Digital Sanskrit Buddhist Canon

न्यायबिन्दु प्रकरणकारिका

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Nyāyabindu prakaraṇakārikā

न्यायबिन्दु प्रकरणकारिका

सूत्रपाठः


१ प्रथमः प्रत्यक्षपरिच्छेदः


१ सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद्वयुत्पादयते।

२ द्विविधं सम्यग्ज्ञानम्।

३ प्रत्यक्षम्, अनुमानं चेति।

४ तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तम्।

५ अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना

६ तया रहितं तिमिराशुभ्रमणनौयानसम्भ्रमाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम्।

७ तच्चतुर्विधम्।

८ इन्द्रियज्ञानम्। (१)

९ स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम्। (२)

१० सर्वचित्तचैत्तानामात्मसंवेदनम्। (३)

११ भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति।(४)

१२ तस्य विषयः स्वलक्षणम्।

१३ यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत्स्वलक्षणम्।

१४ तदेव परमार्थसत्।

१५ अर्थक्रियासामर्थ्यलक्षणत्वाद् वस्तुनः।

१६ अन्यत् सामान्यलक्षणम्

१७ सोऽनुमानस्य विषयः।

१८ अत्देव च प्रत्यक्षं ज्ञानं प्रमाणफलम्।

१९ अर्थप्रतीतिरूपत्वात्।

२० अर्थसारूप्यमस्य प्रमाणम्।

२१ तद्वशादर्थप्रतीतिसिद्धरेति।

इति प्रथमः प्रत्यक्षपरिच्छेदः॥



द्वितीयः स्वार्थानुमानपरिच्छेदः



१ अनुमानं द्विधा।

२ स्वार्थ परार्थ च।

३ तत्र स्वार्थ त्रिरूपाल्लिङ्गाद् यदनुमेये ज्ञानं तदनुमानम्।

४ प्रमाणलक्षणव्यवस्थाऽत्रापि पूर्ववत्।

५ त्रैरूप्यं पुनर्लिङ्गस्यानुमेये सत्त्वमेव, सपक्ष एव सत्त्वम्, असपक्षे चासत्त्वमेव निश्चितम्।

६ अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी।

७ साध्यधर्मसामान्येन समानोऽर्थः सपक्ष।

८ न सपक्षोऽसपक्षः।

९ ततोऽन्यस्तद्विरुद्धस्तदभावश्चेति

१० त्रिरूपाणि च त्रीण्येव लिङ्गानि।

११ अनुपलब्धिः स्वभावः कार्य चेति।

१२ तत्रानुपलब्धिर्यथा- न प्रदेशविशेषे क्वचिद् घटः, उपलब्धिक्षणप्राप्तस्यानुपलब्धेरिति।

१३ उपलब्धिलक्षणप्राप्तिरूपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च।

१४ यः स्वभावः सत्स्वन्येषूषलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति, स स्वभावविशेषः।

१५ स्वभावः स्वसत्तामात्रप्रभाविनि साध्यधर्मे हेतुः।

१६ यथा- वृक्षोऽयं शिशपात्वादिति।

१७ कार्य यथा- बह्निरत्र धूमादिति।

१८ अत्र द्वौ वस्तुसाधनौ। एकः प्रतिषेधहेतुः।

१९ स्वभावप्रतिबन्धे हि सत्यर्थोऽर्थ गमयेत्।

२० तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात्।

२१ स च प्रतिबन्धः साध्येऽर्थे लिङ्गस्य।

२२ वस्तुतस्तादात्म्यात् तदुत्पत्तेश्च।

२३ अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात्।

२४ ते च तादात्म्यतदुत्पत्ती स्वभावकार्ययोरेवेति ताभ्यामेव वस्तुसिद्धिः।

२५ प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः।

२६ सति वस्तुनि तस्या असम्भवात्।

२७ अन्यथा चानुपलब्धिलक्षणप्राप्तेषु देशकालस्वभावविप्रकृष्टेष्वर्थेष्वात्मप्रत्यक्षनिवृत्तेरभवनिश्चयाभावात्।

