Digital Sanskrit Buddhist Canon

द्वितीयः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Dvitīyaḥ paricchedaḥ

द्वितीयः परिच्छेदः

प्रत्यक्षम्

मानं द्विविधं विषयद्वै विध्यात् शक्त्यशक्तितः।

अथंक्रियायाम् केशादिर्नार्थोऽनर्थाधिमोक्षतः॥१॥

सदृशासदृशत्वाच्च विषयाविषयत्वतः।

शब्दस्यान्यनिमित्तानां भावे धीसदसत्त्वतः॥२॥

अर्थक्रियासमर्थ यत् तदत्र परमार्थसत्।

अन्यत् संवृतैसत् प्रोक्तम् ते स्वसामान्यलक्षणे॥३॥

अशक्तं सर्वमिति चेद् बीजादेरङ्कुरादिषु।

दृष्टा शक्तिः मता सा चेत् संवृत्या अस्तु यथा तथा॥४॥

सास्ति सर्वत्र चेद् बुद्धेर्नान्वयव्यतिरेकयोः।

सामान्यलक्षणेऽदृष्टेः चक्षूरूपादिबुद्धिवत्॥५॥

एतेन समयाभोगाद्यन्तरङ्गानुरोधतः।

घटोत्क्षेपणसमान्यसंख्यादिषु धियो गताः॥६॥

केशादयो न सामान्यमनर्थाभिनिवेशतः।

ज्ञेयत्वेन ग्रहाद् दोषो नभावेषु प्रसज्यते॥७॥

तेषामपि तथाभावेऽप्रतिषेधात् स्फ़ुटाभता।

ज्ञानरूपतयार्थत्वात् केशादीति मतिः पुनः॥८॥

सामान्यविषया केशप्रतिभासमनर्थकम्।

ज्ञानरूपतयार्थत्वे सामान्ये चेत् प्रसज्यते॥९॥

तथेष्टत्वाददोषः अर्थरुपत्वेन समानता।

सर्वत्र समरूपत्वात् तद्व्यावृत्तिसमाश्रयात्॥१०॥

न तद् वस्त्वभिद्येयत्वात् साफ़ल्यादक्षसंहतेः।

नामादिवचने वस्तृश्रोतृवाच्यानुबन्धिनि॥११॥

असम्बन्धिनि नामादावर्थे स्यासप्रवर्त्तनम्।

सारूप्याद् भ्रान्तितो वृत्तिरर्थेचेत् स्यान्न सर्वदा॥१२॥

देशभ्रान्तिश्च न ज्ञाने तुल्यमुत्पत्तितो धियः।

तथाविधाया अन्यत्र तत्रानुपसमाद् धियः॥१३॥

बाह्यार्थप्रतिभासाया उपाये वाऽप्रमाणता।

विज्ञानव्यतिरिक्तस्य व्यतिरेकाप्रसिद्धितः॥१४॥

सर्वज्ञानार्थवत्वाच्चेत् स्वप्नादावन्यथेक्षणात्।

अयुक्तम् न च संस्कारान्नीलादिप्रतिभासतः॥१५॥

नीलाद्यप्रतिघातान्न ज्ञानं तद् योग्यदेशकैः।

अज्ञातस्य स्वयं ज्ञानात् नामाद्येतेन वर्णितम्॥१६॥

सैवेष्टार्थवती केन चक्षुरादिमतिः स्मृता।

अर्थसामर्थ्यदृष्तेश्चेदन्यत् प्राप्तमनर्थकम्॥१७॥

प्रवृत्तिः स्यादसम्बन्धेऽप्यर्थसम्बन्धवद् यदि।

अतीतानागतं वाच्यं न स्यादर्थेन तत्क्षयात्॥१८॥

सामान्यग्रहणाच्छब्दादप्रसङ्गो मतो यदि।

तन्न केवलसामान्याग्रहणाद् ग्रहणेऽपि वा॥१९॥

अतत्समानताव्यक्ती तेन नित्योपलम्भनम्।

नित्यत्वाच्च यदि व्यक्तिर्व्यक्तेः प्रत्यक्षतां प्रति॥२०॥

आत्मनि ज्ञानजनने यच्छक्तं शक्तमेव तत्।

अथाशक्तं कदाचिच्चेदशक्तं सर्वदैव तत्॥२१॥

तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता।

नित्यत्वादपि किं तस्य कस्तां क्षपयितुं क्षमः॥२२॥

तच्च सामान्यविज्ञानमनुरुन्धन् विभाव्यते।

नीलाद्याकारलेशो यः स तस्मिन् केन निर्मितः॥२३॥

प्रत्यक्षप्रत्ययार्थत्वान्नाक्षाणां व्यर्थतेति चेत्।

सैवैकरूपाच्छब्दादेर्भिन्नाभासा मतिः कुतः॥२४॥

न जातिर्जातिमद्व्यक्तिरूपं येनापराश्रयम्।

सिद्धम् पृथक् चेत् कार्यत्वं ह्यपेक्षेत्यभिधीयते॥२५॥

निष्पत्तेरपराधीनमपि कार्य स्वहेतुतः।

सम्बध्यते कल्पनया किमकार्य कथञ्चन॥२६॥

अन्यत्वे तदसम्बद्धं सिद्धाऽतो निःस्वभावता।

जातिप्रसङ्गोऽभावस्य न अपेक्षाभावतस्तयोः॥२७॥

तस्मादरूपा रूपाणां नाश्रयेणोपकल्पिता।

तद्विशेषावगाहार्थैर्जातिः शब्दैः प्रकाश्यते॥२८॥

तस्यां रूपावभासो यस्तत्त्वेनार्थस्य वा ग्रहः।

भ्रान्तिः सा ऽनादिकालीनदर्शनाभ्यासनिर्मिता॥२९॥

अर्थानां यच्च सामान्यमन्यव्यावृत्तिलक्षणम्।

यन्निष्ठास्त इमे शब्दा न रूपं तस्य किञ्चन॥३०॥

सामान्यबुद्धौ सामान्येनारूपायामवीक्षणात्।

अर्थभ्रान्तिरपीष्येत सामान्यं सापि अभिप्लवात्॥३१॥

अर्थरूपतया तत्त्वेनाभावाच्च न रूपिणी।

निःस्वभावतयाऽवाच्यं कुतश्चिद् वचनान्मतम्॥३२॥

यदि वस्तुनि वस्तूनामवाच्यत्वं कथञ्चन।

नैव वाच्यमुपादानभेदाद् भेदोपचारतः॥३३॥

अतीतानागतेऽप्यर्थे सामान्यविनिवन्धनाः।

श्रुतयो निविशन्ते सदसद्धर्मः कथं भवेत्॥३४॥

उपचारात् तदिष्टं चेद् वर्त्तमानघटस्य का।

प्रत्यासत्तिरभावेन या पटादौ न विद्यते॥३५॥

बुद्धेरस्खलिता वृत्तिर्मुख्यारोपितयोः सदा।

सिंहे माणवके तद्वद् घोषणाप्यस्ति लौकिकी॥३६॥

यत्र रूढ्याऽसदर्थोऽपि जनैः शब्दो निवेशितः।

स मुख्यस्तत्र तत्साम्यादू गौणोऽन्यत्र स्खलद्गतिः॥३७॥

यथा भावेऽप्यभावाख्यां यथाकल्पनमेव वा।

कुर्यादशक्ते शक्ते वा प्रधानादिश्रुतिं जनः॥३८॥

शब्दोभ्यो यादृशी बुद्धिर्नष्टेऽनष्टेऽपि दृश्यते।

तादृश्येव सदर्थानां नैतच्छ्रोत्रादिचेतसाम्॥३९॥

सामान्यमात्रग्रहणात् सामान्यं चेतसोर्द्धयोः।

तस्यापि केवलस्य प्राग् ग्रहणं विनिवारितम्॥४०॥

परस्परविशिष्टानामविशिष्टं कथं भवेत्।

तथा द्विरूपतायां वा तद् वस्त्वेकं कथं भवेत्॥४१॥

ताभ्यां तदन्यदेव स्याद् यदि रूपं समं तयोः।

तयोरिति न सम्बन्धो व्यावृत्तिस्तु न दुष्यति॥४२॥

तस्मात् समानतैवास्मिन् सामान्तेऽवस्तुलक्षणम्।

कार्य चेत् तदनेकं स्यान्नश्चरं च न तन्मतम्॥४३॥

वस्तुमात्रानुबन्धित्वाद् विनाशस्य न नित्यता।

असम्बन्धश्च जातीनामकार्यत्वादरूपता॥४४॥

यच्च वस्तुबलाज्ज्ञानं जायते तसपेक्षते।

न संकेत स सामान्यबुद्धुष्वेतद् विभाव्यते॥४५॥

याप्यभेदानुगा बुद्धिः काचिद् वस्तुद्वयेक्षणे।

संकेतेन विना सार्थप्रत्यासत्तिनिबन्धना॥४६॥

प्रत्यससत्तिर्विना जात्या यथेष्ता चक्षुरादिषु।

ज्ञानकार्येषु जातिर्वा यथान्वेति विभागतः॥४७॥

कर्थाञ्चदपि विज्ञाने तद्रुपानवभासतः।

यदि नामेन्द्रियाणां स्याद् द्रष्टा भासेत तद्वपुः॥४८॥

रूपवत्वात् न जातीनां केवलानामदर्शनात्।

व्यक्तिग्रहे च तच्छब्दरुपादन्यन्न दृश्यते॥४९॥

ज्ञानमात्रार्थकरणेऽप्ययोग्यमत एव तत्।

तदयोग्यतयाऽरूपं तद्ध्‌यवस्तुषु लक्षणम्॥५०॥

यथोक्तविपरीतं यत् तत् स्वलक्षणमिष्यते।

सामान्यं त्रिविधम् तच्च भावाभावोभयाश्रयात्॥५१॥

यदि भावाश्रयं ज्ञानं भावे भावानुबन्धतः।

नोक्तोत्तरत्वाद् दृष्टत्वाद् अतीतादिषु चान्यथा॥५२॥

भावधर्मत्वहानिश्चेत् भावग्रहणपूर्वकम्।

तज्ज्ञानमित्यदोषोऽयम् मेयं त्वेकं स्वलक्षरणम्॥५३॥

तस्मादर्थक्रियासिद्धेः सदसत्ताविचारणात्।

तस्य स्वपररूपाभ्यां गतेर्मेयद्वयं मतम्॥५४॥

अयथाभिनिवेशेन द्वितीया भ्रान्तिरिष्यते।

गतिश्चेत् पररूपेण न च भ्रान्तेः प्रमाणता॥५५॥

अभिप्रायाविसंवादादपि भ्रान्तेः प्रमाणता।

गतिरप्यन्यथा दृष्टा पक्षश्चायं कृतोत्तरः॥५६॥

मणिप्रदीपप्रभयोर्मणिबुद्ध्‌याभिधावतोः।

मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति॥५७॥

यथा तथाऽयथार्थत्वेऽप्यनुमानतदाभयोः।

अर्थक्रियानुरोधेन प्रमाणत्वं व्ययस्थितम्॥५८॥

बुद्धिर्यत्रार्थसामर्थ्यादन्वयव्यतिरेकिणी।

तस्य स्वतब्त्रं ग्रहणमतोऽन्यद् वस्त्वतीन्द्रियम्॥५९॥

तस्यादृष्टात्मरूपस्य गतेरन्योऽर्थ आश्रयः।

तदाश्रयेण सम्बन्धी यदि स्याद् गमकस्तदा॥६०॥

गमकानुगसामान्यरूपेणैव तदा गतिः।

तस्मात् सर्वः परोक्षोऽर्थो विशेषेण न गम्यते॥६१॥

या च सम्बन्धिनो धर्माद् भूतिर्धर्मिणि ज्ञायते।

सानुमानं परोक्षाणामेकान्तेनैव साधनम्॥६२॥

न प्रत्यक्षरपरिक्षाभ्यां मेयस्यान्यस्य सम्भवः।

तस्मात् प्रमेयद्वित्वेन प्रमाणद्वित्वमिष्यते॥६३॥

त्र्येकसंख्यानिरासो वा प्रमेयद्वयसर्शनात्।

एकमेवाप्रमेयत्वादसतश्चेन्मतं च नः॥६४॥

अनेकान्तोऽप्रमेयत्वेऽसद्भावस्य निश्चयः।

तन्निश्च्यप्रमारणं वा द्वितीयम् नाक्षजा मतिः॥६५॥

अभावेऽर्थबलाज्जातेरर्थशक्त्यनपेक्षणे।

व्यवधानादिभावेऽपि जायेतेन्द्रियजा मतिः॥६६॥

अभावे विनिवृत्तिश्चेत् प्रत्यक्षस्यैव निश्चयः।

विरुद्धं सैव वा लिङ्गमन्वयव्यतिरेकिणी॥६७॥

