Digital Sanskrit Buddhist Canon

अथ द्वितीयं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha dvitīyaṁ prakaraṇam

अथ द्वितीयं प्रकरणम्।



पूर्वमष्टविधा वादधर्मा उक्ताः। अथ निग्रह[स्थान]धर्मान् वक्ष्यामः।



ननु कतमे वादधर्माः। (अत्रोच्यते) यथा चत्वारि महाभूतानि प्रज्ञप्तिरेव। कस्मात्। रूपादिधर्मत्वादेव। अपरः पुनराह। चत्वारि महाभूतानि तत्त्वतः सन्ति। कथमेतज्ज्ञातम्। काठिन्यं पृथिवीधर्मो यावच्चलत्वं वायुधर्मः। तत्सदिति ज्ञेयम्। एतच्च प्रतिविरुद्धम्। तस्माद्विवादः। यथा वा। पृथिवी शरीरकारणमेव। अपराणि महाभूतान्यपि तथा। अत्र दूषणम्। पृथिव्यादि सर्ववस्तुसाधनसमर्थं सत्, कथं शरीरमात्रं साधयेदिति नात्र विवादः। यद्येवं न स्यात्तदा वाद इत्युच्यते।



ननु कानि निग्रहस्थानानि। (अत्रोच्यते) यथा शब्दो नित्योऽमूर्तत्वादाकाशवत्।



अत्र दूषणम्। यद्यपि शब्दोऽमूर्तः। तथाप्यैन्द्रियकः, संप्रतिघः, घटवत्कृतकः। अपि त्वाकाशे ऽकृतके कथं तदृष्टान्तलाभः। एतन्निग्रहस्थानमित्युच्यते।



अथ घटो मूर्त इत्यनित्यः शब्दस्य त्वमूर्तत्वात् कथं तदृष्टान्तलाभः।



अत्र दूषणम्। शब्दो घटभिन्नोऽप्यैन्द्रियकः श्रावणत्वात्। तस्मादनित्यः।



ननु कस्यार्थस्यानिग्रहस्थानत्वापत्तिः। संस्कारा विज्ञानञ्च कृतकत्वादनित्यम्। निर्वाणमकृतकत्वान्नित्यम्। एतद्वाक्यं सम्यक्‍पदरसम्। एतदुच्यते ऽनिग्रहस्थानम्।



ननु किं वचनं दूषयितव्यम्। चुय्ते। वाक्यवैपरीत्यं, असद्धेतुस्थापनं, उदाहरणवैषम्यञ्चैतद्दूषयितव्यम्।



यथ संज्ञा संयोजनोच्छेदिका, इत्युक्ते कश्चित् पृच्छेत्। कथं संज्ञा सम्योजनोच्छेदिका। ज्ञानस्य संज्ञात उत्पादं पूर्वमनुत्का संज्ञामात्रकथनाद्वाक्यवैपरीत्यमितीदं दूषणीयम्।



ननु कथं पुनरेतद्वाक्यमुच्यते। असिद्वस्थापनान्निग्रहस्थानापत्तिज्ञापनार्थमुक्तम्।



अपरञ्च। अनुयोज्याननुयोगः। प्रतिवक्तव्ये ऽप्रतिवक्तव्यत। त्रिरभिहितस्य परैरविज्ञातम्। त्रिरभिहितस्य स्वयमविज्ञानम्। एतानि निग्रहस्थानानि।



अन्यच्च। परेण विवदमानस्तद्विकलतां नावगच्छति। अन्यस्तु वदति। एषोऽर्थः मिथ्यैव, किं भवान्नोपलभते तदा निग्रहस्थानम्।



अन्यच्च। परस्य सम्यगर्थे दोषसमारोपेऽपि निग्रहस्थानम्।



अन्यच्च। वादिनोक्तं सर्वैर्विज्ञातमप्यसावेव (प्रतिवादी) नावगच्छति चेत्तदपि निग्रहस्थानम्। प्रश्नोऽपि तद्वत्। एतानि निग्रहस्थानानि वादस्य महाकण्टकानि गम्भीरदुःखानि ज्ञेयानि, द्रुतञ्च हेयानि।



