Digital Sanskrit Buddhist Canon

अथ द्वितीयं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha dvitīyaṁ prakaraṇam

अथ द्वितीयं प्रकरणम्।



(शास्त्रमाह) खण्डनस्य त्रिविधदोषापत्तिः। विपरीनखण्डनमसत्खण्डनं विरुद्धखण्डनञ्चेति। यदि खण्डनमेतत्त्रिविधदोषोपेतं तदा निग्रहस्थानम्।



[तत्र] विपरीतखण्डनम्। यदि प्रतिष्ठापितं खण्डनं सम्यगर्थेन न संयुक्तं स्यात्तदा तद्विपरीतखण्डनमित्युच्यते। विपरीतखण्डनं दशविधम्। (१)साधर्म्यखण्डनम् (२) वैधर्म्यखण्डनम् (३) विकल्पखण्डनम् (४) अविशेषखण्डनम् (५) प्राप्त्यप्राप्तिखण्डनम् (६) अहेतुखण्डनम्(७) उपलब्धिखण्डनम् (८) संशयखण्डनम् (९) अनुक्तिखण्डनम् (१०) कार्यभेदखण्डनम्।



१. [तत्र] साधर्म्यखण्डनम्। वस्तुसाधर्म्यप्रत्यवस्थानं साधर्म्यखण्डनमित्युच्यते।



(शास्त्रमाह) शब्दोऽनित्यः प्रत्यनोत्पन्नत्वाद्यथा घटः प्रयत्नोत्पन्नः। उत्पन्नश्च विनष्टः। शब्दोऽपि तथेति शब्दो ऽनित्य इति स्थापिते प्रतिवादी प्राह। यदि घटसाधर्म्याच्छब्दोऽनित्यस्तदाकाशसाधर्म्याच्छब्दो नित्यः स्यात्। ततश्चाकाशवच्छब्दो नित्य इति। [अत्र] साधर्म्यममूर्तत्वम्।



(शास्त्रं पुनराह) शब्दो ऽनित्यः प्रयत्नोत्पन्नत्वात्। यन्नित्यं न तत्प्रयत्नेनोत्पन्नं यथाकाशं नित्यं न प्रयत्नेनोत्पन्नम्। शब्दस्तु न तथा। तस्माच्छब्दो ऽनित्य इति स्थापिते प्रतिवादी प्राह। यदि (शब्दस्य) नित्याकाशवैधर्म्यच्छब्दोऽनित्य इति, तदा किं प्राप्तम् ?। यद्याकाशसाधर्म्यं ततो नित्य एव शब्द इति। साधर्म्यं चामूर्तत्वं तस्मान्नित्यः।



(शास्त्रमाह) एते खण्डने विपरीतेऽसिद्धे च (खण्डने)। कुत इति चेत्। ऐकान्तिकैकरसधर्मस्थापनं हि हेतुरिति मन्यते। सर्वधर्माणां प्रयत्नोत्पन्नत्वेनानित्यतावर्णनात्। सोऽनित्यतावर्णकहेतुरैकान्तिकैकरसस्तस्मादनित्यताऽनपसरणीयैव। तत्सामानजातीयं चिख्यापयिषतया घटाद्युदाहरणमुक्तम्।



प्रतिवादी त्वनैकान्तिकैकरसार्थप्रत्यवस्थानेन खण्डनं भाषते यथा यदि भवान् साधर्म्येण शब्दस्यानित्यतां स्थापयति तदाहमपि वैधर्म्येण शब्दस्य नित्यतां प्रतिष्ठापयामि। यदि च भवदर्थः सिद्धो ममाप्यर्थः सिद्धो भवेदिति।



(शास्त्रमाह) भवतः खण्डनमयुक्तम्। कुत इति चेत्। भवत्प्रयुक्तस्य हेतोरनैकान्तिकनित्यत्वानित्यत्वाव्याप्तिवर्णनात्। अस्माभिस्त्रिलक्षणो हेतुः स्थापितः। तद्यथा पक्षधर्म्मः सपक्षसत्वं विपक्षव्यावृत्तिश्च। तस्माद्वेतुसिद्धिरनपसरणीया। भवद्धेतुस्तु न तथा तस्माद्भवत्खण्डनं विपरीतम्। यदि भवता प्रतिष्ठापितो हेतुरस्मद्धेतुतुल्योभवेत्तदा सम्यक्‍खण्डनं सिध्येत। यद्यनित्यताप्रतिज्ञा नित्यतां खण्डयति तदा [नित्यता-] खण्डनसिद्धिः। कुत इति चेत्। नित्यतास्थापकहेतुनानित्यतास्थापकहेतुः खण्ड्यते चेत्, तदानित्यताविपर्यासदोषो व्यक्तीकर्तुं न शक्यत इति प्रसिद्धम्। नित्यताहेतोरनैकान्तिकैकरसत्वादनित्यताहेतोरैकान्तिकैकरसत्वाच्च।



२. वैधर्म्यखण्डनम्। वस्तुवैधर्म्यप्रत्यवस्थानं वैधर्म्यखण्डनमित्युच्यते।



(शास्त्रमाह) अनित्यः शब्दः। कस्मात् ? कृतकत्वात्। यत् कृतकं तदनित्यम्। यथाकाशं नित्यमकृतकत्वात्। शब्दस्य तथात्वाभावाच्छब्दोऽनित्यः।



प्रतिवादी प्राह। यदि शब्दो नित्याकाशविधर्म्यादनित्य इति, तदा किं प्राप्तम्। यदि घटवैधर्म्यं शब्दस्य, तदा स नित्य इति। तद्वैधर्म्यममूर्तत्वम्। घटो मूर्तस्तस्माद्घटोऽनित्यः शब्दस्तु नित्यः।



(शास्त्रमाह) शब्दोऽनित्यः कृतकत्वात्। यथा घटोऽनित्यः कृतकत्वात्, तथा शब्दोऽपि।



प्रतिवादी प्राह। यदि घटसाधर्म्याच्छब्दस्यानित्यता भवता स्थापिता, तदा किं प्राप्तम् ?। शब्दो नित्य एव घटवैधर्म्याद्वैधर्म्यममूर्तत्वम्। घटस्तु मूर्तः।



