Digital Sanskrit Buddhist Canon

न्यायबिन्दुटीकाटिप्पणी

Technical Details


 



आचार्यधर्मोत्तरकृताया न्यायबिन्दुटीकायाः टिप्पणी ।



 



सर्व एव हि विशिष्टो जनः  शास्त्रारम्भे स्वेष्टदेवतास्तुतिं कृतवान्। तथायमेवार्यधर्मोत्तरः। सदाचारानुवृत्तिमात्मनः ख्यापयन्स्वेष्टदेवतास्तुतेश्च पुण्योपचयं ततश्च शास्त्रस्याविप्ते परिसमाप्तिं व्याख्यायाः श्रोतृणं स्तुतिपुरःसरया प्रवृत्त्या पुण्यातिशयोत्पादनात्पारार्थ्यं चालोच्य बुद्धस्य भगवतः स्तुतिमारब्धवान् जयन्तीत्यादि। अनेन श्लोकेन बुद्धस्य भगवत एव पूजा स्तोत्रतः। नान्येषां निर्दिष्टगुणोद्भवात्। स्तोत्रमपि स्वपरार्थसंपत्त्यै संभवतीति। पूर्वं स्वार्थसंपदं भगवतो दर्शयति जयन्ति जातिव्यसनेत्यादिना सुगतपर्यत्तेन मनस्तमस्तानवेत्यादिना परार्थसंपदम्। जयन्ति जयं कुर्वन्ति वाच इति संबन्धः। कस्य वाच इत्याह। सुशब्दोऽत्र शोभनेऽतिशयेऽपुनरावृत्तौ च वर्ततेऽनेकार्थत्वान्निपातानाम्। तदयमर्थः। शोभनं गतः सुगतः सुचरितवत्। अतिशयेन गतः सुगतः सुपरिपूर्णघटवत्। अपुनरावृत्या गतः  सुगतः प्रदीपवत्। किंविशिष्टस्य तस्येत्याह रागाद्यरातेरिति। रागशक्तिरादौ स आदिर्येषां द्वेषादीनां ते रागादयो भवत्ति क्लेशाः। तेषा मरातिः शत्रुः। यतो भगवता सर्वक्लेशा निःशेषं निर्दग्धा यत एव रागाद्यरातिर्भगवानत एव जगतस्त्रैधातुकजीवलोकस्य विजेता। अनेन स्वार्थसंपत्सोपाया दर्शिता। किंविशिष्टस्य जगतो विजेतुरित्याह जातिव्यसनेत्यादि। व्यसनमनर्थसंजननम्। जातौ व्यसनमिति सप्तमीति योगविभागात्समासः। तत्राभिलाष इति यावत्। देवोऽहं स्यां मनुष्योऽहं स्यामित्यभिलाषः। यद्वा विविधमनेकप्रकारेणास्यते क्षिप्यत इति व्यसनम्। सामान्येन कर्मसाधनम्। पश्चाज्जातिशब्देन विशेषणसमासः। जातिरेव व्यसनम् । जात्या व्यसनं विशिष्यते। तेन जातिशब्दस्य विशेषणत्वात्पूर्वनिपातः। जातिव्यसनस्य प्रबन्धः प्रवाहः। तस्य प्रसूतिः प्रसवमुत्पत्तिः। तस्या हेतुः कारणं जगत्तस्य जगतो विजेतुरिति। तत्रायं समुदायार्थः। यस्माच्छोभनादिना गतो भगवानत एव रागाद्यारतिः यत एव निर्दग्धक्लेशोऽतो जगतो विजेतेति। किंविशिष्टा वाचो जयत्तीत्याह मनस्तम‍इत्यादि। मनसो विकल्पविज्ञानस्य। तृष्णाविद्या तम एव। तम इति कृत्वा न गमतया तमोऽन्धकारो घटादिप्रतिबन्धं करोति तथाविद्यापि विपरीतग्राहितया प्रतिबन्धं करोति। तनोर्भावस्तानवम्। इगत्ताच्च लधुपूर्वादित्यण्। मनस्तमसि तानवं षष्ठीसमासो वा वचनप्रमाथो द्रष्टव्यः। मनस्तमस्तानवमादधानास्तनुत्वं कुर्वानाः सकलजनस्य श्रुतिचित्ताभावनाक्रमेण सुगतस्य वाचः सूत्राभिधर्मविनयत्रिपिटकस्वभावा जयत्ति। जयः पुनस्तासां तीर्थिकशास्त्राभिभवलक्षणः। यस्माद्भगवत्प्रवचने प्रमाणपरिच्छिन्न उपायो विमुक्तिलक्षण उपेयश्च निर्दिश्यते तेषां चागम उपायोपेययोः प्रमाणरहितत्वात्ततो भगवत एव वाचो जयत्ति नान्येषामिति भगवतः स्तुतिः।



 



सम्यग्ज्ञानेत्यादिना विनीतदेवव्याख्यां दूषयति यतोऽभिधेयस्यैव प्रयोजनं न सम्यग्ज्ञानव्युत्पत्तेः शास्त्रप्रयोजनस्य प्रयोजनम्। सर्वपुरुषार्थसिद्धिर्व्युत्पत्तेः सम्यग्ज्ञानपरिज्ञानस्यैव प्रयोजनम्। सर्वपुरुषार्थसिद्धिः प्रयोजनं येन स्यात्प्रयोजनप्रयोजनं तेन च प्रयोजनप्रयोजनमाख्यातमिति दूषितं सामर्थ्यात्। अथ कस्मात्प्रकरणस्याभिधेयप्रयोजनमि त्येवमुक्तं न पुनः प्रकरणस्य शरीरप्रयोजनमित्याह द्विविधं हीत्याहि। यतो द्विविधं प्रकरणस्य शरीरं प्रकरणस्य स्वभावः तस्मादभिधेयेति विशेषणं कृतम्। ननु यथाभिधेयस्य प्रयोजनं चिन्त्यते तथा शब्दस्यापि किमिति न चिन्त्यत इत्याह तत्रेत्यादि। तत्प्रतिपत्त्य इत्यभिधेयप्रतिपत्तये। संदर्भो रचनाविशेषः। अपिशब्दादर्थसंदर्भोऽपि गृह्यते। परीक्षेति परीक्ष्यतेऽनयेति परीक्षा शास्त्रमुच्यते। अनेनेत्यादिवाक्येन। यस्मादित्यादिना समुदापार्थं दर्शयति अत्रेत्यादिवाक्येन। ननु च यत्राभिधेयप्रयोजनं प्रेक्षावतां प्रवृत्तावङ्गं तथा संबन्धादीन्यपि। अतस्तानि किमिति न कथ्यन्त इत्याह अस्मिन्नभिधेयप्रयोजने कथिते तान्यपि सामर्थ्यात्कथितानि भवन्तीत्यर्थः। अभिधेय एव भागोंऽशः संबन्धादिराशेः। तस्य प्रयोजनं कथयतीत्यर्थः। तद्दर्शयति। अभिधेयप्रयोजनमेव साक्षाद्वाच्यतया निर्दिश्यते अभिधेयादीनि तु तद्विशेषणतया। चोदकेन प्रधानवाच्यतयाभिधेयादीन्यिपश्यता चोदितम्। सामर्थ्यायाततया प्ररिहृतं सिद्धान्तवादिना। न चैकेन वाक्येनार्थत्रयं साक्षाच्छक्यते दर्शयितुमिति दर्शयति नत्विदमित्यादि। एकं त्वित्यादि वाक्यं प्राधान्येनैकं वददभिधेयव्युत्पत्तिप्रयोजनसंबन्धार्थत्रयं प्रतिपादयति तत्र तदित्यादिना। अपोद्वारेणावयवार्थं दर्शयति तत्रेत्यादिवाक्ये। ननु च तद्युत्पत्तिः क्रियत इत्येवं युज्यते वक्तुं किमिति तद्युत्पाद्यत इति णिचा निर्देश इति। तत्फलमाह प्रयोजनं चात्रेत्यादि। अत्रेति प्रकरणे वक्तुरिति शास्त्रकर्तुः श्रोतुश्च प्रकरणकरणश्रवणव्यापारस्य प्रयोजनं चिन्त्यते। यस्माद्द्वयोरपि वक्तृश्रोत्रोस्तत्र प्रकरणे प्रकरणकरणश्रवणाख्यो व्यापारौ स्तः। किमिति पुनस्तयोः करणश्रवणयोः प्रयोजनं चिन्त्यत इत्याह तथाहीत्यादि। तत आचार्येणेत्यादिना द्वयोर्व्यापारस्य प्रयोजनं दर्शयति यस्मादनेन सम्यग्ज्ञानं व्युत्पाद्यत इत्यत्र वाक्ये व्युत्पत्तिक्रियानिष्पत्तौ करणश्रवणक्रियाद्वयकर्तव्यतया प्रविष्टम्। तच्च व्युत्पत्तिकरणं शास्त्रकारस्यैव नान्यस्येति णिचा निदर्शितम्। यस्मात्सम्यग्ज्ञानं व्युत्पाद्यमानाञ्शिष्यान्प्रेरयति व्युत्पादितं सम्यग्ज्ञानं व्युत्पद्यध्वमित्यात्मानं व्युत्पादकं कर्तुमारब्धं प्रकरणम्। तस्माद्वक्तुरेव करणव्यापारस्य प्रयोजनं व्युत्पादनं न भाजनादीनाम्। यद्यपि तैर्विना व्युत्पादनं न भवति तथापि न तानि व्युत्पादकानि तेषां शिष्यविषये प्रेरकत्वाभावात्। शिष्यैश्चेत्यादि यस्माच्छिष्या आचार्यप्रयुक्तां व्युत्पत्तिमात्मनः संबन्धिनीं कर्तुमिच्छत्ति यतस्ते प्रचोद्यास्तस्मात्तत्प्रकरणं तैः श्रूयत इति श्रवणस्य प्रयोजनं व्युत्पादनम्। एतच्चार्थद्वयं णिचा प्रतिपादितम्। अन्यथासाधरणव्यापारो वक्तुर्व्युत्पत्तौ न दर्शितः स्यात् शिष्याणं च श्रवणव्यापारश्च। यस्मात्सर्व एवं प्रयोजकपरतन्त्रो भवति असति णिचि शिष्या अप्रयोज्याः ये चाप्रयोज्याः ते स्वतन्त्राः स्वतन्त्राणां चाचार्यप्रयुक्तां व्युत्पत्तिमनिच्छतां श्रवणभावात्कथं श्रवणव्यापारस्य प्रयोजनं चिन्त्यत इति स्थितम्। ननु च यथाभिधेयव्युत्पादनप्रयोजनयोरपोद्धारेण प्रतिपादकपदं कथं संबन्धस्यापि किमिति न कथितमित्याह संबन्धप्रदर्शनपदं त्वित्यादि। अयमेव प्रकरणविशेषो लघूपायतया वक्ष्यमाणया नीत्योपायो व्युत्पादनमुपेयम्। उपायोपेयसंबन्धश्च कार्यकारणसंबन्ध एव। स च प्रतीयत इति न पदान्तरेण कथितः। तथा चोक्तं शास्त्रं प्रयोजनं चैव। संबन्धस्याश्चयादुक्तौ तदुक्त्यन्तर्गतः। तेन भिन्नो नोक्तः प्रयोजनादिति।



 



एवमादिवाक्येनाभिधेयप्रयोजनादौ कथिते सति प्रामाणिकानां प्रवृत्तौ तदसंगतमेवेति मन्यमानश्चोदयति नन्वित्यादिना। एवं मन्यते। यो हि प्रामाणिकः स प्रमाणे प्रवर्तते। न चादिवाक्ये प्रयोजनादिना कथितेन शास्त्रश्रवणात्प्राग्वर्तते शास्त्रं आदिवाक्यस्याप्रामाण्यात्। अप्रामाण्यं चार्थेन सहासंबन्धाच्छब्दस्य। एतैरित्यभिधेयादिभिः। आरम्भप्रदेशोक्तैरिति प्रकरणस्यैकदेशोक्तैरादावुक्तैरित्यर्थः। उक्तेष्वित्यादि। एवं मन्यते। यद्यस्याप्रमाणं प्रयोजनप्रतिपादकमादिवचनं तथापि शास्त्रादौ प्रतिपादनीयं अर्थसंशयजननार्थम्। यो हि सम्यग्ज्ञानार्थी स तथाभूत शास्त्रकर्तुरादिवाक्यं श्रुत्वा तत्र संशेते संशयाच्च प्रवर्तत इति तात्पर्यम्। अत एवेति यत एवादिवाक्येनार्थसंशयः संशयाच्च प्रवृत्तिरत एव शास्त्रकारेणैव युज्यते वक्तुं नाख्यानकर्त्रेति। तेन यदुक्तं केनचिद्याख्यानकारा एव प्रयोजनादीनि प्रतिपादयिष्यन्तीति तत्प्रत्युक्तम्। उत्पश्याम इत्यादिनैतद्दर्शयति। यद्यपि प्रमाणं नास्ति महता प्रबन्धने शास्त्रकरणात्संभाव्यत इत्यर्थः। ननु च बाधकसाधकप्रमाणाभावात्सम्यग्ज्ञानव्युत्पत्त्यथी विनाप्यादिवचनेन संशयानस्तत्र प्रवर्तत इति किमादिवाक्येन तत्रोक्तेनेत्याह अनुक्तेष्वित्यादि। एवं मन्यते। यो ह्यमूढस्तं प्रति न कर्तव्यमेव। यो हि काकदत्तपरीक्षादिशास्त्रं दृष्ट्वा प्रयोजनादिरहितं अत्राप्यप्रयोजनादीन्संभावयन्ननर्थं संशेते अनर्थसंशयाच्च न प्रवर्तते तं प्रत्येतत्कथनस्य प्रयोजनम् । कथिते च वचने शास्त्रकारेण तदनुरोधाद्वचनादर्थसंशयो जायते ततः प्रवर्तत इत्यर्थः। अनर्थसंशयो यैः कारणैर्भवति तन्निदर्शयति निष्प्रयोजनमित्यादिना। अतो वा प्रकरणदन्यस्य प्रकरणस्य लघुतरोपायतां संभाव्यास्य प्रकरणस्यासारतया अनुपायता स्यादित्यर्थः।