२८ अमूढस्मृतिसंस्कारस्यातीतस्य वर्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य निवृत्तिरभावव्यवहारप्रसाधनी।

२९ तस्या एवाभावनिश्चयात्।

३० सा च प्रयोगभेदादेकादशप्रकारा।

३१ स्वभावानुपलब्धिर्यथा- नात्र धूम उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति।(१)

३२ कार्यानुपलब्धिर्यथा- नात्राप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावादिति।(२)

३३ व्यापकानुपलब्धिर्यथा-नात्र शिशपा, वृक्षाभावादिति। (३)

३४ स्वभावविरुद्धोपलब्धिर्यथा-नात्र शीतस्पर्शो वह्नेरिति। (४)

३५ विरुद्धकार्योपलब्धिर्यथा- नात्र शीतस्पर्शो धूमादिति। (५)

३६ विरुद्धव्याप्तोपलब्धिर्यथा- न ध्रुवभावी भूतस्यापि भावस्य विनाशः, हेत्वन्तरापेक्षणादिति। (६)

३७ कार्यविरुद्धोपलब्धिर्यथा- नेहाप्रतिल्बद्धसामर्थ्यानि शीतकारणानि सन्ति, वह्नेरिति। (७)

३८ व्यापकविरुद्धोपलब्धिर्यथा- नात्र तुषारस्पशो वह्नेरिति। (८)

३९ कारणानुपलब्धिर्यथा- नात्र धूमो वह्न्यभावादिति। (९)

४० कारणविरुद्धोपलब्धिर्यथा- नास्य रोमहर्षादिविशेषाः, सन्निहितदहनविशेषत्वादिति। (१०)

४१ कारणविरुद्धकायपिलब्धिर्यथा- न रोमहर्षादिविशेषयुक्तपुरुषावानयं प्रदेशः, धूमादिति। (११)

४२ इमे सर्वे कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ संग्रहमुपयान्ति।

४३ पारम्पर्येणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगभेदेऽपि।

४४ प्रयोगदर्शनाभ्यासात् स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवति स्वार्थेऽप्यनुमानेऽस्याः प्रयोगनिर्देशः।

४५ सर्वत्र चास्यामभावव्यवहारसाधन्यामनुपलब्धौ येषां स्वभावविरुद्धदीनामुपलब्ध्या कारणादीनामनुपलब्ध्या च प्रतिषेध उक्तस्तेषामुपलब्धिलक्षणप्राप्तानामेविपलब्धिश्च वेदितव्या।

४६ अन्येषां विरोधकार्यकारणभावासिद्धेः।

४७ विप्रकृष्टविषया पुनरनुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा संशयहेतुः।

४८ प्रमाणनिवृत्तावप्यर्थाभावासिद्धेरिति।



इति द्वितीयः स्वार्थानुमानपरिच्छेदः॥



तृतीयः परार्थानुमानपरिच्छेदः



१ त्रिरूपलिङ्गाख्यानं परार्थमनुमानम्। २ कारणे कार्योपचारात्। ३ तद् द्विविधम्। ४ प्रयोगभेदात्। ५ साधम्यवद्वैधम्यवच्च। ६ नानायोरर्थतः कश्चिद् भेदः। ७ अन्यत्र प्रयोगभेदात्। ८ तत्र साधर्म्यवत्प्रयोगः- यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सोऽसद् व्यवहारविषयः सिद्धः। यथा- अन्यो दृष्टः कश्चिद् शशविषाणादिः। नोपलभ्यते च क्वचित् प्रदेशविशेषे उपलब्धिलक्षणप्रापो घट इत्यनुपलब्धिप्रयोगः।

९ तथा स्वभावहेतोः प्रयोगः- यत् सत् तत् सर्वमनित्यम्, यथा घटादिरिति शुद्धस्य स्वभावहेतोः प्रयोगः।

१० यदुत्पत्तिमत् तदनित्यमिति स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः।

