Digital Sanskrit Buddhist Canon

अथ तृतीयं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha tṛtīyaṁ prakaraṇam

अथ तृतीयं प्रकरणम्।



द्वाविंशतिविधा निग्रहस्थानापत्तिः। १ प्रतिज्ञाहानिः, २ प्रतिज्ञान्तरम्, ३ प्रतिज्ञाविरोध, ४ प्रतिज्ञासंन्यासः, ५ हेत्वन्तरम्, ६ अर्थान्तरम्, ७ निरर्थकम्, ८ अविज्ञातार्थम्, ९ अपार्थकम्, १० अप्राप्तकालं, ११ न्यूनम्, १२ अधिकम्, १३ पुनरुक्तम्, १४ अननुभाषणम्, १५ अज्ञानम्, १६ अप्रतिभा, १७ विक्षेपः (व्याजैर्दूषणपरिहारः) १८ मतानुज्ञा (परदूषणानुज्ञा), १९ पर्यनुयोज्योपेक्षणम् (निग्रहस्थानप्राप्तस्य निग्रहस्थानापत्त्युपेक्षणम्), २० निरनुयोज्यानुयोगः (अस्थाने निग्रहस्थानाभियोगः), २१ अपसिद्धान्तः, २२ हेत्वाभासाश्चेति द्वाविंशतिबिधानि निग्रहस्थानानि। यदि कस्यचिन्निग्रहस्थानापत्तिर्भवेत्, न पुनस्तेन सह वादः कर्तव्यः।



१. प्रतिज्ञाहानिः। स्वप्रतिज्ञायां प्रतिपक्षाभ्यनुज्ञेति प्रतिज्ञाहानिः।



नित्यः शब्दः। कस्मात्। अमूर्तत्वात्। आकाशवत्। इति स्थापिते ऽपरः प्राह। शब्द आकाशसाधर्म्यन्नित्य इति चेत्ततो यदि वैधर्म्यं स्यात्, तदाऽनित्यः। वैधर्म्यञ्च शब्दस्य सहेतुकत्वमाकाशस्य त्वहेतुकत्वमिति। शब्द ऐन्द्रियक आकाशस्त्वनैन्द्रियकः। तस्माच्छब्दोऽनित्य इति प्रत्यवस्थित इदमाह। साधर्म्यं वैधर्म्यं वा न मया समालोच्यते। नित्यसाधर्म्यं तु मयोक्तम्। यदि नित्यसधर्मा तदा नित्य इति।



अत्रापरः। नित्यसाधर्म्यमनैकान्तिकम्। अमूर्तान्यनित्यान्यपि बस्तूनि विद्यन्ते। यथा सुखदुःखादीनि। तस्मादसिद्धो हेतुः। वैधर्म्यं तु सर्वमनित्यं नित्यव्यतिरिक्तमिति निश्चितं व्यनक्ति। तस्मादनित्यतासाधने समर्थमित्युक्ते ब्रूयात्। अनित्यं सहेतुकम्। नित्यं त्वहेतुकमिति मयापि प्रतिपादितम्। इति प्रतिज्ञाहानिनिग्रहस्थानापत्तिः।



२. प्रतिज्ञान्तरम्। प्रतिज्ञातार्थप्रतिषेधे परेण कृते धर्मान्तरविकल्पादर्थनिर्देशः प्रतिज्ञान्तरमुच्यते।



