Digital Sanskrit Buddhist Canon

न्यायप्रवेशप्रवृत्तिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Nyāyapraveśapravṛttiḥ
हरिभद्रसूरिकृता


न्यायप्रवेशप्रवृत्तिः।


श्रीसर्वज्ञाय नमः॥


सम्यग्ज्ञानस्य वक्तारं प्रणिपत्य जिनेश्वरम्।

न्यायप्रवेशकव्याख्यां स्फुटार्थां रचयाम्यहम्॥



रचितामपि सत्प्रज्ञैर्विस्तरेण समासतः।

असत्प्रज्ञोऽपि संक्षिप्तरुचिः सत्त्वानुकम्पया॥



तत्र च-

साधनं दूषणं चैव साभासं परसंविदे।

प्रत्यक्षमनुमानं च साभासं त्वात्मसंविदे॥



इत्यादावेव श्लोकः। आहास्य किमादावुपन्यास इति। उच्यते। इह प्रेक्षापूर्वकारिणः प्रयोजनादिशून्ये न क्वचित्प्रवर्तन्त इत्यतोऽधिकृतशास्त्रस्य प्रयोजनादिप्रदर्शनेन प्रेक्षावतां प्रवृत्त्यर्थमिति। शास्त्रार्थकथनकालोपस्थितपरसंभाव्यमानानुपन्यासहेतुनिराकरणार्थं च न्यायप्रवेशकाख्यं शास्त्रमारभ्यते इत्युक्ते संभवत्येवंवादी परः- नारब्धव्यमिदं प्रयोजनरहितत्वात् उन्मत्तकवाक्यवत्। तथा निरभिधेयत्वात् काकदन्तपरीक्षावत्। तथा असंबद्धत्वात् दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डं सर कीटिकेत्यादिवाक्यवत्। तदमीषां हेतूनामसिद्धतोद्भावयिषया प्रयोजनादिप्रतिपादनार्थमादौ श्लोकोपन्यास। अयं चाभिधेयप्रयोजने एव दर्शयति साक्षात् संबन्धं तु सामर्थ्येन। यथा चैतदेवं तथा सुखप्रतिपत्त्यर्थमेवमेव लेशतो व्याख्याय दर्शयिष्यामः॥ व्याख्या च पदवाक्यसंगतेति। उक्तं च-



शास्रप्रकरणादीनां यथार्थावगमः कुतः।

व्याख्यां विहाय तत्त्वज्ञैः सा चोक्ता पदवाक्ययोः॥



तत्रापि पदसमुदायात्मकत्वाद्वाक्यस्यादौ पदार्थगमनिका न्याय्या।

सा च पदविभागपूर्वेत्यतः पदविभागः।

साधनम् दूषणम् च एव साभासम् परसंविदे प्रत्यक्षम् अनुमानम् च साभासम् तु आत्मसंविदे इति पदानि॥

अधुना पदार्थ उच्यते। साध्यते अनेनेति सिद्धिर्वा साधयतीति वा साधनम्। तच्च पक्षादिवचनजातम्।

वक्ष्यति च। पक्षादिवचनानि साधनम्। विषयश्चास्य धर्मविशिष्टो धर्मी।

तथा दूष्यतेऽनेन दूषयतीति वा दूषणम्।

तच्च साधनदोषोद्भावनं वचनजातमेव।

वक्ष्यति च साधनदोषोद्भावनानि दूषणानि। विषयश्चास्य साधनाभासः न सम्यक्साधनम्। तस्य दुषयितुमशक्यत्वात्।

ननु वक्ष्यति साधनदोषोद्भावनानि दूषणानीति तदेतत्कथम्। उच्यते।

साधनाभास एव किंचित्साम्येन साधनोपचाराददोषः इत्येतच्च तत्रैव निर्लोठयिष्यामः। चशब्दः समुच्चये। एवकारोऽवधारणे। स चान्ययोगव्यवच्छेदार्थ इत्येतद्दर्शयिष्यामः। तथा आभासनमाभासः। सह आभासेन वर्तते साभासम्। साभासशब्दः प्रत्येकमभिसंबध्यते।



साधनं साभासं दूषणं साभासम्। तत्र साधनाभासं पक्षाभासादि। वक्ष्यति च। साधयितुमिष्टोऽपि प्रत्यक्षादिविरुद्धः पक्षाभास इत्यादि। दूषणाभासं चाभूतसाधनदोषोद्भावनानि।



वक्ष्यति च अभूतसाधनदोषोद्भावनानि दूषणाभासानीति॥ परसंविदे इत्यत्र परे प्राश्निकाः संवेदनं संविद् अवबोध इत्यर्थः। परेषां संवित् परसंवित् तस्यै परसंविदे परावबोधाय। इयं तादर्थ्ये चतुर्थी। यथा यूपाय दारुः। इति पदार्थः॥ वाक्यर्थस्त्वयम्। साधनदूषणे एव साभासे परसंविदे परावबोधाय न प्रत्यक्षानुमाने।



परसंवित्फलत्वात्तयोः। यथा पार्थ एव धनुर्धरः पार्थे धनुर्धारयति सति कोऽन्यो धनुर्धारयति इति॥ प्रत्यक्षम् इत्यत्र अक्षमिन्द्रियं ततश्च प्रतिगतमक्षं प्रत्यक्षं कार्यत्वेनेन्द्रियं प्रति गतमित्यर्थः। इदं च वक्ष्यति प्रत्यक्षं कल्पनापोढम् इत्यादि। तथा मीयते अनेनेति मानं परिच्छेद्यत इत्यर्थः। अनुशब्दः पश्चादर्थे। पश्चान्मानं अनुमानम्।



पक्षधर्मग्रहणसंबन्धस्मरणपूर्वकमित्यर्थः। वक्ष्यति च त्रिरूपाल्लिङ्गाल्लिङ्गिनि ज्ञानमनुमानम्। चशब्दः पूर्ववत्। साभासम् इत्यादि। वक्ष्यति च कल्पनाज्ञानमर्थान्तरे प्रत्यक्षाभासम् इत्यादि। तथा हेत्वाभासपूर्वकं ज्ञानमनुमानाभासम् इत्यादि च। तु शब्दस्त्वेवकारार्थः। स चावधारण इति दर्शयिष्यामः॥ आत्मसंविदे इति। अततीत्यात्मा जीवः। संवेदनं संवित्। आत्मनः संवित् आत्मसंवित्। तस्यै आत्मसंविदे आत्मावबोधाय। आत्मा चेह चित्तचैत्तसंतानरूपः परिगृह्यते न तु परपरिकल्पितो नित्त्यत्वादिधर्मा।



तत्प्रतिपादकप्रमाणाभावात्। इति पदार्थः॥ वाक्यार्थस्त्वयम्। प्रत्यक्षानुमाने एव साभासे आत्मसंविदे आत्मावबोधाय न साधनदूषणे आत्मसंवित्फलत्वात् तयोः। आह ननु साधनमपि वस्तुतोऽनुमानमेव ततश्चानुमानमित्याद्युक्ते साधनाभिधानं न युज्यते अस्मिन्वा प्रागुक्ते अनुमानाभिधानमिति। नैष दोषः। स्वार्थपरार्थभेदनाभिधानात्। तत्र साधनं परार्थमनुमानमिदं पुनः स्वार्थम्। अपरस्त्वाह। आदौ साधनदूषणाभिधानमयुक्तं प्रत्यक्षानुमानपुरःसरत्त्वात्तत्प्रयोगस्य। उच्यते। सत्यपि तत्पुरःसरत्वे शास्त्रारम्भस्य परसंवित्प्रधानत्वात्साधनदूषणयोरपि तत्फलत्वात्प्रत्यासत्तेरादावुपन्यासः। परार्थनिबन्धनः स्वार्थ इति न्यायप्रदर्शनार्थमन्ये॥



कृतं प्रसङ्गेन। प्रकृतं प्रस्तुमः॥ इह च साधनादयोऽष्टौ पदार्थाः अभिधेयतया उक्ताः। परसंवित्त्यात्मसंवित्त्योरत्र प्रयोजनत्वेन संबन्धश्च सामर्थ्यगम्य एव। स च कार्यकारणलक्षणः। कारणं वचनरूपापन्नप्रकरणमेव। कार्यं तु प्रकरणार्थपरिज्ञानम्। तथाहीदमस्य कार्यमिति संबन्धलक्षणा षष्ठी। आह-यद्येवं परसंवित्त्यात्मसंवित्त्योः प्रकरणार्थपरिज्ञानेन व्यवहितत्वादप्रयोजनत्वमिति। न। व्यवहितस्यैव विवक्षितत्वात्। किमर्थं व्यवहितमेव विवक्षितमिति। उच्यते। उत्तरोत्तरप्रयोजनानां प्राधान्यख्यापनार्थम्। तथा चेहानुत्तरप्रयोजनं परमगतिप्राप्तिरेव। तथा चोक्तम्।



सम्यङ्न्यायपरिज्ञानाद्धेयोपादेयवेदिनः।

उपादेयमुपादाय गच्छन्ति परमां गतिम्॥



आह-यद्येवमिहानुत्तरमेवेदं कस्मान्नोपन्यस्तमिति। उच्यते। अव्युत्पन्नं विनेयगणमधिकृत्य तत्प्रथमतयैव तस्याप्रयोजकत्वात्॥ अपरस्त्वाह। इदमिह श्रोतणां प्रयोजनमुक्तं कर्तुस्तर्हि किं प्रयोजनमिति वाच्यम्। उच्यते। तस्याप्यनन्तरपरभेदभिन्नमिदमेव। अनन्तरं तावत्सत्त्वानुग्रहः। परंपरं तु परमगतिप्राप्तिरेव। तथा चोक्तम्।



सम्यङ्न्यायोपदेशेन यः सत्त्वानामनुग्रहम्।

करोति न्यायबाह्यानां स प्राप्नोत्यचिराच्छिवम्॥



अलं विस्तरेण॥



इति शास्त्रसंग्रहः। इतिशब्दः परिसमाप्तिवाचकः। एतावानेव। शिष्यतेऽनेन तत्त्वमिति शास्त्रमधिकृतमेव; अर्य(र्थ्य)त इत्यर्थः। शास्त्रस्यार्थः शास्त्रार्थः। तस्य सग्रहः शास्त्रार्थसंग्रहः। संग्रहणं संग्रहः। एतावानेवाधिकृतशास्त्रार्थसंक्षेप इत्यर्थः। शास्त्रतो चास्याल्पग्रन्थस्यापि विश्वव्यापकन्यायानुशासनादिति वृद्धवादः॥



तत्र यथोद्देशस्तथा निर्देश इति कृत्वा साधनस्वरूपावधारणायाह॥ तत्र पक्षादिवचनानि साधनम्। तत्रशब्दो निर्धारणार्थः। तत्र तेषु साधनादिषु साधनं तावन्निर्धार्यते इति। निर्धारणं च जातिगुणक्रियानिमित्तमिति। अत्र गुणनिमित्तं साधनत्वेन गुणेन निर्धार्यते इति। गोमण्डलादिव गौः क्षीरसंपन्नत्वेन गुणेन॥ पच्यते इति पक्षः। पच व्यक्तीकरणे। पच्यते व्यक्तीक्रियते योऽर्थः स पक्षः। साध्य इत्यर्थः। स च धर्मविशिष्टो धर्मी। पक्ष आदिर्येषां ते पक्षादयः। अयं बहुब्रीहिः समासः।



अयं च तद्गुणसंविज्ञानश्च भवति। तत्र तद्गुणसंविज्ञानो यथा लम्बकर्ण इत्यादि। लम्बौ कर्णौ यस्यासौ लम्बकर्णः। लम्बकर्णत्वं च तस्यैव गुण इत्यर्थः। अतद्गुणसंविज्ञानो यथा पर्वतादिकं क्षेत्रमित्यादि। पर्वत आदिर्यस्य तत्पर्वतादिकं क्षेत्रम्। न पर्वतः क्षेत्रगुणः। किं तर्हि। उपलक्षणमात्रमिति भावना।