 



एवं समुदायेन वाक्यस्यं तात्पर्यं व्याख्यायावयवार्थं दर्शयितुमाह अविसंवादकमित्यादि। अविसंवादकं ज्ञानं सम्यग्ज्ञानमिति ब्रुवता टीकाकृतार्थावबोधकं  ज्ञानं मीमांसकपरिकल्पितमर्थदर्शनं च चार्वाकोपकल्पितमथापि विपरीतं ज्ञानं कैश्चित्परिकल्पितं सम्यक्त्वेन तन्निरस्तं सर्वं एतेषां सम्यग्ज्ञानलक्षणाभावात्। यथा च न तानि सम्यग्ज्ञानानि तथा स्वयं टीकायामपहस्तितानि। एकस्मिन्नेवार्थे त्रयाणां ज्ञानानां प्रदर्शकप्रवर्तकप्रापकभेदेन प्रामाण्यमिष्टं परेण। तन्निराकर्तुमाह प्रदर्शिते चार्थ इत्यादि। प्रदर्शिते चार्थ प्रथमेन दर्शकेन ज्ञानेन यद्द्वितीयं ज्ञानं तत्रैवार्थे पुरुषस्य प्रवर्तकं तृतीयमपि तत्रैवार्थे प्रापकं ततो नाद्यादधिकं प्रापणयोग्यीकरणेनेति तदेव प्रमाणम्। अमुमेवार्थं समर्थयति तथाहीत्यादिना। न जनयन्नोत्पादयदर्थं स्वहेतोरेवार्थस्योत्पन्नत्वात्। अनेन प्रवर्तकात्प्रापकस्याभेदो दर्शितः। प्रवर्तकस्यापि प्रदर्शकादभेदं दर्शयितुमाह। यत्प्रदर्शकमादावुत्पन्नमर्थे ज्ञानं तदेव प्रवृत्तिविषयं करोति प्रवृत्तिविषययोग्यीकरोतीत्यर्थः। न तु द्वितीयं ज्ञानं आद्येनैव प्रवृत्तिविषययोग्यीकृतत्वात्। अपिशब्दः  पूर्वापेक्षः। अत एवेत्यादिना आचार्यग्रन्थे स्वमतं संवादयति। कुतोऽयं लभ्यते यदा प्रथमं दर्शयत्येव न प्रवर्तयति न प्रापयति। द्वितीयमपि प्रवर्तयत्येव न प्रापयति। एवं सत्यन्यत्प्रदर्शकप्रमाणं अन्यत्प्रवर्तनादिकफलम्। न चैवम्। तस्माद्युक्तमुक्तम्। ननु च यद्यप्यर्थाधिगतिरेव प्रमाणफलं तथापि यावदुत्तरे प्रवर्तकप्रापकज्ञाने न भवतस्तत्रार्थे तावन्न प्रमाणव्यापारपरिसमाप्तिरित्याह अधिगत इत्यादि। एवं मन्यते। अधिगते चार्थे समाप्तः प्रमाणव्यापार इति तयोः प्रामाण्ये कर्तव्येऽनुपयोगित्वम्। अतोऽप्रमाणे ते। कथं समाप्तः प्रमाणव्यापारः को वासावित्याह। स्वव्यापारः स्वविषयनिश्चयजनकत्वं नाम। स च निश्चयः प्रथमया चार्थाधिगत्वा कृत इति समाप्तो व्यापारस्तावतैव पुरुषस्य प्रवृत्तेः । अतो द्वितीयादीनामत्रैवार्थेऽधिको व्यापारो नास्तीति। अधिगतगन्तृत्वादप्रामाण्यमित्यर्थः। प्रवर्तितः पुरुष इति प्रवर्तनयोग्यत्वात्प्रवर्तित इत्युच्यते प्रापणयोग्यत्वात्प्रापितः।एवं सामान्येन संवादकं सम्यग्ज्ञानं प्रतिपाद्य विशेषेण च प्रत्यक्षानुमाणे स्वव्यापारं कुर्वती सम्यग्ज्ञाने भवत इति दर्शयन्नाह तत्र योऽर्थ इत्यादिना। तत्र तयोर्मध्ये प्रत्यक्षस्य व्यापारं दर्शयति। दृष्टत्वेन ज्ञातो दृष्टत्वेन निश्चितः। विकल्पेनानुगम्यत इति तत्पृष्ठभाविना विकल्पेनावसीयते। एतदुक्तं भवति। प्रतिभासमानार्थव्यवसायं कुर्वत्प्रत्यक्षं प्रमाणं संवादकमित्यर्थः। अनुमानं त्वित्यादिना अनुमानस्य प्रवृत्तिविषयं दर्शयति। लिङ्गदर्शनं लिङ्गज्ञानम्। तच्च वह्न्यव्यभिचारिधूमनिश्चयनं सामन्येन साध्याविनाभावि च स्मरणज्ञानम्। यथा धूमं प्रत्यक्षेण गृहीत्वा सर्वत्रायं वह्निज इति स्मरणं तस्मात्लिङ्गज्ञानान्निश्चिन्वत्प्रवृत्तिविषयं दर्शयति। तदनुमानं विशिष्टसंबन्धेन यदुदेति ज्ञानं यथात्रत्यो धूमो वह्निज इति ज्ञानम्। एतदुक्तं भवति। प्रत्यक्षस्य स्वविषयनिश्चयजननव्यापारोऽभिन्नः। अनुमानस्य तु लिङ्गदर्शनात्स्वविषये निश्चयात्मनोत्पत्तिरेव निश्चयव्यापार इति। तथा चेत्यादिना अनयोर्दर्शितं व्यापारं स्पष्टयति। अत एते प्रमाणे। नान्यद्विज्ञानमित्येवं ब्रुवतैते एव सम्यग्ज्ञाने नान्यानि शब्दादीनि तेषां नियतार्थानुपदर्शकत्वादिति सम्यग्ज्ञानस्य प्रवृत्तिः दर्शिता। यथैते प्रमाणे संशयादिज्ञानं न तथा प्रमाणम्। प्राप्तुं शक्यमित्यादिना दर्शयति। एतदुक्तं भवति। यथा प्रत्यक्षानुमाने स्वेन स्वेन प्रमाणेनोपदर्शितार्थस्य प्रापके न तथा संशयविपर्ययज्ञाने तथाभूतस्यार्थस्याभावादिति।



 



ननु च मा भूत्संशयविपर्ययज्ञानयोः प्रामाण्यं तथाभूतस्यार्थस्यासत्त्वादिति यत्पुनरिह कूपे जलमिति ज्ञानं तत्प्रमाणान्तरं किमिति न भवति न तावत्प्रत्यक्षं तत्र जलस्य परोक्षत्वात्। नाप्यनुमानं लिङ्गाभावात् । नापि संशयनूपं उभयांशाभावात्। नापि विपरीतं विपरीतार्थाभावात्। इत्याशङ्क्याह सर्वेण चालिङ्गजेनेत्यादि। एवं मन्यते। यद्यपि साक्षात्संशयज्ञानं न प्रतीयते यस्तु संशयः विकल्पकस्य ज्ञानस्य इह कूपे जलमित्येवंजातीयस्य तथापि नियामकं लिङ्गमत्तरेण तदप्रमाणं नियतार्थपरिच्छेदात्। ततश्चायमर्थः स्यात्कदाचित्कूपे जलमिति यच्चैवंनूपं तत्संशयज्ञानमेवेत्यप्रमाणम्। यत्पुनस्तत्र प्रवृत्तेन कदाचिज्जलं लभ्यते तज्ज्ञानान्तरादिति विनिश्चयटीकायां प्रतिपादितम्। ननु च यद्यपि संशयादीनामुपदर्शितार्थस्य प्रापकत्वं नास्ति किं तानि न व्युत्पाद्यन्त इत्याह अर्थक्रियार्थिभिश्चेत्यादि। पुरुषार्थसिद्धावनुपयोगादित्यभिप्रायः। ननु च यद्युपदर्शितार्थप्रापणात्प्रमाणं सम्यग्ज्ञानं शुक्लशङ्खे पीतज्ञानं कुञ्चिकाविवरे मणिप्रभायां मणिज्ञानं अर्धरात्रे मध्याह्नकालवस्तुग्राहि स्वप्रज्ञानं च प्रमाणं प्राप्नोतीत्येभिरुपदर्शितस्यार्थमात्रस्य प्राप्तेस्ततश्च सम्यग्ज्ञानमित्याशङ्क्याह अर्थाधिगमात्मकं हीत्यादि। एवं मन्यते। एभिरुपदर्शितस्यार्थस्य पीताकारस्य कुञ्चिकाविवरस्थस्य मणेर्नियतदेशस्य नियतकालस्य चार्धरात्रेऽप्रापणात् देशकालव्यतिरिक्तस्यावयवादेरभावात् अत एव तान्यप्रमाणान्येव न सम्यग्ज्ञानानीति। यदप्येतान्यभ्रान्तग्रहणस्य व्यावर्त्यानि तत्रैवाभ्रान्तग्रहणप्रस्तावे दर्शयितव्यानि  तथापोह सम्यग्ज्ञानव्यावर्त्यप्रस्तावात्कथितानीत्यदोषः। ननु चेत्यादि। एवं मन्यते चोदकः। देशाकाराभ्यां नियतस्य प्राप्तुं शक्यत्वाद्भवत्वन्याकारस्यान्यदेशस्य च प्राप्तावप्रमाणम्। न त्वन्यकालस्य नियतकालस्य चाप्राप्तेः क्षणिकत्वाद्भावानाम्। ततश्च यथा सत्यनीले नीलज्ञानस्यान्यो ग्राह्यकालोऽन्यश्च प्राप्यकालः अथ कालभेदेऽपि प्रामाण्यं तथा स्वप्रज्ञानस्यार्धरात्रोपदर्शितमध्याह्नकालपुत्रप्रापणस्य प्रामाण्यं भविष्यतीति। नोच्यत इत्यादिना सिद्धान्तवादी त्वेवं मन्यते। सत्यं क्षणभेदेन वस्तुनो भेदोऽस्त्येव किं तु क्षणापेक्षया न प्रामाण्यलक्षणमुच्यते अपि तु संतानापेक्षया। ततश्च नीलादौ य एव संतानः परिच्छिन्नो नीलज्ञानेन स एव तेन प्रापितः। तेन प्रमाणं नीलज्ञानम्। न तथा स्थूलकालभेदेन प्रदर्शितस्य पुत्रस्य स्वप्रज्ञानम्। न प्राप्तिकालभेदेन संतानैक्याध्यवसायायोगात्। संतानगतमेकत्वं द्रष्टव्यमित्यनेन निश्चयप्रवृत्त्योर्हेतुहेतुमद्भावं दर्शयति। स च हेतुहेतुमद्भावः कथं भवति यदि संतानापेक्षया प्रामाण्यमवतिष्ठते न क्षणापेक्षयेति।



 



