Digital Sanskrit Buddhist Canon

अथ चतुर्थं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Athe caturthaṁ prakaraṇam

अथ चतुर्थं प्रकरणम्।



ननु भवता व्याख्यातो यथाधर्मसद्वादः। कः पुनः सम्बन्धः।



अत्रोच्यते। प्रश्नोत्तरसम्बन्धो विंशतिविधः। यदि कश्चित्तेन विंशतिविधेनार्थेन सम्यग्न्यायमारभते स सद्वादस्य ज्ञातेत्युच्यते। यदि नैवं तदा नायं विवादधर्मावगन्ता। एषां विंशतिविधानां सारो द्विविधः। वैधर्म्यं साधर्म्यञ्च। सजातीयत्वात्साधर्म्यं विजातीयत्वाद्वैधर्म्यम्। अर्थस्य हि तत्समाश्रयत्वात्ते विंशतिधर्मान् व्याप्नुवतः।



किं साधर्म्यम्। यथा क्लेशक्षयो निराभास एव, आकाशभावोऽपि निराभास इति साधर्म्यम्।



किं वैधर्म्यम्। यथा निर्वाणमकृतकत्वान्नित्यं तथा सर्वे संस्काराः कृतकत्वादनित्याः। इति वैधर्म्यम्।



ननु साधर्म्यवैधर्म्याभ्यां कथं दूषणम्।



अत्रोच्यते। साधर्म्यदूषणमिच्छता एवं वक्तव्यम्। रूपं चक्षुषा दृष्टं, शब्दस्तु श्रवणेन श्रुत इति, कथं तयोः साधर्म्यम्। यदि रूपाभ्दिन्नः शब्दस्तदा रूपस्यानित्यत्वाच्छब्दो नित्यो भवेत्।



वैधर्म्यदूषणम्। यथ रूपस्यैन्द्रियकत्वादनित्यता, आत्मनोऽनैन्द्रियकत्वान्नित्यता।



घटस्यात्मनश्च सभ्दावः। सभ्दावसाधर्म्ये घटस्यानित्यत्वादात्मनोऽपि तथात्वापत्तिः। घटसभ्दाव आत्मसभ्दावाभ्दिन्नस्ततश्चात्मा नित्यो घातस्त्वनित्य इति चेत्। नित्यतासाधर्म्यद[प्य]आत्मना नित्येन भवितव्यम्।



एवं दूषणं विंशतिविधं यथा १ उत्कर्ष[सम]म्, २ अपकर्ष[सम]म्, ३ भेदाभेद[सम]म्, ४ प्रश्नबाहुल्यमुत्तराल्पता, ५ प्रश्नाल्पतोत्तरबाहुल्यम्, ६ हेतुसमम्, ७ कार्यसमम्, ८ व्याप्तिसमम्, ९ अव्याप्तिसमम्, १० कालसमम्, ११ प्राप्तिसमम्, १२ अप्राप्तिसमम्, १३ विरुद्धम्, १४ अविरुद्धम्, १५ संशय[सम]म्, १६ असंशय[सम]म्, १७ प्रतिदृष्टान्त[सम]म्, १८ श्रुतिसमम्, १९ श्रुतिभिन्नम्, २० अनुपपत्ति[सम]ञ्चेति प्रश्नोत्तरधर्मा विंशतिधा।



१. उत्कर्ष [सम्]म्। यथा (कश्चिद्वदेद्), आत्मा नित्य इन्द्रियानुपलब्धेः। आकाशो ह्यनुपलब्धेर्नित्यः। सर्वमनुपलभ्यं नित्यमेव। आत्माप्यनुपलभ्यः कथं तदनित्यताप्राप्तिः।



अत्र दूषणम्। आकाशोऽचेतनत्वान्नित्यः। आत्मा तु चेतनः कथं नित्यः। आकाशश्चेतन इत्यन्याय्यम्। यद्यात्माऽचेतनस्तदैवाकाशेन सधर्मा। एवं विद्वांसः सोऽनित्य इति मन्यन्ते। एतदुत्कर्ष[सम]म्।



२. अपकर्ष[सम]म्। यथाकाशोऽचेतन आत्मा तु चेतनः। कथमाकाश आत्मनो दृष्टान्तः। एतदपकर्ष[सम]म्।



३. भेदाभेद[सम]म्। यथात्मनित्यतास्थापन आकाश उदाहरणम्। [अत्र दूषणं] आत्मा आकाशश्चाभिन्नौ इति चेदैकधर्म्यात् कथमाकाशस्यात्मनो दृष्टान्तता। भिन्नौ इति चेदन्यान्यसाधर्म्याप्राप्तिः। एतदुच्यते भेदाभेद[सम]म्।



४. अन्यच्च। आत्मा नित्योऽनैन्द्रियकत्वात्। यथाकाशोऽनिन्द्रियकत्वान्नित्य इति भवतः स्थापना।



