथमपक्षे विसंवादश्च बहुलमुपलभ्यते इति यदुक्तं तद्‍दुर्भाषितम्। साक्षादर्थादुत्पन्नस्यापि विसंवादसंभवेऽन्यस्यापि प्रत्यक्षस्य हस्तकत्यागप्रसङ्गात्।



द्वितीयपक्षे तु भावनाप्रकर्षमात्रजस्यार्थादनुत्पन्नस्य बहुलं विसंवादोपलम्भेऽपि भावनार्थाभ्यां साक्षादुत्पन्नस्य योगिप्रत्यक्षस्यापि विसंवादसंभव इति स्थवीयसी भ्रान्तिः।



ननु यदीन्द्रियं विनापि भावनार्थाभ्यां योगिज्ञानमुत्पद्यते, तर्हि पर्वते भावनावह्निभ्यां वह्निज्ञानमुत्पद्यतामविसंवादि। विसंवादश्च बहुलमुपलभ्यत इति चेत्। न। साक्षाद्वह्नेरुत्पादे सति विसंवादाभावात्। केवलमुत्पाद एव दुरापः। न हि वयं प्रमाणदृष्टवस्तुभावनासहितं मन इन्द्रियमर्थस्वरूपग्राहिज्ञानं जनयतीति ब्रूमः, अपि त्वसद्‍दृष्टिलक्षणाविद्यापरिपन्थिक्षणिकनैरात्म्यलक्षणसर्ववस्तुतत्त्वभावनासहितम्। न च वह्नित्वं सर्ववस्तुतत्त्वम्, किं तु क्षणिकनैरात्म्यमेवेति क्षणभङ्गप्रसाधनतः प्रतिपादितमिति। किं च स्वमनीषापरिकल्पितः खल्वयमनुमितभावितवह्निविषयविशदः प्रत्ययः। न पुनरस्य लोके संभवः। तथा हि निष्प्रयोजनमनुन्मत्तो न कश्चिद्भावयति। प्रयोजनं च शिशिरभरमन्थरकायकाण्डस्यापि दाहादिमात्रमेव, तच्चानुमितेनैव वह्निना तद्देशोपसर्पणात् सिध्यति। अनुपसर्पणे भावनावैयर्थ्यम्। पुरस्तात्तु भाविते परिस्फुरति तदर्थापेक्षया भ्रान्तिः प्रासर्पकस्येवेत्याद्युपहास्यमप्यस्य क्षतात्मनो दुर्नीतिपूतिगवीभक्षणाध्मातजरद्गोमायोरुद्गार इव सतामसह्यः।



यदपि ततोऽनन्तरमाशङ्कयार्थस्यालम्बनप्रत्ययत्वमिन्द्रियापेक्षित्वेन व्याप्तमिति प्रसाधितम्, तत्पूर्वमेव प्रत्युक्तम्। तथा भावनायाश्चेत्याद्याशङ्कयार्थस्यालम्बनप्रत्ययत्वमशक्यावगममिति यदुक्तं तदप्यसम्बद्धम्।



चक्षुरिन्द्रियस्याप्यर्थमन्तरेण द्विचन्द्रकेशोण्डुकादौ विशदभ्रान्तज्ञानजननसामर्थ्यमुपलब्धमित्यर्थसहितमपि केवलमेव समर्थम्। अतो घटादेरप्यालम्बनप्रत्ययत्वमशक्यावगममिति इन्द्रियप्रत्यक्षमपि प्रतिहतं स्यादिति। तथा, अपि चालम्बनप्रत्यया अपि त एव युज्यन्त इत्यादिर्न पुनर्विकल्पनिर्माणप्रतिबन्धतेति पर्यन्तो व्यर्थः। अस्माभिरेवंविधस्य प्रस्तुतेऽनभ्युपगतत्वात्। अत एव तस्माद्भावनाप्रकर्षमात्रजत्वात्, अर्थाव्यभिचारनियमाभावात्, विशदाभमपि संशयाक्रान्तत्वात्, अप्रमाणमप्रत्यक्षं चेति साम्प्रतमित्युपसंहारोऽपि धिक्कारः। सर्वेषामेव हेतूनामसिद्धत्वात्। भावनाबलजस्यार्थादप्युत्पत्तेरिन्द्रियप्रत्यक्षवत्। सदर्थप्रकाशनं बुद्धेः स्वभाव इत्याद्यस्माकमपि मनोहरम्। भावनायाश्च सामान्येन स्फुटाभज्ञानहेतुत्वं साध्यते। प्रमाणोपपन्नचतुरार्यसत्यविषयनिष्ठायां तु सामर्थ्यात् प्रत्यक्षप्रमाणहेतुतापि साध्यते। अत एव कामिनीप्रतिभासस्याप्रमाणत्वेऽप्यप्रत्यक्षत्वेऽपि स्फुटाभत्वस्य साध्यधर्मसामान्यस्य संभवात् न विरुद्धो हेतुः। नापि दृष्टान्तस्य साध्यशून्यतेति। न च नैरात्म्यदृष्टिः संभवद्बाधा, अर्थादुत्पत्तेरभूतार्थत्वाभावात्।



श्रुतानुमितविषयं प्रत्यक्षं न संभवतोत्यप्ययुक्तम्। आगमानुमानयोर्द्विविधो विषयः ग्राह्योऽध्यवसेयश्च। तत्र ग्राह्यः स्वाकारः, अध्यवसेयस्तु पारमार्थिकवस्तुस्वलक्षणात्मा। अस्य च परोक्षत्वेऽनुमानसामग्रीसंभवेऽनुमानविषयत्वम् , प्रत्यक्षसामग्रीसंभवे च क्रमेण प्रत्यक्षविषयत्वं दृष्टमेव। तत्सिद्धमित्याद्युपसंहारोऽपि पर्याकुल एव। अप्रमाणत्वादिति हेतुश्च प्रथमोऽसिद्धः। भावनाबलजस्यार्थादप्युत्पत्तेः, प्रमाणशक्तिसंभवात्, इन्द्रियप्रत्यक्षवत्। भावनाबलजत्वादिति द्वितीयस्तु सन्दिग्धव्यतिरेकित्वादनैकान्तिकः। तथा यथानुमितभावितवह्निविषयविशदज्ञानमिति दृष्टान्तोऽप्यसंभवीति प्रतिपादितम्। भवतु वा, तथापि योगिज्ञानस्य तेन सह तुल्यहेतुत्वमसिद्धम्। तद्धि प्रमाणदृष्टवस्तुभावनामात्रजम्। योगिज्ञानं तु अविद्याप्रतिपक्षसर्ववस्तुतत्त्वभावनाविषयाभ्यामुत्पन्नमिति महान्तमपि विशेषमसौ दुर्मतिप्रपातपतितो नावगाहत इत्युपेक्षणीयः॥



