Digital Sanskrit Buddhist Canon

अथ तृतीयं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha tṛtīyaṁ prakaraṇam

अथ तृतीयं प्रकरणम्।



वादी प्राह। यदि कश्चिद्वदेदस्ति सत्त्वो यावत्सन्ति प्राणा अस्ति जीव इत्यादि। कथं ज्ञातम्। ऐन्द्रियकत्वात्। यथा निरुपधिशेषनिर्वाणस्येन्द्रियैरनुपलब्धेरभावः सत्त्वानान्तु न तथा। तस्मात्सन्त्येव इति ज्ञातम्।



अत्मा नित्यः। यथार्हत्त्वफलं कस्मिंश्चिदेव काले विद्यमानमपि पूर्वं पश्चाच्चाविद्यमानत्वादभाव इति ज्ञायते। यथा च द्वीतीयो मूर्धा तृतीयो हस्तश्च। अभूत्वा भावात् प्रागभावः। भूत्वा तु विनाशात्प्रध्वंसाभाव इति ज्ञायते। आत्मा तु न तथा तस्मान्नित्यः।



अत्र दूषणम्। यथा मूल[कील]ओदकान्यदृश्यत्वान्न सदित्युक्तम्। अर्हत्त्व-[फलस्यापि] तथात्वमेव न त्वभावः। एतत्तु न भवता साक्षात्क्रियते।



ननु मैवम्। उदकस्य पृथिव्यावरणाददृश्यत्वम्। अर्हत्त्व-[फलस्य तु] केनावरणेनादृश्यत्वम्। तस्मात्तदसदिति ज्ञायते।



अत्र दूषणम्। यभ्दवतोक्तं [यथा] द्वितीयस्य मूर्ध्नस्तृतीयस्य हस्तस्य चादृश्यत्वाद-[भावः] अर्हत्त्व-[फलस्याप्य]भावः इति स्पष्टम्। तदयुक्तम्। द्वितीयस्य मूर्ध्नो नास्तित्वेऽपि तर्हि न प्रथमस्य नास्तित्वम्। अर्हत्त्व-[फलं] तु नास्त्येवेति तस्यैवात्यन्ताभावः। कथं दृष्टान्ततोपपत्तिः। यच्च भवतोक्तमनुपलब्धेर्निर्वाणाभावः सिद्ध इति तदप्ययुक्तम्। किं नाम (महा) शागरोदकस्य बिन्दुपरिमाणस्याशक्यज्ञानत्वात्तदसदिति वक्तुं शक्यते। यद्यपि बिन्दुपरिमाणं न ज्ञायते तथाप्यस्त्येव सागरः। निर्वाणस्यापि तथात्वम्। अनुपलब्धावपि तत्तत्त्वतः सदेव। असदिति चेद्वक्तव्यम् तस्य कारणम्। यदि न शक्यते वक्तं तदा भवत एवार्थहानिः। अयमुच्यते यथाधर्मवादः।



अन्यच्च यद्यनुपलब्धेर्निर्वाणस्यासत्त्वं, तदा परस्य संशयः। यथा रात्रौ तरुं दृष्ट्वा चित्ते संशयः। एष स्थाणुर्वा मनुष्यो वेति। न खलू तरुः स्थाणोः पुरुषस्य वो[पलब्धौ] नियतो हेतुः। अनुपलब्धिरेव निर्वाणस्याभावे नियतो हेतुरिति चेन्नात्र संशयसम्भवः।



अन्यच्च कर्मविपाकाविनाशात्, सदेव निर्वाणम्। कुत इति चेत्। यथा दवेन गिरेस्तरुदाहे ऽग्निस्तद्विनाशहेतुः। कः पुनस्तस्य कर्मविपाकस्य विनाशहेतुर्येन तद्विनश्यते। निर्वाणलाभे तदा प्रहानिः।



अत्रोच्यते। अस्ति तत्त्वतो विनाशहेतुः। आवरणात्त्वनुपलब्धः।



अत्र दूषणम्। निर्वाणमपि सदावरणात्त्वनुपलब्धम्।

किञ्च यदि विपाकस्य विनाशहेतुर्वर्तत इति चेन्नोच्यते। तदा भवतोऽर्थहानिः। यद्यभावाद्विनाशहेतुरनुक्तस्तदावरणाभावोऽपि कथमुक्तः। एवं कारणैर्कर्माणामविनाशो ज्ञायते।