(शास्त्रमाह) विपरीत एते खण्डने। कुत इति चेत्। अस्मत्स्थापितानित्यताहेतोरैकान्तिकैकरसत्वात्। भवत्प्रतिष्ठापितनित्यताहेतोस्त्वनैकान्तिकैकरसत्वान्नित्यत्वानित्यत्वव्याप्तिवर्णनात्। तस्मादनिश्चितहेतुरैकान्तिकहेतुं खण्डयितुं न शक्नोति। योऽस्माभिः स्थापितो हेतुः कृतकत्वाच्छब्दोऽनित्य इति तस्य (हेतोः) पक्षधर्म्मः सपक्षसत्त्वं विपक्षव्यावृत्तिश्च। त्रयलक्षणसम्पन्नत्वात् सोऽनपसरणीयः। यः पुनर्भवत्प्रतिष्ठापितो हेतुः शब्दो नित्योऽमूर्तत्वादिति तस्य पक्षधर्मः सपक्षे विपक्षे च वर्तत इत्यसिद्धो हेतुः।



३. विकल्पखण्डनम्। साधर्म्ये वैधर्म्यप्रत्यवस्थानं विकल्पखण्डनमुच्यते।



(शास्त्रमाह) शब्दोऽनित्यः प्रत्यत्नेनोत्पन्नत्वाद्घटवदिति शब्दस्यानित्यता।



प्रतिवादी प्राह। भवाञ्छब्दस्य प्रयत्नेनोत्पन्नत्वाद्घटवत्साधर्म्यं स्थापयति। अस्ति पुनस्तद्वैधर्म्यम्। पक्कत्वमपक्वत्वं, चाक्षुषत्वमचाक्षुषत्वमित्यादि एवं घटशब्दयोः प्रत्येकं विशेषः। शब्दः प्रयत्नेनोत्पन्नत्वान्नित्यः घटस्तु प्रयत्नेनोत्पन्नोऽप्यनित्यः। तस्माच्छब्दो नित्यः।



विपरीतमेतत्खण्डनम्। कुत इति चेत्। अस्मत्स्थापितहेतुरनित्यताऽव्यावृत्तो नित्यताव्यावृत्तः। एतद्धेतुस्थापनमनित्यतानुमानार्थम्। यथाग्न्यनुमानार्थं धूमः प्रयुज्यते। धूमो ह्यग्न्यव्यावृत्तः। तस्मादस्मत्स्थापितहेतुः सिद्वोऽनपसरणीयश्च।



भवता शब्दस्यापक्व इति विशेषणं प्रयुज्यते। ततश्च नित्य इति। तदेच्छाद्वेषदुःखसुखवाय्वादीन्यपक्वानि न पुनरेतानि नित्यानि। तस्मादपक्वत्वं नित्यताहेतुत्वेन न प्रतिष्ठापयितव्यम्। न चाचाक्षुषत्वमपि नित्यताहेतुत्वेन प्रतिष्ठापयितव्यम्। कुत इति चेत्। इच्छद्वेषदुःखसुखवाय्वादीन्यचाक्षुषाणि न पुनर्नित्यानि। भवद्धेतुः सपक्षे विपक्षे च वर्तते तस्मादसाधकः। भवद्धेतुर्मम (हेतो) स्तुल्यो मत्प्रतिज्ञायाश्च खण्डनासमर्थ इति चेत्। अस्मत्स्थापनं त्रिविधहेतुसमाश्रितं तस्मादतुल्यम्। यदतुल्यं तुल्यमिति भवतोक्तं तस्माद्भवतः खण्डनं विपरीतम्।



४. अविशेषखण्डनम्। एकसाधर्म्यख्यापनात्सर्वस्याविशेषेण प्रत्यवस्थानमविशेषखण्डनमुच्यते।



शब्दोऽनित्यः कारणभेदेन शब्दस्य भेदाद्दीपवत्। यदि वर्तिका महती ज्योतिर्महत्। यदि वर्तिका क्षुद्रा ज्योतिरपि क्षुद्रम्, इति स्थापिते। प्रतिवादी प्राह यदि साधर्म्याद्यथा घटाद्यनित्यं शब्दोऽपि तथा स्यात्तदा सर्वस्य सर्वेणाविशेषप्रसङ्गः। कुत इति चेत्। सर्वस्य सर्वेण साधर्म्यात्। साधर्म्यं किं पुनश्चेत्। सत्तैकत्वं प्रमेयत्वमित्येतत् साधर्म्यमुच्यते। सधर्माण्यपि सर्वाणि वस्तूनि विशेष्टवस्तुभ्यो भिन्नानीति चेच्छब्दोऽपि तथा। घटादिसधर्माऽपि शब्दो नित्यो घटस्त्वनित्यः। कुत इति चेत्। सत्त्वादिसाधर्म्येऽपि स्वभावविशेषसम्भवात्। यथा दीपः शब्दो मनुष्योऽश्व इत्यादि। इति साधर्म्यसमाश्रितमनुमानमसिद्धम्।



विपरीतमेतत्खण्डनं कुत इति चेत्। सर्वेषां न मया सत्त्वादिसाधर्म्यं प्रतिषिद्वमपि तु तेषां विशेष एवावधार्यते। साधर्म्यसम्पत्तित्रैविध्यमनित्यतां स्थापयति। तच्चास्माभिरनित्यतासाधनायोच्यते न तु साधर्म्यमात्रमुपादीयते न खल्वस्ति सा काऽपि युक्तिर्या नैवं विचार्यते। कस्मादिति चेत्। नैकमपि विद्यते तादृशं यदन्यवस्तुनो न सदृशं न च विशिष्टं स्यात्। तस्माद्यदि साधर्म्यमस्ति तदा तत्सपक्षवर्ति सर्वविपक्षव्यावृत्तम्। यदि तदुपादानेन हेतुस्थापनं, सिद्धो हेतुरेष। साधर्म्यमात्रेण हेतुप्रतिष्ठापनं त्वसिद्धं तस्माद्विपरीतम्।



पुनश्चानित्यः शब्दः कृतकत्वाद्घटवत्। तस्माच्छब्दोऽनित्यः।



प्रतिवादी प्राह। हेतुः प्रतिज्ञा चाभावान्न भिद्येते। को नामार्थो हेतुसमुत्पादस्य। हेत्वसंयोगे शब्दस्यानुत्पाद इति। अनुत्पन्नत्वादभाव एवेत्येतस्यार्थः। कथं नाम शब्दोऽनित्य इति। अनुत्पन्नः शब्द उत्पत्तिमुपलभत उत्पन्नो विनश्यति। विनाशाच्चाभाव एवेत्येतस्यार्थः। इति हेतुः प्रतिज्ञा चाभाववत्।



