Digital Sanskrit Buddhist Canon

परार्थानुमाननामा चतुर्थः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Parārthānumānanāmā caturthaḥ paricchedaḥ
परार्थानुमाननामा

चतुर्थः परिच्छेदः

परस्य प्रतिपाद्यत्वात् अदृष्टोऽपि स्वयं परैः।

दृष्टसाधनमित्येके तत्क्षेपायात्मदृग्वचः॥१॥

अनुमाविषये नेष्टं परीक्षितपरिग्रहात्।

वाचः प्रामाण्यमस्मिन् हि नानुमानं प्रवर्तते॥२॥

बाधनायागमस्योक्तेः साधनस्य परं प्रति।

सोऽप्रमाणं तदाऽसिद्धं तत्सिद्धमखिलं ततः॥३॥

तदागमवतः सिद्धं यदि कस्य क आगमः।

बाध्यमानः प्रमाणेन स सिद्धः कथामागमः॥४॥

तद्विरुद्धाभ्युपगमस्तेनैव च कथं भवेत्।

तदन्योपगमे तस्य त्यागांस्याप्रमाणाता॥५॥

तत् कस्मात् साधनं नोक्तं स्वप्रतीतिर्यदुद्भवा।

युक्त्या ययागमो ग्राह्यः परस्यापि च सा न किम्॥६॥

प्राकृतस्य सतः प्राग् यैः प्रतिपत्त्यक्षसम्भवो।

साधनैः साधनान्यर्थसक्तिज्ञानेऽस्य तान्यलम्॥७॥

विच्छिन्नानुगमा येऽपि सामान्येनाप्यगोचराः।

साध्यसाधनचिन्तास्ति न तेष्वर्थेषु काचन॥८॥

पुंसामभिप्रायवशात् तत्त्वातत्त्वव्यवस्थितौ।

लुप्तौ हेतुतदाभासौ तस्य वस्त्वसमाश्रयात्॥९॥

सन्नर्थो ज्ञानसापेक्षो नासन् ज्ञानेन साधकः।

सतोऽपि वस्त्वसंश्लिष्टाऽसंगत्या सदृशी गतिः॥१०॥

लिङ्गं स्वभावः कार्य वा दृश्यादर्शनमेव वा।

सम्बद्धं वस्तुतस्सिद्धं तदसिद्धं किमात्मनः॥११॥

परेणाप्यन्यतो गन्तुमयुक्तम् परकल्पितैः।

प्रसङ्गो द्वयसम्बन्धादेकापायेऽन्यहानये॥१२॥

तदर्थग्रहणं शब्दकल्पनारोपितात्मनाम्।

अलिङ्गत्वप्रसिद्धयर्थमर्थादर्थस्य सिद्धितः॥१३॥

कल्पनागमयोः कर्तु रिच्छमात्रानुवृत्तितः।

वस्तुनश्चान्यथाभावात् तत्कृता व्यभिचारिणः॥१४॥

अर्थादर्थगतेः शक्तिः पक्षहेत्वभिधानयोः।

नार्थे तेन तयोर्नास्ति स्वतः साधनसंस्थितिः॥१५॥

तत् पक्षवचनं वक्तुरभिप्रायनिवेदने।

प्रमाणं संशयोत्पत्तेस्ततः साक्षान्न साधनम्॥१६॥

साध्यस्यैवाभिधानेन पारम्पर्येण नाप्यलम्।

शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम्॥१७॥

हेत्वर्थविषयत्वेन तदशक्तोक्तिरीरिता।

शक्तिस्तस्यापि चेद्धेतुवचनस्य प्रवर्त्तनात्॥१८॥

तत्संशयेन जिज्ञासोर्भवेत् प्रकरणाश्रयः।

विपक्षोपगमेऽयेतत् तुल्यमित्यनवस्थिनिः॥१९॥

अन्तरङ्गं तु सामर्थ्य त्रिषु रूपेषु संस्थितम्।

तत्र स्मृतिसमाधानं तदेचस्येव संस्थितम्॥२०॥

अख्यापिते हि विषये हेतुवृत्तेरसम्भवात्।

विषयख्यापनादेव सिद्धौ चेत् तस्य शक्तता॥२१॥

उक्तमत्र विनाऽप्यस्मात् कृतकः शब्द ईदृशाः।

सर्वेऽनित्या इत् प्रोक्तेऽप्यर्थात् तन्नाशधीर्भवेत्॥२२॥

अनुक्तावपि पक्षस्य सिद्धेप्रतिबन्धतः।

त्रिष्वन्यतमरूपस्यैवानुक्तिर्न्यू नतोदिता॥२३॥

साध्योक्तिं वा प्रतिज्ञां स वदन् दोषैर्न युज्यते।

साधनाधिकृतेरेव हेत्वाभासाप्रसङ्गतः॥२४॥

अविशेषोक्तिरप्येकजातीये संशयावहा।

अन्यथा सर्वसाध्योक्तेः प्रतिज्ञात्वं प्रसज्यते॥२५॥

सिद्धोक्तेः साधनत्वाच्च परस्यापि न दुष्यति।

इदानीं साध्यनिर्देशः साधनावयवः कथम्॥२६॥

साभासोक्त्याद्युपक्षेपपरिहारविडम्बना।

असम्बद्धा तथा ह्येष न न्याय्य इति वर्णितम्॥२७॥

गम्यार्थत्वेऽपि साध्योक्तेरसम्मोहाय लक्षणम्।

तच्चुतुर्लक्षणं रूपनिपातेषु स्वयं-पदैः॥२८॥

असिद्धासाधनार्थोक्तवाद्यभ्युपगतग्रहः।

अनुक्तोऽपीच्छया व्याप्तः साध्य आत्मार्थवन्मतः॥२९॥

सर्वान्येष्टनिवृत्तावप्याशङ्कास्थानवारणम्।

वृत्तो स्वयं-श्रुतेनाह कृता चैषा तदर्थिका॥३०॥

विशेषस्तद्व्यपेक्षत्वात् कथितो धर्मधर्मिणोः।

अनुक्तावपि वाञ्छाया भवेत् प्रकरणाद् गतिः॥३१॥

अनन्वयोऽपि दृष्टान्ते दोषस्तस्य यथोदितम्।

आत्मा परश्चेत् सोऽसिद्धः इति तत्रेष्टघातकृत्॥३२॥

साधनं यद्विवादे न न्यस्तं तच्चेन्न साध्यते।

किं साध्यमन्यथानिष्टं भवेद् वैफ़ल्यमेव वा॥३३॥

सद्वितीयप्रयोगेषु निरन्वयविरुद्धते।

एतेन कथिते साध्यं सामान्येनाथ सम्मतम्॥३४॥