ननु प्रश्नाः कतिविधाः। उच्यते। त्रिविधाः। यथा वचनसमः, अर्थसमः, हेतुसमश्च। यदि वादिनस्तैस्त्रिभिः प्रश्नोत्तराणि न कुर्वन्ति तद्विभ्रान्तम्। यद्येतेषां त्रयाणामुत्तराणामन्यतमं न्यूनं स्यात्तदसम्पन्नम्।



यदि वदेदहमेवम्प्रकारान् त्रीन् प्रश्नान्नावगच्छामि मम यथाज्ञानमन्योन्यं प्रष्टव्यं, तदाऽदोषः।



वाक्यसमः यथा। आत्मा नास्तीत्युक्ते तद्वाक्याश्रयेण प्रश्नः। अयं वाक्यसम इत्युच्यते।



अर्थसमः तन्मतोपादानमेवायमर्थसम इत्युच्यते।

हेतुसमः। परमनोगतेरुत्पादकस्य हेतोर्ज्ञामयं हेतुसम इत्युच्यते।



एवं सामर्थ्ये सत्ये निग्रहस्थानमित्युच्यते।



यद्यतिद्रुतं वदेच्छ्रोतारश्च नावगच्छेयुस्तदपि निग्रहस्थानम्।



अथैतावमात्रमपराणि वा सन्ति। अत्रोच्यते। सन्त्येव यथा न्यूनं, अधिकम् निरर्थकं, अप्राप्तकालं, पुनरुक्तं प्रतिज्ञासन्न्यास इत्यादीनि निग्रहस्थानानीत्युच्यन्ते।



यद्येवमादि पूर्वपक्षी वदेत्, तदा निग्रहस्थानापत्तिः।

अथ प्रतिज्ञाविरोधः। यथा विज्ञानं नित्यम्। कस्मात्। विज्ञानस्य हि द्वैविध्यम्। विज्ञानोत्पात्तिर्विज्ञाक्रिया च।



घटस्यापि द्वैविध्यम्, घटोत्पत्तिर्घटक्रिया च। एवं विज्ञानमुत्पाद्यमानमेव सक्रियं तस्मान्नित्यम्। घटस्य तूत्पत्त्यनन्तरं सक्रियत्वम्, तस्मादनित्यत्वम्।



अत्र दूषणम्। उत्पत्तावेव सक्रियत्वान्नित्यमिति चेद्दीपस्याप्युत्पत्तावेव सक्रियत्वान्नित्यत्वप्रसङ्गः। अथ दीपश्चक्षुषा दृष्टः स्यात्, शब्दश्च श्रवणेन श्रूयत इति कथं दृष्टान्तोपपत्तिः। एतत्प्रतिज्ञासन्न्यासनिग्रहस्थानम्।



अपरञ्च। केचिद्वदन्त्यात्मा नित्य इति। कथं ज्ञातम्। अनैन्द्रियकत्वात्। यथा आकाशोऽनैन्द्रियकत्वान्नित्यः।



अत्र दूषणम्। परमाणवोऽनिन्द्रियका अपि त्वनित्याः।

अत्रोच्यते। आत्माऽकृतकत्वान्नित्यः परमाणवस्तु कृतकत्वादनित्याः।



अत्र दूषणम्। अनुपलब्धेरिति भवता पूर्वमुक्तम्। अधुना चाकृतकत्वादिब्युच्यते। अयं प्रतिज्ञाविरोधः।



ननूच्यते ऽहं विरोधीति चेभ्दवांस्तु मम वचनं प्रतिकूलयन् कथम् विरोधौ न स्यात्।



किञ्च कथमेतद्युक्तिसहम्। यद्वि विरुद्धमित्युच्यते मया, सा भवत एव वचनस्य पूर्वोक्तेनार्थन् प्रतिकूलता। तस्माद्विरुद्धमित्युक्तम्।



अन्यच्च। भवता पूर्वमुक्तमस्पष्टत्वान्मे संशय उत्पन्न इति। नाहं भवद्विरोधीत्येवं संशयेन विरोधः। एतदपि निग्रहस्थानमिति।



॥इति द्वितीयं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project