सम्यग्ज्ञानं पूर्वं कारणं यस्याः। कथं पूर्वशब्दः कारणे वर्तत इत्याह कार्यादित्यादि। कारणशब्द एव कस्मान्न कृत इत्याह कारणशब्द इत्यादि। किमनन्तरकारणं ज्ञानं संभवति यदपेक्षया व्यवहितस्य ग्रहणार्थं पूर्वशब्दग्रहणं कृतमित्याह द्विविधमित्यादि ननु किमुच्यते अर्थक्रियानिर्भासं ज्ञानमनन्तरं कारणं नं हि तत्कारणज्ञानं किं तर्हि फलज्ञानम्। एवं तु युज्यते वक्तुं यत्साधननिर्भास्यनन्तरं ज्ञानमर्थक्रियानिर्भासज्ञानमुपजनयति तत्साधनज्ञानमनन्तरकारणमित्युच्यते। तदेवात्राभिप्रेतमर्थक्रियानिर्भासशब्देन। कथं। अर्थक्रिया या निर्भासः प्रतिबिम्बनं तदाकारज्ञानोत्पत्तिर्यस्मादनन्तरज्ञानात्तत्साधनज्ञानं तदर्थक्रियानिर्भासं साधनज्ञानम्। एवमत्रापि समासः कर्तव्यः। अथवार्थक्रियाज्ञानमेवानन्तरकारणं तत्प्रापितहेयोपादेयानुष्ठानव्यवहारपेक्षया प्रवर्तकमिति व्यवहितं साधननिर्भासज्ञानम्। यद्येवमनन्तरमेव किमिति न परीक्ष्यत इत्याह यत्रैव हीत्यादि। यत्रैव ज्ञानेऽर्थक्रियासमर्थवस्तुप्रवर्तके पुरुषस्य संदेहस्तदेव परीक्ष्यते न चानत्तरसाधनज्ञाने संदेहस्तदनत्तरं सुखदुःखप्रतिभासज्ञानोदयात्। तयोरनुभवे सति साधनज्ञानात्प्रवर्तितुं वा युज्यत इति न परीक्षाहं यद्वार्थक्रियानिर्भासस्यानया युक्त्या न परीक्षार्हत्वमिति।



 



अर्थ्यत इत्यादि। अर्थ यच्ञायामित्यस्य कर्मणि घञ्। अर्यत इत्यपि द्रष्टव्यम्। उपलक्षणार्थत्वादस्यार्तेरौणादिकःस्थन्प्रत्ययः। हेयोर्थ इत्यादिना विनीतदेवस्य व्याख्या दूषिता। तेन ह्येवं व्याख्यातं अर्थशब्देन प्रयोजनमुच्यते पुरुषस्य प्रयोजनं दारुपाकादि। तस्य सिद्धिर्निष्पत्तिरिति। तच्चायुक्तं यस्मादर्थस्य दारुपाकादेर्न सम्यग्ज्ञानान्निष्पत्तिः। किं तर्हि स्वहेतोरेव वज्रपादेः। धर्मोत्तरव्याख्याने तु हेयोपादेयार्थविषया या सिद्धिरनुष्ठितिः सा सम्यग्ज्ञानपूर्विकेति न दोषः। अमुमेवार्थं दर्शयिष्यति हेयस्य च हानमनुष्ठानम्। ननु च हेयोपादेयाभ्यामन्योऽप्युपेक्षणीय अस्ति। तस्य किमिति न कथनमित्याह न च हेयेत्यादि।एवं मन्यते। सत्यं। अस्ति। किं तु तस्यानुपादेयत्वाद्वेयत्वमेवेति न पृथक्कथनम्। तेन यदुक्तं कैश्चिद्वेयोपादेययोः पुरुषार्थोपयोगित्वात्कथनं उपेक्षणीयस्य तद्विपर्ययान्न कथनमिति तत्प्रत्युक्तम्।  अमुमेवार्थं व्याचष्टे। उत्तरेण ग्रन्थेन सर्वशब्द इत्यादिना टीकाकृतां व्याख्यां दूषयति। विनीतदेवशान्तभद्राभ्यामेवमाशङ्का व्याख्यातम्। कथमाशङ्कितम्। न तु सर्वा हानोपादानार्थसिद्धिः सम्यग्ज्ञानादेवापि तु मिथ्याज्ञानादपि काकतालीयेत्याशङ्का परिहृतम्। सत्यं अस्ति। किं त्वेवं व्याख्यायते।सर्वशब्दोऽयं प्रकारवाची। तेनायमर्थः सर्वपुरुषार्थसिद्धिः द्विप्रकारा हानोपादानार्थसिद्धिलक्षणा। लौकिकलोकोत्तरार्थसिद्धिलक्षणा सम्यग्ज्ञाननिबन्धना बाहुल्येनेति। तद्दूषितम्। यस्मात्सर्वशब्दोऽत्र द्रष्टव्यः कार्त्स्न्ये वर्तते सर्वं ब्रह्मणा सृष्टमिति। तेनायमर्थः यावती कृत्स्नार्थसिद्धिर्हानोपादानलक्षणा सर्वा सम्यग्ज्ञानादेव न मिथ्याज्ञानात् मिथ्याज्ञानादर्थप्राप्त्यसिद्धेरिति। अमुमेवार्थमनन्तरेण ग्रन्थेन दर्शयति। द्विप्रकारापीत्यादिना परव्याख्यां दर्शयति अपि त्वयमर्थ इत्यादिनात्मीषां व्याख्याम्। ततो यावद्ब्रूयादि त्यादिनोपसंहारव्याजेनैवशब्देन प्रयुक्तेनावधारणार्थवाचिना यावानर्थस्तावानेव सर्वशब्देन प्रयुक्तेन कृत्स्नार्थवाचिना  भवतीति दर्शयति। ननु बहुव्रीहिणा पुरुषार्थसिद्धिरुच्यते तस्याः प्राधान्यात्तच्छब्देन संबन्धो युक्तो न सम्यग्ज्ञानस्येत्याह यद्यपीत्यादि। एवं मन्यते। शब्दार्थो हि द्विविधः शाब्दः प्रतिपाद्यश्च। शाब्दापेक्षया चोद्यं प्रतिपाद्यापेक्षया परिहृतम्। सम्यग्ज्ञानस्यैव व्युत्पाद्यतया प्रस्तुतत्वादितरस्याः सिद्धेस्तद्विपर्ययादिति। ननु च किमिदं ज्ञानस्य व्युत्पादनं किं ज्ञानस्योत्पादनमुत दोषापनयनमथ स्वनूपकथनमिति। न तावदुत्पादनमनेन प्रकरणेन क्रियते स्वहेतोरेवोत्पत्तेः। नापि दोषापनयनम्। न ह्यनेन प्रकरणेन दोषोऽपनेतुं शक्यते अकारकत्वादस्य नापि ज्ञापयितुमविद्यमानत्वाद्दोषस्य। नापि स्वनूपकथनं युज्यते निष्प्रयोजनत्वात्प्रकरणस्येत्याशङ्क्याह व्युत्पाद्यत इति विप्रतिपत्तिनिराकरणेनेति। एवं मन्यते। विप्रतिपत्तिनिराकरणद्वारेण सम्यग्ज्ञानस्वनूपं ज्ञाप्यतेऽनेन प्रकरणेनेति। वक्ष्यमाणलक्षणयुक्तं सम्यग्ज्ञानं नान्यलक्षणयुक्तमिति स्वनूपकथनम्। तामेव विप्रतिपत्तिं क्रमेण दर्शयति चतुःप्रकारा संख्यालक्षणेत्यादिना। तथेत्यादिना संख्याविप्रतिपत्तिनिराकरणं दर्शयति। अनेकप्रकारा पुनः सम्यग्ज्ञानस्य विप्रतिपत्तिः। तथा हि मीमांसकाः प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यभावलक्षणं पदव्याख्यायुक्तं सम्यग्ज्ञानं मन्यत्ते। नैयायिकाश्चतुःसंख्यायुक्तं प्रत्यक्षानुमानशब्दोपमानलक्षणं मन्यत्ते। चार्वाकास्तु केचित्प्रत्यक्षमेवैकमिति। तन्निरासेन दर्शयति द्विविधमिति। ननु च सम्यग्ज्ञानस्य लक्षणे कथिते सति पश्चात्तद्भेदः प्रदर्शयितुं युज्यते इत्थंभूतलक्षणं सम्यग्ज्ञानं द्विविधमिति तत्किमित्यादावेव प्रदर्शितमित्याह व्यक्तिभेदे चेत्यादि। एवं मन्यते। सत्यमेवमेव किं तत्र संख्याभेदेऽकथिते सम्यग्ज्ञानस्य लक्षणमेव न शक्यते कथयितुं यतः प्रत्यक्षस्यान्यत्लक्षणमनुमानस्य चान्यत्। संख्याभेदे तु कथिते लक्षणं प्रतिनियतं शक्यते कथयितुमित्यतो लक्षणाङ्गमेवादौ संख्याभेदकथनमिति। ननु च प्रत्यक्षमनुमानं चेति निर्देशाद्द्विविधमिति लब्धम्। किमर्थं द्विविधग्रहणम्। उच्यते। द्विविधमेव सम्यग्ज्ञानमित्यवधारणार्थं तेनैकत्रिचतुरा संख्या निरस्ता स्यात्। असति द्वित्वकथने प्रत्यक्षानुमाने तावत्संभवतोऽन्यान्यपि प्रमाणानि भविष्यत्तीति स्यादाशङ्का। प्रतिगतमक्षमित्यादिना गतिसमासं दर्शयति। अक्षमक्षं प्रति प्रत्यक्षमित्यव्ययीभावसमासः कस्मान्न प्रदर्श्यतेऽयं समासः। यतोऽव्ययीभावश्चेन्नपुंसकलिङ्गता स्यात्प्रत्यक्षस्य। ततश्च प्रत्यक्षा बुद्धिः प्रत्यक्षो घट इति न स्यात्। इदमेव स्यात्प्रत्यक्षं ज्ञानं प्रत्यक्षं कुण्डं चेति। गतिसमासे तु सर्वलिङ्गता भवति। ननु च प्रतिगतमक्षमित्यस्यां व्युत्पत्तावक्षाश्रितस्यैवेन्द्रियज्ञानस्य प्रत्यक्षशब्दवाच्यता स्यात् न योगिज्ञानादेः तेषामक्षानाश्रयादित्याशङ्क्याह अक्षाश्रितत्वं चेत्यादि। एकार्थसमवेतमित्येकस्मिन्निन्द्रियज्ञाने समवेतमक्षाश्रितत्वमर्थसाक्षात्कारित्वं च संबद्धमित्यर्थः। सानूप्यलक्षणामि त्यनेनार्थसानूप्यलक्षितं ज्ञानमेवोच्यते। तन्न सानूप्यमात्रम्। अन्यथा विनूपात्लिङ्गादनुमेये ज्ञानमिति विरुध्यते। अत्रापि पश्चान्मानमनुमानमि त्यव्यपीभावसमासे पूर्ववज्रोद्यमुद्राव्य गतिसमास आश्रयितव्यः। अनुगतं मानमनुमानमिति पश्चादित्यर्थकथनं कृतं न तस्मिन्वाक्ये समासः।



 



चकारः प्रत्यक्षानुमानयोस्तुल्यबलत्वं समुच्चिनोतीत्यादिना यदुक्तं शबरस्वामिप्रभृतिभिः प्रत्यक्षं श्रेष्ठं प्रमाणं नानुमानं तथा चोक्तं मीमांसभाष्ये प्रत्यक्षे बलीयसि कथमनुमानमिति तत्प्रत्युक्तं यतो द्वयोरपि स्वव्यापारे तुल्यबलत्वम्। अमुमेवार्थं दर्शयति। यथाथीविनाभावेत्यादिना। अनेन विनीतदेवशात्तभद्रयोर्व्याख्या च दूषिता। ताभ्यामेवं व्याख्यातं प्रत्यक्षमनुमान चेति भिन्नविभक्तिनिर्देशो ऽर्थाद्विषयभेदं दर्शयति। यथानयोर्विभक्तिर्भिन्ना एवं विषयो ऽपि भिन्न इति। एतच्चायुक्तं यस्मादेकविभक्तिनिर्देशे क्रियामाणे चकारेण तुल्यबलत्वं न प्रदर्शितं स्यादिति। प्रत्यक्षत्वजात्येति प्रत्यक्षाणां बहुत्वात् तज्जात्या निर्धार्यते।



 