तदेवार्थान्तराभावाद् देहानाप्तौ न सिध्यति।

वाच्यशून्यं प्रलपतां तदेतज्जाड्यवर्णितम्॥३५॥

तुल्यं नाशेऽपि चेच्छब्दघटभेदेन कल्पने।

न सिद्धेन विनाशेन तद्वतः साधनाद् ध्वनेः॥३६॥

तथार्थान्तरभावे स्यात् तद्वान् कुम्भोऽप्य-नित्यता।

विशिष्टा ध्वनिनान्वेति नो चेन्नायोगवारणात्॥३७॥

द्विविधो हि व्यवच्छेदो वियोगापरयोगयोः।

व्यव्छेदादयोगे तु वार्ये नानन्वयागमः॥३८॥

सामान्यमेव तत्साध्यं न च सिद्धप्रसाधनम्।

विशिष्टं धर्मिणा तच्च न निरन्वयदोषवत्॥३९॥

एतेन धर्मिधर्माभ्यां विशिष्टौ धर्मधर्मिणौ।

प्रत्याख्यातो निराकुर्वन् धर्मिण्येवमसाधनात्॥४०॥

समुदायापवाहो हि न धर्मिणि विरुध्यते।

साध्यं यतस्तथा नेष्टं साध्यो धर्मोऽत्र केवलः॥४१॥

एकस्य धर्मिणः शास्त्रे नानाधर्मस्थितावपि।

साध्यः स्यादात्मनैवेष्ट इत्युपात्ता स्वयं-श्रुतिः॥४२॥

शास्त्राभ्युपगमादेव सर्वादानात् प्रबाधने।

तत्रैकस्यापि दोषः स्याद् यदि हेतुप्रतिज्ञ्योः॥४३॥

शब्दानाशे प्रसाध्ये स्याद् गन्धभूगुणताक्षतेः।

हेतुर्विरिद्धोऽप्रकृतेर्नो चेदन्यत्र सा समा॥४४॥

अथात्र धर्मी प्रकृतस्तत्र शास्त्रार्थबाधनम्।

अथ वादीष्टतां ब्रुयाद् धर्मिधर्मादिसाधनैः॥४५॥

कैश्चित् प्रकरणैरिच्छ भवेत् सा गम्यते च तैः।

वलात् तवेच्छेयमिति व्यक्तमीश्वरचेष्टितम्॥४६॥

वदन्नकार्यलिङ्गां तां व्यभिचारेण बाध्यते।

अनान्तरीयके चार्थे बाधितेऽन्यस्य का क्षति॥४७॥

उक्तं च नागमापेक्षमनुमानं स्वगोचरे।

सिद्धं तेन सुसिद्धं तन्न तदा शास्त्रमीक्ष्यते॥४८॥

वादत्यागस्तदा स्याच्चेन्न तदानभ्युपायतः।

उपायो ह्यभ्युपायेऽयमनङ्गं स तदापि सन्॥४९॥

तदा विशुद्धे विषयद्वये शास्त्रपरिग्रहम्।

चिकिर्षोः स हि कालः स्यात् तदा शास्त्रेण बाधनम्॥५०॥

तद्विरोधेन चिन्तायास्तत्सिद्धर्थेष्वयोगतः।

तृतीयस्थानसंक्रान्तौ न्याय्यः शास्त्रपरिग्रहः॥५१॥

तत्रापि साध्यधर्मस्य नान्तरीकबाधनम्।

परिहार्य न चान्येषामनवस्थाप्रसङ्गतः॥५२॥

केनेयं सर्वचिन्ताषु शास्त्रं ग्राह्यमिति स्थितिः।

कृतेदानीमसिद्धान्तैर्ग्राह्यो धूमेन नानलः॥५३॥

रिक्तस्य जन्तोर्ज्जातस्य गुणदोषमपश्यतः।

विलब्धा वत केनेमो सिद्धान्तविषमग्र्हाः॥५४॥

यदि साधन एकत्र सर्वशास्त्रं निदर्शने।

दर्शयेत् साधनं स्यादित्येषा लोकोत्तरा स्थितिः॥५५॥

असम्बद्धस्य धर्मस्य किमसिद्धो न सिध्यति।

हेतुस्तत्साधनायोक्तः किं दुष्टस्तत्र सिध्यति॥५६॥

धर्मननुपनीयैव दृष्टान्ते धर्मिणोऽखिलान्।

वाग्धूमादेजंनोऽन्वेति चैतन्यदहनादिकम्॥५७॥

स्वभावं कारणं चार्थो व्यभिचारेण साधयन्।

कस्यचिद् वादबाधायां स्वभावान्न निवर्तते॥५८॥

प्रपद्यमानश्चान्यस्तं नान्तरीयकमीप्सितैः।

साध्यार्थैर्हेतुना तेन कथमप्रतिपादितः॥५९॥

उक्तोऽनुक्तोऽपि तेन कथमप्रतिपादितः॥५९॥

उक्तोऽनुक्तोऽपि वा हेतुर्विरोद्धा वादिनोऽत्र किम्।

न हि तस्योक्तिदोषेण स जातः शास्त्रबाधनः॥६०॥

बाधकस्याभिधानाच्चेद् दोषो यदि वदेन्न सः।

किन्न बाधेत सोऽकुर्वन्नयुक्तं केन दुष्यति॥६१॥

अन्येषु हेत्वाभासेषु स्वेष्टस्यैवाप्रसाधनात्।

दुष्येद् व्यर्थाभिधानेन नात्र तस्य प्रसाधनात्॥६२॥

यदि किञ्चित् क्वचिच्छस्त्रेन युक्तं प्रतिषिध्यते।

ब्रुवाणो युक्तमप्यन्यदिति राजकुलस्थितिः॥६३॥

सर्वानर्थान् समीकृत्य वक्तुं शक्यं न साधनम्।

सर्वत्र तेनोत्सन्नेयं साध्यसाधनसंस्थितिः॥६४॥

विरुद्धयोरेकधर्मिण्ययोगादस्तु बाधनम्।

विरुद्धैकान्तिके नात्र तद्वदस्ति विरोधिता॥६५॥

अबाध्यबाधकत्वेऽपि तयोः शास्त्रार्थविप्लवात्।

असभ्बद्देऽपि बाधा चेत् स्यात् सर्व सर्वबाधनम्॥६६॥

सम्बन्धस्तेन तत्रैव बाधनादस्ति चेदसत्।

हेतोः सर्वस्य चिन्त्यत्वात् स्वसाध्ये गुणदोषयोः॥६७॥

नान्तरीयकता साध्ये सम्बन्धः सेह नेक्ष्यते।

केवलं शास्त्रपीडेति दोषः सान्यकृते समा॥६८॥

शास्त्राभ्युपगमात् साध्यः सास्त्रदृष्टोऽखिलो यदि।

प्रतिज्ञा सिद्धदृष्टान्तहेतुवाद्ः प्रसज्यते॥६९॥

