Digital Sanskrit Buddhist Canon

अथ प्रथमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha prathamaṁ prakaraṇam

तर्कशास्त्रम्।



अथ प्रथमं प्रकरणम्।



(शास्त्रमाह) भवान् मन्यतेऽस्मद्वचनमन्याय्यमिति चेद्भवतोऽपि वचनमन्याय्यम्। यदि भवद्वचनमन्याय्यं, तदास्मद्वचनं न्याय्यम्। यदि [भवतोच्यते] भवद्वचनं न्याय्यं, परमस्मद्वचनमन्याय्यं तन्न युक्तम्। किञ्च यदन्याय्यं तदेतत्स्वतो न्याय्यं, तस्माद् यदन्याय्यं तन्नास्ति। यदि स्वतो ऽन्याय्यं तदेतदन्याय्यमसच्चैव, तस्मादहमन्याय्य[वादी] इति चेद्भवतोच्यते तदयुक्तम्।



अन्यच्च। मम वचनमन्याय्यमिति चेद्भवतोच्यते, ततो भवानज्ञ इति स्पष्टम्। कुत इति चेत्। यदन्याय्यं तन्निराभासम्। वचनं न्यायाभावाद्भिन्नमभिन्नं वा ?। अभिन्नं चेद्वचनमपि नास्तीति मम वचनमन्याय्यमिति भवता कथमुच्यते। अथ भिन्नं, ततो वचनं न्याय्यमिति मम वचनमन्याय्यमिति कथं भवतोच्यते। वचनस्वलक्षणखण्डनाच्च। भवत्खण्डनवचनमस्मद्वचनस्य समकालीनमसमकालीनं वा ? समकालीनं चेदस्मद्वचनखण्डनेऽसमर्थं, यथा गोशृङ्गेऽश्वकर्णौ वा परस्परं खण्डयितुं न शक्नुवतः। समकालीनत्वात्। असमकालीनञ्चेद्, भवतः खण्डनं पूर्वमस्मद्वचनं पश्चात्। अथास्मद्वचनानुच्चारणात्, किं भवता खण्ड्यते ?। तस्माभ्दवतः खण्डनमसिद्वम्।



अथास्मद्वचनं पूर्वं, भवतः खण्डनं तु पश्चाद्, एवं तर्ह्यस्मद्वचनसिद्वत्वात् कस्य खण्डनं भविष्यति ?। समकालीनञ्चेत्, ततोऽस्मद्वचनं भवतश्च खण्डनमित्येतयोरेतत् खण्डनमेतच्च खण्डनीयमिति विशेषो न स्यात्। यथा नदीसमुद्रवारिसंयोगकाले विशेषासम्भवः।



अपरञ्च। भवतः खण्डनं स्वखण्डनार्थमस्वखण्डनार्थं वा ? स्वखण्डनार्थञ्चेत्, ततः स्वतः स्वार्थहीनं भवेदस्मद्वचननु सिद्धम्। अस्वखण्डनार्थञ्चेद्, असिद्धम्। कुत इति चेत्, स्वार्थतः खण्डनासिद्वेः। सिद्धञ्चेत्, स्वार्थहानिः परार्थसिद्विश्च।



किञ्चास्मद्वचनमन्याय्यमिति चेद्, वचनमेव न भवेत्। वचनञ्चेन्नैवान्याय्यम्। अन्याय्यमिति चेत्, तद्विरुद्वम्। यथा कुमारी पुत्रवतीति। यतो यदि कुमारी पुत्रवतीति न सम्पद्यते। यदि पुत्रवती, तर्हि नैव कुमारी। कुमारीति पुत्रवतीति चोभयं विरुद्वम्। तस्मान्मम वचनमन्याय्यमिति चेद्भवतोच्यते तदयुक्तम्। एतत्पुनः प्रत्यक्षविरुद्वम्। भवानस्माकं वचनं श्रुत्वाऽन्याय्यं मन्यते चेत्, तत्तर्हि श्रुतत्वात्प्रत्यक्षसिद्धम्। प्रत्यक्षं हि बलवत्तरं तस्माद्भवद्वचनहानिः। यथा कश्चिन्मन्येत श्रोत्रविज्ञानतः शब्दस्यानुपलब्धिरथ श्रोत्रविज्ञानतः शब्दस्योपलब्धिः प्रत्यक्षसिद्वेति, तदा प्रत्यक्षस्य बलवत्तरत्वात्तद्वचनहानिः।