अथ यदनैन्द्रियकं तन्नावश्यं नित्यम्। तत्कथं सिद्धम्। एतदुच्यते प्रश्नबाहुल्यमुत्तराल्पता च।



५. अन्यच्च। आत्मा नित्योनैन्द्रियकत्वादिति भवत्स्थापना। अनैन्द्रियकस्य द्वैविध्यम्। यथा परमाणवोऽनुपलभ्या अनित्याः। आकाशस्त्विन्द्रियानुपलभ्यो नित्यश्च। कथं भवतोच्यते यदनुपलभ्यत्वान्नित्य इत्युच्यते प्रश्नाल्पतोत्तरबाहुल्यञ्च।



६. अन्यच्च। अनुपलब्धिहेतुनात्मा नित्य इति भवता प्रतिज्ञातम्। आकाशश्चात्मा च भिन्नौः कथमुभयोरनुपलभ्यत्वं हेतुर्भवेत्। इति हेतुसमम्।



७. अन्यच्च। यत्पञ्चमहाभूतमयं तदनित्यम्। आकाश आत्मा च पञ्चमहाभूतमयौ कथं नित्यावुक्तौ। इति कार्यसमम्।



८. अन्यच्च। अनुपलभ्यत्वान्नित्य आकाश इति भवतः स्थापना। आकाशश्च सर्वव्यापी [ततश्च] किं सर्वाणि बस्तून्यनुपलभ्यानि। एतद्याप्तिसमम्।



९. अन्यच्च। परमाणुरव्याप्यनैन्द्रियकोऽप्यनित्यः। आत्मा त्वनैन्द्रियकः कथं नित्यः। इति अव्याप्तिसमम्।



१०. अन्यच्च। आत्मा नित्योऽनिन्द्रियकत्वादिति भवत्‍स्थापना। सोऽयं[हेतु]र्वर्तमानेऽतीते ऽनागते वा। अतीत इति चेदतीतत्वान्नष्टाः। अनागत इति चेदभावः। वर्तमान इति चेत्तदाऽहेतुः। यथा शृङ्गे युगपदेव जातत्वान्नान्योन्यहेतुके। इति कालसमम्।



११. अन्यच्च। आत्मा नित्योऽनैन्द्रियकत्वादिति भवत्‍स्थापना। अथ प्राप्याप्राप्य वा हेतुरिति। अप्राप्य चेदसिद्धो हेतुः। यथाग्निरप्राप्य दहनासमर्थः, असिश्चाप्राप्य छेदनासमर्थः। आत्मानमप्राप्य कथं हेतुर्भवेत्। इत्यप्राप्ति[समम्]।



१२. अन्यच्च। प्राप्य इति चेत्, प्राप्तेरहेतुत्वम्। इति प्राप्तिसमम्।



१३. अन्यच्च। सर्वमनित्यम्। न त्वात्मा सर्वं, ततो नित्य इति भवत्प्रतिज्ञा आत्मा च तभ्दावादनित्य इति वक्तव्यः, किञ्चिद्दग्धो हि कम्बलः प्रायेणादग्धत्वाददग्ध इत्युच्यते। एतद्विरुद्धम्।



१४. अन्यच्च। आत्माऽनैन्द्रियकत्वादाकाशतुल्य इति भवत्‍स्थापना। आकाशस्यानुपलब्धिरात्मनोऽपि तथात्वम्।



आत्मन उपलब्धिरिति चेत्तदाकाशोऽपि सुखदूःखदिकमुपलभेत। आत्मन आकाशस्य चाभिन्नत्वात्। एतदविरुद्धम्।



१५. अन्यच्च। आत्मनः सभ्दाववन्नित्यताऽनियता। लौकिकानां संशयसम्भवो नित्यो ऽनित्यो वेति। एतत् संशयसमम्।



१६. अन्यच्च। अस्त्यात्माऽनैन्द्रियकत्वादिति भवद्वचनम् अथ विमर्शः केनावरणेनानुपलब्धिः। कारणमत्र वक्तव्यम्। यदि कारणं न विद्यत आत्मार्थस्य हानिः। इत्यसंशयसमम्।



१७. अन्यच्च। आत्मानैन्द्रियकत्र्वान्नित्य इति भवता प्रतिज्ञातम्। अथ मूलकिलोदकान्यनैन्द्रियकान्यप्यनित्यान्यात्मा तु कथं नित्यः। इति प्रतिदृष्टान्त[सम]म्।



१८. अन्यच्च। सूत्रेषु आत्मनोऽनुपलब्धिरुक्ता तस्मात्तस्य नित्यता ज्ञातेति भवतः [स्थापना]। (परन्तु) नास्त्यात्मा नास्त्यात्मीयमित्यपि सूत्रेषूक्तम्। निर्ग्रन्थधर्मे चात्मानित्यतोक्ता। आत्मनित्यत्वे नियते सति सूत्राणां वैषम्यानुपपत्तिः। इति श्रुतिसमम्।