अयमिह तद्गुणसंविज्ञानो बहुव्रीहिर्वेदितव्यः। यथा पर्वतादिकं क्षेत्रं नद्यादिकं वनमिति। न पुनर्यथा लम्बकर्णः ब्राह्मणादयो वर्णा इति। पक्षादिवचनानि साधनमित्यादिशब्द उपलक्षणार्थः। अस्य चायमर्थः। आदीयतेऽस्मादित्यादिः यथा पर्वतादिकं क्षेत्रमित्यादौ। न पुनरादीयते इत्यादिः यथा ब्राह्मणादयो वर्णा इत्यदाविति। ततः सुस्थितमिदं पक्षः आदिर्येषां ते पक्षादयः॥ ते च पक्षोपलक्षिता हेतुदृष्टान्ताः। तेषां वचनान्युक्तयः॥ किं साधनमिति।



इह च यदा साध्यतेऽनेनेति साधनं करणाभिधानार्थः साधनशब्दस्तदा पक्षोपलक्षितानि हेतुत्वादिवचनानि साधनम्। यतस्तैः करणभूतैर्विवक्षितोऽर्थः परसंताने प्रतिपाद्यते। यदा पुनर्भावसाधनः सिद्धिः साधनमिति तदा पक्षादिवचनजन्यं प्रतिपाद्यगतं ज्ञानमेव साधनम्। तत्फलत्वात्पक्षादिवचनानाम्। कार्ये कारणोपचारात्। यथेदं मे शरीरं पौराणां कर्मेति। यदा तु कर्तृसाधनः साधयतीति साधनं तदा पक्षादिवचनान्येव कर्तृत्वेन विवक्ष्यन्ते प्रतिपाद्यसंताने ज्ञानोत्पादकत्वात् इति। तदेवं पक्षादिवचनानि साधनम्। तद्यथा वृक्षा वनं हस्त्यादयः सेना। आह। एकवचननिर्देशः किमर्थमुच्यते। समुदितानामेव पक्षादिवचनानां साधनत्वख्यापनार्थम्। उक्तं च दिङ्नागाचार्येण साधनमिति चैकवचननिर्देशः समस्तसाधनत्वख्यापनार्थः। इत्यलं विस्तरेण॥



एवं तावत्सामान्येन साधनमुक्तम्। इदं च न ज्ञायते किं कारकमुत व्यञ्जकम्। साधनस्य द्वैविध्यदर्शनात्। तत्र कारकं वीजाद्यङ्कुरादेः। व्यञ्जकं प्रदीपादि तमसि घटादीनाम्। अतो व्यञ्जकत्वप्रतिपादनायाह। पक्षहेतुदृष्टान्तवचनैर्हि प्राश्निकानामप्रतीतोऽर्थः प्रतिपाद्यते इति॥ अस्य गमनिका। पच्यते इति पक्षः। हिनोतीति हेतुः। हि गतौ। सर्वे गत्यर्थाः ज्ञानार्थाः। तथा दृष्टमर्थमन्तं नयतीति दृष्टान्तः। स च द्विधा साधर्म्येवैधर्म्यभेदात्। ततश्चैवं समासः। दृष्टान्तश्च दृष्टान्तश्च दृष्टान्तौ। हेतुश्च दृष्टान्तौ च हेतुदृष्टान्ताः। पक्षस्य हेतुदृष्टान्ताः पक्षहेतुदृष्टान्ताः। तेषां वचनानि पक्षहेतुदृष्टान्तवचनानि। तैः पक्षहेतुदृष्टान्तवचनैः। हिशब्दो यस्मादर्थे। प्रश्नेनियुक्ताः प्राश्निका विद्वांसः। स्वसमयपरसमयवेदिनः। उक्तं च-



स्वसमयपरसमयज्ञाः कुलजाः पक्षद्वयस्थिताः क्षमिणः।

वादपथेष्वभियुक्तास्तुलासमाः प्राश्निकाः प्रोक्ताः॥



तेषां प्राश्निकानामप्रतीतोऽनवगतोऽनवबुद्धोऽर्थः प्रतिपाद्यते। आह। ये यथोक्ताः प्राश्निकाः कथं तेषां कश्चिदप्रतीतोऽर्थ इति। उच्यते। न तत्परिज्ञानमङ्गीकृत्याप्रतीतः। किंतु वादिप्रतिवादिपक्षपरिग्रहसमर्थनासहस्तदन्तर्गत इत्यतोऽप्रतीतोऽर्थः प्रतिपाद्यते। ननु चात्र चातुर्थ्या क्रियया चेति वक्तव्यलक्षणया भवितव्यं तत्किमर्थ षष्ठ्यत्रोच्यते। कारकाणामविवक्षा शेष इति शेषलक्षणा षष्ठी। केषां प्रतिपाद्यते। सामर्थ्याद्येषामप्रतीतः अन्येषामश्रुतत्वात्तेषामेव प्रतिपाद्यते।



इतिशब्दस्तस्मादर्थे। यस्मादेवं तस्माद्व्यञ्जकमिदं साधनमप्रतीतार्थप्रतिपादकत्वात् प्रदीपवत्। व्यतिरेके बीजादि॥ तत्र पक्षादिवचनानि साधनम् इत्युक्तम्॥ अधुना यथोद्देशं निर्देश इतिन्यायमाश्रित्य पक्षलक्षणप्रतिपादनायाह। तत्र पक्षः प्रसिद्धो धर्मी। अस्य गमनिका। तत्रशब्दो निर्धारणार्थः। निर्धारणं च प्रसिद्धधर्मित्वादिगुणतोऽवसेयमिति। पक्ष इति लक्ष्यनिर्देशः। धर्मीति। धर्माः कृतकत्वादयस्तेऽस्य विद्यन्ते इति धर्मी शब्दादिः। कथं प्रसिद्ध इत्यत आह। प्रसिद्धविशेषणविशिष्टतया स्वयं साध्यत्वेनेप्सितः। तत्र प्रसिद्धं वादिप्रतिवादिभ्यां प्रमाणबलेन प्रतिपन्नम्। विशिष्यतेऽनेनेति विशेषणम्। तेन विशिष्टः प्रसिद्धविशेषणविशिष्टः।



तद्भावः प्रसिद्धविशेषणविशिष्टतता। तया प्रसिद्धविशेषणविशिष्टतया हेतुभूतया प्रसिद्धः। अत्राह। इह धर्मिणस्तावत्प्रसिद्धता युक्ता विशेषणस्य त्वनित्यत्वादेर्न युज्यते। साध्यत्वात्। अन्यथा विवादाभावेन साधनप्रयोगानुपपत्तेः। नैतदेवम्। सम्यगर्थानवबोधात्। इह प्रसिद्धता विशेषणस्य न तस्मिन्नेव धर्मिणि समाश्रीयते किंतु धर्म्यन्तरे घटादौ। ततश्च यथोक्तदोषानुपपत्तिः। तथा स्वयमित्यनेनाभ्युपगमसिद्धान्तपरिग्रहः॥ साध्यत्वेनेप्सित इति। साधनीयः साधयितव्यः साधनमर्हतीति वा साध्यः। तस्य भावः साध्यत्वम। तेन साध्यत्वेन। ईप्सितः अभिमतः इष्ट इच्छाया व्याप्त इत्यर्थः। इह च विशेषणस्य व्यवच्छेदकत्वात्प्रसिद्धो धर्मीत्यनेनाप्रसिद्धविशेषणस्य पक्षाभासस्य व्यवच्छेदो द्रष्टव्यः। प्रसिद्धविशेपणविशिष्टयेत्यनेन त्वप्रसिद्धविशेषणस्य उभयेन चाप्रसिद्धोभयस्य स्वयमित्यनेन चाभ्युपगमसिद्धान्तपरिग्रहेण सर्वतन्त्रप्रतितन्त्राधिकरणसिद्धान्तानां व्यवच्छेदो द्रष्टव्यः। इह तु शस्त्रनिरपेक्षवादिनोर्लोकप्रसिद्धयोर्धर्मधर्मिणोः परिग्रहवचनमभ्युपगमसिद्धान्तस्तं स्वयमित्यनेनाह। ततश्चयदपि स्वयमिति वादिना यस्तदा साधनमाह। एतेन यद्यपि क्वचिच्छास्त्रे स्थ्तिः साधनमाह तच्छास्त्रकारेण तस्मिन्धर्मिण्यनेकधर्माभ्युपगमेऽपि यस्तदाऽनेन वादिना धर्मः साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवतीति यदुक्तं वादिमुख्येन तदपि संगतमेव। साध्यत्वेनेति साध्यत्वेनैव न साधनत्वेनापि। अनेन च साध्यहेतुदृष्टान्ताभासानां पक्षत्वव्युदासः। ईप्सित इत्यनेन च नोक्तमात्रस्यैवेत्युक्तं भवति। इच्छयाऽपि व्याप्तः पक्षः। इत्येतच्च परार्थाश्चक्षुरादय इत्यत्र दर्शयिष्यामः। इत्यनेन धर्मविशिष्टो धर्मी पक्ष इत्यावेदितं भवति। ततश्च न धर्ममात्रं न धर्मी केवलः न स्वतन्त्रमुभयं न च तयोः संबन्धः किंतु धर्मधर्मिणोर्विशेषणविशेष्यभाव इति भावार्थः॥



इह चोक्तलक्षणयोगे सत्यप्यश्रावणः शब्द इत्येवमादीनामपि प्रत्यक्षाविरुद्धानां पक्षत्वप्राप्त्यातिव्याप्तिर्नाम लक्षणदोषः प्राप्नोतीत्यस्तन्निवृत्त्यर्थमाह। प्रत्यक्षाद्यविरुद्ध इति वाक्यशेषः। प्रत्यक्षादिभिरविरुद्धः। आदिशब्दादनुक्तानुमानादिपरिग्रहः। इत्ययं वाक्यशेषो वाक्याध्याहारो द्रष्टव्य इति। उदाहरणोपदर्शनायाह तद्यथा। अनित्यः शब्दो नित्यो वेति। तद्यथेत्युदाहरणोपन्यासार्थम्। तत्र बौद्धादेरनित्यः शब्दो वैयाकरणादेर्नित्य इति। उक्त सोदाहरणः पक्षः।



सांप्रतं हेतुमभिधित्सुराह हेतुस्त्रिरूपः। तत्र हिनोति गमयति जिज्ञासितधर्मविशिष्टानर्थानिति हेतुः। स च त्रिरूपः। त्रीणि रूपाणि यस्यासौ त्रिरूपः त्रिस्वभाव इत्यर्थः। एकस्य वस्तुनो नानात्वमपश्यन् पृच्छक आह किं पुनस्त्रिरूप्यम्। किमिति परिप्रश्ने। पुनरिति वितर्के। त्रिरूपस्य भावस्त्रैरूप्यम्। एवं पृच्छकेन पृष्टः सन्नाहाचार्यः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्त्वमेव। अस्य गमनिका। उक्तलक्षणः पक्षतस्य धर्मः पक्षधर्मस्तद्भावः पक्षधर्मत्वम्। पक्षशब्देन चात्र केवलो धर्म्येवऽभिधीयते। अवयवे समुदायोपचारात्। इदमेकं रूपम्। तथा सपक्षे सत्त्वम्। सपक्षो वक्ष्यमाणलक्षणः। तस्मिन्सत्त्वमस्तित्वं सामान्येन भाव इत्यर्थः। इदं द्वितीयं रूपम्। तथा विपक्षे चासत्त्वमिति तृतीयं रूपम्। विपक्षो वक्ष्यमाणलक्षणस्तस्मिन्पुनरसत्त्वमेवाविद्यमानतैव। चशब्दः पुनःशब्दार्थः। स च विशेषार्थ इति दर्शितमेव। आह इहैवावधारणेऽभिधानं किमर्थम्। उच्यते। अत्रैवैकान्तासत्त्वप्रतिपादनार्थम्।