न्यायप्रकीर्णे तु मार्गस्तावत् प्रमाणपरिशुद्धो न भवतीत्युक्तं यत्, तत् तत्प्रसाधकप्रमाणेनैव प्रत्युक्तम्।



यच्चापि चेत्याद्यारभ्य योगिज्ञानं निर्विषयं प्रसक्तमित्युक्तम् तत्र केयं निर्विषयता नाम। किं विकल्पाकारनिवृत्तौ निराकारता, अर्थाकाराद्विसदृशाकारता, अथ तदाकारत्वेऽपि तद्वस्तुसंस्पर्शिता।



न तावत्प्रथमः पक्षः क्षमः। ज्ञानस्य निराकारतानुपपत्तेः।

नापि द्वितीयः। कामिन्यादिभावनायास्तदाकारस्यैव विशदस्य दर्शनात्।

न च तृतीयः। अर्थसमर्पिताकारसंस्पर्शमपास्यान्यस्यार्थसंस्पर्शस्यायोगात्।

तथा चोक्तम्



अर्थेन घटयत्येनामित्यादि।



तयोश्चैकत्वेनाध्यवसायाद् बाह्य एव प्रवृत्तिनिवृत्ती, व्यावहारिकस्य स्फुटीभावोऽपि बहिरभिमतस्य पर्यन्ते विकल्पोपादेयक्षणस्यैव स्फुटस्योदयः। तावतैव स विषयस्तेन साक्षात्कृत इति व्यवहारः केवलमर्थादप्युत्पत्तौ। अन्यथा व्यभिचारादप्रामाण्यम्। न च विकल्पोपदर्शितमपिः रूपमवस्तु ज्ञानात्मकत्वात्। अनात्मकत्वे प्रकाशायोगात्। तद्भावनैव चार्थभावना, तत्स्फुटीभाव एव बाहुस्फुटीभावः, प्रकारान्तरेण बाह्यस्पर्शायोगात्। एतेन यत् पारमार्थिकमित्यादि न सर्वज्ञसिद्धिरितिपर्यन्तं प्रत्युक्तम्।



यच्चापि चेत्यादि न युक्तं पश्याम इतिपर्यन्तेन दूषणमुक्तम्, तदप्यसंगतम्। तथा हि यादृश एव भाव्यग्राही प्रत्ययः प्रथमो निरन्वयो निरुद्धस्तादृश एवापर उत्पद्यत इति नियमनिश्चयकारणं न किञ्चिदस्ति चण्डदेवतास्पर्शादन्यत्, क्षणिकत्वादिति चेत्। ननु क्षणिकत्वं स्थायितया विरुध्यते न विसदृशोत्पादेन, तद्धि प्राचीनं निरन्वयनिरोधे यथा सदृशक्षणान्तरमारभते तथा स्वहेतुगतसामर्थ्ययोगात् कार्योत्पादानुमेयाद् यदि विशेषलेशविशिष्टं क्षणान्तरमुत्पादयति, तदा न काचित् क्षतिः। न हि भवत इव भावस्यापि क्षणिकतायां प्रद्वेषो नाम। तस्मान्न क्षणिकत्वोत्तरविशिष्टक्षणजनकत्वयोर्विरोध इति नापार्थकोऽभ्यासः।



यच्चेदं किञ्चेत्यादिना क्षणिकत्वे चित्तमविक्षिप्तमावेदितम्, तदप्यसाधु। नैरात्म्यादितत्त्वपरा(ङ्) मुखस्य सर्वस्यैव विक्षिप्तत्वात्। भावनाबलेन तत्त्वसाक्षात्कारिणः समाहितत्वात्। अथ च तत्त्वसाक्षात्क्रियालाभात् ग्राहकाकारावग्रह संभवात्(च) व्यावहारिकमपि विक्षिप्तमस्ति चित्तम्। यतो ममैव दोषक्षयो भावीति मार्गाम्यासप्रवृत्तिरभ्याहतेति। परमार्थतः प्राप्यादीनामभावेऽपि तत्संकल्पस्यैवानाद्यविद्याप्रभावितस्य सर्वत्र प्रवर्तकत्वात्। अत एव मार्गसत्याभ्यासात् सिद्धः सर्वज्ञः।



न्यायभूषणस्यापि योगाचारापेक्षया दूषणमप्रस्तुतम्। बहिरर्थाम्युपगमेनैव साधनप्रक्रमात्। यच्चोक्तम् तथाप्यतीतानागतविषयत्वं कथम्, न ह्यसतः कश्चिदाकारोऽस्तीति, तदेतत् प्रस्तावानवगाहनफलम्। उपयुक्तसर्वज्ञाधिकारेण हि सर्वक्षणिकनिरात्मकवस्तुभावनोपक्षेणः, न सर्वसर्वज्ञापेक्षया। ततोऽतीतानागतमप्रतीयमानमपि न बाधकम्। तावतैव दुःखनिरोधसिद्धेः। परस्मै च क्षणिकत्वादिनि(ष्ठ)कस्य देशनावतारात्। न च सर्वसर्वज्ञहस्तकत्यागः। तथा हि चतुरार्यसत्यसाक्षात्कारप्राप्तौ निरावरणान्तः करणस्य कारुण्यातिशयात् सर्वाकारपरार्थपरतया सकलगोचरचारिणि चेतसि चिरविरूढोत्साहस्य तादृगुपायविशेषाधिगमो भविष्यति, यमनुतिष्ठतस्तदुत्पत्तिमन्तरेणापि देवताधिपत्यात् सत्यस्वप्नवत्। प्रतिपरमाणुसर्वविषयं यथा देशकालाकारप्रत्यवस्थानुकारि स्फुटतरं ज्ञानमुदियात्, तदा न तावद्वस्तुव्यभिचारकृतं विसंवादित्वम्, वस्तूनामेव प्रतिभासनात्। उत्पत्तिसारूप्याभ्यां वेद्यस्थितिरिति तु पृथग्जनापेक्षया। योगिनस्तु सारूप्यमात्रेणैव ग्रहणमिति न्यायः।