१९. अन्यच्च। यदि भवता एकमेव सूत्रमधिगच्छतात्मा नित्य इति मन्यते। अथान्येषामपि सूत्राणां प्रतीतेरात्मानित्यो मन्तव्यः। उभयथा प्रतीतिरिति चेदेकस्यैवात्मनो नित्यत्वानित्यत्वप्रसङ्गः। इति श्रुतिभिन्नम्।



२०. अन्यच्च। यदि सभ्दावादिति हेतुनात्मास्तीति। अथ शालस्य सभ्दावात्ताल उत्पद्यते। यद्यभावान्नास्तीति तदा तालबीजेषु वृक्षाकाराभावात्तदुत्पत्त्यप्राप्तिः। सभ्दावेऽनुत्पत्तिः। अभावेऽप्यनुत्पत्तिः। आत्मनोऽपि तथात्वम्।



यदि किंचित्सदेव न तदानैन्द्रियकत्वं हेतुत्वेन प्रयोक्तव्यम्। यदि च सदेव तदा नानैन्द्रियकत्वेन तस्य सत्ता साध्या। इत्यनुत्पत्तिसमम्।



यदि पुनः कश्चिच्छब्दनित्यतां स्थापयेत्, तदैवम्विधैरुक्तपूर्वैर्विशतिंधर्मैस्तद्वदेव दूषयेत्।



नन्वात्मसभ्दावादेव भवानात्मानं दूषयति। आत्मनोऽभावे किं भवता दूषणीयम्। दूषणाद्ध्यस्ति दूषयितव्यम्।



अत्र दूषणम्। युक्तितो नास्यात्मा। भवता तु तत्सभ्दावस्य विकल्पान्मया भवतो दूषणं कृतम्। यभ्दवतोक्तं दूषयितव्यभवादस्त्यात्मेति। ततो दूषणान्नास्त्यात्मेति ज्ञातम्। भवत आत्मपरिग्रह आत्माभावद्योतनर्थमिति चेत्तदयुक्तम्। भवदर्थाप्रयोगात्। इदानीन्तु स्वयं भवता मम सिद्धान्तः प्रयुक्तः।



ननु कथं भवता ज्ञातं यन्मया भवदर्थः परिगृहीतः। अत्र कारणं वक्तव्यमिति चेन्मया खलु पूर्वमुक्तं यत्स्वार्थमपरिगृण्हता भवता परस्थापना परिगृहीता कथमिदानीं पुनरिदं पृच्छ्यते। कथं ज्ञातं यभ्दवतोऽर्थो मय परिगृहीत इति। यतो भवद्वचनं विरुद्धं तस्मान्निग्रहस्थानापत्तिः।



अन्यच्च। अनैन्द्रियकत्वात्सन्नेवात्मेति भवता पूर्वं प्रतिज्ञातं पश्चात्तु धर्मबाहुल्येन साधितम्। स्थापितहेतोरनियतत्वात्प्रतिज्ञाविरोधाच्च निग्रहस्थानम्। तस्माभ्दवदर्थनाहौ यदि पुनरहं किंचिब्द्रवीमि, [यन्मया] पूर्वमुक्तं तस्मादेतन्न भिद्यते। तदा वचनस्य बहुदोषप्रसङ्गः। पक्षप्रतिपक्षयोः प्रतिपक्षमर्यादा पञ्चमे। तदतिक्रम्योक्तं वचनं दोषः। यदि विद्वान् गम्भीरं न्यायं भावयत्युक्तेन दृष्टान्तेनार्थावगमसमर्थश्च स्यात्तदा तस्य वाद एवंविधं धर्मं नातिक्रामति।



वादी प्राह। एवमुक्तो वदधर्माणां सारः। एष वादसारः सर्ववादानां मूलम्। एतस्माद्वादात्पक्षप्रतिपक्षयोः परमोत्कर्षज्ञानं जायते। यथा बीजे सुक्षेत्र उप्ते मूलाङ्कुराः समृद्धाः। कुक्षेत्रे तूप्ते फलभाव एव। एतस्य धर्मस्यापि तथात्वम्।



यदि विद्वान् कश्चित् प्रमाणविचारकुशलस्तदा वादानुत्पादयति। मूर्खस्त्वल्पबुद्धिरेतद्वादाभ्यासेनापि तदवगमासमर्थस्तत्त्वतो विद्वान् नोच्यते। तस्माद्ये ये सञ्ज्ञानोत्पत्तिं सुभाशुभविवेकञ्चेच्छन्ति तैस्तैरेव सद्धर्मवाद आश्रयितव्यः।



॥इति चतुर्थं प्रकरणम्॥



समाप्तश्चायं ग्रन्थः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project