उक्तयोः साधनत्वेन नो चेदीप्सितवादतः।

न्यायप्राप्तं न साध्यत्वं वचनाद् विनिवर्त्तते॥७०॥

अनीप्सितमसाध्यं चेद् वादिनान्योऽप्यनीप्सितः।

धर्मोऽसाध्यस्तदाऽसाध्यं बाधमानं विरोधि किम्॥७१॥

पक्षलक्षणबाह्यार्थः स्वयं-शब्दोऽप्यनर्थकः।

शास्त्रे ष्विच्छप्रवृत्त्यर्थो यदि शङ्काकुतोन्वियम्॥७२॥

सोऽनिषिद्धः प्रमाणेन गृह्णान् केन निवार्यते।

निषिद्धश्चेत् प्रमाणेन वाचा केन प्रवर्त्यते॥७३॥

पूर्वमप्येष सिद्धन्तं स्वेच्छयैव गृहीतवान्।

किञ्चिदन्यं सतु पुनर्ग्रहीतुं लभते न किम्॥७४॥

दृष्टेर्विप्रतिपत्तीनामत्राकार्षीत् स्वयं-श्रुतिम्।

इष्टाक्षतिमसाध्यत्वमनवस्थां च दर्शयन्॥७५॥

समयाहितभेदस्य परिहारेण धर्मिणः।

प्रसिद्धस्य गृहीत्यर्था जगादन्यः स्वयं-श्रुतिम्॥७६॥

विचारप्रस्तुतेरेव प्रसिद्धः सिद्ध आश्रयः।

स्वेच्छाकल्पितभेदेषु पदार्थेष्वविवादतः॥७७॥

असाध्यतामथ प्राह सिद्धदेशेन धर्मिणः।

स्वरूपेणैव निर्देश्य इत्यनेनैव तद् गतम्॥७८॥

सिद्धसाधनरूपेण निर्देशस्य हि सम्भवे।

साध्यत्वेनैव निर्देश्य इतीदं फ़लवद् भवेत्॥७९॥

अनुमानस्य सामान्यविषयत्वं च वर्णीतम्।

इहैवं न ह्यनुक्तेऽपि किञ्चित् पक्षे विरुध्यते॥८०॥

कुर्याच्चेद् धर्मिणं साध्यं ततः किं तन्न शक्त्यते।

कस्माद्धेत्वन्वयाभावान्न च दोषस्तयोरपि॥८१॥

उक्तरावयवापेक्षो न दोषः पक्ष इष्यते।

तथा हेत्वादिदोषोऽपि पक्षदोषः प्रसज्यते॥८२॥

सर्वैः पक्षस्य बाधातस्तस्मात् तन्मात्रसङ्गिनः।

पक्षदोषा मता नान्ये प्रत्यक्षादिविरोधवत्॥८३॥

हेत्वादिलक्षणैर्वाध्यं मुक्त्वा पक्षस्य लक्षणम्।

उच्यते परिहारार्थमव्याप्तिव्यतिरेकयोः॥८४॥

स्वयन्निपातरूपाख्या व्यतिरेकस्य बाधिकाः।

सहानिराकृतेनेष्टश्रुतिरव्याप्तिबाधनी॥८५॥

साध्याभ्युपगमः पक्षलक्षणं तेष्वपक्षता।

निराकृते बाधनतः शेषेऽलक्षणवृत्तितः॥८६॥

स्वयमिष्टाभिधानेन गतार्थेऽप्यवधारणे।

कृत्यान्तेनाभिसम्बन्धादुक्तं कालान्तरच्छिदे॥८७॥

इहानङ्गमिषेर्निष्ठा तेनेप्सितपदे पुनः।

अङ्गमेव तयाऽसिद्धहेत्वादि प्रतिषिध्यते॥८८॥

अवाचकत्वाच्चायुक्तं तेनेष्टं स्वयमात्मना।

अनपेक्ष्याखिलं शास्त्रं तद्वादीष्टस्य साध्यता॥८९॥

तेनानभीष्टसंसृष्टस्येस्यापि हि बाधने।

यथासाध्यमबाधातः पक्षहेतू न दुष्यतः॥९०॥

अनिषिद्धः प्रमाणाभ्यां स चोपगम इष्यते।

सन्दिग्धे हेतुवचनाद् व्यस्तो हेतोरनाश्रयः॥९१॥

अनुमानस्य भेदेन सा बाधोक्ता चतुर्विधा।

तत्राभ्युपायः कार्याङ्गं स्वभावाङ्गं जगत्स्थितिः॥९२॥

आत्मापरोधाभिमतो भूतनिश्चययुक्तवाक्।

आप्तः स्ववचनं शस्त्रं चैकमुक्तं समत्वतः॥९३॥

यथात्मनोऽप्रमाणत्वे वचनं न प्रवर्त्तते।

शास्त्रसिद्धे तथा नार्थे विचारस्तदनाश्रये॥९४॥

तत्प्रस्तावाश्रयत्वे हि शास्त्रं बाधकमित्यमुम्।

वक्तुमर्थ स्ववाचास्य सहोक्तिः साम्यदृष्टये॥९५॥

उदाहरणमप्यत्र सदृशं तेन वर्णितम्।

प्रमाणानामभावे हि शास्त्रवाचोरयोगतः॥९६॥

स्ववाग्विरोधे विस्पष्टमुदाहरणमागमे।

दिङ्मात्रदर्शनम् तत्र प्रेत्यधर्मोऽसुखप्रदः॥९७॥

शास्त्रिणोऽप्यतदालम्बे विरुद्धोक्तौ तु वस्तुनि।

न बाधा प्रतिबन्धः स्यात् तुल्यकक्षतया तयोः॥९८॥

यथा स्ववाचि तच्चास्य तदा स्ववचनात्मकम्।

तयोः प्रमाणं यस्यास्ति तत् स्यादन्यस्य बाधकम्॥९९॥

प्रतिज्ञामनुमानं वा प्रतिज्ञाऽपेतयुक्तिका।यथार्थ वा बाधेत कथमन्यथा॥१००॥

प्रामाण्यमागमानां च प्रागेव विनिवारितम्।

अभ्युपायविचारेषु तस्माद् दोषोऽयमिष्यते॥१०१॥

तस्माद् विषयभेदस्य दर्शनार्थ पृथक् कृतः।

अनुमानाबहिर्भूतोऽप्यभ्युपायः प्रबाधनात्॥१०२॥

अन्यथाऽतिप्रसङ्गः स्याद् व्यर्थता वा पृथक्कृतेः।

भेदो वाङ्मात्रवचने प्रतिबन्धः स्ववाच्यपि॥१०३॥

तेनाभ्युपगमाच्छास्त्र प्रमाणं सर्ववस्तुषु।

बाधकम् यदि नेच्छेत् स बाधकं किं पुनर्भवेत्॥१०४॥

स्ववाग्विरोधेभेदः स्यात् स्ववाक्शास्त्रविरोधयोः।

पुरुषेच्छाकृता चास्य परिपूर्णा प्रमाणता॥१०५॥