११ यत् कृतकं तदनित्यमित्युपाधिभेदेन।

१२ अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति ।

१३ एवं प्रयत्नान्तरीयक-प्रत्ययभेदभेदित्वादयोऽपि द्रष्टव्याः।

१४ सन्नुत्पत्तिमान् कृतको वा शब्द इति पक्षधर्मोपदर्शनम्।

१५ सर्व एते साधनधर्मा यथास्वं प्रमाणैः सिद्धसाधनधर्ममात्रानुबन्धे एव साध्यधर्मेऽवगन्तव्याः।

१६ तस्यैव तत्स्वभावत्वात्।

१७ स्वभावस्य च हेतुत्वात्।

१८ वस्तुतस्तयोस्तादात्म्यम्।

१९ तन्निष्पत्तावनिष्पन्नस्य तत्स्वभावत्वाभावात्।

२० व्यभिचारसम्भवाच्च।

२१ कार्यहेतोः प्रयोगः - यत्र धूमस्तत्राग्निः। यथा महानसादौ। अस्ति चेह धूम इति।

२२ इहापि सिद्धे एव कार्यकारणभावे कारणे साध्ये कार्यहेतुर्वक्तव्यः।

२३ वैधर्म्यवतः प्रयोगः- यत् सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव। यथा नीलादिविशेषः। न चैवमिहोपलब्धिलक्षणप्राप्तस्य सत उपलब्धिर्घटस्येत्यनुपलब्धिप्रयोगः।

२४ असत्यनित्यत्वे, नास्ति सत्त्वमुत्पत्तिमत्त्वं कृतकत्वं वा। संश्च शब्द उत्पत्तिमान् कृतको वेति स्वभावहेतोः प्रयोगः।

२५ असत्यग्नौ न भवत्येव धूमः। अत्र चास्ति धूम इति कार्यहेतोः प्रयोगः।

२६ साधर्म्येणापि हि प्रयोगेऽर्थाद् वैधर्म्यगतिरिति।

२७ असति तस्मिन् साध्येन हेतोरन्वयाभावात्।

२८ तथा वैधर्म्येणाप्यन्वयगतिः।

२९ असति तस्मिन् साध्याभावे हेत्वभावस्यासिद्धेः।

३० नहि स्वभावप्रतिबन्धेऽसत्येकस्य निवृत्तावपरस्य नियमेन निवृत्तिः।

३१ स च द्विप्रकारः- सर्वस्य तादात्म्यलक्षणस्तदुत्पतिलक्षणश्चेत्युक्तम्।

३२ तेन हि निवृत्ति कथयता प्रतिबन्धो दर्शनीयः। तस्मात् निवृत्तिवचनमाक्षिप्तप्रतिबन्धोपदर्शनमेव भवति। यच्च प्रतिबन्धोपदर्शनं तदेवान्वयवचनमित्येकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोर्लिङ्गस्य सदसत्त्वख्यापनं कृतं भवतीति नावशयं वाक्यद्वयप्रयोगः।

३३ अनुपलब्धावपि - यत् सद् उपलब्धिलक्षणप्राप्तंतदुपलभ्यत एवेत्युक्ते, अनुपलभ्यमानं तादृशमसदिति प्रतीरेरन्वयसिद्धिः।

३४ द्वयोरप्यनयोः प्रयोगयोर्नावश्यं पक्षनिर्देशः।

३५ यस्मात् साधर्म्यवत्प्रयोगेऽपि यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते, सोऽसद्वयवहारविषयः। नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो घट इत्युक्ते सामर्थ्यादेव नेह घट इति भवति।

३६ तथा वैधर्म्यवत्प्रयोगेऽपि- यः सद् व्यवहारविषय उपलब्धिलक्षणप्राप्तः स उपलभ्यत एव। न तथाऽत्र तादृशो घट उपलभ्यते- इत्युक्ते सामर्थ्यादेव नेह सद्वयवहारविषय इति भवति।

३७ कीदृशः पुनः पक्ष इति निर्देश्यः?

