Digital Sanskrit Buddhist Canon

2 स्वार्थानुमानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

2 svārthānumānam

स्वार्थानुमानम्



अनुमानस्य द्वैविध्यम् स्वार्थानुमानलक्षणम्



अनुमानं द्विविधम् - स्वार्थं परार्थं च। स्वस्मै यत्तत् स्वार्थमनुमानं ज्ञानात्मकम्। पर्वतादौ धर्मिणि धूमादिकं दृष्ट्वा यस्य प्रतिपत्तुः वह्निज्ञानमुत्पद्यते, स एव तेन ज्ञानेन परोक्षमर्थं प्रतिपद्यते नान्य इति स्वार्थानुमानमुच्यते। परस्मै यत्तत् परार्थम्। परार्थानुमानं वचनात्मकम्। त्रिरुपलिङ्गप्रतिपादकं वचनं परं प्रतिपादयति ज्ञापयतीति कृत्वा वचनमप्यनुमानशब्देनोच्यते , उपचारात् , यथा आयुर्घृतमिति।

अनुमानस्य कार्यम्

तत्र स्वार्थ त्रिरुपलिङ्गाद्यदनुमेये ज्ञानम्। रुपत्रययुक्ताल्लिङ्गादनुमेये परोक्षविषये यद् ज्ञानं र्पतिपत्तुरुत्पद्यते , तत् स्वार्थानुमानम्। तच्च धर्मविशेष सम्बन्धितया साध्याविनाभावित्वनिश्चय इत्येके। अग्न्यध्यवसाय इत्यन्ये।

लिङ्गस्य त्रिरुपत्वम्

सम्प्रति लिङ्गस्य त्रिरुपत्वमुच्यते - अनुमेये सत्वमेव निश्चितम्। अनुमेये पर्वतादौ धर्मिणि लिङ्गस्यास्तित्वमेव निश्चितं , तदेकं रुपं पक्षधर्मतासंज्ञकम्। अत्र सत्त्वग्रहणेनासिध्दस्य निरासः , यथा -अनित्यश्शब्दश्चाक्षुषत्वात् , चाक्षुषत्वं चक्षुर्विज्ञानग्राह्यत्वमुच्यते , तच्च शब्दे धर्मिणि नास्ति। एवकारेण पक्षैकदेशासिध्दस्य निरासः , यथा दिगम्बरप्रयोगः - चेतनास्तरवः स्वापात्। पत्रसङ्कोचलक्षणो हि स्वापः , स च सर्वेषु तरुष्वसिध्दः। निश्चितग्रहणेन सन्दिग्धासिद्धस्य निरासः , यथा - अग्निरत्र वाष्पादित्वेन सन्दिह्यमानाद् भूतसंघातात्। सत्वशब्दात्पश्चादेवकारेण असाधारणस्य निरासः , यथा- अनित्यश्शब्दः श्रावणत्वात् घटवत्॥

सपक्षनिरुपणम्



सपक्ष एव सत्त्वं निश्चितमिति वर्तते। समानः पक्षः सपक्षः। पक्षेण सह सदृशो दृष्टान्तधर्मीत्यर्थः। सपक्ष एव सत्वं निश्चितमित्यन्वयसंज्ञकं द्वितीयं रुपम्। अत्र सत्त्वग्रहणेन विरुध्दस्य निरासः , यथा - शब्दो नित्यः कृतकत्वात् घटवत्। कृतकत्व हि नित्यत्वविपक्षेणानित्यत्वेन व्याप्तमिति विरुध्दमुच्यते। एवकारेण साधारणस्य निरासः, यथा - नित्यश्शब्दः प्रमेयत्वात् घटवत्। प्रमेयत्वं हि विकल्पविषयीकृतत्वम् , तच्च सपक्षे आकाशादौ विपक्षे च घटादौ सर्वत्रास्तीति साधारणमुच्यते। सत्त्वशब्दात् पूर्वस्मिन्नेवकारेण सर्वसपक्षाव्यापिनोऽपि प्रयत्नानन्तरीयकस्य हेतुत्वं कथितम्। यथा - अनित्यश्शव्दः प्रयत्नानन्तरीयकत्वाद्घटवद्विद्युद्वत्। निश्चितग्रहणेन सन्दिग्धान्वयस्य निरासः , यथा - असर्वज्ञोऽयं कश्चित् वक्तृत्वादिष्टपुरु षवत्। इष्टपुरुषे सपक्षे च वक्तृत्वमसर्वज्ञत्वेन व्याप्तमव्याप्तं वा न ज्ञायते॥

