Digital Sanskrit Buddhist Canon

तृतीयः स्वार्थानुमानपरिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Tṛtīyaḥ svārthānumānaparicchedaḥ

तृतीयः स्वार्थानुमानपरिच्छेदः

स्वोपज्ञवृत्तिसहितः

पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः।

अविनाभावनियमाद्धेत्वाभासास्ततोऽपरे॥१॥

कार्य स्वभावैर्यावद्भिरविनाभावि कारणे

हेतुः स्वभावे भावोऽपि भावमात्रानुरोधिनि॥२॥

अप्रवृत्तिः प्रमाणानाम् अप्रवृत्तिफ़लाऽसति।

असज्ज्ञानफ़ला काचिद् हेतुभेदव्यपेक्षया॥३॥

विरुद्धकार्योः सिद्धिरसिद्धिर्हेतुभावयोः।

दृश्यात्मनोरभावार्थानुपलब्धिश्चतुर्विधा॥४॥

तद्विरुद्धिनिमित्तस्य योपलब्धिः प्रयुज्यते।

निमित्तयोर्विरुद्धत्वाभावे सा व्यभिचारिणी॥५॥

इष्टं विरुद्धकार्येऽपि देशकालाद्यपेक्षणम्।

अन्यथा व्यभिचारि स्यात् भस्मेवाशीतसाधने॥६॥

हेतुना यः समग्रेण कायात्पादोऽनुमीयते।

अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्नितः॥७॥

सामग्रीफ़लशक्तीनां परिणामानुबन्धिनि।

अनैकान्तिकता कार्ये प्रतिबन्धस्य सम्भवात्॥८॥

एकसामग्र्यधीनस्य रूपादे रसतो गतिः।

हेतुधर्मानुमानेन धूमेन्धनविकारवत्॥९॥

शक्तिप्रवृत्त्या न विना रसः सैवान्यकारणम्।

इत्यतीतैककालानां गतिस्तस्तत्कार्यलिङ्गजा॥१०॥

हेतुना योऽसमग्रेण कार्योत्पादोऽनुमीयते।

तच्छेषवदसामर्थ्याद् देहाद् रागानुमानवत्॥११॥

विपक्षेऽदृष्टिमात्रेण कार्यसामान्यदर्शनात्।

हेतुज्ञानं प्रमाणाभं वचनाद् रागितादिवत्॥१२॥

न चादर्शनमात्रेण विपक्षेऽव्यभिचारिता।

सम्भाव्यव्यभिचारित्वात् स्थालीतण्डुलपाकवत्॥१३॥

यस्यादर्शनमात्रेण व्यतिरेकः प्रदर्श्यते।

तस्य संशयहेतुत्वाच्छेषवत् तदुदाहृतम्॥१४॥

हेतोस्त्रिष्वपि रूपेषु निश्चयस्तेन वर्णितः।

असिद्धविपरीतार्थव्यभिचारिविपक्षतः॥१५॥

व्यभिचारिविपक्षेण वधर्म्यवचनं च यत्।

यद्यदृष्टिफ़लं तच्च तदनुक्तेऽपि गम्यते॥१६॥

न च नास्तीति वचनात् तन्नास्त्येव यथा यदि।

नास्ति स ख्याप्यते न्यायस्तदा नास्तीति गम्यते॥१७॥

यद्यदृष्टौ निवृत्तिः स्याच्छेषवद् व्यभिचारि किम्।

व्यतिरेक्यपि हेतुः स्यान्न वाच्याअसिद्धियोजना॥१८॥

विशेषस्य व्यवच्छेदहेतुता स्याददर्शनात्।

प्रमाणान्तरबाधा चेन्नेदानीं नास्तिताऽदृशः॥१९॥

तथाऽन्यत्रापि सम्भाव्यं प्रमाणान्तरबाधनम्।

दृष्टाऽयुक्तिरदृष्टेश्च स्यात् स्पर्शस्यविरोधिनी॥२०॥

देशादिभेदाद् दृश्यन्ते भिन्ना द्रव्येषु शक्तयः।

तत्रैकदृष्ट्या नान्यत्र युक्तस्तद्भावनिश्चयः॥२१॥

आत्ममृच्चेतनादीनां योऽभावस्याप्रसाधकः।

स एवानुपलम्भः किं हेत्वभावस्य साधकः॥२२॥

तस्मात् तन्मात्रसम्बद्धः स्वभावो भावमेव वा।

निर्वतयेत् कारणं वा कायमव्यभिचारतः॥२३॥

अन्यथकनिवृत्तयाऽन्यविनिवृत्तिः कथं भवेत्।

नाश्चवानिति मर्त्येन न भाव्यं गोमताऽपि किम्॥२४॥

सन्निधानात् तथैकस्य कथमन्यस्य सन्निधिः।

गोमानित्येव मर्त्येन भाव्यमश्ववताऽपि किम्॥२५॥

तस्माद् वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रयः।

तदभावे च तन्नेति वचनादपि तद्गतिः॥२६॥

तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः।

ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः॥२७॥

तेनैव ज्ञातसम्बन्धे द्वयोरन्यतरोक्तितः।

अर्थापत्त्या द्वितीयेऽपि स्मृतिः समुपजायते॥२८॥

हेतुस्वभावाभावोऽतः प्रतिषेधे च कस्यचित्।

हेतुः, युक्तोपलम्भस्य तस्य चानुपलम्भनम्॥२९॥

इतीयं त्रिविधोक्तऽप्यनुपलब्धिरनेकधा।

तत्तद्विरिद्धाद्यगतिभेदप्रयोगतः॥३०॥

कार्यकारणभावाद् वा स्वभावाद् वा नियामकात्।

अविनाभावनियमोऽदर्शनान्न न दर्शनात्॥३१॥

अवश्यंभावनियमः कः परस्यान्यथा परैः।

अर्थान्तरनिमित्ते वा धर्मे वाससि रागवत्॥३२॥

अर्थान्तरनिमित्तो हि धर्मः स्यादन्य एव सः।

पश्याद् भावान्न हेतुत्वं फ़लेऽप्येकान्तता कुतः॥३३॥

कार्य धूमो हुतभुजः कायधर्मानुवृत्तितः।

तस्याभावे तु स भवन् हेतुमतां विलङ्घयेत्॥३४॥

नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात्।

अपेक्षातश्च भावानां कादाचित्कस्य सम्भवः॥३५॥

अग्निस्वभावः शक्रम्य मूर्धा यद्यग्निरेव सः।

अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत्॥३६॥

धूमहेतुस्वभावो हि वह्निस्तच्छक्तिभेदवान्।

अधूमहेतोर्धूमस्य भावे स स्यादहेतुकः॥३७॥

अन्वयव्यतिरेकाद् यो यस्य दृष्टोऽनुवर्तकः।

स्वभावस्तस्य तद्धेतुरतो भिन्नान्न सम्भवः॥३८॥

स्वभावेऽप्यविनाभावो भावमात्रानुरोधिनि।

तद्भावे स्वयम्भावस्याभावः स्यादभेदतः॥३९॥

सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः।

स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः॥४०॥

तस्माद् यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः।

जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः॥४१॥