एष यथाधर्मवाद इत्युच्यते।



पूर्वपक्षी वदति। यदि सागरोदकसभ्दावान्निर्वाणसभ्दावः सिद्धस्तदा किं द्वितीयस्यापि मूर्ध्नः सभ्दावो न सिध्यति। द्वितीयस्यापि मूर्ध्नः सभ्दावो न सिद्ध इति चेत् कथं निर्वाणस्य सभ्दावः। तस्माभ्दवतोक्तः सागरोदकदृष्टान्तः निर्वाणसभ्दावं साधयितुं न समर्थः। किं द्वितीयस्य मूर्ध्नः सभ्दावं साधयेत्।



अत्र दूषणम्। किं निर्वाणमसदिति भवदभिप्रेतम्। असतः सत्ता वाऽसतोऽसत्ता वा। असतोऽसत्तेति चेत् कथं निर्वाणमसदिति प्रतिज्ञायते। यदि त्वसतः सत्ता कथं भवताऽसत्तोच्यते।



यद्यसतो निर्वाणस्य सत्ता तदा स्वतोऽसतोऽसत्त्वमपि सदिति चेत्, कथं न निर्वाणसभ्दावलाब इत्यत्र हेतुर्वक्तव्यः। यदि वक्तुं न शक्यते, तदा निश्चितमेव निर्वाणं सदिति ज्ञेयम्। एतदपि यथाधर्मवाद इत्युच्यते।



नन्वात्मा नित्योऽनित्यो वा। अत्मा ऽकृतकत्वान्नित्यः, घटादिष्टु कृतकत्वादनित्यः।



अत्र दूषणम्। अकृतकत्वादात्मा नित्य इति चेत्तदयुक्तम्। कस्मात्। पुरुषाणां संशयजनकत्वात्। यद्यकृतकत्वान्नित्य एवात्मेति तदा नित्योऽनित्य वेति संशयस्यासम्भवः। संशयजनकत्वाद्दोषः।



वादी। इयं दोषापत्तिर्न ममैवापि तु सर्वेषामेव वादिनां यथा शब्दो नित्यो ऽमूर्तत्वात्। अतीतः कायोऽस्त्येव पूर्वनिवासानुस्मरणादित्यादिप्रतिज्ञा पूर्ववत्संशयमुत्पादयतीति। तस्मत्सर्वत्रैव दोषापत्तिः।



अत्र दूषणम्। दृष्टान्त एव संशयं निर्धारयति। भवतां तूदाहृतो दृष्टान्तो मम संशयमुत्पादयति तस्मादसियोऽयं दृष्टान्तः। दृष्टान्तेऽसिद्धेऽर्थहानिः। तदेव निग्रहस्थानम्।



यत्पुनर्भवतोक्तं सर्वेषामेव दोषापत्तिर्न तु ममैवेत्येष स्वदोष एव न तु परदोषः। कुत इति चेत्। यथा कश्चिदभियुक्त आत्मानमप्रकाश्य सर्व एव तस्करा इति वदेत्तदासौ पुरुष आत्मानमपि तस्करं मन्यत इति ज्ञेयम्। भवानपि तथा तस्मान्निग्राह्यः।



इदानीं यदि भवानात्मानं प्रकाशयितुमिःच्छु पूर्वयुक्तिमतिक्रम्य पुनर्वक्तुमिच्छेन्नूनं बहुदोषापत्तिः स्यात्। भवतः प्रथमः पक्षो द्वितीयेन [पक्षेण] दूषितः। तृतीयश्चार्थो मया दूषितः। पञ्चमेन दोषावधिमिच्छन् पूर्वं नातिक्रामेदतः भवतोऽन्त्यः पक्षः पुनरुक्तं भवेत्। पुनरुक्तं च निग्रहस्थानम्।



नन्वनुयोज्यः षष्ठोऽपि ?



अत्रोच्यते। सिद्वस्तावत्पञ्चमस्य दोषः। तत्कथं षष्ठोऽनुयोज्यः। अस्मिन् हि प्रत्युक्ते पूर्वदोषतुल्यता। अनुयोक्तुः सदोषत्वे प्रतिपक्षेण तूष्णीम्भविंतव्यम्।



अपरञ्च। षष्ठस्य दोषः पञ्चमेनापर्यनुयोज्यः। कुत इति चेत्। पञ्चमेनैव ह्येष षष्ठोऽनुयुक्तः। अतोऽयं स्वयमे सदोषः कथं तं दूषयेत्। एवं सद्धर्मवादः।



॥ इति तृतीयं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project