अनुमानविरुद्धं चैतत्। मम वचनमनुमानेनोपलभ्यते चेत्ततो न्याय्यमिति स्पष्टम्। अन्याय्यं हि वचनं नैव विद्यते। यदि वचनमस्ति तदा न्याय्यमिति ज्ञायते। यथा कश्चिन्मन्येत शब्दोऽनित्यो हेतुमत्त्वात्। यच्च हेतुमत्तदनित्यं, यथा घटः। स हेतुमत्त्वादनित्यः। यदि हेतुमांस्तदाऽनित्यः शब्दो, यदि नित्यो नैव हेतुमान्। इत्यनित्यतानुमानसिद्वा। अनुमानबलान्नित्यतहानिः। न्याय्यमिति, यद्वचनं तन्न्याय्यम्। यन्न्याय्यमित्यनुमानसिद्धं, तदन्याय्यमिति प्रतिषिद्वम्। लोकविरुद्वं चैतत्। यद्भवतोक्तं मम वचनमन्याय्यमिति तल्लोकविरुद्वम्। कस्मादिति, लोके हि चतुर्विधन्यायसत्वात्। [तथा हि] हेतुफलन्यायः सापेक्षन्यायः साधनन्यायस्तथतान्यायश्च।



हेतुफलन्यायः। यथा बीजमङ्कुरश्च।

सापेक्षन्यायः। यथा दीर्घं ह्रस्वं, पिता पुत्रः। साधनन्यायः। यथा पञ्चावयववाक्यं साधनार्थम्। तथतान्यायस्त्रिविधः। यथाऽनात्मतथताऽनित्यतातथता निरोधतथता च। इह लोके वचनं फलं, न्यायो हेतुरिति। इह लोके यदा फलं दृष्टं तदा सहेतुकं ज्ञातम्। यदा वचनमुपलब्धं, तदा न्याय्यं ज्ञातम्। यन्मम वचनमन्याय्यमिति भवतोक्तं तल्लोकविरुद्वम्। अन्याय्यं वचनमित्यस्य नास्त्यवकाशः।



यद् भवतोक्तं मम वचनमन्यहिसंवादित्वादिति तदिदमिदानीं भवता सार्धं विचार्य निर्धार्यते। यदि कश्चिदन्यद्वदेत्तदा तस्य दोषः स्यत्। भिद्यते भवतः प्रतिज्ञाऽस्मत्प्रतिज्ञातः। अथ तद्भवतः स्वोक्तम्। तदान्यदुक्तम्। तस्माद्भवानेव दोषमापद्यते। यदि भवदर्थो ऽस्मदुक्तादन्यस्तदान्यत्वदोषो भवत एव न तु मम। यदि नान्यत्, तर्हि मत्पक्षतुल्यमेव, तेन नास्त्यन्यत्वम्। अथोच्यते ममान्यदिति तन्मिथ्या। अन्यच्चान्यस्मान्नान्यदित्यनन्यत्वम्। यद्यन्यदन्यस्मादन्यत्, ततोऽन्यन्न भवेत्। यथा मनुष्यो गोरन्यो न गौर्भवति, यद्यन्यदन्यस्मादन्यत्, तदा तदेकं भवेत्। यद्येकं ततो नान्यत्, तत्किमुच्यते ममान्यदिति। अतश्चैतन्याय्यमिति। अहं न्यायमवलम्ब्य भवता विवदे। तस्मादन्यथाहं वदामि। यद्यावयोर्भेद एव न स्यान्न तदा भवता विवादोऽहं तु भवदर्थमेव वदामि।