तस्माद् विशेषो यो येन धर्मेण सम्प्रतीयते।

न द शक्यस्ततोऽन्येन तेन भिन्ना व्यवस्थितिः॥४२॥

एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम्।

कोऽन्यो भागो न दृष्टः स्याद् यः प्रमाणैः परीक्ष्यते॥४३॥

नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम्।

शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात्॥४४॥

तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः।

भ्रान्तेर्निश्चीयते नेति साधनं सम्प्रवर्तते॥४५॥

वस्तुग्रहेऽमनुमानाच्च धर्मस्यैकस्य निश्चये।

सर्वग्रहो ह्यपोहे तु नायं दोषः प्रसज्यते॥४६॥

तस्मादपोहविषयमिति लिङ्गं प्रकीर्तितम्।

अन्यथा धर्मिणः सिद्धवसिद्धं किमतः परम्॥४७॥

क्वचित् सामान्यविषयं दृष्टे ज्ञानमलिङ्गजम्।

कथमन्योपोहविषयं तन्मात्रापोहगोचरम्॥४८॥

निश्चयारोपमनसिर्बाध्यबाधकभावतः।

समारोपविवेकेऽस्य प्रवृत्तिरिति गम्यते॥४९॥

यावन्तोंऽशसमारोपास्तन्निरासे विनिश्चयाः।

तावन्त एव शब्दाश्च तेन ते भिन्नगोचराः॥५०॥

अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि।

बुद्ध् या वा नान्यविसय इति पर्यायता भवेत्॥५१॥

यस्यापि नानोपाधेर्धीर्ग्राहिकाऽर्थस्य भेदिनः।

नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे॥५२॥

सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्चितः।

तयोरात्मनि सम्बन्धादेकज्ञाने द्वयग्रहः॥५३॥

धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि।

नोपकारस्ततस्तासां तदा स्यादनवस्थितिः॥५४॥

एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे।

दृष्टे तस्मिन्नदृष्टाश्च तद्ग्रहे सकलग्रहः॥५५॥

यदि भ्रान्तिनिवृत्त्यर्थ गृहीतेऽप्यन्यदिष्यते।

तद्व्यवच्छेदविषयं सिद्धं तद्वत् ततोऽपरम्॥५६॥

असमारोपविषये वृत्ते रपि च निश्चयैः।

यन्न निश्चीयते रूपं तत् तेषां विषयः कथम्॥५७॥

प्रत्यक्षेण गृहीतेऽपि विशेर्षेऽशविबर्जिते।

यद्विशेषावसायेऽस्ति प्रत्ययः स प्रतीयते॥५८॥

तत्रापि चान्यव्यावृत्तिरन्यव्यावृत्त इत्यपि।

शब्दाश्च निश्चयाश्चैव निमित्तमनुरिन्धते॥५९॥

द्वयोरेकाभिधानेऽपि बिभक्तिर्व्यतिरेकिणी।

भिन्नमर्थमिवान्वेति वाच्यलेशविशेषतः॥६०॥

भेदान्तरप्रतिक्षे पाप्रतिक्षेपौ तयोर्द्वयोः।

पदं संकेतभेदस्य ज्ञातृवाञ्छाऽनुरिधिनः॥६१॥

भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः।

शब्दयोर्न तयोर्वाच्ये विशेषस्तेन कश्चन॥६२॥

जिज्ञापयिषुरर्थ तं तद्धितेन तं तद्धितेन कृताऽपि वा।

अन्तेन वा यदि ब्रू यात् भेदो नास्ति ततः परः॥६३॥

तेनान्यापोहविषये तद्वत्पक्षोपवर्णनम्।

प्रत्याख्यातं पृथक्त्वे हि स्याद् दोषो जातितद्वतोः॥६४॥

येषां वस्तुवशा वाचो न वोवक्षापराश्रयाः।

षष्ठीवचनभेदादि चोद्यं तान् प्रति युक्तिमत्॥६५॥

यद् यथा वाचकत्वेन वक्तृभिर्विनियम्यते।

अनपेक्षितवाह्यार्थ तत् तथा वाचकं वचः॥६६॥

दाराः षण्णगरीत्यादौ भेदाभेदव्यवस्थितेः।

खस्य स्वभावः खत्वं चेत्यत्र वा किं निबन्धनम्॥६७॥

पररूपं स्वरूपेण यया संव्रियते धिया।

एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः॥६८॥

तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम्।

अभेदिन इवाभान्ति भावा रूपेण केनचित्॥६९॥

तस्या अभिप्रायवशात् सामान्यं सत् प्रकीर्तितम्।

तदसत् परमार्थेन यथा सङ्कल्पितं तया॥७०॥

व्यक्तयो नानुयन्त्यन्यसनुयायि न भासते।

ज्ञानादव्यतिरिक्तं वा कथमर्थान्तरं व्रजेत्॥७१॥

तस्मान्मिथ्याविकल्पोऽयमर्थेष्वेकात्मताग्रहः।

इतरेतरभेदोऽस्य बीजं संज्ञा यदर्थिका॥७२॥

एकप्रत्यवमर्शार्थज्ञानाद्ये काथसाधने।

भेदेऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत्॥७३॥

ज्वरादिशमने काश्चित् सह प्रत्येकमेव वा।

दृष्टा यथा वौषधयो नानात्वेऽपि न चापराः॥७४॥

अविशेषान्न सामान्यमविशेषप्रसङ्गतः।

तासां क्षेत्रादिभेदेऽपि ध्रौव्याच्चानुपकारतः॥७५॥

तत्स्वभावग्रहाद् या धीस्तदर्थे वाऽप्यनर्थिका।

विकल्पिकाऽतत्कार्यार्थभेदनिष्ठा प्रजायते॥७६॥

तस्यां यद्रू पमाभाति बाह्यमेकमिवान्यतः।

व्यावृत्तमिव निस्तत्त्वं परीक्षानङ्गभावतः॥७७॥

अर्था ज्ञाननिविष्टास्त एवं व्यावृत्तरूपकाः।

अभिन्ना इव चाभान्ति व्यावृत्ताः पुनरन्यतः॥७८॥

त एव तेषां सामान्यसमानाधारगोचरैः।

ज्ञानाभिधानैर्मिथ्यार्थो व्यवहारः प्रतन्यते॥७९॥

स च सर्वः पदार्थानामन्योन्याभावसंश्रयः।

तेनान्यापोहविषयो वस्तुमाभस्य चाश्रयः॥८०॥

यत्रास्ति वस्तुसम्बन्धो यथोक्तानुमितौ यथा।

नान्यत्र भ्रान्तिसाम्येऽपि दीपतेजो मणौ यथा॥८१॥

तत्रैककार्योऽनेकोऽपि तदकार्यान्यताश्रयः।

एकत्वेनाभिधाज्ञानैर्व्यवहारः प्रतार्यते॥८२॥

ततोऽनेककृदेकोऽपि तद्भावपरिदीपने।

अतत्कार्यार्थभेदेन नानाधर्मा प्रतीयते॥८३॥