नित्यः शब्दः। कस्मात्। अस्पर्शत्वात्। आकाशवदिति स्थापिते अपरः प्राह। अस्पर्शत्वहेतुना नित्यः शब्द इति भवता स्थापितम्। अस्पर्शत्वहेतुश्चानैकान्तिकः। चित्तेच्छक्रोधाद्यस्पर्शमप्यनित्यम्। शब्दो ऽप्यस्पर्शस्तस्मादनैकान्तिकता। आकाशादिवन्नित्यश्चित्तादिवदनित्यो वेत्यस्पर्शत्वमनैकान्तिकमेव। तस्माद्भवद्धेतुरसिद्धः। यदि हेतुरसिद्धस्तदा प्रतिज्ञाप्यसिद्धेति प्रसिद्धमिति प्रत्यवस्थित इदमाह। शब्दो नित्यता चेति न मम प्रतिज्ञा। अपि तु नित्यता शब्देन संबद्धा, शब्दश्च नित्यतथा सम्बद्ध इत्यस्मत्प्रतिज्ञा। यो मया निर्दिष्टः शब्दः स रूपादिनिषेधार्थः।



या च मया निर्दिष्टा नित्यता, सा नित्यतानिषेधार्था। नित्यता शब्दान्न व्यतिरिच्यते रूपादिभ्यस्तु व्यतिरिच्यते। शब्दो नित्यताया न व्यतिरिच्यते श्रोत्रग्राह्यादिकात्तु व्यतिरिच्यते। यद्यस्मान्न व्यतिरिच्यते, तत्तेन सम्बद्धम्, एषाऽस्मत्प्रतिज्ञा। मया न शब्दो न च नित्यता स्थाप्यते। भवान् पुनः शब्दञ्च नित्यताञ्च खण्डयति न तु मम प्रतिज्ञां खण्डयति। इयमुच्यते प्रतिज्ञान्तरानग्रहस्थानापत्तिः।



३. प्रतिज्ञाविरोधः। हेतुप्रतिज्ञयोर्विरोधः प्रतिज्ञाविरोध इत्युच्यते।



प्रतिवादी प्राह। नित्यः शब्दः। कस्मात्। सर्वस्यानित्यत्वात्। आकाशवत्। इति स्थापिते ऽपरः प्राह भवतोक्तं सर्वमनित्यं तस्मान्नित्यः शब्द इति। अथ शब्दः सर्वस्मिन्नन्तर्भवति न वा। सर्वस्मिन्नन्तर्भवति चेत्। सर्वस्यानित्यत्वाच्छब्दोऽप्यनित्यः। सर्वस्मिन्नान्तर्भवति चेत्तदा सर्वमित्यसिद्धम्। कुत इति चेत्। शब्दस्यासङ्ग्रहात्। हेतुवचने प्रतिज्ञाहानिः। प्रतिज्ञावचने च हेतुहानिः। तस्माद्भवतोऽर्थोऽसिद्धः। इयं प्रतिज्ञाविरोधनिग्रहस्थानापत्तिरुच्यते।



४. प्रतिज्ञासंन्यासः। परेण स्वप्रतिज्ञाप्रतिषेधे कृते संन्यासोऽसमर्थनेति प्रतिज्ञासंन्यासः।



नित्यः शब्दः। कुतः। ऐन्द्रियकत्वात्। यथा सामान्यमैन्द्रियकं नित्यञ्च। शब्दोऽप्यैन्द्रियकत्वान्नित्यः। इति स्थापितेऽपरः प्राह नित्यः शब्द ऐन्द्रियकत्वादिति भवतोक्तम्। अथ यदैन्द्रियकं तदनित्यलक्षणाक्रान्तं घटादिवत्। घटो ह्यैन्द्रियकत्वादनित्यः। तस्माच्छब्दोप्यनित्य इति। यद्भवतोक्तं सामान्यवन्नित्यमिति तदयुक्तम्। तथा हि गवादिसामान्यं गवादेरभिन्नं भिन्नं वा। अभिन्नञ्चेद्, गौरेव सन् सामान्यं त्वसत्। भिन्नञ्चेद्, गोर्व्यतिरिक्तं सामान्यं प्रकाशेत न तु गोर्व्यतिरिक्तं सामान्यं प्रकाशते तस्माद्दृष्टान्तो न नित्यतासाधकः। प्रतिज्ञा चासिद्धा। इति दूषणे कृते प्रतिवादी प्राह केनैतत्स्थापितम्। इयं प्रतिज्ञासन्न्यासनिग्रहस्थानापत्तिरित्युच्यते।