सर्वमुक्तमन्यदिति चेद्, भवतापि किञ्चिदुक्तमिति भवानप्यन्यद्वदतीति दोषो भवत एव। यदि भवतो वाक्यं नान्यत्, तर्हि ममापि वचनं नान्यदिति यद् भवतोक्तमहमन्यद्वदामीति तदयुक्तम्। अथ भवद्वचनं मिथ्यैव। शेषं पूर्ववत्। यद् (भवतो)क्तं मम वचनमसिद्धमिति तदिदानीं (भवता सार्धं) विचार्य निर्धार्यते। यदि वचनमसिद्धं, तदा तदेव वचनमसिद्धम्। यदि वचनस्यासिद्धत्वं, तदा वचनमेव न प्राप्तम्। अथ वचनं न प्राप्तं, कथं भवतोच्यते मया यदुक्तं तदसिद्धमिति। अथ वचनं प्राप्तं तत्सिद्वमेव स्यात्। यदि मदुक्तमसिद्धमिति भवतोच्यते तदयुक्तम्। यदि सर्वं वचनमसिद्ध, तर्हि भवदुक्तं मम खण्दनमप्यसिद्धम्। यदि भवदुक्तं खण्डनमसिद्धं न स्यात्, तर्हि मम वचनमपि नैवासिद्धम्। यदि (भवतो)च्यते मदुक्तमसिद्धं तदयुक्तम्। यदसिद्धं तत्स्वत एव सिद्धम्। तस्मान्नास्त्यसिद्धम्। यद्यसिद्ध न स्वतः सिद्धं, तदासिद्धं न स्यात्। यदि सिद्धं, नास्त्यसिद्धं, ततो यद् (भवतो)क्तं मदुक्तमसिद्धमिति तन्निरवकाशम्। यदि भवतोच्यते मम खण्डनमननुभाषणमेव तदा न मम मतस्योपलब्धि।

अथ नोपलभ्यते मम मतं, ततो मम खण्डनं कर्तुं न शक्यते। तदिदानीं (भवता सार्धं)विचार्य निर्धार्यते। यदि भवान् मत्खण्डनं नानुभाषते, तदा भवान् खण्डनं वक्तुं न शक्नोति। किं पुनर्मन्यते भवान् खण्डनमननुभाष्य खण्डनं शक्यं, अथवा खण्डनमनुभाष्य खण्डनं शक्यम्। यदि तावद् (भवान्) अननुभाष्य (खण्डनं वक्तुं शक्नोति), अहमप्यननुभाष्य खण्डनं वक्तुं शक्नुयाम्। अथवा खण्डनमनुभाष्य खण्डनं वक्तुं शक्यं, तदा सदैव खण्डनानुभाषणम् स्यात्। कुतः ? खण्डनात्पुनः खण्डनस्योत्पन्नत्वात्। तदा खण्डनानवस्था। न च स कालो विद्यते यत्र न खण्डनानुभाषणम्। [अतः] यत्र खण्डनं वक्तुं शक्यते स कालो नास्ति।



अपरञ्च खण्डनमिति खण्डनान्नाम। यदि तत्खण्डनानुभाषणान्नाम खण्डनमिति वक्तुं शक्यते, अननुभाष्य तु खण्डनमिति वक्तुं ज शक्यते। ततः पूर्वखण्डनस्य नाम पश्चादनुभाषणं प्राप्तम्। परवर्तिखण्डनं नाम न तावदनुभाषणं प्राप्नोति। तृतीयन्तु द्वितीयस्य खण्डनस्य नामानुभाषणं प्राप्तम्। चतुर्थं तृतीयस्य खण्डनस्य नामानुभाषणं प्राप्तम्। इति सदानुभाषणादनवस्था। अननुभाष्य खण्डनं नाम वक्तुं शक्यमिति चेद्, अननुभाष्यापि ततः प्रथमं खण्डनं नाम वक्तुं शक्यम्। प्रथमं खण्डनम् नामाननुभाष्य खण्डनं नाम वक्तुं शक्यमिति चेत्, द्वितीयमपि खण्डनं नामाननुभाष्य खण्डनं नाम वक्तुं शक्यते। द्वितीयं खण्डनं नामाननुभाष्य खण्डनमिति वक्तुं शक्यत इति चेत्, प्रथमं खण्डनं नामाप्यननुभाष्य खण्डनं नाम वक्तुं शक्येत। किन्तु प्रथमं खण्डनं नामावश्यमनुभाष्यम्। तस्मात्खण्डनं नाम वक्तुं शक्यते। अथ द्वितीयं खण्डनं नामाप्यवश्यमनुभाष्यं, तदा खण्डनं नाम वक्तुं शक्यते नत्वननुभाष्य वक्तव्यम्।