प्रत्यक्षमनूद्येति लक्ष्यनिर्देशः। कल्पनापोढत्वमभ्रान्तत्वं न विधीयत इति लक्षणनिर्देशः। अनेन लक्ष्यलक्षणभावं दर्शयता विनीतदेवव्याख्यानं संज्ञासंज्ञिसंबन्धनूपं प्रत्युक्तम्। न हि संज्ञा यथार्थं संभवति। यथार्थकथनेन हि विप्रतिपत्तिर्निराकृता स्यात्। यद्यप्यन्वर्थसंज्ञया कल्पनापोढं यद्भ्रान्तं च तत्प्रत्यक्षमिति शक्यते यथार्थं कथयितुं तथापि न स्वनूपं प्रत्यक्षस्य कथितं स्यात् यतोऽन्यदपि प्रत्यक्षस्य स्वनूपमर्थसाक्षात्कारादिकमस्तीति लक्ष्यलक्षणे तु यथार्थं कथिते कथितं भवति। यत्किंचित्प्रत्यक्षं तत्कल्पनापोढाभ्रान्तमिति प्रतिपत्तव्यम्। अत एव न लक्षणकरणं संज्ञाकरणं भवति संज्ञाकरणत्वेनाप्रतीतेर्लक्षणकरणस्य। शब्दमनूद्यानित्यत्वं लक्षणं विधीयते न चानित्यत्वं संज्ञेति गम्यत इति संज्ञालक्षणकरणयोर्भेदः। यस्त्वनयोः प्रदेशान्तरप्रसिद्धयोरनुवादं कृत्वा प्रत्यक्षत्वं विदधाति तेनाप्यत्र लक्ष्यलक्षणभावो विपरीतमाख्यातं भङ्ग्या यतो लक्षणविधानकाले लक्ष्यमनूद्य लक्षणं विधीयते न तु लक्षणमनूद्य लक्ष्यं विधीयते। सिद्धे तु लक्ष्यलक्षणभावे सति लक्षणमनूद्य लक्ष्यं विधीयते यथा यः शिखावान्स परिव्राजक इति। शिखालक्षणविधानकाले तु परिव्राजकानुवादेन शिखैव विधीयते न विपरीतविधानमित्यन्यदप्यस्मिन्यक्षे दूषणं दत्तं विनिश्चयटीकायां टीकाकृतेति तत्रैव द्रष्टव्यम्। ननु च लक्षणविधिपक्षे प्रत्यक्षस्याद्याप्यसिद्धत्वादनूद्यं न संभवति ततश्च कथं प्रत्यक्षलक्ष्यमनूद्य लक्षणं विज्ञाप्यते। यथा शिखया प्ररिव्राजक इत्यित्र शिखालक्षणमनूद्य कल्पनापोढादि विधीयत इत्याशङ्क्याह  यत्तद्भवतामित्यादि।एवं मन्यते। यद्यपि कल्पनापोढत्वेन प्रत्यक्षं न प्रसिद्धं तथाप्यर्थसाक्षात्कारित्वेन सामान्यं प्रत्यक्षं प्रसिद्धम्। अतोऽप्युच्यते प्रत्यक्षमनूद्येति। ननु च तयोरप्रसिद्धत्वात्प्रत्यक्षस्याप्रसिद्धिरेव प्रत्यक्षस्य तत्स्वभावत्वादित्याशङ्क्याह न चैतन्मन्तव्यमित्यादि सुबोधम्। कल्पनास्वभावरहितमिति भावप्रधानो निर्देशः। कल्पनात्वस्वभावरहितमित्यर्थः। अभ्रान्तमर्थक्रियाक्षमे  न वस्तुनूप इत्यादिनाविसंवादोऽर्थोऽभ्रान्तशब्दस्य न संभवतीति दर्शयति। अविसंवादार्थेऽभ्रान्तशब्दे गृह्यमाण उत्तरत्रदूषणं प्रतिपादयति। सन्निवेशोपाधिवर्णात्मकमित्यनेनैतद्दर्शयति। वर्णादन्यत्संस्थानादिकं परपरिकल्पितं नास्तीति। एतच्च लक्षणद्वयमित्यादिना पदद्वयेन विप्रतिपत्तिनिरासं दर्शयता विनीतदेवव्याख्या पदद्वयव्यवच्छेदकथननूपा दूषिता। तेन त्वेवं व्याख्यातम्। अभ्रान्तमिति यद्विसंवादि न भवति। एवं सत्यनुमानस्यापि प्रत्यक्षलक्षणं प्राप्नोतीति कल्पनापोढग्रहणं तन्निवृत्त्यर्थम्। यद्येवं व्याख्यायते आलम्बने यन्न भ्रान्तं तदभ्रान्तमित्येवमुच्यमाने सर्वं प्रत्यक्षं ज्ञानमालम्बने भ्रान्तमिति न कस्यचित्प्रत्यक्षत्वं स्यात्। तथा चाह।



 



सर्वमालम्बने भ्रान्तं मुक्त्वा तथागतज्ञानम्।



इति योगाचारमते।



 



न तदप्यत्राचार्येण संगृहीतमिति तदयुक्तं यत आचार्येण विप्रतिपत्तिनिरासार्थं पदद्वयं कृतं न व्यवच्छेदार्थम्। अत एवाचार्यमनुमापयता धर्मोत्तरेण पदद्वयं व्याख्यातमिति। ननु च भवतः पक्षेऽपि किमिति व्यवच्छेदार्थं न भवतीत्याह एतच्चेत्यादि। एवं मन्यते। भ्रान्तशब्दोऽयं नाविसंवादार्थो गृह्यते। अपि त्वर्थक्रियाक्षमे वस्तुनूप आलम्बने यन्न भ्राम्यति तदभ्रान्तशब्देन गृह्यते। ननूक्तं योगाचारमतमसंगृहीतं स्यादिति। उच्यते। बाह्यानयेन सौत्रात्तिक मतानुसारेणाचार्येण लक्षणं कृतमित्यदोषः। योगाचारमतेन त्वभ्रान्तग्रहणं न कर्तव्यं संवादकस्य सम्यग्ज्ञानस्य प्रस्तुतत्वात् अन्यव्यावर्त्यस्याभावात्। तस्मादभ्रान्तग्रहणेनानुमाने निरस्ते कल्पनापोढग्रहणामधिकं सिद्धिविप्रतिपत्तिं निराकरोति। अत एवाह न त्वनुमाननिवृत्त्यर्थमिति। अस्ति चात्र विप्रतिपत्तिः। तथाहि मीमांसकादय एवमाहुः। यथा निर्विकल्पकं ज्ञानं सम्यग्ज्ञानं तथा जात्यादियोजनाज्ञानमपि सम्यग्ज्ञानमिन्द्रियजं उपदर्शितस्यार्थस्य प्रापणात्। तथा चाहुः।



 



ततः परं पुनर्वस्तुधर्मैर्जात्यादिभिर्यया।



 



बुद्ध्यावसीयते सापि प्रत्यक्षत्वेन संमतेति॥



 



तथा च वैयाकरणा आहुः। वाचकसंसृष्टं वाच्यमिन्द्रियज्ञाने प्रतिभासते। तेन शब्दसंयोजनात्मकमिति।



 



वायूपता चेदुत्क्रामेदवबोधस्य शाश्वती।



न प्रकाशः प्रकाशेन सा हि प्रत्यवमर्शिनी॥



न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते।



अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते॥



 



तथा नैयायिकादीनां सविकल्पकं प्रत्यक्षमिति कल्पनापोढग्रहणेन निराक्रियते। तथा कल्पनापोढग्रहणेन निर्विकल्पके सिद्धेऽभ्रान्तग्रहणमतिरिच्यमानं द्विचन्द्रज्ञानादेः सम्यग्ज्ञानाधिकरण एवं निरस्तत्वाद्विप्रतिपत्तिनिरासार्थत्वमेव भवति। तथाचार्यैकदेशीयाः शुक्ले शङ्खे पीतज्ञानं गच्छद्वृक्षदर्शनज्ञानं चालातचक्रज्ञानमभ्रान्तमपि सम्यग्ज्ञानमिच्छन्ति वस्तुनोऽभ्रान्तत्वात्पीताकारादेश्च भ्रान्तत्वादित्यस्ति विप्रतिपत्तिः। तन्निराक्रियतेऽभ्रान्तग्रहणेनेति स्थितं द्वयोरपि विप्रतिपत्तिनिरासार्थत्वमिति। तथा सति अभ्रान्तग्रहण इत्यादिनाभ्रान्तशब्दस्य विप्रतिपत्तिविषयं दर्शयति। न ततो वृक्षावाप्तिरित्युपदर्शितस्य गच्छद्वृक्षस्याप्राप्तेरित्यभिप्रायः। ज्ञानान्तरादेव त्विति प्रत्यक्षान्तरात्स्थिरवृक्षस्य प्राप्तेः। तथाभ्रान्तग्रहणेनेत्यादिना कल्पनापोढग्रहणस्य विप्रतिपत्तिनिरासार्थत्वं दर्शयति। विप्रतिपत्तिविषयश्च टीकाकृता न दर्शितोऽतिप्रसिद्धत्वात्। यदुक्तं प्राग् नाविसंवादार्थोऽभ्रान्तार्थ इति तस्यार्थस्य ग्रहणे दोषं दर्शयति न त्वविसंवादकमित्यादिना।



 



कीदृशी पुनः कल्पनेत्यादिना कल्पनाबहुत्वात्कस्याः कल्पनायाः ग्रहणमिति कल्पनाविशेषमज्ञानन्पृच्छति। तथा हि वैभाषिका इन्द्रियविज्ञानं वितर्कविचारचैतसिकसंप्रयुक्तं कल्पनामिच्छन्ति। योगाचारमतेन च तथागतज्ञानमद्वयं मुक्त्वा सर्वज्ञानं ग्राह्यग्राहकत्वेन विकल्पितं कल्पना। जात्यादिसंसृष्टं तु मनोज्ञानं कल्पनेत्यन्ये कथयन्ति। अभिलापेत्यादिना शब्दसंसृष्टस्य विकल्पस्य ग्रहणं नागमपरिपठितानामिति दर्शयति। तेषां ग्रहणे सतीन्द्रियविज्ञानस्य प्रत्यक्षत्वानुपपत्तेः। अभिलप्यत अनेनेति करणसाधनेनैतद्दर्शयति। वाचकोऽभिलापशब्देनेष्टो न तु वाच्यं सामान्यादि। तेन विनीतदेवव्याख्या दूषिता अभिलप्यत इत्यभिलापः वाच्यः सामान्यादिरित्येवंनूपा। एवमेवेदमाश्रयणीयमन्यथा योग्यग्रहणेन शब्दसंसर्गयोग्यो न कथितः स्यादिति। यद्येवं धर्मोत्तरव्याख्याने जात्यादेर्वाच्यस्य संसर्गभावो न प्रदर्शितः स्यात्।सत्यं अनेन न प्रतिपादितः।विषयचिन्तायां सामान्यादेर्विषयभावकथनेन सामर्थ्यात्कथितं भवतीति निरोधः। एकस्मिञ्ज्ञाने वाच्यवाचकाकारतया संघटनमित्यर्थः। ननु च यद्यपि तस्मिञ्ज्ञान आकारयोर्मीलनं तथापि शब्दार्थयोः संसर्गो नास्तीत्याह। ततो यदैकस्मिन्नित्यादि। शब्दार्थयोः संसर्गविज्ञानेऽपि तयोराकारयोर्मीलनं न संभवतीत्यभिप्रायः। तत्र काचित्प्रतीतिरित्यादिना योग्यग्रहणस्य विषयं दर्शयति। व्युत्पन्नसंकेतापेक्षयाकारद्वयप्रतिभासनम्। ननु चाव्युत्पन्नसंकेतस्य बालमूकादेरनुमतो विज्ञाने न शब्दसंसर्ग इति तद्योत्यत्वमपि नास्ति। कश्च संसर्गयोग्यप्रतिभासः य शब्दप्रतिभासः। मूकादिज्ञाने तु संकेताभावे सति शब्दप्रतिभासोऽपि न संभवतीति संसर्गयोग्यत्वमपि नास्ति। किमिदं योग्यत्वं नाम अभिधेयाकारस्य संकेतकरणयोग्यत्वम्। न चाभिधानोत्लेखाभावे सत्यभिधेयप्रतिभासनं नापि योग्यत्वमिति। तथा चकुमारिलः प्राह।



 



अस्ति ह्यालोचनात्मकं प्रथमं निर्विकल्पकं।



बालमूकादिविज्ञानसदृशं शुद्धवस्तुजमिति॥



 