शिद्धं च परचैतन्यप्रतिपत्तेः प्रमाद्वयम्।

व्यवहारादौ प्रवृत्तश्च सिद्धस्तद्भावनिश्चः॥६८॥

प्रमाणमविसंवादात् तत् क्वचिद् व्यभिचारतः।

नाश्वास इति चेल्लिङ्गदुर्दृष्टिरेतदीदृशम्॥६९॥

यतः कदाचित् सिद्धाऽस्य प्रतीतिर्वस्तुनः क्वचित्।

तद्वश्य ततो जातं तत्स्वभावोऽपि वा भवेत्॥७०॥

स्वनिमित्तात् स्वभावाद् वा विना नार्थस्य सम्भवः।

यच्च रूपं तयोर्दृष्टं तदेवान्यत्र लक्षणम्॥७१॥

स्वभावे स्वनिमित्ते वा दृश्ये दर्शनहेतुषु।

अन्येषु सत्स्वदृश्ये च सत्त वा तद्वतः कथम्॥७२॥

अप्रामाण्ये च सामान्यबुद्धेस्तल्लोप आगतः।

प्रेत्यभाववद् अक्षैस्तत् पर्यायेण प्रतीयते॥७३॥

तच्च नेन्द्रियशक्त्यादावक्षबुद्धेरसम्भवात्।

अभावप्रतिपत्तौ स्याद् बुद्धेर्जन्मानित्तिकम्॥७४॥

स्वलक्षणे च प्रत्यक्षमविकल्पतया विना।

विकल्पेन न सामान्यग्रहस्तस्मिस्ततोऽनुमा॥७५॥

प्रमेयनियमे वर्णानित्यता न प्रतीयते।

प्रमाणमन्यत् तद्बुद्धुर्विना लिङ्गेन सम्भवात्॥७६॥

विशेषदृष्टे लिङ्गस्य सम्बन्धस्याप्रसिद्धितः।

तत् प्रमाणान्तरं मेयबहुत्वाद् बहुतापि वा॥७७॥

प्रमाणानामनेकस्य वृत्तेरेकत्र वा तथा।

विशेषददृष्टेरेकत्रिसंख्यापोहो न वा भवेत्॥७८॥

विषयानियमादन्यप्रमेयस्य च सम्भवात्।

योजनाद् वर्णसामान्ये नायं दोषः प्रसज्यते॥७९॥

नावस्तुरूपं तस्यैव तथा सिद्धेः प्रसाधनात्।

अन्यत्र नान्यसिद्धिश्चेन्न तस्यैव प्रसिद्धितः॥८०॥

यो हि भावो यथाभूतो स तदृग्लिङ् गचेतसः।

हेतुस्तज्जा तथाभूते तस्माद् वस्तुनि लिङिगधीः॥८१॥

लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि।

प्रतिवब्धात् तदाभासशून्ययोरप्यवञ्चनम्॥८२॥

तद्री पाध्यवसायाच्च तयोस्तद्रूपशून्ययोः।

तद्रूपावञ्चकत्वेऽपि कृता भ्रान्तिव्यवस्थितिः॥८३॥

तस्माद् वस्तुनि बोद्धव्ये व्यापकं व्याप्यचेतसः।

निमित्तं तत्स्वभावो वा कारणम् तच्च तद्धियः॥८४॥

प्रतिषेधस्तु सर्वत्र साध्यतेऽनुपलम्भतः।

सिद्धिं प्रमाणैर्वदतामर्थादेव विपर्ययात्॥८५॥

दृष्टा विरिद्धधर्मोक्तिस्तस्य तत्कारणस्य वा।

निषेधे यापि तस्यैव साऽप्रमाणत्वसूचना॥८६॥

अन्यथैकस्य धर्मस्य स्वभावोक्त्या परस्य तत्।

नास्तित्वं केन गम्येत विरोधाच्चेद् असावपि॥८७॥

सिद्धः केनासहस्थानादिति चेत् तत् कुतो मतम्।

दृश्यस्य दर्शनाभावाहिति चेत् साऽप्रमाणता॥८८॥

तस्मात् स्वशब्देनोक्तापि साऽभावस्य प्रसाधिका।

यस्याप्रमाणं साऽवाच्यो निषेधस्तेन सर्वथा॥८९॥

एतेन तद्विरुद्धार्थकार्योक्तिरुपवर्णता।

प्रयोगः केवलं भिन्नः सर्वत्रार्थो न भिद्यते॥९०॥

विरुद्धं तच्च सोपायमविधायापिधाय च।

प्रमाणोक्तिर्निषेधे या न साम्नायानुसारिणी॥९१॥

उक्त्यादेः सर्ववित्प्रेत्यभावादिप्रतिषेधवत्।

अतीन्द्रियाणामर्थानां विरोधस्याप्रसिद्धितः॥९२॥

बाध्यवाधकभावः कः स्यातां यद्युक्तिसंविदौ।

तादृशोऽनुपलब्धेश्चेद् उच्यतां सैव साधनम्॥९३॥

अनिश्चकरं प्रोक्तमीदृक् चानुपलम्भनम्।

तन्नात्यन्तपरोक्षेषु सदसत्ताविनिश्चयौ॥९४॥

भिन्नोऽभिन्नोऽपि वा धर्मः स विरुद्धः प्रयुज्जते।

यथाऽग्निरहिमे साध्ये सत्ता वा जन्मबाधनी॥९५॥

यथा वस्त्वेव वस्तूनां साधने साधनं मतम्।

तथा वस्त्वेव वस्तूनां स्वनिवृत्तौ निवर्त्तकम्॥९६॥

एतेन कल्पनान्यस्तो यत्र क्वचन सम्भवात्।

धर्मः पक्षसपक्षान्यतरत्वादिरपोदितः॥९७॥

तत्रापि व्यापको धर्मो निवृत्तेर्गमको मतः।

व्यापकस्वनिवृत्तिश्चेत् परिच्छिन्ना कथञ्चन॥९८॥

यदप्रमाणताऽभावे लिङ्गं तस्यैव कथ्यते।

तदत्यन्तविमूढार्थम् आगोपालमसंवृतेः॥९९॥

एतावन्निश्चयफ़लमभावेऽनुपलम्भनम्।

तच्च हेतौ स्वभावे वा दृश्ये दृश्यता मते॥१००॥

अनुमानादनित्यादेर्ग्रहणेऽयं क्रमो मतः।

प्रामाण्यमेव नान्यत्र गृहीतघणान्मतम्॥१०१॥

नान्यास्यानित्यता भावात् पूर्व सिद्धः स चेनिद्रियात्।

नानेकरूपो वाच्योऽसौ वाच्यो धर्मो विकल्पजः॥१०२॥

सामान्याश्रयसंसिद्धौ सामान्यं सिद्धमेव तत्।

तदसिद्धौ तथास्यैव ह्यनुमानं प्रवर्तते॥१०३॥

क्वचित् तदपरिज्ञानं सदृशापरसम्भवात्।

भ्रान्तेरपश्यतो भेदं मायागोलकभेदवत्॥१०४॥

तथा ह्यलिङ्गमाबालमसंश्लिष्टोत्तरोदयम्।

पश्यन् परिच्छिनत्त्येव दीपादि नाशिनं जनः॥१०५॥

भावस्वभावभूतायामपि शक्तौ फ़ले दृशः।

अनानन्तर्यतो मोहो विनिश्चेतुरपाटवात्॥१०६॥

तस्यव विनिवृत्त्यर्थमनुमानोपवर्णनम्।

व्यस्यन्तीक्षणादेव सर्वाकारान् महाधियः॥१०७॥

व्यावृत्ते सर्वतस्तस्मिन् व्यावृत्तिविनिव्बन्धनाः।

बुद्धयोऽर्थे प्रवर्त्तन्ते भिन्ने भिन्नाश्रया इव॥१०८॥

यथाचोदनमाख्याश्च सोऽसति भ्रान्तिकारणे।

प्रतिभाः प्रतिसन्धत्ते स्वानुरूपाः स्वभावतः॥१०९॥

सिद्धोऽत्राप्यथवा ध्वंसो लिङ्गादनुपलम्भनात्।

प्राग्भूत्वा ह्यभवन् भावोऽनित्य इत्यभिधीयते॥११०॥

यस्योभयान्तव्यवधिसत्तासम्बन्धवा चिनी।

अनित्यताश्रुतिस्तेन तावन्ताविति कौ स्मृतौ॥१११॥

प्राक्पश्चादप्यभावश्चेत् स एवानित्यता न किम्।

षष्ठयाद्ययोगादिति चेदू अन्तयोः स कथं भवेत्॥११२॥

सत्तासम्बन्धयोर्ध्रौव्यादन्ताभ्यां न विशेषणम्।

अविशेषणमेव स्यादन्तौ चेत् कार्यकारणे॥११३॥

असम्बन्धान्न भावस्य प्रागभावं स वाञ्छति।

तदुपाधिसमाख्याने तेऽप्यस्य च न सिध्यतः॥११४॥

सत्ता स्वकारणाश्लेषकरणात् कारणं किल।

सा सत्ता स च सम्बन्धो नित्यौ कार्यमथेह किम्॥११५॥

यस्याभावः क्रियेतासौ न भावः प्रागभाववान्।

सम्बन्धानभ्युपगमान्नित्यं विश्वमिदं ततः॥११६॥

तस्मादनर्थास्कन्दिन्योऽभिन्नार्थाभिमतेष्वपि।

शब्देषु वाच्यभेदिन्यो व्यतिरेकास्पदं धियः॥११७॥

विशेषप्रत्यभिज्ञानं न प्रतिक्षणभेदतः।

न वा विशेषविषयं दॄष्टसाम्येन तद्ग्रहात्॥११८॥

निदर्शनं तदेवेति सामान्याग्रहणं यदि।

निदर्शनत्वात् सिद्धस्य प्रमाणेनास्य किं पुनः॥११९॥

विस्मृतत्वाददोषश्चेत् तत एवानिदर्शनम्।

दृष्टे तद्भावसिद्धिश्चेत् प्रमाणाद् अन्यवस्तुनि॥१२०॥

तत्त्वारोपे विपर्यासस्तत्सिद्धेरप्रमाणता।

प्रत्यक्षेतरयोरैक्यादेकसिद्धिर्द्वयोरपि॥१२१॥

सन्धीयमानं चान्येन व्यवसायं स्मृतिं विदुः।

तल्लिङ्गापेक्षणान्नो चेत् स्मृतिर्न व्यभिचारतः॥१२२॥

प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति।

प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः॥१२३॥

संहृत्य सर्वताश्चिन्तां स्तिमितेनान्तरात्मना।

स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः॥१२४॥

पुनर्विकल्पयन् किञ्चिदासीन्मे कल्पनेदृशी।

वेत्ति चेति न पूर्वोक्तावस्थायामिन्द्रियाद् गतौ॥१२५॥

एकत्र दृष्टौ भेदो हि क्वचिन्नान्यत्र दृश्यते।

न तस्माद् भिन्नमस्त्यन्यत् सामान्यं बुद्ध्यभेदतः॥१२६॥

तस्माद् विशेषविषया सर्वै वेन्द्रियजा मतिः।

न विशेषेषु शब्दानां प्रवृत्तावस्ति सम्भवः॥१२७॥

अनन्वयाद् विशेषाणां सङ्केतस्याप्रवृत्तितः।

विषयो यश्च शब्दानां संयोज्येत स एव तैः॥१२८॥

अस्येदमिति सम्बन्धे यावर्थौ प्रतिभासिनौ।

तयोरेव हि सम्बन्धो न तदेन्द्रियगोचरः॥१२९॥

विशदप्रतिभासस्य तदार्थस्याविभावनात्।

विज्ञानाभासभेदो हि पदार्थानां विशेषकः॥१३०॥

चक्षुषाऽर्थावभासेऽपि यं परोऽस्येति शंसति।

स एव योज्यते शब्दैर्न खल्विन्द्रियगोचरः॥१३१॥

अव्यापृतेन्द्रियस्यान्यवाङ् मात्रेणाविभावनात्।

न चानुदितसम्बन्धः स्वयं ज्ञानप्रसङ्गतः॥१३२॥

मनसो युगपद्वृत्तेः सविकल्पाविकल्पयोः।

विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति॥१३३।

विकल्पव्यवधानेन विच्छिन्नं दर्शनं भवेत्।

इति चेद् भिन्नजातीयविकल्पेऽन्यस्य वा कथम्॥१३४॥

अलातदृष्टिवद् भावपक्षश्चेद् बलवान् मतः।