विपक्षनिरुपणम्

असपक्षे चासत्त्वमेव निश्चितम्। न सपक्षोऽसपक्षः। तत्रासत्त्वमेव निश्चितं व्यतिरेकसंज्ञकं तृतीयं रुपम्। अत्राप्यसत्त्वग्रहणेन विरुध्दस्य निरासः। यथा नित्यश्शब्दः कृतकत्वाद्घटवत्। विरुध्दो हि विपक्षेऽस्ति। एवकारेण साधारणस्य विपक्षैकदेशवृत्तेर्निरासः। प्रयत्नानन्तरीयकत्वे साध्ये अनित्यत्वं विपक्षैकदेशे विधुदादावस्ति। आकाशादौ नास्ति। ततो नियमेनास्य निरासः। असत्त्ववचनात्पूर्वस्मिन्नवधारणे अयमर्थः स्यात्। विपक्ष एव यो नास्ति स हेतुः। तथा च प्रयत्नानन्तरीयकत्वं सपक्षेऽपि नास्ति , ततो न हेतुः स्यात् , ततः पूर्व न कृतमिति। निश्चितग्रहणेन सन्दिग्धविपक्षव्यावृत्तिकस्य निरासः। यथाऽवीतरागोऽयं पुरुषो वक्तृत्वात् , रथ्यापुरुषवत्। यत्राऽवीतरागत्वं नास्ति तत्र वक्तृत्वमपि नास्ति , यथोपलखण्डे। यदि नाम पाषणखण्डादुभयं व्यावृत्तं तथापि न ज्ञायते किमवीतरागत्वनिवृत्त्या पाषणखण्डाद्बक्तृत्वं निवृत्तं , अहोस्वित् स्वत एवेति। ततः सन्दिग्धव्यतिरेकोऽयमनैकान्तिकः। असत्त्वशब्दात्पश्चादेवकारेण विपक्षैकदेशवृत्तेर्निरासः। यथा - प्रयत्नानन्तरीयकश्शब्दोऽनित्यत्वात्। अनित्यत्वं विपक्षादाकाशान्निवृत्तं , न विद्युतः। ततो विपक्षैकदेशवृत्तित्वमस्य॥



त्रिरुपप्रयोगस्य प्रयोजनम्

ननु सपक्ष एव सत्त्यमित्युक्ते सामार्थ्यादेवासपक्षे चासत्त्वमिति गम्यते। तत्किमर्थमुभयोरुपादनमिति चेत् ? विपक्षनियमार्थमिति पूर्ववृद्धाः। ते च त्रिविध एव विपक्षो भवतीति मन्यन्ते। साध्याभावमात्रं , साध्यादन्यः , साध्येन सह विरुद्धश्च।प्रयोगनियमार्थमिति केचित्। अन्वयप्रयोगो व्यतिरेकप्रयोगो वा नियमवानेकः प्रयोक्तव्यो न द्वावपीति। साधर्म्यवैधर्म्यप्रयोगसूचनार्थमिति केचित्।

त्रिलिङ्गभेदनिरुपणम्

त्रिरुपाणि च त्रीण्येव लिङ्गानि। त्रीणि रुपाणि येषां तानि त्रिरुपाणि त्रीण्येव लिङ्गानि। कार्यं त्रिरुपं लिङ्गम्। स्वाभावस्त्रिरुपं लिङ्गम्। अनुपलब्धिस्त्रिरुपं लिङ्गम्। साधनं ज्ञापकं हेतुर्व्याप्यं चेति लिङ्गापरनामानि।