ततश्च व्यावर्त्याभावाद्योग्यग्रहणं न कर्तव्यमित्याशङ्कां परस्य दर्शयति असत्यभिलापेत्यदिना। अनियतप्रतिभासेत्यादिनोत्तरमाह। एवं मन्यते। शब्दसंसर्गित्व किमुच्यते विकल्पज्ञानस्यानियतप्रतिभासत्वमेव। कुतस्तत्सिद्धमित्याह अनियतेत्यादि। अर्थादेव ह्युत्पद्यमानं नियतप्रतिभासं भवति। तथा चक्षुर्विज्ञानमित्यभिप्रायः। ननु कल्पनाज्ञानमप्यर्थादुत्पद्यमानं नियताकारं भविष्यतीत्याह विकल्पज्ञानेत्यादि। अर्थसंनिधि विना विकल्पज्ञानस्योत्पत्तिरित्यभिप्रायः तेनेन्द्रियज्ञानमेव नियतप्रतिभासम्। विकल्पज्ञानं त्वनियतप्रतिभासमिति। तथानियतप्रतिभासं विकल्पज्ञानं बालमूकादेरप्यस्तीति दर्शयति बालोऽपि हीत्यादिना। ननु च बालस्य ताल्वादिकरणपाटवाभावे सामान्यविशेषशब्दोच्चारणं नास्ति तत्किमुच्यते स एवायमिति। सत्यं नास्ति किं तु स एवायमित्यनेन विकल्पस्यावस्थोच्यते। स एवायमित्यनेन पूर्वदृष्टत्वमेवोच्यते। उपरतरुदितोऽपगतरुदितः। एतद्दर्शयति। बालस्यापि पूर्वापरपरामर्शनूपं विकल्पकं विज्ञानमस्ति नियतविषये प्रवृत्तेः यथा गृहीतसंकेतस्य पूर्वापरपरामर्शेन प्रवृत्तिरिति। यच्च पूर्वापरपरामर्शं,तदनियतप्रतिभासं पूर्वापरयोरारोपितत्वादिति संसर्गयोग्यं बालमूकादेर्विज्ञानमिति तन्निवृत्त्यर्थ योग्यग्रहणं कर्तव्यमिति स्थितम्। इन्द्रियविज्ञानमित्यादिना कुमारिलेन यदिन्द्रियविज्ञानस्यालोचनाख्यस्य बालमूकादिविज्ञानेन सादृश्यं प्रतिपादितं तद्दूषयितुमुपसंहारव्याजेन वैलक्षण्यं दर्शयति। अत एवेत्यादि यदिन्द्रियविज्ञानमर्थबलेनोत्पद्यमानं नियतप्रतिभासं तन्निर्विकल्पकम्। अत एव स्वलक्षणस्यापि शब्दस्यार्थस्य च वाच्यवाचकत्वमभ्युपगम्य निर्विकल्पकत्वमिन्द्रियविज्ञानस्य साध्यते। विकल्पविज्ञानस्य तु स्वलक्षणवाच्यवाचकत्वं प्रतिभासिनोऽपि सविकल्पकत्वमिति स्थितम्। यद्यपीत्यनेन स्वलक्षणयोर्वाच्यवाचकभावाभ्युपगमं दर्शयति परमार्थतः सामान्ययोरेव वाच्यवाचकत्वं नार्थशब्दविशेषस्येत्यादिना न्यायेन। अवश्यं च स्वलक्षणयोः वाच्यवाचकभावोऽभ्युपगम्यः। कुतः। सामान्ययोर्विषयचिन्तायामेव निरस्यमानत्वादिति निर्विकल्पकत्वकथनं व्यर्थं स्यादिह। तदपि हि विषयाविषयचिन्ताद्वारेण निर्विकल्पकविषयमेवेति। तेन यद्विनीतदेवेन सामान्ययोर्वाघ्यवाचकभावमङ्गीकृत्य निर्विकल्पकत्वमिन्द्रियविज्ञानस्य प्रतिपादितं तद्दूषितं भङ्ग्या। श्रोत्रविज्ञानं तर्हीत्यादिना स्वलक्षणस्य वाच्यवाचकभावपक्षेऽतिप्रसङ्गमापादयति परः। किंचिन्निर्विकल्पकत्वमिन्द्रियविज्ञानस्य साधनीयम्। न सामान्ययोर्वाच्यवाचकमभ्युपगम्य शब्दस्वलक्षणं वाच्यम्। यदा घटशब्दः शब्दशब्दो वा शब्दं शब्देन प्रतिपद्यते तदा किंचिद्वाच्यं शब्दस्वलक्षणं किंचिद्वाचकं शब्दस्वलक्षणमिति। ततः श्रुद्धयोः श्रवणे सति शब्दविज्ञाने द्वयोरपि शब्दयोः प्रतिभासनाच्छ्रोत्रेन्द्रियज्ञानमनियतप्रतिभासित्वात्सविकल्पकं स्यादित्याकूतम्। सत्यपीत्यादि।एवं मन्यते। यद्यपि स्वलक्षणयोर्वाच्यवाचकत्वं तथापि श्रोत्रविज्ञाने न वाच्यवाचकतया तयोः प्रतिभासनं अपि तु शुद्धयोरेव प्रतिभासनं यस्माच्छब्दसंनिधिबलेन श्रोत्रविज्ञानमुत्पद्यते। न च संनिहितयोः शब्दयोः वाच्यवाचकत्वमस्ति। यावत्संकेतकालभाविशब्दस्मरणं न भवति तावत्कुतो वाच्यत्वं वाचकत्वं वा स्यात् एतत्प्रत्यभिज्ञया स एवायं वाचको भविष्यतीत्याह। न च संकेतकालेत्यादि। विषयभेदात्तयोः पूर्वोत्तरयोर्भेदः। कश्च संकेतविषयः शब्दो यः संकेतकालभाविना ज्ञानेन विषयीकृतः। यश्च पूर्वज्ञानेन विषयीकृतः स इदानीं नास्ति पूर्वज्ञानविनाशे पूर्वज्ञानविषयत्वस्याभावात्। अतः पूर्वकालविषयत्वमपश्यत्सन्निहिते श्रोत्रबलेनोत्पद्यमानं निर्विकल्पकमेव। योगिज्ञानेन यद्येकस्मिन्काले मनोविज्ञानेन च युगपच्छन्दार्थौ गृहीते तथापि संनिहितवस्तुतया तेन गृहीतव्याविति दर्शयति। योगिज्ञानमित्यादिना। ननु कल्पनाज्ञानमपि परया कल्पनया शून्यं ततश्च तस्यापि निर्विकल्पकत्वं प्राप्नोतीत्याशङ्क्याह। तया कल्पनया कल्पनास्वभावेनेत्यादि। एवं मन्यते। धर्मिणा कल्पनाज्ञानेन धर्मोऽत्र कल्पनात्वं लक्ष्यते यथा विषाणीत्यत्र विषाणित्वं ततश्च कल्पनात्वेन रहितं यज्ज्ञानं तन्निर्विकल्पकम्। न च कल्पनाज्ञानं कल्पनात्वरहितमित्यदोषः।



 



कल्पनापोढाभ्रान्तत्वयोर्लक्षणयोः परस्परविशेषणविशेष्यत्वं न स्वातन्त्र्येण पृथग्लक्षणत्वमिति दर्शयितुमन्ते प्रत्यक्षशब्दं गृहीत्वा तयोरपि संबध्नाति तत्प्रत्यक्षमिति परेण संबन्ध इत्यनेन। इन्द्रियगतमिदं विभ्रमकारणमितीन्द्रियस्य तिमिरेणाक्रान्तत्वात्। आशुभ्रमणमिति। मन्दं भ्रम्यमाण इति विशेषणस्य व्यावृत्तिः। विषयगतमिति विषयस्यालातादेश्चक्राकारं प्रति निमित्तत्वात्। नौयानमिति समुदायप्रश्नः। गच्छत्यां नावीत्यादिना। प्रयोजनं दर्शयति। बाह्याश्रयगतमिति। बाह्या नौः सेवाश्रयस्तत्र स्थितस्याश्रयद्वारको विभ्रम उच्यते। संक्षोभो वातादीनां विकारापत्तिरध्यात्मिकविभ्रमकारणम्। ननु चेन्द्रियगतमेव विभ्रमकारणम्। प्रत्युच्यते। नान्यैरिन्द्रियमगतैरिन्द्रियं विक्रियां गतमित्याह सर्वैरेवेत्यादि तिमिरस्य साक्षादलातादेः पारम्पर्येणेति एतच्च विनिश्चयटीकायां विस्तरेण प्रतिपादितमिति। संक्षोभपदेन सह द्वन्द्वं कृत्वा बहुव्रीहिरिति दर्शयति विनिश्चये तु संक्षोभशब्देन षष्ठीसमासं कृत्वादिशब्देन बहुव्रीहिसमास दर्शयतः कोऽभिप्रायः टीकाकृत इति। व्युत्पत्तिभेदकथनमेव नार्थभेद इति। यदा संक्षोभशब्देन षष्ठी समासः तदाश्रयगतस्य विभ्रमकारणस्योपलक्षणत्वाद्वातपित्तादेर्ग्रहणं भवतीति नार्थभेदः। अथ किमर्थमाशुभ्रमणग्रहणादेरुपादानं तिमिरादीत्येव क्रियतामादिग्रहणेन सर्वेषां संग्रहो भविष्यति। उच्यते। असत्याशुभ्रमणादिग्रहण इन्द्रियगतमेवादिशब्देन काचकामलादि गृह्यत इत्याशङ्क्येत। तस्मादाशुभ्रमणादिरुपादीयते। तेषामुपादाने पद्यादिग्रहणं न क्रियेत तदा तेषां स्वनूपग्रहणमेव स्यात्। न प्रकारोपलक्षणमित्यादिग्रहणम्। तत उभयोपादाने सति तिमिरादीनामुभयकात्स्यर्न लभ्यत इति स्थितम्। तत् तथाविधं ज्ञानमिति यद्यपि सूत्रे ज्ञानग्रहणं नास्ति तथापि भ्रान्ते ज्ञानधर्मत्वात्तद्युदासेन ज्ञानमेव प्रत्यक्षं गृह्यत इत्यदोषः। विनीतदेवव्याख्यायां भवति तु प्रत्यक्षसूत्रस्यार्थकथनं ज्ञानं प्रत्यक्षमिति तस्मात्स्थितं निर्विकल्पकं ज्ञानं प्रत्यक्षभ्रान्तमिति॥



 



यैरिन्द्रियमेव द्रष्टु परिकल्पितमिति। वैभाषिकैः चक्षुः पश्यति नूपाणीति तैरिष्यते। मानसे च प्रत्यक्षे दोष उद्भावित इति द्वाभ्यां भिक्षवो नूपं दृश्यते चक्षुर्विज्ञानेन तदाकृष्टेन मनोविज्ञानेनेति तदागमसिद्धं मनोविज्ञानमाचार्यदिग्नागेन प्रत्यक्षं दर्शितं तत्परैः कुमारिलादिभिर्लक्षणमज्ञानद्भिर्दूषितम्। तन्मनोज्ञानं यदीन्द्रियविज्ञानविषये प्रवर्तते तदा गृहीतग्राहितयाप्रमाणं अथान्यविषये प्रवर्तते व्यवहिते प्रत्यक्षं भवत्किं तन्मनोविज्ञानमिन्द्रियसव्यपेक्षं स्यान्निरापेक्षं वा। इन्द्रियसव्यपेक्षत्वे सतीन्दियविज्ञानमेव निरापेक्षत्वे वानिन्द्रियस्यापि मनोविज्ञानं प्रत्यक्षं स्यादित्यन्धबधिराद्यभावचोद्य कृतम्। स्वसंवेदनं च नाभ्युपगतमिति मीमांसकैः परोक्षं विज्ञानमर्थापत्तिगम्यं प्रत्यक्षोऽर्थ इष्यते। नैयायिकादिभिस्तु ज्ञानान्तरगम्यं ज्ञानमिष्यते न स्वसंवेदनं सिद्धं स्वात्मनि कारित्वविरोधात्। योगिज्ञानं च नाभ्युपगतमिति संबन्धः। मीमांसकादय एवमाहुः। योगिन एव न संप्रति प्रमाणाभावात् किं पुनः तेषां ज्ञानमिति इन्द्रियाश्रितमिति चक्षुरादीन्द्रियचतुष्टयं गृह्यते। न मन इन्द्रियं तस्य स्वसंवेदनप्रत्यक्षे प्रतिपाद्यमानत्वात्। इन्द्रियाश्रितं विज्ञानं प्रत्यक्षमिति ब्रुवता थिस्मुच् वार्तिककृता न चक्षुः प्रमाणमिति कथितं भवति यस्माज्ज्ञानस्यैवान्वयव्यतिरेकानुविधानाद्रूपादिदर्शने सामर्थ्यं न चक्षुषः। यतूक्तं ज्ञानं चेत्पश्यति व्यवहितमपि किं न पश्यति अमूर्तस्यावाचकाभावादिति तदयुक्तं यतो योग्यदेशेनैवार्थेन तज्ज्ञानं जन्यते न व्यवहितेन विज्ञानादर्शनात्।



 