यद् वार्तिकम्

अविशुद्धधियः प्रति।

ग्राह्यग्राहकचिन्तेयमचिन्त्या योगिनां गतिः॥ इति।



तदेवं भाविभूतयोरजनकयोरपि योगिज्ञाने स्फुरणमबाध्यम्। भाविभूतयोस्तर्हि यदि स्वरूपस्य स्फुरणम्, वर्तमानतैव स्यात्। अथ स्वरूपसन्निहितं ज्ञानमेव तदाकारमिति निरालम्बनं नियमेन। तदपि नास्ति। यस्मादसन्निहितेऽप्यर्थे भावनाबलात् तद्देशकालाकारानुकारि विज्ञानं कथमनालम्बनम्। तथात्वेनाध्यवसायाच्च, अध्यवसितकालविशिष्टस्यैव सत्यस्वप्नवत्तस्य प्राप्तेः।



यद् भाष्यम्

यथा स दृष्टः शरदादिकालयुक्त

स्तथा तस्य न बाधितत्वम्।

तत्कालयुक्तस्तु न तेन दृष्ट

स्तथाऽप्रतीतावपि नास्ति दोषः॥



ज्ञानमात्रस्य तु तत्त्वतः स्फुरणाच्च न वर्तमानताप्रसङ्गः सङ्गतः। तथा क्षणिकत्वपक्षेऽपि एकत्वाध्यारोपसामर्थ्यान्न व्यवहारिकं प्रति प्रमाणस्य काचित् क्षतिरिति शास्त्रे प्रपञ्चितम्।



यदपि किञ्चेदमपि वक्तुमुचितमित्याद्यारभ्य भावनाबलजस्यानुमानपूर्वकत्वेऽपि प्रत्यक्षपूर्वकत्वेऽपि व्यभिचाराभिधानम्, तदर्थादपि भावनाबलजस्य साक्षादुत्पत्तिस्वीकारादपहस्तितम्। यथेन्द्रियजस्यापि द्विचन्द्रादिज्ञानस्यार्थादनुत्पत्तेरप्रामाण्यम्, अर्थेन्द्रियाभ्यामुत्पत्तौ तु प्रामान्यमेवं प्रमाणपूर्वकस्यापि भावनामात्रादुत्पन्नस्याप्रामाण्यम्, भावनार्थाभ्यामुत्पन्नस्य तु प्रामाण्यम्।



यदि योगिज्ञानस्यार्थादुत्पत्तिः, प्रमाणपूर्वकत्वापेक्षया न किञ्चत्प्रयोजनमिति चेत। न देशकालवस्तुविशेषमपास्य सामान्येन सर्वदिक्कालवर्तिवस्तुमात्रं क्षणिकनिरात्मकमित्यनिश्चये महाप्रयाससाध्यपुरुषायुषव्यापिन्यां भावनायामेव प्रवृत्तेरभावात्। न च हालिको हव्याशनमनुमाय स्फुटीकरोतियेन प्रत्यक्षान्तरत्वप्रसङ्गः। असामर्थ्यवैयर्थ्याभ्यां तदसंभवप्रतिपादनात्।



यदप्युक्तं योगिनो ज्ञानमिन्द्रियज्ञानादभिन्नं भिन्नं वा। तत्र प्रथमपक्षे तावन्न वस्तुदोषः। तादृक्पुरुषविशेषस्य सिद्धत्वात्। व्यवस्थादूषणमपि नास्ति। साध्यतयैव तादॄग्दशाविशेषस्य लोकातिक्रान्तातिशयस्य परमपुरुषार्थरूपस्य साधनविशेषप्रतिपादनाय पृथग्जनसाधारणेन्द्रियज्ञानाद् भेदेन निर्देशात्। परमपुरुषार्थविषयत्वाभावादेव च रसायनादिसंस्कारजस्यापि ज्ञानस्य न प्रत्यक्षान्तरता। भेदपक्षेऽपि न तावत् स्थर्येतरस्फुरणकृतोपालम्भसंभवः। इन्द्रियज्ञानेनापि वस्तु सर्वात्मना गृह्णता त्रुट्यद्रूपस्यैव ग्रहणात्। अध्यवसायो हि पूर्वं दुर्ल्लभः इदानीं तु भावनाबलनिर्दलिताविद्ये चित्तसन्ताने सोऽपीन्द्रियज्ञानेन जन्यत इति विशेषः।



ननु योगिनो मनोविज्ञानेन्द्रियज्ञानाभ्यां पश्यत आकारद्वयस्फुरणप्रसङ्ग इति चेत्। सत्यम्। सत्यज्ञानाकारस्तावद् वस्तुनो न भिन्नदेशोऽन्यतरभ्रान्तिप्रसङ्गात्। अतस्तावाकारावप्रतिमौ कया गत्या स्फुरत इति को निर्णेतुं क्षमः। यदाह



अचिन्त्या योगिनां गतिरिति।



सर्वथा तु न योगिज्ञानस्य क्षतिरिति सिद्धम्। तदेवं कारणानुपलम्भादपि न सर्वज्ञताभावः।



ननु यदि नाम युष्मदभिमतस्यानुमानस्य न बाधकम्, तथाप्यस्त्येवानुमानं बाधकम्। तथा हि शक्यमिदमभिधातुम्



सुगतोऽसर्वज्ञः।



ज्ञेयत्वात्, प्रमेयत्वात्, सत्त्वात्, पुरुषत्वात्, वक्तृत्वात्, इन्द्रियादिमत्त्वादित्यादि।