कार्यहेतुनिरुपणम्

तत्र कार्यं यथा - यत्र धूमस्तत्राग्निर्यथा महानसे , धूमश्चात्रेति। व्याप्तिपक्षधर्मतासंज्ञकं द्वयवयवमेव साधनवाक्यं सौगतानाम्। अन्ये तु प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनं चेति पञ्चावयवं साधनवाक्यमाहुः। उपन्यासश्चेदृशः - अग्निरत्र , धूमात् , यत्र धूमस्तत्राग्निर्यथा महानसे , तथा चायं, तस्मादग्निरिति। एतच्चायुक्तम्। प्रतिज्ञावचनमात्रात्सम्बन्धरहितात् साध्यप्रतिपत्तेरयोगात्। सम्बन्धाभावस्तु शब्दार्थयोः सम्बन्धदूषणे प्रतिपादितत्वान्न पुनरुच्यते। प्रतिज्ञामन्तरेण पञ्चप्यन्तहेतुप्रयोगोऽप्ययुक्तः। हेतुं विनोपनयदृष्टान्तावप्ययुक्तौ। यत्र प्रतिज्ञैव नास्ति तत्र प्रतिज्ञायाः पुनर्वचनं निगमनं कुतो भविष्यतीति सर्वमामूलं विशीर्णम्।

कार्यसम्बन्धनिरपणम्

अयं च कार्यहेतुर्विषयभेदेन त्रिविधः। अग्न्यादौ साध्ये धूमादिः त्रिविधप्रत्यक्षानुपलम्भेन निश्चेतव्यः। चक्षुरादौ साध्ये ज्ञानं कादाचित्कार्योत्पादान्निश्चीयते। रुपादौ साध्ये रसादिरेकसामग्र्यधीनतया निश्चीयते, यथा मातुलुङ्गफ़ले रसाद्रूपानुमानम्। न रुपाद्रसानुमानम्। अत्र रुपे जनयितव्ये पूर्वकं रुपमुपादानम्। रसस्तु सहकारिकारणम्। पूर्वपुञ्जादुत्तरपुञ्जस्योत्पत्तौ न्याय एषः। ननूपादानसहकारिकारणयोरन्वयव्यतिरेकानुविधानस्य कार्यं प्रति तुल्यत्वात्को भेदः ? उच्यते, यद्विक्रियया यन्निष्पत्तिरेकसन्ताने तत्कार्यं प्रतिपूर्वकमुपादानम्। यत्सन्तानान्तरे विशेषोदयनिमित्तं तत्सहकारिकारणम्। यथा शाल्यङ्कुरे जनयितव्ये शालिबीजमुपादानम् , क्षितिसलिलादि तत्र सहकारि। तदेवं कार्यहेतुस्तदुत्पत्तिसम्बन्धाद् गमक इति स्थितम्॥

स्वभावहेतुनिरुपणम्

स्वभावो यथा - स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे यो हेतुरुच्यते स तस्य साध्यस्य धर्मस्य स्वभावो बोद्धव्यः। यथा- वृक्षव्यवहारयोग्योऽयं शिंशपाव्यवहारयोग्यत्वात्। अयमिति पुरः परिदृश्यमानः पदार्थो धर्मी। शिंशपाव्यवहारयोग्यत्वादिति हेतुः। शिंशपाव्यवहारयोग्यत्वादिति कोऽर्थः ? शाखापत्रवर्णसंस्थानविशेषव्यवहारयोग्यत्वादित्यर्थः। वृक्षव्यवहारयोग्यत्वं साध्यम्। नन्वेकत्वे साध्यसाधनभावो न युक्तः , प्रतिज्ञार्थैकदेशत्वात् ? न। अभेदेऽपि कश्चित्प्रतिपत्ता शिंशपाव्यवहारं कृत्वा तत्र वृक्षव्यवहारं प्राक् कृतमपि व्यामोहात् किञ्चिदारोप्य पुनर्न करोति। स इदानिं स्वभावहेतुना व्यवहार्यते। तस्मादेतयोः परमार्थत एकत्वेऽपि विकल्पबुद्धौ व्यावृत्तिसमाश्रयेण समुत्पन्नायां भेदेन प्रतिभासनात् साध्यसाधनत्वं न विरुध्यत इति॥