स्वशब्दस्य विवरणं आत्मीय इतीन्द्रियविज्ञानस्यात्मीयः विषयक्षणः। तस्यानान्तर इत्यस्य विवरणं न विद्यत इत्यादि। अन्तरशब्दस्य विवरणं व्यवधानमित्यादि। समानजातीय उपादेयक्षण इन्द्रियविज्ञानविषयस्याव्यवहितः समानजातीयक्षण उच्यते। स चोपादेयक्षणो विषयः।विषयग्रहणेनालोकस्यानन्तरस्य निरासः। स तथाभूतः सहकारी यस्येति संबन्धः। ननु च कथं विषयक्षणस्य सहकारित्वमेकस्मिन्क्षणे उपकार्योपकारकभावाभावादित्यत आह द्विविधश्चेत्यादि। एवं मन्यते। नात्रोपकारकत्वात्सहकारित्वमपि त्वेककार्यकारित्वादिति। तदेव दर्शयति विषयेत्यादिना। ईदृशेनेति स्वविषयानन्तरविषयसहकारिणोन्द्रियज्ञानेनालम्बनप्रत्ययभूतेनेति। यदा योगिज्ञानं परस्यैवंविधज्ञानमालम्बते तदालम्बनभूतेन योगिज्ञानं जन्यत इति। समश्चासावित्यनन्तरक्षणस्यापि ज्ञानत्वात्। समनन्तर इति च भवति शकन्ध्वादिषु पाठात् परनूपत्वं यतः स चेति समनन्तरः हेतुत्वादिति प्रत्ययार्थकथनमेतत्। तेन जनितमित्यादिनैतत्कथयति। इन्द्रियविज्ञानेन स्वविषयानन्तरविषयसहकारिणोपादानभूतेन यज्जनितं तदेव मनोविज्ञानं प्रत्यक्षं न आलम्बनभूतेन जनितमित्यर्थः। यदा चेत्यादिना द्वयोरेकं विषयं गृहीत्वा यञ्चोदितं परेण तत्परिहृतं पूर्वक्षण इन्द्रियविज्ञानस्य विषयो द्वितीयक्षणे मनोविज्ञानस्य विषय इत्यगृहीतग्राहि मनोविज्ञानमिति। यदा चेत्यादिना यच्चोद्यं कृतं यदि मनोविज्ञानमिन्द्रियसव्यपेक्षं न स्यान्मनोविज्ञानस्येन्द्रियविज्ञानविषयादन्यो विषयः तदान्धबदिराद्यभावः व्यवहितस्य नीलादेर्ग्रहणं भवत्विति तत्परिहृतम्। यस्मादिन्द्रियविज्ञानविषयस्य द्वितीयोपादेयभूतविषयक्षणो गृहीतो मनोविज्ञानविषयः तस्माद्यवहितक्षणो विषयो न भवत्यस्यान्धबदिरादेश्चातीन्द्रियविज्ञानम्। विज्ञानविषयानन्तरविषयसहकारि विद्यते। तेन तेषां न मनोविज्ञानं भवतीति परिहृतम्। स्वविषयानन्तरविषयसहकारिणोत्युद्यमाने शब्दविषयं मानसं न प्राप्नोति श्रोत्रविज्ञानविषयाच्छब्दादपरस्योपादेयक्षणस्यानुत्पत्तेः शब्दस्योच्छेदित्वात्। अपरस्य शब्दस्य शब्दादनुत्पत्तेरित्यवश्यं मानसं प्रत्यक्षशब्दविषयमेष्टव्यम्। अन्यथा पञ्च बाह्या विज्ञेया इत्यस्य व्याघातः स्यात्। स्वविषयानन्तरविषयशब्देन श्रोत्रविज्ञानविषयानन्तरयोग्यविषयो गृह्यते नोपादेयक्षण एव तेन विज्ञानविषयदेशेऽपरशब्दो यदोत्पद्यते तदा मानसं प्रत्यक्षं स्वविषयानन्तरविषयसहकारिणा जनितं भवतीत्यदोषः। एतच्चेत्यादिना मनोविज्ञानस्योत्पत्तिविषयं दर्शयति। उपरते चक्षुषीति। यदा चक्षुर्विषयमालोच्योपरतं भवति तदालोचनाविषये चक्षुर्विज्ञानमुत्पन्नं सत्पुनर्द्वितीये क्षण आत्मीयविषयानन्तरविषयेनोत्पाद्यत इन्द्रियाणां तत्र व्यापाराभावात्।ततश्च तेनेन्द्रियविज्ञानेन स्वविषयानन्तरविषयसहकारिणा मानसप्रत्यक्षमुत्पद्यत इति स्थितम्। नन्वेकस्मिन्क्षणे तस्योत्पादके सति न तत्र काचिदर्थक्रियावाप्यत इति पुरुषार्थानुपयोगित्वात्प्रामाण्यं प्राप्नोति। उच्यते। न मानसप्रत्यक्षेणास्मद्विधानामर्थक्रियावाप्तिर्भवति अपि तु योगिनो वीतरागादेः। ते च तस्मिन्क्षणे मानसे चोपदर्शितं विषयं प्रतिपद्य धर्मदेशनादिकामर्थक्रियामासादयन्तीत्यिनवद्यम्।  अथ व्यापारवति चक्षुषि किमिति मानसोत्पत्तिर्लुप्यत इत्याह व्यापारवतित्यादि सर्वेन्द्रियाश्रितं ज्ञानं चक्षुर्विज्ञानमेव न मानसस्योत्पत्तिरस्तीत्यभिप्रायः।  ननु व्यापारवति चक्षुषि प्रथमे क्षण इन्द्रियविज्ञानं भवति द्वितीये क्षणे मानसं भवति यद्यपि समानजातीययोर्युगपदुत्पत्तिर्नास्तीत्याह इतरथेत्यादि। एवं मन्यते। व्यापारवति चक्षुषि किमितीन्द्रियविज्ञानं नोत्पद्यते द्वितीये क्षणे योग्यकरणे सति समाननूपं तेन तयोः कथमिन्द्रियविज्ञानव्यपदेशो न स्यादिति । ननु च यदि मानसं प्रत्यक्षं इन्द्रियज्ञानाद्भिन्नं प्रत्यक्षादिप्रमाणसिद्धं भवेत्तदा तस्य लक्षणं यावता प्रमाणसिद्धमेव नास्तीत्याह एतच्चेत्यादि। एवंजातीयकमितीन्द्रियविज्ञानसदृशं तदेतद्धर्मोत्तरेणागमसिद्धं दर्शयताचार्यज्ञानगर्भप्रभृतीनां मानससिद्धये यत्प्रमाणमुपन्यस्तं विकल्पोदयादिति तद्भङ्ग्यावधारणादेव दूषितम्। तैरेवं व्याख्यातं व्यापारवति चक्षुषीन्द्रियज्ञानमुत्पद्यते मानसं च। न शक्यते वक्तुं द्वयोर्युगपदुत्पत्तिर्नास्तीति। यतः समानेन्द्रिययोर्नास्ति न भिन्नेन्द्रिययोः षणां युगपदुत्पत्तिरिति वचनात्। ततश्च द्वयोर्भिन्नेन्द्रिययोर्युगपदुत्पत्तिः। न च तत्र भेदेनानुपलभ्यमानं मानसं नास्तीति शक्यते वक्तुं समानजातीयनीलविकल्पोदयात्।  यदि च तन्न मानसं स्यात्तत्पृष्ठभावी नीलविकल्पा ने स्यादेव। समानाद्वि मानसात्मनो विकल्पस्योत्पत्तिर्भवति न विजातीयादिन्द्रियविज्ञानादिति। यथा देवदत्तेन नीले गृहीते न यज्ञदत्तस्य नीलनिश्चयो भवति। तथेन्द्रियविज्ञानमनोविज्ञानसंतानयोर्भिन्नत्वात्। न तथा मानसमनोविकल्पसंतानयोर्भिन्नसंतानत्वम् द्वयोरप्यनिन्द्रियत्वात् मनोव्यपदेशाच्चेति। अत्रोच्यते। यदुक्तं तावत्समानजातीयविकल्पोदयादिति तत्सिद्वौ यत्साधनं तदनैकान्तिकम्। विजातीपादप्युत्पत्तिदर्शनादन्वयव्यतिरकोभ्याम्। न च व्यापारवति चक्षुषि मानसस्योत्पत्तिरस्ति न च द्वयोर्नीलविज्ञानयोरुत्पत्तिर्निर्विकल्पयोर्दृश्यते अनुपलभ्यमानत्वात्तयोः। तेनेन्द्रियविज्ञानादेव विजातीयाद्विकल्पकस्योत्पत्तेर्न विकल्पस्योदयादिति मानससिद्धौ हेतुः। न च देवदत्तयज्ञदत्तयोरिवभिन्नसंतानवर्तित्वं सविकल्पकनिर्विकल्पकयोः। येन भिन्नसंतानान्निर्विकल्पकादुत्पत्तिर्न स्यादेकसंतानपातित्वात्तयोरवश्यं चाङ्गीकर्तव्या विजातीया विकल्पस्योत्पत्तिर्येन वार्तिककार एवमाह।



 



तद् दृष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः।



स्वव्यापारत्वकरणात्स्मरणादित्यादि।



 



संविच्छब्देनेन्द्रियविज्ञानमेवोच्यते न मानसम्। ततश्च तत्सामर्थ्यभावि कथं विकल्पविज्ञानं स्मरणं विजातीयत्वात्। न च तत्र मानसं संविदुच्यत इन्द्रियविज्ञानस्य व्यवहारेण प्रामाण्यस्य चिन्त्यत्वात्। किं चेन्द्रियविज्ञानस्य कथं प्रामाण्यं यदि स्वव्यापारं करोति। स्वव्यापारस्तु स्वविषये विकल्पजनकत्वं नाम। ततश्च विजातीयादपि विकल्पस्योदयादिति यत्किंचिदेतत्।



 



ननु चित्तचैत्ता इति वक्तव्ये सर्वग्रहणस्य व्यावर्त्याभावादपार्थकं तद्ग्रहणमित्याह सुखादय एवेत्यादि। न केवलं प्रसिद्धाः सुखादयः चित्तचैत्ता स्वसंवेदना गृह्यत्ते अन्येऽपि स्वसंवेदना इति तात्पर्यम्। अमुमेवार्थं दर्शयति नास्तीत्यादिना। शुद्धस्य चित्तावस्थानूपस्यासंवेदितस्याभावमाहेति भावः। एवं ब्रुवता टीकाकृतानेन निरोधसमापत्त्यवस्थायां शुद्धचित्ताभाव एवेत्यभिप्रायः प्रदर्शितः तस्यामवस्थायां न काचिच्चित्तावस्था संवेद्यते यतः। ननु चित्तचैत्ता नामात्मसंवेदनं नास्ति स्यात्मनि कारित्वविरोधादित्युक्तमित्याह येन हीत्यादि। यस्मादनेन बोधस्वनूपेणात्मस्वनूपं वेद्यते तत्प्रत्यक्षमात्मसंवेदनमुच्यते। एवं मन्यते। यथा प्रदीपः प्रकाशतयं स्वनूपं निवेदयन्नात्मप्रकाशने न प्रदीपात्तरमपेक्षते तथा चित्तादिकमपि संविद्रूपतया स्वनूपं निवेदयन्नात्मसंवेदने न ज्ञानात्तरमपेक्षते। न च स्वात्मनि कारित्वविरोधो यतो वास्तवकारकत्वाभावः। अत्रापि कल्पनया प्रकाश्यप्रकाशकत्वेन कर्मकर्तृभावः। तत्रापि नीलाकारोत्पत्तिरेव प्रकाशकत्वं ज्ञानस्य प्रदीपस्यापि प्राग्भावित्वमेव। प्रकाशकत्वं कल्पनापरो व्यापारः। बोधस्य तु बोधनूयतयोत्पत्तिरेव स्वप्रकाशकत्वम्। ततश्च विज्ञानं बोधनूपतया प्रत्यक्षेणानुभूयमानं कथमपह्नूयते भवता परोक्षं विज्ञानमिति। एवं तावन्मीमांसकादीन्प्रति विज्ञानं स्वसंवेदनप्रत्यक्षं निर्दिष्टम्। यस्तु सांख्योऽपि बाह्यनूपाः सुखादय इति मन्यते तं प्रत्याह इह च नूपादो दृश्यमान इत्यादि। एवं मन्यते। नीलनूपात्सातादिकमन्तरं संवेदनं प्रत्यक्षेणानुभूयमानं न बाह्येनाभिन्ननूपं जडनूपं च शक्यते वक्तुमिति। अमुमेवार्थं न च गृह्यमानाकार इत्यादिना दर्शयति। साक्षात्कारित्वव्यापार इति प्रत्यक्षस्य व्यापारः। विकल्पस्तत्पृष्ठभावो। न च नीलस्य सातनूपत्वमनुगम्यत इति तत्पृष्ठभाविना विकल्पेन सातनूपो नीलादिर्नानुगम्यत इत्यर्थः। तेन नीलादिः सातस्वभावो न प्रत्यक्षसिद्ध इति सांख्यं निराकुर्वता ग्राह्यग्राहकं सातादिनूपं भिन्नं प्रत्यक्षं प्रदर्शितम्। तेन युक्तमुक्तं केश्चित् ग्राह्याद्भिन्नं ग्राहकं न प्रत्यक्षेणानुभूयत इति तेन किंचिन्नाम नापह्नुतं भवतीत्युक्तम्। तस्मात्सर्वाण्येतानि चित्तचैत्तानि स्वसंवेदनप्रत्यक्षाणीति। तेषां लक्षणं योजयति तच्चेत्यादिना। तत्प्रत्यक्षं स्वसंवेदननूपं निर्विकल्पकं तत्र शब्दादियोजनाभावात्। कुतः। शब्देन संकेताभावात्। अभ्रान्तं च तद्विज्ञानं स्वनूपेऽविपर्यस्तत्वाद् बाधकाभावाच्चेति।