रथ्यापुरुषवत्।



तथा च बृहट्टीका



यस्य ज्ञेयप्रमेयत्ववस्तुसत्त्वादिलक्षणाः।

निहन्तुं हेतवः शक्ताः को नु तं कल्पयिष्यति॥



कारिकापि



प्रत्यक्षाद्यविसंवादि प्रमेयत्वादि यस्य च।

सद्भाववारणे शक्तं को नु तं कल्पयिष्यति॥



अत्रोच्यते। किमेते ज्ञेयत्वादयः सर्वज्ञत्वेन साक्षाद्विरुद्धाः परम्परया वा। अविरुद्धविधाने प्रतिषेधायोगात्। स च साक्षाद् विरोध परस्परपरिहारस्थितिलक्षणो वा, भावाभाववत्; सहानवस्थानलक्षणो वा, दहनतुहिनवदिति।



न तावदाद्यः पक्षः। यद्‍व्यवच्छेदनान्तरीयको यस्य परिच्छेदस्तयोरेव परस्परपरिहारस्थितिलक्षणो विरोधः। न च ज्ञेयत्वादि सर्वज्ञत्वव्यवच्छेदेन स्थितम्। किं तर्हि। अज्ञेयत्वादिव्यवच्छेदेन। तथा सर्वज्ञत्वमसर्वज्ञत्वव्यवच्छेदेन, न तु ज्ञेयत्वव्यवच्छेदेन।



नापि द्वितीयो विरोधः। यस्य ह्यविकलकारणस्य भवतो यत्सन्निधानादभावस्तयोरेव सहानवस्थानलक्षणो विरोधः। न च सर्वज्ञत्वं प्राक् प्रवृत्तमविकलकारणं दृष्टं येन पश्चाज्ज्ञेयत्वादिसद्भावे निवर्तत इति स्यात्। तथात्वे सति देशादिनिषेद्य एव भवेन्न तु सर्वथोच्छेद इति।



न च परम्परया विरोधः। स हि भवन् निषेध्यस्य सर्वज्ञत्वस्य व्यापकविरुद्धत्वात्, कारणविरुद्धत्वात्, कार्यविरुद्धत्वात्, स्वभावविरुद्धकार्यत्वात्, व्यापकविरुद्धकार्यत्वात्, कारणविरुद्धकार्यत्वात्, कार्यविरुद्धकार्यत्वात्, स्वभावविरुद्धव्याप्तत्वात्, व्यापकविरुद्धव्याप्तत्वात्, कारणविरुद्धव्याप्तत्वात्, कार्यविरुद्धव्याप्तत्वाद् वा भवेद्। तत्र सर्वज्ञत्वस्यासत्त्वात् , व्यापककारणकार्याणामसिद्धेस्तद्विरुद्धकार्यव्याप्याभावात् न प्रमेयत्वादयः सर्वज्ञत्वेन परम्परयापि विरुद्धाः।



ननु वक्तृत्वं विरुध्यत एव सर्वविषयनिर्विकल्पज्ञानविरुद्धविकल्पकार्यत्वाद् वक्तृत्वस्य। नैतद् युक्तम्। सविकल्पाविकल्पयोर्युगपदवृत्तेर्विकल्पकत्वेन सर्वज्ञस्याविरोधात्।



कस्तर्हि पृथग्जनादस्य भेद इति चेत्। उच्यते। यथा मायाकारो निर्मिताश्वादिविषयं विज्ञानं निर्विषयत्वेन निश्चिन्वन्नभ्रान्तः, तदन्यस्माच्च श्रेष्ठः, तथा भगवानपि शुद्धलौकिकविकल्पसम्मुखीभावेऽपि न भ्रान्तो नापि पृथग्जनसमान इति। ततश्च निर्विकल्पकसर्वज्ञज्ञानविकल्पयोर्विरोधाभावाद् वक्तृत्वं सर्वज्ञत्वेन सहाविरुद्धमेव॥



एतेनैदपि निरस्तम् यदाह काशिकाकारः, समाधेर्व्युत्थायोपदेक्ष्यत इति चेत्। न। व्युत्थितस्य ह्यभिलापिनी प्रतीतिभ्रान्तभाषितमप्रमाणं भवेदिति॥



यदप्युक्तं बृहट्टीकायाम्

यदा चोपदिशेदेकं किञ्चित्सामान्यवक्तृवत्।

एकदेशज्ञगीतं तन्न स्यात्सर्वज्ञभाषितम्॥



तदपि निरस्तम्, विकल्पेनैकस्य कस्यचिदामुखीकृत्वोपदेशेऽपि निर्विकल्पेन सर्वमवबुध्यमानस्य वचनानां सर्वज्ञभाषितत्वादेव॥



यत्पुनः कारिकायामुक्तम्



सान्निध्यमात्रतस्तस्य पुंसश्चिन्तामणेरिव।

निश्चरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः॥

एवमाद्युच्यमानं हि श्रद्दधानस्य शोभते।

कुड्यादिनिःसृतत्वात्तु नाश्वासो देशनासु नः॥

किन्नु बुद्धप्रणोताः स्युः किंवा कैश्चिद्‍दुरात्मभिः।

अदृश्यैर्विप्रलम्भार्थ पिशाचादिभिरीरिताः॥



बृहट्टीकायामपि

तस्मिन् ध्यानसमाधिस्थे चिन्तारत्नवदास्थिते।

निश्चरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः॥

ताभिर्जिज्ञासितानर्थान् सर्वान् जानन्ति मानवाः।

हितानि च यथायोगं क्षिप्रमासादयन्ति ते॥

इत्यादि कीर्तमानं तु श्रद्दधानस्य शोभते।

वयमश्रद्दधानास्तु ये युक्तीरर्थयामहे॥



कुड्यादिनिःसृतानां च न स्यादाप्तोपदिष्टता।

विश्वासश्च न तासु स्यात्केनैताः कीर्तिता इति॥

किन्नु बुद्धप्रणीताः स्युः किं वा ब्राह्यणवञ्चकैः।

क्रीडद्भिरुपदिष्टाः स्युर्दूरस्थप्रतिशब्दकैः॥

किं वा क्षुद्रपिशाचाद्यैरदृष्टैः परिकल्पिताः।

तस्मान्न तासु विश्वासः कर्तव्यः प्राज्ञमानिभिः॥



एतदप्यनभ्युपगमेनैव निरस्तम्। शुद्धलौकिकविकल्पसंमुखीभावेनैव तस्य देशकत्वाभ्युपगमादिति॥