सपक्षे त्वेकदेशेऽपि सत्त्वमदुष्टमेवेति। तथा च सत्येकान्ततो विपक्षव्यावृत्ताः सपक्षैकदेशव्यापिनोऽपि प्रयत्नानन्तरीयकत्वादयः सम्यग्घेतव एवेत्यावेदितं भवति॥ सपक्षे सत्त्वमित्यादि यदुक्तं तत्र सपक्षविपक्षयोः स्वरूपमजानानो विनेयः पृच्छति। कः पुनः सपक्षः को वा विपक्ष इति। अयं तु प्रश्नो निगदसिद्ध एव। निर्वचनं त्विदं साध्यधर्मेत्यादि। अस्य गमनिका। इहोपचारवृत्त्या धर्मे साध्यत्वमधिकृत्योच्यते। साध्यश्चासौ धर्मश्च साध्यधर्मः। अनित्यत्वादिः। समानः सदृशस्तस्य भावः सामान्यं तुल्यता। साध्यधर्मस्य साध्यधर्मेण वा सामान्यं साध्यधर्मसामान्यम्। तेन समानोऽर्थः सपक्ष इति। समं तुल्यं मानमस्येति समानः। तुल्यमानपरिच्छेद्य इति भावना। अर्थो घटादिः। न तु वचनमात्रम्। समानः पक्षं सपक्ष इति। अथवा उपचारवृत्त्या धर्मिणि साध्यत्वमधिक्रियते।



ततश्च। साध्यस्य धर्मः साध्यधर्मः। शेषं पूर्ववत्। अनुपचरितं तु साध्यम्। धर्मविशिष्टो धर्मीति भावार्थः॥ सांप्रतं सपक्षस्यैव उदाहरणमुपदर्शयन्नाह। तद्यथा अनित्ये शब्दे साध्ये इत्यादि। तद्यथेत्युदाहरणोपन्यासार्थः। अनित्ये शब्दे साध्ये किम् ?। घटादिरनित्यः पदार्थसंघातः सपक्षः। साध्यानित्यात्वसमानत्वात्॥ अधुना विपलक्षणप्रतिपादनायाह। विपक्षो यत्र साध्यं नास्ति। विसदृशः पक्षो विपक्षः। स कीदृगिति स्वरूपतो दर्शयति। यत्र यस्मिन्नर्थे। साधनीयं साध्यम्। नास्ति न विद्यते। इह च साध्यप्रतिबन्धत्वात् साधनस्य तदपि नास्तीति गम्यते। उदाहरणं दर्शयति। यथा यन्नित्यमित्यादि। तत्र यन्नित्यमिति किमुक्तं भवति ?। यदनित्यं न भवति तदकृतकं दृष्टमिति। तत्कृतकमपि न दृष्टम् यथाकाशमिति। तत्र हि साध्यभावात् साधनाभावः। सांप्रतं विचित्रत्वादवधारणविधेः विपक्षधर्मत्वादिषु तमुपदर्शयन्नाह। तत्र कृतकत्वमित्यादि। तत्रेति पूर्ववत्। कृतकत्वं प्रयत्नानन्तरीयकत्वं वा अनित्यादौ हेतुरिति योगः। तत्र क्रियते इति कृतकः। अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति। तद्भावः कृतकत्वम्। प्रयत्नान्तरीयकत्वं वा इति। प्रयत्नश्चेतनावतो व्यापारः। तस्य प्रयत्नानन्तरं तत्र भावो जात इति वा प्रयत्नानन्तरीयः। स एव प्रयत्नानन्तरीयकः। तद्भावः प्रयत्नानन्तरीयकत्वम्।



वाशब्दः चशब्दार्थः। स च समुच्चये। द्वितीयहेत्वभिधानं विपक्षव्यावृत्तः। सपक्षैकदेशवृत्तिरपि सम्यग्घेतुर्यथा। यमेवेति दर्शनार्थत्वाददुष्टमिति। अयं च हेतुः किं पक्षधर्म एव न तु पक्षस्यैव धर्मः। अयोगव्यवच्छेदमात्रफलत्वादवधारणस्य। यथा चैत्रो धनुर्धर एव। अनेन चासिद्धानां चतुर्णामसाधारणस्य च व्यावृत्तिः। तथा सफल एवास्त्वन्ययोगव्यवच्छेदः यथा पार्थ एव धनुर्धरः। अनेन तु साधारणादीनां नवानामपि हेत्वाभासानां व्यावृत्तिः। आह। यदि सपक्ष एवास्ति ततश्च तद्व्यतिरेकेणान्यत्र पक्षेऽप्यभावात् धर्मत्वानुपपत्तिः। न अनवधृतावधारणात्। पक्षधर्मत्वस्यावधारित्वात्। आह। यद्येवं विपक्षे नास्ति एवेति तृतीयमवधारणं किमर्थम् ?। उच्यते। प्रयोगोपदर्शनार्थम्। उक्तं च। अन्वयव्यतिरेकयोरेकमपि रूपमुक्तं कथं नु नाम द्वितीयस्याक्षेपकं स्यादिति। प्रभूतमत्र वक्तव्यं तत्तु नोच्यते। ग्रन्थविस्तरभयात्। गमनिकामात्नमेतत्। अनित्यादौ हेतुरित्यत्रादिग्रहणात् दुःखादिपरिग्रहः। इत्युक्तो हेतुः॥ सांप्रतं दृष्टान्तमभिधित्सुराह। दृष्टान्त इत्यादि। दृष्टं तत्रार्थं अन्तं नयतीति दृष्टान्तः। प्रमाणोपलब्धमेव विप्रतिपत्तौ संवेदननिष्ठां नयतीत्यर्थः। स च द्विविधः। द्वे विधे यस्य स द्विविधस्तदेव द्वैविध्यम्। दर्शयति साधर्म्येण वैधर्म्येण च। समानो धर्मो यस्यासौ सधर्मा सधर्मणो भावः साधर्म्यं तेन। विसदृशो धर्मो यस्यासौ विधर्मा विधर्मणो भावः वैधर्म्यं तेन। चशब्दः समुच्चये। तत्र साधर्म्येण तावदिति। तावच्छब्दः क्रमार्थः। यत्रेति। अभिधेयहेतोरुक्तलक्षणस्य सपक्ष एवास्तित्वं ख्याप्यते। सपक्ष उक्तलक्षणस्तस्मिंश्चास्तित्वं विद्यमानत्वं ख्याप्यते प्रतिपाद्यते वचनेन। तच्चेदम्। यत्कृतकं तदनित्यं यथा घटादिः इति सुगमम्। अनेन साधनदृष्टान्ताभासः। वैधर्म्येणापि। यत्र साध्याभावे हेतोरभाव एव कथ्यते। यत्रेत्यभिधेये। साध्यं अनित्यत्वादि तस्याभावे हेतोः कृतकत्वादेः। किम् ?। अभाव एव कथ्यते प्रतिपाद्यते वचनेन। तच्चेदमुदाहरणं दर्शयति। यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति सुगमम्। आह। न सौगतानां नित्यं नाम किंचिदस्ति। तदभावात् कथं वैधर्म्यदृष्टान्त इत्युच्यते ?। नित्यशब्देनात्रनित्यत्वस्याभाव उच्यते। अत्रेति प्रयोगे दृष्टान्तवाक्ये वा। किं नित्यशब्देन अनित्यस्वस्याभाव उच्यते ?। अनित्यो न भवतीति नित्यः। अकृतकशब्देनापि कृतकत्वस्याभावः उच्यते। इति च वर्तते। कृतकौ न भवतीत्यकृतकः। न तु वस्तु सन्नित्यमकृतकं वास्ति। अत्रैवोदाहरणमाह। यथा भावाभावोऽभावः। यथेत्यौपम्ये। भावः सत्ता तस्याभावो भावाभावः। असावभाव उच्यते। न तु भावादन्योऽभावो नाम वस्तुस्वरूपोऽस्ति एवं नित्यशब्देनात्रेत्यादि दार्ष्टान्तिकेऽपि भावितमेव॥ उक्ताः पक्षादयः॥



सह पक्षेण विषयभूतेन हेतुदृष्टान्ता इत्यर्थः। एषां वचनानि। एषामिति पक्षोपलक्षितानां हेतुदृष्टान्तानाम्। वचनानि ये वाचकाः शब्दाः। किम् ?। परप्रत्यायनकाले प्रास्निकप्रत्यायनकाले साधनम्। यथा प्रयोगतो दर्शयति। यथा अनित्यः शब्दः इति पक्षवचनम्। कृतकत्वादिति पक्षधर्मवचनम्। यत् कृतकं तदनित्यं दृष्टं यथा घटादिरिति सपक्षानुगमवचनम्। यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति व्यतिरेकवचनम्। इति निगदसिद्धम्। यावत् एतान्येव त्रयोऽवयवा इत्युच्यन्ते। एतान्येव पक्षहेतुदृष्टान्तानां वचनानि। त्रय इति संख्या। अवयवा इत्युच्यन्ते। पूर्वाचार्याणां संज्ञान्तरमेतत्। यथोक्तं साधनमवयवाः॥



उक्तं साधनम्। अधुना तदाभास उच्यते। तत्रापि पक्षादिवचनानि साधनमिति पक्षस्योपलक्षणत्वात्प्रथमं पक्ष उक्तः। इहापि पक्षाभास एवोच्यते साधयितुमित्यदि। साधयितुमिष्टोऽपि पक्षादिविरुद्धः पक्षाभासः। सिसाधयिषया वाञ्छितः अपिशब्दात्प्रसिद्धो धर्मीत्यादि तदन्यलक्षणयुक्तोऽपि। किम् ?। प्रत्यक्षादिविरुद्धः। विरुध्यते स विरुद्धः। प्रत्यक्षादयो वक्ष्यमाणलक्षणास्तैर्विरुद्धो निराकृतः प्रत्यक्षादिविरुद्धः। किम् ?। पक्षाभासः। तस्यात्रोक्तलक्षणः पक्षः आभासनमाभासः आकारमात्रम्। पक्षस्येवाभासो यस्यासौ पक्षाभासः पक्षाकारमात्रम्। न तु सम्यक् पक्ष इत्यर्थः। तद्यथेत्युदाहरणोपन्यासार्थः। प्रत्यक्षविरुद्ध इत्यादि। प्रत्यक्षं वक्ष्यमाणलक्षणम्। इह पुनः प्रत्यक्षशब्देन तत्परिच्छिन्नो धर्मः परिगृह्यते शालिकुडवन्यायात्। ततश्च प्रसिद्धर्मधर्मशब्दलोपात् प्रत्यक्षप्रसिद्धधर्मविरुद्धः प्रत्यक्षविरुद्धः। एवमनुमानविरुद्धः आगमलोकस्ववचनविरुद्धाश्चेति भावनीयमिति।