५. हेत्वन्तरम्। अविशेषहेतौ स्थापिते पश्चाद्धेत्वन्तरोक्तिरिति हेत्वन्तरम्।



नित्यः शब्दः। कस्मात्। द्विरनभिव्यक्तत्वात्। यन्नित्यं तत्सर्वं सकृदभिव्यक्तमाकाशवत्। शब्दस्यापि तथात्वम्। इति स्थापितेऽपरः प्राह। नित्यः शब्दो द्विरनभिव्यक्तत्वात्। आकाशवदिति न त्वेष हेतुर्युक्तः। कुत इति चेद्द्विरनभिव्यक्तस्य नित्यतानैकान्तिकत्वात्। यथा वायोः स्पर्शस्य च सकृदेवाभिवक्तवापि वायुरनित्यः। शब्दोऽपि तथेति प्रत्यवस्थित इदमाह। शब्दो वायुविलक्षणः। वायुर्हि त्वगिन्द्रियग्राह्यः। शब्दस्तु श्रवणग्राह्यः। तस्माच्छब्दो वायुविलक्षण इति।



अत्रापरः प्राह। पूर्वमुक्तं भवता शब्दो नित्यो द्विरनभिव्यक्तत्वादित्यधुना तूच्यते शब्दो वायुविलक्षणः पृथगिन्द्रियग्राह्यत्वादिति प्रथमहेतुत्यागेन भवत हेत्वन्तरं प्रतिष्ठापितम्। तस्माद्भवतो हेतुरसिद्धः। इयं हेत्वन्तरनिग्रहस्थानापत्तिरुच्यते।



६. अर्थान्तरम्। प्रकृतार्थाप्रतिसम्बद्धार्थाभिधानमर्थान्तरम्।



नित्यः शब्दः। कस्मात्। रूपादिपञ्चस्कन्धा दशहेतुप्रत्ययाः। एतदुच्यते अर्थान्तरम्।



७. निरर्थकम्। यदा वाद इष्टस्तदा मन्त्रभाषणमिति निरर्थकिम्।



८. अविज्ञातार्थम्। परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमित्यविज्ञातार्थम्।



यदि कश्चिद्धर्मं वक्ति परिषत्तु प्रतिवादी च जिज्ञासावपि त्रिरभिहितं ज्ञातुमसमर्थौ। यथा (कश्चिद्वदेद्) अणुरमूर्तः सुखोत्पादकः दुःखोत्पादकोऽप्राप्तो सापकर्षोत्कर्षः समितोऽसन्न्यासो न विनाशः। शब्दो नित्यः कस्मात्। अनित्यस्य नित्यत्वात्। इयमविज्ञातार्थनिग्रहस्थानापत्तिरुच्यते।



९. अपार्थकम्। पौर्वापर्य्यासम्बन्धोऽपार्थकम्। यथा कश्चिद्वदेत्। दशविधं फलं त्रिविधः कंबल एकविधं पानभोजनमेतदपार्थकमुच्यते।



१०. अप्राप्तकालम्। प्रतिज्ञायां दुष्टायां पश्चाद्धेतुस्थापनमप्राप्तकालम्।



नित्यः शब्दः। यथा पारिमाण्डल्याश्रयस्य परमाणोर्नित्यत्वात्पारिमाण्डल्यं नित्यं शब्दस्यापि तथात्वसम्भव इति कृतेऽपरः प्राह। भवता नित्यतास्थापने हेतुर्नोक्तः, पञ्चावयवन्यूनवचनस्थापनाद्भवदर्थोऽसिद्ध इति दूषित इदं प्राह। अस्ति मे हेतुर्नाम्ना तु नोक्तः। कोऽयं हेतुरिति चेत्। नित्याकाशाश्रयत्वमिति।