अथ वा यथा चक्रस्योपरतेऽपि दण्डप्रेरणाव्यापारे पूर्वावेगवशाद् भ्रमणम्। एवं भगवति प्रत्यस्तमितसमस्तविकल्पजालेऽपि स्थिते यदि पूर्वप्रणिधानाहितसततानाभोगवाहिनी देशना स्यात्तदा को विरोधः। विवक्षाभावे कथं वचनप्रवृत्तिरिति न वक्तव्यम्। तदभावेऽपि निद्राणस्य तत्तत्प्रव्यक्तवचनसन्दर्शनात्। वचनमात्रस्य विवक्षया व्याप्तेरभावात्। तस्माद् यथा पूर्वाभ्यासतो झटिति प्रबोधितस्यारिणा प्रहारादिदानेनानुरूप एव प्रक्रमः शस्त्रोद्धरणादिकः, तथा सर्ववेदिनोपि सकलाः कलाः इत्यनाकुलम्।



यदाहालङ्कारः

शत्रुसान्निध्यमात्रेण प्रवर्तन्तेऽविकल्पतः।

प्रागेव तन्निराकारिप्रक्रमाः कोपनिर्मिताः॥



यत्पुनरुक्तम् पिशाचादिकृतशङ्कया नात्राश्वासः सतां युक्त इति। तदसङ्गतम्, यतः



संभिन्नालापहिंसादिकुत्सितार्थोपदर्शनम्।

क्रीडाशीलपिशाचादेः कार्यं तासु न विद्यते॥

प्रमाणद्वयसंवादि मतं तद्विषयेऽखिले।

यस्य बाधा प्रमाणाभ्यामणीयस्यपि नेक्षते॥

यथात्यन्तपरोक्षेऽपि न पूर्वापरबाधितम्।

करुणादिगुणोत्पत्तेः सर्वपुंसां प्रवर्तकम्॥

सर्वानुशयसंदोहप्रतिपक्षाभिधायकम्।

निर्वाणनगरद्ष्वारकपाटपुटभेदनम्॥

तच्चेत् क्रीडनशीलानां रक्षसां वा वचो भवेत्।

त एव सन्तु संबुद्धाः सर्वतल्लक्षणस्थितेः॥



न च नाम्नि विवादः। न च नामनिवृत्तौ वस्तु निवर्तते। प्रत्युत वेदस्यैव क्रीडनशीलपिशाचादिप्रणीतत्वं युक्तं संभावयितुम्। येन गोशवादिषु योगेष्वगम्यागमनादयोऽसत्यसमुदाचाराः संप्रकाशिताः। लोकप्रसिद्धिश्च



त्रयो वेदस्य कर्तारो मुनिभण्डनिशाचराः।



इति अलमतिनिर्बन्धेन॥



ननु सर्वज्ञत्वं वीतरागदित्वेन व्याप्तमिष्यते। तद्विरुद्धं च रागादियोगित्वम्, तत्कार्यं च वचनम्। तदेतद् व्यापकविरुद्धकार्यभूतं वचनं सर्वज्ञाभावं साधयति परम्परया विरुद्धत्वादिति चेत्। न। रागादीनां वचसश्च कार्यकारणभावासिद्धेः। तथा हि वचनविशेषो रागादिकार्यम्, यो रागेणैव जनितः, वचनमात्रं वा।



तत्र न तावत् प्रथमः पक्षः। तादृशस्य वचनस्य निश्चयोपायासंभवात्। असभ्यमैथुनाचारप्रकाशकं वचनं तत्कार्यमिति चेत्। न। अभिप्रायस्य दुर्लक्ष्यत्वात्। विरक्तोऽपि रक्तवच्चेष्टते, रक्तोऽपि विरक्तवदित्यभिप्रायो दुर्बोधः। ततश्च विशिष्टव्यवहारस्य सांकर्येण न तत्रैकान्तेन रागानुमानं युज्यते। नापि वचनमात्रं रागादिकार्यम्। असंमुखीभूतरागादयोऽपि हि स्वाभिमतदेवतास्तुतिविधाने मात्रादिगुरुजनसंभाषणादौ च वचनमात्रमुच्चारयन्तः समुपलभ्यन्ते। न च यद्यदभावे भवति तस्य तत्कार्यतोच्यते, अतिप्रसङ्गात्। रागादियोग्यता तर्हि वचसः कारणम्, तया विनोपलखण्डलादौ वचनस्यादर्शनादिति चेन्न। करणगुणवक्तुकामते हि वचनस्य हेतुः। तदभावादेवोपलखण्डलादौ निवर्तते, न रागादियोग्यताया अभावात्। यदि कारणगुणादिसकलतदन्यकारणभावेऽपि रागादि योग्यताऽभावान्नोत्पद्यते वचनमिति सिध्येत्तस्याः कारणत्वम्। उपलखण्डलादौ तु वक्तुकामता नास्ति। तत्कथं तत्कारणत्वं वचसामिति। एवं तर्हि वक्तुकामतैव रागोऽस्तु। इष्टत्वान्न किञ्चिद् बाधितं स्यात्, नाम्नि विवादाभावात्। परमार्थतः पुनर्नित्यसुखात्मात्मीयदर्शनाक्षिप्तं साश्रवविषयं चेतसोऽभिष्वङ्गं रागमाहुः।



निष्पन्नसर्वसम्पत्तेर्विवक्षापि न युज्यत इति चेत्। अदोषोऽयम्, परार्थत्वाद्विवक्षायाः। वीतरागेऽर्थासङ्गाभावात् कथं परार्थापि प्रवृत्तिरिति चेत्। न। आसङ्गमन्तरेण करुणयापि प्रवृत्तेः।



सैव राग इति चेत्। इष्टत्वाददोषः।

रागस्य तु स्वरूपमुक्तम्।



कारुणिकस्यापि निष्फलारम्भो न युक्त इति चेत्। न। परार्थस्यैव फलत्वात्। इष्टलक्षणत्वात् फलस्येति यत्किञ्चिदेतत्।