अप्रसिद्धिविशेषणादिशब्दार्थमुदाहरणनिरुपणायामेव वक्ष्यामः। सांप्रतमुदाहरणानि दर्शयति। तत्र प्रत्यक्षविरुद्धः इत्युद्देशः। यथा अश्रावणः शब्दः इत्युदाहरणम्। अत्र शब्दो धर्मी। अश्रावणत्वं साध्यधर्मः। अयं च साध्यमानस्तत्रैव धर्मिणि प्रत्यक्षप्रसिद्धेन श्रावणत्वेन विरुध्यते इति प्रत्यक्षविरुद्धः। आह। श्रावणत्वं सामान्यलक्षणत्वात्प्रत्यक्षगम्यमेव न भवति कथं प्रत्यक्षप्रसिद्धधर्मविरुद्धः ? इति। अत्रोच्यते। भावप्रत्ययेन स्वरूपमात्राभिधानात्सामान्यलक्षणत्वानुपपत्तेरदोष इति। अत्र च बहु वक्तव्यं तत्तु नोच्यते। अक्षरगमनिकामाफलत्वात्प्रयासस्य॥ अनुमानविरुद्धो यथा। नित्यो घट इति। अत्र घटो धर्मी। नित्यत्वं साध्यधर्मः। स चानुमानप्रसिद्धेनानित्यत्वेन तत्रैव धर्मिणि बाध्यते। अनुमानं चेदम्। अनित्यो घटः कारणाधीनात्मलाभत्वात् प्रदिपवत्॥ आगमविरुद्धो यथा। वैशेषिकस्य नित्यः शब्द इति साधयतः। वैशेषिकोऽहमित्येवं पक्षपरिग्रहं कृत्वा यदा शब्दस्य नित्यत्वं प्रतिजानिते तदागमविरूद्धः। यतस्तस्यागमे शब्दस्यानित्यत्वं प्रसिद्धम्। उक्तं च बुद्धिमत्पूर्वा वाक्यकृतिर्वेदे तद्वचनादाम्नायस्य प्रामाण्यमित्यादि॥ लोकविरुद्धो यथा। शुचि नरशिरःकपालं प्राण्यङ्गत्वात् शङ्खशुक्तिवत् इति। अत्र नरशिरःकपालं धर्मित्वेनोपादयिते। शुचित्वं साध्यधर्मः। स च साध्यमानस्तत्रैव धर्मिणि लोकप्रसिद्धशुचित्वेन निराक्रियत इति। आह। इह हेतुदृष्टान्तोपादानं किमर्थमुच्यते ?। लोकस्थितेर्बलीयस्त्वख्यापनार्थम्। नानुमानेनापि लोकप्रसिद्धिर्बाध्यत इत्यर्थः॥ स्ववचनविरुद्धो यथा। माता मे वन्ध्या इति। इह च माता साध्यधर्मित्वेनोपात्ता। वन्ध्येति च साध्यधर्मः। स च साध्यमानस्तत्रैव धर्मिणि स्ववचनप्रसिद्धेन मातृत्वेन विरुद्ध्यते। विरोधश्च मातृशब्देन प्रसवधर्मिणी वनितोच्यते वन्ध्याशब्देन तद्विपरीता। ततश्च यदि माता कथं वन्ध्या ? वन्ध्या चेत्कथं मातेति ?॥ तथा अप्रसिद्धविशेषणो यथा। बौद्धस्य सांख्यं प्रति विनाशी शब्दे इति। न प्रसिद्धमप्रसिद्धम्। विशिष्यते अनेनेति विशेषणं साध्यधर्मलक्षणम्। ततश्चाप्रसिद्धं विशेषणं यस्मिन् स तथाविधः। एवं शेषेप्यक्षरगमनिका कार्येति। अत्र च शब्द इति निर्देशः। विनाशीति साध्यधर्मः। अयं च बौद्धस्य सांख्यं प्रति अप्रसिद्धिविशेषणः। न हि तस्य सिद्धान्ते किंचिद्विनश्वरमस्ति। यत उक्तम्-तदेतत्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात्। अपेतमप्यस्ति विनाशप्रतिषेधादित्यादि [यागसूत्र-३, १३ व्यासभाष्य]। आह। यद्येवं न कश्चित्पक्षाभासो नामास्ति। तथाहि-विप्रतिपत्तौ इष्टार्थसिद्ध्येऽनुमानप्रयोगः। विप्रतिपत्तिरेव चैतद्दोषकर्त्रीति कृतोऽनुमानम्। अत्रोच्यते। न विप्रतिपत्तिमात्रं तद्दोषकर्तृ युक्तिविरुद्धत्वात्। तथाहि-उपपत्तिभिर्दृष्टान्तसाधने कृतेऽनुमानप्रयोगः इष्टार्थसिद्धये भवति। नान्यथा। पुनः साधनापेक्षत्वात्। अतो दृष्टान्तं प्रसाध्य प्रयोगः कर्तव्य इति। अप्रसाधिते तु पक्षाभासः। इति कृत प्रसङ्गेन॥ तथा अप्रसिद्धविशेष्यो यथा सांख्यस्य बौद्धं प्रति चेतन आत्मेति। तत्र विशेष्यो धर्मीत्यनर्थान्तरम्। इह चात्मा धर्मी। चेतनत्वं साध्यधर्मः। इति पक्षः सांख्यस्य बौद्धं प्रति अप्रसिद्धविशेष्यः। आत्मनोऽप्रसिद्धत्वात्। सर्वे धर्मा निरात्मान इत्यभ्युपगमात्। आक्षेपपरिहारौ पूर्ववत्॥ तथा अप्रसिद्धोभयो यथा। वैशेषिकस्य बौद्धं प्रति सुखादिसमवायिकारणमात्मा इति। उभयं धर्मधर्मिणौ। तत्रात्मा धर्मी। सुखादिसमवायिकारणत्वं साध्यधर्मः। वैशेषिकस्य हि कारणत्रयात्कार्यं भवति। तद्यथा-समवायिकारणात् असमवायिकारणात् निमित्तकारणाच्च। तथाहि-तन्तवः पटस्य समचायिकारणं तन्तुसंयोगोऽसमवायिकारणं तुरीवेमादयस्तु निमित्तकारणम्। इत्थमात्मा सुखदुःखेच्छादीनां समवायिकारणम्। आत्ममनःसंयोगोऽसमवायिकारणम्। स्रक्चन्दनादयो निमित्तकारणम्। इत्येवं वैशेषिकस्य बौद्धं प्रति अप्रसिद्धोभयः। न तस्यात्मा विशेष्यः सिद्धो नापि समवायिकारणं विशेषणम्। सामग्र्या एव जनकत्वाभ्युपगमात्।



आक्षेपपरिहारौ पूर्ववत्॥ तथा प्रसिद्धसंबन्धो यथा श्रावणः शब्द इति। प्रसिद्धो वादिप्रतिवादिनोरविप्रतिपत्त्या स्थितः संबन्धो धर्मधर्मिलक्षणो यस्मिन् स तथाविधः। इह शब्दो धर्मी श्रावणत्वं साध्यधर्मः। उभयं चैतत् वादिप्रतिवादिनोः प्रसिद्धम्। एषां वचनानि इत्यादि। एषामिति नवानामपि परमार्शः। वचनानि। प्रतिज्ञादोषा इति संबन्धः कारणमाह। धर्मस्वरूपनिराकरणमुखेन पञ्चानामाद्यानाम्। स्वं च तद्रूपं च स्वरूपमित्यर्थः। निराक्रियतेऽनेनेति निराकरोतीति वा निराकरणम्। प्रतिषेधनमित्यर्थः। धर्मस्वरूपस्य निराकरणं तत्तथा मुखमिव मुखं द्वारमिति भावः। धर्मस्वरूपनिराकरणमेव मुखं तेन धर्मस्वरूपनिराकरणमुखेन धर्मयाथात्म्यप्रतिषेधद्वारेणेत्यर्थः। प्रतिषिध्यते चाश्रावणः शब्दः। इत्येवमादिषु पञ्चसु प्रत्यक्षादिप्रसिद्धं धर्मयाथात्म्यमिति भावना। तथा प्रतिपादनासंभवतस्त्रयाणाम्। तत्र प्रतिपाद्यतेऽनेन प्रतिपादयतीति वा प्रतिपादनम्। परमप्रत्यायनमिति हृदयम्। तस्यासंभवः प्रतिपादनासंभवः तस्मात् प्रतिपादनासंभवतः। न च दृष्टान्ताद्यप्रतिपत्तौ प्रतिपादनं संभवति। तथा साधनवैफल्यतश्चैकस्य। विफलस्य भावो वैफल्यं साधनस्य वैफल्यं साधनवैफल्यं तस्मात्साधनवैफल्यतः। च समुच्चये। ततश्च एषां वचनानि। प्रतिज्ञादोषाः। प्रतिज्ञापक्ष इत्यनर्थान्तरम्। दोषाभास इति च तुल्यम्। इत्यभिहिताः पक्षाभासाः॥



सांप्रतं हेत्वाभासानभिधित्सुराह। असिद्धानैकान्तिकविरुद्धा हेत्वाभासाः। असिद्धश्च अनैकान्तिकश्च विरुद्धश्च असिद्धानैकान्तिकविरुद्धाः। हेतुवदाभासन्ते इति हेत्वाभासाः। यथोद्देशं निर्देश इति न्यायमङ्गीकृत्यासिद्धप्रतिपिपादयिषयाह। तत्रासिद्धश्चतुःप्रकारः। तत्र एषु असिद्धादिषु। असिद्धः सिध्यति स सिद्धः प्रतीतः न सिद्धः असिद्धः अप्रतीतः। चतुःप्रकारश्चतुर्भेदः। प्रकारान्दर्शयति। तद्यथा। उभयासिद्ध इत्यादि। तद्यथेति पूर्ववत्। उभयोर्वादिप्रतिवादिनोः असिद्ध उभयासिद्धः॥ अन्यतरस्य वादिनः प्रतिवादिनो वा असिद्ध अन्यतरासिद्धः॥ संदिह्यते स संदिग्धः। संदिग्धत्वादेवासिद्धः संदिग्धसिद्धः॥ आश्रयो धर्मी सोऽसिद्धो यस्यासौ आश्रयासिद्धः। च समुच्चये। इतिशब्दः परिसमाप्त्यर्थः॥ इदानीमुदाहरणान्याह। तत्र शब्दानित्यत्वे इत्यादि। तत्रेति पूर्ववत्। शब्दानित्यत्वे साध्ये अनित्यः शब्दः इत्येतस्मिन् चाक्षुषत्वादिति।



चक्षुरिन्द्रियग्राह्यश्चाक्षुषस्तद्भावश्चाक्षुषत्वम्। तस्मादित्ययं हेतुरुभयासिद्धः। तथाहि-चाक्षुषत्वं न वादिनः प्रसिद्धं नापि प्रतिवादिनः। श्रोत्रेन्द्रियग्राह्यत्वाच्छब्दस्य॥ कृतकत्वादिति शब्दाभिव्यक्तिवादिनं प्रति अन्यतरासिद्धः। शब्दनित्यत्वे साध्ये इति। वर्तते कृतकत्वादित्ययं हेतुः शब्दाभिव्यक्तिवादिनं मीमांसकं कापिलं वा प्रत्यन्यतरासिद्धः। तथाहि-न तस्य ताल्वोष्ठपुटादिभिः क्रियते शब्दः किंत्वभिव्यज्यत इति॥ तथा बाष्पादिभावेनेत्यादि। बाष्पो जलादिप्रभवः स आदिर्यस्य रेणुवर्त्यादेः स बाष्पादिस्तस्य भावः सत्ता तेन बाष्पादिभावेन। संदिह्यमानः किमयं धूम उत बाष्प उत रेणुवर्तिरिति संदेहमापद्यमानः। भूतसंघातः सूक्ष्मः क्षित्यादिसमूहः। किम् ?। अग्नेः सिद्धिरग्निसिद्धिस्तस्यामग्निसिद्धौ। अग्निरत्र थूमादिति उपदिश्यमानः प्रोच्यमानः संदिग्धासिद्धः। निश्चितो हि धूमो धूमत्वेन हुतवहं गमयति नानिश्चित इति। तथा द्रव्यमाकाशमित्यादि। आकाश इति धर्मिनिर्देशः। द्रव्यमिति साध्यो धर्मः। गुणाश्चास्य षट्। तद्यथा। संख्या परिमाणं पृथक्त्वं संयोगो विभागः शब्देश्चेति॥



तत्र गुणानामाश्रयः गुणाश्रयस्तद्भावस्तत्त्वं तस्मात् गुणाश्रयत्वादिति। अयं हेतुराकाशासत्त्ववादिनं बौद्धं प्रत्याश्रयासिद्धः। धर्मिण एवासिद्धत्वात्। तथा च तस्यायं सिद्धान्तः। पञ्च इमानि भिक्षवः संज्ञामात्रं संवृतिमात्रं प्रतिज्ञामात्रं व्यवहारमात्रं कल्पनामात्रम्। कतमानि पञ्च। अतीतः अद्धा अनागतः अद्धा प्रतिसंख्यानिरोधः आकाशं पुग्दल इति। ननु चान्योऽप्यस्ति असिद्धः स च द्विधा। प्रतिज्ञार्थैकदेशासिद्धः। यथा अनित्यः शब्दोऽनित्यत्वात्। अव्यापकासिद्धश्चेति। यथा सचेतनास्तरवः स्वापात्। स कस्मान्नोक्तः। आचार्य आह। अन्तर्भावात्। क्व पुनरन्तर्भाव इति चैत् उभयासिद्धे। तस्माददोषः। आह। यद्येवमसिद्धभेदद्वयमेवास्तु उभयासिद्धोऽन्यतरासिद्धश्चेति। शेषद्वयस्यात्रैवान्तर्भावात्। तथा चान्यैरप्युक्तम्-