अन्यत्रापि समानं तद् वर्णयोर्वा सकृच्छुतिः॥१३५॥

सकृत् सङ्गतसर्वार्थेष्विन्द्रियेष्विह सत्स्वपि।

पञ्चभिर्व्यवधानेऽपि भात्यव्यवहितेव या॥१३६॥

सा मतिर्मामपर्यन्तक्षणिकज्ञानमिश्रणात्।

विच्छिन्नाभेति तच्चित्रं तस्मात् सन्तु सकृद्धियः॥१३७॥

प्रतिभासाविशेषश्च सान्तरानन्तरे कथम्।

शुद्धे मनोविकल्पे च न क्रमग्रहणं भवेत्॥१३८॥

योऽग्रहः सङ्गतेऽप्यर्थे क्वचिदासक्तचेतसः।

सक्त्यान्योत्पत्तिवैगुण्याच्चोद्यं वै तद् द्वयोरपि॥१३९॥

शीघ्रवृत्तेरलातादेरन्वयप्रतिघातिनी।

चक्रभ्रान्तिं दृगाधत्ते न दृशां घटनेन सा॥१४०॥

केचिदिन्द्रियजत्वादेर्बालधीवदकल्पनाम्।

आहुर्बालाविकल्पे च हेतुं संकेतमन्दताम्॥१४१॥

तेषां प्रत्यक्षमेव स्याद् बालानामविकल्पनात्।

संकेतोपायविगमात् पश्चादपि भवेन्न सः॥१४२॥

मनो व्युत्पन्नसंकेतमस्ति तेन स चेन्मतः।

एवमिन्द्रियजेऽपि स्याद् शेषवच्चेदमीदृशम्॥१४३॥

यदेव साधनं बाले तदेवात्रापि कथ्यताम्।

साम्यादक्षधियामुक्तमनेनानुभवादिकम्॥१४४॥

विशेषणं विशेष्यञ्च सम्बन्धं लौकिकीं स्थितिम्।

गृहीत्वा सङ्कलययैतत् तथा प्रत्येति नान्यथा॥१४५॥

यथा दण्डिनि जात्यादेर्विवेकेनानिरूपणात्।

तद्वता योजना नास्ति कल्पनाप्यत्र नास्त्यतः॥१४६॥

यदप्यन्वयि विज्ञानं शब्दव्यक्त्यवभासि तत्।

वर्णाकृत्यक्षराकारशून्यं गोत्वं हि वर्ण्यते॥१४७॥

समानत्वेऽपि तस्यैव नेअणं नेत्रगोचरे।

प्रतिभासद्वयाभावात् बुद्धेर्भेदश्च दुर्लभः॥१४८॥

समवायाग्रहादक्षैः सम्बन्धादर्शनं स्थितम्।

पटस्तन्तुष्विहेत्यादिशब्दाश्चेमे स्वयं कृताः॥१४९॥

शृङ्गं गवीति लोके स्यात् शृंगे गौरित्यलौकिकम्।

गवाख्यपरिशिष्टाङ्गविच्छेदानुपलम्भनात्॥१५०॥

तैस्तन्तुभिरियं शाटीत्युत्तरं कार्यमुच्यते।

तन्तुसंस्कारसम्भूतं नैककालं कथञ्चन॥१५१॥

कारणारोपतः कश्चिद् एकापोद्धारारोऽपि वा।

तन्त्वाख्यां वर्तयेत् कार्ये दर्शयन् नाश्रयं श्रुतेः॥१५२॥

उपकार्योपकारित्वं विच्छेदाद् दृष्टिरेव वा।

मुख्यं यदस्खलज्ज्ञानमादिसंकेतगोचरः॥१५३

अनुमानं च जात्यादौ वस्तुनो नास्ति भेदिनि।

सर्वत्र व्यपदेशो हि दण्डादेर्नापि सांवृतात्॥१५४॥

वस्तुप्रासादमालादिशब्दाश्चान्यानपेक्षिणः।

गेहो यद्यपि संयोगस्तन्माला किन्नु तद् भवेत्॥१५५॥

जातिश्चेद् गेह एकाऽपि मालेत्युच्येत वृक्षवत्।

मालाबहुत्वे तच्छब्दः कथं जातेरजातितः॥१५६॥

मालादौ च महत्त्वादिरिष्टो यश्चौपचारिकः।

मुख्याविशिष्टविज्ञानग्राह्यत्वान्नौपचारिकः॥१५७

अनन्यहेतुता तुल्या सा मुख्याभिमतेष्वपि।

पदार्थशब्दः कं हेतुमन्यं षट्सु समीक्षते॥१५८॥

यो यथा रूढितः सिद्धस्तत्साम्याद् यस्तथोच्यते।

मुख्यो गौणश्च भावेष्वप्यभावस्योपचारतः॥१५९॥

संकेतान्वयिनी रूढिर्वक्तुरिच्छान्वयी च सः।

क्रियते व्यवहारार्थ छन्दःशब्दांशनामवत्॥१६०॥

वस्तुधर्मतयैवार्थास्तादृग्विज्ञानकारणम्।

भेदेऽपि यत्र तज्ज्ञानं तांस्तथा प्रतिपद्यते॥१६१॥

ज्ञानान्यपि तथा भेदे भेदप्रत्यवमर्शने।

इत्यतत्कार्यविश्लेषस्यान्ब्वयो नैकवस्तुनः॥१६२॥

वस्तूनां विद्यते तस्मात् तन्निष्ठा वस्तुनि श्रुतिः।

बह्यशक्तिव्यवच्छेदनिष्ठाभावेऽपि तच्छ्रुतिः॥१६३॥

विकल्पप्रतिबिम्बेषु तन्निष्ठेषु निबध्यते।

ततोऽन्यापोहनिष्ठत्वादुक्तान्यापोहकृत् श्रुतिः॥१६४॥

व्यतिरेकीव यज्ज्ञाने भात्यर्थप्रतिबिम्बकम्।

शब्दात् तदपि नार्थात्मा भ्रान्तिः सा वासनोद्भवा॥१६५॥

तस्याभिधाने श्रुतिभिरर्थे कोंऽशोऽवगम्यते।

तस्यागतो च संकेतक्रिया व्यर्था तदर्थिका॥१६६॥

शब्दोऽर्थांशं कमाहेति तत्रान्यापोह उच्यते।

आकारः स च नार्थेऽस्ति तं वदन्नर्थभाक् कथम्॥१६७॥

शब्दस्यान्वयिनः कार्यमर्थेनान्वयिना स च।

अनन्वयी धियोऽभेदाद् दर्शनाभ्यासनिर्मितः॥१६८॥

तद्रूपारोपगत्यान्यव्यावृत्ताधिगतेः पुनः।

शब्दार्थोऽर्थः स एवेति वचने न विरुध्यते॥१६९॥

मिथ्यावभासिनो वैते प्रत्ययाः शब्दनिर्मिताः।

अनुयान्तीममर्थाशमिति चापोहकृत् श्रुतिः॥१७०॥

तस्मात् संकेतकालेऽपि निर्दिष्टार्थेन संयुतः।

स्वप्रतीतिफ़लेनान्यापोहः सम्बध्यते श्रुतौ॥१७१॥

अन्यत्रादृष्ट्यपेक्षत्वात् क्वचित्तद्दृष्ट्यपेक्षणात्।

श्रुतौ सम्बध्यतेऽपोहो नैतद् वस्तुनि युज्यते॥१७२॥

तस्माद् जात्यादितद्योगा नार्थे तेषु च न श्रुतिः।

संयुज्यतेऽन्यव्यावृत्तौ शब्दानामेव योजनात्॥१७३॥

संकेतस्मरणोपायं दृष्टसंकलनात्मकम्।

पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम्॥१७४॥

अन्यत्रगतचित्तोऽपि चक्षुषा रूपमीक्षते।

तत्संकेताग्रहस्तत्र स्पष्टस्तज्जा च कल्पना॥१७५॥

जायन्ते कल्पनास्तत्र यत्र शब्दो निवेशितः।

तेनेच्छातः प्रवर्त्तेरन् नेक्षेरन् बाह्यामक्षजाः॥१७६॥

रूपं रूपमितीक्षेत तद्धियं किमितीक्षते।

अस्ति चानुभवस्तस्याः सोऽविकल्पः कथं भवेत्॥१७७॥

तयैवानुभवे दृष्टं न विकल्पद्वयं सकृत्।

एतेन तुल्यकालान्यविज्ञानानुभवो गतः॥१७८॥

स्मृतिर्भवेदतीते च साऽगृहीते कथं भवेत्।

स्याच्चान्यधीपरिच्छेदाभिन्नरूपा स्वबुद्धिधीः॥१७९॥

अतीतमपदृष्टाब्तमलिङ्गञ्चार्थवेदनम्।

सिद्धं तत्केन तस्मिन् हि न प्रत्यक्षं न लैङ्गिकम्॥१८०॥

तत्स्वरूपावभासिन्या बुद्धयानन्तरया यदि।

रूपादिरिव गृह्येत न स्यात् तत्पूर्वधीग्रहः॥१८१॥

सोऽविकल्पः स्वविषयो विज्ञानानुभवो यथा।

अशक्यसमयं तद्वदन्यदप्यविकल्पकम्॥१८२॥

सामान्यवाचिनः शब्दास्तदेकार्था च कल्पना।

अभावे निर्विकल्पस्य विशेषाधिगमः कथम्॥१८३॥

अस्ति चेन्निर्विकल्पं च किञ्चित् तत्तुल्यहेतुकम्।

सर्व तथैव हेतोर्हि भेदाद् भेदः फ़लात्मनाम्॥१८४॥

अनपेक्षितबाह्यार्था योजना समयस्मृतेः।

तथानपेक्ष्य समयं वस्तुशक्त्यैव नेत्रधीः॥१८५॥

संकेतस्मरणापेक्षं रूपं यद्यक्षचेतसि।

अनपेक्ष्य न चेच्छक्तं स्यात् स्मृतावेव लिंगवत्॥१८६॥

तस्यास्तत्संगमोत्पत्तेरक्षधीः स्यात् स्मृतेर्न वा।

ततः कालान्तरेऽपि स्यात् क्वचिद् व्याक्षेपसम्भवात्॥१८७॥

क्रमेणोभयहेतुश्चेत् प्रागेव स्यादभेदतः।

अन्योऽक्षबुद्धिहेतुश्चेत् स्मृतिस्तत्राप्यनर्थिका॥१८८॥

यथासमितासिद्ध्यर्थमिष्यते समयस्मृतिः।

भेदश्चासमितो ग्राह्यः स्मृतिस्तत्र किमर्थिका॥१८९॥

सामान्यमात्रग्रहणे भेदापेक्षा न युज्यते।

तस्माच्चक्षुश्च रूपं च प्रतीत्योदेति नेत्रधीः॥१९०॥

साक्षाच्च ज्ञानजनने समर्थो विषयोऽक्षवत्।

अथ कस्माद् द्वयाधीनजन्म तत् तेन नोच्यते॥१९१॥

समीक्ष्य गमकत्वं हि व्यपदेशो नियुज्यते।

तच्चाक्षव्यपदेशेऽस्ति तद्धर्मश्च नियोज्यताम्॥१९२॥

ततो लिंगस्वभावोऽत्र व्यपदेशे नियोज्यताम्।

निवर्त्तते व्यापकस्य स्वभावस्य निवृत्तितः॥१९३॥

सञ्चितः समुदायः स सामान्यं तत्र चाक्षधीः।

सामान्यबुद्धुश्चावश्यं विकल्पेनानुबद्द्यते॥१९४॥

अर्थान्तराभिसम्बन्धाज्जायन्ते येऽणवोऽपरे।

उक्तास्ते सञ्चितास्ते हि निमित्तं ज्ञानजन्मनः॥१९५॥

अणू नां स विशेषश्च नान्तरेणापरनणीन्।

तदेकानियमज्ज्ञानमुक्तं सामान्यगोचरम्॥१९६॥

अथैकायतनत्वेऽपि नानेकं दृश्यते सकृत्।

सकृद्ग्रहावभासः कि वियुक्तेषु तिलादिषु॥१९७॥

प्रयुक्तं लाघवञ्चात्र तेष्वेव क्रमपातिषु।

किं नाक्रमग्रहस्तुल्यकालाः सर्वाश्य बुद्धयः॥१९८॥

काश्चित् तास्वक्रमाभासाः क्रमवत्योऽपराश्च किम्।

सर्वार्थग्रहणे तस्मासक्रमोऽयं प्रसज्यते॥१९९॥

नै कं चित्रपतंगादि रूपं वा दृश्यते कथम्।

चित्रं तदेकामिति चेदिदं चित्रतरं ततः॥२००॥

नैकस्वभावं चित्रं हि मणिरूपं यथैव तत्।

नीलादिप्रतिभासश्च तुल्यश्चित्रपटादिषु॥२०१॥

तत्रावयवरूपं चेत् केवलं दृश्यते तथा।

नीलादीनि निरस्यान्यच्चित्रं चित्रं यदीक्षसे॥२०२॥

तुल्यार्थाकारकालत्वेनोपलक्षितयर्द्वयोः।