यदि पुनः खण्डनमननुभाष्य वदेत्, खण्डनस्य निग्रहस्थानापत्तिः। यदि भवान् स्वखण्डनं नानुभाषते, ततो भवदुक्तखण्डनस्य निग्रहस्थानापत्तिः। यदि भवान् खण्डनमननुभाष्य खण्डनं वदेत्, खण्डनं वदंश्च निग्रहस्थाने न पतेत्, तदाहमपि खण्डनमननुभाष्य खण्डनं वदन्न निग्राह्यः। किञ्च यदा भवद्वचनं मम [मतं] खण्डयति, तदाऽहमनुभाषे। यदा त्वहं भवन्मतं खण्डयामि तदा भवानप्यनुभाषते। अथ परस्परानुभाषणं, न तदा खण्डनप्रतिष्ठापनम्। यदि परस्परानुभाषणं, तदा सम्यगर्थहानिः। यथा पोतावन्योन्यसम्बद्वौ समुद्रवेलासमये परस्परसंघर्षेण दोलायमानौ।



अपरञ्च। सर्वे शब्दा यदा मुखान्निर्गतास्तदा नष्टा एवेति कथं मद्वचनानुभाषणम् ?। अथ शब्दो विनाशधर्मा। अपुनरागमनात्पुनर्भाषणमशक्यम्। अथ शब्दः स्थितिशीलस्तदानुभाषणमशक्यं, नित्यत्वात्। नष्ट इति चेन्, न किञ्चिदनुभाषितव्यं तदभावात्। शब्दो नष्ट इति चेत्, त्वदनुभाषणायैतन्मे वचनमिति यद्भवान् ब्रवीति स कुतर्क एव।



यद्(भवतो)क्तं मद्वचनं पूर्व, [भवत] खण्डनं तु पश्चादिति तदिदानीं (भवता सार्धं) विचार्य निर्धार्यते। यदि मद्वचनं पूर्वं, खण्डनन्तु पश्चादिति तन्याय्यम्। कुत इति चेन्, मद्वचनं पूर्वं भवद्वचनं तु पश्चादिति। यद्यस्मद्वचनं परवर्तिवचनं खण्डयति, ततोऽस्मदर्थो विशिष्यते भवद्वचनस्य तु हानिः। किञ्च यद्युच्यते भवता सर्वाणि वचनानि पूर्ववर्तीनि खण्डनन्तु परवर्तीति, तदा भवानपि पूर्वमेव वचनं वदतीति पश्चात्खण्डनं भवेत्। यदि भवद्वचनस्य पूर्ववर्तित्वेऽपि पश्चात्खण्डनं नास्ति, तर्हि मद्वचनस्य पूर्ववर्तित्वेऽपि, पश्चात्खण्डनं न स्यात्। यच्च खण्डनं पूर्वस्य परवर्तीति स्वभावतः पूर्वस्य खण्डनं न पश्चादस्ति। यदि स्वभावत एव पूर्वस्य खण्डनं पश्चात् स्यात्, तदा पूर्वं पश्चादित्युभे न स्याताम्। तस्माद्यद्भवतोक्तं पूर्वस्य खण्डनं परभावीति तदयुक्तम्। यदि स्वभावतः पूर्वस्य खण्डनं न पश्चात्। हेत्वभावात्। तदा पूर्वस्यापि खण्डनं परभावि न भवेत्। यद्भवतोक्तं मद्वचनं पूर्वं, खण्डनं तु परभावि तन्मिथ्या।



यदभिहितं भवता, मया हेत्वन्तरमुक्तमिति तदिदानीं (भवता सार्धं) विचार्य निर्धार्यते। यदि पूर्वहेतुं परित्यज्य हेत्वन्तरप्रतिष्ठापनान्निग्रहस्थानमापद्यते, तदा भवान् निग्रहस्थानमापन्नः। कथमिति चेद्, भवता पूर्वहेतुं परित्यज्य हेत्वन्तरप्रतिष्ठापनात्। यदि हेत्वन्तरप्रतिष्ठापनाद्भवतो न निग्रहस्थानत्वापत्तिस्तदा ममापि तथा। किञ्च मदुक्तहेतुतो भवदुक्तहेतोर्भेदः। यद्यन्यं हेतुं वदामि तन्मम न्याय्यम्। यद्यन्यं हेतुं न वदेयं, ततो भवद्धेतुं वदेयम्। ततो न प्रतिपक्षतया विरोधोऽपि त्वावयोस्तुल्यवचनतैव। यदि सदृश एव हेतुरावाभ्यां प्रतिष्ठापितः, तदा भवानस्मद्धेतुं खण्डयतीति स्वहेतुमेव खण्डयति।