असिद्धभेदौ द्वावेव द्वयोरन्यतरस्य वा॥



इत्यादि। नैतदेवम्। धर्म्यसिद्धिहेतुसंदेहोपाधिद्वारेण भेदविशेषस्य सिद्धेः। विनेयव्युत्पत्तिफलत्वाच्च शस्त्रारम्भस्य। पर्याप्तं विस्तरेणोक्तोऽसिद्धः॥ सांप्रतम् अनैकान्तिकः उच्यते। स च षट्प्रकारः षड्विधः। एकान्ते भव ऐकान्तिकः। न ऐकान्तिकौऽनैकान्तिकः। षट् प्रकारा अस्येति षट्‍प्रकारः षड् विध‍इत्यर्थः॥ भेदानेवाह। साधारण इत्यादि। अन्वर्थम्। इत्युदाहरणमेव वक्ष्यामः। तत्र साधारणः प्रभेयत्वान्नित्य इति। तत्रेति पूर्ववत्। द्वयोर्बहूनां वा यः सामान्यः स साधारणः। प्रमीयते इति प्रमेयो ज्ञेय इत्यर्थः तद्भावः प्रमेयत्वं तस्मात्प्रमेयत्वात् प्रमाणपरिच्छेद्यत्वात्। नित्य इत्यत्र शब्दाख्यो धर्मी गम्यते। इदं च सपक्षेतराकाशघटादिभावेन साधारणत्वात् संशयनिमित्तमिति। आह च। तद्धि नित्यानित्येत्यादि। तत् प्रमेयत्वं धर्मः। हि रूपप्रदर्शने। नित्यश्चानित्यश्च नित्यानित्यौ नित्यानित्यौ च तौ पक्षौ च नित्यानित्यपक्षौ। तयोर्नित्यानित्यपक्षयोरित्यर्थः। किम् ?। साधारणत्वात् तुल्यवृत्तित्वादनैकान्तिकम्। प्रयोग एव दर्शयति। किं घटवत् प्रमेयत्वादनित्यः शब्दः आहोस्विदाकाशवत् प्रमेयत्वान्नित्य इति प्रकटार्थं दर्शयति। अहो नायं संशयहेतुः। एतत्प्रयोगमन्तरेण प्रागेव संशयस्य भावात्। तद्भावभावित्वानुपपत्तेः। उक्तं च।



अनैकान्तिकभेदाश्च नैव संशीतिकारणम्।

संदेहे सति हेतूक्ते सद्भावस्याविशेषतः॥



इत्यादि। नैतदेवम्। संशयस्याविवक्षितत्वात्। तमन्तरेणापि प्रयोगोपपत्तेश्च। क्रियते च विपर्यस्तमतिप्रभृतिप्रतिपत्त्यर्थमपि प्रयोगः। तत्रापि संशयहेतुत्वादनैकान्तिकामिति॥ असाधारणः श्रावणत्वान्नित्य इत्यादि। साधारणविलक्षणः असाधारणः असामान्यः पक्षधर्मः सन् सपक्षविपक्षाभ्यां व्यावृत्त इत्यर्थः। उदाहरणमाह। श्रावणत्वान्नित्य इति। श्रवणेन्द्रियग्राह्यः श्रावणस्तद्भावः श्रावणत्वं तस्मात्। नित्यः अविनाशी। शब्द इति गम्यते। तत्रेदं श्रावणत्वं स्वधर्मिणं विहाय न सपक्षे आकाशादौ नापि विपक्षे घटादौ वर्तत इति संशयनिमित्तम्। अत एवाह। तद्धीत्यादि। तत् श्रावणत्वम्। हि रूपप्रदर्शने नित्यानित्यपक्षाभ्यां व्यावृत्तत्वात्। संशयहेतुरिति योगः। अन्यत्र वर्तिष्यत इतीदमपि निराकुर्वन्नाह। नित्यानित्यविनिर्मुक्तस्य चान्यस्य चासंभवात्। यदस्ति तेन नित्येन वा भवितव्यमनित्येन वा नान्यथा। विरोधादतिप्रसंगाच्च। अतः संशयहेतुः संशयकारणम्। कथमित्याह। किंभूतस्येत्यादि। किंप्रकारस्य किं नित्यस्याहोस्विदनित्यस्यास्येति। प्रस्तुतस्य शब्दस्य श्रावणत्वमित्येतदुक्तं भवति। यदि तदन्यत्र नित्ये वाऽनित्ये वोपलब्धं भवति ततस्तब्दलेनेतरत्रापि निश्चयो युज्यते नान्यथा। विपर्यकल्पनाया अप्यन्यनिवारितप्रसरत्वात्। इत्यत्र बहु वक्तव्यम्। अलं प्रसङ्गेन। आक्षेपपरिहारौ पूर्ववत्। एवं शेषेष्वपि भावनीयमिति॥ सपक्षैकदेशवृत्तिरित्यादि। समानः पक्षः सपक्षः तस्यैकदेशः सपक्षैकदेशः तस्मिन्वृत्तिरस्येति सपक्षैकदेशवृत्तिः। तथा विसदृशः पक्षो विपक्षस्तं व्याप्तुं शीलमस्येति विपक्षव्यापी। उदाहरणमाह। यथा। अप्रयत्नानन्तरीयकः शब्दो नित्यत्वादिति। शब्दो धर्मी। अप्रयत्नानन्तरीयकत्वं साध्यो धर्मः। अनित्यत्वादिति हेतुः। तत्र अप्रयत्नानन्तरीयकः पक्षः। अप्रयत्नानन्तरीयकोऽर्थः। अस्य साध्यविद्युदाकाशादिपदार्थसंघातः किम् ?। सपक्षः। तत्रैकदेशे विद्युदादौ वर्ततेऽनित्यत्वं नाकाशादौ। नित्यत्वात्तस्य। तथा अप्रयत्नानन्तरीयकः पक्षोऽस्य घटादिर्विपक्षः। तत्र सर्वत्र घटादौ विद्यतेऽनित्यत्वम्। प्रयत्नान्तरीयकस्यानित्यत्वात्। यस्मादेवं तस्मादेतदपि अनित्यत्वं विद्युद्‍घतसाधर्म्येण विद्युद्‍घतुल्यतयाऽनिकान्तिकम्। भावनिकामाह। किं घटवत् अनित्यत्वात् प्रयत्नानन्तरीयकः। शब्दः आहोस्विद्विद्युदादिवदनित्यत्वादप्रयत्नानन्तरीयक इति।



प्रकटार्थम्॥ विपक्षैकदेशवृतिः सपक्षव्यापी। समासः सुकर एव। उदाहरणमाह। यथा प्रयत्नानन्तरीयकः शब्दोऽनित्यत्वात्। प्रयत्नानन्तरीयकः पक्षोऽस्य घटादिः सपक्षः। तत्र सर्वत्र घटादौ विद्यतेऽनित्यत्वम्। प्रयत्नानन्तरीयकः पक्षोऽस्य विद्युदाकाशादिर्विपक्षः। तत्रैकदेशे विद्युदादौ विद्यतेऽनित्यत्वम्। नाकाशादौ। तस्मादेतदपि विद्युद्‍घटसाधर्म्येण पूर्ववदनैकान्तिकम् इति सूत्रार्थः। उक्तवैपरीत्येन स्वधिया भावनीयमिति॥ उभयपक्षैकदेशवृत्तिः। उभयपक्षयोः सपक्षविपक्षयोरेकदेशवृत्तिरस्येति उभयपक्षैकदेशवृत्तिः। उदाहरणमाह। यथा नित्यः शब्दोऽमूर्तत्वादिति॥ नित्यः पक्षोऽस्याकाशपरमाण्वादिः सपक्षः। तत्रैकदेश आकाशार्दो विद्यतेऽमूर्तत्वं न परमाण्वादौ। अनित्यः पक्षोऽस्य घटसुखादिर्विपक्षः। तत्रैकदेशे सुखादौ विद्यतेऽमूर्तत्वं न घटादौ। तस्मादेतदपि सुखाकाशसाधर्म्येणानैकान्तिकम्। एतदपि सूत्रं निगदसिद्धम्। तथा विरुद्धाव्यभिचारी। अधिकृतहेत्वनुमेयविरुद्धार्थसाधको विरुद्धः। विरुद्धं न व्यभिचरतीति विरुद्धाव्यभिचारी। उपन्यस्तः सन् तथाविधार्थानिराकृतेः प्रतियोगिनं न व्यभिचरतीति भावः। ततश्चानेन प्रतियोगिसाध्यमपाकृत्य हेतुप्रयोगः कर्तव्य इत्येतदाह। अन्ये तु विरुद्धश्चासावव्यभिचारी च विरुद्धाव्यभिचारीति व्याचक्षते। इदं पुनरयुक्तमेव। विरोधादनेकान्तवादापत्तेश्च। उदाहरणमाह। यथाऽनित्यः शब्दः कृतकत्वाद् घटवत्। नित्यः शब्दः श्रावणत्वात् शब्दत्ववत्। उभयोः संशयहेतुत्वात् द्वावप्येतावेकोऽनैकान्तिकः समुदितावेव। अनित्यः शब्दः कृतकत्वाद्‍घटवदिति वैशेषिकेणोक्ते मीमांसक आह। नित्यः शब्दः श्रावणत्वात् शब्दत्ववत्। शब्दत्वं हि नाम वेणुवीणामृदङ्गपणवादिभेदभिन्नेषु सर्वशब्देषु शब्द इत्यभिन्नाभिधानप्रत्ययनिबन्धनं सामान्यविशेषसंज्ञितं नित्यमिति। उभयोः संशयहेतुत्वादिति। एकत्र धर्मिणि उभयोः कृतकत्वश्रावणत्वयोः संशयहेतुत्वात् संदेहहेतुत्वा। तथा चैकत्र धर्मिणि कृतकत्वश्रावणत्वाख्यौ हेतु संदेहं कुरुतः किं कृतकत्वाद्‍घटवदनित्यः आहोस्विच्छ्रावणत्वाच्छब्दत्ववन्नित्यः इति। एवं संदेहहेतुत्वे प्रतिपादिते परश्चोदयति किं समस्तयोः संदेहहेतुत्वम् उत व्यस्तयोः।



यदि समस्तयोः संदेहहेतुत्वं तदाऽसाधारणान्न भिद्यते। श्रावणत्वं चासाधारणत्वेनोक्तम्। अथ व्यस्तयोस्तदपि न। व्यस्तयोः सम्यग्धेतुत्वात्। अत्रोच्यते। समस्तयोरेव संदेहहेतुत्वम्। ननूक्तम् असाधारणान्न भिद्यते। तन्न। यतो भिद्यत एव। परस्परसापेक्षो विरुद्धाव्यभिचारी चेति। एककः असहायोऽसाधारणः। स चानेनांशेनाऽऽचार्येण भिन्न उपात्त इति तस्माददोषः। उक्तं च मूलग्रन्थे द्वावप्येतावेकोऽनैकान्तिकः समुदितावेव। अनुद्भाविते तु तदभाव इति। अत्र बहु वक्तव्यम्। तत्तु नोच्यते। संक्षेपरुचिसत्त्वानुग्रहार्थोऽयमारम्भः। इत्युक्तोऽनैकान्तिकः॥ सांप्रतं विरुद्धमाहः विरुद्धश्चतुःप्रकार इत्यादि। विरुध्यते स विरुद्धः। तथा ह्ययं धर्मस्वरूपादिविपरीतसाधनार्द्धर्मेण धर्मिणा वा विरुध्यत एवेति चतुःप्रकारश्चतुर्भेदः। तद्यथा। धर्मस्वरूपविपरीतसाधन इत्यादि। तद्यथेति भेदोपन्यासार्थः। शब्दार्थमुदाहरणाधिकार एव वक्ष्यामः। तत्र धर्मेत्यादि। तत्र धर्मस्वरूपविपरीतसाधनो यथा नित्येति पूर्ववत्। धर्मः पर्याय इत्यनर्थान्तरम्। तस्य स्वरूपमसाधारणामात्मलक्षण धर्मस्वरूपं तस्य विपरीतसाधन इति समासः। एवं शेषेष्वपि द्रष्टव्यमिति। अधुनोदाहरणमाह। यथा नित्य शब्दः कृतकत्वात् प्रयत्नानन्तरीयकत्वाद्वा इत्ययं हेतुर्विपक्ष एव भावद्विरुद्धः। अत्र धर्मस्वरूपनित्यत्वम्। अयं च हेतुविपरीतमनित्यत्वं साधयति। तेनैवाविनाभूतत्वात्। तथा चाह। विपक्ष एव भावाद्विरुद्धः। आह अयमपक्षधर्मत्वादसिद्धान्न विशिष्यते कथं विरुद्ध इति ?। अत्रोच्यते। नावश्यं पक्षधर्म एव विरुद्धता अन्यथाप्याचार्यप्रवृत्तेः। अधिकृतयोगज्ञापकात्। न चायमसिद्धान्न विशिष्यते इति।