नानार्था क्रमवत्येका किमेकार्थाऽक्रमापरा॥२०३॥

वैश्वरूप्याद् धियामेव भावानां विश्वरूपता।

तच्चेदनङ्ग केनेयं सिद्धा भेदव्यवस्थितिः॥२०४॥

विजातीनामनारम्भादालेख्यादौ न चित्रधीः।

अरूपत्वान्न संयोगश्चित्रो भक्तेश्च नाश्रयः॥२०५॥

प्रत्येकमविचित्रत्वाद् गृहीतेषु क्रमेण च।

न चित्रधीसङ्कलनमनेकस्यैकयाऽग्रहात्॥२०६॥

नानार्थैका भवेत् तस्मात् सिद्धाऽतोऽप्यविकल्पिका।

विकल्पयन्नेकमर्थ यतोऽन्यदपि पश्यति॥२०७॥

चित्रावभासेष्वथषु यद्येकत्वं न युज्यते।

सैव तावत् कथं बुद्धिरेका चित्रावभासिनी॥२०८॥

इदं वस्तुबलायातं यद् वदन्ति विपश्चितः।

यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा॥२०९॥

किं स्यात् सा चित्रतैकस्याम् न स्यात् तस्यां मतावपि।

यदीदं स्वयमर्थानां रोचते तत्र के वयम्॥२१०॥

तस्मान्नार्थेषु न ज्ञाने स्थूलाभासस्तदात्मनः।

एकत्र प्रतिषिद्धित्वाद् बहुष्वपि न सम्भवः॥२११॥

परिच्छेदोऽन्तरन्योऽयं भागो बहिरिव स्थितः।

ज्ञानस्याभेदिनौ भिन्नौ प्रतिभासो ह् युपप्लवः॥२१२॥

तत्रैकस्याप्यभावेन द्वयमप्यवहीयते।

तस्मात् तदेव तस्यापि तत्त्वं या द्वयशून्यता॥२१३॥

तद्भेदाश्रयिणी चेयं भावानां भेदसंस्थितिः।

तदुपल्पवभावे च तेषां भेदोऽप्युपप्लवः॥२१४॥

न ग्राह्यग्राहकाकारबाह्यमस्ति च लक्षणम्।

अतो लक्षणशून्यत्वान्निःस्वभावाः प्रकाशिताः॥२१५॥

व्यापारोपधिकं सर्व स्कन्धादीनां विशेषतः।

लक्षणं स च तत्त्वं न तेनाप्येते विलक्षणाः॥२१६॥

यथास्वम्प्रत्ययापेक्षादविद्योपप्लुतात्मनाम्।

विज्ञप्तिर्वितथाकारा जायते तिमिरदिवत्॥२१७॥

असंविदिततत्वा च सा सर्वापरदर्शनैः।

असम्भवाद् विना तेषां ग्राह्यग्राहकविप्लवैः॥२१८॥

तदुपेक्षिततत्त्वार्थैः कृत्वा गजनिमीलनम्।

केवलं लोकबुद्ध्यैव बाह्यचिन्ता प्रतन्यते॥२१९॥

नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक्।

अशक्यदर्शनः तं हि पतत्यर्थे विवेचयन्॥२२०॥

यद् यथा भासते ज्ञानं तत् तथैव प्रकाशते।

इति नामैकभावः स्याच्चित्राकारस्य चेतसि॥२२१॥

पटादिरूपस्यैकत्वे तथा स्यादविवेकिता।

विवेकीनि निरस्यान्यदा विवेकि च नेक्षते॥२२२॥

को वा विरोधो बहवः सञ्जातातिशयाः पृथक्।

भवेयुः कारणं बुद्धेर्यदि नात्मेन्द्रियादिवत्॥२२३॥

हेतुभावाद् ऋते नान्या ग्राह्यता नाम काचन।

तत्र बुद्धिर्यदाकारा तस्यास्तद् ग्राह्यमुच्यते॥२२४॥

कथं वाऽवयवी ग्राह्या सकृत् स्वावयवैः सह।

न हि गोप्रत्ययो दृष्टः सास्नादीनामदर्शने॥२२५॥

गुणप्रधानाधिगमः सहाप्यभिमतो यदि।

सम्पूर्णाङ्गो न गृह्येत सकृन्नापि गुणादिमान्॥२२६॥

विवक्षापरतन्त्रत्वाद् विशेषणविशेषययोः।

यद्ङ्गभावेनोपात्तं तत् तेनैव हि गृह्यते॥२२७॥

स्वतो वस्त्वन्तराभेदाद् गुणादेर्भेदकस्य च।

अग्रहादेकबुद्धिः स्यात् पश्यतोऽपि परापरम्॥२२८॥

गुणादिभेदग्रणान्नानात्वप्रतिपद् यदि।

अस्तु नाम तथाप्येषां भवेत् सम्बन्धिसङ्करः॥२२९॥

शब्दादीनामनेकत्वात् सिद्धोऽनेकग्रहः सकृत्।

सन्निवेशग्रहायोगादग्रहे सन्निवेशिनाम्॥२३०॥

सर्वतो विनिवृत्तस्य विनिवृत्तिर्यतो यतः।

तद्भेदोन्नीतभेदा सा धर्मिणोऽनेकरूपता॥२३१॥

ते कल्पिता रूपभेदाद् निर्विकल्पस्य चेतसः।

न विचित्रस्य चित्राभाः कादाचित्कस्य गोचरः॥२३२॥

यद्यप्यस्ति सितत्वादि यादृगिन्द्रियगोचरः।

न सोऽभिधीयते शब्दैर्जानयो रूपभेदतः॥२३३॥

एकार्थत्वेऽपि बुद्धीनां नानाश्रयतया स चेत्।

श्रोत्रादिचित्तानीदानीं भिन्नार्थानीति तत् कुतः॥२३४॥

जातो नामाश्रयोन्योऽन्यः चेतसां तस्य वस्तुनः।

एकस्यैव कुतो रूपं भिन्नाकारावभासि तत्॥२३५॥

वृत्तेर्दृ श्यपरामर्शेनाभिधानविकल्पयोः।

दर्शनात् प्रत्यभिज्ञानं गवादीनां निवारितम्॥२३६॥

अन्वयाच्चानुमानं यदभिधानविकल्पयोः।

दृश्ये गवादौ जात्यादेस्तदप्येतेन दूषितम्॥२३७॥

दर्शनान्येव भिन्नान्यप्येकां कुर्वन्ति कल्पनाम्।

प्रत्यभिज्ञानसंख्यातां स्वभावेनेति वर्णितम्॥२३८॥

पूर्वानुभूतग्रहणे मानसस्याप्रमाणता।

अदृष्टग्रहणेऽन्धादेरपि स्यादर्थदर्शनम्॥२३९॥

क्षणकत्वादतीतस्य दर्शनस्य न सम्भवः।

वाच्यमक्षणिकत्वे स्याल्लक्षणं सविशेषणम्॥२४०॥

निष्पादितक्रिये कञ्चिद् विशेषमसमादधत्।

कर्मण्यैन्द्रियमन्यद् वा साधनं किमितीष्यते॥२४१॥

सकृद् भावश्च सर्वासां धियां तद्भावजन्मनाम्।

अन्यैरकार्यभेदस्य तदपेक्षाविरोधतः॥२४२॥

तस्मादिन्द्रियविज्ञानानन्तरप्रत्ययोद्भवम्।

मनोऽन्यमेव गृह्णाति विषयं नान्धदृक् ततः॥२४३॥

स्वार्थान्वयार्थापेक्षैव हेतुरिन्द्रियजा मतिः।

ततोऽन्यग्रहणेस्य नियतग्राह्यता मता॥२४४॥

तदतुल्यक्रियाकालः कथं स्वज्ञानकालिकः।

सहकारी भवेदर्थ इति चेदक्षचेतसः॥२४५॥

असतः प्रागसामर्थ्यात् पश्चाच्चानुपयोगतः।

प्राग्भावः सर्वहेतूनां नातिऽर्थ स्वधिया सह॥२४६॥

भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यातां विदुः।

हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम्॥२४७॥

कार्य ह्यनेकहेतुत्वेऽप्यनुकुर्वदुदेति यत्।

तत् तेनाप्यत्र तद्रूपं गृहीतमिति चोच्यते॥२४८॥

अशक्यसमयो ह्यात्मा रागादीनामन्नन्यभाक्।

तेषामतः स्वसंवित्तिर्न्नाभिजल्पानुषङ्गिणी॥२४९॥

अवेदकाः परस्यापि ते स्वरूपं कथं विदुः।

एकार्थाश्रयिणा वेद्या विज्ञानेनेति केचन॥२५०॥

तदतद्रू पिणो भावास्तदतद्रू पहेतुजाः।

तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम्॥२५१॥

सार्थे सतीन्द्रिये योग्ये यथास्वमपि चेतसि।

दृष्टं जन्म सुखादीनां तत् तुल्यं मनसामपि॥२५२॥

असत्सु सत्सु चैतेषु न जन्माजन्म वा क्वचित्।

दृष्टं सुखादेर्बुद्धेर्वा तत् ततो नान्यश्च ते॥२५३॥

सुखदुःखादिभेदश्च तेसामेव विशेषतः।

तस्या एव यथा बुद्धेर्मान्द्यपाटवसंश्रयाः॥२५४॥

यस्यार्थस्य निपातेन ते जाता धीसुखादयः।

मुल्त्वा तं प्रतिपद्येत सुखादीनेव सा कथन्॥२५५॥

अविच्छिन्ना न भासेत तत्संवित्तिः क्रमग्रहे।

तल्लाघवाच्चेत् तत्तुल्यमित्यसंवेदनं न किम्॥२५६॥

न चैकया द्वयज्ञानं नियमादक्षचेतसः।

सुखाद्यभावेऽप्यर्थाच्च जातेस्तच्छक्त्यसिद्धितः॥२५७॥

पृथक् पृथक् च सामर्थ्ये द्वयोर्नीलादिवत् सुखम्।

गृह्येत केवलं तस्य तद्धेत्वर्थमगृह्णतः॥२५८॥

न हि संवेदनं युक्तम् अर्थेनैव सह ग्रहे।

किं सामर्थ्य सुखादीनां नेष्टा धीर्यत् तदुद्भवा॥२५९॥

विनार्थेन सुखादीनां वेदने चक्षुरादिभिः।

रूपादिः स्त्र्यादिभेदोऽक्ष्रणा न गृह्येत कदाचन॥२६०॥

न हि सत्यन्तरङ्गेऽर्थे शक्ते धीर्बाह्यदर्शनी।

अर्थग्रहे सुखादीनां तज्जानां स्यादवेदनम्॥२६१॥

धियोर्यु गपदुत्पत्तौ तत्तद्विषयसम्भवात्।

सुखदुःखविदौ स्यातां सकृदर्थस्य सम्भवे॥२६२॥

सत्यान्तरेऽप्युपादाने ज्ञाने दुःखादिसम्भवः।

नोपादानं विरुद्धस्य तच्चैकमिति चेन्मतम्॥२६३॥

तदज्ञानस्य विज्ञानं केनोपादानकारणम्।

आधिपत्यं तु कुर्वीत तद्विरुद्वेऽपि दृश्यते॥२६४॥

अक्ष्रणोर्यथैक आलोको नक्तञ्चरतदन्ययोः।

रूपदर्शनवैगुण्यावैगुण्ये कुरुते सकृत्॥२६५॥

तस्मात् सुखादयोऽर्थानां स्वसंक्रान्तावभासिनाम्।

वेदकाः स्वात्मनश्चैषामर्थेभ्यो जन्म केवलम्॥२६६॥

अर्थात्मा स्वात्मभूतो हि तेषां तैरनुभूयते।

तेनार्थानुभवख्यातिरालम्बस्तु तदाभता॥२६७॥

कश्चिद् बहिःस्थितानेव सुखादीनप्रचेतनान्

ग्राह्यानाह न तस्यापि सकृद् युक्तो द्वयग्रहः॥२६८॥

सुखाद्यभिन्नरूपत्वान्नीलादेश्चेत् सकृद् ग्रहः।

भिन्नावभासिनोर्ग्राह्यं चेतसोस्तदभेदि किम्॥२६९॥

तस्याविशेषे बाह्यस्य भावनातारतम्यतः।

तारतम्यञ्च बुद्धौ स्यान्न प्रीतिपरितापयोः॥२७०॥

सुखाद्यात्मतया बुद्धेरपि यद्यविरोधिता।