ननु निर्विकल्पस्य भगवतः कथं तस्यामवस्थायां करुणासंभवः। दुःखविकल्पप्रभवा हि करुणेत्यन्वयव्यतिरेकाभ्यामन्यत्वेन निश्चितम्।



ततश्च कारणाभावात् कथं कार्यसंभव इति चेत्। न। यथा कुम्भकारनिवृत्तावपि स्वसन्तानमात्रभाविनी घटादिस्थितिस्तथोत्थापकविकल्पाभावेऽपि सम(न) न्तरप्रत्ययबलादनालम्बनकरुणाप्रवॄत्तेरवार्यत्वात्। यदाहुर्गुरवः



सत्तारोपकृतोऽपि भावनवशात् काठिन्यमापत्तथा

शैथिल्येऽपि यथास्य दुःखहतये सान्द्रस्तथैव श्रमः।

उत्पादे तु फलस्य हेतुनियमो नो तु प्रबन्धस्थितौ

तस्माद् दुःखदृशः क्षयेऽपि विलसन्मैत्र्यादयेऽस्मै नमः॥



एतेनैतदपि निरस्तं यदाह कारिकायाम्

रागादिरहिते चास्मिन् निर्व्यापारे व्यवस्थिते।

देशनान्यप्रणीतैव स्यादृते प्रत्यवेक्षणात्॥



ननु यदि नामैवं वक्तृत्वं सर्वज्ञत्वेन सहाविरुद्धं देहेन्द्रियबुद्ध्यादियोगित्वं तु विरुद्धमेव। सर्वज्ञताव्यापकवीतरागत्वविरुद्धरागादिकारणत्वाद्देहादीनाम्।



ततश्च प्रतिषेध्यव्यापकविरुद्धकारणोपलम्भात् सर्वज्ञाभाव इति चेत्। उच्यते। देहादीनां हेतुत्वेऽपि नैषां केवलानां सहकारिमात्राणामात्माभिनिवेशलक्षणोपादानकारणविकलानां रागादिजनकत्वमित्यगमका एव देहादयः सर्वज्ञाभावस्य। तस्माज् ज्ञेयत्वादीनामप्यसामर्थ्यान्न परपरिकल्पितानुमानतोऽपि सर्वज्ञाभावः।



नापि स्वविकल्पितं शाब्दादिकं भगवतो बाधकम्। तथा हि यद्यपि तेषां सति प्रामाण्येऽनुमान एवान्तर्भावः, अनन्तर्भावे चाप्रामाण्यमेवेति स्थूलं दूषणमस्ति, तथापि तत्प्रामाण्यमभ्युपगम्यापि ब्रूमः। यत्तावत् पौरुषेयवचनं तदप्रमाणमेव भवताम्। न च वैदिकं किञ्चिद्वचनं सर्वनरासर्वज्ञत्वप्रतिपादक मुपलभ्यते। प्रत्युत निमित्तनाम्नि शाखान्तरे स्फुटतरमेव सर्वज्ञः प्रतिपादितः। तथा हि



स वेत्ति विश्वं न च तस्य वेत्ता

इत्यादिना च सर्वज्ञो वेदे प्रतिपादितः॥



नाप्युपमानात्तदभावः सिध्यति। तथा हि स्मर्यमाणमेव गवादिवस्तु पुरोवर्तिगवयादिसादृश्योपाधि गवाद्युपाधि वा सादृश्यमुपमानेन प्रतीयत इति स्थितिः। न च सर्वज्ञसन्तानवर्तीनि चेतांसि केनचित् सर्वज्ञेनानुभूतानि यतः स्मरणेन विषयीक्रियेरन्, परचित्तवित्तेरयोगात्॥



यत् पुनरुक्तं कुमारिलेन

नरान् दृष्ट्वा त्वसर्वज्ञान् सर्वानेवाधुनातनान्।

तत्सादृश्योपमानेन शेषासर्वज्ञनिश्चयः॥



तदप्ययुक्तम्, अधुनातनसर्वनरासर्वज्ञत्वानिश्चयात्। निश्चये चात्मन्येव सर्वज्ञत्वाभ्युपगमप्रसङ्गात्।



नाप्यर्थापत्तिर्बाधिका। यतो दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इति अदृष्टार्थंपरिकल्पनमर्थापत्तिरुच्यते। न चासर्वज्ञत्वमन्तरेण सर्वनरेषु कश्चिदर्थो दृष्टः श्रुतो वा नोपपद्यते यतस्तदर्थापत्त्या परिकल्प्येत। ननु संसारस्य तावदनादित्वं प्रमाणेन प्रतीतम्। तच्च न सर्वज्ञेन ज्ञायते, तज्ज्ञानावधेः परस्तादसत्त्वेऽनादिताक्षतिप्रसङ्गात्, तदन्यथानुपपद्यमानं सर्वभावानामनादित्वं सर्वज्ञाभावं साधयतीति चेत्।



उच्यते। उपयुक्तसर्वज्ञापेक्षया तावदिदमदूषणम्। तस्यानादित्वाज्ञानेऽपि उपयुक्तसर्वज्ञत्वाव्याहतेः। सर्वसर्वज्ञस्याप्यभावे साध्येऽसमर्थेयमर्थापत्तिः। तथा हि यथा संसारस्यानादित्वे पूर्वपूर्ववस्तुसत्ताया अनवधित्वं तथा सर्वज्ञज्ञानस्यापि पूर्वपूर्ववस्तुसत्ताव्यापकत्वेनानवधिप्रसरता इति। अज्ञातस्यैकस्यापि वस्तुनोऽनवस्थितेः। सत्यपि सर्वज्ञेऽनादित्वमुपपद्यमानं न सर्वज्ञाभावमाक्षिपति। ततश्चार्थापत्तिरपि न सर्वज्ञस्य बाधिका।