तस्मात् प्रसिद्धेष्वर्थेषु शास्त्रत्यागेऽपि न क्षतिः।

परोक्षेष्वागमानिष्टो न चिन्तैव प्रवर्त्तते॥१०६॥

विरोधोद्भावनप्राया परीक्षाप्यत्र तद्यथा।

अधर्ममूलं रागादि स्नानं चाधर्मनाशनाम्।१०७॥

शास्त्रं यत्सिद्धया युक्त्या स्ववाचा च न बाध्यते।

दृष्टेऽदृष्टेऽपि तद्ग्राह्यमिति चिन्ता प्रवर्त्यते॥१०८॥

अर्थेष्वप्रतिषिद्धत्वात् पुरुषेच्छानुरोधिनः।

इष्टशब्दाभिधेयस्याप्तोऽत्राक्षतवाग् जनः॥१०९॥

उक्तः प्रसिद्धशब्देन धर्मस्तद्व्यवहारजः।

प्रत्यक्षादिमिता मानश्रुत्यारोपेण सुचिताः॥११०॥

तदाश्रयभुवामिच्छानुरोधादनिषेधिनाम्।

कृतानामकृतानां च योग्यं विश्वं स्वभावतः॥१११॥

अर्थमात्रानुरोधिन्या भाविन्या भूतयापि वा।

बाध्यते प्रतिरुन्धानः शब्दयोग्यतयातया॥११२॥

तद्योग्यताबलादेव वस्तुतो घटितो ध्वनिः।

सर्वोऽस्यामप्रतीतेऽपि तस्मिंस्तत्सिद्धता ततः॥११३॥

असाधरणता न स्यात् बाधाहेतोरिहान्यथा।

तन्निषेधोऽनुमानात् स्याच्छब्दार्थेऽनक्षवृत्तितः॥११४॥

असाधारणता तत्र हेतूनां यत्र नान्वयि।

सत्त्वमित्यप्युदाहारो हेतोरेवं कुतो मतः॥११५॥

संकेतसंश्रयाः शब्दाः स चेच्छामात्रसंश्रयः।

नासिद्धिः शब्दसिद्धनामिति शाब्दप्रसिद्धिवाक्॥११६॥

अनुमानप्रसिद्धेषु विरुद्धाव्यभिचारिणः।

अभावं दर्शयत्येवं प्रतीरेरनुमात्वतः॥११७॥

अथ वा ब्रु वतो लोकस्यानुमाऽभाव उच्यते।

किं तेन भिन्नविषया प्रतीतिरनुमानतः॥११८॥

तेनानुमानाद् वस्तूनां सदसतानुरोधिनः।

भिन्नस्यातद्वशा वृत्तिस्तदिच्छाजेति सूचितम्॥११९॥

चन्द्रतां शशिनोऽनिच्छन् कां प्रतीतिं स वाञ्छति।

इति तं प्रत्यदृष्टान्तं तदसाधारणं मतम्॥१२०॥

नोदाहरणमेवेकमधिकृत्येदमुच्यते।

लक्षणत्वात् तथा वृक्षो धात्रीत्युक्तौ च बाधनात्॥१२१॥

अत्रापि लोके दृष्टत्वात् कर्पूररजतादिषु।

समयाद् वर्तमानस्य काऽसाधारणतापि वा॥१२२॥

यदि तस्य क्वचित् सिध्येत् सिद्धं वस्तुबलेन तत्।

प्रतीतिसिद्धोपगमेऽशशिन्यप्यनिवारणम्॥१२३॥

तस्य बस्तुनि सिद्धस्य शशिन्यप्यनिवारणम्।

तद्वस्त्वभावे शशिनि वारणेऽपि न दुष्यति॥१२४॥

तस्मादवस्तुनियतसंकेतबलभाविनाम्।

योग्याः पदार्था धर्माणामिच्छाया अनिरिधनात्॥१२५॥

तां योग्यतां विरुन्धानं संकेताप्रतिषेधजा।

प्रतिहन्ति प्रतीत्याख्या योग्यताविषयेऽनुमा॥१२६॥

शब्दानामर्थमियमः संकेतानुविधायिनाम्।

नेत्यनेनोक्तमत्रैषां प्रतिषेधो विरुध्यते॥१२७॥

नैमित्तिक्याः श्रुतेरर्थमर्थ वा पारमार्थिकम्।

शब्दानां प्रतिरुन्धानोऽबाधनार्हो हि वर्णितः॥१२८॥

तस्माद् विषयभेदस्य दर्शानाय पृथक्कृता।

अनुमानाबहिर्भू ता प्रतीतिरपि पूर्ववत्॥१२९॥

सिद्धयोः पृथगाख्याने दर्शयंश्च प्रयोजनम्।

एते सहेतुके प्राह नानुमाध्यक्षबाधने॥१३०॥

अत्राप्यध्यक्षबाधायां नानारूपतया ध्वनौ।

प्रसिद्धस्य श्रुतौ रूपं यदेव प्रतिभासते॥१३१॥

अद्वयं शबलाभासस्यादृष्तेर्बुद्धिजन्मनः।

तदर्थार्थोक्तिरस्येव क्षेपेऽध्यक्षेण बाधनम्॥१३२॥

तदेव रूपं तत्रार्थः शेष व्यावृत्तिलक्षणम्।

अवस्तुभूतं सामान्यमतस्तन्नाक्षगोचरः॥१३३॥

तेन सामान्यधर्माणामप्रत्यक्षत्वसिद्धितः।

प्रतिक्षेपेऽप्यबाधेति श्रावणोक्त्या प्रकाशितम्॥१३४॥

सर्वथाऽवाच्यरूपत्वात् सिद्ध्या तस्य समाश्रयात्।

बाधनात् तद्बलेनोक्तः श्रावणेनाक्षगोचरः॥१३५॥

सर्वत्र वादिनो धर्मो यः स्वसाध्यतयेप्सितः।

तद्धर्मवति बाधा स्यान्नान्यधर्मेण धर्मिणि॥१३६॥

अन्यथास्योपरोधः को बाधितेऽन्यत्र धर्मिणि।

गतार्थे लक्षणेनास्मिन् स्वधर्मिवचनं पुनः॥१३७॥

बाधायां धर्मिणोऽपि स्याद् बाधेत्यस्य प्रसिद्धये।

आश्रयस्य विरोधन तदाश्रिताविरोधनात्॥१३८॥

अन्यथैवंविधो धर्मः साध्य इत्यभिधानतः।

तद्बाधामेव मन्येत स्वधर्मिग्रहणं ततः॥१३९॥

नन्वेतदप्यर्थशिद्धं सत्यं केचित्तु धर्मिणः।

केवलस्योपरोधेऽपि दोषवत्तमुपागताः॥१४०॥

यथा परैरनुत्पाद्यापूर्वरूपं न खादिकम्।

सकृच्छब्दाद्यहेतुत्वादित्युक्ते प्राह दूषकः॥१४१॥