यथाप्रतीति कथितः शब्दार्थोऽसावसन्नपि।

समानाधिकरण्यं च वस्तुन्यस्य न सम्भवः॥८४॥

धर्मधर्मिव्यस्थानं भेदोऽभेदश्च यादृशः।

असमीक्षिततत्त्वार्थो यथा लोके प्रतीयते॥८५॥

तं तथैव समाश्रित्य साध्यसाधनंसंस्थितिः।

परमार्थावताराय विद्वद्भिरवकल्प्यते॥८६॥

संसृज्यन्ते न भिद्यन्ते स्वतोऽर्थाः पारमार्थिकाः।

रूपमेकमनेकं च तेषु बुद्धेरुपप्लवः॥८७॥

भेदस्ततोऽयं बौद्धेऽर्थे सामान्यं भेद इत्यपि।

तस्यैव चान्यव्यावृत्त्या धर्मभेदः प्रकल्प्यते॥८८॥

साध्यसाधनसंकल्पे वस्तुदर्शनहानितः।

भेदः सामान्यसंसृष्टो ग्राह्यो नात्र स्वलक्षणम्॥८९॥

समानभिन्नाद्याकारैर्न तद् ग्राह्यं कथंचन।

भेदानां बहुभेदानां तत्रैकस्मिन्नयोगतः॥९०॥

तद्रू पं सर्वतो भिन्नं तथा तत्प्रतिपादिका।

न श्रुतिः कल्पना वाऽस्ति समान्येनैव वृत्तितः॥९१॥

शब्दाः संकेतितं प्राहुर्व्यवहाराय स स्मृतः।

तदा स्वलक्षणं नास्ति संकेतस्तेन तत्र न॥९२॥

अपि प्रवर्त्तेत पुमान् विज्ञायार्थक्रियाक्षमान्।

तत्साधनायेत्यर्थेषु संयोज्यन्तेऽभिधाक्रियाः॥९३॥

तत्रानर्थक्रियायोग्या जातिस्तद्वानलं स च।

साक्षान्न योज्यते कस्मादानन्त्याच्चेदिदं समम्॥९४॥

तत्कारिणामतत्कारिभेदसाम्ये न किं कृतः।

तद्वद्दोषस्य साम्याच्चेदस्तु जातिरलं परा॥९५॥

तदन्यपरिहारेण प्रवर्तेतेति च ध्वनिः।

उच्यते तेन तेभ्योऽस्याव्यवच्छेदे कथं च सः॥९६॥

व्यवच्छेदोऽस्ति चेदस्य नन्वेतावत् प्रयोजनम्।

शब्दानामिति किं तत्र सामान्येनापरेण वः॥९७॥

ज्ञानाद्यर्थक्रियां तां तां दृष्ट्वा भेदेऽपि कुवतः।

अर्थां स्तदन्यविश्लेषविषयैर्ध्वनिभिः सह॥९८॥

संयोज्य प्रत्यभिज्ञानं कुर्यादप्यन्यदर्शने।

परस्यापि न सा बुद्धिः सामान्यादेव केवलात्॥९९॥

नित्यं तन्मात्रविज्ञाने व्यक्त्यज्ञानप्रसङ्गतः।

तदा कदाचित् सम्बद्धस्यागृहीतस्य तद्वतः॥१००॥

तद्वत्तानिश्चयो न स्याद् व्यवहारस्ततः कथम्।

एकवस्तुसहायाश्चेद् व्यक्तयो ज्ञानकारणम्।१०१॥

तदेकं वस्तु किं तासां नानात्वं समपोहति।

नानात्वाच्चैकविज्ञानहेतुता तासु नेष्यते॥१०२॥

अनेकमपि यद्ये कमपेक्ष्याभिन्नबुद्धिकृत्।

ताभिर्विनापि प्रत्यकं क्रियमाणां धियं प्रति॥१०३॥

तेनैकेनापि सामर्थ्य तासां नेत्यग्रहो धिया।

नीलादेर्नेत्रविज्ञाने पृथक् सामर्थ्यदर्शनात्॥१०४॥

शक्तिसिद्धिः समूहेऽपि नैवं व्यक्तेः कथञ्चन।

तासामन्यतामापेक्ष्यं तच्चेच्छक्तं न केवलम्॥१०५॥

तदेकमुपकुर्युस्ताः कथमेकां धियं च न।

कार्य च तासां प्राप्तोऽसौ जननं यदुपक्रिया॥१०६॥

अभिन्नप्रतिभासा धीर्न भिन्नेष्विति चेन्मतम्।

प्रतिभासो धिया भिन्नः समाना इति तद्ग्रहात्॥१०७॥

कथं ता भिन्नधीग्राह्याः समाश्चेदेककार्यता।

सादृश्यं ननु धीः कार्य तासां सा च विभिद्यते॥१०८॥

एकप्रत्यवमर्शस्य हेतुत्वाद् धीरभेदिनी।

एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता॥१०९॥

सा चातत्कार्यविश्लेषस्तदन्यस्यानुवर्तिनः।

अदृष्टेः प्रतिषेधाच्च संकेतस्तद्विदर्थिकः॥११०॥

अतत्कारिविवेकेन प्रवृत्त्यर्थतया श्रुतिः।

अकार्यकृति तत्कारितुल्यरूपावभासिनीम्॥१११॥

धियं वस्तुपृथग्भावमात्रबीजामनर्थिकाम्।

जनयन्त्यप्यतत्कारिपरिहाराङ्गभावतः॥११२॥

वस्तुभेदाश्रयाच्चार्थे न विसंवादिका मता।

ततोऽन्यापोहविषया तत्कर्त्राश्रितभावतः॥११३॥

अवृक्षव्यतिरेकेण वृक्षार्थग्रहणे द्वयम्।

अन्योन्याश्रयमित्येकग्रहाभावे द्वयाग्रहः॥११४॥

सङ्केतासम्भवस्तस्मादिति केचित् प्रचक्षते।

तेषामवृक्षाः संङ्केते व्यवच्छिन्ना न वा यदि॥११५॥

व्यवच्छिन्नाः कथं ज्ञाताः प्राग्वृक्षग्रहणादृते।

अनिराकरणे तेषां संकेते व्यवहारिणाम्॥११६॥

न स्यात् तत्परिहारेण प्रवृत्तिर्वृ क्षभेदवत्।

अविधाय निषिध्यान्यत् प्रदर्श्यैकं पुरः स्थितम्॥११७॥

वृक्षोऽयमिति संकेतः क्रियते तत् प्रपद्यते।

व्यवहारेऽपि तेनायमदोष इति चेत् तरुः॥११८॥

अयमप्ययमेवेति प्रसङ्गो न निवर्तते।

एकप्रत्यवमर्शाख्ये ज्ञाने एकत्र हि स्थितः॥११९॥

प्रपत्ता तदतद्धेतूनर्थान् विभजते स्वयम्।

तद्बुद्धिवर्तिनो भावान् भातो हेतुतया धियः॥१२०॥

अहेतुरूपविकलानेकरूपानिव स्वयम्।

भेदेन प्रतिपद्येतेत्युक्तिर्भेदे नियुज्यते॥१२१॥

तं तस्या प्रतियती धीः भ्रान्त्यैकं वस्त्विवेक्षते।

क्वचिन्निवेशनायार्थे विनिवर्त्य कुतश्चन॥१२२॥

बुद्धेः प्रयुज्यते शब्दस्तदर्थस्यावधारणात्।

व्यर्थोऽन्यथा प्रयोगः स्यात् तज्ज्ञेयादिपदेष्वपि॥१२३॥

व्यवहारोपनीतेषु व्यवच्छेद्योऽस्ति कश्चन।

निवेशनं च यो यस्माद् भिद्यते विनिवर्त्य तम्॥१२४॥

तद्भेदे भिद्यमानानां समानाकारभासिनि।

स चायमन्यव्यावृत्त्या गम्यते तस्य वस्तुनः॥१२५॥

कश्चिद् भाग इति प्रोक्तो रूपं नास्यापि किञ्चिन।

तद्गतावेव शब्देभ्यो गम्यतेऽन्यनिवर्तनम्॥१२६॥

न तत्र गम्यते कश्चिद् विशिष्टः केनचित् परः।