स इदानीं कथं बाह्याः सुखाद्यात्मेति गम्यते॥२७१॥

अग्राह्यग्राहकत्वाच्चेद् भिन्नजातीययोः पुमान्।

अग्राहकः स्यात् सर्वस्य ततो हीयेत भोक्तृता॥२७२॥

कार्यकारणतानेन प्रत्युक्ताऽकार्यकारणे।

ग्राह्यग्राहकताभावाद् भावेऽन्यत्रापि सा भवेत्॥२७३॥

तस्मात् त आन्तरा एव संवेद्यत्वाच्च चेतनाः।

संवेदनं न यद् रूपं न हि तत् तस्य वेदनम्॥२७४॥

अतत्स्वभावोऽनुभवो बैद्धांस्तान् सन्नवैति चेत्।

मुक्त्वाऽध्यक्षस्मृताकारां संवितिं बुद्धिरत्र का॥२७५॥

तांस्तानर्थानुपादाय सुखदुःखादिवेदनम्।

एकमाविर्भवद् दृष्टं न दृष्टं त्वन्यदन्तरा॥२७६॥

संसर्गादविभागश्चेदयोगोलकवह् निवत्।

भेदाभेदव्यवस्थैवमुच्छिन्ना सर्ववस्तुषु॥२७७॥

अभिन्नवेदनस्यैक्यं यन्नैवं तद् विभेदवत्।

सिध्येदसाधनत्वेऽस्य न सिद्धं भेदसाधनम्॥२७८॥

भिन्नाभः सितदुःखादिरभिन्नो भुद्धिवेदने।

अभिन्नाभे विभिन्ने चेद् भेदाभेदौ किमाश्रयौ॥२७९॥

तिरस्कृतानां पटुनाऽप्येकदाऽभेददर्शनात्।

प्रवाहे वित्तिभेदानां सिद्धा भेदव्यवस्थितिः॥२८०॥

प्रागुक्तं योगिनां ज्ञानं तेषां तद् भावनामयम्।

विधूतकल्पनाजालं स्पष्टमेवावभासते॥२८१॥

कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः।

अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव॥२८२॥

न विकल्पानुबद्धस्यास्ति स्युटार्थावभासिता।

स्वप्नेऽपि स्मर्यते स्मार्त न च तत् तादृगर्थवत्॥२८३॥

अशुभा पृथिवीकृत्स्नाद्यभूतमपि वर्ण्यते।

स्पष्टाभं निर्विकल्पञ्च भावानाबलनिर्मितम्॥२८४॥

तस्माद् भूतमभूतं वा यद् यदेवातिभाव्यते।

भावनापरिनिष्पत्तौ तत् स्फ़ुटाकल्पधीफ़लम्॥२८५॥

तत्र प्रमाणं संवादि यत् प्राङ् निर्णीतवस्तुवत्।

तद् भावानाजं प्रत्यक्षमिष्टम् शेषा उपप्लवाः॥२८६॥

शब्दार्थग्राहि यद् यत्र तज्ज्ञानं तत्र कल्पना।

स्वरूपं च न शब्दार्थस्तत्राध्यक्षमतोऽखिलम्॥२८७॥

त्रिविधं कल्पमाज्ञानमाश्रयोपप्लवोद्भवम्।

अविकल्पलमेकं च प्रत्यक्षाभं चतुर्विधम्॥२८८॥

अनक्षजत्वसिद्ध्यर्थमुक्ते द्वे भ्रान्तिदर्शनात्।

सिद्धानुमादिवचनं साधनायैव पूर्वयोः॥२८९॥

संकेतसंश्रयान्यार्थसमारोपविकल्पे।

न प्रत्यक्षानुवृत्तित्वात् कदाचिद् भ्रान्तिकारणम्॥२९०॥

यथैवेयं परोक्षार्थकल्पना स्मरणात्मिका।

समयापेक्षीणी नार्थ प्रत्यक्षमध्यवस्यपि॥२९१॥

तथानुभूतस्मरणमन्तरेण घटादिषु।

न प्रत्ययोऽनुयंस्तच्च प्रत्यक्षात् परिहीयते॥२९२॥

अपवादश्चतुर्थोऽत्र तेनोक्तमुपघातजम्।

केवलं तत्र तिमिरमुपघातोपलक्षणम्॥२९३॥

मानसं तदपीत्येके तेषां ग्रन्थो विरुध्यते।

नीलद्विचन्द्रादिधियां हेतुरक्षाण्यपीत्ययम् २९४॥

पारम्पर्येण हेतुश्चेदिन्द्रियज्ञानगोचरे।

विचार्यमाणे प्रस्तावो मानसस्येह कीदृशः॥२९५॥

कि वैन्द्रियं यदक्षाणां भावाभावानुरोधि चेत्।

तत् तुल्यं विक्रियावच्चेत् सैवेयं किं निषिध्यते॥२९६॥

सर्पादिभ्रान्तिवच्चास्याः स्यादक्षविकृतावपि।

निवृत्तिर्न निवर्तेत निवृत्तेऽप्यक्षविप्लवे॥२९७॥

कदाचिदन्यसन्ताने तथैवार्प्येत वाचकैः।

दृष्टस्मृतिमपेक्षेत न भासेत परिस्फ़ुटम्॥२९८॥

सुप्तस्य जाग्रतो वापि यैव धीः स्फ़ुटभासिनी।

सा निर्विकल्पोभयथाऽप्यन्यथैव विकल्पिका॥२९९॥

तस्मात् तस्याविकल्पेऽपि प्रामाण्यं प्रतिषिध्यते।

विसंवादात् तदर्थ च प्रत्यक्षाभं द्विधोदितम्॥३००॥

क्रियासाधनमित्येव सर्व सर्वस्य कर्मणः।

साधनं न हि तस्य साधनं या क्रिया यतः॥३०१॥

तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः।

भाव्यं तेनात्नमा येन प्रतिकर्म विभज्यते॥३०२॥

अनात्मभूतो भेदोऽस्य विद्यमानोऽपि हेतुषु।

भिन्ने कर्मण्यभिन्नस्य न भेदेन नियामकः॥३०३॥

तस्माद् यतोऽस्यात्मभेदादस्याधिगतिरित्ययम्।

क्रियायाः कर्मनियमः सिद्धा सा तत्प्रसाधना॥३०४॥

अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम्।

अन्यः स्वभेदाज्ज्ञानस्य भेदकोऽपि कथञ्चन॥३०५॥

तस्मात् प्रमेयाधिगतेः साधनं मेयरूपता।

साधनेऽन्यत्र तत्कर्मसम्बन्धो न प्रसिद्धयति॥३०६॥

सा च तस्यात्मभूतैव तेन नार्थान्तरं फ़लम्।

दधानं तच्च तामात्मन्यर्थाधिगमनात्मना॥३०७॥

सव्यापारमिवाभाति व्यापारेण स्वकर्मणि।

तद्वशात् तदव्यवस्थानादकारकमपि स्वयम्॥३०८॥

यथा फ़लस्य हेतूनां सदृशात्मतयोद्भवात्।

हेतुरूपग्रहो लोकेऽक्रियावत्त्वेऽपि कथ्यते॥३०९॥

आलोचनाक्षसम्बन्धविशेषणधियामतः।

नेष्टं प्रामाण्यमेतेषां व्यवधानात् क्रियां प्रति॥३१०॥

सर्वेषामुपयोगेऽपि कारकाणां क्रियां प्रति।

यदन्त्यं भेदकं तस्यास्तत् साधकतमं मतम्॥३११॥

सर्वसामान्यहेतुत्वासक्षाणामस्ति नेदृशम्।

तद्भेदेऽपि ह्यतद्रूपस्यास्येदमिति तत् कुतः॥३१२॥

एतेन शेषं व्याख्यातं विशेषणधियां पुनः।

अताद्रू प्ये न भेदोऽपि तद्वदन्यधियोऽपि वा॥३१३॥

नेष्टो विषयभेदोऽपि क्रियासाधनयोर्द्वयोः।

एकार्थत्वे द्वयं व्यर्थ न च स्यात् क्रमभाविता॥३१४॥

साध्यसाधनताभावः सकृद्भावे धियोंऽशयोः।

तद्व्यवस्थाश्रयत्वेन साध्यसाधनसंस्थितिः॥३१५॥

सर्वात्मनापि सम्बद्धं कैश्चिदेवावगम्यते।

धर्मेः स नियमो न स्यात् सम्बन्धस्याविशेषतः॥३१६॥

तदभेदेऽपि भेदोऽयं यस्मात् तस्य प्रमाणता।

संस्काराच्चेदताद्रू प्ये न तस्याप्यव्यवस्थितेः॥३१७॥

क्रियाकरणयोरैक्यविरोध इति चेद् असत्।

धर्मभेदाभ्युपगमाद् वस्त्वभिन्नमितीष्यते॥३१८॥

एवम्प्रकारा सर्वैव क्रियाकारकसंस्थितिः।

भावस्य भिन्नानभिमतेष्वप्यारोपेण वृत्तितः॥३१९॥

काऽर्थसंविद् यदेवेदं प्रत्येक्षं प्रतिवेदनम्।

तदर्थवेदनं केन ताद्रू प्याद् व्यभिचारि तत्॥३२०॥

अथ सोऽनुभवः क्वास्य तदेवेदं विचार्यते।

सरूपयन्ति तत् केन स्थूलाभासं च तेऽणवः॥३२१॥

तन्नार्थरूपता तस्य सत्यां सा व्यभिचारिणी।

तत्संवेदनभावस्य न समर्था प्रसाधने॥३२२॥

तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणम्।

संवेद्य स्यात् समानार्थ विज्ञानं समनन्तरम्॥३२३॥

इदं दृष्टं श्रुतं वेदम् इति यत्रावसायधीः।

न तस्यानुभवः सैव प्रत्यासत्तिर्विचार्यते॥३२४॥

दृश्यदर्शनयोर्येन तस्य तद् दर्शनं मतम्।

तयोः सम्बन्धमाश्रित्य द्रष्टुरेष विनिश्चयः॥३२५॥

आत्मा स तस्यानुभवः स् च नान्यस्य कस्यचित्।

प्रत्यक्षप्रतिवेद्यत्वमपि तस्य तदात्मता॥३२६॥

नान्योऽनुभाव्यस्तेनास्ति तस्य नानुभवोऽपरः।

तस्यापि तुल्यचोद्यत्वात् स्वयं सैव प्रकाशते॥३२७॥

नीलादिरूपस्तस्यासौ स्वभावोऽनुभवश्च सः।

नीलाद्यनुभवात् ख्यातः स्वरूपानुभवोऽपि सन्॥३२८॥

प्रकाशमानस्तादात्म्यात् स्वरूपस्य प्रकाशकः।

यथा प्रकाशोऽभिमतस्तथा धीरात्मवेदिनी॥३२९॥

तस्याश्चार्थान्तरे वेद्ये दुर्घटौ वेद्यवेदकौ।

अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते॥३३०॥

विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा।

तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत्॥३३१॥

यदा तदा न सञ्चोद्यग्राह्यग्राहकलक्षणा।

तदान्यसंविदोऽभावात् स्वसंवित् फ़लमिष्यते॥३३२॥

यदि बह्योऽनुभूयेत को दोषो नैव कश्चन।

इदमेव किमुक्तं स्यात् स बाह्योऽर्थोऽनुभूयते॥३३३॥

यदि बुद्धिस्तदाकारा साऽस्त्याकारविशेषिणी।

सा बाह्यादन्यतो वेति विचारमिदमर्हति॥३३४॥

दर्शनोपाधिरहितस्याग्रहात तद्ग्रहे ग्रहात्।

दर्शनं नीलनिर्भासं नार्थो बाह्योऽस्ति केवलम्॥३३५॥

कस्यचित् किञ्चिदेवान्तर्वासनायाः प्रबोधकम्।

ततो धियां विनियमो न बाह्यार्थव्यपेक्षया॥३३६॥

तस्माद् द्विरूपमस्त्येकं यदेवमनुभूयते।

स्मर्यते चोभयाकारस्यास्य संवेदनं फ़लम्॥३३७॥

यदा नुष्पन्नत्द्भाव इष्टोऽनिष्टोऽपि वा परः।

विज्ञप्तिहेतुर्विषयस्तस्याश्चानुभवस्तथा॥३३८॥