तद्वद् वस्तुस्वभावोऽसन् धर्मी व्योमादिरित्यपि।

नैवमिष्टस्य साध्यस्य बाधा काचन विद्यते॥१४२॥

द्वयस्यापि हि साध्यत्वे साध्यधर्मोपरोधि यत्।

बाधनं धर्मिणास्तत्र बाधेत्येतेन वर्णितम्॥१४३॥

तथैव धर्मिणोऽप्यत्र साध्यत्वात् केवलस्य न।

यद्येवमत्र बाधा स्यात् नान्यानुत्पाद्यशक्तिकः॥१४४॥

सकृच्छब्दाद्यहेतुत्वात् सुखादिरिति पूर्ववत्।

विरोधिता भवेदत्र हेतुरैकान्तिको यदि॥१४५॥

क्रमक्रीयनित्यतयोरविरोधाद् विपक्षतः।

व्यावृत्तेः संशयान्नायं शेषवद् भेद इष्यते॥१४६॥

स्वयमिष्टो यतो धर्मः साध्यस्तस्मात् तदाश्रयः।

बाध्यो न केवलो नान्यसंश्रयो वेति सूचितम्॥१४७॥

स्वयं श्रुत्यान्यधर्माणां बाधा बाधेति कथ्यते।

तथा स्वधर्मिणान्यस्तधर्मिणोऽपीति कथ्यते॥१४८॥

सर्वसाधनदोषेण पक्ष एवोपरोध्यते।

तथापि पक्षदोषत्वं प्रतिज्ञामात्रभाविनः॥१४९॥

उत्तरावयापेक्षो यो दोषः सोऽनुबध्यते।

तेनेत्युक्तमतो पक्षदोषोऽसिद्धाश्रयादिकः॥१५०॥

धर्मिधर्मविशेषाणां स्वरूपस्य च धर्मिणः।

बाधा साध्याङ्गभूतानामनेनैवोपदर्शिता॥१५१॥

तत्रोदाहृतिदिङ्मात्रमुच्यतेऽर्थस्य दृष्टये।

द्रव्यलक्षणयुक्तोऽन्यः संयोगेऽर्थोऽस्ति दृष्टिभाक्॥१५२॥

अदृश्यस्य विशिष्टस्य प्रतिज्ञा निष्प्रयोजना।

इष्टो ह्यवयवी कार्य दृष्ट्वाऽदृश्येष्वसम्भवि॥१५३॥

अविशिष्टस्य चान्यस्य साधने सिद्धसाधनम्॥

गुरुत्वाधोगती स्यातां यद्यस्य स्यात् तुलानतिः॥१५४॥

तन्निर्गुणक्रियस्तस्मात् समवायि न कारणम्।

तत एव न दृश्योऽसावदृष्टेः कार्यरूपयोः॥१५५॥

तद्बाधान्यविशेषस्य नान्तरीयकभाविनः।

आसूक्ष्माद् द्रव्यमालायास्तोल्यत्वादंशुपातवत्॥१५६॥

द्रव्यान्तरगुरुत्वस्य गतिर्नेत्यपरोऽब्रवीत्।

तस्य क्रमेणं संयुक्ते पांशुराशौ सकृद् युते॥१५७॥

भेदः स्याद् गौरवे तस्मात् पृथक् सह च तोलिते।

सुवर्नमाषकादीनां संख्यासाम्यं न युज्यते॥१५८॥

सर्षपादा महाराशेरुत्तरोत्तरवृद्धिमत्।

गौरवं कार्यमालाया यदि नैवोपलभ्यते॥१५९॥

आ सर्षपाद् गौरवं तु दुर्लक्षितमनल्पकम्।

तोल्यं तत्कारणं कार्यगौरवानुपलक्षणात्॥१६०॥

नन्वदृष्टोंऽशुवत् सोऽर्थो न च तत्कार्यमीक्ष्यते।

गुरुत्वागतिवत् सर्वतद्गुणानुपलक्षणात्॥१६१॥

माषकादेरनाधिक्यम् अनतिः सोपलक्षणम्।

यथास्वमक्षेणादृष्टे रूपादावधिकाधिके॥१६२॥

अभ्युपायः स्ववागाद्यबाधायाः सम्भवेन तु।

उदाहरणमप्यन्यदिशा गम्यं यथोक्त्या॥१६३॥

त्रिकालविषयत्वात् तु कृत्यानामतथात्मकम्।

तथा परं प्रति न्यस्तं साध्यं नेष्टं तदापि तत्॥१६४॥

प्रत्ययनाधिकारे तु सर्वासिद्धवरोधिनी।

यस्मात् साध्यश्रुतिर्नेष्टं विशेषमवलम्बते॥१६५॥

तेनाप्रसिद्धदृष्टान्तहेतुदाहरणं कृतम्।

अन्यथा शशश्रृङ्गादौ सर्वासिद्धेऽपि साध्यता॥१६६॥

सर्वस्य चाप्रसिद्धत्वात् कथञ्चित् तेन न क्षमाः।

कर्मादिभेदोपक्षेपपरिहारविवेचने॥१६७॥

प्रागसिद्धस्वभावत्वात् साध्योऽवयव इत्यसत्।

तुल्या सिद्धान्तता ते हि येनोपगमलक्षणाः॥१६८॥

समुदायस्य साध्यत्वेऽप्यन्योन्यस्य विशेषणम्।

साध्यं द्वयं तदाऽसिद्धं हेतुदृष्टान्तलक्षणम्॥१६९॥

असम्भवात् साध्यशब्दो धर्मिवृत्तिर्यदीष्यते।

शास्त्रेणालं यथायोगं लोक एव प्रवर्त्तताम्॥१७०॥

साधनाख्यानसामर्थ्यात् तदर्थे साध्यता मता।

हेत्वादिवचनैर्व्याप्तेरनाशंक्यं च साधनम्॥१७१॥

पूर्वावधारणे तेन प्रतिज्ञालक्षणाभिधा।

ब्यर्था व्यप्तिफ़ला सोक्तिः सामर्थ्याद् गम्यते ततः॥१७२॥

विरुद्धतेष्टासम्बन्धोऽनुपकारसहास्थिती।

एवं सर्वाङ्गदोषाणां प्रतिज्ञादोषता भवेत्॥१७३॥

पक्षदोषः परापेक्षो नेति च प्रतिपादितम्।

इष्टासम्भव्यसिद्धश्च स एव स्यान्निराकृतः॥१७४॥

अनित्यत्वसहेतुत्वे शब्द एवं प्रकीर्त्तयेत्।

दष्टान्ताख्यानतोऽन्यत् किमस्त्यत्रार्थानुदर्शनम्॥१७५॥

विशेषभिन्नामाख्याय सामान्यस्यानुवर्तने।

न तद्व्याप्तिः फ़लं वा किं सामान्येनानुवर्तने॥१७६॥

स्यान्निराकरणं शब्दे स्थितेनैवेत्यतोऽब्रवीत्।

विरुद्धविषयेऽन्यस्मिन् वदन्नाहान्यतां श्रुतेः॥१७७॥