विपरीतमेतत्खण्डनम्। कुत इति चेत्। अस्मत्प्रतिज्ञाया अभावः प्रध्वंसाभावात्मकः। अस्मत्स्थापितहेतोरभावः प्रागभावः। प्रागभावः सर्वलोकप्रसिद्धत्वात्सिद्धोऽनित्यताहेतुत्वेन स्थापितः। प्रध्वंसाभावः सांख्याद्यप्रसिद्वत्वादसिद्धः। अर्थो हि सिद्धेन हेतुना स्थाप्यते।



यदि सिद्धा प्रतिज्ञोपादीयते ऽसिद्धस्तु हेतुर्भवतः खण्डनस्य विपर्यासोऽधिकतरो भवेत्। सर्वेषां वस्तूनां पूर्वमभूत्वा पश्चादभाव इति मयोक्तम्। तस्माच्छब्दः पूर्वमसंश्चेत् पश्चादप्यसन्। यदि पूर्वमसत्त्वं भवतो ऽननुज्ञातं तदैतद्भवता चिन्त्यताम्। यदि पूर्वं शब्दः सन्नेव न चास्ति प्रतिबन्धस्तदा कस्माच्छ्रोत्रेण नोपलभ्यते। तस्मात्पूर्वमसत्त्वं नागपदवदिति ज्ञायते। यदि कञ्चिद्विशिष्टबुद्धिरभिमतमर्थं साधयितुं न शक्नोति, इष्टसाधनं च न युक्तिसम्पन्नं सोऽर्थो निरसनीयः।



५. प्राप्त्यप्राप्तिखण्डनम्। हेतुः साध्यं प्राप्नोति न वा ?। यदि तावत् साध्यं प्राप्नोति तदासाधकः। अथ हेतुः साध्यं न प्राप्नोति तदाप्यसाधकः। एतत्प्राप्त्यप्राप्तिखण्डनमुच्यते।



प्रतिवादी प्राह। यदि हेतुः साध्यं प्राप्नोति तदा साध्येन संसर्गात्साध्यं न साधयति। यथा नदीवारि समुद्रवारिप्रविष्टं न पुनर्नदीवारि, हेतुस्तद्वदसाधकः। यदि साध्यमसिद्धं, तदा हेतुरप्रापकः। यदि प्रापकस्तदा किं सिद्धस्यार्थस्य हेतुना। तस्माद्धेतुरसिद्धः। अथ न प्राप्नोति तदा सोऽन्यवस्तुवदसाधकं, तस्मद्धेतुरसिद्धः। यदि हेतुरप्रापकस्तदाऽसमर्थः। यथाग्निरप्राप्य दहनासमर्थोऽसिश्चाप्राप्य छेदनासमर्थः।



विपरीतमेतत्खण्डनं। द्विविधो हेतुः। उत्पत्तिहेतुर्व्यञ्जनहेतुश्च। यदि भवतः खण्डनमुत्पत्तिहेतुसमाश्रितं तदा सिद्धं खण्डनम्। यदि व्यञ्जनहेतुसमाश्रितं तदा विपरीतम्। कस्मादिति चेत्। उक्तं मया यद्धेतुः साध्यं नोत्पादयत्यपि तु परप्रतिपादनार्थं साध्यं व्यनक्त्यव्यावृत्तत्वात्। साध्यसत्त्वेऽपि साध्यस्य यथार्थज्ञानं न जायते। कुत इति चेत्। मोहात्। तस्माद् व्यञ्जनहेतुरित्युच्यते। यथा रूपसत्त्वेऽपि प्रदीपप्रयोजनं तद्व्यञ्जनार्थं न तु तदुत्पत्त्यर्थम्। तस्माद्व्यञ्जनहेतावुत्पत्तिखण्डनं विपरीतखण्डनम्।



६. अहेतुखण्डनं। त्रैकाल्ये हेतोरसम्भव इत्यहेतुखण्डनमुच्यते।



प्रतिवादी प्राह। किं हेतुः साध्यात्पूर्वं पश्चाद्युगपद्वा। यदि तावद्धेतुः प्राक् साध्यञ्च पश्चात्तदासति साध्ये, हेतुः कस्य साधकः ?। अथ पश्चात्, साध्यञ्च प्राक्, तदा सिद्धे साध्ये किं हेतुना ?। अथ युगपत्तदाहेतुः। यथा युगपत्सद्भावाङ्गोः शृङ्गे दक्षिणं वामं वा परस्परोत्पादके इत्ययुक्तम्। तस्माद्यौगपद्यञ्चेत्तदा हेतुत्वासम्भवः।



विपरीतमेतत्खण्डनम्। कुत इति चेत्। यत्पूर्वं समुत्पन्नं तदेव हेतुना व्यज्यते यथा दीपः विद्यमानान्येव वस्तूनि व्यनक्ति न त्वविद्यमानानि वस्तून्युत्पादयति। भवान् पुनरुत्पत्तिहेतुना मे व्यञ्जकहेतुं खण्डयति तस्माद्विपरीतमेतत्खण्डनं, न तु सिद्धम्।



अथ मन्यसे यद्येष हेतुर्व्यञ्जकहेतुर्भवति ज्ञानाभावे स कस्य हेतुः। तस्माद् व्यञ्जकहेतुरसिद्ध इति कृते खण्डने, तदा प्राप्तिक्रियाऽसम्भवे हेतुर्नाम नोपपद्यते क्रियासद्भावे तु हेतुर्नामोपपद्यते। यदा व्यञ्जनक्रिया तदैव हेतुर्नामोपपद्यते। तदुक्तं भवति पूर्वं हेतुर्नाम नोपपद्यते पश्चात्तु हेतुर्नामोपपद्यते। यच्चाभिहितं हेतुः प्राक् क्रिया तु पश्चादिति तददोषम्। अथैवं सति, क्रियाया हेतुतोऽनुत्पत्तिरिति चेदेतत् खण्डनमसिद्धम्। कस्मादिति चेत्। एतत्प्रागेव [सद्] वस्तु पश्चाद्धेतुर्नामोपपद्यते। वस्तुनि विनष्टे पश्चात् क्रियोत्पत्तिरिति चेत्, तदैतत्खण्डनं सिध्यति न त्वेवमुच्यते, पूर्वं भावेऽपि [हेतोरिति] नामानुपपत्तिः पश्चात्तु नामोपपत्तिः। तस्मात्फलस्य हेतुत उत्पत्तिः।