न चापि शब्दो द्वयकृदन्योन्याभाव इत्यसौ॥१२७॥

अरूपो रूपत्त्वेन दर्शनं बुद्धिविप्लवः।

तेनैवापरमार्थोऽसावन्यथा न हि वस्तुनः॥१२८॥

व्यावृत्तिर्वस्तु भवति भेदोऽस्यास्मादितिरणात्।

एकार्थश्लेषविच्छेद एको व्याप्रियते ध्वनिः॥१२९॥

लिङ्गं वा तत्र विच्छिन्नं वाच्यं वस्तु न किञ्चन।

यस्याभिधानतो वस्तुसामर्थ्यादखिले गतिः॥१३०॥

भवेन्नानाफ़लः शब्द एकाधारो भवत्यतः।

विच्छेदं सूचयन्नेकमप्रतिक्षिप्य वर्तते॥१३१॥

यदान्यत् तेन स व्याप्त एकत्वेन च भासते।

सामानधिकरण्यं स्यात् तदा बुद्धयनुरोधतः॥१३२॥

वस्तुधर्मस्य संस्पर्शो विच्छेदकरणे ध्वनेः।

स्यात् सत्यं स हि तत्रेति नैकवस्त्वभिधायिनि॥१३३॥

बुद्धावभासमानस्य दृश्यस्याभावनिश्चयात्।

तेनान्यापोहविषयाः प्रोक्ताः सामान्यागोचराः॥१३४॥

शब्दाश्च बुद्धयश्चैव वस्तुन्येषामसम्भवात्।

एकत्वाद् वस्तुरूपस्य भिन्नरूपा मतिः कुतः॥१३५॥

अन्वयव्यतिरेकौ वा नैकस्यैकार्थगोचरौ।

अभेदव्यवहाराश्च भेदे स्युरनिबन्धनाः॥१३६॥

सर्वत्र भावद् व्यावृत्तेर्नैते दोषाः प्रसङ्गिनः।

एकाकार्येषु भावेषु तत्कार्यपरिचोदने॥१३७॥

गौरवाशक्तिवैफ़ल्याद् भेदाख्यायाः समा श्रुतिः।

कृता बृद्धैरतत्कार्यव्यावृत्तिविनिबन्धना॥१३८॥

न भावे सर्वभावानां स्वस्वभावव्यवस्थितेः।

यद् रूपं शाबलेयस्य बाहुलेयस्य नास्ति तत्॥१३९॥

अतत्कार्यपरावृत्तिर्द्वयोरपि च विद्यते।

अर्थाभेदेन च विना शब्दाभेदो न युज्यते॥१४०॥

तस्मात् तत्कार्यतापीष्टा तत्कार्यादेव भिन्नता।

चक्षु रादौ यथा रूपविज्ञानैकफ़ले क्वचित्॥१४१॥

अविशेषेरेण तत्कार्यचोदनसम्भवे सति।

सकृत् सर्वप्रतीत्यर्थ कश्चित् सांकेतिकीं श्रुतिम्॥१४२॥

कुर्यादृतेऽपि तद्रू पसामान्याद् व्यतिरेकिणः।

एकवृत्तेरनेकोऽपि यद्येकश्रुतिमान् भवेत्॥१४३॥

वृत्तिराधेयता व्यक्तिरिति तस्मिन्न युज्यते।

नित्यस्यानुपकार्यस्वान्नाधारः प्रविसर्पतः॥१४४॥

शक्तिस्तद्देशजननं कुण्डादेर्बदरादिषु।

न सम्भवति साऽप्यत्र तदभावेऽप्यवस्थितेः॥१४५॥

न स्थितिः साप्ययुक्तैव भेदाभेदविवेचने।

विज्ञानोत्पत्तियोग्यत्वायात्मन्यन्यानुरोधि यत्॥१४६॥

तद् व्यङ्ग्यं योग्यतायाश्च कारणं कारकं मतम्।

प्रागेवास्य च योग्यत्वे तदपेक्षा न युज्यते॥१४७॥

सामान्यस्याविकार्यस्य तत्सामान्यवतः कुतः।

अञ्जनादेरिव व्यक्तेः संस्कारो नेन्द्रियस्य च॥१४८॥

प्रतिपत्तेरभिन्नत्वात् तद्भावाभावकालयोः।

व्यञ्जकस्य च जातीनां जातिमत्ता यदीष्यते॥१४९॥

प्राप्तो गोत्वादिना तद्वान् प्रदीपादिः प्रकाशकः।

व्यक्तेरन्याथ वानन्या येषां जातिस्तु विद्यते॥१५०॥

तेषां व्यक्तिष्वपूर्वासु कथं सामान्यबुद्धयः।

एकत्र तत्सतोऽन्यत्र दर्शनासम्भवात् सतः॥१५१॥

अनन्यत्वेऽन्वयाभावादन्यत्वेऽप्यनपाश्रयात्।

न याति न च तत्रासीदस्ति पश्चान्न चांशवत्॥१५२॥

जहाति पूर्व नाधारमहो व्यसनसन्ततिः।

अन्यत्र वर्त्तमानस्य ततोऽन्यस्थानजन्मनि॥१५३॥

स्वस्मादचलतः स्थानाद् वृत्तिरित्यतियुक्तिमत्।

यत्रासौ वर्त्तते भावस्तेन सम्बध्यतेऽपि न॥१५४॥

तद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम्।

व्यक्त्यैवैकत्र सा व्यक्ताअभेदात् सर्वत्रगा यदि॥१५५॥

सर्वत्र दृश्येताभेदात् सापि न व्यक्तपेक्षिणी।

ब्यञ्जकस्याप्रतीतौ न व्यङ्ग्यं सम्यक् प्रतीयते॥१५६॥

विपर्ययः पुनः कस्मादिष्टः सामान्यतद्वतोः।

पाचकादिष्वभिन्नेन विनाप्यर्थेन वाचकः॥१५७॥

भेदान्न हेतुः कर्मास्य न जातिः कर्मसंश्रयात्।

श्रुत्यन्तरनिमित्तत्वात् स्थित्यभावाच्चकर्मणः॥१५८॥

असम्बन्धान्न सामान्यं नायुक्तं शब्दकारणात्।

अतिप्रसंगात् कर्मापि नासत् ज्ञानाभिधानयोः॥१५९॥

अनैमित्तिकतापत्तेः न च शक्तिरनन्वयात्।

सामान्यं पाचकत्वादि यदि प्रागेव तद् भवेत्॥१६०॥

व्यक्तं सत्तदिवन्नो चेन्न पश्चादविशेषतः।

क्रियोपकारापेक्षस्य व्यञ्जकत्वेऽविकारिणः॥१६१॥

नापेक्षातिशयेऽप्यस्य क्षणिकत्वात् क्रिया कुतः।

तुल्ये भेदे यया जाति प्रत्यासत्त्या प्रसर्पति॥१६२॥

क्वचिन्नान्यत्र सैवास्तु शब्दज्ञाननिबन्धनम्।

न निवृत्तिं विहायास्ति यदि भावान्वयोऽपरः॥१६३॥

एकस्य कार्यमन्यस्य न स्यादत्यन्तभेदतः।

यद्येकात्मतयानेकः कार्यस्यैकस्य कारकः॥१६४॥

आत्मैकत्रापि वा सोऽस्तीति व्यर्थाः स्युः सहकारिणः।

नपैत्यभिन्नं तद् रूपं विशेषाः खल्वपायिनः॥१६५॥

एकापाये फ़लाभावाद् विशेषेभ्यस्तदुद्भवः।

स पारमार्थिको भावो य एवार्थक्रियाक्षमः॥१६६॥

स च नान्वेति योन्वेति न तस्मात् कार्यसम्भवः।

तेनात्मनापि भेदे हि हेतुः कश्चिन्न चापरः॥१६७॥

स्वभावोऽयमभेदे तु स्यातां नोशोद्भवौ सकृत्।

भेदोऽपि तेन नैवं चेत् य एकस्मिन् विनश्यति॥१६८॥

तिष्ठत्यात्मा न तस्यातो न स्यात् सामान्यभेदधीः।

निवृत्तेर्निःस्वभावत्वात् नास्थानस्थानकल्पना॥१६९॥

उपप्लवश्च सामान्यधियस्तेनाप्यदूषणा।