विपर्ययसाधकत्वेनासिद्धेः। एतत्प्रधानत्वाच्चोपन्यासस्य। अन्यथाऽनैकान्तिकस्याप्यसिद्धत्वप्रसङ्गः। नित्यत्वादिसाधनत्वेन प्रमेयत्वादीनामपि असिद्धत्वात्। इत्यलं प्रसङ्गेन। गमनिकामात्रमेतत्। धर्मविशेषविपरीतसाधन इत्यस्योदाहरणं यथा परार्थाश्चक्षुरादयः संघातत्वात् शयनासनाद्यङ्गवत् इति। कः पुनरेवमाह?। सांख्यो बौद्धं प्रति। इह चक्षुरादयो धर्मिणः। आदिशब्दात् शेषेन्दियमहदहंङ्कारादिपरिग्रहः। पारार्थ्यं साध्यधर्म। अस्य च विशेषोऽसंहतपरार्थत्वमिष्टम्। अन्यथा सिद्धसाध्यतापत्त्या प्रयोगवैकल्यप्रसङ्गः। संघातत्वादिति हेतुः। तत्र द्वयोर्बहूनां वा मेलकः संघातस्तस्य भावः संघातत्वं तस्मात्संघातत्वात्। शयनासनाद्यङ्गवदिति दृष्टान्तः। शयनं पल्यङ्कादि। आसनमासन्दकादि। तदङ्गानि प्रतीतान्येव। यथैतदङ्गानि संघातत्वाद्देवदत्तादिपरार्थानि वर्तन्ते एवं चक्षुरादयोऽपीति भावार्थः। अधुना विरुद्धमाह।



अयमित्यादि। अयं हेतुः संघातत्वलक्षनो यथा येन प्रकारेण पारार्थ्यं परार्थभावं चक्षुरादीनां साधयति तथा तेनैव प्रकारेण संहतत्वमपि सावयवत्वमपि परस्यात्मनः साधयति। तेनाप्यविनाभूतत्वात्। तथा चाह। उभयत्राव्यभिचारात्। उभयत्रेति परार्थे संहतत्वे च अव्यभिचाराद् गमकत्वादित्यर्थः। तथा चैवमपि वक्तुं शक्यत एव संहतपरार्थाश्चक्षुरादयः संघातत्वात् शयनासनाद्यङ्गवदिति। शयनासणाद्यङ्गानि हि संहतस्य करचरणोरुग्रीवादिमत एवार्थं कुर्वन्ति नान्यस्य। तथोपलब्धेरिति। आह विपक्ष एव भावाद्विरुद्ध इति सामान्यं विरुद्धलक्षणं तत्कथमिहोपपद्यते ? इति। उच्यते। असंहतपरविपक्षो हि संहत इति तत्रैव वृत्तिदर्शनात्। किं नोपपद्यते ?। आक्षेपपरिहारौ पूर्ववत्॥ धर्मिस्वरूपविपरीतेत्यादि। धर्मा अस्य विद्यन्ते इति धर्मी। उदाहरणं तु यथा न द्रव्यमित्यादि। कः पुनरेवमाह ?। वैशेषिको बौद्धान्प्रति। केन पुनः संबन्धेन ? इति। उच्यते। तस्य सिद्धान्तो द्रव्यगुणकर्मसामान्यविशेषसमवायाः षट्‍पदार्थाः।



ततः पृथ्व्यापस्तेजोवायुराकाशं कालो दिगात्मा मन इति द्रव्याणि। गुणाश्चतुर्विशतिः। रूपरसगन्धस्पर्शसंख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धिः सुखदुःखेच्छाद्वेषाः प्रयत्नश्चेति सूत्रोक्ताः। चशब्दात् द्रवत्वं गुरुत्वं संस्कारः स्नेहो धर्माधर्मौ शब्दश्चेति। एवं चतुर्विशति र्गुणाः। पञ्च कर्माणि। तद्यथा उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि। गमनग्रहणाभ्द्रमणरेचनस्पन्दनाद्यवरोधः। सामान्यं द्विविधं परमपरं चेति। तत्र परं सत्ता भावो महासामान्यमिति चोच्यते। अपरं द्रव्यत्वादि। तत्र सत्ता द्रव्यगुणकर्मभ्योऽर्थान्तरम्। कथापुनर्युक्त्या ? इत्यत्राह। न द्रव्यं भावः एकद्रव्यवत्त्वादिति हेतुः। सामान्यविशेषवदिति दृष्टान्तः। अधुना भावार्थ उच्यते। न द्रव्यं भावः। द्रव्यादन्य इत्यर्थः। एकद्रव्यवत्त्वादित्यत्र एकं च तद्द्रव्यं च एकद्रव्यमस्यास्तीति आश्रयभूतमिति एकद्रव्यवान्।



समानाधिकरणाब्दहुव्रीहिः कदाचित्कर्मधारयः सर्वधनाद्यर्थ इति वचनात्। तद्भावस्तत्त्वं तस्मादेकद्रव्यवत्त्वात्। एकस्मिन्द्रव्ये वर्तमानत्वादित्यर्थः। वैशेषिकस्य हि अद्रव्यं द्रव्यं अनेकद्रव्यं च द्रव्यम्। तत्राद्रव्यं द्रव्यमाकाशकालदिगात्मनः परमाणवः। अनेकद्रव्यं तु द्वयणुकादिस्कन्धाः। एकद्रव्यं तु द्रव्यमेव नास्ति। एकद्रव्यवांश्च भावः। इत्यतो द्रव्यलक्षणविलक्षणत्वात् न द्रव्यं भाव इति। दृष्टान्तः सामान्यविशेषः। स च द्रव्यत्वगुणत्वकर्मत्वलक्षणः। द्रव्यत्वं हि नवसु द्रव्येषु वर्तमानत्वात्सामान्यं गुणकर्मभ्यो व्यावर्तमानत्वाद्विशेषः। एवं गुणत्वकर्मत्वयोरपि भावना कार्येति। ततश्च सामान्यं च तद्विशेषश्च स इति सामान्यविशेषस्तेन तुल्यं वर्तत इति सामान्यविशेषवत्। द्रव्यत्ववदित्यर्थः। ततश्चैतदुक्ते भवति। यथा नवसु द्रव्येषु प्रत्येकं वर्तमानं द्रव्यं न भवति किंतु सामान्यविशेषलक्षणं द्रव्यत्वमेव एवं भावोऽपीत्यभिप्रायः। आह यदि नाम द्रव्यं न भवति तथाऽपि गुणोभविष्यति कर्म च इत्येतदपि निराचिकीर्षुराह। गुणकर्मसु च भावात्। ततश्च न गुणो भावः गुणेषु भावाद् गुणत्ववत्। यदि च भावो गुणः स्यान्न तर्हि गुणेषु वर्तेत निर्गुणत्वाद् गुणानाम्। वर्तते च गुणेषु भावः। सन् गुण इति प्रतीतेः। तथा न कर्म भावः कर्मसु भावात्कर्मत्ववत्। यदि च भावः कर्म स्यात् न तर्हि कर्मसु वर्तेत निष्कर्मकत्वात्कर्मणाम्। वर्तते च कर्मसु भावः। सत्कर्मेति प्रतीतेः। व्यत्ययोपन्यासस्तु प्रतिज्ञाहेत्वोर्विचित्रन्यायप्रदर्शनार्थम्। इत्येवं वैशेषिकेणोक्ते बौद्ध आह। अयं च हेतुस्त्रिप्रकारोऽपि यथा द्रव्यादिप्रतिषेधं साधयति तथा भावस्य धर्मिणोऽभावत्वमपि साधयति।



तेनाप्यविनाभूतत्वात्। तथा चाह। उभयत्राव्यभिचारात्। उभयत्र द्रव्यादिप्रतिषेधे भावाभावे च गमकत्वात्। तथा च। यतथैद्बक्तुं शक्यते न द्रव्यं भावः एकद्रव्यत्वात् द्रव्यत्ववत् एवमिदमपि शक्यते भावो भाव एव न भवति एकद्रव्यत्वात् द्रव्यत्ववत्। न च द्रव्यत्वं भावः सामान्यविशेषत्वात्। एवं न गुणः गुणेषु भावात् गुणत्ववत्। अत्रापि भावो भाव एव न भवति गुणेषु भावात् गुणत्ववत्। न च गुणत्वं भावः सामान्यविशेषत्वादेव। एवं न कर्म भावः कर्मसु भावात् कर्मत्ववत् अत्रापि भावो भाव एव न भवति कर्मसु भावात् कर्मत्ववत्। न च कर्मत्वं भावः सामान्यविशेषत्वात्। सामान्यविरुद्धलक्षणयोजना तु भावविपक्षत्वात्सामान्यविशेषस्य सुकरैव। आह अयमसिद्धान्न विशिष्यते इति कथं विरुद्धः?। तथाहि। न भावो नाम द्रव्यादिव्यतिरिक्तः कश्चिदस्ति सौगतानाम्। तदभावाच्चश्रयासिद्ध एव हेतुरिति। अत्रोच्यते सत्यमेतत्। किंतु परप्रसिद्धोऽपि विपक्षमात्रव्यापी विरुद्ध इति निदर्शनार्थत्वात्। एकस्मिन्नपि चानेकदोषजात्युपनिपातनात् तद्भेददर्शनार्थत्वान्न दोष इति। आह एवमविरुद्धभावः सर्वत्र विशेषविरुद्धभावादिति। न। विरोधिनोऽधिकृतहेत्वन्वितदृष्टान्तबलेनैव निवृतेः। तथाप्यनित्यः शब्दः पाक्यत्वाद्‍घतवत् पाक्यः शब्द इति विरुद्धप्रेरणायां कृतकत्वान्वितापाक्यपटादिदृष्टान्तान्तरसामर्थ्यात्तन्निवृत्त्या न विरुद्धता। अनिवृत्तौ चाभ्युपगम्यत एव।



अशक्या चेह तन्निवृत्तिरेकद्रव्यवत्वस्य तद्व्यतिरेकेणान्यत्रावृत्तेरिति। अत्र बहु वक्तव्यम्। अलं प्रसङ्गेन॥ धर्मिविशेषविपरीतसाधनो यथा। धर्मी भाव एव तद्विशेषः सत्प्रत्ययकर्तृत्वम्। यत उक्तं सदिति यतो द्रव्यगुणकर्मसु सा सत्ता। तद्विपरीतसाधनो यथा। अयमेव हेतुरेकद्रव्यवत्त्वाख्यः अस्मिन्नेव पूर्वपक्षे न द्रव्यं भाव इत्यादिलक्षणे अस्यैव धर्मिणो भावाख्यस्य यो विशेषो धर्मः सत्प्रत्ययकर्तृत्वं नाम तद्विपरितमसत्प्रत्ययकर्तृत्वमपि साधयति। तेनापि व्याप्यत्वात्। तथा ह्येतदपि वक्तुं शक्यत एव भावः सत्प्रत्ययकर्ता न भवति एकद्रव्यवत्त्वाद्रव्यत्वत्। न च द्रव्यत्वं सत्प्रत्ययकर्तृ द्रव्यप्रत्ययकर्तृत्वात्। एवं गुणकर्मभावहेत्वोरपि वाच्यम्। अत एवमुक्तम्-उभयत्राव्यभिचारादिति। भावितार्थमेव। आक्षेपपरिहारौ पूर्ववत्॥