७. उपलब्धिखण्डनम्। विशिष्टहेतुनानित्यतावर्णनादेषोऽहेतुरिति उपलब्धिखण्डनमुच्यते।



प्रतिवादी प्राह। यदि प्रयत्न[आनन्तरीयक]त्वाच्छब्दो ऽनित्यस्तदा यत्र प्रयत्नो न विद्यते तत्र नित्यताप्रसङ्गः। यथा विद्युद्वाय्वादीन्यप्रयत्न[आनन्तरीयक]आण्यनित्येषु चान्तर्भूतानि तस्मादनित्यत्वे साध्ये न प्रयत्नमात्रं समाश्रयणीयं प्रयत्नस्यासाधनत्वात्। साधनञ्चेद्यत्र यत्र प्रयत्नो नास्ति तत्र तत्र नित्यतायाः सम्भवः। यथाग्निं विना न धूमस्थितिः। धूमोऽग्नेः सद्धेतुर्धूमाग्न्योरव्यतिरेकात्। प्रयत्नस्तु न तथा, तस्मादसिद्धो हेतुः। किञ्च प्रयत्नो नानित्यतास्थापनासमर्थः। कुत इति चेत्। व्याप्त्यभावात्। व्याप्तिसम्भवे ह्यनित्यतास्थापनोपपत्तिः। व्याप्त्यसम्भवे त्वनित्यतास्थापनानुपपत्तिः। यथा कस्यचित्प्रतिज्ञा स्यात् सर्वे तरवो दिव्यचेतना इति। कस्मादिति चेत्। तरूणां निद्रासम्भवाच्छिरीषवत्। तत्राह खण्डयिता। तरूणां दिव्यचेतनासिद्धा। कस्मात् ? हेतोर्व्याप्त्यभावात्। शिरीष एव स्वपिति न त्वपरे तरवः। स स्वप्नो न सर्वांस्तरून् व्याप्नोति तस्मात्सर्वेषां तरूणां दिव्यचेतनत्वप्रतिष्ठापने स्वप्नोऽसमर्थः। प्रयत्नोऽपि तथा सर्वेषामनित्यानामव्यापकत्वादनित्यतास्थापनेऽसमर्थः॥



विपरीतमेतत्खण्डनम्। मयैवं नोक्तम्। नैतदुच्यते मया यत्प्रयत्नः सर्वानित्यताख्यापने समर्थो हेतुरन्ये तु हेतवो ऽसमर्थाः। यद्यन्योऽनित्यताख्यापने समर्थो हेतुर्विद्यते तदाहं सुखी। अस्मदर्थसिद्धेः। अस्मत्स्थापितो हेतुः ख्यापनसमर्थः, अन्यो ऽपि हेतुः ख्यापनसमर्थः। तस्मात्प्रतिज्ञा सिद्धा। यथा धूमेनाग्निरनुमितः। यदि कश्चिद्वदेत्प्रभयाग्निरपि सिद्धो ऽस्मदर्थेऽपि तथासम्भवः। प्रयत्नोत्पत्तिरनित्यताख्यापनसमर्था। यद्यन्ये ऽपि हेतवो ऽनित्यताख्यापनसमर्था, अनित्यतापि सिद्धा। तस्माद्विपरीतं खण्डनं भवतः। अस्मन्मताखण्डनात्। यद्यहं ब्रवीमि यद्यदनित्यं तत्तत्सर्वं प्रयत्नसमुत्पन्नमिति तदा प्रयत्नोत्पत्तिहेतोरव्यापित्वादसिद्धत्वमिति भवता खण्डनं वक्तव्यम्। तदैतच्च खण्डनं विशिष्यते। यदाहं ब्रवीमि शब्दाबिकमनित्यं प्रयत्नसमुत्पन्नत्वात्तदा यत्सर्वमनित्य तत्प्रयत्नसमुत्पन्नमिति नोच्यते। तस्माद्विपरीतं खण्डनं भवतः।



८. संशयखण्डनम्। विपक्षसाधर्म्यात्संशयवादेन खण्डनम्।



अनित्यः शब्दः प्रयत्नसमुत्पन्नत्वात्। यद्यत्प्रयत्नसमुत्पन्नं तत्तदनित्यं घटवत्। इति स्थापिते प्रतिवादी प्राह। यत्समुत्पन्नं तत्प्रयतेन व्यक्तं यथा मूलकीलकोदकं प्रयत्नेन व्यक्तं न तु प्रयत्नेन समुत्पन्नम्। शब्दोऽपि तथा। तस्मात्प्रयत्नद्वारा हेतुस्थापनमनियतमनुत्पन्न उत्पन्ने च भावात्। तस्मात् तं हेतुमाश्रित्य शब्दे संशयोत्पत्तिः। कथं च शब्दोऽवधार्यते ? किं घतवदसमुत्पन्नः समुत्पद्यते मूलकीलोदकवत्समुत्पन्नो वा व्यज्यते ? तस्मदनैकान्तिकता। तस्मादुत्पत्तिहेतोः संशयोत्पादकत्वादसाधकत्वमिति ज्ञेयम्। कस्मात्। उत्पादकत्वाद् व्यक्तीकरणाच्च।



विपरीतमेतत्खण्डनम्। कुत इति चेत्। नोक्तमस्माभिर्यच्छब्दः प्रयत्नेन व्यक्तः। अपि तु यतः प्रयत्नेन समुत्पन्नस्तस्माच्छब्दो ऽनित्य इति। पुनर्भवता किं खण्ड्यते। यदि (भवतो)च्यते प्रयत्नकार्यं द्विविधमुत्पत्तिरभिव्यक्तिश्च। उत्पत्तिर्घटादिवदभिव्यक्तिर्मूलकीलो दकादिवत्। शब्दो ऽपि प्रयत्नकार्यः। तस्मात्तस्मिन् नित्यताऽनित्यतासंशयोत्पत्तिरिति। तदयुक्तम्। कुत इति चेत्। मूलकीलोदकादेरप्रयत्नकार्यत्वात्। मूलकीलोदकाभिव्यक्तिः प्रयत्नकार्य्येति चेत्। एतदस्मन्मतं न खण्डयति। अभिव्यक्तिरनुत्पन्ना प्रयत्नेनोत्पत्ति लभते। तस्मात्प्रयत्नकार्यमेकविधं सदैवनित्यत्वादिति भवत्खण्डनमयुक्तम्।