३८ स्वरूपेणैव स्वयमिष्टोऽनिराकृतः पक्ष इति।

३९ स्वरूपेणेति साध्यत्वेनेष्टः।

४० स्वरूपेणैवेति साध्यत्वेनैवेष्टो न साधनत्वेनापि।

४१ यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः, शब्देऽसिद्धत्वात् साध्यं भवतीति न पुनस्तदिह साध्यत्वेनैवेष्टम्, साधनत्वेनाप्यभिधानात्।

४२ स्वयमिति वादिना। ४३ यस्तदा साधनमाह।

४४ एतेन यद्यपि क्वचिच्छास्त्रे स्थितः साधनमाह, तच्छास्त्रकारेण तस्मिन् धर्मिण्यनेकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना धर्मः स्वयं साधयितु मिष्टः स एव साध्यो नेतर इत्युक्तं भवति।

४५ इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता सोऽनुक्तोऽपि वचनेन साध्यो भवति।

४६ तदधिकरणत्वाद् विवादस्य।

४७ यथा परार्थाश्चक्षुरादयः सङ्घातत्वाच्छयनासनाद्यङ्गवदिति। अत्रात्मार्था इत्यनुक्तावप्यात्मार्थतैव साध्या। तेन नोक्तमात्रमेव साध्यम्- इत्युक्तं भवति।

४८ अनिराकृत इति- एतल्लक्षणयोगेऽपि यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते, न स पक्ष इति प्रदर्शनार्थम्।

४९ तत्र प्रत्यक्षनिराकृतो यथा- अश्रावणः शब्द इति। (१)

५० अनुमाननिराकृतो यथा- नित्यः शब्द इति। (२)

५१ प्रतीतिनिराकृतो यथा - अचन्द्रः शशीति। (३)

५२ स्ववचननिराकृतो यथा- नानुमानं प्रमाणमिति। (४)

५३ इति चत्वारः पक्षाभास निराकृता भवन्ति।

५४ एवं सिद्धस्य असिद्धस्यापि साधनत्वेनाभिमतस्य, स्वयं वादिना तदा साधयितुमनिष्टस्य, उक्तमात्रस्य, निराकृतस्य च विपर्येण साध्य इति। तेनैव स्वरूपेणाभिमतो वादिन इष्टोऽनिराकृतः पक्ष इति पक्षलक्षणमनवद्यं दर्शितं भवति।

५५ त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम्। तत्र त्रयाणां रूपाणामेकस्यापि रूपस्यानुक्तो साधनाभासः।

५६ उक्तावप्यसिद्धौ सन्देहे वा प्रतिपाद्यप्रतिपादकयो।

५७ एकस्य रूपस्य धर्मिसम्बन्धस्यासिद्धो सन्देहे वाऽसिद्धो हेत्वाभासः।

५८ यथा - ' अनित्यः शब्दः' इति साध्ये चाक्षुषत्वमुभयासिद्धम्।

५९ 'चेतनास्तरवः' इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवाद्यसिद्धम्, विज्ञानेन्द्रियायुर्निरोधलक्षणस्य मरणस्यानेनाभ्युपगमात्, तस्य च तरुष्वसम्भवात्।

६० ' अचेतनाः सुखादय' इति साध्ये उत्पत्तिमत्त्वम्, अनित्यत्वं व सांख्यस्य स्वयं वादिनोऽसिद्धम्।

६१ तथा स्वयं तदाश्रयणस्य वा सन्देहेऽसिद्धिः।

६२ यथा वाष्पादिभावेन सन्दिह्यमानो भूतसङ्घातोऽग्निसिद्धावुपदिश्यमानः सन्दिग्धासिद्धः।

६३ यथेह निकुञ्जे मयूरः केकायितादिति।

६४ तदापातदेशभ्रमे।

६५ धर्म्यसिद्धावप्यसिद्धः- यथा सर्वगत आत्मेति साध्ये सर्वत्रोपलभ्यमानगुणत्वम्।

६६ तथैकस्य रूपस्यासपक्षेऽसत्त्वस्यसिद्धावनैकान्तिको हेत्वाभासः।

६७ यथा शब्दस्यानित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मः सपक्षविपक्षयोः सर्वत्रैकदेशे वा वर्तमानः।