स च भेदाप्रतिक्षेपात् सामान्यानां न विद्यते।

वृक्षो न शिंशपैवेति यथा प्रकरणे क्वचित्॥१७८॥

सर्वश्रुतेरेकवृत्तिनिषेधः स्यान्न चेयता।

सोऽसवः सर्वभेदानामतत्त्वे तदसम्भवात्॥१७९॥

ज्ञाप्यज्ञापकयोर्भेदात् धर्मिणो हेतुभाविनः।

असिद्धेर्जापकत्वस्य धर्म्यसिद्धः स्वसाधने॥१८०॥

धर्मधर्मिविवेकस्य सर्वभावेष्वसिद्धितः।

सर्वत्र दोषस्तुल्यश्चेन्न संवृत्त्या विशेषतः॥१८१॥

परमार्थविचारेषु तथाभूताप्रसिद्धितः।

तत्त्वान्यत्वं पदार्थेषु सांवृतेषु निषिध्यते॥१८२॥

अनुमानानुमेयार्थव्यहारस्थितिस्त्वियम्।

भेदं प्रत्ययसंसिद्धमवलम्ब्य च कल्प्यते॥१८३॥

यथास्वं भेदनिष्ठेषू प्रत्ययेषू विवेकिनः।

धर्मी धर्माश्च भासन्ते व्यवहारस्तदाश्रयः॥१८४॥

व्यवहारोपनीतोऽत्र स एवाश्लिष्टभेदधीः।

साध्यः साधनतां नीतस्तेनासिद्धः प्रकाशितः॥१८५॥

भेदसामान्ययोर्धर्मभेदादंगांगिता ततः।

यथाऽनित्यः प्रयत्नोत्थः प्रत्यत्नोत्थतया ध्वनिः॥१८६॥

पक्षाङ्गत्वेऽप्यबाधत्वान्नासिद्धिर्भिन्नधर्मिणि।

यथाश्वो न विषाणित्वादेष पिण्डो विषाणवान्॥१८७॥

साध्यकालाङ्गता वा न निवृत्तेरुपलक्ष्य तत्।

विशेषोऽपि प्रतिज्ञार्थो धर्मभेदान्न युज्यते॥१८८॥

पक्षधर्मप्रभेदेन सुखग्रहणसिद्धये।

हेतुप्रकरणार्थस्य सूत्रसंक्षेप उच्यते॥१८९॥

अयोगं योगमपरैरत्यन्तायोगमेव च।

व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः॥१९०॥

विशेषणविशेष्याभ्यां क्रियया च सहोदितः।

विवक्षातोऽप्रयोगेऽपि सर्वोऽर्थोऽयं प्रतीयते॥१९१॥

व्यवच्छेदफ़लं वाक्यं यतश्चैत्रो धनुर्धरः।

पार्थो धनुर्धरो नीलं सरोजमिति वा यथा॥१९२॥

प्रतियोगिव्यच्छेदस्तत्राप्यर्थेषु गम्यते।

तथा प्रसिद्धेः समार्थ्यास् विवक्षानुगमाद् ध्वनेः॥१९३॥

तदयोगव्यवच्छेदाद् धर्मी धर्मविशेषणम्।

तद्विशिष्टतया धर्मो न निरन्वयदोषभाक्॥१९४॥

स्वभावकार्यसिद्ध्यर्थ द्वौ द्वौ हेतुविपर्ययौ।

विवादाद् भेदसामान्ये शेषो व्यावृत्तिसाधनः॥१९५॥

न हि स्वभावादन्येन व्याप्तिर्गम्यस्य कारणे।

सम्भवाद् व्यभिचारस्य द्विधावृतिफ़लं ततः॥१९६॥

प्रयत्नानन्तरं ज्ञानं प्राक् सतो नियमेन न।

तस्यावृत्यक्षशब्देषु सर्वथाऽनुपयोगतः॥१९७॥

कदाचिन्तिरपेक्षस्य कार्याकृतिविरोधतः।

कादाचित्कफ़लं सिद्धं तल्लिङ्गं ज्ञानमीदृशम्॥१९८॥

एतावतैव सिद्धेऽपि स्वभावस्य पृथक् कृतिः।

कार्येण सह निर्देशे मा ज्ञासीत् सर्वमीदृशम्॥१९९॥

व्युत्पत्त्यर्था च हेतूक्तिरुक्तार्थानुमितौ कृता।

अत्र प्रभेद आख्यातः लक्षणं तु न भिद्यते॥२००॥

तेनात्र कार्यलिङ्गेन स्वभावोऽप्येकदेशभाक्।

सदृशोदाहृतिश्चातः प्रत्यत्नाद् व्यक्तिजन्मनः॥२०१॥

यन्नान्तरीका सत्ता यो वात्मन्यविभागवान्।

स तेनाव्यभिचारी स्यादित्यर्थ तत्प्रभेदनम्॥२०२॥

संयोग्यादिषु येष्वस्ति प्रतोबन्धो न तादृशः।

न ते हेतव इत्युक्तं व्यभिचारस्य सम्भवात्॥२०३॥

सति वा प्रतिबन्धेऽस्तु स एव गतिसाधनः।

नियमो ह्यविनाभावो नियतश्च न साधनम्॥२०४॥

एकान्तिकत्वं व्यावृत्तेरविनाभाव उच्यते।

तच्च नाप्रतिबद्धेषु तत एवान्वयस्थितिः॥२०५॥

स्वात्मत्वे हेतुभावे वा सिद्धे हि व्यतिरेकिता।

सिध्येदतोऽविशेषे न व्यतिरेका न वान्वयः॥२०६॥

अदृष्टिमात्रमादाय केवलं व्यतिरेकिता।

उक्तोऽनैकान्तिकस्तस्मादन्यथा गमको भवेत॥२०७॥

प्राणाद्यभावो नैरात्म्यव्यापीति विनिवर्त्तने।

आत्मनो विनिवर्त्तेत प्राणादिर्यदि तच्च न॥२०८॥

अन्यस्य विनिवृत्त्यान्यविनिवृत्तेरयोगतः।

तदात्मा तत्प्रसूतिश्चेत् नतद् आत्मोपलम्भने॥२०९॥

तस्योपलब्धावगतावगतौ च प्रसिध्यति।

ते चात्यन्तपरोक्षस्य दृष्ट्यदृष्टी न सिध्यतः॥२१०॥

अन्यत्रादृष्टरूपस्य घटादौ नेति वा कुतः।

अज्ञातव्यतिरेकस्य व्यावृत्तेर्व्यापिता कुतः॥२११॥

प्राणादेश्च क्वचिद् दृष्ट्या सत्त्वासत्त्वं प्रतीयते।

तथात्मा यदि दृश्येत सत्त्वासत्त्वं प्रतीयते॥२१२॥

यस्य हेतोरभावेन घटे प्राणो दृश्यते।