यदा सविषयं ज्ञानं ज्ञानांशेऽर्थव्यवस्थितेः।

तदा य आत्मानुभवः स एवार्थविनिश्चयः॥३३९॥

यदीष्टाकार आत्मा स्यादन्यथा वानुभूयते।

इष्टोऽनिष्टोऽपि वा तेन भवत्यर्थः प्रवेदितः॥३४०॥

विद्यमानेऽपि बाह्ये ऽर्थे यथानुभवमेव सः।

निश्चितात्मा स्वरूपेण नानेकात्मत्वदोषतः॥३४१॥

यदि बाह्यं न विद्येत क्स्य संवेदनं भवेत्।

यद्यगत्या स्वरूपस्य बाह्यस्यैव न किं मतम्॥३४२॥

अभ्युपायेऽपि भेदेन न स्यादनुभवो द्वयोः।

अदृष्टावरणात् स्यात् चेन्न नामार्थावशो गतिः॥३४३॥

तमनेकात्मकं भावमेकात्मत्वेन दर्शयत्।

तददृष्टं कथं नाम भवेदर्थस्य दर्शकम्॥३४४॥

इष्टानिष्टावभासिन्यः कल्पना नाक्षधीर्यदि।

अनिष्टादावसन्धानं दृष्टं तत्रापि चेतसाम्॥३४५॥

तस्मात् प्रमेये बाह्ये ऽपि युक्तं स्वानुभवः फ़लम्।

यतः स्वभावोऽस्य यथा तथैवार्थविनिश्चयः॥३४६॥

तदर्थाभासतैवास्य प्रमाणं न तु सन्नपि।

ग्राहकात्माऽपरार्थत्वाद् बाह्येष्वर्थेष्अपेक्षते॥३४७॥

यस्माद् यथा निविष्टोऽसावर्थात्मा प्रत्यये तथा।

निश्चीयते निविष्टोऽसावेवमित्यात्मसंविदः॥३४८॥

इत्यर्थसंवित् सैवेष्टा यतोऽर्थात्मा न दृश्यते।

तस्माद् बुद्धिनिवेश्यार्थः साधनं तस्य सा क्रिया॥३४९॥

यथा निविशते सोऽर्थो यतः सा प्रथते तथा।

अर्थस्थितेस्तदात्मत्वात् स्वविदप्यर्थविन्मता॥३५०॥

तस्माद् विषयभेदोऽपि न स्वसंवेदनं फ़लम्।

उक्तं स्वभावचिन्तायां तादात्म्यादर्थसंविदः॥३५१॥

तथावभासमानस्य तादृशोऽन्यादृशोऽपि वा।

ज्ञानस्य हेतुरर्थोऽपीत्यर्थस्येष्टा प्रमेयता॥३५२॥

यथाकथञ्चित् तस्यार्थरूपं मुक्त्वावभासिनः।

अर्थग्रहः कथम् सत्यं न जानेऽहमपीदृशम्॥३५३॥

अविभागोऽपि बुद्ध् यात्मविपर्यासितदर्शनैः।

ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते॥३५४॥

मन्त्राद्यु पप्लुताक्षाणां यथा मृच्छकलादयः।

अन्यथैवावभासन्ते तद्रूपरहिता अपि॥३५५॥

तथैव दर्शनात् तेषामनुपप्लुतचक्षुषा।

दूरे यथा वा मरुषु महानल्पोऽपि दृश्यते॥३५६॥

यथानुदर्ह्सनं चेयं मेयमानफ़लस्थितिः।

क्रियतेऽविद्यमानापि ग्राह्यग्राहकसंविदाम्॥३५७॥

अन्यथैकस्य भावस्य नानारूपावभासिनः।

सत्यं कथं स्युराकारास्तदेकत्वस्य हानितः॥३५८॥

अन्यस्यान्यत्वहानेश्च नाभेदो रूपदर्शनात्।

रूपाभेदं च पश्यन्तो धीरभेदं व्यवस्यति॥३५९॥

भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः।

यस्मादेकमनेकं च रूपं तेषां न विद्यते॥३६०॥

साधर्म्यदर्शनाल्लोके भ्रान्तिर्नामोपजायते।

अतदात्मनि तादात्म्यव्यवसायेन नेह तत्॥३६१॥

अदर्शनाज्जगत्यस्मिन्नेकस्यापि तदात्मनः।

अस्तीयमपि या त्वन्तरुपप्लवसमुद्भवा॥३६२॥

दोषोद्भवा प्रकृत्या सा वितथप्रतिभासिनी।

अनपेक्षितसाधर्म्यदृगादिस्तैमिरादिवत्॥३६३॥

तत्र बुद्धेः परिच्छेदो ग्राहकाकारसम्मतः।

तादात्म्यादात्मवित् तस्य स तस्य साधनं ततः॥३६४॥

तत्रात्मविषये माने यथारागादि वेदनम्।

इयं सर्वत्र संयोज्या मानमेयफ़लस्थितिः॥३६५॥

तत्राप्यनुभवात्मत्वात् ते योग्या स्वात्मसंविदि।

इति सा योग्यता मानमात्मा मेयः फ़लं स्ववित्॥३६६॥

ग्राहकाकारसंख्याता परिच्छेदात्मतात्मनि।

सा योग्यतेति च प्रोक्तं प्रमाणं स्वात्मवेदनम्॥३६७॥

सर्वमेव हि विज्ञानं विषयेभ्यः समुद्भवद्।

तदन्यास्यापि हेतुत्वे कथञ्चिद् विषयाकृति॥३६८॥

यथैवाहारकालादेर्हेतुत्वेऽपत्यजन्मनि।

पित्रोस्तदेकस्याकारं धत्ते नान्यस्य कस्यचित्॥३६९॥

तद्धेतुत्वेन तुल्येऽपि तदन्यैर्विषये मतम्।

विषयत्वं तदंशेन तदभावे न तद् भवेत्॥३७०॥

अनर्थाकारशङ्का स्यादप्यर्थवति चेतसि।

अतीतार्थग्रहे सिद्धे द्विरूपत्वात्मवेदने॥३७१॥

नीलाद्याभासभेदित्वान्नर्थो जातिराद्वती।

सा चानित्या न जातिः स्यान्नित्या चा जनिका कथम्॥३७२॥

नामादिकं निषिद्धं प्राङ् नायमर्थवतां क्रमः।

इच्छमात्रानुरोधित्वादर्थशक्तिर्न सिध्यति॥३७३॥

स्मृतिश्चेदृग्विधं ज्ञानं तस्याश्चानुभवाद् भवः।

स चार्थाकाररहितः सेदानीं तद्वती कथम्॥३७४॥

नार्थाद् भावस्तदाभावात् स्यात्तथानुभवेऽपि सः।

आकारः स च नार्थस्य स्पष्टकारविवेकतः॥३७५॥

व्यतिरिक्तं तदाकारं प्रतीयादपरस्तदा।

नित्यमात्मनि सम्बन्धे प्रतीयात् कथितं च न॥३७६॥

एकैकेनाभिसम्बन्धे प्रतिसन्धिर्न युज्यते।

एकार्थाभिनिवेशात्मा प्रवक्तृश्रोतृचेतसोः॥३७७॥

तदेकव्यवहारश्चेत् सादृश्यादतदाभयोः।

भिन्नात्मार्थ कथं ग्राह्यस्तदा स्याद्धीरनर्थिका॥३७८॥

तच्चानुभवविज्ञानेनोभयांशावलम्बिना।

एकाकारविशेषेण तज्ज्ञानेनानुबध्यते॥३७९॥

अन्यथा ह्यतथारूपं कथं ज्ञानेऽधिरोहति।

एकाकारोत्तरं ज्ञानं तथा ह् युक्तरमुक्तरम्॥३८०॥

तस्यार्थरूपेणाकारावात्माकारश्च कश्चन।

द्वितीयस्य तृतीयेन ज्ञानेन हि विविच्यते॥३८१॥

अर्थकार्यतया ज्ञानस्मृतावर्थस्मृतेर्यदि।

भ्रान्त्या सङ्कलनं ज्योतिर्मनस्कारे च सा भवेत्॥३८२॥

सर्वेषामपि कार्याणां कारणैः स्यात् तथा ग्रहः।

कुलालादिविवेकेन न स्मर्येत घटस्ततः॥३८३॥

यस्मादतिशयाज् ज्ञानमर्थसंसर्गभाजनम्।

सारूप्यात्तत् किमन्यत् स्याद् दृष्टेश्च यमलादिषु॥३८४॥

आद्यानुभयरूपत्वे ह्ये करूपे व्यवस्थितम्।

द्वितीयं व्यतिरिच्येत् न परामर्शचेतसा॥३८५॥

अर्थसंकलनाश्लेषा ंधीर्द्वितीयावलम्बते।

नीलादिरूपेण धियं भासमानां पुरस्ततः॥३८६॥

अन्यथा याद्यमेवैकं संयोज्येतार्थसम्भवात्।

ज्ञानं नदृष्टसम्बन्धं पूर्वार्थेनोत्तरोत्तरम्॥३८७॥

सकृत् संवेद्यमानस्य नियमेन धिया सह।

विषयस्य ततोऽन्यत्वं केनाकारेण सिध्यति॥३८८॥

भेदश्च भ्रान्तविज्ञानैर्दृ श्येतेन्दाविवाद्वये।

संवित्तिनियमो नास्ति भिन्नयोर्नीलपीतयोः॥३८९॥

नार्थाऽसंवेदनः कश्चिदनर्थ वापि वेदनम्।

दृष्टं संवेद्यमानं तत् तयोर्नास्ति विवेकिता॥३९०॥

तस्मादर्थस्य दुर्वारं ज्ञानकालावभासिनः।

ज्ञानदव्यतिरेकित्वम् हेतुभेदानुमा भवेत्॥३९१॥

अभावाद्क्षबुद्धीनां सत्स्वप्यन्येषु हेतुषु।

नियमं यदि न ब्रु यात् प्रत्ययात् समनन्तरात्॥३९२॥

बीजादङ्कुरजन्माग्नेर्धूमात् सिद्धिरितीदृशी।

बह्यार्थाश्रयिणी यपि कारकज्ञापकस्थितिः॥३९३॥

सापि तद्रु पनिर्भासा तथा नियतसङ्गमाः।

बुद्धीराश्रित्य कल्प्येत यदि किं वा विरुध्यते॥३९४॥

अनग्निजन्यो धूमः स्यात् तत्कार्यात् कारणे गतिः।

न स्यात् कारणतायां वा कुत एकान्ततो गतिः॥३९५॥

तत्रापि धूमाभासा धीः प्रबोधपटुवासनाम्।

गमयेदग्निनिर्भासां धियमेव न पावकम्॥३९६॥

तद्योग्यवासनागर्भ एव धूमावभासिनीम्।

व्यनक्ति चित्तसन्तानि धियं धूमोऽनितस्ततः॥३९७॥

अस्त्येष विदुषां वादो बाह्यां त्वाश्रित्य वर्ण्यते।

द्वैरूप्यं सहसंवित्तिनियमात् तच्च सिध्यति॥३९८॥

ज्ञानमिन्द्रियभेदेन पटुमन्दाविलादिकाम्।

प्रतिभासभिदामर्थे बिभ्रदेकत्र दृश्यते॥३९९॥

अर्थस्याभिन्नरूपत्वादेकरूपं भवेन्मनः।

सर्वै तदर्थमर्थाच्चेत् तस्य नास्ति तदाभता॥४००॥

अर्थाश्रयेणोद्भवतस्तद्रूपमनुकुर्वतः।

तस्य केनचिदंशेन परतोऽपि भिदा भवेत्॥४०१॥

तथा ह्याश्रित्य पितरं तद्रूपोऽपि सुतः पितुः।

भेदं केनचिदंशेन कुतश्चिदवलम्बते॥४०२॥

मयूरचन्द्रकाकारं नीललोहितभास्वरम्।

सम्पश्यन्ति प्रदीपादेर्मण्डलं मन्दचक्षुषः॥४०३॥

तस्य तद्बाह्यारूपत्वे का प्रसन्नेक्षणेऽक्षमा।

भूतं पश्यंश्च तद्दर्शी कथं चोपहतेन्द्रियः॥४०४॥

शोधितं तिमिरेणास्य व्यक्तं चक्षुरतीन्द्रियम्।

पश्यतोऽन्याक्षदृश्येऽर्थे तदव्यक्तं कथं पुनः॥४०५॥

आलोकाक्षमनस्कारादन्यस्यैकस्य गम्यते।

शक्तिर्हेतुस्ततो नान्योऽहेतुश्च विषयः कथम्॥४०६॥

स एव यदि धीहेतुः कि प्रदीपमपेक्षते।

दीपमात्रेण धीभावादुभयं नापि कारणम्॥४०७॥

दूरासन्नादिभेदेन व्यक्ताव्यक्तं न युज्यते।