यत् तस्य जनकं रूपं ततोऽन्यो जनकः कथम्॥१७०॥

भिन्ना विशेषा जनकाः अस्त्यभेदोऽपि तेषु चेत्।

तेन तेऽजनकाः प्रोक्ताः प्रतिभासोऽपि भेदकः॥१७१॥

अनन्यभाक् स एवार्थस्तस्य व्यावृत्तयोऽपरे।

तत् कार्यकारणं चोक्तं तत् स्वलक्षणमिष्यते॥१७२॥

तत्त्यागाप्तिफ़लाः सर्वाः पुरुषाणां प्रवृत्तयः।

यथा भेदाविशेषेऽपि न सर्व सर्वसाधनम्॥१७३॥

तथा भेदाविशेषेऽपि न सर्व सर्वसाधनम्।

भेदे हि कारकं किञ्चिद् वस्तुधर्मतया भवेत्॥१७४॥

अभेदे तु विरुध्यते तस्यैकस्य क्रियाक्रिये।

भेदोऽप्यस्त्यक्रियातश्चेद् न कुर्युः सहकारिणः॥१७५॥

पर्यायेणाथ कर्तृत्वं स किं तस्यैव वस्तुनः।

अत्यन्तभेदाभेदौ तु स्यातां तद्वति वस्तुनि॥१७६॥

अन्योन्यं वा तयोर्भेद्ः सदृशासदृशात्मनोः।

तयोरपि भवेद् भेदो यदि येनात्मना तयोः॥१७७॥

भेदः सामान्यमित्येतद् यदि भेदस्तदात्मना।

भेद एव तथा च स्यान्निःसामान्यविशेषता॥१७८॥

भेदसामान्ययोर्यद्वद् घटादीनां परस्परम्।

यमात्मानं पुरस्कृत्य पुरुषोऽयं प्रवर्तते॥१७९॥

तत्साध्यफ़लवाञ्छावान् भेदाभेदौ तदाश्रयौ।

चिन्त्येते स्वात्मना भेदो व्यावृत्त्या च समानता॥१८०॥

अस्त्येव वस्तु नान्वेति प्रवृत्त्यादिप्रसङ्गतः।

एतेनैव यदह्रीकाः किमप्यश्लीलमाकुलम्॥१८१॥

प्रलपन्ति प्रतिक्षिप्तं तदप्येकान्तसम्भवात्।

सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः॥१८२॥

चोदितो दधि खादेति किमुष्ट्रं नाभिधावति।

अथास्त्यतिशयः कश्चिद् येन भेदेन वर्त्तते॥१८३॥

स एव दधि सोऽन्यत्र नास्तीत्यनुभयं परम्।

सर्वात्मत्वे च सर्वेषां भिन्नौ स्यातां न धीध्वनी॥१८४॥

भेदसंहारवादस्य तदभेदादसम्भवः।

रूपाभावादभावस्य शब्दा रूपाभिधायिनः॥१८५॥

नाशंक्या एव सिद्धास्तेऽतो व्यवच्छेदवाचकाः।

उपाधिभेदापेक्षो वा स्वभावः केवलोऽथ वा॥१८६॥

उच्यते साध्यसिद्ध् यर्थ नाशे कार्यत्वसत्त्ववत्।

सत्तास्वभावो हेतुश्चेत् सा सत्ता साध्यते कथम्॥१८७॥

अनन्वयो हि भेदानां व्याहतो हेतुसाध्ययोःः।

भावोपादानमात्रे तु साध्ये सामान्यधर्मिणि॥१८८॥

न कश्चिदर्थः सिद्धः स्यादनिषिद्धं च तादृशम्।

उपात्तभेदे साध्येऽस्मिन् भवेद्धेतुरनन्वयः॥१८९॥

सत्तायां तेन साध्यायां विशेषः साधितो भवेत्।

अपरामृष्टतद्भेदे वस्तुमात्रे तु साधने॥१९०॥

तन्मात्रव्यापिनः साध्यस्यान्वयो न विहन्यते।

नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः॥१९१॥

धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम्।

सिद्धः स्वभावो गमको व्यापकस्तस्य निश्चितः॥१९२॥

गम्यः स्वभावस्तस्यायं निवृत्तौ वा निवर्तकः।

अनित्यत्वे यथा कार्यमकार्य वाऽविनाशिनि॥१९३॥

अहेतुत्वाद् विनाशस्य स्वभावादनुबन्धिता।

सापेक्षाणां हि भावानां नावश्यम्भावितेक्ष्यते॥१९४॥

बाहुल्ये ऽपि हि तद्धेतोर्भवेत् क्वचिदसम्भवः।

एतेन व्यभिचारित्वमुक्तं कार्याव्यवस्थितेः॥१९५॥

सर्वेषां नाशहेतूनां हेतुमन्नाशवादिनाम्।

असामर्थ्याच्च तद्धेतोर्भवत्येव स्वभावतः॥१९६॥

यत्र नाम भवत्यस्मादन्यत्रापि स्वभावतः।

या काचिद् भावविषयाऽनुमितिर्द्विविधैव सा॥१९७॥

स्वसाध्ये कार्यभावाभ्यां सम्बन्धनियमात् तयोः।

प्रवृत्तेर्बुद्धिपूर्वत्वात् तद्भावानुपलम्भने॥१९८॥

प्रवर्त्तितव्यं नेत्युक्ताऽनुपलब्धेः प्रमाणता।

शास्त्राधिकारेऽसम्बद्धा बहवोऽर्था अतीन्द्रियाः॥१९९॥

अलिङ्गाश्च कथं तेषामभावोऽनुपलब्धितः।

सदसन्निश्चयफ़ला नेति स्याद् वाऽप्रमाणता॥२००॥

प्रमाणमपि काचित् स्याद् लिङ्गातिशयभाविनी।

स्वभावज्ञापकाज्ञानस्यायं न्याय उदाहृतः॥२०१॥

कार्ये तु कारकाज्ञानम्भावस्यैव साधकम्।

स्वभावानुपलम्भश्च स्वभावेऽर्थस्य लिङ्गिनि॥२०२॥

तदभावः प्रतीयेत हेतुना यदि केनचित्।

दृश्यस्य दर्शनाभावकारणासम्भवे सति॥२०३॥

भावस्यानुपलब्धस्य भावाभावः प्रतीयते।

विरुद्धस्य च भावस्य भावे तद्भावबाधनात्॥२०४॥

तद्विरुद्धोपलब्धौ स्यादसत्ताया विनिश्चयः।

अनादिवासनोद्भूतविकल्पपरिनिष्ठितः॥२०५॥

शब्दार्थस्त्रिविधो धर्मी भावाभावोभयाश्रयः।

तस्मिन् भावानुपादाने साध्येऽस्यानुपलम्भनम्॥२०६॥

तथा हेतुर्न तस्यवाभावः शब्दप्रयोगतः।

परमार्थैकतानत्वे शब्दानामनिबन्धना॥२०७॥

न स्यात् प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु।

अतीताजातयोर्वापि न च स्यादनृतार्थता॥२०८॥

वाचः कस्याश्चिदित्येषा बैद्धार्थविषया मता।

शब्दार्थापह्नवे साध्ये धर्माधारनिराकृतेः॥२०९॥

न साध्यः समुदायः स्यात् सिद्धौ धर्मश्च केवलः।

सदसत्पक्षभेदेन शब्दार्थानपवादिभिः॥२१०॥

वस्त्वेव चित्यते ह् यत्र प्रतिबद्धः फ़लोदयः।

अर्थक्रियाऽसमर्थस्य विचारैः किं परीक्षया॥२११॥

षण्ढस्य रूपे वैरूप्ये कामिन्याः किं परीक्षया।

शब्दार्थः कल्पनाज्ञानविषयत्वेन कल्पितः॥२१२॥

धर्मो वस्त्वाश्रयासिद्धिरस्योक्तो न्यायवादिना।