अनुपलब्धिहेतुनिरुपणम्

अनुपलब्धिर्यथा - नास्तीह प्रदेशे घटः , उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः। उपलब्धिलक्षणप्राप्तस्येति दृश्यस्येत्यर्थः।

नन्वसतः कथं दृश्यता ? एकेन्द्रियज्ञानग्राह्यो प्रदेशादावुपलभ्यमाने यदि घटः स्यात् दृश्य एव भवेदिति। उपलम्भप्रत्ययान्तरसाकल्यात् दृश्तया सम्भावितः , न तु दृश्य एव। तस्यानुपलब्धेरिति हेतुः। स चैकज्ञानसंसर्गिपदार्थादेकज्ञानसंसर्गिपदार्थोपलम्भाद्वा निश्चीयत इति तदुभयं कर्मकर्तृभावेन पर्युदासवृत्त्या अनुपलब्धिरुच्यते , न तु प्रसज्यवृत्त्या उपलब्धिनिवृत्तिमात्रम्। तद्धि स्वयमेव न किञ्चिदिति कथं साधनं स्यात्। नापि प्रतिषेध्यादन्यस्य ज्ञानमात्रम् , रुपोपलम्भादपि नारङ्गरसनिषेधप्रसङ्गात्। तस्मान्निषेध्यादन्यद्विशिष्टमेव वस्तुद्वयं प्रदेशः प्रदेशज्ञानं वाऽनुपलब्धिरिति स्थितम्।

अभावोऽसाध्यः

अत एवाभावो न साध्यते। तस्य घटविविक्तप्रदेशग्राहिणा प्रत्यक्षेणैव सिद्धत्वात्। अभावव्यवहारस्तु मृढं प्रति अनुलम्भेन साध्यते। तथा हि - कश्चिन्मूढो रजःप्रभृतिषु सांख्यप्रसिद्धेषु गुणेष्वनुपलम्भेन प्रवर्त्तिताभावब्यवहारोऽपि पुनः सर्वं सर्वत्रास्तीति स्वसिद्धान्ताभ्यासात् क्वाऽपि प्रदेशादौ घटानुपलम्भे सत्यपि नाभावव्यवहारं करोतीत्यनुपलम्भेन त्रिविधो व्यवहारः कार्यते। तत्र निः शङ्कगमनागमनलक्षणः कायिको व्यवहारः। घटो नास्तीति वाचिकः। ईदृश एव अन्तर्जल्पाकारो मानसिकश्चेति।

अनुपलब्धेर्तादात्म्यतदुत्पत्तिसम्बन्धनिरुपणम्

अनुपलम्भस्य कर्मधर्मपक्षे साध्येन सह [सादृश्ये] तादात्म्यलक्षण एव सम्बन्धो बोद्धव्यः। कर्तृधर्मपक्षे तु तदुत्पत्तिः। तथा हि - घटविविक्तप्रदेशः प्रदेशज्ञानं वाऽनुपलब्धिरित्युक्तम्। असद्व्यवहारयोग्यत्वं च तस्य स्वभावः [न कार्य ] ज्ञानं तु प्रदेशस्य कार्यमिति॥

अनुपलब्धेर्व्यपदेशः

ननु यद्यनुपलब्धेरपि तादात्म्यतदुत्पत्ती एव सम्बन्धौ , कथं तर्हि कार्यस्वभावाभ्यामनुपलब्धेर्भेदः ? प्रतिषेधसाधनात् भेदौ न वस्तुतः। यथोक्तमाचार्येण -