तत् स्यादालोकभेदाच्चेत् तप्तिधानापिधानयोः॥४०८॥

तुल्या दृष्टिरदृष्टिर्वा सूक्ष्मोंऽशस्तस्य कश्चन्।

आलोकन न मन्देन दृश्यतेऽतो भिदा यदि॥४०९॥

एकत्वेऽर्थस्य बाह्यस्य दृश्यादृश्यभिदा कुतः।

अनेकत्वेऽणुशो भिन्ने दृश्यादृश्याभिदा कुतः॥४१०॥

मान्द्यपाटवभेदेन भासो बुद्धभिदा यदि।

भिन्नेऽन्यस्मिन्नभिन्नस्य कुतो भेदेन भासनम्॥४११॥

मन्दं तदपि तेजः किमावृतेरिह सा न किम्।

तनुत्वं तेजसोऽप्येतदस्त्यन्यत्राप्यतानवम्॥४१२॥

अत्यासन्ने च सुव्यक्तं तेजस्तत् स्याद्तिस्फ़ुटम्।

तत्राप्यदृष्टमाश्रित्य भवेद् रूपान्तरं यदि॥४१३॥

अन्योन्यावरणात् तेषां स्यात् तेजोविहतिस्ततः।

तत्रैकमेव दृश्येत् तस्यानावरणे सकृत्॥४१४॥

पश्येत् स्फ़ुटास्फ़ुटं रूपमेकोऽदृष्टेन वारणे।

अर्थानर्थौ न येन स्तस्तददृष्टं करोति किम्॥४१५॥

तस्मात् संविद् यथाहेतु जायमानार्थसंश्रयात्।

प्रतिभासभिदां धत्ते शेषाः कुमतिदुर्नयाः॥४१६॥

ज्ञानशब्दप्रदीपानां प्रत्यक्षस्येतरस्य वा।

जनकत्वेन पूर्वेषां क्षणिकानां विनाशतः॥४१७॥

व्यक्तिः कुतोऽसता ज्ञानादन्यस्यानुपकारिणः।

व्यक्तौ व्यज्येत सर्वोऽर्थस्तद्धेतोर्नियमो यदि॥४१८॥

नषापि कल्पना ज्ञाने ज्ञानं त्वर्थावभासतः।

तं व्यनक्तीति कथ्येत तदभावेऽपि तत्कृतम्॥४१९॥

नाकारयति चान्योऽर्थोऽनुपकारात् सहोदितः।

व्यक्तोऽनाकारयन् ज्ञानं स्वाकारेण कथं भवेत्॥४२०॥

वज्रोपलादिरप्यर्थः स्थिरः सोऽन्यानपेक्षणात्।

सकृत् सर्वस्य जनयेज्ज्ञानानि जगतः समम्॥४२१॥

क्रमाद् भवन्ति तान्यस्य सहकार्यु पकार्यतः।

आहुः प्रतिक्षणं भेदं स दोषोऽत्रापि पूर्ववत्॥४२२॥

संवेदनस्य तादात्म्ये न विवादोऽस्ति कस्यचित्।

तस्यार्थरूपताऽसिद्धा साऽपि सिध्यति संस्मृतेः॥४२३॥

भेदेनाननुभूतेऽस्मिन्नविभक्ते स्वगोचरैः।

एवमेतन्न खल्वेवमिति सा स्यान्न भेदिनी॥४२४॥

न चानुभवमात्रेण कश्चिद् भेदो विवेचकः।

विवेकिनी न चास्पष्टभेदे धीर्यमलादिवत्॥४२५॥

द्वैरूप्यसाधनेनापि प्रायः सिद्धं स्ववेदनम्।

स्वरूपभूताभासस्य तदा संवेदनेक्षणात्॥४२६॥

धियाऽतद्रू पया ज्ञाने निरुद्धेऽनुभवः कथम्।

स्वं च रूपं न सा वेत्तीत्युत्सन्नोऽनुभवोऽखिलः॥४२७॥

बहिर्मु खं च तज्ज्ञानं भात्यर्थप्रतिभासवत्।

बुद्धेश्च ग्राहिका वित्तिर्नित्यमन्तर्मुखात्मनि॥४२८॥

यो यस्य विषयाभासस्तं वेत्ति न तदिप्यपि।

प्राप्तं संवेदनं सर्वसदृशानां परस्परम्।

बुद्धिः सरूपा तद्विच्चेत् नेदानीं वित् सरूपिका॥४३०॥

स्वयं सोऽनुभवस्तस्या न स सारूप्यकारणः।

क्रियाकर्मव्यवस्थायास्तल्लोके स्यान्निबन्धनम्॥४३१॥

स्वभावभूततद्रु पसंविदारोपविप्लवात्।

नीलदेरनुभूताख्या नानुभूतेः परात्मनः॥४३२॥

धियो नीलादिरूपत्वे बाद्योऽर्थः किम्प्रमाणकः।

धियोऽनीलादिरूपत्वे स तस्यानुभवः कथम्॥४३३॥

यदा संवेदनात्मत्वं न सारूप्यनिबन्धनम्।

सिद्धं तत् स्वत् एवास्य किमर्थेनोपनीयते॥४३४॥

न च सर्वात्मना साम्यमज्ञानत्वप्रसङ्गतः।

न च केनचिदंशेन सर्व सर्वस्य वेदनम्॥४३५॥

यथा नीलादिरूपत्वान्नीलाद्यनुभवो मतः।

तथानुभवरूपत्वात् तस्याप्यनुभवो भवेत्॥४३६॥

नानुभूतोऽनुभव इत्यर्थवद्धि विनिश्चयः।

तस्माददोष इति चेत् नार्थेऽप्यस्त्येष सर्वदा॥४३७॥

कस्माद् वाऽनुभवे नास्ति सति सत्तानिबन्धने।

अपि चेदं यदाभाति दृश्यमाने सितादिके॥४३८॥

पुं सः सिताद्यभिव्यक्तिरूपं संवेदनं स्फ़ुटम्।

तत् कि सिताद्यभिवयक्तेः पररूपमथात्मनः॥४३९॥

पररूपेऽप्रकाशायां व्यक्तौ व्यक्तं कथं सितम्।

ज्ञानं व्यक्तिर्न सा व्यक्तेत्यव्यक्तमखिलं जगत्॥४४०॥

व्यक्तेर्व्यक्त्यन्तरव्यक्तावपि दोषप्रसङ्गतः।

दृष्ट्या वाज्ञातसम्बन्धं विशिनष्टि तया कथम्॥४४१॥

यस्माद् द्वयोरेकगतौ न द्वितीयस्य दर्शनम्।

द्वयोः संसृष्टयोर्दृष्टौ स्याद् दृष्टमिति निश्चयः ॥४४२॥

सरूपं दर्शनं यस्य दृश्यतेऽन्येन चेतसा।

दृष्टाख्या तत्र चेत् सिद्धं सारूप्येस्य स्ववेदनम्॥४४३॥

अथात्मरूपं नो वेत्ति पररूपस्य वित् कथम्।

सारूप्याद् वेदनाख्या च प्रागेव प्रतिवर्णिता॥४४४॥

दृष्टयोरेव सारूप्यग्रहोऽर्थ च न दृष्टवान्।

प्राक् कथं दर्शनेनास्य सारूप्यं सोऽध्यवस्यति॥४४५॥

सारूप्यमपि नेच्छेद् यस्तस्य नोभयदर्शनम्।

तदार्थो ज्ञानमिति च ज्ञाते चेति गता कथा॥४४६॥

अथ स्वरूपम् सा तर्हि स्वयमेव प्रकाशते।

यत् तस्यामप्रकाशायामर्थः स्यादप्रकाशितः॥४४७॥

एतेनानात्मवित्पक्षे सर्वार्थादर्शनेन ये।

अप्रत्यक्षां धियं प्राहुस्तेऽपि निर्वर्णितोत्तराः॥४४८॥

आश्रयालम्बनाभ्यासभेदाद् भिन्नप्रवृत्तयः।

सुखदुःखाभिलाषादिभेदा बुद्धय एव ताः॥४४९॥

प्रत्यक्षाः तद्विविक्तं च नान्यत् किञ्चिद्विभाव्यते।

यत्तज्ज्ञानं परोऽप्येतान् भुञ्जीतान्येन विद् यदि॥४५०॥

तज्जा तत्प्रतिभासा व यदि धीर्वेत्ति नापरा।

आलम्बमानस्यान्यस्याप्यस्त्यवश्यमिदं द्वयं॥४५१॥

अथ नोत्पद्यते तस्मान्न च तत्प्रतिभासिनी।

सा धीर्निर्विषया प्राप्ता सामान्यं च तदग्रहे॥४५२॥

न गृह्यत् इति प्रोक्तम् न च तद्वस्तु किञ्चन।

तस्मादर्थावभासोऽसौ नान्यस्तस्या धियस्ततः॥४५३॥

सिद्धे प्रत्यक्षभावात्मविदौ गृह्णाति तान् पुनः।

नाध्यक्षमिति चेदेष कुतो भेदः समार्थयोः॥४५४॥

अदृष्टैकार्थयोगादेः संविदो नियमो यदि।

सर्वथान्यो न गृह्णीयात् संविद्भेदोऽप्यपोदितः॥४५५॥

येषां च योगिनोऽन्यस्य प्रत्यक्षेण सुखादिकम्।

विदन्ति तुल्यानुभवास्तद्वत् तेऽपि स्युरातुराः॥४५६॥

विषयेम्द्रियसम्पाताभावात् तेषां तदुद्भवम्।

नोदेति दुःखमिति चेत् न वै दुःखसमुद्भवः॥४५७॥

दुःखस्य वेदनं किन्तु दुःखज्ञानसमुद्भवः।

न हि दुःखाद्यसंवेद्यं पीडानुग्रहकारणम्॥४५८॥

भासमानं स्वरूपेण पीडा दुःखं स्वयं यदा।

न तदालम्बनं ज्ञानं न तदैवं प्रयुज्यते॥४५९॥

भिन्ने ज्ञानस्य सर्वस्य तेनालम्बनवेदने।

अर्थसारूप्यमालम्ब आत्मा वित्तिः स्वयं स्फ़ुटा॥४६०॥

अपि चाध्यक्षताऽभावे धियः स्याल्लिङ्गतो गतिः।

तच्चाक्षमर्थो धीः पूर्वो मनस्कारोऽपि वा भवेत्॥४६१॥

कार्यकारणसामग्र् यामस्यां सम्बन्धि नापरम्।

सामर्थ्यादर्शनात् तत्र नेन्द्रियं व्यभिचारतः॥४६२॥

तथार्थो धीमनस्कारौ ज्ञानं तौ च न सिध्यतः।

नाप्रसिद्धस्य लिङ्गत्वं व्यक्तिरर्थस्य चिन्मता॥४६३॥

लिङ्गं सैव ननु ज्ञानं व्यक्तोऽर्थोऽनेन वर्णितः।

व्यक्तावननुभूतायां तद्व्यक्तत्वाविनिश्चयात्॥४६४॥

अथार्थस्यैव कश्चित् स विशेषो व्यक्तिरिष्यते।

नानुत्पादव्ययवतो विशेषोऽर्थस्य कश्चन॥४६५॥

तदिष्टौ वा प्रतिज्ञानं क्षणभङ्गः प्रसज्यते।

स च ज्ञातोऽथ वाऽज्ञातो भवेज्ज्ञातस्य लिङ्गता॥४६६॥

यदि ज्ञानेऽपरिच्छिन्ने ज्ञातोऽसाविति तत् कुतः।

ज्ञातत्वेनापरिच्छिन्नमपि तद् गमकं कथम्॥४६७॥

अदृष्टदृष्टयोऽन्येन द्रष्ट्रा दृष्टा न हि क्वचित्।

विशेषः सोऽन्यदृष्टावप्यस्तीति स्यात् स्वधीगतिः॥४६८॥

तस्मादनुमितिर्बुद्धेः स्वधर्मनिरपेक्षिणः।

केवलान्नार्थधर्मात् कः स्वधर्मः स्वधियोऽपरः॥४६९॥

प्रत्यक्षाधिगतो हेतुः तुल्यारणजन्मनः।

तस्य भेदः कुतो बुद्धे र्व्यभिचार्यन्यजश्च सः॥४७०॥

रूपादीन् पञ्च विषयानिन्द्रियाण्युपलम्भनम्।

मुक्त्वा न कार्यमपरं तस्याः समुपलभ्यते॥४७१॥

तत्रात्यक्षं द्वयं पञ्चस्वर्थेष्वेकोऽपि नेक्ष्यते।

रूपदर्शनतो जातो योऽन्यथा व्यस्तसम्भवः॥४७२॥

यदेवमप्रतीतं तल्लिङ्गमित्यतिलौकिकम्।

विद्यमानेऽपि लिङ्गे तां तेन सार्धमपश्यतः॥४७३॥

कथं प्रतीतिर्लिङ्गं हि नादृष्टस्य प्रकाशकम्।

तत एवास्य लिङ्गात् प्राक् प्रसिद्धेरुपवर्णने॥४७४॥

दृष्टान्तान्तरसाध्यत्वं तस्यापीत्यनवस्थितिः।

इत्यर्थस्य धियः सिद्धिः नार्थात् तस्याः कथञ्चन॥४७५॥