अत्रापरः। यथा गृहे दग्धे तत्परित्राणायोदकान्वेषणं तथाऽनवसरेऽर्थरक्षणाय हेतुस्थापनम्। एतदप्राप्तकालमुच्यते।



११. न्यूनम्। पञ्चावयवा अन्यतमेन हीना इति न्यूनम्। प्रतिज्ञा हेतुरुदाहरणमुपनयनं निगमनमिति पञ्चावयवाः।



यथा (कश्चिद्वदत्य) नित्यः शब्द इत्ययं प्रथमोऽवयवः। कृतकत्वादिति द्वितीयोऽवयवः। यद्वस्तु कृतकं तदनित्यं यथा घटः कृतकोऽनित्यश्चेति तृतीयोऽवयवः। शब्दोऽपि तथेति चतुर्थोऽवयवः। तस्माच्छब्दोऽनित्य इति पञ्चमोऽवयवः। पञ्चावयवानामन्यतमेन न्यूनता न्यूननिग्रहस्थानापत्तिरित्युच्यते।



१२. अधिकम्। बहुहेतूदाहरणोक्तिरधिकम्। यथा (कश्चिद्वदे) च्छब्दोऽनित्यः। कस्मात् ?। प्रयत्नानन्तरीयकत्वादमूर्तत्वादैन्द्रियकत्वादुत्पादविनाशाभ्यां वाच्यत्वाच्चैतद्धेतुबाहुल्यमित्युच्यते। अपि च शब्दोऽनित्यः कृतकत्वाद् घटवत्पटवत्गृहवत्कर्म्मवत्। एतद्दृष्टान्तबाहुल्यमित्युच्यते।



वादी प्राह। भवता हेतूदाहरणबहुल्यमुक्तम्। यद्येको हेतुः साधनासमर्थस्तदा कथमेकहेतुप्रयोगः। अथ साधनसमर्थस्तदा किं हेतुबाहुल्येन उदाहरणबहुल्येऽपि तथात्वसम्भवः। तद्बाहुल्योक्तेरप्रयोजनत्वात्।



१३. पुनरुक्तम्। पुनरुक्तं त्रिविधं, शब्दपुनरुक्तं, अर्थ पुनरुक्तं, अर्थापत्तिपुनरुक्तञ्च। शब्दपुनरुक्तं यथा (कश्चिद्वदे) च्छक्रः शक्रः। अर्थपुनरुक्तं यथा (कश्चिद्वदेत्) चक्षुरक्षि। अर्थापत्तिपुनरुक्तं यथा (कश्चिद्वदेत्) सत्यं संसारो दुःखं सत्यं निर्वाणं सुखम्। प्रथममेव वचनं वक्तव्यं द्वितीयं त्वप्रयोजनम्। कस्मात्। पूर्ववचनस्य स्पष्टार्थत्वात्। पूर्ववचनस्यार्थ स्पष्टश्चेद्, द्वितीयवचनेन किं स्पष्टं भवेत्। यदि न किञ्चित् प्रकटयितव्यं तदा तदप्रयोजनम्। एतत्पुनरुक्तमित्युच्यते।



१४. अननुभाषणम्। परिषदा विज्ञातायाः प्रतिज्ञायास्त्रिरभिहिताया अपि यदि कश्चित्प्रत्युच्चारणासमर्थस्तदाननुभाषणम्।



१५. अज्ञानम्। परिषदा विज्ञाताया अपि प्रतिज्ञायाः केनचिदविज्ञानमज्ञानमुच्यते।



६. अप्रतिभा। यदि परस्य प्रतिज्ञां न्यायवदीक्षते दूषणे चासमर्थस्तदाऽप्रतिभा।



अपरे तु वदन्ति। अज्ञानेऽप्रतिभायाञ्चोभयत्रानिग्रहस्थानापत्तिः। कस्मात् ?। यदि कश्चिदर्थं न विजानाति दूषणे चासमर्थस्तेन सह वादो न कर्तव्य इति।