६८ तथा- अस्यैव रूपस्य सन्देहेऽप्यनैकान्तिक एव।

६९ यथाऽसर्वज्ञः कश्चिद्विवक्षितः पुरुषो राजादिमान् वेति साध्ये वक्तृत्वादिको धर्मः सन्दिग्धविपक्षव्यावृत्तिकः।

७० ' सर्वज्ञो वक्ता नोपलभ्यते' इत्येवम्प्रकारस्यानुपलम्भस्यादृश्यात्मविषयत्वेन सन्देहहेतुत्वात्। ततोऽसर्वज्ञविपर्याद् वक्तृत्वादेर्व्यावृत्तिः सन्दिग्धा।

७१ वक्तृत्वसर्वज्ञत्वयोर्विरोधाभावाच्च यः सर्वज्ञः स वक्ता न भवतीत्यदर्शनेऽपि व्यतिरेको न सिध्यन्ति, सन्देहात्।

७२ द्विविधो हि पदार्थानां विरोध।

७३ अविकलकारणस्य भवतोऽन्यभावेऽभावाद् विरोधगतिः

७४ शीतोष्णस्पर्शवत्।

७५ परस्परपरिहारस्थितलक्षणतया वा भावाभाववत्।

७६ स च द्विविधोऽपि विरोधो वक्तृत्वसर्वज्ञत्वयोर्न सम्भवति।

७७ न चाविरुद्धविधेरनुपलब्धावप्यभावगतिः।

७८ रागादीनां वचनादेश्च कार्यकारणभावासिद्धेः।

७९ अर्थान्तरस्य चाकारणस्य निवृत्तौ न वचनादेर्निवृत्तिः।

८० इति सन्दिग्धव्यतिरेकोऽनैकान्तिको वचनादिः।

८१ द्वयो रूपयोर्विपर्ययसिद्धौ विरुद्धः।

८२ कयोर्द्वयोः ?

८३ सपक्षे सत्त्वस्य, असपक्षे चासत्त्वस्य। यथा कृतत्वं प्रयत्नानन्तरीय कत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः।

८४ अनयोः सपक्षेऽसत्त्वम्, असपक्षे च सत्त्वमिति विपर्ययसिद्धिः।

८५ एतौ च साध्यविपर्ययसाधनाद् विरुद्धौ।

८६ ननु च तृतीयोऽपीष्टविघातकृद् विरुद्धः।

८७ यथा परार्थाश्चक्षुरादयः सङ्घातत्वाच्चयनासनाद्यङ्गवदिति।

८८ तदिष्टासंहतपारार्थ्यविपर्ययसाधनाद् विरुद्धः।

८९ स इह कस्मान्नोक्तः?

९० अनयोरेवान्तर्भावात्।

९१ नह्ययमाभ्यां साध्याविपर्ययसाधनत्वेन भिद्यते।

९२ नहीष्टोक्तयोः साध्यत्वेन कश्चिद्विशेष इति।

९३ द्वयो रूपयोरेकस्यासिद्धावपरस्य च सन्देहेऽनैकान्तिक।

९४ यथा वीतरागः कश्चित् सर्वज्ञो वा, वक्तृत्वादिति। व्यतिरेकोऽत्रासिद्धः। सन्दिग्धोऽन्वयः।

९५ सर्वज्ञवीतरागयोर्विप्रकर्षाद् वचनादेस्तत्र सत्त्वमसत्त्वं वा सन्दिग्धम्

९६ अनयोरेव द्वयो रूपयोः सन्देहेऽनैकान्तिकः।

९७ यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति।

९८ न हि सात्मकनिरात्मकाभ्यामन्यो राशिरस्ति यत्रायं प्राणादिर्वर्तेत।

९९ आत्मनो वृत्तिव्यवच्छेदाभ्यां सर्वसंग्रहात्।

१०० नाप्यनयोरेकत्र वृत्तिनिश्चयः।

१०१ सात्मकत्वेनाऽनात्मकत्वेन वा प्रसिद्धे प्राणादेरसिद्धेः।

१०२ तस्माज्जीवच्छरीरसम्बन्धी प्राणादिः सात्मकादनात्मकाच्च सर्वस्माद् व्यावृत्तत्वेनासिद्धेस्ताभ्यां न व्यतिरिच्यते।