अथ मन्यसे यत्प्रयत्न-[कार्यं] तद्द्विधम्। अनित्यं नित्यञ्च। घटोत्पत्तिरनित्या घटध्वंसो नित्यः। शब्दोऽपि तथेति। एष संशयोऽयुक्तः। कस्मात् ? असिद्धत्वात्। यदि भवतो घटध्वंसस्य ध्वंसे सद्भावस्ततः सद्भावाद्ध्वंसाभावः स्यात्। यदि ध्वंसे ऽभावस्तदा ध्वंसो ऽभाव एव। कुत इति चेत्। भावाभावात्। अन्धकारवत्। अन्धकारे ज्योतिषोऽभावः तस्मादन्धकारः। ध्वंसो ऽपि तथा। ध्वंसे भावाभावः तस्माद्ध्वंसभाव इति चेत्। तदयुक्तं खपुष्पबन्ध्यापुत्रशशविषाणेषु भावाभावात्तेषामपि सद्भावप्रसङ्गः। यदि खपुष्पादीनां सद्भावो भवता नानुज्ञायते, तदा घटध्वंसस्यापि तथात्वम्। तस्मात्सद्भाव इति न वक्तव्यम्। तस्मात्प्रयत्नकार्यमेकविधं सदैवानित्यत्वात्। तस्मादयुक्तो भवतः संशयः। अप्रतिपत्तिश्चेद्भवतः प्रतिपादनार्थमहं व्यञ्जनहेतुं वदामि। अनित्यः शब्दः। कस्मात्। प्राग्व्यवधानाभावात्प्रयत्नेनोत्पत्तिनिष्पत्तिः। तस्मादनित्यः शब्दो घटवदिति ज्ञातम्। यत्प्रयत्नेनोपलभ्यते यच्च प्रयत्नेन क्रियते तदुभयं भिन्नमिति भवता प्रतिष्ठापितम्। तदयुक्तम्। कोऽयमर्थो यत्प्रयत्नेनोपलभ्यते तदनित्यमिति। कस्मात्। यस्मादनुत्पन्नं समुत्पद्यते समुत्पन्नञ्च विनश्यति। तस्मान्मूलकीलोदकादेस्तथाप्यनित्यतासम्भवः। यच्चोच्यते यदभिव्यक्तं नित्यमिति तस्य किं प्रयोजनम्।



९. अनुक्तिखण्डनम्। पूर्वमनुक्तत्वादनित्यताऽभाव एतदनुक्तिखण्डनम्।



प्रतिज्ञा पूर्ववत्। प्रतिवादी प्राह। प्रयत्न इति वचनं शब्दस्यानित्यताहेतुरिति चेत्तदा किं प्राप्यते ? प्रयत्न इत्यनुक्ते तदा शब्दो नित्यः। एतदेव प्राप्यते, पूर्वकाले नित्ये सति कथमधुनानित्यः स्यात्।



विपरीतमेतत्खण्डनम्। कस्मात्। अस्माभिः स्थापितो हेतुरभिव्यक्त्यर्थो नोत्पत्त्यर्थो न वा विनाशार्थः। यद्यस्मत्स्थापितस्य हेतोर्विनाशः स्यात्तदा भवत्खण्डनं विशिष्येत। यदा हेतुर्मयानुक्तस्तदा शब्दस्यानित्यतानभिव्यक्तेति चेद्भवत्खण्डनम्। एतत्खण्डनाभास एव। यदि विनाशहेतुना माम् खण्डयति भवान् तद्विपरीतखण्डनं स्यात्।



१०. कार्यभेदखण्डनम्-कार्य्यभेदाद् घटवतच्छब्द इति न वक्तव्यम्। एतत् कार्यभेदखण्डनमुच्यते।



अनित्यः शब्दः कृतकत्वाद् घटवदिति स्थापिते प्रतिवादी प्राह घटशब्दयोः कार्यभेदः। कार्यभेदात् तुल्यानित्यतानुपपत्तिः।



विपरीतमेतत्खण्दनम्। कस्मात् ?। अनित्य शब्दो घटसमानकार्यत्वादिति नोक्तं मया। अपि तु सर्वाणि वस्तूनि तुल्येन न्यायेन कृतकत्वाद् अनित्यानीत्येवमुक्तम्। न तु समानकार्यापेक्षत्वाद् घटवच्छब्दोऽनित्य इति। धूमो भिन्नोऽप्यग्निव्यञ्जकः। घटोऽपि तथा शब्दस्यनित्यताव्यञ्जकः।



अन्यच्च परणोक्तं कार्यविशेषखण्डनम्। अन्यदस्ति येनोच्यते नित्यः शब्द आकाशसमाश्रितत्वात्। आकाशो नित्यः। यत्किञ्चिदाकाशसमाश्रितं तन्नित्यम्। यथा परमाणोः पारिमाण्डल्यम्। परमाणुर्नित्यः पारिमाण्डल्यञ्च परमाणुसमाश्रितं, तस्मात्पारिमाण्डल्यं नित्यम्। शब्दोऽपि तद्वदाकाशसमाश्रितत्वान्नित्यः। अन्यच्च। नित्यः शब्दः। कस्मात्। श्रावणत्वात्। यथा शब्दत्वं श्रवणग्राह्यं नित्यञ्च, तथा शब्दो ऽपि तस्मान्नित्यः। एतत्प्रतिज्ञान्तरम्।



वैशेषिक आह। यदि नित्यं हेतुना स्थाप्यते, ततो हेतुक्रियत्वादनित्यम्। तस्माच्छब्दोऽनित्यः।



विपरीतमेतत्खण्डनम्। कस्मात् ? न मयोक्तं हेतुना नित्यतोत्पन्नेति, अपि तु हेतुरनित्यतां व्यनक्ति। परस्याज्ञानात्परस्य प्रतिपादनार्थमस्मत्स्थापितहेतुर्व्यञ्जनहेतुर्न त्वुत्पत्तिहेतुः। भवत्खण्डनमुत्पत्तिहेतोरेव। तस्माद्विपरीतम्।



किञ्च प्रतिज्ञाखण्डने भवदुक्ते न मयानुज्ञाते। कुत इति चेत्। नास्माभिरनित्यतेष्टा प्रतीता वा। तस्मादुक्तो मयैषो ऽर्थः।



एतद्दशविधं विपरीतखण्डनमुच्यते। विपर्ययेण तद्दोषस्थापनात्। यदि खण्डनं तत्तुल्यं भवेत्तदा विपरीतखण्डनापत्तिः।