नान्तरीयकताऽभावाच्छब्दानां वस्तुभिस्सह॥२१३॥

नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचकाः।

आप्तवादाविसंवादसामान्यादनुमानता॥२१४॥

सम्बद्धानुगुणोपायं पुरुषार्थाभिधायकम्।

परीक्षाधिकृतं वाक्यमतोऽनधिकृतं परम्॥२१५॥

प्रतक्षेणानुमानेन द्विविधेनाप्यबाधनम्।

दृष्टादृष्टाथैरोरस्याविसंवादस्तदर्थयोः॥२१६॥

आप्तवादाविसंवादसामान्यादनुमानता।

बुद्धेरगत्याभिहिता निषिद्धाप्यस्य गोचरे॥२१७॥

हेयोपादेयतत्त्वस्य सोपायस्य प्रसिद्धितः।

प्रधानार्थाविसंवादादनुमानं परत्र वा॥२१८॥

पुरुषातिशयापेक्षं यथार्थमपरे बिदुः।

इष्टोऽयमर्थः प्रत्येतुं शक्यः सोऽतिशयो यदि॥२१९॥

अयमेवं न वेत्यन्यदोषा निर्दोषतापि वा।

दुर्लभत्वात् प्रमाणानां दुर्बोधेत्यपरे विदुः॥२२०॥

सर्वेषां सविपक्षत्वान्निर्ह्रासातिशयश्रिताम्।

सात्मीभावात् तदभ्यासाद् दीयेरन्नास्रवाः क्वचित्॥२२१॥

निरुपद्रवभूताथस्वभावस्य विपर्ययैः।

न बाधा यत्नवप्वेऽपि बुद्धेस्तस्पक्षपाततः॥२२२॥

सर्वासां दोषजातीनां जातिः सत्कायदर्शनात्।

साऽविद्या तत्र तत्स्नेहस्तस्माद् द्वेषादिसम्भवः॥२२३॥

मोहो निदानं दोषाणामत एवाभिधीयते।

सत्कायदृष्टिरन्यत्र तत्प्रहाणे प्रहाणतः॥२२४॥

गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात्।

अपौरुषेयं सत्यार्थमिति केचित् प्रचक्षते॥२२५॥

गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात्।

अपौरुषेयं मिथ्यार्थ किं नेत्यन्ये प्रचक्षते॥२२६॥

अर्थज्ञानपनहेतुर्हि संकेतः पुरुषाश्रयः।

गिरामपौरुषेयत्वेऽप्यतो मिथ्यात्वसम्भवः॥२२७॥

सम्बन्धापौरुषेयत्वे स्यात् प्रतीतिरसंविदः।

संकेतात् तदभिव्यक्तावसमर्थान्यकल्पना॥२२८॥

गिरामेकार्थनियमे न स्यादर्थान्तरे गतिः।

अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसम्भवः॥२२९॥

अपौरुषेयतायाश्च व्यर्था स्यात् परिकल्पना।

वाच्यश्च हेतुर्भिन्नानां सम्बन्धस्य व्यवस्थितेः॥२३०॥

असंस्कार्यतया पुम्भिः सर्वथा स्यान्निरर्थता।

संस्कारोपगमे मुख्यं गजस्नानमिदं भवेत्॥२३१॥

सम्बन्धिनामनित्यत्वान्न सम्बन्धेऽस्ति नित्यता।

नित्यस्यानुपकार्यत्वादकुर्वाणश्च नाश्रयः॥२३२॥

अर्थेरतः स शब्दानां संस्कार्यः पुरुषैर्धिया।

अर्थैरेव सहोत्पादे न स्वभावविपर्ययः॥२३३॥

शब्देषु युक्तः सम्बन्धे नायं दोषो विकल्पिते।

नित्यत्वादाश्रयापायेऽप्यनाशो यदि जातिवत्॥२३४॥

नित्येष्वाश्रयसामथ्र्य किं येनेष्टः स चाश्रयः।

ज्ञानोत्पादनहेतूनां सम्बन्धात् सहकारिणाम्॥२३५॥

तदुत्पादनयोग्यत्वेनोत्पत्तिर्व्यक्तिरिष्यते।

घटादिष्वपि युक्तिज्ञैः अविशेषेऽविकारिणाम्॥२३६॥

व्यञ्जकैः स्वैः कृतः कोऽर्थो व्यक्तास्तैस्ते यतो मताः।

सम्बन्धस्य च वस्तुत्वे स्याद् भेदाद् बुद्धिचित्रता॥२३७॥

ताभ्यामभेदे तावेव नातोऽन्या वस्तुनो गतिः।

भिन्नात्वाद् वस्तुरूपस्य सबन्धः कल्पनाकृतः॥२३८॥

सद् द्रव्यं स्यात् पराधीनं सम्बन्धोऽन्यस्य वा कथम्।

वर्णा निरर्थकाः सन्तः पदादि परिकल्पितम्॥२३९॥

अवस्तुनि कथं वृत्तिः सम्बन्धस्यास्य वस्तुनः।

अपौरुषेयतापीष्टा कर्तृणामस्मृतेः किल॥२४०॥

सन्त्यस्याप्यनुवक्तार इति धिग् व्यापकं तमः।

यथायमन्यतोऽश्रुत्वा नेमं वर्णपदक्रमम्॥२४१॥

वस्तुं समर्थः पुरुषस्तथान्योऽपीति कश्चन।

अन्यो वा रचितो ग्रन्थः सम्प्रदायाद् ऋते परैः॥२४२॥

दृष्टः कोऽभिहितो येन सोऽप्येवं नानुमीयते।

यज्जातीयो यतः सिद्धः सोऽविशिष्टोऽग्निकाष्ठवत्॥२४३॥

अदृष्टहेतुरप्यन्यस्तद्भवः सम्प्रतीयते।

तत्राप्रदर्श्य ये भेदं कार्यसामान्यदर्शनात्॥२४४॥

हेतवः प्रवितन्यन्ते सर्वे ते व्यभिचारिणः।

सर्वथाऽनादिता सिध्येदेवं नापुरुषाश्रयः॥२४५॥

तस्मादपौरुषेयत्वे स्यादन्योऽप्यनराश्रयः।

म्लेच्छदिव्यवहाराणां नास्तिक्यवचसामपि॥२४६॥

अनादित्वाद् तथाभावः पूर्वसंस्कारसन्ततेः।

तादृशेऽपौरुषेयत्वे कः सिद्धेऽपि गुणो भवेत्॥२४७॥

अर्थसंस्कारभेदानां दर्शनात् संशयः पुनः।

अन्याविशेषाद् वर्णानां साधने कि फ़लं भवेत्॥२४८॥

वाक्यं भिन्नं न वर्णेभ्यो विद्यतेऽनुपलम्भतः।

अनेकावयवात्मत्वे पृथक् तेषां निरर्थता॥२४९॥

अतद्रूपे च ताद्रूप्यं कल्पितं सिंहतादिवत्।

प्रत्येकं सार्थकत्वेऽपि मिथ्यानेकत्वकल्पना॥२५०॥

एकावयवगत्या च वाक्यार्थप्रतिपद् भवेत्।

सकृच्छ्रुतौ च सर्वेषा कालभेदो न युज्यते॥२५१॥

एकत्वेऽपि ह्यभिन्नस्य क्रमशो गत्यसम्भवात्।

अनित्यं यत्नसम्भूतं पौरुषेयं कथं न तत्॥२५२॥

नित्योपलब्धिर्नित्यत्वेऽप्यनावरणसम्भवात्।

अश्रुतिर्विकलत्वाच्चेत् कस्यचित् सहकारिणः॥२५३॥

काममन्यप्रतीक्षाऽस्तु नियमस्तु विरुध्यते।

सर्वत्रानुपलम्भः स्यात् तेषामव्यापिता यदि॥२५४॥

सर्वेषामुपलम्भः स्यात् युगपद् व्यापिता यदि।

संस्कृतस्योपलम्भे च कः संस्कर्त्ताऽविकारिणः॥२५५॥

इन्द्रियस्य स्यात् संस्कारः श्रृणुयान्निखिलं च तत्।