उक्ता हेत्वाभासाः। सांप्रतं दृष्टान्ताभासानामवसरः। ते उच्यन्ते। तत्र यथा दृष्टान्तो द्विविधः एवं मूलभेदव्यपेक्षया तदाभासोऽपि तथा। आह। दृष्टान्ताभसो द्विविधः। साधर्म्येण वैधर्म्येण च। दृष्टान्त उक्तलक्षणः। दृष्टान्तवदाभास इति दृष्टान्ताभासः। दृष्टान्तप्रतिरूपक इत्यर्थः। तत्र साधर्म्येण तावद्‍दृष्टान्ताभासः पञ्चप्रकारः पञ्चभेदः तद्यथा। साधनधर्मासिद्ध इत्यादि। तद्यथेति भेदोपदर्शनार्थः। साधनधर्मो हेतुरसिद्धो नास्तीत्युच्यते। ततश्च साधनधर्मोऽसिद्धोऽस्मिन् सोऽयं साधनधर्मासिद्धः। न तु बहुब्रीहौ निष्ठान्तं पूर्वं निपततीति कृत्वाऽसिद्धसाधनधर्मा इति। न वाऽहिताग्न्यादिषु वचनात्। आहिताग्न्यादेश्चाकृतिगणत्वाद्विकल्पवृत्तेरिति। अन्ये तु साधनधर्मेण रहितत्वादसिद्धः साधनधर्मासिद्धः इति व्याचक्षते। न चैतदतिशोभनम्। एवं साध्योभयधर्मासिद्धयोरपि भावनीयम्। अन्वयादिशब्दार्थं तूदाहरणाधिकारे वक्ष्यामः। स चावसरः प्राप्त एवेति यथाक्रमं निर्दिश्यते। तत्र साधनधर्मासिद्धो यथा। नित्यः शब्दोऽमूर्तत्वात्। यथेत्युदाहरणोपन्यसार्थः। नित्यः शब्द इति प्रतिज्ञा पक्षः। अमूर्तत्वादिति हेतुः। अन्वयमाह।



यदमूर्तं वस्तु तन्नित्यं दृष्टं यथा परमाणुरिति साधर्म्यदृष्टान्तत्वम्। एतदाभासानामेव प्रक्रान्तत्वात्। नार्थो वैधर्म्येणेति न प्रदर्शितः। अयं च साध्यसाधनधर्मानुगत इष्यते। इह तु साध्यधर्मोऽस्ति न साधनधर्मः। तथा चाह। परमाणौ हि साध्यं नित्यत्वमस्ति। अन्त्यकारणत्वेन नित्यत्वात्। साधनधर्मोऽमूर्तत्वं नास्ति। कुतः। मूर्तत्वात् परमाणुनाम्। मूर्तत्वं च मूर्तिमत्कार्यघटाद्युपलब्धेः सिद्धमिति॥ साध्यधर्मासिद्धो यथा। नित्यः शब्दोऽमूर्तत्वाद् बुद्धिवदिति। यदमूर्तं वस्तु तन्नित्यं दृष्टं यथा बुद्धिः। बुद्धौ हि साधनधर्मोऽमूर्तत्वस्ति साध्यधर्मो नित्यत्वं नास्ति अनित्यत्वाद्‍बुद्धोरिति सूत्रप्रयोगः सुगम एव। व्याप्तिं दर्शयति। यदमूर्तं वस्तु तन्नित्यं दृष्टं यथा बुद्धिः। आह कथमयं साध्यधर्मासिद्ध ? इति। अत्राह। बुद्धौ हि साधनधर्मोऽमूर्तत्वमस्ति। तदमूर्तत्वप्रतीतेः। साध्यधर्मो नित्यत्वं नास्ति। कुतः ?। अनित्यत्वाद्‍बुद्धेरिति॥ उभयासिद्धो द्विविधः। कथम् ? इत्यत्राह। सन्नसंश्चेति। सन्निति विद्यमानोभयासिद्धः। ततश्च असन्निति अविद्यमानोभयासिद्धः। प्रयोगो मौल एव द्रष्टव्यः। यत आह। तत्र घटवदीति विद्यमानोभयासिद्धः। ततश्च नित्यः शब्दोऽमूर्तत्वाद्‍घटवदित्यत्र न साध्यधर्मो नित्यत्वलक्षणः नापि साधनधर्मोऽमूर्तत्वलक्षणोऽस्ति अनित्यत्वान्मूर्तत्वाद्‍घटस्येति। तथाऽआकाशवदित्यविद्यमानोभयासिद्धः। ततश्च नित्यः शब्दोऽमूर्तत्वादाकाशवदिति।



नन्वयमुभयसभ्दावात्कथमुभयासिद्ध इत्याशङ्कयाह। तदसत्त्ववादिनं प्रति। आकाशासत्त्ववादिनं बौद्धं प्रति। सांख्यस्येत्यर्थः। सति हि तस्मिन्नित्यत्वादिधर्मचिन्ता नान्यथेति॥ अनन्वय इत्यादि। अविद्यमानोऽन्वयोऽनन्वयः। अप्रदर्शितान्वय इत्यर्थः। अन्वयोऽनुगमो व्याप्तिरिति अनर्थान्तरम्। लक्षणमाह। यत्रेत्यादि। यत्रेत्यभिधेयमाह। विनान्वयेन विना व्याप्तिदर्शनेन साध्यसाधनयोः साध्यहेत्वोरित्यर्थः। सहभाव एकवृत्तिमात्रम्। प्रदर्श्यते कथ्यते आख्यायते। न वीप्सया साध्यानुगतेषु हेतुरिति। उदाहरणमाह। यथा घटे कृतकत्वमनित्यं च दृष्टमिति। घटः कृतकत्वानित्यत्वयोराश्रय इति। एवं सति आश्रयाश्रयिभावमात्राभिधानादन्यत्र व्यभिचारसंभवादिष्टार्थसाधकत्वानुपपत्तिः। विपरीतान्वय इत्यादि। विपरीतो विपर्ययवृत्तिरन्वयोऽनुगमो यस्मिन् तथाविधः। उदाहरणमाह। यत्कृतकं तदनित्यं दृष्टमिति वक्तव्ये यदनित्यं तत्कृतकं दृष्टमिति ब्रवीति। एवं प्राक्साधनधर्ममनुच्चार्य साध्यधर्ममुच्चारयति।आह। एवमपि को दोषः ? इति। उच्यते। न्यायमुद्राव्यतिक्रमः। अन्यत्र व्याप्तिव्यभिचारात्। यथा ह्यनित्यः शब्दः प्रयत्नान्तरीयकत्वादियत्र यद्यदनित्यं तत्तत्प्रयत्नान्तरीयकम्। अनित्यानामपि विद्युदादीनामप्रयत्नानन्तरीयकत्वात्। इत्यलं प्रसङ्गेन। अयं साधर्म्यदृष्टान्ताभासः समाप्तः॥ वैधर्म्येणापि। न केवलं साधर्म्येणैव। किम् ?। दृष्टान्ताभासः। प्राङ्‍निरूपितशब्दार्थः। पञ्चप्रकारः। तद्यथा साध्याव्यावृत्त इत्यादि। तत्र साध्यं प्रतीतं तदव्यावृत्तस्मादिति साध्याव्यावृत्तः। आक्षेपपरिहारौ पूर्ववत्। एवं साधनोभयाव्यावृत्तयोरपि वक्तव्यम्। अव्यतिरेकादिशब्दार्थं तूदाहरणाधिकार एव वक्ष्यामः। स चावसरः प्राप्त एव॥ तत्र साध्याव्यावृत्तः यथा नित्यः शब्दोऽमूर्तत्वात्परमाणुवत्। यथेत्युदाहरणोपन्यासार्थः। नित्यः शब्द इति प्रतिज्ञा। अमूर्तत्वादिति हेतुः। वैधर्म्यदृष्टान्ताभासस्य प्रक्रान्तत्वात्साधर्म्यदृष्टान्तो नोक्तः। अभ्यूह्यश्चाकाशादिः।



वैधर्म्यदृष्टान्तस्तु परमाणुः। अयं च साध्यसाधनोभयधर्मविकलः सम्यगिष्यते। यत उक्तम्। साध्याभावे हेतोरभाव एव कथ्यते इत्यादि। न चायं तथेत्याह च। परमाणोर्हि सकाशात्। साधनधर्मो हेतुः। तमेव दर्शयति अमूर्तत्वमिति। व्यावृत्तं निवृत्तम्। कुतः ?। मूर्तत्वात्परमाणुनाम्। साध्यधर्मो नित्यत्वं तन्न व्यावृत्तम्। कुतः ?। नित्यत्वात्परमाणूनाम्। आह। साधर्म्यदृष्टान्ताभासेष्वादौ साधनधर्मासिद्ध उक्तः इह साध्याव्यावृत्त इति किमर्थमुच्यते?। तस्यान्वयप्रधानत्वात्। अन्वयस्य च साधनधर्मपुरःसरसाध्यधर्मोच्चारणरूपत्वात्। व्यतिरेकस्तु उभयव्यावृत्तिरूपः साध्याभावे च हेतोरभाव इति। अतः साध्याव्यावृत्तः॥ तथा साधनाव्यावृत्तः कर्मवत्। प्रयोगः पूर्ववदेव।



वैधर्म्यदृष्टान्तस्तु कर्म। तच्च उत्क्षेपणादि गृह्यते। तत्र कर्मणः साध्यं नित्यत्वं व्यावृत्तम्। अनित्यत्वात्कर्मणः। साधनधर्मो हेतुः। तमेव दर्शयति अमूर्तत्वमिति। तन्न व्यावृत्तम्। अमूर्तत्वात्कर्मण इति॥ उभयाव्यावृत्तःआकाशवदिति। नित्यत्वसाधकः प्रयोगः परमाण्वादिसाधर्म्यदृष्टान्तयुक्तः पूर्ववत्।वैधर्म्यदृष्टान्तस्त्वाकाशमिति। ततो हि आकाशात्। न नित्यत्वं व्यावृत्तं नाप्यमूर्तत्वम्। कुतः?। नित्यत्वादमूर्तत्वादाकाशस्येति॥ अव्यतिरेक इत्यादि। अविद्यमानव्यातिरेकः अव्यतिरेकः अनिदर्शितव्यतिरेक इत्यर्थः। लक्षणमाह। यत्र विना साध्यसाधननिवृत्त्या तद्विपक्षभावो निदर्श्यते। यत्रेत्यभिधेयमाह। विना साध्यसाधननिवृत्त्या प्रस्तुतप्रयोगे यदनित्यं तन्मूर्तं दृष्टमित्यादिलक्षणया। तद्विपक्षभावः साध्यसाधनविपक्षभावमात्रम्। निदर्श्यते प्रतिपाद्यते इति यावत्। दृष्टान्तमाह। यथा घटेऽनित्यत्वं च मुर्तत्वं च दृष्टमिति। इत्थं ह्येकत्राभिधेयमात्राभिधानाद्वैधर्म्याप्रतिपादनादर्थापत्त्यापि गम्यते