 



भाव्यमानार्थाभासस्येति क्षणिकत्वादिग्राहिणः। स्कुटाभवारम्भ इत्याद्यतिशयस्योपक्रमात्ततः परेणातिशयाभावाज्ज्ञानस्य। ततश्च क्षणिकत्वादिग्राहि मनोविज्ञानं भाव्यमानमीषदसंपूर्णमन्तक्षणः। प्रकर्षपर्यन्त उच्यते। तदेव दर्शयति यदा स्फुटाभत्वमित्यादिना। तदिह स्फुटाभत्वारम्भे त्यादिनोपसंहारव्याजेन योगिनो मनोविज्ञानस्यावस्थात्रयं दर्शयति। भावनाप्रकर्षावस्थेका प्रकर्षपर्यन्तावस्था द्वितीया भाव्यमानस्य करतलामलकवद्दर्शनं योगिनः तृतीयावस्थेति। तद्धि स्फुटाभमित्यादिना योगिनो मनोविज्ञानमपि स्फुटाभत्वादेवेन्द्रियविज्ञानवन्निर्विकल्पकं दर्शयति।



 



निर्विकल्पानुबद्धस्य स्पष्टार्थः प्रतिभासते।



 



इति न्यायाद्यद्यपि मनोज्ञानेन भावनाप्रकर्षपर्यन्तजेन शब्दार्थौ युगपद्गृह्येते तथापि द्वयोः स्वनूपस्य सन्निहिततया गृह्यमाणत्वात्तद्ग्राहि विज्ञानं निर्विकल्पकमिति। नुन च मनोविज्ञानं भाव्यमानं वाच्यवाचकसंसृष्टं प्रतिभासते यथा तथैव भाव्यमानं प्रकर्षपर्यन्तजं मनोविज्ञानं वाच्यवाचकप्रतिभासि स्फुटाभं भवति। तदा स्फुटाभत्वान्निर्विकल्पकोऽपमित्यनैकान्तिको हेतुरिति पच्चोदितं परेण तत्परिहर्तुमुपक्रमते विकल्पविज्ञानं हीत्यादिना। एवं मन्यते। यद्यपि मनोविज्ञानं वाच्यवाचकसंसृष्टप्रतिभासि तथापि स्फुटाभत्वावस्थायां तदलीकाकारं वाच्यवाचकनूपमपैति वित्तिनूपं तु तस्य निजम्। अतस्तदेव चिद्रूपं ज्ञानं स्फुटं भवति न वाच्यवाचकाकारतया तयोरारोपितनूपत्वात्। आरोपितनूपग्रहणस्फुटत्वमेव न स्यादिति नानैकान्तिकत्वं हेतोः स्फुटाभत्वादित्यस्य। यदा तु विकल्पविज्ञानं शब्दसंसर्गयोग्यवस्तु गृह्णाति तदा संकेतकालदृष्टत्वेन तद्वस्तु गृह्णाति। तदसंनिहितं तदा तस्य संकेताभावात्। तच्च पूर्वदृष्टं पूर्वविज्ञानस्य विषयः। तच्च पूर्वविज्ञानं संप्रति शब्दसंसर्गयोग्यवस्तुग्रहणकाले नास्ति क्षणिकत्वाज्ज्ञानस्य। तद्वत्पूर्वविज्ञानविषयत्वमपि संप्रति नास्ति विषयिणो ज्ञानस्याभावे विषयस्याप्यर्थस्य संकेतकालभाविनोज्भाव इत्यसंनिहतं संकेतकालभावि तद्वस्त्वारोप्य गृह्णद्विकल्पविज्ञानमस्फुटं भवतीति। स्फुटत्वं ततो निवृत्तं निर्विकल्पेऽवतिष्ठत इति व्याप्तिः सिद्ध्यति। ततः स्फुटत्वान्निर्विकल्पकं योगिज्ञानमभ्रान्तं च प्रमाणेन शुद्धार्थग्राहित्वात्संवादकम्। इयदेवेति इन्द्रियविज्ञानादारभ्य योगिज्ञानपर्यन्तं नैकमेवेन्द्रियप्रत्यक्षमित्यर्थः। नाप्यधिकमधिकस्यानुपलम्भात्॥



 



प्रकारभेदमिति प्रत्यक्षं सामान्यं निर्विकल्पकमभ्रान्तं तस्य प्रकारभेद इन्द्रियज्ञानादिः। तं प्रतिपाद्येत्यर्थः। विषयविप्रतिपत्तिमिति। इह कैश्चिन्मीमांसकादिमिः प्रत्यक्षस्य सामान्यविशेषौ द्वावपि विषयौ कल्पितौ। अनुमानस्य सामान्यमेव विषयः न विशेषः। सांख्येन द्वयोरपि विशेषो विषय इष्टः सामान्यस्याभावात्। वेदान्तवादिना च सामान्यमेव विषयो द्वयोः आत्मद्वैततया सर्वस्यैकत्वाद्विशेषे भ्रान्तत्वाद्द्वयोरिति विप्रतिपत्तिः प्रत्यक्षादिविषये। स्वलक्षणमि त्यनेनेष्टं विषयं दर्शयति। तत्त्वमित्यर्थक्रियाकारि। अनेन लक्षणशब्दो विवृतः। लक्ष्यते दाहाद्यर्थक्रिया येन तत्लक्षणम्। एतद्दर्शयति। असाधारणमेव तत्त्व वस्तुनो नूपम्। साधारणं तु तत्त्वमारोपितं नूपं पूर्वापरक्षणानामभेदाध्यवसायात्। अतो वस्तुनो नूपद्वयमसाधारणं सामान्यं च। तत्रासाधारणतत्त्वं प्रत्यक्षस्य ग्राह्यविषय इति दर्शयति यदसाधारणमित्यादिना। ननु किमुच्यते ग्राह्यविषय इति यावता किमन्यो विषयोऽस्ति प्रत्यक्षस्य। अस्तीत्याह द्विविध इत्यादि। यमध्यवस्यतीति यं संताननूपेण स्थितमर्थं तत्पृष्ठभाविना विकल्पेन निश्चिनोति। ननु च कथं प्रत्यक्षस्य संतानो विषयो यतो विकल्पस्यासौ विषयः। उच्यते। उपचारात्। प्रत्यक्षव्यापारेण विकल्पेनाध्यवसेयतया,विषयीकृतत्वात्प्रत्यक्षविषयं इत्युच्यत उपचारादित्यदोषः। द्वैविध्यमेव स्फुटयत्य अन्यो हीत्यादिना। तथानुमानमित्यादिना प्रसङ्गेनानुमानस्यापि विषयद्वैविध्यं दर्शयति। स्वलक्षणत्वेनावसीयत इति दाहाद्यर्थक्रियासमर्थत्वेनावसीयत इत्यर्थः। तदेत्रत्यादिना प्रमाणचिन्तायां ग्राह्यविषयदर्शनोऽयं न प्राप्यं विषयमिति दर्शयति। ग्राह्य एव विषये सर्वेषां विप्रतिपत्तेः।



 



कः पुनरसौ विषय इत्यादि। एवं मन्येत। ननु प्रत्यक्षस्य स्वलक्षणं विषय इत्युक्ते सामान्यमपि तस्य विषय इति तदपि स्वलक्षणं प्राप्नोतीति प्रश्नः। असंनिधानं दूरदेशावस्थानमिति ब्रुवता विनीतदेवस्य व्याख्या दूषिता। तेन ह्येवं व्याख्यातं सर्वेण नूपेण वस्तुनोऽभावोऽसंनिधानमिति। एतदसंगतं यस्माद्वस्तुनः तत्राभावे ज्ञानमेव न भवति। ततश्च ज्ञानप्रतिभासभेद इति न घटते। यो हीत्यादिनैतद्दर्शयति। अर्थक्रियासमर्थस्यैव संनिधानासंनिधानाभ्यां स्फुटास्फुटप्रतिभासभेदो न सामान्यस्येति। न सामान्यं स्वलक्षणम्। आरोपितनूयस्य दूरासन्नाभ्यां सर्वदैवास्फुटत्वादिति। ननु सामान्यमेव दूरे गृह्यमाणमस्फुटप्रतिभासं न स्वलक्षणमित्याह सर्वाण्येवेत्यादि सामान्यस्याविद्यमानत्वादित्यभिप्रायः। अतः तान्येव स्वलक्षणानि स्फुटास्फुटप्रतिभासीनि न सामान्यम्। ननु यदि दूरासन्नाभ्यां स्वलक्षणं स्पष्टास्पष्टप्रतिभासं नूपद्वयं तस्य स्यात् ततश्च निकटस्थितस्य प्रतिभासद्वयं स्यात् न च नियमो दूरेऽस्पष्टं निकटे स्पष्टमिति। उच्यते न हि नीलं वस्तु स्पष्टनूपमस्पष्टं च अपि तु नीलं साध्यार्थक्रियासमर्थं नीलपरमाणुनूपम्। स्पष्टास्पष्टाकारौ चोपाधिकृतौ। यदा दूरे नीलं पश्यति तदालोकपरमाणूनां च रजःपरमाणुभिरभिभूतत्वात्स्पष्टप्रतिभासं ज्ञानं भवति। निकटे तु आलोकपरमाणूनां बहुत्वान्न ते रजःपरमाणुभिरभिभूता इति स्पष्टप्रतिभासं ज्ञानं जायते। ज्ञानस्य स्पष्टादिद्वारेणार्थस्य स्पष्टास्पष्टनूपे भवतो न परमार्थत इति। सामान्यस्य तु ज्ञानद्वारेण न स्पष्टास्पष्टनूपे। तेन न तत्स्वलक्षणम्। ननु तस्य विषयः स्वलक्षणमित्युक्तं तत्र यदि प्रत्यक्षस्यैव विषयो भवति स्वलक्षणं नान्यस्येति तदानुमानादेर्न स्वलक्षणविषयः। किं तु प्रत्यक्षस्यान्यो विषयः स्यात्। अथ प्रत्यक्षस्य स्वलक्षणं विषयो नान्यः। तदानुमानस्य स्वलक्षणं विषयो न निषिद्ध इति स्वलक्षणविषयमनुमानं स्यादिति मन्यमानः पृच्छति। कस्मात्पुनरि त्यादिना नानुमानस्य। विकल्पस्य विषयो वास्तवो न भवति। कथं स्वलक्षणं भवतीत्याह तथाहीत्यादि। यद्यपि विकल्पस्य विषयो वस्तु न भवति तथापि स एव स्वलक्षणं दाहाद्यर्थक्रियानूपेण व्यवसायादित्यभिप्रायः।



 



तदेव परमार्थसदिति। एवं मन्यते। न हारोपबलादवस्तु वस्तु भवति सर्वस्य शशविषाणादेर्वस्तुत्वप्रसङ्गात्। वस्तु तदेवानुपचरितस्वनूपं अतः तदेव स्वलक्षणम्। ननु विकल्पविषयोऽप्यर्थः परमार्थसन्नेव। इदमेव परमार्थसत्त्वं नाम यदुत ज्ञाने प्रतिभासनम्। सामान्यमपि ज्ञाने प्रतिभासते तदपि परमार्थ सदिति मन्यमानः पृच्छति। कृस्मात्पुनस्तदेव परमार्थसदिति। अर्थ्यत इत्यादिनार्थक्रियासामर्थ्यलक्षणत्वपदस्यार्थं विवृणोति। तदयमर्थ इत्यादिना समुदायस्य पदानां तात्पर्यं दर्शयति। एवं मन्यते। यस्मादर्थक्रियासमर्थं परमार्थसन् तस्मान्न सामान्यं परमार्थसन्। दाहाद्यर्थक्रियायामनुपयोगात्। न च प्रतिभासबलात्तत्त्वमसद्रूपस्याप्यविद्याबलप्रतिभासनात्। न च ज्ञानजनकत्वेनार्थक्रियाकारित्वं तस्य ज्ञानस्य विनापि सामान्येन वासनाबलात्सामान्यविषयस्योत्पत्तेरिति।



 