अत्र द्वौ वस्तुसाधनौ , एकः प्रतिषेधहेतुः इति।

उपलव्धिलक्षणप्राप्तत्वविशिष्टेन देशविपकृष्टे सुमेर्वादौ कालविप्रकृष्टे भविष्यच्छङ्खचक्रवर्त्यादौ स्वभावविप्रकृष्टे पिशाचादावनुपलम्भमात्रसम्भवेऽपि नाभावव्यवहार इत्युक्तं भवति।

अनुपलब्धेर्वर्तमानकाले अनागतकाले च प्रमाणम्

इयं चानुपलब्धिर्वर्तमानकाले प्रमाणं विशिष्टस्मरणसद्भावेऽतीतकाले च , अनागतकालेत्वनुपलब्धिः स्वयमेव सन्दिग्धरुपा। ततो न प्रमाणम्। [अनयाऽनुलब्ध्याऽभावव्यहारः साध्यते, न त्वभावः। तस्य प्रत्यक्षेणैव सिध्दत्वादित्युक्तं प्राक् ] यथाऽऽहन्यायवादी -



अमूढस्मृतिसंस्कारस्यातीतस्य वर्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य

निवृत्तिरनुपलब्धि रभावव्यवहारसाधनी इति।

अनुपलब्धिभेदाः

तत्र यदा दूरत्वान्निषेध्यस्यायोग्यदेशत्वं स्यात् , तदा दृश्यानुपलब्धिः साक्षात्प्रयोक्तुं न शक्यत इति कार्यानुपलब्ध्यादयः प्रयुज्यन्ते। अत एवेयं प्रयोगभेदेन षोडशधा भवति। (१) तत्र स्वभावानुपलब्धिर्यथा- नास्त्यत्र धूमः , उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः। प्रतिषेध्यस्य धूमस्य यः स्वभावः तस्येहानुपलब्धिः। (२) कार्यानुपलब्धिर्यथा- नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति , धूमाभावात्। प्रतिषेध्यानां हि धूमकारणानां कार्य धूमः , तस्येहानुपलब्धिः। (३) कारणानुपलव्धिर्यथा- नास्त्यत्र धूमः दहनाभावात्। प्रतिषेध्यस्य धूमस्य कारणं दहनः , तस्येहानुपलब्धिः। (४) व्यापकानुपलब्धिर्यथा - नात्र शिंशपा , वृक्षाभावात्। प्रतिषेध्यायाः शिंपायाः व्यापको वृक्षः , तास्येहानुपलब्धिः। (५) स्वभावविरुद्धोपलब्धिर्यथा- नात्र शीतस्पर्शः , वह्नेरिति। प्रतिषेध्यस्य् शीतस्पर्शस्य यः