१०३ न तत्रान्वेति।

१०४ एकात्मन्यप्यसिद्धेः।

१०५ नापि सात्मकादनात्मकाच्च तस्यान्वयव्यतिरेकयोरभावनिश्चयः।

१०६ एकाभावनिश्चयस्यापरभावनिश्चयनान्तरीयकत्वात्।

१०७ अन्वयव्यतिरेकयोरन्योन्यव्यवछेदरूपत्वात्, तत एवान्वयव्यतिरेकयोः सन्देहादनैकान्तिकः।

१०८ साध्येतरयोरतो निश्चयाभावात्।

१०९ एवमेषां त्रयाणां रूपाणामेकैकस्य द्वयोर्द्वयोर्वा रुपयोरसिद्धौ सन्देहे वा यथायोगमसिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः।

११० विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः। स इह कस्मान्नोक्तः?

१११ अनुमानविषयेऽसम्भवात्।

११२ न हि सम्भवोऽस्ति कार्यस्वस्वभावयोरुक्तलक्षणयोरनुपलम्भस्य च विरुद्धतायाः।

११३ न चान्योऽव्यभिचारी।

११४ तस्मादवस्तुदर्शनबलप्रवृत्तमागमश्रयमनुमानमाश्रित्व तदर्थविचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः।

११५ शास्त्रकाराणामर्थेषु भ्रान्त्या विपरीतस्वभावोपसंहारसम्भवात्।

११६ न ह्यस्य सम्भवो यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेषु।

११७ तत्रोदाहरणम्- यत् सर्वदेशस्थितैः स्वसम्बन्धिभिर्युगपदभिसम्बध्यते तत् सर्वगतम्। यथाऽऽकाशम्। अभिसम्बध्यते च सर्वदेशावस्थितैः स्वसम्बन्धिभिर्युगपत् सामान्यमिति।

११८ तत्सम्बन्धिस्वभावमात्रानुबन्धिनी तद्देशसन्निहितस्वभावता।

११९ न हि यो यत्र नास्ति स तद्देशमात्मना व्याप्नोतीति स्वभावहेतुप्रयोगः।

१२० द्वितीयोऽपि प्रयोगः- यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते न तत् तत्रास्ति। तद्यथा- क्वचिदविद्यमाना घटः। नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं व्यक्त्यन्तरालेष्विति। अयमनुपलम्भः स्वभावश्च परस्परविरुद्धार्थसाधनादेकत्र संशयं जनयतः।

१२१ त्रिरूपो हेतुरुक्तः। तावता नार्थप्रतीतिरिति नपृथग्दृष्टान्तो नाम साधनावयव कश्चित्। तेन नास्य लक्षणं पृथगुच्यतेः गतार्थत्वात्।

१२२ हेतोः सपक्षः एव सत्त्वमसपक्षाच्च सर्वतो व्यावृत्तो रूपमुक्तमभदेन। पुनर्विशेषेण कार्यस्वभावयोरुक्तलक्षणयोर्जन्मतन्मात्रनुबन्धो दशनीयावुक्तौ। तच्च दर्शयता- यत्र धूमस्तत्राग्निः, असत्यग्नौ न क्वचिद् धूमा यथा महानसेतरयोः। यत्र कृतकत्वं तत्रानित्यत्वम्, अनित्यत्वाभावे कृतकत्वासम्भवो यथा घटाकाशयोरिति दर्शनीयम्। न ह्यन्यथा सपक्षविपक्षयाः सदसत्त्वे यथोक्तप्रकारे शक्ये दशयितुम्। तत्कार्यतानियमः कार्यलिङ्गस्य, स्वभावलिङ्गस्य च स्वभावेन व्याप्तिः। अस्मिश्चार्थे दर्शिते दर्शित एव दृष्टान्ता भवतिः, एतावन्मात्ररूपत्वान् तस्येति।

१२३ एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति।

१२४ यथा नित्यः शब्दोऽमूर्तत्वात्, कर्मवत् परमाणुवद् घटवदिति। एते दृष्टान्ताभासाः साध्यसाधनधर्मोभयाविकलाः।