संस्कारभेदभिन्नत्वादेकार्थनियमो यदि॥२५६॥

अनेकशब्दसंधाते श्रुतिः कलकले कथम्।

ध्वनथः केवलं तत्र श्रू यन्ते चेन्न वाचकाः॥२५७॥

ध्वनिभ्यो भिन्नमस्तीति श्रद्धेयमतिबह्विदम्।

स्थितेष्वन्येषु शब्देषु श्रूयते वाचकः कथम्॥२५८॥

कथं वा शक्तिनियमाद् भिन्नध्वनिगतिर्भवेत्।

ध्वनयः सम्मता यैस्ते दोषैः कैरप्यवाचकाः॥२५९॥

ध्वनिभिर्व्यज्यमानेऽस्मिन् वाचकेऽपि कथं न ते।

वर्णानुपूर्वी वाक्यं चेन्न वर्णानामभेदतः॥२६०॥

तेषां च न व्यवस्थानं क्रमान्तरविरोधतः।

देशकालक्रमाभावो व्याप्तिनित्यत्ववर्णनात्॥२६१॥

अनित्याव्यापितायां च दोषः प्रागेव कीर्तितः।

व्यक्तिक्रमोऽपि वाक्यं न नित्यव्यक्तिनिराकृतेः॥२६२॥

व्यापारदेव तत्सिद्धे कारणानां च कार्यता।

स्वज्ञानेनान्यधीहेतुः सिद्धेऽर्थे व्यञ्जको मतः॥२६३॥

यथा दीपोऽन्यथा वापि को विशेषोऽस्य कारकात्।

करणानां समग्राणां व्यापारादुपलब्धितः॥२६४॥

नियमेन च कार्यत्वं व्यञ्जके तदसम्भवात्।

तद्रू पावरणानां च व्यक्तिस्ते विगमो यदि॥२६५॥

अभावे करणग्रामसामर्थ्य किं नु तद्भवेत्।

शब्दविशेषादन्येषामपि व्यक्तिः प्रसज्यते॥२६६॥

तथाम्युपगमे सर्वकारणानां निरर्थता।

साधनं प्रत्यभिज्ञानं सत्प्रयोगादि यन्मतम्॥२६७॥

अनुदाहरणं सर्वभावानां क्षणभङ्गतः।

दूष्यः कुहेतुरन्योऽपि बुद्धेरपुरुषाश्रये॥२६८॥

बाधाभ्युपेतप्रत्यक्षप्रतीतानुमितैः समम्

आनुपूर्व्याश्च वर्णेभ्यो भेदः स्फ़ोटेन चिन्तितः॥२६९॥

कल्पनारोपिता सा स्यात् कथं वाऽपुरुषाश्रया।

सत्तामात्रानुबन्धित्वात् नाशस्यानित्यता ध्वनेः॥२७०॥

अग्नेरर्थान्तरोत्पत्तौ भवेत् काष्ठस्य दर्शनम्।

अविनाशात् स एवास्य विनाश इति चेत् कथम्॥२७१॥

अन्योऽन्यस्य विनाशोऽस्तु काष्ठं कस्मान्न दृश्यते।

तत्परिग्रहतश्चेन्न तेनानावरणं यतः॥२७२॥

विनाशस्य विनाशित्वम् स्यादुत्पत्तेस्ततः पुनः।

काष्ठस्य दर्शनम् हन्तृघाते चैत्रापुनर्भवः॥२७३॥

यथात्राप्येवमिति चेत् हन्तुर्नामरणत्वतः।

अनन्यत्वे विनाशस्य स्यान्नाशः काष्ठमेव तु॥२७४॥

तस्य तत्त्वादहेतुत्वं नातोऽन्या विद्यते गतिः।

अहेतुत्वेऽपि नाशस्य नित्यत्वाद् भावनाशयोः॥२७५॥

सहभावप्रसङ्गश्चेदसतो नित्यता कुतः।

असत्त्वेऽभावनाशित्वप्रसङ्गोऽपि न युज्यते॥२७६॥

नाशेन यस्माद् भावस्य न विनाशनमिष्यते।

नश्यन् भावोऽपरापेक्ष इति तज्ज्ञापनाय सा॥२७७॥

अवस्था हेतुरुक्तास्या भेदमारोप्य चेतसा।

स्वतोऽपि भावेऽभावस्य विकल्पश्चेदयं समः॥२७८॥

न तस्य किञ्चिद् भवति न भवत्येव केवलम्।

भावे ह्येष विकल्पः स्याद् विद्येर्वस्त्वनुरिधतः॥२७९॥

न भावो भवतीत्युक्तमभावो भवतीति न।

अपेक्ष्येत परः कार्य यदि विद्येत किञ्चन॥२८०॥

यदकिञ्चित्करं वस्तु किं केनचिदपेक्ष्यते।

एतेनाहेतुकत्वेऽपि ह्यभूत्वा नाशभावतः॥२८१॥

सत्तानाशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम्।

यथा केषाञ्चिदेवेष्टः प्रतिघो जन्मिनां यथा॥२८२॥

नाशः स्वभावो भावानां नानुत्पत्तिमतां यदि।

स्वभावनियमाद्धेतोः स्वभावनियमः फ़ले॥२८३॥

नानित्ये रूपभेदोऽस्ति भेदकानामभावतः।

प्रत्याख्येयाऽत एवैषां सम्बन्धस्यापि नित्यता॥२८४॥

सम्बन्धदोषैः प्रागुक्तैः शब्दशक्तिश्च दूषिता।

नाऽपौरुषेयमित्येव यथार्थज्ञानसाधनम्॥२८५॥

दृष्टोऽन्यथापि वह्न्यादिरदुष्टः पुरुषागसा।

न ज्ञानहेतुतैव स्यात् तस्मिन्नकृतके मते॥२८६॥

नित्येभ्यो वस्तुसामर्थ्यात् न हि जन्मास्ति कस्यचित्।

विकल्पवासनोद्भूताः समारोपितगोचराः॥२८७॥

जायन्ते बुद्धयस्तत्र केवलं नार्थगोचराः।

मिथ्यात्वं कृतकेष्वेव दृष्टमित्यकृतं वचः॥२८८॥

सत्यार्थ व्यतिरेकस्य विरोधिव्यापनाद् यदि।

हेतावसम्भवेऽनुक्ते भावस्तस्यापि शङ्क्यते॥२८९॥

विरुद्धानां पदार्थानामपि व्यापकदर्शनात्।

नासत्तासिद्धिरित्युक्तं सर्वतोऽनुपलम्भनात्॥२९०॥

असिद्धायामसत्तायां सन्दिग्धा व्यतिरेकिता।

अन्वयो व्यतिरेको वा सत्त्वं वा साध्यधर्मिणि॥२९१॥

तन्निश्चयफ़लैर्जानैः सिद्ध्यन्ति यदि साधनम्।

यत्र साध्यविपक्षस्य वर्ण्यते व्यतिरेकिता॥२९२॥

स एवास्य सपक्षः स्यात् सर्वो हेतुरतोन्वयी।

समयत्वे हि मन्त्राणां कस्यचित् कार्यसाधनम्॥२९३॥

अथापि भावशक्तिः स्यादन्यथाप्यविशेषतः।

क्रमस्यार्थान्तरत्वं च पूर्वमेव निराकृतम्॥२९४॥

नित्यं तदर्थसिद्धिः स्यादसामर्थ्यमपेक्षणे।

सर्वस्य साधनं ते स्युर्भावशक्तिर्यदीदृशी॥२९५॥

प्रयोक्तृभेदापेक्षा च नासंस्कार्यस्य युज्यते।

संस्कार्यस्यापि भावस्य वस्तुभेदो हि भेदकः॥२९६॥

प्रयोक्तृभेदान्नियमः शक्तौ न समये भवेत्।

अनाधेयविशेषाणां कि कुर्वाणः प्रयोजकः॥२९७॥

प्रयोगो यद्यभिव्यक्तिः सा प्रागेव निराकृता।

व्यक्तिश्च बुद्धिः सा यस्मात् स फ़लैर्यदि युज्जते॥२९८॥

स्याच्छ्रोतुः फ़लसम्बन्धो वक्ता हि व्यक्तिकारणम्।