एते त्वतिमन्दे निग्रहस्थाने। अन्येषु निग्रहस्थानेषु, सदोषस्य वचनस्य विविधेनोपायेनोद्धरणं शक्यम्। अत्र तूभयत्र न कश्चिदुपाय उद्धरणसमर्थः। एष मनुष्यः पूर्वं पाण्डित्यगौरवं स्थापयति, पश्चात्तु पाण्डित्यं प्रकटयितुमशक्तः।



१७. विक्षेपः। स्वप्रतिज्ञाया दोषं ज्ञात्वा व्याजैः परिहारः कार्यान्तरकथनम्। यथाहं स्वयं रोगी, अहं परं रोगिनं द्रष्टुमिच्छामि। तदा तु यदि नापक्रामति परदूषणनिराकरणं न कल्पयति। कस्मात्। बन्धुस्नेहापगमभयात्। इति विक्षेपनिग्रहस्थानापत्तिरुच्यते।



१८. मतानुज्ञा। परदूषणे स्वपक्षदोषाभ्युपगम इति मतानुज्ञा। यदि कश्चित् परेण दूषणे कृते, स्वपक्षदोषमनुजानाति, यथा मम दोष एवं भवतोऽपीत्यभ्युपगच्छन्। इयं मतानुज्ञोच्यते।



१९. पर्यनुयोज्योपेक्षणम्। यदि कश्चिन्निग्रहस्थानं प्राप्नुयात्, तस्य निग्रहापत्त्यनुद्भावनं तद्दूषणेच्छया तु दुषणस्थापनम्। तदर्थे च हीने किं प्रयोजनं दूषणेन। असिद्धमेतद्दूषणम्। एतदुच्यते पर्यनुयोज्योपेक्षणम्।



२०. निरनुयोज्यानुयोगः। कस्यचिदनिग्राह्यत्वेऽपि निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः। अन्यच्च। प्रतिवादिनि स्वप्रतिज्ञाहान्यापन्ने स्वपक्षभिन्नार्थोपादानेनास्थाने परनिग्रहस्थानद्योतनम्। अयमपि निरनुयोज्यानुयोगः।



२१. अपसिद्धान्तः। पूर्वं चतुर्विधे सिद्धान्ते स्वयमङ्गीकृतेऽपि पश्चाच्चेद्यथासिद्धान्तं न ब्रूयादयमपसिद्धान्तः।



२२. हेत्वाभासाः। यथा पूर्वमुक्तास्त्रिविधाः। असिद्धोऽनेकान्तिको विरुद्धश्चेति हेत्वाभासाः।



असिद्धः। यथा कश्चित् स्थापयेदश्व आगच्छति। कस्मात्। शृङ्गदर्शनात्। अश्वो ऽशृङ्ग इति शृङ्गहेतुरसिद्धो ऽश्वागमनस्थापनासमर्थः।



अनैकान्तिकः। यथा कश्चित् स्थापयेत्गौरागच्छति। कस्मात्। शृङ्गदर्शनात्। यः सशृङ्ग स गौरित्यनैकान्तिकः छागरुर्वादीनां सशृङ्गत्वात्। शृङ्गहेतुरनैकान्तिकः। तस्माद्गवागमनस्थापनासमर्थः।



विरुद्धः। यथा कश्चित् स्थापयेत्प्रभाते रात्रिः। कस्मात्। अरुणोदयात्। अरुणोदयो रात्र्या विरुद्धः। अरुणोदयहेतू रात्रिस्थापनासमर्थः। यदि केनचिदेष हेतुः प्रयुज्यते तदा हेत्वाभासनिग्रहस्थानापत्तिः।



इति तृतीयं प्रकरणम्।

समाप्तश्चायं ग्रन्थ।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project