१२५ तथा सन्दिग्धसाध्यधर्मादयश्च। यथा- रागादिमानयं वचनाद् रथ्यापुरुषवत्। मरणधर्मायं पुरुषो रागादिमत्त्वाद् रथ्यापुरुषवत्। असर्वज्ञोऽयं(पुरुषो) रागादिमत्त्वाद् रथ्यापुरुषवदिति।

१२६ तथाऽनन्वयोऽप्रदर्शितान्वयश्च। यथा- यो वक्ता स रागादिमान्, इष्टपुरुषवत्। अनित्यः शब्दः कृतकत्वाद् घटवदिति।

१२७ तथा विपरीतान्वयः- यदनित्यं तत् कृतकमिति।

१२८ साधर्म्येण दृष्टान्तदोषाः।

१२९ वैधर्म्येणापि- परमाणुवत् कर्मवद् आकाशवदिति साध्याद्यव्यतिरेकिणः।

१३० तथा सन्दिग्धसाध्यव्यतिरेकादयः। यथा- असर्वज्ञाः कपिलादयोऽनाप्ता वा अविद्यमानसर्वज्ञताऽऽप्ततालिङ्गभुतप्रमाणातिशयशासनत्वादिति। अत्र वैधर्म्योदाहरणम्- यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकमु पदिष्टवान्। यथा-ऋषभवर्धमानादिरिति। तत्रासर्वज्ञतानाप्ततयोः साध्यधर्मयोः सन्दिग्धो व्यतिरेकः।

१३१ सन्दिग्धसाधनवतिरेको यथा- न त्रयिविदा ब्राह्मणे ग्राह्यवचन कश्चिद् विविक्षितः पुरुषो रागादिमत्त्वादिति। अत्र वेधर्म्योदाहरणम्- ये ग्राह्यवचना न ते रागादिमन्तः, तद्यथा गौतमादयो धर्मशास्त्राणां प्रणेतार इति। गौतमादिभ्यो रागादिमत्त्वस्य साधनधर्मस्य व्यावृत्तिः सन्दिग्धा।

१३२ सन्दिग्धोभयव्यतिरेको यथा- अवितरागाः कपिलादयः, परिग्रहाग्रहयोगादिति। अत्र वैधर्म्यणोदाहरनम्- यो वीतरागो न तस्य परिग्रहाग्रह, यथर्षभादेरिति। ऋषभादेरवीतरागत्वपरिग्रहाग्रहयोगयोः साध्यसाधनधर्मयोः सन्दिग्धो व्यतिरैकः।

१३३ अव्यतिरेको यथा- अवीतरागोऽयं वक्तृत्वात्। वैधर्म्येणोदाहरणम् - यत्रावीतरागत्वं नास्ति, न स वक्ता। यथा - उपलखण्ड इति। यद्यप्युपलखण्डादुभयं व्यावृत्त तथापि सर्वो वीतरागो न वक्तेति व्याप्त्या व्यतिरैकासिद्धेरव्यतिरकः।

१३४ अप्रदर्शितव्यतिरेको यथा- अनित्यः शब्दः कृतकत्वादाकाशवदिति वैधर्म्येण।

१३५ विपरीतव्यतिरेको यथा- यदकृतक तन्नित्यं भवतीति

१३६ न ह्येभिर्दृष्टान्ताभासैर्हेतोः सामान्यलक्षणं सपक्ष एव सत्त्वं विपक्षो च सर्वत्रासत्त्वमेव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा। तदर्थापत्त्यैषां निरासो द्रष्टव्यः।

१३७ दूषणा न्यूनताद्युक्तिः।

१३८ ये पूर्वं न्यूनतादयः साधनदोषा उक्तास्तेषामुद्भावनं दूषणम्। तेन परेष्टार्थसिद्धिप्रतिबन्धात्।

१३९ दूषणाभासास्तु जातयः।

१४० अभूतदोषोद्भावनानि जात्युत्तरणीति।



इति तृतीः परार्थानुमानपरिच्छेदः॥



न्यायबिन्दुप्रकरणं समाप्तम्
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project