अनभिव्यक्तशब्दानां करणानां प्रयोजनम्॥२९९॥

मनोजपो वा व्यर्थः स्याच्छब्दो हि श्रोत्रगोचरः।

पारम्पर्येण तज्जत्वात् तद्व् यक्तिः सापि चेन्मतिः॥३००॥

तेऽपि तथा स्युस्तदर्था चेदसिद्धं कल्पनान्वयात्।

स्वसामान्यस्वभावानामेकभावविवक्षया॥३०१॥

उक्तेः समयकाराणामविरोधो न वस्तुनि।

आनुपूर्व्यामसत्यां स्यात् सरो रस इति श्रुतो॥३०२॥

न कार्यभेद इति चेद् अस्ति सा पुरुषाश्रया।

यो यद्वर्णसमुत्थानज्ञानजाज्ज्ञानतो ध्वनिः॥३०३॥

जायते तदुपाधिः स श्रु त्या समवसीयते।

तज्ज्ञानजनितज्ञानः स श्रु तावपटुश्रुतिः॥३०४॥

अपेक्ष्य तस्मृतिं पश्चात् स्मृतिमाधत्त आत्मनि।

इत्येषा पौरुषेय्येव तद्धेतुग्राहिचेतसाम्॥३०५॥

कार्यकारणता वर्णेष्वानुपूर्वीति कथ्यते।

अन्यदेव ततो रूपं तद्वर्णानां पदे पदे॥३०६॥

कर्तृ संस्कारतो भिन्नं सहितं कार्यभेदकृत्।

सा चानुपूर्वी वर्णानां प्रवृत्ता रचनाकृतः॥३०७॥

इच्छाविरुद्धसिद्धीनां स्थितक्रमविरोधतः।

कार्यकारणतासिद्धेः पुम्भ्यो वर्णक्रमस्य च॥३०८॥

सर्वो वर्णक्रमः पुभ्यो दहनेन्धनयुक्तिवत्।

असाधारणता सिद्धा मन्त्राख्यक्रमकारिणाम्॥३०९॥

पुंसां ज्ञानप्रभावाभ्यामन्येषां तदभावतः।

येऽपि तन्त्रविदः केचिद् मन्त्रान् कांश्चन कुवंते॥३१०॥

प्रभोः प्रभावस्तेषां स तदुक्तन्यायवृत्तितः।

कृतकाः पौरुषेयाश्च मन्त्रा वाच्याः फ़लेप्सुना॥३११॥

अशक्तिसाधनं पुंसामनेनैव निराकृतम्।

बुद्धीन्द्रियोक्तिपुं स्त्वादिसाधनं यत्तु वर्ण्यते॥३१२॥

प्रमाणाभं यथार्थास्ति न हि शेषवतो गतिः।

अर्थोऽयं नायमर्थो न इति शब्दा वदन्ति न॥३१३॥

कल्प्योऽयमर्थः पुरुषैस्ते च रागादिसंयुताः।

तत्रैकस्तत्त्वविन्नान्य इति भेदश्च किंकृतः॥३१४॥

तद्व्त् पुंस्त्वे कथमपि ज्ञानी कश्चित् कथ न वः।

यस्य प्रमाणमविसंवादि वचनं सोऽर्थविद् यदि॥३१५॥

न ह्यत्यन्तपरोक्षेषु प्रामाणस्यास्ति सम्भवः।

यस्य प्रामाणसंवादि वचनं तत्कृतं वचः॥३१६॥

स आगम् इति प्राप्तं निरर्थाऽपौरुषेयता।

यद्यत्यन्तपरोक्षेऽर्थेऽनागमज्ञानसम्भवः॥३१७॥

अतीन्द्रियार्थवित् कश्चिदस्तीत्यभिमतं भवेत्।

स्वयं रागादिमान्नार्थ वेत्ति वेदस्य नान्यतः॥३१८॥

न वेदयति वदोऽपि वेदार्थस्य कुतो गतिः।

तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ॥३१९॥

खादेत् श्वमांसमित्येष नार्थ इत्यत्र का प्रमा।

प्रसिद्धो लोकवादश्चेत् तत्र कोऽतीन्द्रियार्थदृक्॥३२०॥

अनेकार्थेषु शब्देषु येनार्थोऽयं विवेचितः।

स्वर्गोर्वश्यादिशब्दश्च दृष्टोऽरूढार्थवाचकः॥३२१॥

शब्दान्तरेषु तादृक्षु तादृश्येवास्तु कल्पना।

प्रसिद्धिश्च नृणां वादः प्रमाणं स च नेष्यते॥३२२॥

ततश्च भूयोऽर्थगतिः किमेतद् द्विष्ठकामितम्।

अथ प्रसिद्धिमुल्लंध्य कल्पने न निबन्धनम्॥३२३॥

प्रसिद्धेरप्रमाणत्वात् तद्ग्रहे किं निबन्धनम्।

उत्पादिता प्रसिद्ध्यैव शंका शब्दार्थनिश्चये॥३२४॥

यस्मान्नानार्थवृत्तित्वं शब्दानां तत्र दृश्यते।

अन्यथासम्भवाभवात् नानाशक्तेः स्वयं ध्वनेः॥३२५॥

अवश्यं शंकया भाव्यं नियामकमपश्यताम्।

एष स्थाणुरयं मार्ग इति वक्तीति कश्चन॥३२६॥

अन्यः स्वयं ब्रवीमीति तयोर्भेदः परीक्ष्यताम्।

सर्वत्र योग्यस्यैकार्थद्योतने नियमः कुतः॥३२७॥

ज्ञाता वातीन्द्रियाः केन विवक्षावचनाद् ऋते।

विवक्षानियमे हेतुः संकेतस्तत्प्रकाशनः॥३२८॥

अपौरुषेयै सा नास्ति तस्य सैकार्थता कुतः।

स्वभावनियमेऽन्यत्र न योज्येत तया पुनः॥३२९॥

संकेतश्च निरर्थः स्याद् व्यक्तौ च नियमः कुतः।

यत्र स्वातन्त्र्यमिच्छाया नियमो नाम तत्र कः॥३३०॥

द्योतयेत् तेन संकेतो नेष्टामेवास्य योग्यताम्।

यस्मात् किलेदृशं सत्यं यथाग्निः शीतनोदनः॥३३१॥

वाक्यं वेदैकदेशत्वादन्यदप्यपरो ब्रवीत्।

रसवत् तुल्यरूपत्वादेकभाण्डे च पाकवत्॥३३२॥

शेषवद् व्यभिचारित्वात् क्षिप्तं न्यायविदेदृशम्।

नित्यस्य पुंसः कर्तृत्वं नित्यान् भावानतीन्द्रियान्॥३३३॥

एब्न्रियान् विषमं हेतुं भावानां विषमां स्थितिम्।

निवृत्तिं च प्रमाणाभ्यामन्यद् वा व्यस्तगोचरम्॥३३४॥

विरुद्धमागमापेक्षेणानुमानेन वा वदत्।

विरोधमसमाधाय शास्त्रार्थ चाप्रदर्श्य सः॥३३५॥

सत्यार्थ प्रतिजानानो जयेद् धार्ष्ट्येन बन्धकीम्।

सिध्येत् प्रमाणं यद्येवम् अप्रमाणमथेह किम्॥३३६॥

न ह्योकं नास्ति सत्यार्थ पुरुषे बहुभाषीणि।

नायं स्वभावः कार्य वा वस्तूनां वक्तरि ध्वनिः॥३३७॥

न च तद्व्यतिरिक्तस्य विद्यतेऽव्यभिचारिता।

प्रवृत्तिर्वाचकानां च वाच्यदृष्टिकृतेति चेत्॥३३८॥

परस्परविरुद्धार्था कथमेकत्र सा भवेत्।

वस्तुभिर्नागमास्तेन कर्थाञ्चान्नान्तरीयकाः॥३३९॥

प्रतिपत्तुर्न सिध्यन्ति कुतस्तेभ्योऽर्थनिश्चयः।

तस्मान्न तन्निवृत्त्यापि भावाभावः प्रसिध्यति॥३४०॥

तेनासन्निश्चयफ़लाऽनुपलब्धिर्नसिध्यति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project