तदप्रसिद्धावर्थस्य स्वयमेवाप्रसिद्धितः।

प्रत्यक्षां च धियं दृष्ट्वा तस्याश्चेष्टाभिधादिकम्॥४७६॥

परचित्तानुमानं च न स्यादात्मन्यदर्शनात्।

सम्बन्धस्य् मनोबुद्धवर्थलिङ्गाप्रसिद्धितः॥४७७॥

प्रकाशिता कथं वा स्यात् बुद्धिर्बुद्ध् यन्तरेण वः।

अप्रकाशात्मनोः साम्याद् व्यङ्ग्यव्यञ्जकता कुतः॥४७८॥

विषयस्य कथं व्यक्तिः प्रकाशे रूपसंक्रमात्।

स च प्रकाशस्तद्रूपः स्वयमेव प्रकाशते॥४७९॥

तथाभ्युपगमे बुद्धेर्बुद्धौ बुद्धिः स्ववेदिका।

सिद्धान्यथा तुल्यधर्मा विषयोऽपि धिया सह॥४८०॥

इति प्रकाशरूपा नः स्वयं धीः सम्प्रकाशते।

अन्योऽस्यां रूपसंक्रान्त्या प्रकाशः सन् प्रकाशते॥४८१॥

सादृश्येऽपि हि धीरन्या प्रकाश्या न तया मता।

स्वयं प्रकाशमानाऽर्थस्तद्रू पेण प्रकाशते॥४८२॥

यथा प्रदीपयोर्दीपघटयोश्च तदाश्रयः।

व्यङ् ग्यव्यञ्जकभेदेन व्यवहारः प्रतन्यते॥४८३॥

विषयेन्द्रियमात्रेण न दृष्टमिति निश्चयः।

तस्माद् यतोऽयं तस्यापि वाच्यमन्यस्य दशनम्॥४८४॥

स्मृतेरप्यात्मवित् सिद्धा ज्ञानस्याऽन्येन वेदने।

दीर्घादिग्रहणं न स्याद् बहुमात्रानवस्थितेः॥४८५॥

अवस्थितावक्रमायां सकृदाभासनान्मतौ।

वर्णः स्याद्क्रमोऽदीर्घः क्रमवानक्रमां कथम्॥४८६॥

उपकुर्यादसंश्लिष्यन् वर्णभागः परस्परम्।

आन्त्यं पूर्वस्थितादूर्ध्व वर्धमानो ध्वनिर्भवेत्॥४८७॥

अक्रमेण ग्रहादन्ते क्रमवद्धीश्च नो भवेत्।

धियः स्वयं च न स्थानं तदूर्ध्वविषयास्थितेः॥४८८॥

स्थाने स्वयं न नश्येत् सा पश्चादप्यविशेषतः।

दोषोऽयं सकृदुत्पन्नाक्रमवर्णस्थितावपि॥४८९॥

सकृद्यत्नोद्भवाद् व्यर्थः स्याद् यत्नश्चोत्तरोत्तरः।

व्यक्तावप्येष वर्णानां दोषः समनुषज्यते॥४९०॥

अनेकया तद्ग्रहणे यान्त्या धीः सानुभूयते।

न दीर्घग्राहिका सा च तन्न स्याद् दीर्घधीस्मृतिः॥४९१॥

पृथक् पृथक् च बुद्धीनां संवित्तौ तद्ध्वनिश्रुतेः।

अविच्छिन्नाभता न स्याद् घटनं च निराकृतम्॥४९२॥

विच्छिन्नं शृण्वतोऽप्यस्य यद्यविच्छिन्नविभ्रमः।

ह्रस्वद्वयोच्चारणेऽपि स्यादविच्छिन्नविभ्रमः॥४९३॥

विच्छिन्ने दर्शने चाक्षादविच्छिन्नाधिरोपणम्।

नाक्षात् सर्वाक्षबुद्धीनां वितथत्वप्रसङ्गतः॥४९४॥

सर्वान्त्योऽपि हि वर्णात्मा निमेषतुलितस्थितिः।

स च क्रमादनेकाणुसम्बन्धेन नितिष्ठति॥४९५॥

एकाण्वत्ययकालश्च कालोऽल्पीयान् क्षणो मतः।

बुद्धिश्च क्षणिका तस्मात् क्रमाद् वर्णान् प्रपद्यते॥४९६॥

इति वर्णेऽपि रुपादावविच्छिन्नावभासिनी।

विच्छिन्नाप्यन्यथा बुद्धिः सर्वा स्याद् वितथार्थिका॥४९७॥

घटनं यच्च भावानामन्यत्रेन्द्रियविभ्रमात्।

भेदालक्षणविभ्रान्तं स्मरणं तद् विकल्पकम्॥४९८॥

तस्य स्पष्टावभासित्वं जल्पसंसर्गिणः कुतः।

नाक्षग्राह्येऽस्ति शब्दानां योजनेति विवेचितम्॥४९९॥

विच्छिन्नं पश्यतोऽप्यक्षैर्घटयेद् यदि कल्पना।

अर्थस्य तत्संवित्तेश्च सततं भासमानयोः॥५००॥

बाधके सति सन्न्याये विच्छिन्न इति तत् कुतः।

बुद्धीनां शक्तिनियमादिति चेत् स कुतो भतः॥५०१॥

युगपद् बुद्ध्यदृष्टेश्चेत् तदेवेदं विचार्यते।

तासां समानजातीये सामर्थ्यनियमो भवेत्॥५०२॥

तथा हि सम्यग्लक्ष्यन्ते विकल्पाः क्रमभाविनः।

एतेन यः समक्षेऽर्थे प्रत्यभिग़्यानकल्पनाम्॥५०३॥

स्पष्टावभासां प्रत्यक्षां कल्पयेत् सोऽपि वारितः।

केशगोलकदीपादावपि स्पष्टावभासनात्॥५०४॥

प्रतीतभेदेऽप्यध्यक्षा धीः कथं तादृशी भवेत्।

तस्मान्न प्रत्यभिज्ञानाद् वर्णाद्येकत्वनिश्चयः॥५०५॥

पूर्वानुभूतस्मरणात् तद्धर्मारोपणाद् विना।

स एवायमिति ज्ञानं नास्ति तच्छक्षजे कुतः॥५०६॥

न चार्थज्ञानसंवित्त्योर्युगपत् सम्भवो यतः।

लक्ष्येते प्रतिभासो दौ नार्थार्थज्ञानयोः पृथक्॥५०७॥

न ह्यर्थाभासि च ज्ञानमर्थो बाह्यश्च केवलः।

एकाकारमतिग्राह्ये भेदभावप्रसङ्गतः॥५०८॥

सूपलक्षेण भेदेन यौ संवित्तौ न लक्षितौ।

अर्थार्थप्रत्ययो पश्चात् स्मर्येते तौ पृथक् कथम्॥५०९॥

क्रमेणानुभवोत्पादेऽप्यर्थार्थमनसोरयम्।

प्रतिभासस्य नानात्वचोद्यदोषो दुरुद्धरः॥५१०॥

अर्थसंवेदनं तावत् ततोऽर्थाभासवेदनम्।

न हि संवेदनं शुद्धं भवेदर्थस्य वेदनम्॥५११॥

तथा हि नीलाद्याकार एक एकं च वेदनम्।

लक्ष्यते न तु नीलाभे वेदने वेदनं परम्॥५१२॥

ज्ञानान्तरेणानुभवो भवेत् तत्रापि हि स्मृतिः।

दृष्टा तद्वेदनं केन तस्याप्यन्येन चेद् इमाम्॥५१३॥

मालां ज्ञानविदां कोऽयं जनयत्यनुबन्धिनीम्।

पूर्वा धीः सैव चेन्न स्यात् सञ्चारो विषयान्तरे॥५१४॥

तां ग्राह्यलक्षणप्राप्तामासन्नां जनिकां धियम्।

अगृहीत्वोत्तरं ज्ञानं गृह्णीयादपरं कथम्॥५१५॥

आत्मनि ज्ञानजनने स्वभावे नियतां च ताम्।

को नामान्यो विबध्नीयाद् बहिरंगेऽन्तरङ्गिकाम्॥५१६॥

बाह्याः सन्निहितोऽप्यर्थस्तां विबध्नन् हि न प्रभुः।

धियं नानुभवेत् कश्चिदन्यथार्थस्य सन्निधौ॥५१७॥

न चासन्निहितार्थास्ति दशा काचिदतो धियः।

उत्खातमूला स्मृतिरप्युत्सन्नेत्युज्ज्वलं मतम्॥५१८॥

अतीतादिविकल्पानां येषां नार्थस्य सन्निधिः।

सञ्चारकरणाभावाद् उत्सीदेदथचिन्तनम्॥५१९॥

आत्मविज्ञानजनने शक्तिसंक्षयतः शनैः।

विषयान्तरसञ्चारो यदि सैवार्थधीः कुतः॥५२०॥

शक्तिक्षये पूर्वाधियो न हि धीः प्राग्धिया विना।

अन्यार्थासक्तिविगुणे ज्ञाने ज्ञानोदयागतेः॥५२१॥

सकृद्विजातीयजातावप्येकेन पटीयसा।

चित्तेनाहितवैगुण्यादालायान्नान्यसम्भवः॥५२२॥

नापेक्षेतान्यथा साम्यं मनोवृत्तेर्मनोऽन्तरम्।

मनोज्ञानक्रमोत्पत्तिरप्यपेक्षा प्रसाधनी॥५२३॥

एकत्वान्मनसोऽन्यम्मिन् सक्तस्यान्यागतेर्यदि।

ज्ञानान्तरस्यानुदयो न कदाचित् सहोदयात्॥५२४॥

समवृत्तौ च तुल्यत्वात् सर्वदान्यागतिर्भवेत्।

जन्म वात्ममनोयोगमात्रजानां सकृद् भवेत्॥५२५॥

एकैव चेत् क्रियैकः स्यात् किं दीपोऽनेकदर्शनः।

क्रमेणापि न शक्तं स्यात् पश्चादप्यविशेषतः॥५२६॥

अनेन देहपुरुषाबुक्तौ संस्कारतो यदि।

नियमः स कुतः पश्चात् बुद्धेश्चेदस्तु सम्मतम्॥५२७॥

न ग्राह्यतान्या जननाज्जननं ग्राह्यलक्षणम्।

अग्राह्यं न हि तेजोऽस्ति न च सौक्षम्याद्यनंशके॥५२८॥

ग्राह्यताशक्तिहानि स्यात् नान्यस्य जननात्मनः।

ग्राह्याताया न खल्वन्यज्जननं ग्राह्यलक्षणे॥५२९॥

साक्षान्न ह्यन्यथा बुद्धे रूपादिरुपकारकः।

ग्राह्यातालक्षनादन्यस्तभावनियमोऽस्य कः॥५३०॥

बुद्धेरपि तदस्तीति सापि सत्त्वे व्यव्स्थिता।

ग्राह्युपादानसंवित्ती चेतसो ग्राह्यलक्षणम्॥५३१॥

रूपादेश्चेतसश्चैवम्विशुद्धधियं प्रति।

ग्राह्यलक्षणचिन्तेयमचिन्त्या योगिनां गतिः॥५३२॥

तत्र सूक्ष्मादिभावेन ग्राह्यमग्राह्यतां व्रजेत्।

रूपादि बुद्धेः किं जातं पश्चाद् यत् प्राङ् न विद्यते॥५३३॥

सति स्वधीग्रहे तस्माद् यैवानन्तरहेतुता।

चेतसो ग्राह्यता सैव ततो नार्थान्तरे गतिः॥५३४॥

नानेकशक्त्यभावेऽपि भावो नानेककार्यकृत्।

प्रकृत्यैवेति गदितम् नानेकस्मान्न चेद् भवेत्॥५३५॥

न किञ्चिदेकस्मात् सामग्रयाः सर्वसम्भवः।

एकं स्यादपि सामग्र्योरित्युक्तं तदनेककृत्॥५३६॥

अर्थ पूर्वञ्च विज्ञानं गृह्णीयद् यदि धीः परा।

अभिलापद्वयं नित्यं स्याद् दृष्टक्रममक्रमम्॥५३७॥

पूर्वापरार्थभासित्वाच्चिन्तादावेकचेतसि।

द्विर्द्विरेकं च भासेत भासनादात्मतद्धियोः॥५३८॥

विषयान्तरसञ्चारे यद्यन्त्यं नानुभूयते।

परानुभूतवत् सर्वाननुभूतिः प्रसज्यते॥५३९॥

आत्मानुभूत प्रत्यक्षं नानुभूतं परैर्यदि।

आत्मानुभूतिः सा सिद्धा कुतो येनैवमुच्यते॥५४०॥

व्यक्तिहेत्वप्रसिद्धिः स्यात् न व्यक्तेर्व्यक्तमिच्छतः।

व्यक्त्यसिद्धवपि व्यक्तं यदि व्यक्तमिदं जगत्॥५४१॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project