देहेऽपि यद्यसौ न स्याद् युक्तो देहे न सम्भवः॥२१३॥

भिन्नेऽपि किञ्चित् साधर्म्याद् यदि तत्त्वं प्रतीयते।

प्रमेयत्वाद् घटादीनां सात्मत्वं किन्न मीयते॥२१४॥

अनिष्टेश्चेत् प्रमाणं हि सर्वेष्टीनां निबन्धनम्।

भावाभावव्यवस्थां कः कर्तु तेन विना प्रभुः॥२१५॥

स्मृतीच्छायत्नजः प्राणनिमेषादिस्तदुद्भवः।

विषयेन्द्रियचित्तेभ्यः ताः स्वजातिसमुद्भवाः॥२१६॥

अन्योन्यप्रत्ययापेक्षा अन्वयव्यतिरेकभाक्।

एतावत्याभावोऽयमनवस्थान्यकल्पने॥२१७॥

श्रावणत्वेन तत् तुल्यं प्राणादि व्यभिचारतः।

न तस्य व्यभिचारित्वाद् व्यतिरेकेऽपि चेत् कथम्॥२१८॥

नासाध्यादेव विश्लेषस्तस्य नन्वेवमुच्यते।

साध्येऽनुवृत्त्यभावोऽर्थात् तस्यान्यत्राप्यसौ समः॥२१९॥

असाध्यादेव विच्छेद इति साध्येऽस्तितोच्यते।

अर्थापत्त्याऽत एवोक्तमेकेनोभयदर्शनम्॥२२०॥

ईदृगव्यभिचारोऽतोऽनन्वयिषु न सिध्यति।

प्रतिषेधनिषेधश्च विधानात् कीदृशोऽपरः॥२२१॥

निवृत्तिर्नासतः साध्यादसाध्येष्वेव नो ततः।

नेति सैव निवृत्तिः किं निवृत्तेरसतो मता॥२२२॥

निवृत्त्यभावस्तु बिधिर्वस्तुभावोऽसतोऽपि सन्।

वस्त्वभावस्तु नास्तीति पश्य बान्ध्यविजृम्भितम्॥२२३॥

निवृत्तिर्यदि तस्मिन्न हेतोर्वृत्तिः किमिष्यते।

सापि न प्रतिषेधोऽयं निवृत्तिः किं निषिध्यते॥२२४॥

विधानं प्रतिषेधं च मुक्त्वा शाब्दोऽस्ति नापरः।

व्यवहारः स चासत्सु नेति प्राप्तात्र मूकता॥२२५॥

सतां च न निषेधोऽस्ति सोऽसत्सु च न विद्यते।

जगत्यनेन न्यायेन नञर्थः प्रलयं गतः॥२२६॥

देशकालनिषेधश्चेद् यथास्ति स निषिध्यते

न था न यथा सोऽस्ति तथापि न निषिध्यते॥२२७॥

तस्मादाश्रित्य शब्दार्थ भावाभावसमाश्रम्।

अबाह्याश्रयमत्रेष्टं सर्व विधिनिषेधनम्॥२२८॥

ताभ्यां स धर्मि सम्बद्धः ख्यात्यभवोऽपि तादृशः।

शब्दप्रवृत्तेरस्तीति सोऽपीष्टो व्यवहारभाक्॥२२९॥

अन्यथा स्यात् पदार्थानां विधानप्रतिषेधने।

एकधर्मस्य सर्वात्मविधानप्ररिषेधनम्॥२३०॥

अनानात्मतया भेदे नानाविधिनिषेधवत्।

एकधर्मिण्यसंहारो विधानप्रतिषेधयोः॥२३१॥

एकधर्मिणमुद्दिश्य नानाधर्मसमाश्रयम्।

विधावेकस्य तद्भाजामिवान्येषामुपेक्षकम्॥२३२॥

निषेधे तद्विविक्तं च तदन्येषामपेक्षकम्।

व्यवहारमसत्यार्थ प्रकल्पयति धीर्यथा॥२३३॥

तं तथैवाविकल्पार्थभेदाश्रयमुपागताः।

अनादिवासनोद्भूतं बाधन्तेऽर्थ न लौकिकम्॥२३४॥

तत्फ़लोऽतत्फ़लश्चार्थे भिन्न एकस्ततस्ततः।

तैस्तैरुपप्लवैर्नीतः सञ्चयापचयैरिव॥२३५॥

अतद्वानपि सम्बन्धात् कुतश्चिदुपनीयते।

दृष्टिं भेदाश्रयैस्तेऽपि तस्मादज्ञातविप्लवाः॥२३६॥

सत्तासाधनवृत्तेश्च सन्दिग्धः स्यादसन्न सः।

असत्वं चाभ्युपगमादप्रमानं न युज्यते॥२३७॥

असतो व्यतिरेकेऽपि सपक्षाद् विनिवर्त्तनम्।

सन्दिग्घं तस्य सन्देहाद् विपक्षाद् विनिवर्त्तनम्॥२३८॥

एकत्र नियमे सिद्धे सिध्यत्यन्यनिवर्त्तनम्।

द्वैराश्ये सति दृष्टेषु स्याद्दृष्टेऽपि संशयः॥२३९॥

अव्यक्तिव्यापिनोऽप्यर्थाः सन्ति तज्जातिभाविनः।

क्वचिन्न नियमोऽदृष्ट्या पार्थिवालोहलेख्यवत्॥२४०॥

भावे विरोधस्यादृष्टे कः सन्देहं निवारयेत्।

क्वचिद् विनियमात् कोऽन्यस्तत्कार्यात्मतया स च॥२४१॥

नरात्म्यादपि तेनास्य सन्दिग्धं विनिवर्तनम्।

अस्तु नाम तथाप्यात्मा नानैरात्म्यात् प्रसिध्यति॥२४२॥

येनासौ व्यतिरेकस्य नाभावं भावमिच्छति।

यथा नाव्यतिरेकेऽपि प्राणादिर्न सपक्षतः॥२४३॥

सपक्षाव्यतिरेकी चेद्धेतुर्हेतुरतोन्वयी।

नान्व्य्यव्यतिरेकी चेदनैरात्म्यं न सात्मकम्॥२४४॥

यन्नान्तरीयकः स्वात्मा यस्य सिद्धः प्रवृत्तिषु।

निवर्त्तकः स एवातः प्रवृत्तौ च प्रवर्तकः॥२४५॥

नान्तरीयकता सा च साधनं सधपेक्षते।

कार्येदृष्टिरदृष्टिश्च कार्यकारणता हि सा॥२४६॥

अर्थान्तरस्य तद्भावे भावानियमतोऽगतिः।

अभावासम्भवात् तेषामभावे नित्यभाविनः॥२४७॥

कार्यस्वभावभेदानां कारणेभ्यः समुद्भवात्।

तैर्विना भवतोऽन्यस्मात् तज्जं रूपं कथं भवेत्॥२४८॥