न चाभावप्रमाणबाध्यः सर्वज्ञः। प्रमाणपञ्चकनिवृत्तिरभावप्रमाणमिष्यते। तत्र निवृत्तिरिति प्रसज्यवृत्त्या प्रमाणानुत्पत्तिमात्रमभिप्रेतम्, अथ वा पर्युदासवृत्त्या वस्त्वन्तरम्, वस्त्वन्तरमपि जडरूपं ज्ञानरूपं वा, ज्ञानमपि ज्ञानमात्रम्, एकज्ञानसंसर्गिवस्तुज्ञानं वेति विकल्पाः।



तत्र न तावन्निवृत्तिमात्रभावप्रमाणमुपपद्यते। तत्खलु निखिलशक्तिविकलतया न किञ्चित्। यच्च न किञ्चित् तत्कथं प्रमेयं परिच्छिन्द्यात्, तद्विषयं वा विज्ञानं जनयेत्, प्रतीतं वा तत्कथमिति सर्वमन्धकारनर्तनम्। यथोक्तम्



न ह्यभावः कस्यचित्प्रतिपत्तिः प्रतिपत्तिहेतुर्वा। तस्यापि वा कथं प्रतिपत्तिरिति।



नापि वस्त्वन्तरतापक्षे जडरूपः प्रमाणाभावः संगच्छते, तस्य प्रमेयपरिच्छेदायोगात्। परिच्छेदस्य ज्ञानधर्मत्वात्। नापि ज्ञानमात्रस्वभावोऽभावः। देशकालस्वभावविप्रकृष्टस्यापि ततोऽभावप्रसङ्गात्। तदपेक्षयापि विज्ञानमात्रत्वात् तस्य। अथैकज्ञानसंसर्गिस्वभावोऽनुमन्यते, तदा क्षतमभावप्रमाणप्रत्याशया, अध्यक्षविशेषस्यैवाभावप्रमाणनामकरणात्। तस्य चास्माभिर्दृश्यानुपलम्भाख्यसाधनत्वेन स्वीकृतत्वात्। दृश्यानुपलम्भश्च भगवदभावसाधनेऽसमर्थ इति पूर्वमेवावेदितम्।



किं च, कः पुनरयं प्रमाणाभावोऽभिमतो भवताम्। स्वप्रमाणगणनिवृत्तिरथ सर्वप्राणिगणप्रमाणनिवृत्तिः। तत्र स्वप्रमाणगणनिवृत्तिर्व्यभिचारिणी, तस्यां सत्यामपि व्यवहितस्यार्थस्यान पह्नवत्वात्। परप्रमाणनिवृत्तिस्त्वसर्वविदोऽसिद्धा। यदाह



सर्वादृष्टिश्च सन्दिग्धा स्वादृष्टिर्व्यभिचारिणी।

विन्ध्याद्रिरन्ध्रदूर्वादेरदृष्टावपि सत्त्वतः॥ इति॥



तदेवं नाभावप्रमाणतोऽपि सर्वज्ञनिषेध इति स्थितम्॥



ननु तथापि सद्‍व्यवहारार्थं साधकमप्यस्य न विद्यते। तथा हि सर्वविदोऽतीन्द्रियत्वात् न तावदस्मदादिप्रत्यक्षमस्य साधकम्। यथा चास्माभिरसौ नोपलभ्यते तथास्मज्जातीयैरप्यप्रत्यक्षस्वभावनियमात्। न चायं कालान्तरेऽभूदिति च कल्पना युज्यते। यथा हि कालत्वादिदानीन्तनकालवदिति अनेनानुमानेन निराकर्तुं शक्यते, न तथा साधयितुम्।



कारिका



सर्वज्ञकल्पना त्वन्यैर्वेदे वाऽपौरुषेयता।

तुल्यवत् कल्प्यते येन तेनेदंसंप्रधार्यते॥

सर्वज्ञो दृश्यते तवन्नेदानीमस्मदादिभिः।

निराकरणवच्छक्या न चासीदिति कल्पना॥ इति॥



नाप्यनुमानतः सर्वज्ञसिद्धिः। तत्प्रतिबद्धलिङ्गानिश्चयात्।



किं च सर्वज्ञसत्तासाधने सर्वो हेतुः त्रयीं दोषजातिं नातिवर्तते असिद्धत्वं विरुद्धत्वमनैकान्तिकत्वं चेति। तथा हि सर्वज्ञे धर्मिणि क्रियमाणे न तद्धर्मो हेतुः सिद्धः। तस्यैव धर्मिणः साध्यत्वेनासिद्धत्वात्। सिद्धौ वा वैयर्थ्यप्रसङ्गात्। असर्वज्ञे धर्मिणि न सर्वज्ञसिद्धिः। हेतोः सर्वज्ञविपरीतसाधनत्वेन विरुद्धत्वात्। नापि सर्वज्ञासर्वज्ञधर्मो हेतुः। तस्यानैकान्तिकत्वात्। तस्मान्नानुमानतोऽपि सर्वज्ञसिद्धिः।



कारिका



दृष्टो न चैकदेशोऽस्ति लिङ्गं यो वानुमापयेत्। इति॥



नाप्यागमगम्यः। आगमो हि द्विविधः पौरुषेयो नित्यश्च। तत्र पौरुषेयोप्यागमः तदीयो वा तत्र प्रमाणम्, नरान्तरप्रणीतो वा। न तावत्तदीयः। अन्योऽन्यसंश्रयापत्तेः। तथा ह्यागमस्य सर्वज्ञोक्तत्वे प्रामाण्यम्। अस्य च प्रामाण्ये सत्यस्मात् सर्वज्ञसिद्धिरिति। नरान्तरप्रणीतस्तु प्रमाणत्वेनानभिमत एवेत्यतोऽपि न सर्वज्ञसिद्धिः॥



किं च सर्वज्ञप्रणीताद्वचनात् सर्वज्ञसिद्धौ किमपराद्धं स्ववचनेन येनातोऽप्यसौ न गम्येत। नापि नित्यागमगम्यः सर्वज्ञः, तथाविधस्य सर्वज्ञप्रतिपादकस्य नित्यागमस्याभावात्। यच्चोपनिषदादौ सर्वज्ञप्रतिपादकवाक्यं तस्यान्यार्थत्वं द्रष्टव्यम्। न च नित्यवाक्यस्यानित्यसर्वज्ञत्वप्रतिपादकत्वम्, निर्विषयत्वप्रसङ्गात्।