अपि च यदि सर्वाणि वचनानि हेत्वन्तराणि स्युस्तदाभवदुक्तानि वचनान्यपि हेत्वन्तराणि भवेयुः। ततश्च भवतो निग्रहस्थानापत्तिः। अथ वचनान्युच्चारयन्नपि न भवान् निग्राह्यस्तर्हि यद्भवतोक्तं हेतुं प्रतिष्ठापयन्नहं निग्राह्य इति तदयुक्तम्।



यद्भवतोक्तमर्थान्तरं वदामीति तदिदानीं (भवता सार्धं) विचार्यं निर्धार्यते। अन्या मे प्रतिज्ञा, अन्या च भवत इति यत्तन्न्याय्यमेव। अथाहं भवतः प्रतिपक्षतया विरोधीत्यर्थान्तरं ब्रवीमि। यदि मतमस्मदर्थो भवदर्थादनन्यस्तदाऽस्मदर्थो भवदर्थप्रतिपक्षतया न विरुद्वो। यदि भवानस्मदर्थं खण्डयति, तर्हि भवतः स्वार्थस्यैव खण्डनं भवेत्। यदर्थान्तरं न तत्स्वयमर्थान्तरम। तस्मान्नास्त्यर्थान्तरम्। यदि त्वर्थान्तरं स्वयमेवार्थान्तरं, न तदार्थान्तरम्। तस्माद्यद्भवतोक्तमहमर्थान्तरं वदामीति न युक्तम्। अपरञ्च यदुक्तं सर्वं तदर्थान्तरञ्चेत्तदा भवदुक्तमप्यर्थान्तरं भवेत्। यदि भवदुक्तमर्थान्तरं न भवेत्तदा यद्भवता प्रतिज्ञातं सर्वमर्थान्तरमिति तदयुक्तम्।



यद् (भवतो)क्तमहं पूर्वचनादनन्यद्वचनं वदामीति तदिदानीं (भवता सार्धं) विचार्य निर्धार्यते। अस्मत्प्रतिज्ञा भवत्प्रतिज्ञायाः प्रतिपक्षभावेन विरुद्धा। यदस्मत्प्रतिज्ञा भवत्प्रतिज्ञायाः प्रतिपक्षभावेन विरुद्वा, तन्न्याय्यम्। कुत इति चेत्। सर्वत्राहं भवदर्थखण्डनार्थं वदामि, तस्मादस्मद्वचनमनन्यत्। यदि मयार्थान्तरमुक्तं, तर्हि भवत्प्रतिज्ञाऽस्मदर्थादन्या। यद्यहमर्थान्तरं वदामि तदा भवदर्थं वदामि। एवन्तावन्नाहं भवद्विरुद्दो। ततश्च यदि भवान् मां खण्डयति, तर्हि स्वार्थस्यैव खण्डनम्।



अन्यच्च। यथा मया पूर्वमुक्तमनित्यः शब्द इति। एतानि वचनानि विनाशस्वभावानि क्षयस्वभावानि च। इदानीमन्यद्वचनमुच्चर्यते। ततश्च यद्भवतोक्तं भवान् पूर्ववचनं वदतीति तन्मिथ्या।



अपरञ्च। यद्भवतोक्तं मदुक्तमनन्यदिति। तत्र यद्यहमन्यद्वदामि तदा तदन्ययत्। यद्यहमनन्यद्वदामि तदनन्यत्। यद्यहं तद्वदंस्तन्न साधयितुं शक्नोमि, तदा यद्भवतोक्तमनन्यदिति तद्युक्तम्। यच्च (भवतो)क्तं मया सर्वमुक्तं नानुज्ञायत इति तदिदानीं (भवता सार्धं) विचार्य निर्धार्यते। सर्वं नानुज्ञायत इति यदुक्तं भवता एतद्वचनं सर्वस्मिन्नन्तर्भवति न वा ?। यदि तावत्सर्वस्मिन्नन्तर्भवति तदा भवान् स्वयं स्वोक्तं नानुजानाति। यदि स्वयं नानुजानात्यस्मदर्थः स्वत एव सिद्धो भवेद्भववचनस्य तु हानिः स्यात्। अथ सर्वस्मिन्नान्तर्भवति तदा तस्य सर्वत्वमेव न स्यात्। यदि सर्वत्वमेव न भवेत्, तदा भवता यदननुज्ञातं तत्सर्वम्। यदि सर्वमननुज्ञातं तदाऽस्मदर्थो भवता नैवाननुज्ञातः। अस्मदर्थः सिद्धो भवतस्तु सर्वस्य प्रतिषेधः।



इति प्रथमं प्रकरणम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project