सामग्रीशक्तिभेदाद्धि वस्तूनां विश्वरूपता।

सा चेन्न भेदिका प्राप्तमेकरूपमिदं जगत्॥२४९॥

भेदकाभेदकत्वे स्याद् व्याहता भिन्नरूपता।

एकस्य नानारूपत्वे द्वे रूपे पावकेतरौ॥२५०॥

तत् तस्या जननं रूपमन्यस्य यदि सैव सा।

न तस्या जननं रूपं तदस्याः सम्भवेत् कथम्॥२५१॥

ततः स्वभावौ नियतावन्योन्यं हेतुकार्ययोः।

तस्मात् स्वदृष्टाविव तद् दृष्टे कार्येऽपि गम्यते॥२५२॥

एकं कथमनेकस्मात् क्लेदवद् दुग्धवारिणः।

द्रवशक्तेः यतः क्लेदः सा त्वेकैव द्वयोरपि॥२५३॥

भिन्नाभिन्नः किमस्यात्मा भिन्नोऽथ द्रवता कथम्।

अभिन्नेत्युच्यते बुद्धेस्तद्रूपाया अभेदतः॥२५४॥

तद्वद् भेदेऽपि दहनो दहनप्रत्ययाश्रयः।

येनांशेनादधद् धूमं तेनांशेन तथा गतिः॥२५५॥

दहनप्रत्ययाङ्गादेवान्यापेक्षात् समुद्भवात्।

धूमोऽतद्व्यभिचारीति तद्वत् कार्य तथापरम्॥२५६॥

धूमेन्धनविकाराङ्गतापदे दहनस्थितेः।

अनग्निचेदधूमोऽसौ स धूमश्चेत् स पावकः॥२५७॥

नान्तरीयकता ज्ञेया यथास्वं हेत्वपेक्षया।

स्वभावस्य यथोक्तं प्राग् विनाशकृतकत्वयोः॥२५८॥

अहेतुत्वगतिन्यायः सर्वोऽयं व्यतिरेकिणः।

अभ्यूह्यः श्रावणात्वोक्तेः कृतायाः साम्यदृष्टये॥२५९॥

हेतुस्वभावनुवृत्यैवार्थनिवृत्तिवर्णनात्।

सन्देहहेतुताख्यात्या दृश्येऽर्थे सेति सूचितम्॥२६१॥

अनङ्गीकृतवस्त्वंशो निषेधः साध्यतेऽनया।

वस्तुन्यपि तु पूर्वाभ्यां पर्युदासो विधानतः॥२६२॥

तत्रोपलभ्येष्वस्तित्वमुपलब्धेर्न चापरम्।

इत्यज्ञ्ज्ञापनायैकानुपाख्योदाहृतिर्मता॥२६३॥

विषयासत्त्वतस्त्र विषयि प्रतिषिध्यते।

ज्ञानाभिधानसन्देहं यथा दाहादपावकः॥२६४॥

तथान्या नोपलभ्येषु नास्तितानुपलम्भभनात्।

तज्ज्ञानशब्दाः साध्यन्ते तद्भावात् तन्निबन्धनाः॥२६५॥

सिद्धो हि व्यवहारोऽयं दृश्यादृष्टावसन्निति।

तस्याः सिद्धावसन्दिग्धौ तत्कायत्वेऽपि धीध्वनी॥२६६॥

विद्यमानेऽपि विषये मोहादत्राननुब्रुवन्।

केवलं सिद्धसाधर्म्यात् स्मार्यते समयं परः॥२६७॥

कार्यकारणता यद्वत् साध्यते दृष्ट्यदृष्टितः।

कार्यादिशब्दा हि तयोर्व्यवहाराय कल्पिताः॥२६८॥

कारणात् कार्यसंसिद्धिः स्वभावान्तर्गमादियम्।

हेतुप्रेभेदाख्याने न दर्शितोदाहृतिः पृथक्॥२६९॥

एकोपलम्भानुभवादिदं नोपलभे इति।

बुद्धेरुपलभे वेति कल्पिकायाः समुद्भवः॥२७०॥

विशेषो गम्यतेऽर्थानां विशिष्टादेव वेदनात्।

स्तथाभूतात्मसम्पत्तिर्भेदधीहेतुरस्य च॥२७१॥

तस्मात् स्वतो धियोर्भेदसिद्धिस्ताभ्यां तदर्थयोः।

अन्यथा ह्यनवस्थातो भेदः सिघ्येन्न कस्यचित्॥२७२॥

विशिष्टरूपानुभवादन्यथान्यनिराक्रिया।

तद्विशिष्टोपलम्भोऽतः तस्याप्यनुपलम्भनम्॥२७३॥

तस्मादनुपलम्भोऽयं स्वयं प्रत्यक्षतो गतः।

स्वमात्रवृत्तेर्गमकस्तभावव्यवस्थितेः॥२७४॥

अन्यथार्थस्य नास्तित्वं गम्यतेऽनुपलम्भतः।

उपलम्भस्य नास्तित्वमन्येनेत्यनबस्थितिः॥२७५॥

अदृश्ये निश्चयायोगात् स्थितिरन्यत्र बाध्यते।

यथाऽलिङ्गोऽन्यसत्त्वेषु विकल्पादिर्न सिध्यति॥२७६॥

अनिश्चयफ़ला ह्येषा नालं व्यावृत्तिसाधने।

आद्याधिक्रियते हेतोर्निश्चितेनैव साधने॥२७७॥

तस्याः स्वयं प्रयोगेषु स्वरूपं वा प्रयुज्यते।

अर्थबाधनरूपं वा भावे भावादभावतः॥२७८॥

अन्योन्यभेदसिद्धेर्वा ध्रू वभावबिमाशवत्।

प्रमाणान्तरबाधाद् वा सापेक्षध्रु वभाववत्॥२७९॥

हेत्वन्तरसमुत्थस्य सन्निधौ नियतः कुतः।

भावहेतुभवत्वे किं पारम्पर्यपरिश्रमैः॥२८०॥

नाशनं जनयित्वान्यं स हेतुस्तस्य नाशकः।

तमेव नश्वरं भावं जनयेद् यदि किं भवेत्॥२८१॥

आत्मोपकारकः कः स्यात् तस्य सिद्धत्मनः सतः।

नात्मोपकारकः कः स्यात् तेन यः समपेक्ष्यते॥२८२॥

अनपेक्षश्च किं भावोऽतथाभूतः कदाचन।

यथा न क्षेपभागिष्टः स एवोद्भूतनाशकः॥२८३॥

क्षणमप्यनपेक्षत्वे भावो भावस्य नेति चेत्।

भावो हि स तथा भूतोऽभाव भावस्तथा कथम्॥२८४॥

येऽपरापेक्षतद्भावास्तद्भावनियता हि ते।

असम्भवद्विबन्धा च समग्री कार्यकर्मणि॥२८५॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project