किं च यद्यङ्गीकृतो नित्यागमः, किं सर्वज्ञकल्पनया, नित्य एवागमो धर्मे प्रमाणं भविष्यति।



कारिका



न चागमेन सर्वज्ञस्तदीयेऽन्योन्यसंश्रयात्।

नरान्तरप्रणीतस्य प्रामाण्यं गम्यते कथम्॥

न चाप्येवं परो नित्यः शक्यो लब्धुमिहागमः।

दृष्टश्चेदर्थवादत्वं तत्परे स्यादनित्यता॥

आगमस्य च नित्यत्वे सिद्धे तत्कल्पना वृथा।

यतस्तं प्रतिपत्स्यन्ते धर्ममेव ततो नराः।



बृहट्टीकापि

न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधकः।



इत्यादि सप्तचत्वारिंशत् श्लोकाः सप्रपञ्चमेतमर्थं प्रतिपादयन्ति। तदेवमागमतोऽपि न सर्वज्ञसिद्धिः।



नाप्युपमानप्रमाणसमधिगम्यः। उपमानं हि सदृशग्रहणनान्तरीयकप्रवृत्तिक मसन्निकृष्टार्थगोचरम्। यथा गवयग्रहणद्वारेण गोः स्मरणम्। न च सर्वज्ञसदृशः कश्चिदस्ति।



कारिका

सर्वज्ञसदृशं कञ्चिद् यदि पश्येम सम्प्रति।

उपमानेन सर्वज्ञं जानीयामस्ततो वयम्॥



नाप्यर्थापत्तितः सर्वज्ञसिद्धिः। दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यते इति अदॄष्टार्थपरिकल्पनमर्थापत्तिलक्षणम्। न चात्र प्रमाणप्रतीतं किञ्चिद् वस्त्वस्ति यत्सर्वज्ञमन्तरेणानुपपद्यमानं तत्सत्तामुपनयेत्। तन्नार्थापत्तिरपि सर्वज्ञसाधनी।



न च प्रमाणपञ्चकाभावस्वभावादभावप्रमाणादस्य सिद्धिः, वस्त्वभावसाधनत्वादस्य। प्रत्युतायमेवास्याभावं साधयतीति प्रतिपादितम्। यदपीदं कारिकाबृहट्टीकयोरेकषष्ट्या श्लोकैः सर्वज्ञसिद्धये बौद्धस्य साधनमाशङ्कय दूषितं तदपि घृणाकरमिति ग्रन्थविस्तरभयान्न लिखितम्।



तथा ह्येतानि किल सौगतैः सर्वज्ञसाधनाय साधनान्यभिधीयन्ते सर्वज्ञोऽस्तीति सत्यम्,



सर्वज्ञोक्तत्वात्, धर्माभ्युपदेशकत्वात्, बुद्धः सर्वज्ञ इति चिरप्रवृत्तदृढस्मृतेः, प्रथमतरमशेषशिष्यजनवर्गस्यानेकविधचित्तचैत्तादिपरिज्ञानात्, सकलपदार्थराशितत्त्वोपदेशादिति॥



तस्मात् स्थितमेतत् नातीन्द्रियदर्शी साक्षादस्ति, अपि तु नित्यवचनद्वारेणैव तस्य दर्शनमिति। तदेवं सर्वथा सर्वज्ञसाधकप्रमाणासभवादयुक्तो बौद्धानां सर्वज्ञे सद्‍व्यवहार इति॥



अत्रोच्यते। अनुमानादन्यतोऽसिद्धौ सिद्धसाधनम्। अनुमानादपीत्यसिद्धम्, अनुमानस्य पूर्वमुक्तत्वात्। तत्प्रतिबद्धलिङ्गानिश्चयादित्यादिदूषणप्रबन्धोऽपि प्रतिव्यूढ इत्युपयुक्तसर्वज्ञस्तावत् त्रैलोक्यालोकः सिद्धः।



सर्वसर्वज्ञपक्षेऽपीदं साधनम्।



यत्प्रमाणसंवादिनिश्चितार्थवचनं तत्साक्षात्परम्परा(वा) तदर्थसाक्षात्कारिज्ञानपूर्वकम्।



यथा दहनो दाहक इति वचनम्।



प्रमाणसंवादि निश्चितार्थवचनं चेदम्।



क्षणिकाः सर्वज्ञसंस्कारा इत्यर्थतः कार्यहेतुः। नास्यासिद्धिः, सर्वभावक्षणभङ्गप्रसाधनादस्य वचनस्य सत्यार्थत्वात्। नापि विरोधः, सपक्षे भावात्। न चानैकान्तिकः, वचनमात्रस्य संशयविपर्यासपूर्वकत्वेऽपि प्रमाणनिश्चितार्थवचनस्य साक्षात्पारम्पर्येण तदर्थसाक्षात्कारिज्ञानपूर्वकत्वात्। अन्यथा नियमेन प्रमाणसंवादायोगात्॥



अयं च भाष्यकारीयः सर्वसर्वज्ञप्रसाधकप्रयोगः पण्डितजितारिभिः प्रपञ्चित इति तत एव प्रचयतोऽबधार्य इति।



दुर्वारप्रतिवादिविक्रममनादृत्य प्रमाप्रौढितः

सर्वज्ञो जगदेकचक्षुरुदगादेष प्रभावोऽत्र च।

संबुद्धस्थितिमेदिनीकुलगिरेरस्मद्गुरोः किन्त्वयं

संक्षेपो मम रत्नकीर्तिकृतिनस्तद्विस्तरत्रासिनः॥



विश्वमस्तु शुभादस्माद् यथेच्छं रतिमन्मथः।

मञ्जुवज्रश्च पर्यन्ते तत्पादं सत्फलप्रदम्॥



अहञ्च मञ्जुवज्रः स्यां मञ्जुघोषोऽथ मञ्जुवाक्।

मञ्जुश्रीर्व(आ) दिराण्मञ्जुकुमारो जिनधूर्धरः॥



॥सर्वज्ञसिद्धिःसमाप्ता॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project