अपरमसत्खण्डनम्। मिथ्यावचनादसत्। मिथ्यावचनं त्वयथार्थमनर्थकञ्च। एतदुच्यतेऽसत्खण्डनम्। असत्खण्डनं त्रिविधमवर्ण्य(व्यञ्जक) खण्डनमर्थापत्ति(व्यञ्जक)खण्डनं, प्रतिदृष्ट(आर्थव्यञ्जक)खण्डनञ्च।



१. अवर्ण्य(व्यञ्जक)खण्डनम्। प्रत्यक्षविषये यद्धेत्वन्वेषणं तदवर्ण्यखण्डनमुच्यते।



अनित्यः शब्दः। कुत इति चेत्। कृत्रिमत्वाद्घटवदिति स्थापिते प्रतिवादी प्राह। अस्माभिर्दृष्टं यद्घटः कृत्रिमः। केन हेतुना तदनित्यतानुमीयते। यदि हेतुं विना घटस्य नित्यता स्थापिता शब्दोऽपि नित्येताहेतुमन्तरेण नित्यो भवेत्।



असत्तत्खण्डनम्। कस्मात् ?। यत्[पूर्वमेव]प्रतीतं न तस्य हेतुना साधनम्। यदि प्रतीयते यद्वटः सहेतुकोऽनित्यश्चेति किमनित्यताहेत्वन्म्वेषणेन। तस्मादसदेतत्खण्डनम्।



२. अर्थापत्ति(व्यञ्जक)खण्डनम्। विपक्षेऽर्थापत्तिरेतदर्थापत्तिखण्डनम्।



आत्मा न विद्यते। कुत इति चेत्। अनभिव्यक्तत्वाद्वन्ध्यापुत्रवदिति स्थापिते प्रतिवादी प्राह। तदेतदर्थादापत्तिर्यद्यभिव्यक्तं सदनभिव्यक्तं त्वसदिति। अथाभिव्यक्तं कदाचित्सत्कदाचिदस। अनभिव्यक्तं तद्वत्। अलातचक्रमरीचिगन्धर्वनगरवत्। तदभिव्यक्तम्। तत्सभ्दावस्थापनं त्वशक्यम्। यद्यभिव्यक्तस्य सभ्दावस्थापनमशक्यं तदानभिव्यक्तस्यासभ्दावप्रतिष्ठापनं [सुतराम] शक्यम्।



असत्तत्खण्डनम्। कोऽसौ न्यायो येनैतदर्थादापत्तिर्भवेत्। यदनभिव्यक्तं तदत्यन्तमसदिति नैतदर्थादापद्यते। अभिव्यक्तं द्विविधमनर्थापत्तिरर्थापत्तिश्च। यदि वृष्टिर्भवति तदा मेघेनापि भवितव्यम्। मेघे सत्यपि तु कदाचिदृष्टिर्भवति कदाचिन्न भवतीत्यनैकान्तिकता। धूमेनाग्नेरनुमानम्। नात्रार्थादापत्तिः। धूमे दृष्टे सत्यग्निरनुमीयते धूमे त्वसति अग्नेरभावः। अनर्थापत्तिरियम्। कस्मादिति चेत्। तप्तायःपिण्डे लोहिताङ्गारे च धूमाभावेऽप्यऽग्नेः सद्भावः। तस्मादभिव्यक्तेष्वर्थापत्तिखण्डनमभूतम्।



अन्यच्च। रूपमेवालातचक्रमरीचिगन्धर्वनगराणीति प्रतिभातीन्द्रियभ्रमाच्चित्तविपर्यासेन। तच्च वर्तमान एव सदनागते त्वसत्। रूपमात्रमिन्द्रियभ्रमाच्चित्तविपर्यासेन कदाचित् सद्[वस्तीव] प्रकाशते। यदुक्तं भवताभिव्यक्तस्य सत्त्वमनैकान्तिकं तदयुक्तम्। किञ्च बन्ध्यापुत्रदृष्टान्तेनायमेवार्थो मया निश्चीयते। यदभिव्यक्तिस्थानान्न प्रभ्रंशते तद्वस्त्वभाव एव। बन्ध्यात्रवत्। यच्चानभिव्यक्तिस्थानात्प्रभ्रंशते नैषो मे दृष्टान्तः। अण्वाकाशादिषु तु कदाचिदभिव्यक्तिः कदाचिदनभिव्यक्तिः। भवदर्थापत्तिः प्रति मयार्थापत्तिरुक्ता। यदभिव्यक्तिस्थानादेकान्तेन प्रभ्रंशते तद्वस्तु सदेव। अलातचक्रादिषु चक्रमेवानैकान्तिकम्। तच्च चक्रस्यानैकान्तिकता यत् प्रवर्तनकाले सत्, स्थितिकाले चासत्। तस्मात् नेयमर्थापत्तिः। अनर्थापत्तावर्थापत्तिखण्डनं चेदेतत् खण्डनमसत्। पुनरन्यथाप्यर्थापत्तिखण्डनं वदन्ति। यदि घटसाधर्म्यादनित्यः शब्द इत्यर्थादापन्नं तदासाधर्म्यान्नित्यः। असाधर्म्यं यच्छब्दः श्रवणग्राह्यो ऽमूर्तश्च घटस्तु चक्षुर्ग्राह्यो मूर्तश्च। असाधर्म्याच्छब्दो नित्यः।



एवंविधखण्डनं साधर्म्यखण्डनतो ऽर्थापत्तिखण्डनाविशेषान्न मयानुज्ञातम्।



३. प्रतिदृष्टान्तखण्डनम्। प्रतिदृष्टान्तबलात् साधनम्। एतदुच्यते प्रतिदृष्टान्त (व्यञ्जक) खण्डनम्।



अनित्यः शब्दोऽनित्यघटसाधर्म्यादिति चेत्। तदाहमपि तस्य नित्यतां व्यक्तीकरोमि। यथा नित्याकाशसाधर्म्यान्नित्यः शब्दः। यदि नित्यतासाधर्म्यान्नित्यताऽप्राप्तिस्तदाऽनित्यतासाधर्म्यात्कथमनित्यता।