स्वभावः तस्य विरुध्दो वह्निः तस्य चेहोपलब्धिः।(६) कार्यविरुद्धोपलव्दिर्यथा -नेहाप्रतिबध्दसामर्थ्यानि शीतकारणानि सन्ति , वह्नेरिति। अन्त्यदशाप्राप्तमेव कारणं कार्यं जनयति , न सर्वं कारणाम् , ततो विशेषणोपादानम्। प्रतिषेध्यानां शीतकारणानां कार्यं शीतं , तस्य विरुद्धो वह्निः , तस्येहोपलब्धिः। (७) कारणविरुद्धोपलब्धिर्यथा -नास्य रोमहर्षादिविशेषाः सन्ति , सन्निहितदहनविशेषत्वात्। प्रतिषेध्यानां रोमहर्षादिविशेषाणां कारणं शीत , तस्य विरुद्धो दहनविशेषः , तस्य चेहोपलब्धिः। (८) व्यापकविरुद्धोपलव्धिर्यथा - नात्र तुषारस्पर्शः , दहनात्। प्रतिषेध्यस्य तुषारस्पर्शस्य व्यापकं शीतं , तस्य विरुद्धो दहनविशेषः तस्येहोपलब्धिः। (९) स्वभावविरुद्धकार्योपलब्धिर्यथा, नात्र शीतस्पर्शः, धूमात्। प्रतिषेध्यस्य शीतस्पर्शस्य यः स्वभावस्तस्य विरुद्धोऽग्निः, तस्य कार्य धूमः , तस्य चेहोपलब्धिः। (१०) कार्यविरुद्धकार्योपलब्धिर्यथा-नेहाप्रतिबध्दसामर्थ्यानि शीतकारंणानि सन्ति धूमादिति। प्रतिषेध्यानां शीतकारणानां कार्यं शीतं , तस्य विरुद्धो वह्निः , तस्य कार्यं धूमः , तस्य चेहोपलब्धिः। (११) कारणविरुद्धकार्योपलब्धिर्यथा -न रोमहर्षादिविशेषयुक्त स्पर्शवानयं प्रदेशो धूमादिति। प्रतिषेध्यानां हि रोमहर्षादिस्पर्शविशेषाणां कारणं शीतम् , तस्य विरुद्धोऽग्निः , तस्य कार्यं धूमः, तस्य चेहोपलब्धिः। (१२) व्यापकविरुद्धकार्योपलब्धिर्यथा - नात्र तुषारस्पर्शः , धूमादिति। निषेध्यस्य तुषारस्पर्शस्य व्यापकं शीतम् , तस्य विरुद्धोऽग्निः , तस्य कार्यं धूमः , तस्य चेहोपलब्धिः।

(१३) स्वभावविरुद्धव्याप्तोपलब्धिर्यथा - नात्र वह्निः , तुषारस्पर्शात्। प्रतिषेध्यस्य हि वह्नेर्यः स्वभावस्तस्य विरुद्धं शीतम् , तेन व्याप्तस्तुषारस्पर्शः , तस्य चेहोपलब्धिः। (१४) कार्यविरुद्ध - व्याप्तोपलब्धिर्यथा - नेहाप्रतिबद्धसामर्थ्यानि वह्निकारणानि सन्ति , तुषारस्पर्शादिति। प्रतिषेध्यानां वह्निकारणानां कार्यं वह्निः , तस्य विरुद्धं शीतम् , तेन व्याप्तस्तुषारस्पर्शः , तस्य चेहोपलब्धिः। (१५) कारणविरुद्धव्याप्तोपलब्धिर्यथा - नात्र धूमस्तुषारस्पर्शादिति। प्रतिषेध्यस्य धूमस्य यत्कारणमग्निः , तस्य विरुद्धं शीतम् , तेन व्याप्तस्तुषारस्पर्शः , तस्य चेहोपलब्धिः।

(१६) व्यापकविरुद्ध -व्याप्तोपलब्धिर्यथा - नायं नित्यः , कदाचित्कार्यकारित्वात्। प्रतिषेध्यस्य नित्यत्वस्य निरतिशयत्वं व्यापकं, तस्य विरुद्धं सातिशयत्वं , तेन व्याप्तं कदाचित्कार्यकारित्वं , तस्य चेहोपलब्धिः।

एते च कार्यानुपलब्ध्यादयः पञ्चदश प्रयोगाः स्वभावानुपलब्धिस्वभावा एव प्रतिपत्तव्याः। प्रयुक्तिभेदेन परं भेदः। तत्र स्वभावानुपलम्भेनासद् व्यवहारयोग्यत्वं साध्यते, न त्वाभावः। तस्य च प्रत्यक्षेणैव सिद्धत्वात्। अपरैश्च सर्वैरभावोऽभावब्यवहारश्च साध्यते , तेषां परोक्षविषयत्वात्॥

इति तर्कभाषायां स्वार्थानुमानपरिच्छेदो द्वितीयः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project