प्रतिपत्तिगौरवादिष्टार्थसाधकत्वमिति॥ विपरितव्यतिरेक इत्यादि। विपरीतो विपर्यस्तो व्यतिरेक उक्तलक्षणो यस्मिन् स तथाविधः। तमेव दर्शयति। यदनित्यमित्यादि। प्रस्तुतप्रयोग एव तथाविधसाधर्म्यदृष्टान्तयुक्ते व्यतिरेकमुपदेशयन् यदनित्यं तन्मूर्तं दृष्ट मिति वक्तव्ये यन्मूर्त तदनित्यं दृष्टमिति ब्रवीति। आह। एवमपि को दोषः ? इति। उच्यते। अन्यत्र व्यभिचारः। तथा ह्यनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्यत्र यदप्रयत्नानन्तरीयकं तन्नित्यमिति। व्यतिरेको विद्युता व्यभिचारः॥ निगमयन्नाह। एषामित्यादि। यथोक्तरूपाणां पक्षहेतुदृष्टान्ताभासानां वचनानि। किं न साधनम् ?। आभासत्वादेव। किं तर्हि ?। साधनाभासमिति॥ उक्तं साधनाभासम्॥



अधुना दूषणस्यावसरः। तच्चातिक्रम्य बहुतरवक्तव्यत्वात्प्रत्यक्षानुमाने तावदाह। आत्मप्रत्यायनार्थं पुनः प्रत्यक्षमनुमानं च द्वे एव प्रमाणे। प्रत्यक्षं वक्ष्यमाणलक्षणं अनुमानं च। असमासकरणं विभिन्नविषयज्ञापनार्थम्। स्वलक्षणविषयमेव प्रत्यक्षम्। सामान्यलक्षणविषयमेवानुमानम्। च समुच्चये। द्वे एव प्रमाणे इत्यनेन संख्यानियममाह। तथाहि बौद्धानां द्वे एव प्रमाणे प्रत्यक्षानुमाने। शेषप्रमाणानामत्रैवान्तर्भावात्। अन्तर्भावश्च प्रमाणसमुच्चयादिषु चर्चितत्वान्नेह प्रतन्यते। अधुना प्रत्यक्षणिरूपणायाह। तत्र प्रत्यक्षमित्यादि। तत्रेति निर्धारणार्थः। प्रत्यक्षमिति लक्ष्यनिर्देशः। कल्पनापोढमिति लक्षणम्। अयं लक्ष्यलक्षणप्रविभागः। तत्र प्रतिगतमक्षं प्रत्यक्षम्। कल्पनापोढमिति। कल्पना वक्ष्यमाणलक्षणा सा अपोढा अपेता यस्मात् तत् कल्पनापोढम्। समासाक्षेपपरिहारौ पूर्ववत्। कल्पनयाऽपोढं कल्पनाया वाऽपोढं कल्पनापोढम्। यत् इति तत्स्वरूपनिर्देशः। एवंभूतं चार्थे स्वलक्षणमपि भवति। आह। ज्ञानं संवेदनम्। तच्च निर्विषयमपि भवति अत आह अर्थे विषये। स च द्विधा स्वलक्षणसामान्यलक्षणभेदात्। अत आह। रूपादौ स्वलक्षणे इत्यर्थः। इह यदुक्तं कल्पनापोढमिति तत्स्वरूपाभिधानत एव व्याचष्टे नामजात्यादिकल्पनारहितम्। तदक्षमक्षं प्रति वर्तते इति प्रत्यक्षम्। तत्र नामकल्पना यथा डित्था इति। जातिकल्पना यथा गौरिति। आदिशब्देन गुणक्रियाद्रव्यपरिग्रहः। तत्र गुणकल्पना शुक्ल इति। क्रियाकल्पना पाचक इति। द्रव्यकल्पना दण्डीति। आभिः कल्पनाभी रहितं शब्दरहितम्। स्वलक्षणहेतुत्वात्। उक्तं च। न ह्यर्थे शब्दाः अन्ति तदात्मानो वा येन तस्मिन्प्रतिभासमाने तेऽपि प्रतिभासेरन्नित्यादि। तदक्षमित्यादि। तदित्यनेन यन्निर्दिष्टस्य परामर्शः। अक्षाणीन्द्रियाणि।



ततश्चाक्षमक्षं प्रतीन्द्रियमिन्द्रियं प्रतिवर्तत इति प्रत्यक्षम्। आह। यथेन्द्रियसामर्थ्याज्ज्ञानमुत्पद्यते तथा विषयसामर्थ्यादपि तत्कस्मादिन्द्रियेणैव व्यपदेशो न विषयेणेति ?। अत्रोच्यते। असाधारणत्वादिन्द्रियस्य साधरणत्वाच्चार्थस्येति। तथा हि। इन्द्रियमिन्द्रियविज्ञानस्यैव हेतुरित्यसाधरणम्। अर्थस्तु मनोविज्ञानस्यापीति साधारणः। असाधारणेन च लोके व्यपदेशप्रवृत्तिर्यथा भेरीशब्दो यवाङ्कुर इति। उक्तं च भदन्तेन।



असाधारणहेतुत्वादक्षैस्तद्यपरिश्यते इत्यादि। आह। मनोविज्ञानाद्यपि प्रत्यक्षमित्युक्तं न च तदनेन संगृहीतमिति कथं व्यापिता लक्षणस्य। उच्यते। कल्पनापोढं यत्तज्ज्ञानर्थे रूपादौ इत्यनेनार्थसाक्षात्कारित्वग्रहणान्मनोविज्ञानदेरपि तदव्यभिचारात्संगृहीतमेव तन्मानसम्। लौकिकं तु प्रत्यक्षमधिकृत्याव्ययीभावः। इति कृतं प्रसङ्गेण। गमनिकामात्रमेतत्॥ अनुमानमित्यादि। अनुमितिरमुमानम्। तच्च लिङ्गादर्थदर्शनमालिङ्गं पुनस्त्रिरूपमुक्तम्। पक्षधर्मत्वादि। तस्मात्रिरूपाल्लिङ्गाद्यदनुमेयेऽर्थे धर्मविशिष्टे धर्मिणि ज्ञानमुत्पद्यते किंविशिष्टम् ? अग्निरत्र धूमात् अनित्यः शब्दः कृतकत्वात् तदनुमानमिति। उदाहरणद्वयं तु वस्तुसाधनकार्यस्वभावाख्यहेतुद्वयख्यापनार्थम्। अधुना फलमाह। उभयत्रेत्यादि। उभत्र प्रत्येक्षेऽनुमाने च। तदेव ज्ञानं प्रत्यक्षनुमानलक्षणम्। फलं कार्यम्। कुतः ?। अधिगमरूपत्वात्। अधिगमः परिच्छेदस्तद्रूपत्वात्। तथाहि परिच्छेदरूपमेव ज्ञानमुत्पद्यते। न च परिच्छेदादृते अन्यज्ज्ञानं फलम्। भिन्नाधिकरणत्वात्। इत्यत्र बहु वक्तव्यम् अलं प्रसङ्गेन। सर्वथा न प्रत्यक्षानुमानाभ्यामन्यद्विभिन्नं फलमस्तीति। आह। यद्येवं प्रमाणाभावप्रसङ्गः। तभ्दावाभिमतयोः प्रत्यक्षानुमानयोः फलत्वात्। प्रमाणाभावे च तत्फलस्याप्यभावः इति।



तत्र प्रमाणाभावनिराचिकीर्षयाऽऽह। सव्यापारवत्ख्यातेः प्रमाणत्वमिति सह व्यापारेण विषयग्रहणलक्षणेन वर्तते इति सव्यापारम्। प्रमाणमिति गम्यते। सव्यापारमस्या विद्यत इति सव्यापारवती। ख्यातिरिति गम्यते। सव्यापारवती चासौ ख्यातिश्च सव्यापारवत्ख्यातिः प्रतीतिः। तस्याः सव्यापारवत्त्याः ख्यातेः प्रमाणत्वमिति। एतदुक्तं भवति। विषयाकारं ज्ञानमुत्पद्यमानं विषयं गृण्हदेवोत्पद्यते इति प्रतीतेः ग्राहकाकारस्य प्रमाणतेति। अन्ये तु संश्चासौ व्यापारः सद्व्यापारः प्रमाणव्यवस्थाकारित्वात्सन्नित्युच्यते। सोऽस्या विद्यत इति सद्यापारवती शेषं पूर्ववत् व्याचक्षते। इत्युक्ते प्रत्यक्षानुमाने॥ अधुना प्रत्येक्षाभासमाह। कल्पनाज्ञानमर्थान्तरे प्रत्यक्षाभासम्। एतदेव ग्रहणवाक्यं व्याचिख्यासुराह। यज्ज्ञानं घटः पट इति वा विकल्पयतः शब्दारोपितमुत्पद्यते। अर्थान्तरे सामान्यलक्षणे। तदर्थस्वलक्षणाविषयत्वात्। सामान्यलक्षणविषयत्वादित्यर्थः। उक्तं प्रत्यक्षाभासम्॥



सांप्रतमनुमानाभासमाह। हेत्वाभासपूर्वकं हेत्वाभासनिमित्तं ज्ञानमनुमानाभासम्। व्यभिचारात्। एतदेव व्याचष्टे। हेत्वाभासो हि बहुप्रकार उक्तः अस्ति वादिभेदेन। तस्मात् हेत्वाभासात् यदनुमेयेऽर्थे धर्मविशिष्टे धर्मिणि ज्ञानम् अव्युत्पन्नस्य असिद्धादिस्वरूपानभिज्ञस्य भवति तदनुमानाभासम्। इत्युक्तं प्रत्यक्षादिचतुष्टयम्॥ इदानीमुक्तशेषं दुषणमभिधातुकाम आह। साधनदोषोद्भावनानि दूषणानि। प्रमाणदोषप्रकटनानीत्यर्थः। बहुवचननिर्देशः प्रत्येकमपि प्रतिज्ञादिदोषाणां दूषणत्वात्। एतान्येव दशयीर्त। साधनदोषो न्यूनत्वम्। सामान्येन विशेषमाह। पक्षदोषः प्रत्यक्षदिविरुद्धत्वम्। प्रत्यक्षादिविरुद्धा प्रतिज्ञेत्येवमादि। हेतुदोषः असिद्धानैकान्तिकविरुद्धत्वम्। असिद्धो हेतुरित्येवमादि। एवं दृष्टान्तदोषाः साधनधर्माद्यसिद्धत्वम्। तस्योद्भावनमिति। तस्य प्रत्यक्षविरुद्धहेत्वादेः प्रकाशनं प्राश्निकप्रत्यायनं न तुभ्दावनमात्रमेव। दूषणमिति सामान्येन दूषणजात्यनतिक्रमादेकवचनमिति। उक्तं दूषणम्॥ अधुना दूषाणाभासमाह। अभूतसाधनदोषोद्भावनानि दूषणाभासानि। अभूतमविद्यमानमेव तद्यतः साधनदोषं सामान्यनोद्भावयन्ति प्रकाशयन्ति यानि तानि जातिदूषणाभासानि। एतदेव दर्शयति। संपूर्णे साधने अवयवे न्यूनत्ववचनम्। न्यूनमिदमित्येवंभूतम्। अदुष्टपक्षे पक्ष दोषवचनम् इत्यादि निगदसिद्धम्। यावद् एतानि दुषणाभासानि किम् ?। इत्यत आह। नह्येभिः परपक्षो दूष्यते। कुतः ?। निरवद्यत्वात्परपक्षस्य। इत्युपरम्यते शास्त्रकरणात्॥



शास्त्रपरिसमाप्तौ तत्स्वरूपप्रतिपादनायैवाह। पदार्थमात्रमित्यादि। पदार्थमात्रमिति साधनादिपदोद्देशमात्रम। आख्यातं कथितम्। आदौ प्रथमम्। दिङ्मात्रसिद्धये न्यायदिङ्मात्रसिद्धयर्थम्। यात्र युक्तिरन्वयव्यतिरेकलक्षणा। अयुक्तिर्वा असिद्धादिभेदा। सान्यत्र प्रमाणसमुच्चयादौ। सुविचारिता प्रपञ्चेन निरूपितेत्यर्थः॥



न्यायप्रवेशकं यद्याख्यायावाप्तमिह मया पुण्यम्।

न्यायादिगमसुखदं संलभता भव्यो जनस्तेन॥



समाप्ता चेयं शिष्यहिता नाम न्यायप्रवेशकटीका॥

कृतिरियं हरिभद्रसूरेः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project