असत्तत्खण्डनम्। कुत इति चेत्। अभावमात्र वस्त्वाकाशमुच्यते। यदि सतो नित्यवं सिद्धस्तदा दृष्टान्तः सद खण्डनम्। किन्त्वत्रामतो नित्यता। आकाशमसद्वस्त्वेर नैतन्नित्यमनित्यं वा वक्तुं शक्यते। असिद्धो दृष्टान्त एतस्य खण्डनस्य। अदृष्टान्ते दृष्टान्तताकल्पनात्। तस्मादसदेतत्खण्डनम्। यदि कश्चिन्मन्यते सद्वस्त्वेवाकाशो नित्यश्च। एतद्विपरीतखण्डनं नतु सत्खण्डनम्। कस्मात् ?। अमूर्तत्वस्यनैकान्तिकत्वात्। आकाशोऽमूर्तो नित्यश्च चित्तसुखदुःखेच्छादिकन्त्वमूर्तमनित्यम्। अमूर्तः शब्दः किमाकाशवन्नित्यो भवेच्चित्तसुखादिवदनित्यो वा। अमूर्तत्वमनैकान्तिकत्वादसिद्धो हेतुः। तस्माद्विपरीतमेत्खण्डनम्। अपरं च सहेतुकत्वाच्छब्दोऽनित्यः। वस्तु सहेतुकञ्चेत् तदाऽनित्यमिति ज्ञेयं घटादिवदिति स्थापिते। प्रतिवादी प्राह। अस्मिन्नर्थे संशयः। कस्मादिति चेत्। घटोत्पादः सहेतुकोऽनित्यः। घटध्वंसस्तु सहेतुको नित्यः। शब्दस्य सहेतुकत्वाच्छब्दे संशयोत्पत्तिः। सहेतुकघटोत्पादवदनित्यः सहेतुकघटध्वंसवन्नित्यो वा।



असदेत्खण्डनम्। कस्मात् ? यद्यसद्द्रव्यं नित्यमुच्यते दण्डाघातविनष्टवस्तूनामपि नित्यतापत्तिः।



किञ्च शब्दोऽनित्यः। कुतः ऐन्द्रियकत्वात्। घटादिवदिति स्थापिते। प्रतिवादी प्राह। अत्रापि संशयसम्भवः। यद्यैन्द्रियकः सामान्यवत्तदा नित्यतापत्तिः। यदि शब्द ऐन्द्रियकस्तदा सामान्यवन्नित्यः। यदि सामान्यवन्न नित्यो भवेत्, तदा घटदृष्टान्तेनानित्यो न भवेत्।



असदेतत्खण्डनम्। कस्मात्। यदि गवादिसामान्यं गवादिव्यतिरिक्तं स्यात्तदा पृथक्त्वेन ग्राह्यं द्रष्टव्यञ्च सामान्यन्तु गवादिव्यतिरिक्तं पृथक्त्वेन गृह्यते न च दृश्यते। तस्मादनित्यमिति ज्ञेयम्।



अन्यच्च। आत्मा न विद्यते। कुत इति चेत्। अनभिव्यक्तत्वात्। सर्पश्रवणवत्। इति स्थापिते प्रतिवादी प्राह। समुद्रबिन्दुपरिमाणं हिमालयगुरुत्वञ्च मदेव किन्त्वनभिव्यक्ते। आत्मनोऽपि तथात्वसम्भवः। सन्नेव किन्त्वनभिव्यक्तः। तस्मादनभिव्यक्तिहेतुर्नात्माभावं स्थापयितुं समर्थः।



सङ्ख्यापरिमाणस्य सञ्चितादपृथक्त्वम्। तत्परिमेयसञ्चितमनुक्रमेणेयदितीयदिति च प्रदर्श्यते। तत्सङ्ख्यापरिमाणं स्मृतिधारणार्थं, एकं, दश, सहस्रं नियुतमित्याद्युच्यते। समुद्रबिन्दुपरिमाणस्य हिमालयगुरुत्वस्य चापृथक्त्वेन सत्वाभावात्। यद्यपरखण्डनं तत्खण्डनसदृशं तद्दोषस्थापनादसत्खण्डनमित्युच्यते।



विरुद्धखण्डनम्। अर्थविसंवादकं विरुद्धमित्युच्यते, यथा प्रभान्धकारौ स्थितिगती विसंवादके। तद्विरुद्धखण्डनमित्युच्यते।



विरुद्धखण्डनं त्रिविधम्। अनुत्पत्तिखण्डनं, नित्यताखण्डनं, स्वार्थविरुद्धखण्डनञ्च।



१. अथानुत्पत्तिखण्डनम्। प्रागुत्पत्तेः प्रयत्ननिरपेक्षत्वान्नित्य इत्यनुत्पत्तिखण्डनम्।



प्रतिवादी प्राह। यद्यनित्यः शब्दः प्रयत्न[आनन्तरीयक]त्वात्तदा प्रागुत्पत्तेरप्रयत्न[आनन्तरीयक]त्वान्नित्यः।



विरुद्धं तत्खण्डनम्। कुत इति चेत्। उत्पत्तेः पूर्वं शब्दोऽसन्नेव। असंश्चेत्, कथं नित्यः। यदि कश्चिद्वदेद्वन्ध्यापुत्रः कृष्णो बन्ध्यापुत्रः श्वेत इति तदपि सिद्धम् भवेत्। यद्यसन्नित्यतानुपपत्तिः। यदि नित्योऽसत्तानुपपत्तिः। असन्नित्यमिति स्वतो विरुद्धम्। एतदसत्खण्डनेष्वर्थापत्तिसमम्। कस्मात्। असत्खण्डनात्। शब्दो ऽनित्यः प्रयत्न[आनन्तरीयकत्वा]दिति स्थापित एतदर्थादापद्यते। अप्रयत्न[आनन्तरीय]कत्वान्नित्य इति तदसत्। कुतः। प्रयत्न[आनन्तरीय] कं त्रिविधम्, नित्यमनित्यमसच्च। नित्यमाकाशवत्। अनित्यं विद्युदादिवत्। असदाकाशकुसुमादितिव। एतत्रितयमप्रयत्न[आनन्तरीय] कं भवता त्वेकेन प्रकारेण नित्यमिति मन्यते। तस्मादसत्।



२. नित्यताखण्डनम्। नित्यमनित्यभावान्नित्यः शब्दः। एतन्नित्यताखण्डनमुच्यते।



प्रतिवादी प्राह। अनित्ये नित्यमनित्यता, सर्वधर्माणां स्वभावानिरासात्। अनित्ये नित्यमनित्यत्वभावान्नित्यता सिद्धा।