एतस्मादित्यादिनानुमानस्य विषयं दर्शयति। तथाहीत्यादिना प्रत्यक्षविषयेण सह विकल्पविषयस्य सामान्यस्य विसदृशत्वं दर्शयति। कथं पुनर्विकल्पस्य विषयो भवति सामान्यमित्याह  समारोप्यमाणमिति सकलवह्निसाधारणतया सामान्याकारस्य संवेद्यत्वादित्यभिप्रायः। सोऽनुमानस्य विषयो ग्राह्यनूप इति ग्राह्यं नूपमस्येति बहुव्रीहिः। अत्रापि ग्राह्यापेक्षया विषयो व्यवस्थापितो न प्राप्यापेक्षया तत्राविप्रतिपत्तेः। ननु तत्सामान्यमिति नपुंसकलिङ्गं प्रस्तुत्य स इत्यनेन पुंत्लिङ्गेन परामर्शः कथमित्याह सर्वनाम्नेत्यादि। कस्मात्पुनः प्रत्यक्षपरिच्छेद अनुमानस्य विषयविप्रतिपत्तिर्निराकृता वार्तिककारेण नानुमानपरिच्छेद इत्याह सामान्यलक्षणमित्यादि। एवं मन्यते। यद्यनुमानपरिच्छेदेऽनुमानस्य विषयो व्यवस्थाप्येत तदा तत्रैव ग्रन्थः कर्तव्यः स्यात्। कोऽसौ वानुमानस्य विषयः प्रत्यक्षविषयादन्यः प्रत्यक्षस्यैव कोऽसौ विषयो यदपेक्षयायमन्यः पुनर्वक्तव्यं स्वलक्षणमित्येवमावर्त्यमाने गौरवं स्यात्। ततो लाघवार्थं अत्रैवकथितमिति।



 



फलविप्रतिपत्तिं निराकर्तुमाहेति। कथं प्रमाणस्य फले विप्रतिपत्तिः। तथाहि प्रमाणं करणं प्रमितिक्रियां विना न भवति यथा छित्तिं विना न परशुः। ततश्च प्रमाणात्करणात्पृथक्फलेनार्थसंप्रवृत्तिलक्षणेन भवितव्यं स्वात्मनि क्रियाकरणत्वविरोधात्। न हि परशुरेव छित्तिरिति। अतो मीमांसकेनेन्द्रियं प्रमाणमिन्द्रियार्थसन्निकर्षः मन‍इन्द्रियसन्निकर्षः आत्ममनः सन्निकर्षश्चेष्टः सर्वे सन्निकर्षाश्चेति। तदुक्तम्।



 



यद्वेन्द्रियं प्रमाणं स्यातस्य चार्थेन संगतिः।



मनसो वेन्द्रियैर्योग आत्मना सर्व एव वा॥



 



इत्यर्थावबोधः फलं तत्र व्यापाराच्च प्रमाणतेति।



 



तदा ज्ञानं फलं तत्र व्यापाराच्च प्रमाणता।



व्यापारो न यदा तेषां तदा नोत्पद्यते फलमिति॥



 



तथा पूर्वं पूर्वं प्रमाणमुत्तरमुत्तरं फलमिति चोक्तम्। तत्रापि बुद्धिजन्म प्रमाणं प्रवृत्त्यादिकं फलमिति। तथा नैयायिकादयोऽप्येवंभूतमेव प्रमाणफलमिच्छत्ति। इदं त्वधिकं विशेषणज्ञानं प्रमाणं विशेष्यज्ञानं फलमिति यथोक्तं कुमारिलेन।



 



प्रमाणफलते बुद्ध्योर्विशेषणविशेष्ययोः।



यदा तदापि पूर्वोक्ता भिन्नार्थत्वनिवारणेति॥ 



 



तदेषां विप्रतिपत्तिः। तां निराकर्तुमाह तदेवेति। कथं पुनरर्थपरिछित्तिनूपं प्रमाणस्य फलं नार्थप्रवर्तकादि विज्ञानमित्याह अर्थस्येत्यादि। एवं मन्यते। येन फलेन निष्पन्नेनानन्तरेण प्रमाणस्य करणत्वव्यपदेशो भवति तदेव फलं नान्यत्। अर्थपरिच्छेदकत्वेन विज्ञान उत्पन्ने स्वविषयनिश्चयजनकत्वे सति समाप्तो ज्ञानस्य प्रमाणव्यापार इति। अर्थपरिच्छित्तिरेव फलं न प्रवर्तकादिकम्। अमुमेवार्थं दर्शयत्येतदुक्तमित्यादिना। प्रमाणादर्थपरिच्छित्तिनूपस्य फलस्य भिन्नत्वं दर्शयितुं प्रमाणज्ञानस्य स्वनूपं प्राग्दर्शितमपि पुनरपि दर्शयति प्रापकं ज्ञानमित्यादिना। एवं मन्यते। यस्मात्प्रापकं विज्ञानं प्रमाणमिष्टमस्माभिः तस्मात्सा च प्रापणशक्तिरथपरिच्छित्तिरेव नार्थादुत्पत्त्यादिकमिति। एतदेव दर्शयति प्रापणशक्तिरित्यादिना। कस्मादर्थाविनाभावित्वमात्रमेव प्रापणशक्तिर्न भवतीत्याह वीजादीत्यादि। यतो बीजादेः सकाशादङ्कुरस्यार्थावभासित्वोत्पत्तिरस्ति न च बीजादिकं प्रापयति खलविलान्तर्गतस्यापि बीजस्याङ्कुरोत्पादकत्वादित्यभिप्रायः। तस्मादित्यादिना  ज्ञानस्यार्थादुत्पत्तिव्यापारादन्य एव प्रमाणव्यापार इति दर्शयति। पूर्वापरयोः क्षणयोरेकत्वाध्यवसायात्प्राप्यादुत्पत्तावित्युक्तं स एवेति प्रमाणव्यापारः। यद्येवं प्रापणशक्तिः फलं तर्हि नार्थपरिच्छित्तिनूपं फलम्। प्रापकत्वादर्थपरिछित्तेरन्यत्वादित्याह उक्तं च पुरस्तादित्यादि। यदेव प्रापकं ज्ञानं तदेव प्रवर्तकमर्थप्रदर्शकं च तदेवेति पुरस्तात्संवर्णितं प्रमाणस्वनूपचिन्तायाम्। ततश्चार्थप्रदर्शकमेव प्रापकं तस्य च प्रापणशक्तिरर्थपरिच्छित्तिरेव तावता परिसमाप्तत्वात्प्रमाणव्यापारस्येति स्थितम्। प्रमाणस्य फलमर्थपरिच्छित्तिनूपमेव नान्यदिति।



 



यदि ज्ञानस्य प्रमितिनूपं फलं ज्ञानात्तर्हि प्रमाणेन भिन्नेन भवितव्यमिति मन्यमानः पृच्छति यदि तर्हीत्यादिना। अर्थसानूप्यमस्य प्रमाणमिति एतस्य विवरणं अर्थेन यत्सानूप्यमित्यादि। एवं मन्यते। अर्थसानूप्यं विज्ञानस्य प्रमाणं नेन्द्रियादिकमिति। विषयादुत्पद्यमानं विषयसदृशं भवतीति तदेव सानूप्यं सादृश्यमुक्तमिति दर्शयति इह यस्मादित्यादिना ननु चेत्यादि। एवं मन्यते परः। इन्द्रियादिकं प्रमाणमुक्तमस्माभिः तदेव किं बौद्धेनापि नेष्यते येनार्थसानूप्यं प्रमाणमिष्यते। किं चार्थसानूप्ये प्रमाणेऽङ्गीक्रियमाणे प्रमाणफलयोरैक्यान्नैकं कर्म करणं भवतीति यच्चोदितं तत्तदवस्थमेवेति।  तद्वशादित्यादि। एवं मन्यते। प्रमाणं करणं च साधकतमं कारकाणाम्। प्रकृष्टोपकारकं ज्ञानस्य सानूप्यमेव तद्वशादर्थाधिगतिसिद्धेः नेन्द्रियादिकं अर्थसानूप्याभावेऽर्थप्रतीतेरभावादिति। अमुमेवार्थं दर्शयति। अर्थस्य प्रतीतिरवबोध इत्यादिना। नीलनिर्भासं हीत्यादिना नीलाकारं नीलविज्ञानस्य नीलावगमव्यवस्थाया निमित्तं दर्शयति। यस्मान्नीलाकारे विज्ञानस्यावगते नीलप्रतीतिरवगम्यते तस्मादर्थाकारः प्रमाणं करणधर्मत्वादस्येति। ननु च चक्षुरादिभ्यो विज्ञानमुत्पद्यते विशिष्टार्थमवगच्छन्त्येव। तत्कथमर्थाकारस्य प्रकृष्टोपकारकत्वमित्याह येभ्यो हीत्यादि। तत्कथयति चक्षुरादीनामपि विज्ञानोत्पत्तौ निमित्ताभावोऽस्ति। किं तु तेषां सर्वज्ञानोत्पत्तिं प्रति निमित्तत्वान्न प्रतिनियतार्थव्यवस्थापनस्य निमित्तत्वम्। अर्थाकारस्य त्वसाधारणत्वात्प्रतिनियतार्थव्यवस्थापनं प्रति निमित्तत्वमिति। तदेव प्रमाणम्। यत्तत्परेण चोदितं प्रमाणफलयोरैक्यान्न चैकं साध्यं साधनं वा स्यादिति तत्परिहरति। न चात्र जन्यजनकेत्यादिना। स्यादयमेकस्य वस्तुनो विरोधो यद्ययं जन्यजनकभावः प्रमाणफलयोः साध्यसाधनभावः किं तर्हि व्यवस्थाप्यव्यवस्थापकभावः। कुतो ज्ञानाधिकारात्। यस्माज्ज्ञाने विशिष्ट उत्पन्ने प्रतिपत्त्रा विशिष्टोऽर्थो ज्ञाप्यते न त्यर्थ उत्पाद्यते। तथा हि नीलाकारे विज्ञान उत्पन्ने विशिष्टज्ञानं व्यवस्थापयन्ति नीलज्ञानमनुभूतमिति न ज्ञानमुत्पादयति। किंचिदित्यादिनैकस्यैव विज्ञानस्यांशांशितया व्यवस्थाप्यव्यवस्थापकत्वं दर्शयति। ननु च निर्विकल्पकं ज्ञानं विशिष्टाकारमुत्पन्नं कथं तस्य समानकाल एवांशंशितया व्यवस्थाप्यव्यवस्थापकभावो भवतीति मन्यमान पृच्छति। व्यवस्थाप्यव्यवस्थापकेत्यादिना। सदृशमित्यादि।  एवं मन्यते। न विज्ञानमेव निर्विकल्पकमात्मानं व्यवस्थापयति किंतु प्रत्यक्षपृष्ठभाविना निश्चयप्रत्ययेन व्यवस्थाप्यते। तत्र चार्थाकारस्य व्यवस्थापनहेतुत्वमसानूप्यव्यावृत्तिभेदेनार्थबोधतया व्यवस्थाप्यस्योत्पादेन वेदनस्य तु व्यवस्थाप्यत्वम्। निश्चयप्रत्ययस्तु व्यवस्थापक इति अमुमेवार्थं दर्शयति। तस्मादित्यादिना। ननु नीलज्ञानमुत्पन्नं स्वसंवेदनप्रत्यक्षसिद्धं यदि निश्चयवशात्प्रमाणव्यवस्था लभ्यते तदा युज्यते वक्तुं निश्चयप्रत्ययेन व्यवस्थाप्यत इति यावता निश्चयप्रत्ययं विनापि प्रमाणं भवत्येवेत्याह निश्चयप्रत्ययेनाव्यवस्थापितमित्यादि दर्शयति। यावत्प्रत्यक्षं स्वविषये स्वात्मनि निश्चयं नोत्पादयति न तावत्प्रमाणं भवति आत्मव्यापारानिर्वर्तनात्। ततश्चाध्यवसायं कुर्वदेव प्रमाणमिति निश्चयमपेक्षते। ननु यदि निश्चयं विना प्रमाणमेव न भवति प्रत्यक्षं विकल्पसहितं तर्हि प्रत्यक्षं प्रमाणं स्यान्न केवलं तदन्वयव्यतिरेकादिति मन्यमानश्चोदयति यद्येवमित्यादिना। नैतदेवम्। 



उं निश्चयप्रत्ययेन व्यवस्थाप्यत इति यावता निश्चयप्रत्ययं विनापि प्रमाणं भवत्येवेत्याह निश्चयप्रत्ययेनाव्यवस्थापितमित्यादि दर्शयति। यावत्प्रत्यक्षं स्वविषये स्वात्मनि निश्चयं नोत्पादयति न तावत्प्रमाणं भवति आत्मव्यापारानिर्वर्तनात्। ततश्चाध्यव्


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project