विरुद्धमेतत्। कस्मात्। यद्यनित्यं नित्यतालाभः कथम्। यदि कश्चिद्वदेदन्धकारे प्रभास्तीति तद्वचनमपि सिद्धं भवेत्। तन्नैवेति चेत्ततो भवत्खण्डनमपि विरुद्धमसच्च। कस्मादिति चेत्। अनित्यतेति पृथग्धर्मोऽनित्येन न सम्बद्धः यो नित्यो मन्तव्यः। अनित्यता नैव पृथग्‍भावः। यद्यनुत्पन्नं वस्तूत्पत्तिं लभत उत्पन्नन्तु विनश्यति ततोऽनित्यमित्युच्यते। अनित्यमसदिति चेद्यदनित्येन नित्यं श्थापितं तस्याप्यसत्ताप्रसङ्गः।



३. स्वार्थविरुद्धम्। यदि परार्थस्वण्डने स्वार्थहानिस्तदा तत्स्वार्थविरुद्धखण्डनमुच्यते।



अनित्यः शब्दः कृतकत्वादङ्कुरादिवदिति स्थापिते। प्रतिवादी प्राह। यदि हेतुरनित्यतां प्राप्नोति तदाऽनित्यतातुल्यः। यद्यनित्यतां न प्राप्नोति तदानित्यतासाधनासमर्थः। तस्मादसिद्धो हेतुरिति।



यदि तावत्तव खण्डनं मत्प्रतिज्ञां प्राप्नोति, मत्प्रतिज्ञातुल्यत्वेऽस्मदर्थखण्डनासमर्थम्। अथ न मत्प्रतिज्ञां प्राप्नोति तथाप्यस्मदर्थखण्डनासमर्थम्। तस्माद्भवत्खण्डने भवदर्थहानिः।



प्रतिवादी पुनराह। यदि हेतुः पूर्वं प्रतिज्ञा तु पश्चात्, तदा प्रतिज्ञाऽभावे स कस्य हेतुः। अथ प्रतिज्ञा पूर्वं हेतुस्तु पश्चात्तदा, सिद्धायां प्रतिज्ञायां किं हेतुनेत्येषो ऽप्यसिद्धो हेतुः।



यदि भवत्खण्डनं पूर्वमस्मत्प्रतिज्ञा तु पश्चादस्मदर्थाभावे किं भवता खण्ड्यते। यद्यस्मत्प्रतिज्ञा पूर्वं भवत्खण्डनं तु पश्चात्तदास्मत्प्रतिज्ञायां स्थापितायां किं भवत्खण्डनेन। भवानस्मत्खण्डनानुज्ञानादस्मत्खण्डनोपादानेन मा खण्डयतीति चेत्तदयुक्तम्। कस्मादिति चेत्। मया प्रकटितं यद्भवत्खण्डनं भवदर्थमेव प्रतिषेधति न तु भवत्खण्डनमवलम्ब्यास्मदर्थो प्रतिष्ठापितः। अपरखण्डने तत्खण्डनतुल्ये सति तद्दोषप्रतिष्ठापनं विरुद्धखण्डनमुच्यते।



सम्यक्खण्डनं पञ्चविधम्। इष्टार्थदूषणम्, अनिष्टार्थव्यक्तिः, प्रसङ्गव्यक्तिः, विषमार्थव्यक्तिः, मर्वान्यायसिद्धिलाभव्यक्तिः।



प्रतिवादी प्राह। अस्त्यात्मा संघातस्य परार्थत्वात्। यथा शयनासनादिसंघातः परार्थः। चक्षुरादीन्द्रियसंघातो ऽपि परार्थः। परस्त्वात्मा। तस्मादस्त्यात्मेति ज्ञातम्।



नास्त्यात्मा। कुत इति चेत्। एकान्तानभिव्यक्तत्वात्। यदेकान्तानभिव्यक्तं तदसदेव। यथानीश्वरपुरुषस्य द्वितीयो मूर्धा। द्वितीयो मूर्धा रूपगन्धादिमूर्धाकारतो न पृथक् मन्तव्यः। तस्मादसन्। आत्मनोऽपि तथात्वसम्भवः। चक्षुरादीन्द्रियेषु न हि स पृथगभिव्यक्तः। तस्मादसन्। अस्त्यात्मेति चेत्तदयुक्तम्। तदिष्टदूषणमुच्यते।



यदि पुनर्भवान् वदति यदात्मलक्षणमविशेष्यं, स तु सन्निति तदा द्वितीयो मूर्धविशेष्योऽपि सन्नेव भवेत्। द्वितीयो मूर्धा सन्निति भवता चेन्न प्रतिपाद्यते तदात्मन्यपि तथा प्रतिपत्तव्यम्। इयमुच्यते ऽनिष्टार्थव्यक्तिः।



यदि भवन्मते उभौ तुल्यमेवाविशेष्यौ। न्यायासमाश्रयाच्चात्मा सन्न पुनर्द्वितीयो मूर्धा। तदाहमपि न्यायासमश्रयात्सन्नेव द्वितीयो मूर्धा न त्वात्मेति चेद्वदेयमेषोऽर्थः सिद्वो भवेत्। अथास्मदर्थो न सिद्धो भवदर्थोऽपि न सिद्व इत्युच्यते प्रसङ्गव्यक्तिः।



अन्यच्च। आत्मा द्वितीय इव मूर्धाविशेष्यः न त्वसन्निति चेत्तदा वैषम्यदोषो भवन्मूर्ध्यापतेत्। यदि कश्चिद्वदेद्वन्ध्यापुत्रः सालङ्कारो बन्ध्यापुत्रो निरलङ्कार इति तदपि सिद्धं भवेत्। यदि कश्चिदेवं वदेत्तदा वैषम्यदोषापत्तिः। भवतोऽपि तथात्वसम्भवः। इयं वैषम्यदोषव्यक्तिः। अथोच्यते न्यायासमाश्रयान्नियतमेवास्त्यात्मा, न्यायासमाश्रयान्नियतमेव नास्ति द्वितीयो मूर्धेति सिद्धं च तद्वचनमिति तदा मूर्खबालान्यायवचनान्यपि सिध्येयुर्यथाकाशो दृश्यः, शीतोलोऽग्निः, ग्राह्योः वायुरित्यादि मूर्खवचनानिन्यायासमाश्रितान्यपि भवत्साध्यवत् सिद्धानि भवेयुः। असिद्धानि चेद्भवदर्थोऽप्येवं स्यात्। इयमुच्यते सर्वान्यायसिद्धिलाभव्यक्तिः॥



इति द्वितीयं प्रकरणम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project